साहाय्यम्

अद्वैतशारदानामकस्य अस्य अन्तर्जालपुटकस्य आविष्करणसन्दर्भे प्रस्थानत्रयभाष्यमात्रं उपलभ्यमानमासीत् । संप्रति अद्वैतशारदायाः भाष्यव्याख्याप्रकरणादिवाङ्मयसंवर्धितायाः द्वितीया परिष्कृता आवृत्तिः विदुषां पुरस्तात् समर्प्यते । अस्य अंतर्जालपुटकस्य उपयोगसौलभ्यार्थं अनुसरणीयाः अंशाः निरूप्यन्ते-

  • मुखपुटे उपरि 'मुख्यपृष्ठं', 'ग्रन्थाः', 'अन्वेषणम्' इति विभागत्रयं दृश्यते । तत्र 'मुख्यपृष्ठं' इति विभागः अद्वैतशारदायाः उद्देशः, ग्रन्थसङ्ग्रहः, कृतज्ञतानिवेदनम् इत्यादीन् विषयान् प्रदर्शयति ।
  • मुखपुटे 'ग्रन्थाः' इति विभागे सम्प्रति योजितानां , अग्रे योक्ष्यमाणानां च ग्रन्थानां द्राग्दर्शनं (Quick view) उपलभ्यते ।
  • 'अन्वेषणम्' इति विभागे वाक्यानां टङ्कनेन अपेक्षितग्रन्थेषु ते़षां सन्दर्भम् अन्वेषितुं शक्नुमः ।
  • अत्र संयोजितानां सर्वेषां ग्रन्थानां अध्याय-अधिकरणादयो विभाग-प्रविभागाः पृष्ठस्य दक्षिणपार्श्वे परिदृश्यन्ते । तद्द्वारा अपेक्षितग्रन्थभागाः द्रष्टुं शक्याः । ते च विभागाः एकस्मिन् ग्रन्थे नैकविधाः अपि भवितुमर्हन्ति, यथा - सूत्रभाष्ये अध्यायक्रमः,अधिकरणक्रमः, सूत्रक्रमः इत्यादिः ।
  • ग्रन्थभागे उदाहृतानि ग्रन्थान्तरवाक्यानि 'उल्लेखः' इति विभागे संगृहीतानि । तत्र उपलभ्यमानवाक्यद्वारा ग्रन्थे तेषां ससंदर्भम् उपयोगं द्रष्टुं शक्नुमः ।
  • ग्रन्थे उदाहृतानि वर्णान्तरे परिदृश्यमानानि सूत्र-श्रुतिवाक्यादीनि स्वमूलग्रन्थं स्वद्द्वारा प्रापयितुमर्हन्ति ।
  • स्वमूलग्रन्थानुरोधेन विरचिताः भाष्यवार्तिकादयः ग्रन्थभागाः उत्सर्गतः संकुचिताः, अपेक्षानुरोधेन (निर्दिष्टचिह्नद्वारा) विकसनशीलाश्च भवन्ति ।
  • ग्रन्थस्य व्याख्याभागं मूलानुसारेण मूलस्य अधस्तात् अथवा पार्श्वे द्रष्टुं व्यवस्थाविकल्पः कल्पितः ।
  • ग्रन्थस्य शीर्षिकायाः पृष्ठभूमिकायां विद्यमानेन वर्णेन भाष्यव्याख्यादिरूपेण ग्रन्थविभागः सुलभतया ज्ञातुं शक्यः । उदाहरणं प्रस्थानत्रयभाष्यस्य पृष्ठभूमिका रक्तवर्णेन रञ्जिता, तद्व्याख्यासु नीलवर्णेन ।

विद्वांसः इमान् अंशान् मनसि निधाय सौकर्यातिशयं प्राप्नुवन्तु इति आशास्महे ।