श्रीमच्छङ्करभगवत्पूज्यपादविरचितम्

बृहदारण्यकोपनिषद्भाष्यम्

करतलकलिताद्वयात्मतत्त्वं क्षपितदुरन्तचिरन्तनप्रमोहम् ।
उपचितमुदितोदितैर्गुणौघैः उपनिषदामयमुज्जहार भाष्यम् ।।

‘जनको ह वैदेहः’ इत्यादि याज्ञवल्कीयं काण्डमारभ्यते ; उपपत्तिप्रधानत्वात् अतिक्रान्तेन मधुकाण्डेन समानार्थत्वेऽपि सति न पुनरुक्तता ; मधुकाण्डं हि आगमप्रधानम् ; आगमोपपत्ती हि आत्मैकत्वप्रकाशनाय प्रवृत्ते शक्नुतः करतलगतबिल्वमिव दर्शयितुम् ; ‘श्रोतव्यो मन्तव्यः’ (बृ. उ. २ । ४ । ५) इति ह्युक्तम् ; तस्मादागमार्थस्यैव परीक्षापूर्वकं निर्धारणाय याज्ञवल्कीयं काण्डमुपपत्तिप्रधानमारभ्यते । आख्यायिका तु विज्ञानस्तुत्यर्था उपायविधिपरा वा ; प्रसिद्धो ह्युपायो विद्वद्भिः शास्त्रेषु च दृष्टः — दानम् ; दानेन ह्युपनमन्ते प्राणिनः ; प्रभूतं हिरण्यं गोसहस्रदानं च इहोपलभ्यते ; तस्मात् अन्यपरेणापि शास्त्रेण विद्याप्राप्त्युपायदानप्रदर्शनार्था आख्यायिका आरब्धा । अपि च तद्विद्यसंयोगः तैश्च सह वादकरणं विद्याप्राप्त्युपायो न्यायविद्यायां दृष्टः ; तच्च अस्मिन्नध्याये प्राबल्येन प्रदर्श्यते ; प्रत्यक्षा च विद्वत्संयोगे प्रज्ञावृद्धिः । तस्मात् विद्याप्राप्त्युपायप्रदर्शनार्थैव आख्यायिका ॥
ओं जनको ह वैदेहो बहुदक्षिणेन यज्ञेनेजे तत्र ह कुरुपञ्चालानां ब्राह्मणा अभिसमेता बभूवुस्तस्य ह जनकस्य वैदेहस्य विजिज्ञासा बभूव कःस्विदेषां ब्राह्मणानामनूचानतम इति स ह गवां सहस्रमवरुरोध दश दश पादा एकैकस्याः शृङ्गयोराबद्धा बभूवुः ॥ १ ॥
जनको नाम ह किल सम्राट् राजा बभूव विदेहानाम् ; तत्र भवो वैदेहः ; स च बहुदक्षिणेन यज्ञेन — शाखान्तरप्रसिद्धो वा बहुदक्षिणो नाम यज्ञः, अश्वमेधो वा दक्षिणाबाहुल्यात् बहुदक्षिण इहोच्यते — तेनेजे अयजत् । तत्र तस्मिन्यज्ञे निमन्त्रिता दर्शनकामा वा कुरूणां देशानां पञ्चालानां च ब्राह्मणाः — तेषु हि विदुषां बाहुल्यं प्रसिद्धम् — अभिसमेताः अभिसङ्गता बभूवुः । तत्र महान्तं विद्वत्समुदायं दृष्ट्वा तस्य ह किल जनकस्य वैदेहस्य यजमानस्य, को नु खल्वत्र ब्रह्मिष्ठ इति विशेषेण ज्ञातुमिच्छा विजिज्ञासा, बभूव ; कथम् ? कःस्वित् को नु खलु एषां ब्राह्मणानाम् अनूचानतमः — सर्व इमेऽनूचानाः, कः स्विदेषामतिशयेनानूचान इति । स ह अनूचानतमविषयोत्पन्नजिज्ञासः सन् तद्विज्ञानोपायार्थं गवां सहस्रं प्रथमवयसाम् अवरुरोध गोष्ठेऽवरोधं कारयामास ; किंविशिष्टास्ता गावोऽवरुद्धा इत्युच्यते — पलचतुर्थभागः पादः सुवर्णस्य, दश दश पादा एकैकस्या गोः शृङ्गयोः आबद्धा बभूवुः, पञ्च पञ्च पादा एकैकस्मिन् शृङ्गे ॥
तान्होवाच ब्राह्मणा भगवन्तो यो वो ब्रह्मिष्ठः स एता गा उदजतामिति । ते ह ब्राह्मणा न दधृषुरथ ह याज्ञवल्क्यः स्वमेव ब्रह्मचारिणमुवाचैताः सोम्योदज सामश्रवा३ इति ता होदाचकार ते ह ब्राह्मणाश्चुक्रुधुः कथं नो ब्रह्मिष्ठो ब्रुवीतेत्यथ ह जनकस्य वैदेहस्य होताश्वलो बभूव स हैनं पप्रच्छ त्वं नु खलु नो याज्ञवल्क्य ब्रह्मिष्ठोऽसी३ इति स होवाच नामो वयं ब्रह्मिष्ठाय कुर्मो गोकामा एव वयं स्म इति तं ह तत एव प्रष्टुं दध्रे होताश्वलः ॥ २ ॥
गा एवमवरुध्य ब्राह्मणांस्तान्होवाच, हे ब्राह्मणा भगवन्तः इत्यामन्त्र्य — यः वः युष्माकं ब्रह्मिष्ठः — सर्वे यूयं ब्रह्माणः, अतिशयेन युष्माकं ब्रह्मा यः — सः एता गा उदजताम् उत्कालयतु स्वगृहं प्रति । ते ह ब्राह्मणा न दधृषुः — ते ह किल एवमुक्ता ब्राह्मणाः ब्रह्मिष्ठतामात्मनः प्रतिज्ञातुं न दधृषुः न प्रगल्भाः संवृत्ताः । अप्रगल्भभूतेषु ब्राह्मणेषु अथ ह याज्ञवल्क्यः स्वम् आत्मीयमेव ब्रह्मचारिणम् अन्तेवासिनम् उवाच — एताः गाः हे सोम्य उदज उद्गमय अस्मद्गृहान्प्रति, हे सामश्रवः — सामविधिं हि शृणोति, अतः अर्थाच्चतुर्वेदो याज्ञवल्क्यः । ताः गाः ह उदाचकार उत्कालितवानाचार्यगृहं प्रति । याज्ञवल्क्येन ब्रह्मिष्ठपणस्वीकरणेन आत्मनो ब्रह्मिष्ठता प्रतिज्ञातेति ते ह चुक्रुधुः क्रुद्धवन्तो ब्राह्मणाः । तेषां क्रोधाभिप्रायमाचष्टे — कथं नः अस्माकम् एकैकप्रधानानां ब्रह्मिष्ठोऽस्मीति ब्रुवीतेति । अथ ह एवं क्रुद्धेषु ब्राह्मणेषु जनकस्य यजमानस्य होता ऋत्विक् अश्वलो नाम बभूव आसीत् । स एवं याज्ञवल्क्यम् — ब्रह्मिष्ठाभिमानी राजाश्रयत्वाच्च धृष्टः — याज्ञवल्क्यं पप्रच्छ पृष्टवान् ; कथम् ? त्वं नु खलु नो याज्ञवल्क्य ब्रह्मिष्ठोऽसी३ इति — प्लुतिः भर्त्सनार्था । स होवाच याज्ञवल्कयः — नमस्कुर्मो वयं ब्रह्मिष्ठाय, इदानीं गोकामाः स्मो वयमिति । तं ब्रह्मिष्ठप्रतिज्ञं सन्तं तत एव ब्रह्मिष्ठपणस्वीकरणात् प्रष्टुं दध्रे धृतवान्मनो होता अश्वलः ॥
याज्ञवल्क्येति होवाच यदिदं सर्वं मृत्युनाप्तं सर्वं मृत्युनाभिपन्नं केन यजमानो मृत्योराप्तिमतिमुच्यत इति होत्रर्त्विजाग्निना वाचा वाग्वै यज्ञस्य होता तद्येयं वाक्सोऽयमग्निः स होता स मुक्तिः सातिमुक्तिः ॥ ३ ॥
याज्ञवल्क्येति होवाच । तत्र मधुकाण्डे पाङ्क्तेन कर्मणा दर्शनसमुच्चितेन यजमानस्य मृत्योरत्ययो व्याख्यातः उद्गीथप्रकरणे सङ्क्षेपतः ; तस्यैव परीक्षाविषयोऽयमिति तद्गतदर्शनविशेषार्थोऽयं विस्तर आरभ्यते । यदिदं साधनजातम् अस्य कर्मणः ऋत्विगग्न्यादि मृत्युना कर्मलक्षणेन स्वाभाविकासङ्गसहितेन आप्तं व्याप्तम् , न केवलं व्याप्तम् अभिपन्नं च मृत्युना वशीकृतं च — केन दर्शनलक्षणेन साधनेन यजमानः मृत्योराप्तिमति मृत्युगोचरत्वमतिक्रम्य मुच्यते स्वतन्त्रः मृत्योरवशो भवतीत्यर्थः । ननु उद्गीथ एवाभिहितम् येनातिमुच्यते मुख्यप्राणात्मदर्शनेनेति — बाढमुक्तम् ; योऽनुक्तो विशेषस्तत्र, तदर्थोऽयमारम्भ इत्यदोषः । होत्रा ऋत्विजा अग्निना वाचा इत्याह याज्ञवल्क्यः । एतस्यार्थं व्याचष्टे — कः पुनर्होता येन मृत्युमतिक्रामतीति उच्यते — वाग्वै यज्ञस्य यजमानस्य, ‘यज्ञो वै यजमानः’ (शत. ब्राह्म. १४ । २ । २ । २४) इति श्रुतेः, यज्ञस्य यजमानस्य या वाक् सैव होता अधियज्ञे ; कथम् ? तत् तत्र येयं वाक् यज्ञस्य यजमानस्य, सोऽयं प्रसिद्धोऽग्निः अधिदैवतम् ; तदेतत्त्र्यन्नप्रकरणे व्याख्यातम् ; स चाग्निः होता, ‘अग्निर्वै होता’ (शत. ब्रा. ४ । २ । ६) इति श्रुतेः । यदेतत् यज्ञस्य साधनद्वयम् — होता च ऋत्विक् अधियज्ञम् , अध्यात्मं च वाक् , एतदुभयं साधनद्वयं परिच्छिन्नं मृत्युना आप्तं स्वाभाविकाज्ञानासङ्गप्रयुक्तेन कर्मणा मृत्युना प्रतिक्षणमन्यथात्वमापद्यमानं वशीकृतम् ; तत् अनेनाधिदैवतरूपेणाग्निना दृश्यमानं यजमानस्य यज्ञस्य मृत्योरतिमुक्तये भवति ; तदेतदाह — स मुक्तिः स होता अग्निः मुक्तिः अग्निस्वरूपदर्शनमेव मुक्तिः ; यदैव साधनद्वयमग्निरूपेण पश्यति, तदानीमेव हि स्वाभाविकादासङ्गान्मृत्योर्विमुच्यते आध्यात्मिकात्परिच्छिन्नरूपात् आधिभौतिकाच्च ; तस्मात् स होता अग्निरूपेण दृष्टः मुक्तिः मुक्तिसाधनं यजमानस्य । सा अतिमुक्तिः — यैव च मुक्तिः सा अतिमुक्तिः अतिमुक्तिसाधनमित्यर्थः । साधनद्वयस्य परिच्छिन्नस्य या अधिदैवतरूपेण अपरिच्छिन्नेन अग्निरूपेण दृष्टिः, सा मुक्तिः ; या असौ मुक्तिः अधिदैवतदृष्टिः सैव — अध्यात्माधिभूतपरिच्छेदविषयाङ्गास्पदं मृत्युमतिक्रम्य अधिदेवतात्वस्य अग्निभावस्य प्राप्तिर्या फलभूता सा अतिमुक्तिरित्युच्यते ; तस्या अतिमुक्तेर्मुक्तिरेव साधनमिति कृत्वा सा अतिमुक्तिरित्याह । यजमानस्य हि अतिमुक्तिः वागादीनामग्न्यादिभावः इत्युद्गीथप्रकरणे व्याख्यातम् ; तत्र सामान्येन मुख्यप्राणदर्शनमात्रं मुक्तिसाधनमुक्तम् , न तद्विशेषः ; वागादीनामग्न्यादिदर्शनमिह विशेषो वर्ण्यते ; मृत्युप्राप्त्यतिमुक्तिस्तु सैव फलभूता, या उद्गीथब्राह्मणेन व्याख्याता ‘मृत्युमतिक्रान्तो दीप्यते’ (बृ. उ. १ । ३ । १२), (बृ. उ. १ । ३ । १३), (बृ. उ. १ । ३ । १४), (बृ. उ. १ । ३ । १५), (बृ. उ. १ । ३ । १६), इत्याद्या ॥
याज्ञवल्क्येति होवाच यदिदं सर्वमहोरात्राभ्यामाप्तं सर्वमहोरात्राभ्यामभिपन्नं केन यजमानोऽहोरात्रयोराप्तिमतिमुच्यत इत्यध्वर्युणर्त्विजा चक्षुषादित्येन चक्षुर्वै यज्ञस्याध्वर्युस्तद्यदिदं चक्षुः सोऽसावादित्यः सोऽध्वर्युः स मुक्तिः सातिमुक्तिः ॥ ४ ॥
याज्ञवल्क्येति होवाच । स्वाभाविकात् अज्ञानासङ्गप्रयुक्तात् कर्मलक्षणान्मृत्योः अतिमुक्तिर्व्याख्याता ; तस्य कर्मणः सासङ्गस्य मृत्योराश्रयभूतानां दर्शपूर्णमासादिकर्मसाधनानां यो विपरिणामहेतुः कालः, तस्मात्कालात् पृथक् अतिमुक्तिर्वक्तव्येतीदमारभ्यते, क्रियानुष्ठानव्यतिरेकेणापि प्राक् ऊर्ध्वं च क्रियायाः साधनविपरिणामहेतुत्वेन व्यापारदर्शनात्कालस्य ; तस्मात् पृथक् कालादतिमुक्तिर्वक्तव्येत्यत आह — यदिदं सर्वमहोरात्राभ्यामाप्तम् , स च कालो द्विरूपः — अहोरात्रादिलक्षणः तिथ्यादिलक्षणश्च ; तत्र अहोरात्रादिलक्षणात्तावदतिमुक्तिमाह — अहोरात्राभ्यां हि सर्वं जायते वर्धते विनश्यति च, तथा यज्ञसाधनं च — यज्ञस्य यजमानस्य चक्षुः अध्वर्युश्च ; शिष्टान्यक्षराणि पूर्ववन्नेयानि ; यजमानस्य चक्षुरध्वर्युश्च साधनद्वयम् अध्यात्माधिभूतपरिच्छेदं हित्वा अधिदैवतात्मना दृष्टं यत् स मुक्तिः — सोऽध्वर्युः आदित्यभावेन दृष्टो मुक्तिः ; सैव मुक्तिरेव अतिमुक्तिरिति पूर्ववत् ; आदित्यात्मभावमापन्नस्य हि नाहोरात्रे सम्भवतः ॥
याज्ञवल्क्येति होवाच यदिदं सर्वं पूर्वपक्षापरपक्षाभ्यामाप्तं सर्वं पूर्वपक्षापरपक्षाभ्यामभिपन्नं केन यजमानः पूर्वपक्षापरपक्षयोराप्तिमतिमुच्यत इत्युद्गात्रर्त्विजा वायुना प्राणेन प्राणो वै यज्ञस्योद्गाता तद्योऽयं प्राणः स वायुः स उद्गाता स मुक्तिः सातिमुक्तिः ॥ ५ ॥
इदानीं तिथ्यादिलक्षणादतिमुक्तिरुच्यते — यदिदं सर्वम् — अहोरात्रयोरविशिष्टयोरादित्यः कर्ता, न प्रतिपदादीनां तिथीनाम् ; तासां तु वृद्धिक्षयोपगमनेन प्रतिपत्प्रभृतीनां चन्द्रमाः कर्ता ; अतः तदापत्त्या पूर्वपक्षापरपक्षात्ययः, आदित्यापत्त्या अहोरात्रात्ययवत् । तत्र यजमानस्य प्राणो वायुः, स एवोद्गाता — इत्युद्गीथब्राह्मणेऽवगतम् , ‘वाचा च ह्येव स प्राणेन चोदगायत्’ (बृ. उ. १ । ३ । २४) इति च निर्धारितम् ; अथैतस्य प्राणस्यापः शरीरं ज्योतीरूपमसौ चन्द्रः’ इति च ; प्राणवायुचन्द्रमसामेकत्वात् चन्द्रमसा वायुना चोपसंहारे न कश्चिद्विशेषः — एवंमन्यमाना श्रुतिः वायुना अधिदैवतरूपेणोपसंहरति । अपि च वायुनिमित्तौ हि वृद्धिक्षयौ चन्द्रमसः ; तेन तिथ्यादिलक्षणस्य कालस्य कर्तुरपि कारयिता वायुः । अतो वायुरूपापन्नः तिथ्यादिकालादतीतो भवतीत्युपपन्नतरं भवति । तेन श्रुत्यन्तरे चन्द्ररूपेण दृष्टिः मुक्तिरतिमुक्तिश्च ; इह तु काण्वानां साधनद्वयस्य तत्कारणरूपेण वाय्वात्मना दृष्टिः मुक्तिरतिमुक्तिश्चेति — न श्रुत्योर्विरोधः ॥
याज्ञवल्क्येति होवाच यदिदमन्तरिक्षमनारम्बणमिव केनाक्रमेण यजमानः स्वर्गं लोकमाक्रमत इति ब्रह्मणर्त्विजा मनसा चन्द्रेण मनो वै यज्ञस्य ब्रह्मा तद्यदिदं मनः सोऽसौ चन्द्रः स ब्रह्मा स मुक्तिः सातिमुक्तिरित्यतिमोक्षा अथ सम्पदः ॥ ६ ॥
मृत्योः कालात् अतिमुक्तिर्व्याख्याता यजमानस्य । सोऽतिमुच्यमानः केनावष्टम्भेन परिच्छेदविषयं मृत्युमतीत्य फलं प्राप्नोति — अतिमुच्यते — इत्युच्यते — यदिदं प्रसिद्धम् अन्तरिक्षम् आकाशः अनारम्बणम् अनालम्बनम् इव - शब्दात् अस्त्येव तत्रालम्बनम् , तत्तु न ज्ञायते इत्यभिप्रायः । यत्तु तत् अज्ञायमानमालम्बनम् , तत् सर्वनाम्ना केनेति पृच्छ्यते, अन्यथा फलप्राप्तेरसम्भवात् ; येनावष्टम्भेन आक्रमेण यजमानः कर्मफलं प्रतिपद्यमानः अतिमुच्यते, किं तदिति प्रश्नविषयः ; केन आक्रमेण यजमानः स्वर्गं लोकमाक्रमत इति — स्वर्गं लोकं फलं प्राप्नोति अतिमुच्यत इत्यर्थः । ब्रह्मणा ऋत्विजा मनसा चन्द्रेणेत्यक्षरन्यासः पूर्ववत् । तत्राध्यात्मं यज्ञस्य यजमानस्य यदिदं प्रसिद्धं मनः, सोऽसौ चन्द्रः अधिदैवम् ; मनोऽध्यात्मं चन्द्रमा अधिदैवतमिति हि प्रसिद्धम् ; स एव चन्द्रमा ब्रह्मा ऋत्विक् तेन — अधिभूतं ब्रह्मणः परिच्छिन्नं रूपम् अध्यात्मं च मनसः एतत् द्वयम् अपरिच्छिन्नेन चन्द्रमसो रूपेण पश्यति ; तेन चन्द्रमसा मनसा अवलम्बनेन कर्मफलं स्वर्गं लोकं प्राप्नोति अतिमुच्यते इत्यभिप्रायः । इतीत्युपसंहारार्थं वचनम् ; इत्येवं प्रकारा मृत्योरतिमोक्षाः ; सर्वाणि हि दर्शनप्रकाराणि यज्ञाङ्गविषयाण्यस्मिन्नवसरे उक्तानीति कृत्वा उपसंहारः — इत्यतिमोक्षाः — एवं प्रकारा अतिमोक्षा इत्यर्थः । अथ सम्पदः अथ अधुना सम्पद उच्यन्ते । सम्पन्नाम केनचित्सामान्येन अग्निहोत्रादीनां कर्मणां फलवतां तत्फलाय सम्पादनम् , सम्पत्फलस्यैव वा ; सर्वोत्साहेन फलसाधनानुष्ठाने प्रयतमानानां केनचिद्वैगुण्येनासम्भवः ; तत् इदानीमाहिताग्निः सन् यत्कञ्चिित्कर्म अग्निहोत्रादीनां यथासम्भवमादाय आलम्बनीकृत्य कर्मफलविद्वत्तायां सत्यां यत्कर्मफलकामो भवति, तदेव सम्पादयति ; अन्यथा राजसूयाश्वमेधपुरुषमेधसर्वमेधलक्षणानामधिकृतानां त्रैवर्णिकानामपि असम्भवः — तेषां तत्पाठः स्वाध्यायार्थ एव केवलः स्यात् , यदि तत्फलप्राप्त्युपायः कश्चन न स्यात् ; तस्मात् तेषां सम्पदैव तत्फलप्राप्तिः, तस्मात्सम्पदामपि फलवत्त्वम् , अतः सम्पदं आरभ्यन्ते ॥
याज्ञवल्क्येति होवाच कतिभिरयमद्यर्ग्भिर्होतास्मिन्यज्ञे करिष्यतीति तिसृभिरिति कतमास्तास्तिस्र इति पुरोनुवाक्या च याज्या च शस्यैव तृतीया किं ताभिर्जयतीति यत्किञ्चेदं प्राणभृदिति ॥ ७ ॥
याज्ञवल्क्येति होवाच अभिमुखीकरणाय । कतिभिरयमद्यर्ग्भिर्होतास्मिन्यज्ञे — कतिभिः कतिसङ्ख्याभिः ऋग्भिः ऋग्जातिभिः, अयं होता ऋत्विक् , अस्मिन्यज्ञे करिष्यति शस्त्रं शंसति ; आह इतरः — तिसृभिः ऋग्जातिभिः — इति — उक्तवन्तं प्रत्याह इतरः — कतमास्तास्तिस्र इति ; सङ्ख्येयविषयोऽयं प्रश्नः, पूर्वस्तु सङ्ख्याविषयः । पुरोनुवाक्या च — प्राग्यागकालात् याः प्रयुज्यन्ते ऋचः, सा ऋग्जातिः पुरोनुवाक्येत्युच्यते ; यागार्थं याः प्रयुज्यन्ते ऋचः सा ऋग्जातिः याज्या ; शस्त्रार्थं याः प्रयुज्यन्ते ऋचः सा ऋग्जातिः शस्या ; सर्वास्तु याः काश्चन ऋचः, ताः स्तोत्रिया वा अन्या वा सर्वा एतास्वेव तिसृषु ऋग्जातिष्वन्तर्भवन्ति । किं ताभिर्जयतीति यत्किञ्चेदं प्राणभृदिति — अतश्च सङ्ख्यासामान्यात् यत्किञ्चित्प्राणभृज्जातम् , तत्सर्वं जयति तत्सर्वं फलजातं सम्पादयति सङ्ख्यादिसामान्येन ॥
याज्ञवल्क्येति होवाच कत्ययमद्याध्वर्युरस्मिन्यज्ञ आहुतीर्होष्यतीति तिस्र इति कतमास्तास्तिस्र इति या हुता उज्ज्वलन्ति या हुता अतिनेदन्ते या हुता अधिशेरते किं ताभिर्जयतीति या हुता उज्ज्वलन्ति देवलोकमेव ताभिर्जयति दीप्यत इव हि देवलोको या हुता अतिनेदन्ते पितृलोकमेव ताभिर्जयत्यतीव हि पितृलोको या हुता अधिशेरते मनुष्यलोकमेव ताभिर्जयत्यध इव हि मनुष्यलोकः ॥ ८ ॥
याज्ञवल्क्येति होवाचेति पूर्ववत् । कत्ययमद्याध्वर्युरस्मिन्यज्ञ आहुतीर्होष्यतीति — कति आहुतिप्रकाराः ? तिस्र इति ; कतमास्तास्तिस्र इति पूर्ववत् । इतर आह — या हुता उज्ज्वलन्ति समिदाज्याहुतयः, या हुता अतिनेदन्ते अतीव शब्दं कुर्वन्ति मांसाद्याहुतयः, या हुता अधिशेरते अधि अधो गत्वा भूमेः अधिशेरते पयःसोमाहुतयः । किं ताभिर्जयतीति ; ताभिरेवं निर्वर्तिताभिराहुतिभिः किं जयतीति ; या आहुतयो हुता उज्ज्वलन्ति उज्ज्वलनयुक्ता आहुतयो निर्वर्तिताः — फलं च देवलोकाख्यं उज्ज्वलमेव ; तेन सामान्येन या मयैता उज्ज्वलन्त्य आहुतयो निर्वर्त्यमानाः, ता एताः — साक्षाद्देवलोकस्य कर्मफलस्य रूपं देवलोकाख्यं फलमेव मया निर्वर्त्यते — इत्येवं सम्पादयति । या हुता अतिनेदन्ते आहुतयः, पितृलोकमेव ताभिर्जयति, कुत्सितशब्दकर्तृत्वसामान्येन ; पितृलोकसम्बद्धायां हि संयमिन्यां पुर्यां वैवस्वतेन यात्यमानानां ‘हा हताः स्म, मुञ्च मुञ्च’ इति शब्दो भवति ; तथा अवदानाहुतयः ; तेन पितृलोकसामान्यात् , पितृलोक एव मया निर्वर्त्यते - इति सम्पादयति । या हुता अधिशेरते, मनुष्यलोकमेव ताभिर्जयति, भूम्युपरिसम्बन्धसामान्यात् ; अध इव हि अध एव हि मनुष्यलोक उपरितनान् साध्यान् लोकानपेक्ष्य, अथवा अधोगमनमपेक्ष्य ; अतः मनुष्यलोक एव मया निर्वर्त्यते — इति सम्पादयति पयःसोमाहुतिनिर्वर्तनकाले ॥
याज्ञवल्क्येति होवाच कतिभिरयमद्य ब्रह्मा यज्ञं दक्षिणतो देवताभिर्गोपायतीत्येकयेति कतमा सैकेति मम एवेत्यनन्तं वै मनोऽनन्ता विश्वे देवा अनन्तमेव स तेन लोकं जयति ॥ ९ ॥
याज्ञवल्क्येति होवाचेति पूर्ववत् । अयम् ऋत्विक् ब्रह्मा दक्षिणतो ब्रह्मा आसने स्थित्वा यज्ञं गोपायति । कतिभिर्देवताभिर्गोपायतीति प्रासङ्गिकमेतद्बहुवचनम् — एकया हि देवतया गोपायत्यसौ ; एवं ज्ञाते बहुवचनेन प्रश्नो नोपपद्यते स्वयं जानतः ; तस्मात् पूर्वयोः कण्डिकयोः प्रश्नप्रतिवचनेषु — कतिभिः कति तिसृभिः तिस्रः — इति प्रसङ्गं दृष्ट्वा इहापि बहुवचनेनैव प्रश्नोपक्रमः क्रियते ; अथवा प्रतिवादिव्यामोहार्थं बहुवचनम् । इतर आह — एकयेति ; एका सा देवता, यया दक्षिणतः स्थित्वा ब्रह्म आसने यज्ञं गोपायति । कतमा सैकेति — मन एवेति, मनः सा देवता ; मनसा हि ब्रह्मा व्याप्रियते ध्यानेनैव, ‘तस्य यज्ञस्य मनश्च वाक्च वर्तनी तयोरन्यतरां मनसा संस्करोति ब्रह्मा’ (छा. उ. ४ । १६ । १), (छा. उ. ४ । १६ । २) इति श्रुत्यन्तरात् ; तेन मन एव देवता, तया मनसा हि गोपायति ब्रह्मा यज्ञम् । तच्च मनः वृत्तिभेदेनानन्तम् ; वै - शब्दः प्रसिद्धावद्योतनार्थः ; प्रसिद्धं मनस आनन्त्यम् ; तदानन्त्याभिमानिनो देवाः ; अनन्ता वै विश्वे देवाः — ‘सर्वे देवा यत्रैकं भवन्ति’ इत्यादिश्रुत्यन्तरात् ; तेन आनन्त्यसामान्यात् अनन्तमेव स तेन लोकं जयति ॥
याज्ञवल्क्येति होवाच कत्ययमद्योद्गातास्मिन्यज्ञे स्तोत्रियाः स्तोष्यतीति तिस्र इति कतमास्तास्तिस्र इति पुरोनुवाक्या च याज्या च शस्यैव तृतीया कतमास्ता या अध्यात्ममिति प्राण एव पुरोनुवाक्यापानो याज्या व्यानः शस्या किं ताभिर्जयतीति पृथिवीलोकमेव पुरोनुवाक्यया जयत्यन्तरिक्षलोकं याज्यया द्युलोकं शस्यया ततो ह होताश्वल उपरराम ॥ १० ॥
याज्ञवल्क्येति होवाचेति पूर्ववत् । कति स्तोत्रियाः स्तोष्यतीति अयमुद्गाता । स्तोत्रिया नाम ऋक् सामसमुदायः कतिपयानामृचाम् । स्तोत्रिया वा शस्या वा याः काश्चन ऋचः, ताः सर्वास्तिस्र एवेत्याह ; ताश्च व्याख्याताः — पुरोनुवाक्या च याज्या च शस्यैव तृतीयेति । तत्र पूर्वमुक्तम् — यत्किञ्चेदं प्राणभृत्सर्वं यजतीति तत् केन सामान्येनेति ; उच्यते — कतमास्तास्तिस्र ऋचः या अध्यात्मं भवन्तीति ; प्राण एव पुरोनुवाक्या, प - शब्दसामान्यात् ; अपानो याज्या, आनन्तर्यात् — अपानेन हि प्रत्तं हविः देवता ग्रसन्ति, यागश्च प्रदानम् ; व्यानः शस्या — ‘अप्राणन्ननपानन्नृचमभिव्याहरति’ (छा. उ. १ । ३ । ४) इति श्रुत्यन्तरात् । किं ताभिर्जयतीति व्याख्यातम् । तत्र विशेषसम्बन्धसामान्यमनुक्तमिहोच्यते, सर्वमन्यद्व्याख्यातम् ; लोकसम्बन्धसामान्येन पृथिवीलोकमेव पुरोनुवाक्यया जयति ; अन्तरिक्षलोकं याज्यया, मध्यमत्वसामान्यात् ; द्युलोकं शस्यया ऊर्ध्वत्वसामान्यात् । ततो ह तस्मात् आत्मनः प्रश्ननिर्णयात् असौ होता अश्वल उपरराम — नायम् अस्मद्गोचर इति ॥
इति तृतीयाध्यायस्य प्रथमं ब्राह्मणम् ॥
आख्यायिकासम्बन्धः प्रसिद्ध एव । मृत्योरतिमुक्तिर्व्याख्याता काललक्षणात् कर्मलक्षणाच्च ; कः पुनरसौ मृत्युः, यस्मात् अतिमुक्तिर्व्याख्याता ? स च स्वाभाविकाज्ञानसङ्गास्पदः अध्यात्माधिभूतविषयपरिच्छिन्नः ग्रहातिग्रहलक्षणो मृत्युः । तस्मात्परिच्छिन्नरूपान्मृत्योरतिमुक्तस्य रूपाणि अग्न्यादित्यादीनि उद्गीथप्रकरणे व्याख्यातानि ; अश्वलप्रश्ने च तद्गतो विशेषः कश्चित् ; तच्च एतत् कर्मणां ज्ञानसहितानां फलम् । एतस्मात्साध्यसाधनरूपात्संसारान्मोक्षः कर्तव्य इत्यतः बन्धनरूपस्य मृत्योः स्वरूपमुच्यते ; बद्धस्य हि मोक्षः कर्तव्यः । यदपि अतिमुक्तस्य स्वरूपमुक्तम् , तत्रापि ग्रहातिग्रहाभ्यामविनिर्मुक्त एव मृत्युरूपाभ्याम् ; तथा चोक्तम् — ‘अशनाया हि मृत्युः’ (बृ. उ. १ । २ । १) ; ‘एष एव मृत्युः’ (श. ब्रा. १० । ५ । २ । ३) इति आदित्यस्थं पुरुषमङ्गीकृत्य आह, ‘एको मृत्युर्बहवा’ (श. ब्रा. १० । ५ । २ । १६) इति च ; तदात्मभावापन्नो हि मृत्योराप्तिमतिमुच्यत इत्युच्यते ; न च तत्र ग्रहातिग्रहौ मृत्युरूपौ न स्तः ; ‘अथैतस्य मनसो द्यौः शरीरं ज्योतीरूपमसावादित्यः’ (बृ. उ. १ । ५ । १२) ‘मनश्च ग्रहः स कामेनातिग्राहेण गृहीतः’ (बृ. उ. ३ । २ । ७) इति वक्ष्यति — ‘प्राणो वै ग्रहः सोऽपानेनातिग्राहेण’ (बृ. उ. ३ । २ । २) इति, ‘वाग्वै ग्रहः स नाम्नातिग्राहेण’ (बृ. उ. ३ । २ । ३) इति च । तथा त्र्यन्नविभागे व्याख्यातमस्माभिः । सुविचारितं चैतत् — यदेव प्रवृत्तिकारणम् , तदेव निवृत्तिकारणं न भवतीति ॥
केचित्तु सर्वमेव निवृत्तिकारणं मन्यन्ते ; अतः कारणात् — पूर्वस्मात्पूर्वस्मात् मृत्योर्मुच्यते उत्तरमुत्तरं प्रतिपद्यमानः — व्यावृत्त्यर्थमेव प्रतिपद्यते, न तु तादर्थ्यम् — इत्यतः आद्वैतक्षयात् सर्वं मृत्युः, द्वैतक्षये तु परमार्थतो मृत्योराप्तिमतिमुच्यते ; अतश्च आपेक्षिकी गौणी मुक्तिरन्तराले । सर्वमेतत् एवम् अबार्हदारण्यकम् । ननु सर्वैकत्वं मोक्षः, ‘तस्मात्तत्सर्वमभवत्’ (बृ. उ. १ । ४ । १०) इति श्रुतेः — बाढं भवत्येतदपि ; न तु ‘ग्रामकामो यजेत’ (तै. आ. १२ । १० । ४) ‘पशुकामो यजेत’ (तै. आ. १६ । १२ । ८) इत्यादिश्रुतीनां तादर्थ्यम् ; यदि हि अद्वैतार्थत्वमेव आसाम् , ग्रामपशुस्वर्गाद्यर्थत्वं नास्तीति ग्रामपशुस्वर्गादयो न गृह्येरन् ; गृह्यन्ते तु कर्मफलवैचित्र्यविशेषाः ; यदि च वैदिकानां कर्मणां तादर्थ्यमेव, संसार एव नाभविष्यत् । अथ तादर्थ्येऽपि अनुनिष्पादितपदार्थस्वभावः संसार इति चेत् , यथा च रूपदर्शनार्थ आलोके सर्वोऽपि तत्रस्थः प्रकाश्यत एव — न, प्रमाणानुपपत्तेः ; अद्वैतार्थत्वे वैदिकानां कर्मणां विद्यासहितानाम् , अन्यस्यानुनिष्पादितत्वे प्रमाणानुपपत्तिः — न प्रत्यक्षम् , नानुमानम् , अत एव च न आगमः । उभयम् एकेन वाक्येन प्रदर्श्यत इति चेत् , कुल्याप्रणयनालोकादिवत् — तन्नैवम् , वाक्यधर्मानुपपत्तेः ; न च एकवाक्यगतस्यार्थस्य प्रवृत्तिनिवृत्तिसाधनत्वमवगन्तुं शक्यते ; कुल्याप्रणयनालोकादौ अर्थस्य प्रत्यक्षत्वाददोषः । यदप्युच्यते — मन्त्रा अस्मिन्नर्थे दृष्टा इति — अयमेव तु तावदर्थः प्रमाणागम्यः ; मन्त्राः पुनः किमस्मिन्नर्थे आहोस्विदन्यस्मिन्नर्थे इति मृग्यमेतत् । तस्माद्ग्रहातिग्रहलक्षणो मृत्युः बन्धः, तस्मात् मोक्षो वक्तव्य इत्यत इदमारभ्यते । न च जानीमो विषयसम्बन्धाविव अन्तरालेऽवस्थानम् अर्धजरतीयं कौशलम् । यत्तु मृत्योरतिमुच्यते इत्युक्त्वा ग्रहातिग्रहावुच्येते, तत्तु अर्थसम्बन्धात् ; सर्वोऽयं साध्यसाधनलक्षणो बन्धः, ग्रहातिग्रहाविनिर्मोकात् ; निगडे हि निर्ज्ञाते निगडितस्य मोक्षाय यत्नः कर्तव्यो भवति । तस्मात् तादर्थ्येन आरम्भः ॥
अथ हैनं जारत्कारव आर्तभागः पप्रच्छ याज्ञवल्क्येति होवाच कति ग्रहाः कत्यतिग्रहा इति । अष्टौ ग्रहा अष्टावतिग्रहा इति ये तेऽष्टौ ग्रहा अष्टावतिग्रहाः कतमे त इति ॥ १ ॥
अथ हैनम् — ह - शब्द ऐतिह्यार्थः ; अथ अनन्तरम् अश्वले उपरते प्रकृतं याज्ञवल्क्यं जरत्कारुगोत्रो जारत्कारवः ऋतभागस्यापत्यम् आर्तभागः पप्रच्छ ; याज्ञवल्क्येति होवाचेति अभिमुखीकरणाय ; पूर्ववत्प्रश्नः — कति ग्रहाः कत्यतिग्रहा इति । इति - शब्दो वाक्यपरिसमाप्त्यर्थः । तत्र निर्ज्ञातेषु वा ग्रहातिग्रहेषु प्रश्नः स्यात् , अनिर्ज्ञातेषु वा ; यदि तावत् ग्रहा अतिग्रहाश्च निर्ज्ञाताः, तदा तद्गतस्यापि गुणस्य सङ्ख्याया निर्ज्ञातत्वात् कति ग्रहाः कत्यतिग्रहा इति सङ्ख्याविषयः प्रश्नो नोपपद्यते ; अथ अनिर्ज्ञाताः तदा सङ्ख्येयविषयप्रश्न इति के ग्रहाः केऽतिग्रहा इति प्रष्टव्यम् , न तु कति ग्रहाः कत्यतिग्रहा इति प्रश्नः ; अपि च निर्ज्ञातसामान्यकेषु विशेषविज्ञानाय प्रश्नो भवति — यथा कतमेऽत्र कठाः कतमेऽत्र कालापा इति ; न चात्र ग्रहातिग्रहा नाम पदार्थाः केचन लोके प्रसिद्धाः, येन विशेषार्थः प्रश्नः स्यात् ; ननु च ‘अतिमुच्यते’ (बृ. उ. ३ । १ । ३), (बृ. उ. ३ । १ । ४), (बृ. उ. ३ । १ । ५) इत्युक्तम् , ग्रहगृहीतस्य हि मोक्षः, ‘स मुक्तिः सातिमुक्तिः’ (बृ. उ. ३ । १ । ३), (बृ. उ. ३ । १ । ४), (बृ. उ. ३ । १ । ५), (बृ. उ. ३ । १ । ६) इति हि द्विरुक्तम् , तस्मात्प्राप्ता ग्रहा अतिग्रहाश्च — ननु तत्रापि चत्वारो ग्रहा अतिग्रहाश्च निर्ज्ञाताः वाक्चक्षुःप्राणमनांसि, तत्र कतीति प्रश्नो नोपपद्यते निर्ज्ञातत्वात् — न, अनवधारणार्थत्वात् ; न हि चतुष्ट्वं तत्र विवक्षितम् ; इह तु ग्रहातिग्रहदर्शने अष्टत्वगुणविवक्षया कतीति प्रश्न उपपद्यत एव ; तस्मात् ‘स मुक्तिः सातिमुक्तिः’ (बृ. उ. ३ । १ । ३), (बृ. उ. ३ । १ । ४), (बृ. उ. ३ । १ । ५), (बृ. उ. ३ । १ । ६) इति मुक्त्यतिमुक्ती द्विरुक्ते ; ग्रहातिग्रहा अपि सिद्धाः । अतः कतिसङ्ख्याका ग्रहाः, कति वा अतिग्रहाः इति पृच्छति । इतर आह — अष्टौ ग्रहा अष्टावतिग्रहा इति । ये ते अष्टौ ग्रहा अभिहिताः, कतमे ते नियमेन ग्रहीतव्या इति ॥
प्राणो वै ग्रहः सोऽपानेनातिग्राहेण गृहीतोऽपानेन हि गन्धाञ्जिघ्रति ॥ २ ॥
तत्र आह — प्राणो वै ग्रहः — प्राण इति घ्राणमुच्यते, प्रकरणात् ; वायुसहितः सः ; अपानेनेति गन्धेनेत्येतत् ; अपानसचिवत्वात् अपानो गन्ध उच्यते ; अपानोपहृतं हि गन्धं घ्राणेन सर्वो लोको जिघ्रति ; तदेतदुच्यते — अपानेन हि गन्धाञ्जिघ्रतीति ॥
वाग्वै ग्रहः स नाम्नातिग्राहेण गृहीतो वाचा हि नामान्यभिवदति ॥ ३ ॥
जिह्वा वै ग्रहः स रसेनातिग्राहेण गृहीतो जिह्वया हि रसान्विजानाति ॥ ४ ॥
चक्षुर्वै ग्रहः स रूपेणातिग्राहेण गृहीतश्चक्षुषा हि रूपाणि पश्यति ॥ ५ ॥
श्रोत्रं वै ग्रहः स शब्देनातिग्राहेण गृहीतः श्रोत्रेण हि शब्दाञ्शृणोति ॥ ६ ॥
मनो वै ग्रहः स कामेनातिग्राहेण गृहीतो मनसा हि कामान्कामयते ॥ ७ ॥
हस्तौ वै ग्रहः स कर्मणातिग्राहेण गृहीतो हस्ताभ्यां हि कर्म करोति ॥ ८ ॥
त्वग्वै ग्रहः स स्पर्शेनातिग्राहेण गृहीतस्त्वचा हि स्पर्शान्वेदयत इत्येतेऽष्टौ ग्रहा अष्टावतिग्रहाः ॥ ९ ॥
वाग्वै ग्रहः — वाचा हि अध्यात्मपरिच्छिन्नया आसङ्गविषयास्पदया असत्यानृतासभ्यबीभत्सादिवचनेषु व्यापृतया गृहीतो लोकः अपहृतः, तेन वाक् ग्रहः ; स नाम्नातिग्राहेण गृहीतः — सः वागाख्यो ग्रहः, नाम्ना वक्तव्येन विषयेण, अतिग्राहेण अतिग्राहेणेति दैर्घ्यं छान्दसम् ; वक्तव्यार्था हि वाक् ; तेन वक्तव्येनार्थेन तादर्थ्येन प्रयुक्ता वाक् तेन वशीकृता ; तेन तत्कार्यमकृत्वा नैव तस्या मोक्षः ; अतः नाम्नातिग्राहेण गृहीता वागित्युच्यते ; वक्तव्यासङ्गन प्रवृत्ता सर्वानर्थैर्युज्यते । समानमन्यत् । इत्येते त्वक्पर्यन्ता अष्टौ ग्रहाः स्पर्शपर्यन्ताश्चैते अष्टावतिग्रहा इति ॥
याज्ञवल्क्येति होवाच यदिदं सर्वं मृत्योरन्नं का स्वित्सा देवता यस्या मृत्युरन्नमित्यग्निर्वै मृत्युः सोऽपामन्नमप पुनर्मृत्युं जयति ॥ १० ॥
उपसंहृतेषु ग्रहातिग्रहेष्वाह पुनः — याज्ञवल्क्येति होवाच । यदिदं सर्वं मृत्योरन्नम् — यदिदं व्याकृतं सर्वं मृत्योरन्नम् , सर्वं जायते विपद्येत च ग्रहातिग्रहलक्षणेन मृत्युना ग्रस्तम् — का स्वित् का नु स्यात् सा देवता, यस्या देवताया मृत्युरप्यन्नं भवेत् — ‘मृत्युर्यस्योपसेचनम्’ (क. उ. १ । २ । २५) इति श्रुत्यन्तरात् । अयमभिप्रायः प्रष्टुः — यदि मृत्योर्मृत्युं वक्ष्यति, अनवस्था स्यात् ; अथ न वक्ष्यति, अस्माद्ग्रहातिग्रहलक्षणान्मृत्योः मोक्षः नोपपद्यते ; ग्रहातिग्रहमृत्युविनाशे हि मोक्षः स्यात् ; स यदि मृत्योरपि मृत्युः स्यात् भवेत् ग्रहातिग्रहलक्षणस्य मृत्योर्विनाशः — अतः दुर्वचनं प्रश्नं मन्वानः पृच्छति ‘का स्वित्सा देवता’ इति । अस्ति तावन्मृत्योर्मृत्युः ; ननु अनवस्था स्यात् — तस्याप्यन्यो मृत्युरिति — नानवस्था, सर्वमृत्योः मृत्य्वन्तरानुपपत्तेः ; कथं पुनरवगम्यते — अस्ति मृत्योर्मृत्युरिति ? दृष्टत्वात् ; अग्निस्तावत् सर्वस्य दृष्टो मृत्युः, विनाशकत्वात् , सोऽद्भिर्भक्ष्यते, सोऽग्निः अपामन्नम् , गृहाण तर्हि अस्ति मृत्योर्मृत्युरिति ; तेन सर्वं ग्रहातिग्रहजातं भक्ष्यते मृत्योर्मृत्युना ; तस्मिन्बन्धने नाशिते मृत्युना भक्षिते संसारान्मोक्ष उपपन्नो भवति ; बन्धनं हि ग्रहातिग्रहलक्षणमुक्तम् ; तस्माच्च मोक्ष उपपद्यत इत्येतत्प्रसाधितम् । अतः बन्धमोक्षाय पुरुषप्रयासः सफलो भवति ; अतोऽपजयति पुनर्मृत्युम् ॥
याज्ञवल्क्येति होवाच यत्रायं पुरुषो म्रियत उदस्मात्प्राणाः क्रामन्त्याहो३ नेति नेति होवाच याज्ञवल्क्योऽत्रैव समवनीयन्ते स उच्छ्वयत्याध्मायत्याध्मातो मृतः शेते ॥ ११ ॥
परेण मृत्युना मृत्यौ भक्षिते परमात्मदर्शनेन योऽसौ मुक्तः विद्वान् , सोऽयं पुरुषः यत्र यस्मिन्काले म्रियते, उत् ऊर्ध्वम् , अस्मात् ब्रह्मविदो म्रियमाणात् , प्राणाः - वागादयो ग्रहाः नामादयश्चातिग्रहा वासनारूपा अन्तस्थाः प्रयोजकाः — क्रामन्त्यूर्ध्वम् उत्क्रामन्ति, आहोस्विन्नेति । नेति होवाच याज्ञवल्क्यः — नोत्क्रामन्ति ; अत्रैव अस्मिन्नेव परेणात्मना अविभागं गच्छन्ति विदुषि कार्याणि करणानि च स्वयोनौ परब्रह्मसतत्त्वे समवनीयन्ते, एकीभावेन समवसृज्यन्ते, प्रलीयन्त इत्यर्थः — ऊर्मय इव समुद्रे । तथा च श्रुत्यन्तरं कलाशब्दवाच्यानां प्राणानां परस्मिन्नात्मनि प्रलयं दर्शयति — ‘एवमेवास्य परिद्रष्टुरिमाः षोडश कलाः पुरुषायणाः पुरुषं प्राप्यास्तं गच्छन्ति’ (प्र . ६ । ५) इति — परेणात्मना अविभागं गच्छन्तीति दर्शितम् । न तर्हि मृतः — न हि ; मृतश्च अयम् — यस्मात् स उच्छ्वयति उच्छूनतां प्रतिपद्यते, आध्मायति बाह्येन वायुना पूर्यते, दृतिवत् , आध्मातः मृतः शेते निश्चेष्टः ; बन्धननाशे मुक्तस्य न क्वचिद्गमनमिति वाक्यार्थः ॥
याज्ञवल्क्येति होवाच यत्रायं पुरुषो म्रियते किमेनं न जहातीति नामेत्यनन्तं वै नामानन्ता विश्वे देवा अनन्तमेव सतेन लोकं जयति ॥ १२ ॥
मुक्तस्य किं प्राणा एव समवनीयन्ते ? आहोस्वित् तत्प्रयोजकमपि सर्वम् ? अथ प्राणा एव, न तत्प्रयोजकं सर्वम् , प्रयोजके विद्यमाने पुनः प्राणानां प्रसङ्गः ; अथ सर्वमेव कामकर्मादि, ततो मोक्ष उपपद्यते — इत्येवमर्थः उत्तरः प्रश्नः । याज्ञवल्क्येति होवाच — यत्रायं पुरुषो म्रियते किमेनं न जहातीति ; आह इतरः — नामेति ; सर्वं समवनीयते इत्यर्थः ; नाममात्रं तु न लीयते, आकृतिसम्बन्धात् ; नित्यं हि नाम ; अनन्तं वै नाम ; नित्यत्वमेव आनन्त्यं नाम्नः । तदानन्त्याधिकृताः अनन्ता वै विश्वे देवाः ; अनन्तमेव स तेन लोकं जयति — तन्नामानन्त्याधिकृतान् विश्वान्देवान् आत्मत्वेनोपेत्य तेन आनन्त्यदर्शनेन अनन्तमेव लोकं जयति ॥
याज्ञवल्क्येति होवाच यत्रास्य पुरुषस्य मृतस्याग्निं वागप्येति वातं प्राणश्चक्षुरादित्यं मनश्चन्द्रं दिशः श्रोत्रं पृथिवीं शरीरमाकाशमात्मौषधीर्लोमानि वनस्पतीन्केशा अप्सु लोहितं च रेतश्च निधीयते क्वायं तदा पुरुषो भवतीत्याहर सोम्य हस्तमार्तभागावामेवैतस्य वेदिष्यावो न नावेतत्सजन इति । तौ होत्क्रम्य मन्त्रयाञ्चक्राते तौ ह यदूचतुः कर्म हैव तदूचतुरथ यत्प्रशशंसतुः कर्म हैव तत्प्रशशंसतुः पुण्यो वै पुण्येन कर्मणा भवति पापः पापेनेति ततो ह जारत्कारव आर्तभाग उपरराम ॥ १३ ॥
ग्रहातिग्रहरूपं बन्धनमुक्तं मृत्युरूपम् ; तस्य च मृत्योः मृत्युसद्भावान्मोक्षश्चोपपद्यते ; स च मोक्षः ग्रहातिग्रहरूपाणामिहैव प्रलयः, प्रदीपनिर्वाणवत् ; यत्तत् ग्रहातिग्रहाख्यं बन्धनं मृत्युरूपम् , तस्य यत्प्रयोजकं तत्स्वरूपनिर्धारणार्थमिदमारभ्यते — याज्ञवल्क्येति होवाच ॥
अत्र केचिद्वर्णयन्ति — ग्रहातिग्रहस्य सप्रयोजकस्य विनाशेऽपि किल न मुच्यते ; नामावशिष्टः अविद्यया ऊषरस्थानीयया स्वात्मप्रभवया परमात्मनः परिच्छिन्नः भोज्याच्च जगतो व्यावृत्तः उच्छिन्नकामकर्मा अन्तराले व्यवतिष्ठते ; तस्य परमात्मैकत्वदर्शनेन द्वैतदर्शनमपनेतव्यमिति — अतः परं परमात्मदर्शनमारब्धव्यम् — इति ; एवम् अपवर्गाख्यामन्तरालावस्थां परिकल्प्य उत्तरग्रन्थसम्बन्धं कुर्वन्ति ॥
तत्र वक्तव्यम् — विशीर्णेषु करणेषु विदेहस्य परमात्मदर्शनश्रवणमनननिदिध्यसनानि कथमिति ; समवनीतप्राणस्य हि नाममात्रावशिष्टस्येति तैरुच्यते ; ‘मृतः शेते’ (बृ. उ. ३ । २ । ११) इति ह्युक्तम् ; न मनोरथेनाप्येतदुपपादयितुं शक्यते । अथ जीवन्नेव अविद्यामात्रावशिष्टो भोज्यादपावृत्त इति परिकल्प्यते, तत्तु किं निमित्तमिति वक्तव्यम् ; समस्तद्वैतैकत्वात्मप्राप्तिनिमित्तमिति यद्युच्येत, तत् पूर्वमेव निराकृतम् ; कर्मसहितेन द्वैतैकत्वात्मदर्शनेन सम्पन्नो विद्वान् मृतः समवनीतप्राणः जगदात्मत्वं हिरण्यगर्भस्वरूपं वा प्राप्नुयात् , असमवनीतप्राणः भोज्यात् जीवन्नेव वा व्यावृत्तः विरक्तः परमात्मदर्शनाभिमुखः स्यात् । न च उभयम् एकप्रयत्ननिष्पाद्येन साधनेन लभ्यम् ; हिरण्यगर्भप्राप्तिसाधनं चेत् , न ततो व्यावृत्तिसाधनम् ; परमात्माभिमुखीकरणस्य भोज्याद्व्यावृत्तेः साधनं चेत् , न हिरण्यगर्भप्राप्तिसाधनम् ; न हि यत् गतिसाधनम् , तत् गतिनिवृत्तेरपि । अथ मृत्वा हिरण्यगर्भं प्राप्य ततः समवनीतप्राणः नामावशिष्टः परमात्मज्ञानेऽधिक्रियते, ततः अस्मदाद्यर्थं परमात्मज्ञानोपदेशः अनर्थकः स्यात् ; सर्वेषां हि ब्रह्मविद्या पुरुषार्थायोपदिश्यते — ‘तद्यो यो देवानाम्’ (बृ. उ. १ । ४ । १०) इत्याद्यया श्रुत्या । तस्मात् अत्यन्तनिकृष्टा शास्त्रबाह्यैव इयं कल्पना । प्रकृतं तु वर्तयिष्यामः ॥
तत्र केन प्रयुक्तं ग्रहातिग्रहलक्षणं बन्धनमित्येतन्निर्दिधारयिषया आह — यत्रास्य पुरुषस्य असम्यग्दर्शिनः शिरःपाण्यादिमतो मृतस्य — वाक् अग्निमप्येति, वातं प्राणोऽप्येति, चक्षुरादित्यमप्येति — इति सर्वत्र सम्बध्यते ; मनः चन्द्रम् , दिशः श्रोत्रम् , पृथिवीं शरीरम् , आकाशमात्मेत्यत्र आत्मा अधिष्ठानं हृदयाकाशमुच्यते ; स आकाशमप्येति ; ओषधीरपियन्ति लोमानि ; वनस्पतीनपियन्ति केशाः ; अप्सु लोहितं च रेतश्च — निधीयते इति — पुनरादानलिङ्गम् ; सर्वत्र हि वागादिशब्देन देवताः परिगृह्यन्ते ; न तु करणान्येवापक्रामन्ति प्राङ्मोक्षात् ; तत्र देवताभिरनधिष्ठितानि करणानि न्यस्तदात्राद्युपमानानि, विदेहश्च कर्ता पुरुषः अस्वतन्त्रः किमाश्रितो भवतीति पृच्छ्यते — क्वायं तदा पुरुषो भवतीति — किमाश्रितः तदा पुरुषो भवतीति ; यम् आश्रयमाश्रित्य पुनः कार्यकरणसङ्घातमुपादत्ते, येन ग्रहातिग्रहलक्षणं बन्धनं प्रयुज्यते तत् किमिति प्रश्नः । अत्रोच्यते — स्वभावयदृच्छाकालकर्मदैवविज्ञानमात्रशून्यानि वादिभिः परिकल्पितानि ; अतः अनेकविप्रतिपत्तिस्थानत्वात् नैव जल्पन्यायेन वस्तुनिर्णयः ; अत्र वस्तुनिर्णयं चेदिच्छसि, आहर सोम्य हस्तम् आर्तभाग हे — आवामेव एतस्य त्वत्पृष्टस्य वेदितव्यं यत् , तत् वेदिष्यावः निरूपयिष्यावः ; कस्मात् ? न नौ आवयोः एतत् वस्तु सजने जनसमुदाये निर्णेतुं शक्यते ; अत एकान्तं गमिष्यावः विचारणाय । तौ हेत्यादि श्रुतिवचनम् । तौ याज्ञवल्क्यार्तभागौ एकान्तं गत्वा किं चक्रतुरित्युच्यते — तौ ह उत्क्रम्य सजनात् देशात् मन्त्रयाञ्चक्राते ; आदौ लौकिकवादिपक्षाणाम् एकैकं परिगृह्य विचारितवन्तौ । तौ ह विचार्य यदूचतुरपोह्य पूर्वपक्षान्सर्वानेव — तच्छृणु ; कर्म हैव आश्रयं पुनः पुनः कार्यकरणोपादानहेतुम् तत् तत्र ऊचतुः उक्तवन्तौ — न केवलम् ; कालकर्मदैवेश्वरेष्वभ्युपगतेषु हेतुषु यत्प्रशशंसतुस्तौ, कर्म हैव तत्प्रशशंसतुः — यस्मान्निर्धारितमेतत् कर्मप्रयुक्तं ग्रहातिग्रहादिकार्यकरणोपादानं पुनः पुनः, तस्मात् पुण्यो वै शास्त्रविहितेन पुण्येन कर्मणा भवति, तद्विपरीतेन विपरीतो भवति पापः पापेन — इति एवं याज्ञवल्क्येन प्रश्नेषु निर्णीतेषु, ततः अशक्यप्रकम्पत्वात् याज्ञवल्कयस्य, ह जारत्कारव आर्तभाग उपरराम ॥
इति तृतीयाध्यायस्य द्वितीयं ब्राह्मणम् ॥
अथ हैनं भुज्युर्लाह्यायनिः पप्रच्छ । ग्रहातिग्रहलक्षणं बन्धनमुक्तम् ; यस्मात् सप्रयोजकात् मुक्तः मुच्यते, येन वा बद्धः संसरति, स मृत्युः ; तस्माच्च मोक्ष उपपद्यते, यस्मात् मृत्योर्मृत्युरस्ति ; मुक्तस्य च न गतिः क्वचित् — सर्वोत्सादः नाममात्रावशेषः प्रदीपनिर्वाणवदिति चावधृतम् । तत्र संसरतां मुच्यमानानां च कार्यकरणानां स्वकारणसंसर्गे समाने, मुक्तानामत्यन्तमेव पुनरनुपादानम् — संसरतां तु पुनः पुनरुपादानम् — येन प्रयुक्तानां भवति, तत् कर्म — इत्यवधारितं विचारणापूर्वकम् ; तत्क्षये च नामावशेषेण सर्वोत्सादो मोक्षः । तच्च पुण्यपापाख्यं कर्म, ‘पुण्यो वै पुण्येन कर्मणा भवति पापः पापेन’ (बृ. उ. ३ । २ । १३) इत्यवधारितत्वात् ; एतत्कृतः संसारः । तत्र अपुण्येन स्थावरजङ्गमेषु स्वभावदुःखबहुलेषु नरकतिर्यक्प्रेतादिषु च दुःखम् अनुभवति पुनः पुनर्जायमानः म्रियमाणश्च इत्येतत् राजवर्त्मवत् सर्वलोकप्रसिद्धम् । यस्तु शास्त्रीयः पुण्यो वै पुण्येन कर्मणा भवति, तत्रैव आदरः क्रियत इह श्रुत्या । पुण्यमेव च कर्म सर्वपुरुषार्थसाधनमिति सर्वे श्रुतिस्मृतिवादाः । मोक्षस्यापि पुरुषार्थत्वात् तत्साध्यता प्राप्ता ; यावत् यावत् पुण्योत्कर्षः तावत् तावत् फलोत्कर्षप्राप्तिः ; तस्मात् उत्तमेन पुण्योत्कर्षेण मोक्षो भविष्यतीत्यशङ्का स्यात् ; सा निवर्तयितव्या । ज्ञानसहितस्य च प्रकृष्टस्य कर्मण एतावती गतिः, व्याकृतनामरूपास्पदत्वात् कर्मणः तत्फलस्य च ; न तु अकार्ये नित्ये अव्याकृतधर्मिणि अनामरूपात्मके क्रियाकारकफलस्वभाववर्जिते कर्मणो व्यापारोऽस्ति ; यत्र च व्यापारः स संसार एव इत्यस्यार्थस्य प्रदर्शनाय ब्राह्मणमारभ्यते ॥
यत्तु कैश्चिदुच्यते — विद्यासहितं कर्म निरभिसन्धिविषदध्यादिवत् कार्यान्तरमारभत इति — तन्न, अनारभ्यत्वान्मोक्षस्य ; बन्धननाश एव हि मोक्षः, न कार्यभूतः ; बन्धनं च अविद्येत्यवोचाम ; अविद्यायाश्च न कर्मणा नाश उपपद्यते, दृष्टविषयत्वाच्च कर्मसामर्थ्यस्य ; उत्पत्त्याप्तिविकारसंस्कारा हि कर्मसामर्थ्यस्य विषयाः ; उत्पादयितुं प्रापयितुं विकर्तुं संस्कर्तुं च सामर्थ्यं कर्मणः, न अतो व्यतिरिक्तविषयोऽस्ति कर्मसामर्थ्यस्य, लोके अप्रसिद्धत्वात् ; न च मोक्ष एषां पदार्थानामन्यतमः ; अविद्यामात्रव्यवहित इत्यवोचाम । बाढम् ; भवतु केवलस्यैव कर्मण एवं स्वभावता ; विद्यासंयुक्तस्य तु निरभिसन्धेः भवति अन्यथा स्वभावः ; दृष्टं हि अन्यशक्तित्वेन निर्ज्ञातानामपि पदार्थानां विषदध्यादीनां विद्यामन्त्रशर्करादिसंयुक्तानाम् अन्यविषये सामर्थ्यम् ; तथा कर्मणोऽप्यस्त्विति चेत् — न । प्रमाणाभावात् । तत्र हि कर्मण उक्तविषयव्यतिरेकेण विषयान्तरे सामर्थ्यास्तित्वे प्रमाणं न प्रत्यक्षं नानुमानं नोपमानं नार्थापत्तिः न शब्दोऽस्ति । ननु फलान्तराभावे चोदनान्यथानुपपत्तिः प्रमाणमिति ; न हि नित्यानां कर्मणां विश्वजिन्न्यायेन फलं कल्प्यते ; नापि श्रुतं फलमस्ति ; चोद्यन्ते च तानि ; पारिशेष्यात् मोक्षः तेषां फलमिति गम्यते ; अन्यथा हि पुरुषा न प्रवर्तेरन् । ननु विश्वजिन्न्याय एव आयातः, मोक्षस्य फलस्य कल्पितत्वात् — मोक्षे वा अन्यस्मिन्वा फले अकल्पिते पुरुषा न प्रवर्तेरन्निति मोक्षः फलं कल्प्यते श्रुतार्थापत्त्या, यथा विश्वजिति ; ननु एवं सति कथमुच्यते, विश्वजिन्न्यायो न भवतीति ; फलं च कल्प्यते विश्वजिन्न्यायश्च न भवतीति विप्रतिषिद्धमभिधीयते । मोक्षः फलमेव न भवतीति चेत् , न, प्रतिज्ञाहानात् ; कर्म कार्यान्तरं विषदध्यादिवत् आरभत इति हि प्रतिज्ञातम् ; स चेन्मोक्षः कर्मणः कार्यं फलमेव न भवति, सा प्रतिज्ञा हीयेत । कर्मकार्यत्वे च मोक्षस्य स्वर्गादिफलेभ्यो विशेषो वक्तव्यः । अथ कर्मकार्यं न भवति, नित्यानां कर्मणां फलं मोक्ष इत्यस्या वचनव्यक्तेः कोऽर्थ इति वक्तव्यम् । न च कार्यफलशब्दभेदमात्रेण विशेषः शक्यः कल्पयितुम् । अफलं च मोक्षः, नित्यैश्च कर्मभिः क्रियते — नित्यानां कर्मणां फलं न, कार्यम् — इति च एषोऽर्थः विप्रतिषिद्धोऽभिधीयते — यथा अग्निः शीत इति । ज्ञानवदिति चेत् — यथा ज्ञानस्य कार्यं मोक्षः ज्ञानेनाक्रियमाणोऽप्युच्यते, तद्वत् कर्मकार्यत्वमिति चेत् — न, अज्ञाननिवर्तकत्वात् ज्ञानस्य ; अज्ञानव्यवधाननिवर्तकत्वात् ज्ञानस्य मोक्षो ज्ञानकार्यमित्युपचर्यते । न तु कर्मणा निवर्तयितव्यमज्ञानम् ; न च अज्ञानव्यतिरेकेण मोक्षस्य व्यवधानान्तरं कल्पयितुं शक्यम् — नित्यत्वान्मोक्षस्य साधकस्वरूपाव्यतिरेकाच्च — यत्कर्मणा निवर्त्येत । अज्ञानमेव निवर्तयतीति चेत् , न, विलक्षणत्वात् — अनभिव्यक्तिः अज्ञानम् अभिव्यक्तिलक्षणेन ज्ञानेन विरुध्यते ; कर्म तु नाज्ञानेन विरुध्यते ; तेन ज्ञानविलक्षणं कर्म । यदि ज्ञानाभावः, यदि संशयज्ञानम् , यदि विपरीतज्ञानं वा उच्यते अज्ञानमिति, सर्वं हि तत् ज्ञानेनैव निवर्त्यते ; न तु कर्मणा अन्यतमेनापि विरोधाभावात् । अथ अदृष्टं कर्मणाम् अज्ञाननिवर्तकत्वं कल्प्यमिति चेत् , न, ज्ञानेन अज्ञाननिवृत्तौ गम्यमानायाम् अदृष्टनिवृत्तिकल्पनानुपपत्तेः ; यथा अवघातेन व्रीहीणां तुषनिवृत्तौ गम्यमानायाम् अग्निहोत्रादिनित्यकर्मकार्या अदृष्टा न कल्प्यते तुषनिवृत्तिः, तद्वत् अज्ञाननिवृत्तिरपि नित्यकर्मकार्या अदृष्टा न कल्प्यते । ज्ञानेन विरुद्धत्वं च असकृत् कर्मणामवोचाम । यत् अविरुद्धं ज्ञानं कर्मभिः, तत् देवलोकप्राप्तिनिमित्तमित्युक्तम् — ‘विद्यया देवलोकः’ (बृ. उ. १ । ५ । १६) इति श्रुतेः । किञ्चान्यत् कल्प्ये च फले नित्यानां कर्मणां श्रुतानाम् , यत् कर्मभिर्विरुध्यते — द्रव्यगुणकर्मणां कार्यमेव न भवति — किं तत् कल्प्यताम् , यस्मिन् कर्मणः सामर्थ्यमेव न दृष्टम् ? किं वा यस्मिन् दृष्टं सामर्थ्यम् , यच्च कर्मणां फलमविरुद्धम् , तत्कल्प्यतामिति । पुरुषप्रवृत्तिजननाय अवश्यं चेत् कर्मफलं कल्पयितव्यम् — कर्माविरुद्धविषय एव श्रुतार्थापत्तेः क्षीणत्वात् नित्यो मोक्षः फलं कल्पयितुं न शक्यः, तद्व्यवधानाज्ञाननिवृत्तिर्वा, अविरुद्धत्वात् दृष्टसामर्थ्यविषयत्वाच्चेति पारिशेष्यन्यायात् मोक्ष एव कल्पयितव्य इति चेत् — सर्वेषां हि कर्मणां सर्वं फलम् ; न च अन्यत् इतरकर्मफलव्यतिरेकेण फलं कल्पनायोग्यमस्ति ; परिशिष्टश्च मोक्षः ; स च इष्टः वेदविदां फलम् ; तस्मात् स एव कल्पयितव्यः इति चेत् — न, कर्मफलव्यक्तीनाम् आनन्त्यात् पारिशेष्यन्यायानुपपत्तेः ; न हि पुरुषेच्छाविषयाणां कर्मफलानाम् एतावत्त्वं नाम केनचित् असर्वज्ञेनावधृतम् , तत्साधनानां वा, पुरुषेच्छानां वा अनियतदेशकालनिमित्तत्वात् पुरुषेच्छाविषयसाधनानां च पुरुषेष्टफलप्रयुक्तत्वात् ; प्रतिप्राणि च इच्छावैचित्र्यात् फलानां तत्साधनानां च आनन्त्यसिद्धिः ; तदानन्त्याच्च अशक्यम् एतावत्त्वं पुरुषैर्ज्ञातुम् ; अज्ञाते च साधनफलैतावत्त्वे कथं मोक्षस्य परिशेषसिद्धिरिति । कर्मफलजातिपारिशेष्यमिति चेत् — सत्यपि इच्छाविषयाणां तत्साधनानां च आनन्त्ये, कर्मफलजातित्वं नाम सर्वेषां तुल्यम् ; मोक्षस्तु अकर्मफलत्वात् परिशिष्टः स्यात् ; तस्मात् परिशेषात् स एव युक्तः कल्पयितुमिति चेत् — न ; तस्यापि नित्यकर्मफलत्वाभ्युपगमे कर्मफलसमानजातीयत्वोपपत्तेः परिशेषानुपपत्तिः । तस्मात् अन्यथाप्युपपत्तेः क्षीणा श्रुतार्थापत्तिः ; उत्पत्त्याप्तिविकारसंस्काराणामन्यतममपि नित्यानां कर्मणां फलमुपपद्यत इति क्षीणा श्रुतार्थापत्तिः चतुर्णामन्यतम एव मोक्ष इति चेत् — न तावत् उत्पाद्यः, नित्यत्वात् ; अत एव अविकार्यः ; असंस्कार्यश्च अत एव — असाधनद्रव्यात्मकत्वाच्च — साधनात्मकं हि द्रव्यं संस्क्रियते, यथा पात्राज्यादि प्रोक्षणादिना ; न च संस्क्रियमाणः, संस्कारनिर्वर्त्यो वा — यूपादिवत् ; पारिशेष्यात् आप्यः स्यात् ; न आप्योऽपि, आत्मस्वभावत्वात् एकत्वाच्च । इतरैः कर्मभिर्वैलक्षण्यात् नित्यानां कर्मणाम् , तत्फलेनापि विलक्षणेन भवितव्यमिति चेत् , न — कर्मत्वसालक्षण्यात् सलक्षणं कस्मात् फलं न भवति इतरकर्मफलैः ? निमित्तवैलक्षण्यादिति चेत् , न, क्षामवत्यादिभिः समानत्वात् ; यथा हि — गृहदाहादौ निमित्ते क्षामवत्यादीष्टिः, यथा — ‘भिन्ने जुहोति, स्कन्ने जुहोति’ इति — एवमादौ नैमित्तिकेषु कर्मसु न मोक्षः फलं कल्प्यते — तैश्चाविशेषान्नैमित्तिकत्वेन, जीवनादिनिमित्ते च श्रवणात् , तथा नित्यानामपि न मोक्षः फलम् । आलोकस्य सर्वेषां रूपदर्शनसाधनत्वे, उलूकादयः आलोकेन रूपं न पश्यन्तीति उलूकादिचक्षुषो वैलक्षण्यादितरलोकचक्षुर्भिः, न रसादिविषयत्वं परिकल्प्यते, रसादिविषये सामर्थ्यस्यादृष्टत्वात् । सुदूरमपि गत्वा यद्विषयं दृष्टं सामर्थ्यं तत्रैव कश्चिद्विशेषः कल्पयितव्यः । यत्पुनरुक्तम् , विद्यामन्त्रशर्करादिसंयुक्तविषदध्यादिवत् नित्यानि कार्यान्तरमारभन्त इति — आरभ्यतां विशिष्टं कार्यम् , तत् इष्टत्वादविरोधः ; निरभिसन्धेः कर्मणो विद्यासंयुक्तस्य विशिष्टकार्यान्तरारम्भे न कश्चिद्विरोधः, देवयाज्यात्मयाजिनोः आत्मयाजिनो विशेषश्रवणात् — ‘देवयाजिनः श्रेयानात्मयाजी’ (शत. ब्रा. ११ । २ । ६ । १३) इत्यादौ ‘यदेव विद्यया करोति’ (छा. उ. १ । १ । १०) इत्यादौ च । यस्तु परमात्मदर्शनविषये मनुनोक्तः आत्मयाजिशब्दः ‘सम्पश्यन्नात्मयाजी’ (मनु. १२ । ९१) इत्यत्र — समं पश्यन् आत्मयाजी भवतीत्यर्थः । अथवा भूतपूर्वगत्या — आत्मयाजी आत्मसंस्कारार्थं नित्यानि कर्माणि करोति — ‘इदं मेऽनेनाङ्गं संस्क्रियते’ (शत. ब्रा. ११ । २ । ६ । १३) इति श्रुतेः ; तथा ‘गार्भैर्होमैः’ (मनु. २ । २७) इत्यादिप्रकरणे कार्यकरणसंस्कारार्थत्वं नित्यानां कर्मणां दर्शयति ; संस्कृतश्च य आत्मयाजी तैः कर्मभिः समं द्रष्टुं समर्थो भवति, तस्य इह जन्मान्तरे वा समम् आत्मदर्शनमुत्पद्यते ; समं पश्यन् स्वाराज्यमधिगच्छतीत्येषोऽर्थः ; आत्मयाजिशब्दस्तु भूतपूर्वगत्या प्रयुज्यते ज्ञानयुक्तानां नित्यानां कर्मणां ज्ञानोत्पत्तिसाधनत्वप्रदर्शनार्थम् । किञ्चान्यत् — ‘ब्रह्माविश्वसृजो धर्मो महानव्यक्तमेव च । उत्तमां सात्त्विकीमेतां गतिमाहुर्मनीषिणः’ (मनु. १२ । ५०) इति च देवसार्ष्टिव्यतिरेकेण भूताप्ययं दर्शयति — ‘भूतान्यप्येति पञ्च वै’ (मनु. १२ । ९०) ‘भूतान्यत्येति’ इति पाठं ये कुर्वन्ति, तेषां वेदविषये परिच्छिन्नबुद्धित्वाददोषः ; न च अर्थवादत्वम् — अध्यायस्य ब्रह्मान्तकर्मविपाकार्थस्य तद्व्यतिरिक्तात्मज्ञानार्थस्य च कर्मकाण्डोपनिषद्भ्यां तुल्यार्थत्वदर्शनात् , विहिताकरणप्रतिषिद्धकर्मणां च स्थावरश्वसूकरादिफलदर्शनात् , वान्ताश्यादिप्रेतदर्शनाच्च । न च श्रुतिस्मृतिविहितप्रतिषिद्धव्यतिरेकेण विहितानि वा प्रतिषिद्धानि वा कर्माणि केनचिदवगन्तुं शक्यन्ते, येषाम् अकरणादनुष्ठानाच्च प्रेतश्वसूकरस्थावरादीनि कर्मफलानि प्रत्यक्षानुमानाभ्यामुपलभ्यन्ते ; न च एषाम् कर्मफलत्वं केनचिदभ्युपगम्यते । तस्मात् विहिताकरणप्रतिषिद्धसेवानां यथा एते कर्मविपाकाः प्रेततिर्यक्स्थावरादयः, तथा उत्कृष्टेष्वपि ब्रह्मान्तेषु कर्मविपाकत्वं वेदितव्यम् ; तस्मात् ‘स आत्मनो वपामुदखिदत्’ (तै. सं. २ । १ । १ । ४) ‘सोऽरोदीत्’ (तै. सं. १ । ५ । १ । १) इत्यादिवत् न अभूतार्थवादत्वम् । तत्रापि अभूतार्थवादत्वं मा भूदिति चेत् — भवत्वेवम् ; न च एतावता अस्य न्यायस्य बाधो भवति ; न च अस्मत्पक्षो वा दुष्यति । न च ‘ब्रह्मा विश्वसृजः’ इत्यादीनां काम्यकर्मफलत्वं शक्यं वक्तुम् , तेषां देवसार्ष्टितायाः फलस्योक्तत्वात् । तस्मात् साभिसन्धीनां नित्यानां कर्मणां सर्वमेधाश्वमेधादीनां च ब्रह्मत्वादीनि फलानि ; येषां पुनः नित्यानि निरभिसन्धीनि आत्मसंस्कारार्थानि, तेषां ज्ञानोत्पत्त्यर्थानि तानि, ‘ब्राह्मीयं क्रियते तनुः’ (मनु. २ । २८) इति स्मरणात् ; तेषाम् आरादुपकारत्वात् मोक्षसाधनान्यपि कर्माणि भवन्तीति न विरुध्यते ; यथा चायमर्थः, षष्ठे जनकाख्यायिकासमाप्तौ वक्ष्यामः । यत्तु विषदध्यादिवदित्युक्तम् , तत्र प्रत्यक्षानुमानविषयत्वादविरोधः ; यस्तु अत्यन्तशब्दगम्योऽर्थः, तत्र वाक्यस्याभावे तदर्थप्रतिपादकस्य न शक्यं कल्पयितुं विषदध्यादिसाधर्म्यम् । न च प्रमाणान्तरविरुद्धार्थविषये श्रुतेः प्रामाण्यं कल्प्यते, यथा — शीतोऽग्निः क्लेदयतीति ; श्रुते तु तादर्थ्ये वाक्यस्य, प्रमाणान्तरस्य आभासत्वम् — यथा ‘खद्योतोऽग्निः’ इति ‘तलमलिनमन्तरिक्षम्’ इति बालानां यत्प्रत्यक्षमपि, तद्विषयप्रमाणान्तरस्य यथार्थत्वे निश्चिते, निश्चितार्थमपि बालप्रत्यक्षम् आभासी भवति ; तस्मात् वेदप्रामाण्यस्याव्यभिचारात् तादर्थ्ये सति वाक्यस्य तथात्वं स्यात् , न तु पुरुषमतिकौशलम् ; न हि पुरुषमतिकौशलात् सविता रूपं न प्रकाशयति ; तथा वेदवाक्यान्यपि न अन्यार्थानि भवन्ति । तस्मात् न मोक्षार्थानि कर्माणीति सिद्धम् । अतः कर्मफलानां संसारत्वप्रदर्शनायैव ब्राह्मणमारभ्यते ॥
अथ हैनं भुज्युर्लाह्यायनिः पप्रच्छ याज्ञवल्क्येति होवाच । मद्रेषु चरकाः पर्यव्रजाम ते पतञ्जलस्य काप्यस्य गृहानैम तस्यासीद्दुहिता गन्धर्वगृहीता तमपृच्छाम कोऽसीति सोऽब्रवीत्सुधन्वाङ्गिरस इति तं यदा लोकानामन्तानपृच्छामाथैनमब्रूम क्व पारिक्षिता अभवन्निति क्व पारिक्षिता अभवन्स त्वा पृच्छामि याज्ञवल्क्य क्व पारिक्षिता अभवन्निति ॥ १ ॥
अथ अनन्तरम् उपरते जारत्कारवे, भुज्युरिति नामतः, लह्यस्यापत्यं लाह्यः तदपत्यं लाह्यायनिः, प्रपच्छ ; याज्ञवल्क्येति होवाच । आदावुक्तम् अश्वमेधदर्शनम् ; समष्टिव्यष्टिफलश्चाश्वमेधक्रतुः, ज्ञानसमुच्चितो वा केवलज्ञानसम्पादितो वा, सर्वकर्मणां परा काष्ठा ; भ्रूणहत्याश्वमेधाभ्यां न परं पुण्यपापयोरिति हि स्मरन्ति ; तेन हि समष्टिं व्यष्टीश्च प्राप्नोति ; तत्र व्यष्टयो निर्ज्ञाता अन्तरण्डविषया अश्वमेधयागफलभूताः ; ‘मृत्युरस्यात्मा भवत्येतासां देवतानामेको भवति’ (बृ. उ. १ । २ । ७) इत्युक्तम् ; मृत्युश्च अशनायालक्षणो बुद्ध्यात्मा समष्टिः प्रथमजः वायुः सूत्रं सत्यं हिरण्यगर्भः ; तस्य व्याकृतो विषयः — यदात्मकं सर्वं द्वैतकत्वम् , यः सर्वभूतान्तरात्मा लिङ्गम् अमूर्तरसः यदाश्रितानि सर्वभूतकर्माणि, यः कर्मणां कर्मसम्बद्धानां च विज्ञानानां परा गतिः परं फलम् । तस्य कियान् गोचरः कियती व्याप्तिः सर्वतः परिमण्डलीभूता, सा वक्तव्या ; तस्याम् उक्तायाम् , सर्वः संसारो बन्धगोचर उक्तो भवति ; तस्य च समष्टिव्यष्ट्यात्मदर्शनस्य अलौकिकत्वप्रदर्शनार्थम् आख्यायिकामात्मनो वृत्तां प्रकुरुते ; तेन च प्रतिवादिबुद्धिं व्यामोहयिष्यामीति मन्यते ॥
मद्रेषु — मद्रा नाम जनपदाः तेषु, चरकाः — अध्ययनार्थं व्रतचरणाच्चरकाः अध्वर्यवो वा, पर्यव्रजाम पर्यटितवन्तः ; ते पतञ्जलस्य — ते वयं पर्यटन्तः, पतञ्जलस्य नामतः, काप्यस्य कपिगोत्रस्य, गृहान् ऐम गतवन्तः ; तस्यासीद्दुहिता गन्धर्वगृहीता — गन्धर्वेण अमानुषेण सत्त्वेन केनचित् आविष्टा ; गन्धर्वो वा धिष्ण्योऽग्निः ऋत्विक् देवता विशिष्टविज्ञानत्वात् अवसीयते ; न हि सत्त्वमात्रस्य ईदृशं विज्ञानमुपपद्यते । तं सर्वे वयं परिवारिताः सन्तः अपृच्छाम — कोऽसीति — कस्त्वमसि किन्नामा किंसतत्त्वः । सोऽब्रवीद्गन्धर्वः — सुधन्वा नामतः, आङ्गिरसो गोत्रतः । तं यदा यस्मिन्काले लोकानाम् अन्तान् पर्यवसानानि अपृच्छाम, अथ एनं गन्धर्वम् अब्रूम — भुवनकोशपरिमाणज्ञानाय प्रवृत्तेषु सर्वेषु आत्मानं श्लाघयन्तः पृष्टवन्तो वयम् ; कथम् ? क्व पारिक्षिता अभवन्निति । स च गन्धर्वः सर्वमस्मभ्यमब्रवीत् । तेन दिव्येभ्यो मया लब्धं ज्ञानम् ; तत् तव नास्ति ; अतो निगृहीतोऽसि’ — इत्यभिप्रायः । सोऽहं विद्यासम्पन्नो लब्धागमो गन्धर्वात् त्वा त्वाम् पृच्छामि याज्ञवल्क्य — क्व पारिक्षिता अभवन् — तत् त्वं किं जानासि ? हे याज्ञवल्क्य, कथय, पृच्छामि — क्व पारिक्षिता अभवन्निति ॥
स होवाचोवाच वै सोऽगच्छन्वै ते तद्यत्राश्वमेधयाजिनो गच्छन्तीति क्व न्वश्वमेधयाजिनो गच्छन्तीति द्वात्रिंशतं वै देवरथाह्न्यान्ययं लोकस्तं समन्तं पृथिवी द्विस्तावत्पर्येति तां समन्तं पृथिवीं द्विस्तावत्समुद्रः पर्येति तद्यावती क्षुरस्य धारा यावद्वा पक्षिकायाः पत्रं तावानन्तरेणाकाशस्तानिन्द्रः सुपर्णो भूत्वा वायवे प्रायच्छत्तान्वायुरात्मनि धित्वा तत्रागमयद्यत्राश्वमेधयाजिनोऽभवन्नित्येवमिव वै स वायुमेव प्रशशंस तस्माद्वायुरेव व्यष्टिर्वायुः समष्टिरप पुनर्मृत्युं जयति य एवं वेद ततो ह भुज्युर्लाह्यायनिरुपरराम ॥ २ ॥
स होवाच याज्ञवल्क्यः ; उवाच वै सः — वै - शब्दः स्मरणार्थः — उवाच वै स गन्धर्वः तुभ्यम् । अगच्छन्वै ते पारिक्षिताः, तत् तत्र ; क्व ? यत्र यस्मिन् अश्वमेधयाजिनो गच्छन्ति — इति निर्णीते प्रश्न आह — क्व नु कस्मिन् अश्वमेधयाजिनो गच्छन्तीति । तेषां गतिविवक्षया भुवनकोशापरिमाणमाह — द्वात्रिंशतं वै, द्वे अधिके त्रिंशत् , द्वात्रिंशतं वै, देवरथाह्न्यानि — देव आदित्यः तस्य रथो देवरथः तस्य रथस्य गत्या अह्ना यावत्परिच्छिद्यते देशपरिमाणं तत् देवरथाह्न्यम् , तद्द्वात्रिंशद्गुणितं देवरथाह्न्यानि, तावत्परिमाणोऽयं लोकः लोकालोकगिरिणा परिक्षिप्तः — यत्र वैराजं शरीरम् , यत्र च कर्मफलोपभोगः प्राणिनाम् , स एष लोकः ; एतावान् लोकः, अतः परम् अलोकः, तं लोकं समन्तं समन्ततः, लोकविस्तारात् द्विगुणपरिमाणविस्तारेण परिमाणेन, तं लोकं परिक्षिप्ता पर्येति पृथिवी ; तां पृथिवीं तथैव समन्तम् , द्विस्तावत् — द्विगुणेन परिमाणेन समुद्रः पर्येति, यं घनोदमाचक्षते पौराणिकाः । तत्र अण्डकपालयोर्विवरपरिमाणमुच्यते, येन विवरेण मार्गेण बहिर्निर्गच्छन्तो व्याप्नुवन्ति अश्वमेधयाजिनः ; तत्र यावती यावत्परिमाणा क्षुरस्य धारा अग्रम् , यावद्वा सौक्ष्म्येण युक्तं मक्षिकायाः पत्रम् , तावान् तावत्परिमाणः, अन्तरेण मध्येऽण्डकपालयोः, आकाशः छिद्रम् , तेन आकाशेनेत्येतत् ; तान् पारिक्षितानश्वमेधयाजिनः प्राप्तान् इन्द्रः परमेश्वरः — योऽश्वमेधेऽग्निश्चितः, सुपर्णः — यद्विषयं दर्शनमुक्तम् ‘तस्य प्राची दिक्शिरः’ (बृ. उ. १ । २ । ४) इत्यादिना — सुपर्णः पक्षी भूत्वा, पक्षपुच्छात्मकः सुपर्णो भूत्वा, वायवे प्रायच्छत् — मूर्तत्वान्नास्त्यात्मनो गतिस्तत्रेति । तान् पारिक्षितान् वायुः आत्मनि धित्वा स्थापयित्वा स्वात्मभूतान्कृत्वा तत्र तस्मिन् अगमयत् ; क्व ? यत्र पूर्वे अतिक्रान्ताः पारिक्षिता अश्वमेधयाजिनोऽभवन्निति । एवमिव वै — एवमेव स गन्धर्वः वायुमेव प्रशशंस पारिक्षितानां गतिम् । समाप्ता आख्यायिका ; आख्यायिकानिर्वृत्तं तु अर्थम् आख्यायिकातोऽपसृत्य स्वेन श्रुतिरूपेणैव आचष्टेऽस्मभ्यम् । यस्मात् वायुः स्थावरजङ्गमानां भूतानामन्तरात्मा, बहिश्च स एव, तस्मात् अध्यात्माधिभूताधिदैवभावेन विविधा या अष्टिः व्याप्तिः स वायुरेव ; तथा समष्टिः केवलेन सूत्रात्मना वायुरेव । एवं वायुमात्मानं समष्टिव्यष्टिरूपात्मकत्वेन उपगच्छति यः — एवं वेद, तस्य किं फलमित्याह — अप पुनर्मृत्युं जयति, सकृन्मृत्वा पुनर्न म्रियते । तत आत्मनः प्रश्ननिर्णयात् भुज्युर्लाह्यायनिरुपरराम ॥
इति तृतीयाध्यायस्य तृतीयं ब्राह्मणम् ॥
अथ हैनमुषस्तश्चाक्रायणः पप्रच्छ । पुण्यपापप्रयुक्तैर्ग्रहातिग्रहैर्गृहीतः पुनः पुनः ग्रहातिग्रहान् त्यजन् उपाददत् संसरतीत्युक्तम् ; पुण्यस्य च पर उत्कर्षो व्याख्यातः व्याकृतविषयः समष्टिव्यष्टिरूपः द्वैतैकत्वात्मप्राप्तिः । यस्तु ग्रहातिग्रहैर्ग्रस्तः संसरति, सः अस्ति वा, न अस्ति ; अस्तित्वे च किंलक्षणः — इति आत्मन एव विवेकाधिगमाय उषस्तप्रश्न आरभ्यते । तस्य च निरुपाधिस्वरूपस्य क्रियाकारकविनिर्मुक्तस्वभावस्य अधिगमात् यथोक्ताद्बन्धनात् विमुच्यते सप्रयोजकात् आख्यायिकसम्बन्धस्तु प्रसिद्धः ॥
अथ हैनमुषस्तश्चाक्रायणः पप्रच्छ याज्ञवल्क्येति होवाच यत्साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरस्तं मे व्याचक्ष्वेत्येष त आत्मा सर्वान्तरः कतमो याज्ञवल्क्य सर्वान्तरो यः प्राणेन प्राणिति स त आत्मा सर्वान्तरो योऽपानेनापानीति स त आत्मा सर्वान्तरो यो व्यानेन व्यानीति स त आत्मा सर्वान्तरो य उदानेनोदानिति स त आत्मा सर्वान्तर एष त आत्मा सर्वान्तरः ॥ १ ॥
अथ ह एनं प्रकृतं याज्ञवल्क्यम् , उषस्तो नामतः, चक्रस्यापत्यं चाक्रायणः, पप्रच्छ । यत् ब्रह्म साक्षात् अव्यवहितं केनचित् द्रष्टुः अपरोक्षात् — अगौणम् — न श्रोत्रब्रह्मादिवत् — किं तत् ? य आत्मा — आत्मशब्देन प्रत्यगात्मोच्यते, तत्र आत्मशब्दस्य प्रसिद्धत्वात् ; सर्वस्याभ्यन्तरः सर्वान्तरः ; यद्यःशब्दाभ्यां प्रसिद्ध आत्मा ब्रह्मेति — तम् आत्मानम् , मे मह्यम् , व्याचक्ष्वेति — विस्पष्टं शृङ्गे गृहीत्वा यथा गां दर्शयति तथा आचक्ष्व, सोऽयमित्येवं कथयस्वेत्यर्थः । एवमुक्तः प्रत्याह याज्ञवल्क्यः — एषः ते तव आत्मा सर्वान्तरः सर्वस्याभ्यन्तरः ; सर्वविशेषणोपलक्षणार्थं सर्वान्तरग्रहणम् ; यत् साक्षात् अव्यवहितम् अपरोक्षात् अगौणम् ब्रह्म बृहत्तमम् आत्मा सर्वस्य सर्वस्याभ्यन्तरः, एतैर्गुणैः समस्तैर्युक्तः एषः, कोऽसौ तवात्मा ? योऽयं कार्यकरणसङ्घातः तव सः येनात्मना आत्मवान् स एष तव आत्मा — तव कार्यकरणसङ्घातस्येत्यर्थः । तत्र पिण्डः, तस्याभ्यन्तरे लिङ्गात्मा करणसङ्घातः, तृतीयो यश्च सन्दिह्यमानः — तेषु कतमो मम आत्मा सर्वान्तरः त्वया विवक्षित इत्युक्ते इतर आह — यः प्राणेन मुखनासिकासञ्चारिणा प्राणिति प्राणचेष्टां करोति, येन प्राणः प्रणीयत इत्यर्थः — सः ते तव कार्यकरणसङ्घातस्य आत्मा विज्ञानमयः ; समानमन्यत् ; योऽपानेनापानीति यो व्यानेन व्यानीतीति — छान्दसं दैर्घ्यम् । सर्वाः कार्यकरणसङ्घातगताः प्राणनादिचेष्टा दारुयन्त्रस्येव येन क्रियन्ते — न हि चेतनावदनधिष्ठितस्य दारुयन्त्रस्येव प्राणनादिचेष्टा विद्यन्ते ; तस्मात् विज्ञानमयेनाधिष्ठितं विलक्षणेन दारुयन्त्रवत् प्राणनादिचेष्टां प्रतिपद्यते — तस्मात् सोऽस्ति कार्यकरणसङ्घातविलक्षणः, यश्चेष्टयति ॥
स होवाचोषस्तश्चाक्रायणो यथा विब्रूयादसौ गौरसावश्व इत्येवमेवैतद्व्यपदिष्टं भवति यदेव साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरस्तं मे व्याचक्ष्वेत्येष त आत्मा सर्वान्तरः कतमो याज्ञवल्क्य सर्वान्तरः । न दृष्टेर्द्रष्टारं पश्येर्न श्रुतेः श्रोतारं शृणुया न मतेर्मन्तारं मन्वीथा न विज्ञातेर्विज्ञातारं विजानीयाः । एष त आत्मा सर्वान्तरोऽतोऽन्यदार्तं ततो होषस्तश्चाक्रायण उपरराम ॥ २ ॥
स होवाचोषस्तश्चाक्रायणः ; यथा कश्चित् अन्यथा प्रतिज्ञाय पूर्वम् , पुनर्विप्रतिपन्नो ब्रूयादन्यथा — असौ गौरः असावश्वः यश्चलति धावतीति वा, पूर्वं प्रत्यक्षं दर्शयामीति प्रतिज्ञाय, पश्चात् चलनादिलिङ्गैर्व्यपदिशति — एवमेव एतद्ब्रह्म प्राणनादिलिङ्गैर्व्यपदिष्टं भवति त्वया ; किं बहुना ? त्यक्त्वा गोतृष्णानिमित्तं व्याजम् , यदेव साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरः, तं मे व्याचक्ष्वेति । इतर आह — यथा मया प्रथमं प्रतिज्ञातः तव आत्मा — एवँलक्षण इति — तां प्रतिज्ञामनुवर्त एव ; तत् तथैव, यथोक्तं मया । यत्पुनरुक्तम् , तमात्मानं घटादिवत् विषयीकुर्विति — तत् अशक्यत्वान्न क्रियते । कस्मात्पुनः तदशक्यमित्याह — वस्तुस्वाभाव्यात् ; किं पुनः तत् वस्तुस्वाभाव्यम् ? दृष्ट्यादिद्रष्टृत्वम् ; दृष्टेर्द्रष्टा ह्यात्मा ; दृष्टिरिति द्विविधा भवति — लौकिकी पारमार्थिकी चेति ; तत्र लौकिकी चक्षुःसंयुक्तान्तःकरणवृत्तिः ; सा क्रियत इति जायते विनश्यति च ; या तु आत्मनो दृष्टिः अग्न्युष्णप्रकाशादिवत् , सा च द्रष्टुः स्वरूपत्वात् , न जायते न विनश्यति च ; सा क्रियमाणया उपाधिभूतया संसृष्टेवेति, व्यपदिश्यते — द्रष्टेति, भेदवच्च — द्रष्टा दृष्टिरिति च ; यासौ लौकिकी दृष्टिः चक्षुर्द्वारा रूपोपरक्ता जायमानैव नित्यया आत्मदृष्ट्या संसृष्टेव, तत्प्रतिच्छाया — तया व्याप्तैव जायते, तथा विनश्यति च ; तेन उपचर्यते द्रष्टा सदा पश्यन्नपि — पश्यति न पश्यति चेति ; न तु पुनः द्रष्टुर्दृष्टेः कदाचिदप्यन्यथात्वम् ; तथा च वक्ष्यति षष्ठे — ‘ध्यायतीव लेलायतीव’ (बृ. उ. ४ । ३ । ७), ‘न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यते’ (बृ. उ. ४ । ३ । २३) इति च । तमिममर्थमाह — लौकिक्या दृष्टेः कर्मभूतायाः, द्रष्टारं स्वकीयया नित्यया दृष्ट्या व्याप्तारम् , न पश्येः ; यासौ लौकिकी दृष्टिः कर्मभूता, सा रूपोपरक्ता रूपाभिव्यञ्जिका न आत्मानं स्वात्मनो व्याप्तारं प्रत्यञ्चं व्याप्नोति ; तस्मात् तं प्रत्यगात्मानं दृष्टेर्द्रष्टारं न पश्येः । तथा श्रुतेः श्रोतारं न शृणुयाः । तथा मतेः मनोवृत्तेः केवलाया व्याप्तारं न मन्वीथाः । तथा विज्ञातेः केवलाया बुद्धिवृत्तेः व्याप्तारं न विजानीयाः । एष वस्तुनः स्वभावः ; अतः नैव दर्शयितुं शक्यते गवादिवत् ॥
‘न दृष्टेर्द्रष्टारम्’ इत्यत्र अक्षराणि अन्यथा व्याचक्षते केचित् — न दृष्टेर्द्रष्टारम् दृष्टेः कर्तारम् दृष्टिभेदमकृत्वा दृष्टिमात्रस्य कर्तारम् , न पश्येरिति ; दृष्टेरिति कर्मणि षष्ठी ; सा दृष्टिः क्रियमाणा घटवत् कर्म भवति ; द्रष्टारमिति तृजन्तेन द्रष्टुर्दृष्टिकर्तृत्वमाचष्टे ; तेन असौ दृष्टेर्द्रष्टा दृष्टेः कर्तेति व्याख्यातॄणामभिप्रायः । तत्र दृष्टेरिति षष्ठ्यन्तेन दृष्टिग्रहणं निरर्थकमिति दोषं न पश्यन्ति ; पश्यतां वा पुनरुक्तम् असारः प्रमादपाठ इति वा न आदरः ; कथं पुनराधिक्यम् ? तृजन्तेनैव दृष्टिकर्तृत्वस्य सिद्धत्वात् दृष्टेरिति निरर्थकम् ; तदा ‘द्रष्टारं न पश्येः’ इत्येतावदेव वक्तव्यम् ; यस्माद्धातोः परः तृच् श्रूयते, तद्धात्वर्थकर्तरि हि तृच् स्मर्यते ; ‘गन्तारं भेत्तारं वा नयति’ इत्येतावानेव हि शब्दः प्रयुज्यते ; न तु ‘गतेर्गन्तारं भिदेर्भेत्तारम्’ इति असति अर्थविशेषे प्रयोक्तव्यः ; न च अर्थवादत्वेन हातव्यां सत्यां गतौ ; न च प्रमादपाठः, सर्वेषामविगानात् ; तस्मात् व्याख्यातॄणामेव बुद्धिदौर्बल्यम् , नाध्येतृप्रमादः । यथा तु अस्माभिर्व्याख्यातम् — लौकिकदृष्टेर्विविच्य नित्यदृष्टिविशिष्ट आत्मा प्रदर्शयितव्यः — तथा कर्तृकर्मविशेषणत्वेन दृष्टिशब्दस्य द्विः प्रयोग उपपद्यते आत्मस्वरूपनिर्धारणाय ; ‘न हि द्रष्टुर्दृष्टेः’ इति च प्रदेशान्तरवाक्येन एकवाक्यतोपपन्ना भवति ; तथा च ‘चक्षूंषि पश्यति’ (के. उ. १ । ७) ‘श्रोत्रमिदं श्रुतम्’ (के. उ. १ । ८) इति श्रुत्यन्तरेण एकवाक्यता उपपन्ना । न्यायाच्च — एवमेव हि आत्मनो नित्यत्वमुपपद्यते विक्रियाभावे ; विक्रियावच्च नित्यमिति च विप्रतिषिद्धम् । ‘ध्यायतीव लेलायतीव’ (बृ. उ. ४ । ३ । ७) ‘न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यते’ (बृ. उ. ४ । ३ । २३) ‘एष नित्यो महिमा ब्राह्मणस्य’ (बृ. उ. ४ । ४ । २३) इति च श्रुत्यक्षराणि अन्यथा न गच्छन्ति । ननु द्रष्टा श्रोता मन्ता विज्ञाता इत्येवमादीन्यक्षराणि आत्मनोऽविक्रियत्वे न गच्छन्तीति — न, यथाप्राप्तलौकिकवाक्यानुवादित्वात् तेषाम् ; न आत्मतत्त्वनिर्धारणार्थानि तानि ; ‘न दृष्टेर्द्रष्टारम्’ इत्येवमादीनाम् अन्यार्थासम्भवात् यथोक्तार्थपरत्वमवगम्यते । तस्मात् अनवबोधादेव हि विशेषणं परित्यक्तं दृष्टेरिति । एषः ते तव आत्मा सर्वैरुक्तैर्विशेषणैर्विशिष्टः ; अतः एतस्मादात्मनः अन्यदार्तम् — कार्यं वा शरीरम् , करणात्मकं वा लिङ्गम् ; एतदेव एकम् अनार्तम् अविनाशि कूटस्थम् । ततो ह उषस्तश्चाक्रायण उपरराम ॥
इति तृतीयाध्यायस्य चतुर्थं ब्राह्मणम् ॥
बन्धनं सप्रयोजकमुक्तम् । यश्च बद्धः, तस्यापि अस्तित्वमधिगतम् , व्यतिरिक्तत्वं च । तस्य इदानीं बन्धमोक्षसाधनं ससन्न्यासमात्मज्ञानं वक्तव्यमिति कहोलप्रश्न आरभ्यते —
अथ हैनं कहोलः कौषीतकेयः पप्रच्छ याज्ञवल्क्येति होवाच यदेव साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरस्तं मे व्याचक्ष्वेत्येष त आत्मा सर्वान्तरः । कतमो याज्ञवल्क्य सर्वान्तरो योऽशनायापिपासे शोकं मोहं जरां मृत्युमत्येति । एतं वै तमात्मानं विदित्वा ब्राह्मणाः पुत्रैषणायाश्च वित्तैषणायाश्च लोकैषणायाश्च व्युत्थायाथ भिक्षाचर्यं चरन्ति या ह्येव पुत्रैषणा सा वित्तैषणा या वित्तैषणा सा लोकैषणोभे ह्येते एषणे एव भवतः । तस्माद्ब्राह्मणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेत् । बाल्यं च पाण्डित्यं च निर्विद्याथ मुनिरमौनं च मौनं च निर्विद्याथ ब्राह्मणः स ब्राह्मणः केन स्याद्येन स्यात्तेनेदृश एवातोऽन्यदार्तं ततो ह कहोलः कौषीतकेय उपरराम ॥ १ ॥
अथ ह एनं कहोलो नामतः, कुषीतकस्यापत्यं कौषीतकेयः, पप्रच्छ ; याज्ञवल्क्येति होवाचेति, पूर्ववत् — यदेव साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरः तं मे व्याचक्ष्वेति — यं विदित्वा बन्धनात्प्रमुच्यते । याज्ञवल्क्य आह — एष ते तव आत्मा ॥
किम् उषस्तकहोलाभ्याम् एक आत्मा पृष्टः, किं वा भिन्नावात्मानौ तुल्यलक्षणाविति । भिन्नाविति युक्तम् , प्रश्नयोरपुनरुक्तत्वोपपत्तेः ; यदि हि एक आत्मा उषस्तकहोलप्रश्नयोर्विवक्षितः, तत्र एकेनैव प्रश्नेन अधिगतत्वात् तद्विषयो द्वितीयः प्रश्नोऽनर्थकः स्यात् ; न च अर्थवादरूपत्वं वाक्यस्य ; तस्मात् भिन्नावेतावात्मानौ क्षेत्रज्ञपरमात्माख्याविति केचिद्व्याचक्षते । तन्न, ‘ते’ इति प्रतिज्ञानात् ; ‘एष त आत्मा’ इति हि प्रतिवचने प्रतिज्ञातम् ; न च एकस्य कार्यकरणसङ्घातस्य द्वावात्मानौ उपपद्येते ; एको हि कार्यकरणसङ्घातः एकेन आत्मना आत्मवान् ; न च उषस्तस्यान्यः कहोलस्यान्यः जातितो भिन्न आत्मा भवति, द्वयोः अगौणत्वात्मत्वसर्वान्तरत्वानुपपत्तेः ; यदि एकमगौणं ब्रह्म द्वयोः इतरेण अवश्यं गौणेन भवितव्यम् ; तथा आत्मत्वं सर्वान्तरत्वं च — विरुद्धत्वात्पदार्थानाम् ; यदि एकं सर्वान्तरं ब्रह्म आत्मा मुख्यः, इतरेण असर्वान्तरेण अनात्मना अमुख्येन अवश्यं भवितव्यम् ; तस्मात् एकस्यैव द्विः श्रवणं विशेषविवक्षया । यत्तु पूर्वोक्तेन समानं द्वितीये प्रश्नान्तर उक्तम् , तावन्मात्रं पूर्वस्यैवानुवादः — तस्यैव अनुक्तः कश्चिद्विशेषः वक्तव्य इति । कः पुनरसौ विशेष इत्युच्यते — पूर्वस्मिन्प्रश्ने — अस्ति व्यतिरिक्त आत्मा यस्यायं सप्रयोजको बन्ध उक्त इति द्वितीये तु — तस्यैव आत्मनः अशनायादिसंसारधर्मातीतत्वं विशेष उच्यते — यद्विशेषपरिज्ञानात् सन्न्याससहितात् पूर्वोक्ताद्बन्धनात् विमुच्यते । तस्मात् प्रश्नप्रतिवचनयोः ‘एष त आत्मा’ इत्येवमन्तयोः तुल्यार्थतैव । ननु कथम् एकस्यैव आत्मनः अशनायाद्यतीतत्वं तद्वत्त्वं चेति विरुद्धधर्मसमवायित्वमिति — न, परिहितत्वात् ; नामरूपविकारकार्यकरणलक्षणसङ्घातोपाधिभेदसम्पर्कजनितभ्रान्तिमात्रं हि संसारित्वमित्यसकृदवोचाम, विरुद्धश्रुतिव्याख्यानप्रसङ्गेन च ; यथा रज्जुशुक्तिकागगनादयः सर्परजतमलिना भवन्ति पराध्यारोपितधर्मविशिष्टाः, स्वतः केवला एव रज्जुशुक्तिकागगनादयः — न च एवं विरुद्धधर्मसमवायित्वे पदार्थानां कश्चन विरोधः । नामरूपोपाध्यस्तित्वे ‘एकमेवाद्वितीयम्’ (छा. उ. ६ । २ । १) ‘नेह नानास्ति किञ्चन’ (बृ. उ. ४ । ४ । १९) इति श्रुतयो विरुध्येरन्निति चेत् — न, सलिलफेनदृष्टान्तेन परिहृतत्वात् मदादिदृष्टान्तैश्च ; यदा तु परमार्थदृष्ट्या परमात्मतत्त्वात् श्रुत्यनुसारिभिः अन्यत्वेन निरूप्यमाणे नामरूपे मृदादिविकारवत् वस्त्वन्तरे तत्त्वतो न स्तः — सलिलफेनघटादिविकारवदेव, तदा तत् अपेक्ष्य ‘एकमेवाद्वितीयम्’ (छा. उ. ६ । २ । १) ‘नेह नानास्ति किञ्चन’ (बृ. उ. ४ । ४ । १९) इत्यादिपरमार्थदर्शनगोचरत्वं प्रतिपद्यते ; रूपवदेव स्वेन रूपेण वर्तमानं केनचिदस्पृष्टस्वभावमपि सत् नामरूपकृतकार्यकरणोपाधिभ्यो विवेकेन नावधार्यते, नामरूपोपाधिदृष्टिरेव च भवति स्वाभाविकी, तदा सर्वोऽयं वस्त्वन्तरास्तित्वव्यवहारः । अस्ति चायं भेदकृतो मिथ्याव्यवहारः, येषां ब्रह्मतत्त्वादन्यत्वेन वस्तु विद्यते, येषां च नास्ति ; परमार्थवादिभिस्तु श्रुत्यनुसारेण निरूप्यमाणे वस्तुनि — किं तत्त्वतोऽस्ति वस्तु किं वा नास्तीति, ब्रह्मैकमेवाद्वितीयं सर्वसंव्यवहारशून्यमिति निर्धार्यते ; तेन न कश्चिद्विरोधः । न हि परमार्थावधारणनिष्ठायां वस्त्वन्तरास्तित्वं प्रतिपद्यामहे — ‘एकमेवाद्वितीयम्’ (छा. उ. ६ । २ । १) ‘अनन्तरमबाह्यम्’ (बृ. उ. २ । ५ । १९), (बृ. उ. ३ । ८ । ८) इति श्रुतेः ; न च नामरूपव्यवहारकाले तु अविवेकिनां क्रियाकारकफलादिसंव्यवहारो नास्तीति प्रतिषिध्यते । तस्मात् ज्ञानाज्ञाने अपेक्ष्य सर्वः संव्यवहारः शास्त्रीयो लौकिकश्च ; अतो न काचन विरोधशङ्का । सर्ववादिनामप्यपरिहार्यः परमार्थसंव्यवहारकृतो व्यवहारः ॥
तत्र परमार्थात्मस्वरूपमपेक्ष्य प्रश्नः पुनः — कतमो याज्ञवल्क्य सर्वान्तर इति । प्रत्याह इतरः — योऽशनायापिपासे, अशितुमिच्छा अशनाया, पातुमिच्छा पिपासा ; ते अशनायापिपासे योऽत्येतीति वक्ष्यमाणेन सम्बन्धः । अविवेकिभिः तलमलवदिव गगनं गम्यमानमेव तलमले अत्येति — परमार्थतः — ताभ्यामसंसृष्टस्वभावत्वात् — तथा मूढैः अशनायापिपासादिमद्ब्रह्म गम्यमानमपि — क्षुधितोऽहं पिपासितोऽहमिति, ते अत्येत्येव — परमार्थतः — ताभ्यामसंसृष्टस्वभावत्वात् ; ‘न लिप्यते लोकदुःखेन बाह्यः’ (क. उ. २ । २ । ११) इति श्रुतेः — अविद्वल्लोकाध्यारोपितदुःखेनेत्यर्थः । प्राणैकधर्मत्वात् समासकरणमशनायापिपासयोः । शोकं मोहम् — शोक इति कामः ; इष्टं वस्तु उद्दिश्य चिन्तयतो यत् अरमणम् , तत् तृष्णाभिभूतस्य कामबीजम् ; तेन हि कामो दीप्यते ; मोहस्तु विपरीतप्रत्ययप्रभवोऽविवेकः भ्रमः ; स च अविद्या सर्वस्यानर्थस्य प्रसवबीजम् ; भिन्नकार्यत्वात्तयोः शोकमोहयोः असमासकरणम् । तौ मनोऽधिकरणौ ; तथा शरीराध िकरणौ जरां मृत्युं च अत्येति ; जरेति कार्यकरणसङ्घातविपरिणामः वलीपलितादिलिङ्गः ; मृत्युरिति तद्विच्छेदः विपरिणामावसानः ; तौ जरामृत्यू शरीराधिकरणौ अत्येति । ये ते अशनायादयः प्राणमनःशरीराधिकरणाः प्राणिषु अनवरतं वर्तमानाः अहोरात्रादिवत् समुद्रोर्मिवच्च प्राणिषु संसार इत्युच्यन्ते ; योऽसौ दृष्टेर्दृष्टेत्यादिलक्षणः साक्षादव्यवहितः अपरोक्षादगौणः सर्वान्तर आत्मा ब्रह्मादिस्तम्बपर्यन्तानां भूतानाम् अशनायापिपासादिभिः संसारधर्मैः सदा न स्पृश्यते — आकाश इव घनादिमलैः — तम् एतं वै आत्मानं स्वं तत्त्वम् , विदित्वा ज्ञात्वा — अयमहमस्मि परं ब्रह्म सदा सर्वसंसारविनिर्मुक्तं नित्यतृप्तमिति, ब्राह्मणाः — ब्राह्मणानामेवाधिकारो व्युत्थाने, अतो ब्राह्मणग्रहणम् — व्युत्थाय वैपरीत्येनोत्थानं कृत्वा ; कुत इत्याह — पुत्रैषणायाः पुत्रार्थैषणा पुत्रैषणा — पुत्रेणेमं लोकं जयेयमिति लोकजयसाधनं पुत्रं प्रति इच्छा एषणा दारसङ्ग्रहः ; दारसङ्ग्रहमकृत्वेत्यर्थः ; वित्तैषणायाश्च — कर्मसाधनस्य गवादेरुपदानम् — अनेन कर्मकृत्वा पितृलोकं जेष्यामीति, विद्यासंयुक्तेन वा देवलोकम् , केवलया वा हिरण्यगर्भविद्यया दैवेन वित्तेन देवलोकम् । दैवाद्वित्तात् व्युत्थानमेव नास्तीति केचित् , यस्मात् तद्बलेन हि किल व्युत्थानमिति — तदसत् , ‘एतावान्वै कामः’ (बृ. उ. १ । ४ । १७) इति पठितत्वात् एषणामध्ये दैवस्य वित्तस्य ; हिरण्यगर्भादिदेवताविषयैव विद्या वित्तमित्युच्यते, देवलोकहेतुत्वात् ; नहि निरुपाधिकप्रज्ञानघनविषया ब्रह्मविद्या देवलोकप्राप्तिहेतुः, ‘तस्मात्तत्सर्वमभवत्’ (बृ. उ. १ । ४ । १०) ‘आत्मा ह्येषां स भवति’ (बृ. उ. १ । ४ । १) इति श्रुतेः ; तद्बलेन हि व्युत्थानम् , ‘एतं वै तमात्मानं विदित्वा’ (बृ. उ. ३ । ५ । १) इति विशेषवचनात् । तस्मात् त्रिभ्योऽप्येतेभ्यः अनात्मलोकप्राप्तिसाधनेभ्यः एषणाविषयेभ्यो व्युत्थाय — एषणा कामः, ‘एतावान्वै कामः’ (बृ. उ. १ । ४ । १७) इति श्रुतेः — एतस्मिन् विविधे अनात्मलोकप्राप्तिसाधने तृष्णामकृत्वेत्यर्थः । सर्वा हि साधनेच्छा फलेच्छैव, अतो व्याचष्टे श्रुतिः — एकैव एषणेति ; कथम् ? या ह्येव पुत्रैषणा सा वित्तैषणा, दृष्टफलसाधनत्वतुल्यत्वात् ; या वित्तैषणा सा लोकैषणा ; फलार्थैव सा ; सर्वः फलार्थप्रयुक्त एव हि सर्वं साधनमुपादत्ते ; अत एकैव एषणा या लोकैषणा सा साधनमन्तरेण सम्पादयितुं न शक्यत इति, साध्यसाधनभेदेन उभे हि यस्मात् एते एषणे एव भवतः । तस्मात् ब्रह्मविदो नास्ति कर्म कर्मसाधनं वा — अतो येऽतिक्रान्ता ब्राह्मणाः, सर्वं कर्म कर्मसाधनं च सर्वं देवपितृमानुषनिमित्तं यज्ञोपवीतादि — तेन हि दैवं पित्र्यं मानुषं च कर्म क्रियते, ‘निवीतं मनुष्याणाम्’ (तै. सं. २ । ५ । ११ । १) इत्यादिश्रुतेः । तस्मात् पूर्वे ब्राह्मणाः ब्रह्मविदः व्युत्थाय कर्मभ्यः कर्मसाधनेभ्यश्च यज्ञोपवीतादिभ्यः, परमहंसपारिव्राज्यं प्रतिपद्य, भिक्षाचर्यं चरन्ति — भिक्षार्थं चरणं भिक्षाचर्यम् , चरन्ति — त्यक्त्वा स्मार्तं लिङ्गं केवलमाश्रममात्रशरणानां जीवनसाधनं पारिव्राज्यव्यञ्जकम् ; विद्वान् लिङ्गवर्जितः — ‘तस्मादलिङ्गो धर्मज्ञोऽव्यक्तलिङ्गोऽव्यक्ताचारः’ (अश्व. ४६ । ५१) (व. १० । १२) इत्यादिस्मृतिभ्यः, ‘अथ परिव्राड्विवर्णवासा मुण्डोऽपरिग्रहः’ (जा. उ. ५) इत्यादिश्रुतेः, ‘सशिखान्केशान्निकृत्य विसृज्य यज्ञोपवीतम्’ (क. रु. १) इति च ॥
ननु ‘व्युत्थायाथ भिक्षाचर्यं चरन्ति’ इति वर्तमानापदेशात् अर्थवादोऽयम् ; न विधायकः प्रत्ययः कश्चिच्छ्रूयते लिङ्लोट्तव्यानामन्यतमोऽपि ; तस्मात् अर्थवादमात्रेण श्रुतिस्मृतिविहितानां यज्ञोपवीतादीनां साधनानां न शक्यते परित्यागः कारयितुम् ; ‘यज्ञोपवीत्येवाधीयीत याजयेद्यजेत वा’ (तै. आ. २ । १ । १) । पारिव्राज्ये तावदध्ययनं विहितम् — ‘वेदसन्न्यसनाच्छूद्रस्तस्माद्वेदं न सन्न्यसेत्’ इति ; ‘स्वाध्याय एवोत्सृज्यमानो वाचम्’ (आ. ध. २ । २१ । १०) इति च आपस्तम्बः ; ‘ब्रह्मोज्झं वेदनिन्दा च कौटसाक्ष्यं सुहृद्वधः । गर्हितान्नाद्ययोर्जग्धिः सुरापानसमानि षट्’ (मनु. ११ । ५६) — इति वेदपरित्यागे दोषश्रवणात् । ‘उपासने गुरूणां वृद्धानामतिथीनां होमे जप्यकर्मणि भोजन आचमने स्वाध्याये च यज्ञोपवीती स्यात्’ (आ. ध. १ । १५ । १) इति परिव्राजकधर्मेषु च गुरूपासनस्वाध्याय भोजनाचमनादीनां कर्मणां श्रुतिस्मृतिषु कर्तव्यतया चोदितत्वात् गुर्वाद्युपासनाङ्गत्वेन यज्ञोपवीतस्य विहितत्वात् तत्परित्यागो नैवावगन्तुं शक्यते । यद्यपि एषणाभ्यो व्युत्थानं विधीयत एव, तथापि पुत्राद्येषणाभ्यस्तिसृभ्य एव व्युत्थानम् , न तु सर्वस्मात्कर्मणः कर्मसाधनाच्च व्युत्थानम् ; सर्वपरित्यागे च अश्रुतं कृतं स्यात् , श्रुतं च यज्ञोपवीतादि हापितं स्यात् ; तथा च महानपराधः विहिताकरणप्रतिषिद्धाचरणनिमित्तः कृतः स्यात् ; तस्मात् यज्ञोपवीतादिलिङ्गपरित्यागोऽन्धपरम्परैव ॥
न, ‘यज्ञोपवीतं वेदांश्च सर्वं तद्वर्जयेद्यतिः’ (क. रु. २) इति श्रुतेः । अपि च आत्मज्ञानपरत्वात्सर्वस्या उपनिषदः — आत्मा द्रष्टव्यः श्रोतव्यो मन्तव्य इति हि प्रस्तुतम् ; स च आत्मैव साक्षादपरोक्षात्सर्वान्तरः अशनायादिसंसारधर्मवर्जित इत्येवं विज्ञेय इति तावत् प्रसिद्धम् ; सर्वा हीयमुपनिषत् एवंपरेति विध्यन्तरशेषत्वं तावन्नास्ति, अतो नार्थवादः, आत्मज्ञानस्य कर्तव्यत्वात् । आत्मा च अशनायादिधर्मवान्न भवतीति साधनफलविलक्षणो ज्ञातव्यः ; अतोऽव्यतिरेकेण आत्मनो ज्ञानमविद्या — ‘अन्योऽसावन्योऽहमस्मीति’, (बृ. उ. १ । ४ । १०) न स वेद, ‘मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति’, (बृ. उ. ४ । ४ । १९) ‘एकधैवानुद्रष्टव्यम्’, (छा. उ. ६ । २ । १) ‘एकमेवाद्वितीयम्’, ‘तत्त्वमसि’ (छा. उ. ६ । ८ । ७) इत्यादिश्रुतिभ्यः । क्रियाफलं साधनं अशनायादिसंसारधर्मातीतादात्मनोऽन्यत् अविद्याविषयम् — ‘यत्र हि द्वैतमिव भवति’ (बृ. उ. २ । ४ । १४) ‘अन्योऽसावन्योऽहमस्मीति, ’ (बृ. उ. १ । ४ । १०) ‘न स वेद’ ‘अथ येऽन्यथातो विदुः’ (छा. उ. ७ । २५ । २) इत्यादिवाक्यशतेभ्यः । न च विद्याविद्ये एकस्य पुरुषस्य सह भवतः, विरोधात् — तमःप्रकाशाविव ; तस्मात् आत्मविदः अविद्याविषयोऽधिकारो न द्रष्टव्यः क्रियाकारकफलभेदरूपः, ‘मृत्योः स मृत्युमाप्नोति’ (बृ. उ. ४ । ४ । १९) इत्यादिनिन्दितत्वात् , सर्वक्रियासाधनफलानां च अविद्याविषयाणां तद्विपरीतात्मविद्यया हातव्यत्वेनेष्टत्वात् , यज्ञोपवीतादिसाधनानां च तद्विषयत्वात् । तस्मात् असाधनफलस्वभावादात्मनः अन्यविषया विलक्षणा एषणा ; उभे ह्येते साधनफले एषणे एव भवतः यज्ञोपवीतादेस्तत्साध्यकर्मणां च साधनत्वात् , ‘उभे ह्येते एषणे एव’ इति हेतुवचनेनावधारणात् । यज्ञोपवीतादिसाधनात् तत्साध्येभ्यश्च कर्मभ्यः अविद्याविषयत्वात् एषणारूपत्वाच्च जिहासितव्यरूपत्वाच्च व्युत्थानं विधित्सितमेव । ननूपनिषद आत्मज्ञानपरत्वात् व्युत्थानश्रुतिः तत्स्तुत्यर्था, न विधिः — न, विधित्सितविज्ञानेन समानकर्तृकत्वश्रवणात् ; न हि अकर्तव्येन कर्तव्यस्य समानकर्तृकत्वेन वेदे कदाचिदपि श्रवणं सम्भवति ; कर्तव्यानामेव हि अभिषवहोमभक्षाणां यथा श्रवणम् — अभिषुत्य हुत्वा भक्षयन्तीति, तद्वत् आत्मज्ञानैषणाव्युत्थानभिक्षाचर्याणां कर्तव्यानामेव समानकर्तृकत्वश्रवणं भवेत् । अविद्याविषयत्वात् एषणात्वाच्च अर्थप्राप्त आत्मज्ञानविधेरेव यज्ञोपवीतादिपरित्यागः, न तु विधातव्य इति चेत् — न ; सुतरामात्मनज्ञानविधिनैव विहितस्य समानकर्तृकत्वश्रवणेन दार्ढ्योपपत्तिः, तथा भिक्षाचर्यस्य च । यत्पुनरुक्तम् , वर्तमानापदेशादर्थवादमात्रमिति — न, औदुम्बरयूपादिविधिसमानत्वाददोषः ॥
‘व्युत्थाय भिक्षाचर्यं चरन्ति’ इत्यनेन पारिव्राज्यं विधीयते ; पारिव्राज्याश्रमे च यज्ञोपवीतादिसाधनानि विहितानि लिङ्गं च श्रुतिभिः स्मृतिभिश्च ; अतः तत् वर्जयित्वा अन्यस्माद्व्युत्थानम् एषणात्वेऽपीति चेत् — न, विज्ञानसमानकर्तृकात्पारिव्राज्यात् एषणाव्युत्थानलक्षणात् पारिव्राज्यान्तरोपपत्तेः ; यद्धि तत् एषणाभ्यो व्युत्थानलक्षणं पारिव्राज्यम् , तत् आत्मज्ञानाङ्गम् , आत्मज्ञानविरोध्येषणापरित्यागरूपत्वात् , अविद्याविषयत्वाच्चैषणायाः ; तद्व्यतिरेकेण च अस्ति आश्रमरूपं पारिव्राज्यं ब्रह्मलोकादिफलप्राप्तिसाधनम् , यद्विषयं यज्ञोपवीतादिसाधनविधानं लिङ्गविधानं च । न च एषणारूपसाधनोपादानस्य आश्रमधर्ममात्रेण पारिव्राज्यान्तरे विषये सम्भवति सति, सर्वोपनिषद्विहितस्य आत्मज्ञानस्य बाधनं युक्तम् , यज्ञोपवीताद्यविद्याविषयैषणारूपसाधनोपादित्सायां च अवश्यम् असाधनफलरूपस्य अशनायादिसंसारधर्मवर्जितस्य अहं ब्रह्मास्मीति विज्ञानं बाध्यते । न च तद्बाधनं युक्तम् , सर्वोपनिषदां तदर्थपरत्वात् । ‘भिक्षाचर्यं चरन्ति’ इत्येषणां ग्राहयन्ती श्रुतिः स्वयमेव बाधत इति चेत् — अथापि स्यादेषणाभ्यो व्युत्थानं विधाय पुनरेषणैकदेशं भिक्षाचर्यं ग्राहयन्ती तत्सम्बद्धमन्यदपि ग्राहयतीति चेत् — न, भिक्षाचर्यस्याप्रयोजकत्वात् — हुत्वोत्तरकालभक्षणवत् ; शेषप्रतिपत्तिकर्मत्वात् अप्रयोजकं हि तत् ; असंस्कारकत्वाच्च — भक्षणं पुरुषसंस्कारकमपि स्यात् , न तु भिक्षाचर्यम् ; नियमादृष्टस्यापि ब्रह्मविदः अनिष्टत्वात् । नियमादृष्टस्यानिष्टत्वे किं भिक्षाचर्येणेति चेत् — न, अन्यसाधनात् व्युथ्तानस्य विहितत्वात् । तथापि किं तेनेति चेत् — यदि स्यात् , बाढम् अभ्युपगम्यते हि तत् । यानि पारिव्राज्येऽभिहितानि वचनानि ‘यज्ञोपवीत्येवाधीयीत’ (तै. आ. २ । १ । १) इत्यादीनि, तानि अविद्वत्पारिव्राज्यमात्रविषयाणीति परिहृतानि ; इतरथात्मज्ञानबाधः स्यादिति ह्युक्तम् ; ‘निराशिषमनारम्भं निर्नमस्कारमस्तुतिम् । अक्षीणं क्षीणकर्माणं तं देवा ब्राह्मणं विदुः’ (मो. ध. २६३ । ३४) इति सर्वकर्माभावं दर्शयति स्मृतिः विदुषः — ‘विद्वांल्लिङ्गविवर्जितः’ ( ? ), ‘तस्मादलिङ्गो धर्मज्ञः’ (अश्व. ४६ । ५१) इति च । तस्मात् परमहंसपारिव्राज्यमेव व्युत्थानलक्षणं प्रतिपद्येत आत्मवित् सर्वकर्मसाधनपरित्यागरूपमिति ॥
यस्मात् पूर्वे ब्राह्मणा एतमात्मानम् असाधनफलस्वभावं विदित्वा सर्वस्मात् साधनफलस्वरूपात् एषणालक्षणात् व्युत्थाय भिक्षाचर्यं चरन्ति स्म, दृष्टादृष्टार्थं कर्म तत्साधनं च हित्वा — तस्मात् अद्यत्वेऽपि ब्राह्मणः ब्रह्मवित् , पाण्डित्यं पण्डितभावम् , एतदात्मविज्ञानं पाण्डित्यम् , तत् निर्विद्य निःशेषं विदित्वा, आत्मविज्ञानं निरवशेषं कृत्वेत्यर्थः — आचार्यत आगमतश्च एषणाभ्यो व्युत्थाय — एषणाव्युत्थानावसानमेव हि तत्पाण्डित्यम् , एषणातिरस्कारोद्भवत्वात् एषणाविरुद्धत्वात् ; एषणामतिरस्कृत्य न ह्यात्मविषयस्य पाण्डित्यस्योद्भव इति आत्मज्ञानेनैव विहितमेषणाव्युत्थानम् आत्मज्ञानसमानकर्तृकत्वाप्रत्ययोपादानलिङ्गश्रुत्या दृढीकृतम् । तस्मात् एषणाभ्यो व्युत्थाय ज्ञानबलभावेन बाल्येन तिष्ठासेत् स्थातुमिच्छेत् ; साधनफलाश्रयणं हि बलम् इतरेषामनात्मविदाम् ; तद्बलं हित्वा विद्वान् असाधनफलस्वरूपात्मविज्ञानमेव बलं तद्भावमेव केवलम् आश्रयेत् , तदाश्रयणे हि करणानि एषणाविषये एनं हृत्वा स्थापयितुं नोत्सहन्ते ; ज्ञानबलहीनं हि मूढं दृष्टादृष्टविषयायामेषणायामेव एनं करणानि नियोजयन्ति ; बलं नाम आत्मविद्यया अशेषविषयदृष्टितिरस्करणम् ; अतः तद्भावेन बाल्येन तिष्ठासेत् , तथा ‘आत्मना विन्दते वीर्यम्’ (के. उ. २ । ४) इति श्रुत्यन्तरात् , ‘नायमात्मा बलहीनेन लभ्यः’ (मु. उ. ३ । २ । ४) इति च । बाल्यं च पाण्डित्यं च निर्विद्य निःशेषं कृत्वा अथ मननान्मुनिः योगी भवति ; एतावद्धि ब्राह्मणेन कर्तव्यम् , यदुत सर्वानात्मप्रत्ययतिरस्करणम् ; एतत्कृत्वा कृतकृत्यो योगी भवति । अमौनं च आत्मज्ञानानात्मप्रत्ययतिरस्कारौ पाण्डित्यबाल्यसंज्ञकौ निःशेषं कृत्वा, मौनं नाम अनात्मप्रत्ययतिरस्करणस्य पर्यवसानं फलम् — तच्च निर्विद्य अथ ब्राह्मणः कृतकृत्यो भवति — ब्रह्मैव सर्वमिति प्रत्यय उपजायते । स ब्राह्मणः कृतकृत्यः, अतो ब्राह्मणः ; निरुपचरितं हि तदा तस्य ब्राह्मण्यं प्राप्तम् ; अत आह — स ब्राह्मणः केन स्यात् केन चरणेन भवेत् ? येन स्यात् — येन चरणेन भवेत् , तेन ईदृश एवायम् — येन केनचित् चरणेन स्यात् , तेन ईदृश एव उक्तलक्षण एव ब्राह्मणो भवति ; येन केनचिच्चरणेनेति स्तुत्यर्थम् — येयं ब्राह्मण्यावस्था सेयं स्तूयते, न तु चरणेऽनादरः । अतः एतस्माद्ब्राह्मण्यावस्थानात् अशनायाद्यतीतात्मस्वरूपात् नित्यतृप्तात् , अन्यत् अविद्याविषयमेषणालक्षणं वस्त्वन्तरम् , आर्तम् विनाशि आर्तिपरिगृहीतं स्वप्नमायामरीच्युदकसमम् असारम् , आत्मैव एकः केवलो नित्यमुक्त इति । ततो ह कहोलः कौषीतकेयः उपरराम ॥
इति तृतीयाध्यायस्य पञ्चमं ब्राह्मणम् ॥
अथ हैनं गार्गी वाचक्नवी पप्रच्छ याज्ञवल्क्येति होवाच यदिदं सर्वमप्स्वोतं च प्रोतं च कस्मिन्नु खल्वाप ओताश्च प्रोताश्चेति वायौ गार्गीति कस्मिन्नु खलु वायुरोतश्च प्रोतश्चेत्यन्तरिक्षलोकेषु गार्गीति कस्मिन्नु खल्वन्तरिक्षलोका ओताश्च प्रोताश्चेति गन्धर्वलोकेषु गार्गीति कस्मिन्नु खलु गन्धर्वलोका ओताश्च प्रोताश्चेत्यादित्यलोकेषु गार्गीति कस्मिन्नु खल्वादित्यलोका ओताश्च प्रोताश्चेति चन्द्रलोकेषु गार्गीति कस्मिन्नु खलु चन्द्रलोका ओताश्च प्रोताश्चेति नक्षत्रलोकेषु गार्गीति कस्मिन्नु खलु नक्षत्रलोका ओताश्च प्रोताश्चेति देवलोकेषु गार्गीति कस्मिन्नु खलु देवलोका ओताश्च प्रोताश्चेतीन्द्रलोकेषु गार्गीति कस्मिन्नु खल्विन्द्रलोका ओताश्च प्रोताश्चेति प्रजापतिलोकेषु गार्गीति कस्मिन्नु खलु प्रजापतिलोका ओताश्च प्रोताश्चेति ब्रह्मलोकेषु गार्गीति कस्मिन्नु खलु ब्रह्मलोका ओताश्च प्रोताश्चेति स होवाच गार्गि मातिप्राक्षीर्मा ते मूर्धा व्यपप्तदनतिप्रश्न्यां वै देवतामतिपृच्छसि गार्गि मातिप्राक्षीरिति ततो ह गार्गी वाचक्नव्युपरराम ॥ १ ॥
यत्साक्षादपरोक्षाद्ब्रह्म सर्वान्तर आत्मेत्युक्तम् , तस्य सर्वान्तरस्य स्वरूपाधिगमाय आ शाकल्यब्राह्मणात् ग्रन्थ आरभ्यते । पृथिव्यादीनि ह्याकाशान्तानि भूतानि अन्तर्बहिर्भावेन व्यवस्थितानि ; तेषां यत् बाह्यं बाह्यम् , अधिगम्याधिगम्य निराकुर्वन् द्रष्टुः साक्षात्सर्वान्तरोऽगौण आत्मा सर्वसंसारधर्मविनिर्मुक्तो दर्शयितव्य इत्यारम्भः — अथ हैनं गार्गी नामतः, वाचक्नवी वचक्नोर्दुहिता, पप्रच्छ ; याज्ञवल्क्येति होवाच ; यदिदं सर्वं पार्थिवं धातुजातम् अप्सु उदके ओतं च प्रोतं च — ओतं दीर्घपटतन्तुवत् , प्रोतं तिर्यक्तन्तुवत् , विपरीतं वा — अद्भिः सर्वतोऽन्तर्बहिर्भूताभिर्व्याप्तमित्यर्थः ; अन्यथा सक्तुमुष्टिवद्विशीर्येत । इदं तावत् अनुमानमुपन्यस्तम् — यत् कार्यं परिच्छिन्नं स्थूलम् , कारणेन अपरिच्छिन्नेन सूक्ष्मेण व्याप्तमिति दृष्टम् — यथा पृथिवी अद्भिः ; तथा पूर्वं पूर्वम् उत्तरेणोत्तरेण व्यापिना भवितव्यम् — इत्येष आ सर्वान्तरादात्मनः प्रश्नार्थः । तत्र भूतानि पञ्च संहतान्येव उत्तरमुत्तरं सूक्ष्मभावेन व्यापकेन कारणरूपेण च व्यवतिष्ठन्ते ; न च परमात्मनोऽर्वाक् तद्व्यतिरेकेण वस्त्वन्तरमस्ति, ‘सत्यस्य सत्यम्’ (बृ. उ. २ । ३ । ६) इति श्रुतेः ; सत्यं च भूतपञ्चकम् , सत्यस्य सत्यं च पर आत्मा । कस्मिन्नु खल्वाप ओताश्च प्रोताश्चेति — तासामपि कार्यत्वात् स्थूलत्वात् परिच्छिन्नत्वाच्च क्वचिद्धि ओतप्रोतभावेन भवितव्यम् ; क्व तासाम् ओतप्रोतभाव इति । एवमुत्तरोत्तरप्रश्नप्रसङ्गो योजयितव्यः । वायौ गार्गीति ; ननु अग्नाविति वक्तव्यम् — नैष दोषः ; अग्नेः पार्थिवं वा आप्यं वा धातुमनाश्रित्य इतरभूतवत् स्वातन्त्र्येण आत्मलाभो नास्तीति तस्मिन् ओतप्रोतभावो नोपदिश्यते । कस्मिन्नु खलु वायुरोतश्च प्रोतश्चेत्यन्तरिक्षलोकेषु गार्गीति । तान्येव भूतानि संहतानि अन्तरिक्षलोकाः ; तान्यपि — गन्धर्वलोकेषु गन्धर्वलोकाः, आदित्यलोकेषु आदित्यलोकाः, चन्द्रलोकेषु चन्द्रलोकाः नक्षत्रलोकेषु नक्षत्रलोकाः, देवलोकेषु देवलोकाः, इन्द्रलोकेषु इन्द्रलोकाः, विराट्शरीरारम्भकेषु भूतेषु प्रजापतिलोकेषु प्रजापतिलोकाः, ब्रह्मलोकेषु ब्रह्मलोका नाम — अण्डारम्भकाणि भूतानि ; सर्वत्र हि सूक्ष्मतारतम्यक्रमेण प्राण्युपभोगाश्रयाकारपरिणतानि भूतानि संहतानि तान्येव पञ्चेति बहुवचनभाञ्जि । कस्मिन्नु खलु ब्रह्मलोका ओताश्च प्रोताश्चेति — स होवाच याज्ञवल्क्यः — हे गार्गि मातिप्राक्षीः स्वं प्रश्नम् , न्यायप्रकारमतीत्य आगमेन प्रष्टव्यां देवताम् अनुमानेन मा प्राक्षीरित्यर्थः ; पृच्छन्त्याश्च मा ते तव मूर्धा शिरः व्यपप्तत् विस्पष्टं पतेत् ; देवतायाः स्वप्रश्न आगमविषयः ; तं प्रश्नविषयमतिक्रान्तो गार्ग्याः प्रश्नः, आनुमानिकत्वात् ; स यस्या देवतायाः प्रश्नः सा अतिप्रश्न्या, न अतिप्रश्न्या अनतिप्रश्न्या, स्वप्रश्नविषयैव, केवलागमगम्येत्यर्थः ; ताम् अनतिप्रश्न्यां वै देवताम् अतिपृच्छसि । अतो गार्गी मातिप्राक्षीः, मर्तुं चेन्नेच्छसि । ततो ह गार्गी वाचक्नव्युपरराम ॥
इति तृतीयाध्यायस्य षष्ठं ब्राह्मणम् ॥
अथ हैनमुद्दालक आरुणिः पप्रच्छ याज्ञवल्क्येति होवाच मद्रेष्ववसाम पतञ्जलस्य काप्यस्य गृहेषु यज्ञमधीयानास्तस्यासीद्भार्या गन्धर्वगृहीता तमपृच्छाम कोऽसीति सोऽब्रवीत्कबन्ध आथर्वण इति सोऽब्रवीत्पतञ्जलं काप्यं याज्ञिकांश्च वेत्थ नु त्वं काप्य तत्सूत्रं येनायं च लोकः परश्च लोकः सर्वाणि च भूतानि सन्दृब्धानि भवन्तीति सोऽब्रवीत्पतञ्जलः काप्यो नाहं तद्भगवन्वेदेति सोऽब्रवीत्पतञ्जलं काप्यं याज्ञिकांश्च वेत्थ नु त्वं काप्य तमन्तर्यामिणं य इमं च लोकं परं च लोकं सर्वाणि च भूतानि योऽन्तरो यमयतीति सोऽब्रवीत्पतञ्जलः काप्यो नाहं तं भगवन्वेदेति सोऽब्रवीत्पतञ्जलं काप्यं याज्ञिकांश्च यो वै तत्काप्य सूत्रं विद्यात्तं चान्तर्यामिणमिति स ब्रह्मवित्स लोकवित्स देववित्स वेदवित्स भूतवित्स आत्मवित्स सर्वविदिति तेभ्योऽब्रवीत्तदहं वेद तच्चेत्त्वं याज्ञवल्क्य सूत्रमविद्वांस्तं चान्तर्यामिणं ब्रह्मगवीरुदजसे मूर्धा ते विपतिष्यतीति वेद वा अहं गौतम तत्सूत्रं तं चान्तर्यामिणमिति यो वा इदं कश्चिद्ब्रूयाद्वेद वेदेति यथा वेत्थ तथा ब्रूहीति ॥ १ ॥
इदानीं ब्रह्मलोकानाम् अन्तरतमं सूत्रं वक्तव्यमिति तदर्थ आरम्भः ; तच्च आगमेनैव प्रष्टव्यमिति इतिहासेन आगमोपन्यासः क्रियते — अथ हैनम् उद्दालको नामतः, अरुणस्यापत्यम् आरुणिः पप्रच्छ ; याज्ञवल्क्येति होवाच ; मद्रेषु देशेषु अवसाम उषितवन्तः, पतञ्जलस्य — पतञ्जलो नामतः — तस्यैव कपिगोत्रस्य काप्यस्य गृहेषु यज्ञमधीयानाः यज्ञशास्त्राध्ययनं कुर्वाणाः । तस्य आसीत् भार्या गन्धर्वगृहीता ; तमपृच्छाम — कोऽसीति । सोऽब्रवीत् — कबन्धो नामतः, अथर्वणोऽपत्यम् आथर्वण इति । सोऽब्रवीद्गन्धर्वः पतञ्जलं काप्यं याज्ञिकांश्च तच्छिष्यान् — वेत्थ नु त्वं हे काप्य जानीषे तत्सूत्रम् ; किं तत् ? येन सूत्रेण अयं च लोकः इदं च जन्म, परश्च लोकः परं च प्रतिपत्तव्यं जन्म, सर्वाणि च भूतानि ब्रह्मादिस्तम्बपर्यन्तानि, सन्दृब्धानि सङ्ग्रथितानि स्रगिव सूत्रेण विष्टब्धानि भवन्ति येन — तत् किं सूत्रं वेत्थ । सोऽब्रवीत् एवं पृष्टः काप्यः — नाहं तद्भगवन्वेदेति — तत् सूत्रं नाहं जाने हे भगवन्निति सम्पूजयन्नाह । सोऽब्रवीत् पुनर्गन्धर्वः उपाध्यायमस्मांश्च — वेत्थ नु त्वं काप्य तमन्तर्यामिणम् — अन्तर्यामीति विशेष्यते — य इमं च लोकं परं च लोकं सर्वाणि च भूतानि यः अन्तरः अभ्यन्तरः सन् यमयति नियमयति, दारुयन्त्रमिव भ्रामयति, स्वं स्वमुचितव्यापारं कारयतीति । सोऽब्रवीदेवमुक्तः पतञ्जलः काप्यः — नाहं तं जाने भगवन्निति सम्पूजयन्नाह । सोऽब्रवीत्पुनर्गन्धर्वः ; सूत्रतदन्तर्गतान्तर्यामिणोर्विज्ञानं स्तूयते — यः कश्चिद्वै तत् सूत्रं हे काप्य विद्यात् विजानीयात् तं च अन्तर्यामिणं सूत्रान्तर्गतं तस्यैव सूत्रस्य नियन्तारं विद्यात् यः इत्येवमुक्तेन प्रकारेण — स हि ब्रह्मवित् परमात्मवित् , स लोकांश्च भूरादीनन्तर्यामिणा नियम्यमानान् लोकान् वेत्ति, स देवांश्चाग्न्यादीन् लोकिनः जानाति, वेदांश्च सर्वप्रमाणभूतान्वेत्ति, भूतानि च ब्रह्मादीनि सूत्रेण ध्रियमाणानि तदन्तर्गतेनान्तर्यामिणा नियम्यमानानि वेत्ति, स आत्मानं च कर्तृत्वभोक्तृत्वविशिष्टं तेनैवान्तर्यामिणा नियम्यमानं वेत्ति, सर्वं च जगत् तथाभूतं वेत्ति — इति ; एवं स्तुते सूत्रान्तर्यामिविज्ञाने प्रलुब्धः काप्योऽभिमुखीभूतः, वयं च ; तेभ्यश्च अस्मभ्यम् अभिमुखीभूतेभ्यः अब्रवीद्गन्धर्वः सूत्रमन्तर्यामिणं च ; तदहं सूत्रान्तर्यामिविज्ञानं वेद गन्धर्वाल्लब्धागमः सन् ; तच्चेत् याज्ञवल्क्य सूत्रम् , तं चान्तर्यामिणम् अविद्वांश्चेत् , अब्रह्मवित्सन् यदि ब्रह्मगवीरुदजसे ब्रह्मविदां स्वभूता गा उदजस उन्नयसि त्वम् अन्यायेन, ततो मच्छापदग्धस्य मूर्धा शिरः ते तव विस्पष्टं पतिष्यति । एवमुक्तो याज्ञवल्क्य आह — वेद जानामि अहम् , हे गौतमेति गोत्रतः, तत्सूत्रम् — यत् गन्धर्वस्तुभ्यमुक्तवान् ; यं च अन्तर्यामिणं गन्धर्वाद्विदितवन्तो यूयम् , तं च अन्तर्यामिणं वेद अहम् — इति ; एवमुक्ते प्रत्याह गौतमः — यः कश्चित्प्राकृत इदं यत्त्वयोक्तं ब्रूयात् — कथम् ? वेद वेदेति — आत्मानं श्लाघयन् , किं तेन गर्जितेन ? कार्येण दर्शय ; यथा वेत्थ, तथा ब्रूहीति ॥
स होवाच वायुर्वै गौतम तत्सूत्रं वायुना वै गौतम सूत्रेणायं च लोकः परश्च लोकः सर्वाणि च भूतानि सन्दृब्धानि भवन्ति तस्माद्वै गौतम पुरुषं प्रेतमाहुर्व्यस्रंसिषतास्याङ्गानीति वायुना हि गौतम सूत्रेण सन्दृब्धानि भवन्तीत्येवमेवैतद्याज्ञवल्क्यान्तर्यामिणं ब्रूहीति ॥ २ ॥
स होवाच याज्ञवल्क्यः । ब्रह्मलोका यस्मिन्नोताश्च प्रोताश्च वर्तमाने काले, यथा पृथिवी अप्सु, तत् सूत्रम् आगमगम्यं वक्तव्यमिति — तदर्थं प्रश्नान्तरमुत्थापितम् ; अतस्तन्निर्णयाय आह — वायुर्वै गौतम तत्सूत्रम् ; नान्यत् ; वायुरिति — सूक्ष्ममाकाशवत् विष्टम्भकं पृथिव्यादीनाम् , यदात्मकं सप्तदशविधं लिङ्गं कर्मवासनासमवायि प्राणिनाम् , यत्तत्समष्टिव्यष्ट्यात्मकम् , यस्य बाह्या भेदाः सप्तसप्त मरुद्गणाः समुद्रस्येवोर्मयः — तदेतद्वायव्यं तत्त्वं सूत्रमित्यभिधीयते । वायुना वै गौतम सूत्रेण अयं च लोकः परश्च लोकः सर्वाणि च भूतानि सन्दृब्धानि भवन्ति सङ्ग्रथितानि भवन्तीति प्रसिद्धमेतत् ; अस्ति च लोके प्रसिद्धिः ; कथम् ? यस्मात् वायुः सूत्रम् , वायुना विधृतं सर्वम् , तस्माद्वै गौतम पुरुषं प्रेतमाहुः कथयन्ति — व्यस्रंसिषत विस्रस्तानि अस्य पुरुषस्याङ्गानीति ; सूत्रापगमे हि मण्यादीनां प्रोतानामवस्रंसनं दृष्टम् ; एवं वायुः सूत्रम् ; तस्मिन्मणिवत्प्रोतानि यदि अस्याङ्गानि स्युः, ततो युक्तमेतत् वाय्वपगमे अवस्रंसनमङ्गानाम् । अतो वायुना हि गौतम सूत्रेण सन्दृब्धानि भवन्तीति निगमयति । एवमेवैतत् याज्ञवल्क्य, सम्यगुक्तं सूत्रम् ; तदन्तर्गतं तु इदानीं तस्यैव सूत्रस्य नियन्तारमन्तर्यामिणं ब्रूहीत्युक्तः आह ॥
यः पृथिव्यां तिष्ठन्पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ ३ ॥
यः पृथिव्यां तिष्ठन्भवति, सोऽन्तर्यामी । सर्वः पृथिव्यां तिष्ठतीति सर्वत्र प्रसङ्गो मा भूदिति विशिनष्टि — पृथिव्या अन्तरः अभ्यन्तरः । तत्रैतत्स्यात् , पृथिवी देवतैव अन्तर्यामीति — अत आह — यमन्तर्यामिणं पृथिवी देवतापि न वेद — मय्यन्यः कश्चिद्वर्तत इति । यस्य पृथिवी शरीरम् — यस्य च पृथिव्येव शरीरम् , नान्यत् — पृथिवीदेवताया यच्छरीरम् , तदेव शरीरं यस्य ; शरीरग्रहणं च उपलक्षणार्थम् ; करणं च पृथिव्याः तस्य ; स्वकर्मप्रयुक्तं हि कार्यं करणं च पृथिवीदेवतायाः ; तत् अस्य स्वकर्माभावात् अन्तर्यामिणो नित्यमुक्तत्वात् , परार्थकर्तव्यतास्वभावत्वात् परस्य यत्कार्यं करणं च — तदेवास्य, न स्वतः ; तदाह — यस्य पृथिवी शरीरमिति । देवताकार्यकरणस्य ईश्वरसाक्षिमात्रसान्निध्येन हि नियमेन प्रवृत्तिनिवृत्ती स्याताम् ; य ईदृगीश्वरो नारायणाख्यः, पृथिवीं पृथिवीदेवताम् , यमयति नियमयति स्वव्यापारे, अन्तरः अभ्यन्तरस्तिष्ठन् , एष त आत्मा, ते तव, मम च सर्वभूतानां च इत्युपलक्षणार्थमेतत् , अन्तर्यामी यस्त्वया पृष्टः, अमृतः सर्वसंसारधर्मवर्जित इत्येतत् ॥
योऽप्सु तिष्ठन्नद्भ्योऽन्तरो यमापो न विदुर्यस्यापः शरीरं योऽपोऽन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ ४ ॥
योऽग्नौ तिष्ठन्नग्नेरन्तरो यमग्निर्न वेद यस्याग्निः शरीरं योऽग्निमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ ५ ॥
योऽन्तरिक्षे तिष्ठन्नन्तरिक्षादन्तरो यमन्तरिक्षं न वेद यस्यान्तरिक्षं शरीरं योऽन्तरिक्षमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ ६ ॥
यो वायौ तिष्ठन्वायोरन्तरो यं वायुर्न वेद यस्य वायुः शरीरं यो वायुमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ ७ ॥
यो दिवि तिष्ठन्दिवोऽन्तरोयं द्यौर्न वेद यस्य द्यौः शरीरं यो दिवमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ ८ ॥
य आदित्ये तिष्ठन्नादित्यादन्तरो यमादित्यो न वेद यस्यादित्यः शरीरं य आदित्यमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ ९ ॥
यो दिक्षु तिष्ठन्दिग्भ्योऽन्तरो यं दिशो न विदुर्यस्य दिशः शरीरं यो दिशोऽन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ १० ॥
यश्चान्द्रतारके तिष्ठंश्चन्द्रतारकादन्तरो यं चन्द्रतारकं न वेद यस्य चन्द्रतारकं शरीरं यश्चन्द्रतारकमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ ११ ॥
य आकाशे तिष्ठन्नाकाशादन्तरो यमाकाशो न वेद यस्याकाशः शरीरं य आकाशमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ १२ ॥
यस्तमसि तिष्ठंस्तमसोऽन्तरो यं तमो न वेद यस्य तमः शरीरं यस्तमोऽन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ १३ ॥
यस्तेजसि तिष्ठंस्तेजसोऽन्तरो यं तेजो न वेद यस्य तेजः शरीरं यस्तेजोऽन्तरो यमयत्येष त आत्मान्तर्याम्यमृत इत्यधिदैवतमथाधिभूतम् ॥ १४ ॥
समानमन्यत् । योऽप्सु तिष्ठन् , अग्नौ, अन्तरिक्षे, वायौ, दिवि, आदित्ये, दिक्षु, चन्द्रतारके, आकाशे, यस्तमस्यावरणात्मके बाह्ये तमसि, तेजसि तद्विपरीते प्रकाशसामान्ये — इत्येवमधिदैवतम् अन्तर्यामिविषयं दर्शनं देवतासु । अथ अधिभूतं भूतेषु ब्रह्मादिस्तम्बपर्यन्तेषु अन्तर्यामिदर्शनमधिभूतम् ॥
यः सर्वेषु भूतेषु तिष्ठन्सर्वेभ्यो भूतेभ्योऽन्तरो यं सर्वाणि भूतानि न विदुर्यस्य सर्वाणि भूतानि शरीरं यः सर्वाणि भूतान्यन्तरो यमयत्येष त आत्मान्तर्याम्यमृत इत्यधिभूतमथाध्यात्मम् ॥ १५ ॥
यः प्राणे तिष्ठन्प्राणादन्तरो यं प्राणो न वेद यस्य प्राणः शरीरं यः प्राणमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ १६ ॥
यो वाचि तिष्ठन्वाचोऽन्तरो यं वाङ्न वेद यस्य वाक्शरीरं यो वाचमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ १७ ॥
यश्चक्षुषि तिष्ठंश्चक्षुषोऽन्तरो यं चक्षुर्न वेद यस्य चक्षुः शरीरं यश्चक्षुरन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ १८ ॥
यः श्रोत्रे तिष्ठञ्छ्रोत्रादन्तरो यं श्रोत्रं न वेद यस्य श्रोत्रं शरीरं यः श्रोत्रमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ १९ ॥
यो मनसि तिष्ठन्मनसोऽन्तरो यं मनो न वेद यस्य मनः शरीरं यो मनोऽन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ २० ॥
यस्त्वचि तिष्टं स्त्वचोऽन्तरो यं त्वङ्न वेद यस्य त्वक्शरीरं यस्त्वचमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ २१ ॥
यो विज्ञाने तिष्ठन्विज्ञानादन्तरो यं विज्ञानं न वेद यस्य विज्ञानं शरीरं यो विज्ञानमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ २२ ॥
यो रेतसि तिष्ठन्रेतसोऽन्तरो यं रेतो न वेद यस्य रेतः शरीरं यो रेतोऽन्तरो यमयत्येष त आत्मान्तर्याम्यमृतोऽदृष्टो द्रष्टाश्रुतः श्रोतामतो मन्ताविज्ञातो विज्ञाता नान्योऽतोऽस्ति द्रष्टा नान्योऽतोऽस्ति श्रोता नान्योऽतोऽस्ति मन्ता नान्योऽतोऽस्ति विज्ञातैष त आत्मान्तर्याम्यमृतोऽतोऽन्यदार्तं ततो होद्दालक आरुणिरुपरराम ॥ २३ ॥
अथाध्यात्मम् — यः प्राणे प्राणवायुसहिते घ्राणे, यो वाचि, चक्षुषि, श्रोत्रे, मनसि, त्वचि, विज्ञाने, बुद्धौ, रेतसि प्रजनने । कस्मात्पुनः कारणात् पृथिव्यादिदेवता महाभागाः सत्यः मनुष्यादिवत् आत्मनि तिष्ठन्तम् आत्मनो नियन्तारमन्तर्यामिणं न विदुरित्यत आह — अदृष्टः न दृष्टो न विषयीभूतश्चक्षुर्दर्शनस्य कस्यचित् , स्वयं तु चक्षुषि सन्निहितत्वात् दृशिस्वरूप इति द्रष्टा । तथा अश्रुतः श्रोत्रगोचरत्वमनापन्नः कस्यचित् , स्वयं तु अलुप्तश्रवणशक्तिः सर्वश्रोत्रेषु सन्निहितत्वात् श्रोता । तथा अमतः मनस्सङ्कल्पविषयतामनापन्नः ; दृष्टश्रुते एव हि सर्वः सङ्कल्पयति ; अदृष्टत्वात् अश्रुतत्वादेव अमतः ; अलुप्तमननशक्तित्वात् सर्वमनःसु सन्निहितत्वाच्च मन्ता । तथा अविज्ञातः निश्चयगोचरतामनापन्नः रूपादिवत् सुखादिवद्वा, स्वयं तु अलुप्तविज्ञानशक्तित्वात् तत्सन्निधानाच्च विज्ञाता । तत्र यं पृथिवी न वेद यं सर्वाणि भूतानि न विदुरिति च अन्ये नियन्तव्या विज्ञातारः अन्यो नियन्ता अन्तर्यामीति प्राप्तम् ; तदन्यत्वाशङ्कानिवृत्त्यर्थमुच्यते — नान्योऽतः — नान्यः — अतः अस्मात् अन्तर्यामिणः नान्योऽस्ति द्रष्टा ; तथा नान्योऽतोऽस्ति श्रोता ; नान्योऽतोऽस्ति मन्ता ; नान्योऽतोऽस्ति विज्ञाता । यस्मात्परो नास्ति द्रष्टा श्रोता मन्ता विज्ञाता, यः अदृष्टो द्रष्टा, अश्रुतः श्रोता, अमतो मन्ता, अविज्ञातो विज्ञाता, अमृतः सर्वसंसारधर्मवर्जितः सर्वसंसारिणां कर्मफलविभागकर्ता — एष ते आत्मा अन्तर्याम्यमृतः ; अस्मादीश्वरादात्मनोऽन्यत् आर्तम् । ततो होद्दालक आरुणिरुपरराम ॥
इति तृतीयाध्यायस्य सप्तमं ब्राह्मणम् ॥
अतः परम् अशनायादिविनिर्मुक्तं निरुपाधिकं साक्षादपरोक्षात्सर्वान्तरं ब्रह्म वक्तव्यमित्यत आरम्भः —
अथ ह वाचक्नव्युवाच ब्राह्मणा भगवन्तो हन्ताहमिमं द्वौ प्रश्नौ प्रक्ष्यामि तौ चेन्मे वक्ष्यति न वै जातु युष्माकमिमं कश्चिद्ब्रह्मोद्यं जेतेति पृच्छ गार्गीति ॥ १ ॥
अथ ह वाचक्नव्युवाच । पूर्वं याज्ञवल्क्येन निषिद्धा मूर्धपातभयादुपरता सती पुनः प्रष्टुं ब्राह्मणानुज्ञां प्रार्थयते हे ब्राह्मणाः भगवन्तः पूजावन्तः शृणुत मम वचः ; हन्त अहमिमं याज्ञवल्क्यं पुनर्द्वौ प्रश्नौ प्रक्ष्यामि, यद्यनुमतिर्भवतामस्ति ; तौ प्रश्नौ चेत् यदि वक्ष्यति कथयिष्यति मे, कथञ्चित् न वै जातु कदाचित् , युष्माकं मध्ये इमं याज्ञवल्क्यं कश्चित् ब्रह्मोद्यं ब्रह्मवदनं प्रति जेता — न वै कश्चित् भवेत् — इति । एवमुक्ता ब्राह्मणा अनुज्ञां प्रददुः — पृच्छ गार्गीति ॥
सा होवाचाहं वै त्वा याज्ञवल्क्य यथा काश्यो वा वैदेहो वोग्रपुत्र उज्ज्यं धनुरधिज्यं कृत्वा द्वौ बाणवन्तौ सपत्नातिव्याधिनौ हस्ते कृत्वोपोत्तिष्ठेदेवमेवाहं त्वा द्वाभ्यां प्रश्नाभ्यामुपादस्थां तौ मे ब्रूहीति पृच्छ गार्गीति ॥ २ ॥
लब्धानुज्ञा ह याज्ञवल्क्यं सा ह उवाच — अहं वै त्वा त्वाम् द्वौ प्रश्नौ प्रक्ष्यामीत्यनुषज्यते ; कौ ताविति जिज्ञासायां तयोर्दुरुत्तरत्वं द्योतयितुं दृष्टान्तपूर्वकं तावाह — हे याज्ञवल्क्य यथा लोके काश्यः — काशिषु भवः काश्यः, प्रसिद्धं शौर्यं काश्ये — वैदेहो वा विदेहानां वा राजा, उग्रपुत्रः शूरान्वय इत्यर्थः, उज्ज्यम् अवतारितज्याकम् धनुः पुनरधिज्यम् आरोपितज्याकं कृत्वा, द्वौ बाणवन्तौ — बाणशब्देन शराग्रे यो वंशखण्डः सन्धीयते, तेन विनापि शरो भवतीत्यतो विशिनष्टि बाणवन्ताविति — द्वौ बाणवन्तौ शरौ, तयोरेव विशेषणम् — सपत्नातिव्याधिनौ शत्रोः पीडाकरावतिशयेन, हस्ते कृत्वा उप उत्तिष्ठेत् समीपत आत्मानं दर्शयेत् — एवमेव अहं त्वा त्वाम् शरस्थानीयाभ्यां प्रश्नाभ्यां द्वाभ्याम् उपोदस्थां उत्थितवत्यस्मि त्वत्समीपे । तौ मे ब्रूहीति — ब्रह्मविच्चेत् । आह इतरः — पृच्छ गार्गीति ॥
सा होवाच यदूर्ध्वं याज्ञवल्क्य दिवो यदवाक्पृथिव्या यदन्तरा द्यावापृथिवी इमे यद्भूतं च भवच्च भविष्यच्चेत्याचक्षते कस्मिंस्तदोतं च प्रोतं चेति ॥ ३ ॥
सा होवाच — यत् ऊर्ध्वम् उपरि दिवः अण्डकपालात् , यच्च अवाक् अधः पृथिव्याः अधोऽण्डकपालात् , यच्च अन्तरा मध्ये द्यावापृथिवी द्यावापृथिव्योः अण्डकपालयोः, इमे च द्यावापृथिवी, यद्भूतं यच्चातीतम् , भवच्च वर्तमानं स्वव्यापारस्थम् , भविष्यच्च वर्तमानादूर्ध्वकालभावि लिङ्गगम्यम् — यत्सर्वमेतदाचक्षते कथयन्त्यागमतः — तत्सर्वं द्वैतजातं यस्मिन्नेकीभवतीत्यर्थः — तत् सूत्रसंज्ञं पूर्वोक्तं कस्मिन् ओतं च प्रोतं च पृथिवीधातुरिवाप्सु ॥
स होवाच यदूर्ध्वं गार्गि दिवो यदवाक्पृथिव्या यदन्तरा द्यावापृथिवी इमे यद्भूतं च भवच्च भविष्यच्चेत्याचक्षत आकाशे तदोतं च प्रोतं चेति ॥ ४ ॥
स होवाच इतरः — हे गार्गि, यत् त्वयोक्तम् ‘ऊर्ध्वं दिवः’ इत्यादि, तत्सर्वम् — यत्सूत्रमाचक्षते — तत् सूत्रम् , आकाशे तत् ओतं च प्रोतं च — यदेतत् व्याकृतं सूत्रात्मकं जगत् अव्याकृताकाशे, अप्स्विव पृथिवीधातुः, त्रिष्वपि कालेषु वर्तते उत्पत्तौ स्थितौ लये च ॥
सा होवाच नमस्तेऽस्तु याज्ञवल्क्य यो म एतं व्यवोचोऽपरस्मै धारयस्वेति पृच्छ गार्गीति ॥ ५ ॥
पुनः सा होवाच ; नमस्तेऽस्त्वित्यादिप्रश्नस्य दुर्वचत्वप्रदर्शनार्थम् ; यः मे मम एतं प्रश्नं व्यवोचः विशेषेणापाकृतवानसि ; एतस्य दुर्वचत्वे कारणम् — सूत्रमेव तावदगम्यम् इतरैर्दुर्वाच्यम् ; किमुत तत् , यस्मिन्नोतं च प्रोतं चेति ; अतो नमोऽस्तु ते तुभ्यम् ; अपरस्मै द्वितीयाय प्रश्नाय धारयस्व दृढीकुरु आत्मानमित्यर्थः । पृच्छ गार्गीति इतर आह ॥
सा होवाच यदूर्ध्वं याज्ञवल्क्य दिवो यदवाक्पृथिव्या यदन्तरा द्यावापृथिवी इमे यद्भूतं च भवच्च भविष्यच्चेत्याचक्षते कस्मिंस्तदोतं च प्रोतं चेति ॥ ६ ॥
व्याख्यातमन्यत् । सा होवाच यदूर्ध्वं याज्ञवल्क्येत्यादिप्रश्नः प्रतिवचनं च उक्तस्यैवार्थस्यावधारणार्थं पुनरुच्यते ; न किञ्चिदपूर्वमर्थान्तरमुच्यते ॥
स होवाच यदूर्ध्वं गार्गि दिवो यदवाक्पृथिव्या यदन्तरा द्यावापृथिवी इमे यद्भूतं च भवच्च भविष्यच्चेत्याचक्षत आकाश एव तदोतं च प्रोतं चेति कस्मिन्नु खल्वाकाश ओतश्च प्रोतश्चेति ॥ ७ ॥
सर्वं यथोक्तं गार्ग्या प्रत्युच्चार्य तमेव पूर्वोक्तमर्थमवधारितवान् आकाश एवेति याज्ञवल्क्यः । गार्ग्याह — कस्मिन्नु खल्वाकाश ओतश्च प्रोतश्चेति । आकाशमेव तावत्कालत्रयातीतत्वात् दुर्वाच्यम् , ततोऽपि कष्टतरम् अक्षरम् , यस्मिन्नाकाशमोतं च प्रोतं च, अतः अवाच्यम् — इति कृत्वा, न प्रतिपद्यते सा अप्रतिपत्तिर्नाम निग्रहस्थानं तार्किकसमये ; अथ अवाच्यमपि वक्ष्यति, तथापि विप्रतिपत्तिर्नाम निग्रहस्थानम् ; विरुद्धा प्रतिपत्तिर्हि सा, यदवाच्यस्य वदनम् ; अतो दुर्वचनम् प्रश्नं मन्यते गार्गी ॥
स होवाचैतद्वै तदक्षरं गार्गि ब्राह्मणा अभिवदन्त्यस्थूलमनण्वह्रस्वमदीर्घमलोहितमस्नेहमच्छायमतमोऽवाय्वनाकाशमसङ्गमरसमगन्धमचक्षुष्कमश्रोत्रमवागमनोऽतेजस्कमप्राणममुखममात्रमनन्तरमबाह्यं न तदश्नाति किञ्चन न तदश्नाति कश्चन ॥ ८ ॥
तद्दोषद्वयमपि परिजिहीर्षन्नाह — स होवाच याज्ञवल्क्यः ; एतद्वै तत् , यत्पृष्टवत्यसि — कस्मिन्नु खल्वाकाश ओतश्च प्रोतश्चेति ; किं तत् ? अक्षरम् — यन्न क्षीयते न क्षरतीति वा अक्षरम् — तदक्षरं हे गार्गि ब्राह्मणा ब्रह्मविदः अभिवदन्ति ; ब्राह्मणाभिवदनकथनेन, नाहमवाच्यं वक्ष्यामि न च न प्रतिपद्येयमित्येवं दोषद्वयं परिहरति । एवमपाकृते प्रश्ने, पुनर्गार्ग्याः प्रतिवचनं द्रष्टव्यम् — ब्रूहि किं तदक्षरम् , यद्ब्राह्मणा अभिवदन्ति — इत्युक्त आह — अस्थूलम् तत् स्थूलादन्यत् ; एवं तर्ह्यणु — अनणु ; अस्तु तर्हि ह्रस्वम् — अह्रस्वम् ; एवं तर्हि दीर्घम् — नापि दीर्घम् अदीर्घम् ; एवमेतैश्चतुर्भिः परिमाणप्रतिषेधैर्द्रव्यधर्मः प्रतिषिद्धः, न द्रव्यं तदक्षरमित्यर्थः । अस्तु तर्हि लोहितो गुणः — ततोऽप्यन्यत् अलोहितम् ; आग्नेयो गुणो लोहितः ; भवतु तर्ह्यपां स्नेहनम् — न अस्नेहम् ; अस्तु तर्हि छाया — सर्वथापि अनिर्देश्यत्वात् छायाया अप्यन्यत् अच्छायम् ; अस्तु तर्हि तमः — अतमः ; भवतु वायुस्तर्हि — अवायुः ; भवेत्तर्ह्याकाशम् — अनाकाशम् ; भवतु तर्हि सङ्गात्मकं जतुवत् — असङ्गम् ; रसोऽस्तु तर्हि — अरसम् ; तथा गन्धोऽस्तु — अगन्धम् ; अस्तु तर्हि चक्षुः — अचक्षुष्कम् , न हि चक्षुरस्य करणं विद्यते, अतोऽचक्षुष्कम् , ‘पश्यत्यचक्षुः’ (श्वे. ३ । १९) इति मन्त्रवर्णात् ; तथा अश्रोत्रम् , ‘स शृणोत्यकर्णः’ (शे. ३ । १९) इति ; भवतु तर्हि वाक् — अवाक् ; तथा अमनः, तथा अतेजस्कम् अविद्यमानं तेजोऽस्य तत् अतेजस्कम् ; न हि तेजः अग्न्यादिप्रकाशवत् अस्य विद्यते ; अप्राणम् — आध्यात्मिको वायुः प्रतिषिध्यतेऽप्राणमिति ; मुखं तर्हि द्वारं तत् — अमुखम् ; अमात्रम् — मीयते येन तन्मात्रम् , अमात्रम् मात्रारूपं तन्न भवति, न तेन किञ्चिन्मीयते ; अस्तु तर्हि च्छिद्रवत् — अनन्तरम् नास्यान्तरमस्ति ; सम्भवेत्तर्हि बहिस्तस्य — अबाह्यम् ; अस्तु तर्हि भक्षयितृ तत् — न तदश्नाति किञ्चन ; भवेत् तर्हि भक्ष्यं कस्यचित् — न तदश्नाति कश्चन । सर्वविशेषणरहितमित्यर्थः । एकमेवाद्वितीयं हि तत् — केन किं विशिष्यते ॥
एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठत एतस्य वा अक्षरस्य प्रशासने गार्गि द्यावापृथिव्यौ विधृते तिष्ठत एतस्य वा अक्षरस्य प्रशासने गार्गि निमेषा मुहूर्ता अहोरात्राण्यर्धमासा मासा ऋतवः संवत्सरा इति विधृतास्तिष्ठन्त्येतस्य वा अक्षरस्य प्रशासने गार्गि प्राच्योऽन्या नद्यः स्यन्दन्ते श्वेतेभ्यः पर्वतेभ्यः प्रतीच्योऽन्या यां यां च दिशमन्वेतस्य वा अक्षरस्य प्रशासने गार्गि ददतो मनुष्याः प्रशंसन्ति यजमानं देवा दर्वीं पितरोऽन्वायत्ताः ॥ ९ ॥
अनेकविशेषणप्रतिषेधप्रयासात् अस्तित्वं तावदक्षरस्योपगमितं श्रुत्या ; तथापि लोकबुद्धिमपेक्ष्य आशङ्क्यते यतः, अतोऽस्तित्वाय अनुमानं प्रमाणमुपन्यस्यति — एतस्य वा अक्षरस्य । यदेतदधिगतमक्षरं सर्वान्तरं साक्षादपरोक्षाद्ब्रह्म, य आत्मा अशनायादिधर्मातीतः, एतस्य वा अक्षरस्य प्रशासने — यथा राज्ञः प्रशासने राज्यमस्फुटितं नियतं वर्तते, एवमेतस्याक्षरस्य प्रशासने — हे गार्गि सूर्याचन्द्रमसौ, सूर्यश्च चन्द्रमाश्च सूर्याचन्द्रमसौ अहोरात्रयोर्लोकप्रदीपौ, तादर्थ्येन प्रशासित्रा ताभ्यां निर्वर्त्यमानलोकप्रयोजनविज्ञानवता निर्मितौ च, स्याताम् — साधारणसर्वप्राणिप्रकाशोपकारकत्वात् लौकिकप्रदीपवत् । तस्मादस्ति तत् , येन विधृतौ ईश्वरौ स्वतन्त्रौ सन्तौ निर्मितौ तिष्ठतः नियतदेशकालनिमित्तोदयास्तमयवृद्धिक्षयाभ्यां वर्तेते ; तदस्ति एवमेतयोः प्रशासितृ अक्षरम् , प्रदीपकर्तृविधारयितृवत् । एतस्य वा अक्षरस्य प्रशासने गार्गि द्यावापृथिव्यौ — द्यौश्च पृथिवी च सावयवत्वात् स्फुटनस्वभावे अपि सत्यौ गुरुत्वात्पतनस्वभावे संयुक्तत्वाद्वियोगस्वभावे चेतनावदभिमानिदेवताधिष्ठितत्वात्स्वतन्त्रे अपि — एतस्याक्षरस्य प्रशासने वर्तेते विधृते तिष्ठतः ; एतद्धि अक्षरं सर्वव्यवस्थासेतुः सर्वमर्यादाविधरणम् ; अतो नास्याक्षरस्य प्रशासनं द्यावापृथिव्यावतिक्रामतः ; तस्मात् सिद्धमस्यास्तित्वमक्षरस्य ; अव्यभिचारि हि तल्लिङ्गम् , यत् द्यावापृथिव्यौ नियते वर्तेते ; चेतनावन्तं प्रशासितारमसंसारिणमन्तरेण नैतद्युक्तम् , ‘येन द्यौरुग्रा पृथिवी च दृढा’ (ऋ. सं. १० । १२१ । ५) इति मन्त्रवर्णात् । एतस्य वा अक्षरस्य प्रशासने गार्गि, निमेषाः मुहूर्ताः इत्येते कालावयवाः सर्वस्यातीतानागतवर्तमानस्य जनिमतः कलयितारः — यथा लोके प्रभुणा नियतो गणकः सर्वम् आयं व्ययं च अप्रमत्तो गणयति, तथा प्रभुस्थानीय एषां कालावयवानां नियन्ता । तथा प्राच्यः प्रागञ्चनाः पूर्वदिग्गमनाः नद्यः स्यन्दन्ते स्रवन्ति, श्वेतेभ्यः हिमवदादिभ्यः पर्वतेभ्यः गिरिभ्यः, गङ्गाद्या नद्यः — ताश्च यथा प्रवर्तिता एव नियताः प्रवर्तन्ते, अन्यथापि प्रवर्तितुमुत्सहन्त्यः ; तदेतल्लिङ्गं प्रशास्तुः । प्रतीच्योऽन्याः प्रतीचीं दिशमञ्चन्ति सिन्ध्वाद्या नद्यः ; अन्याश्च यां यां दिशमनुप्रवृत्ताः, तां तां न व्यभिचरन्ति ; तच्च लिङ्गम् । किञ्च ददतः हिरण्यादीन्प्रयच्छतः आत्मपीडां कुर्वतोऽपि प्रमाणज्ञा अपि मनुष्याः प्रशंसन्ति ; तत्र यच्च दीयते, ये च ददति, ये च प्रतिगृह्णन्ति, तेषामिहैव समागमो विलयश्च अन्वक्षो दृश्यते ; अदृष्टस्तु परः समागमः ; तथापि मनुष्या ददतां दानफलेन संयोगं पश्यन्तः प्रमाणज्ञतया प्रशंसन्ति ; तच्च, कर्मफलेन संयोजयितरि कर्तुः — कर्मफलविभागज्ञे प्रशास्तरि असति, न स्यात् , दानक्रियायाः प्रत्यक्षविनाशित्वात् ; तस्मादस्ति दानकर्तॄणां फलेन संयोजयिता । अपूर्वमिति चेत् , न, तत्सद्भावे प्रमाणानुपपत्तेः । प्रशास्तुरपीति चेत् , न, आगमतात्पर्यस्य सिद्धत्वात् ; अवोचाम हि आगमस्य वस्तुपरत्वम् । किञ्चान्यत् — अपूर्वकल्पनायां च अर्थापत्तेः क्षयः, अन्यथैवोपपत्तेः, सेवाफलस्य सेव्यात्प्राप्तिदर्शनात् ; सेवायाश्च क्रियात्वात् तत्सामान्याच्च यागदानहोमादीनां सेव्यात् ईश्वरादेः फलप्राप्तिरुपपद्यते । दृष्टक्रियाधर्मसामर्थ्यमपरित्यज्यैव फलप्राप्तिकल्पनोपपत्तौ दृष्टक्रियाधर्मसामर्थ्यपरित्यागो न न्याय्यः । कल्पनाधिक्याच्च — ईश्वरः कल्प्यः, अपूर्वं वा ; तत्र क्रियायाश्च स्वभावः सेव्यात्फलप्राप्तिः दृष्टा, न त्वपूर्वात् ; न च अपूर्वं दृष्टम् , तत्र अपूर्वमदृष्टं कल्पयितव्यम् , तस्य च फलदातृत्वे सामर्थ्यम् , सामर्थ्ये च सति दानं च अभ्यधिकमिति ; इह तु ईश्वरस्य सेव्यस्य सद्भावमात्रं कल्प्यम् , न तु फलदानसामर्थ्यं दातृत्वं च, सेव्यात्फलप्राप्तिदर्शनात् । अनुमानं च दर्शितम् — ‘द्यावापृथिव्यौ विधृते तिष्ठतः’ इत्यादि । तथा च यजमानं देवाः ईश्वराः सन्तो जीवनार्थेऽनुगताः चरुपुरोडाशाद्युपजीवनप्रयोजनेन, अन्यथापि जीवितुमुत्सहन्तः कृपणां दीनां वृत्तिमाश्रित्य स्थिताः — तच्च प्रशास्तुः प्रशासनात्स्यात् । तथा पितरोऽपि तदर्थम् , दर्वीम् दर्वीहोमम् अन्वायत्ता अनुगता इत्यर्थः समानं सर्वमन्यत् ॥
यो वा एतदक्षरं गार्ग्यविदित्वास्मिँल्लोके जुहोति यजते तपस्तप्यते बहूनि वर्षसहस्राण्यन्तवदेवास्य तद्भवति यो वा एतदक्षरं गार्ग्यविदित्वास्माल्लोकात्प्रैति स कृपणोऽथ य एतदक्षरं गार्गि विदित्वास्माल्लोकात्प्रैति स ब्राह्मणः ॥ १० ॥
इतश्चास्ति तदक्षरम् , यस्मात् तदज्ञाने नियता संसारोपपत्तिः ; भवितव्यं तु तेन, यद्विज्ञानात् तद्विच्छेदः, न्यायोपपत्तेः । ननु क्रियात एव तद्विच्छित्तिः स्यादिति चेत् , न — यो वा एतदक्षरं हे गार्गि अविदित्वा अविज्ञाय अस्मिन् लोके जुहोति यजते तपस्तप्यते यद्यपि बहूनि वर्षसहस्राणि, अन्तवदेवास्य तत्फलं भवति, तत्फलोपभोगान्ते क्षीयन्त एवास्य कर्माणि । अपि च यद्विज्ञानात्कार्पण्यात्ययः संसारविच्छेदः, यद्विज्ञानाभावाच्च कर्मकृत् कृपणः कृतफलस्यैवोपभोक्ता जननमरणप्रबन्धारूढः संसरति — तदस्ति अक्षरं प्रशासितृ ; तदेतदुच्यते — यो वा एतदक्षरं गार्ग्यविदित्वास्माल्लोकात्प्रैति स कृपणः, पणक्रीत इव दासादिः । अथ य एतदक्षरं गार्गि विदित्वा अस्माल्लोकात्प्रैति स ब्राह्मणः ॥
अग्नेर्दहनप्रकाशकत्ववत् स्वाभाविकमस्य प्रशास्तृत्वम् अचेतनस्यैवेत्यत आह —
तद्वा एतदक्षरं गार्ग्यदृष्टं द्रष्ट्रश्रुतं श्रोत्रमतं मन्त्रविज्ञातं विज्ञातृ नान्यदतोऽस्ति द्रष्टृ नान्यदतोऽस्ति श्रोतृ नान्यदतोऽस्ति मन्तृ नान्यदतोऽस्ति विज्ञात्रेतस्मिन्नु खल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्चेति ॥ ११ ॥
तद्वा एतदक्षरं गार्गि अदृष्टम् , न केनचिद्दृष्टम् , अविषयत्वात् स्वयं तु द्रष्टृ दृष्टिस्वरूपत्वात् । तथा अश्रुतं श्रोत्राविषयत्वात् , स्वयं श्रोतृ श्रुतिस्वरूपत्वात् । तथा अमतं मनसोऽविषयत्वात् स्वयं मन्तृ मतिस्वरूपत्वात् । तथा अविज्ञातं बुद्धेरविषयत्वात् , स्वयं विज्ञातृ विज्ञानस्वरूपत्वात् । किं च नान्यत् अतः अस्मादक्षरात् अस्ति — नास्ति किञ्चिद्द्रष्टृ दर्शनक्रियाकर्तृ ; एतदेवाक्षरं दर्शनक्रियाकर्तृ सर्वत्र । तथा नान्यदतोऽस्ति श्रोतृ ; तदेवाक्षरं श्रोतृ सर्वत्र । नान्यदतोऽस्ति मन्तृ ; तदेवाक्षरं मन्तृ सर्वत्र सर्वमनोद्वारेण । नान्यदतोऽस्ति विज्ञातृ विज्ञानक्रियाकर्तृ, तदेवाक्षरं सर्वबुद्धिद्वारेण विज्ञानक्रियाकर्तृ, नाचेतनं प्रधानम् अन्यद्वा । एतस्मिन्नु खल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्चेति । यदेव साक्षादपरोक्षाद्ब्रह्म, य आत्मा सर्वान्तरः अशनायादिसंसारधर्मातीतः, यस्मिन्नाकाश ओतश्च प्रोतश्च — एषा परा काष्ठा, एषा परा गतिः, एतत्परं ब्रह्म, एतत्पृथिव्यादेराकाशान्तस्य सत्यस्य सत्यम् ॥
सा होवाच ब्राह्मणा भगवन्तस्तदेव बहुमन्येध्वं यदस्मान्नमस्कारेण मुच्येध्वं न वै जातु युष्माकमिमं कश्चिद्ब्रह्मोद्यं जेतेति ततो ह वाचक्नव्युपरराम ॥ १२ ॥
सा होवाच — हे ब्राह्मणा भगवन्तः शृणुत मदीयं वचः ; तदेव बहुमन्येध्वम् ; किं तत् ? यदस्मात् याज्ञवल्क्यात् नमस्कारेण मुच्येध्वम् — अस्मै नमस्कारं कृत्वा, तदेव बहुमन्यध्वमित्यर्थः ; जयस्त्वस्य मनसापि नाशंसनीयः, किमुत कार्यतः ; कस्मात् ? न वै युष्माकं मध्ये जातु कदाचिदपि इमं याज्ञवल्क्यं ब्रह्मोद्यं प्रति जेता । प्रश्नौ चेन्मह्यं वक्ष्यति, न वै जेता भविता — इति पूर्वमेव मया प्रतिज्ञातम् ; अद्यापि ममायमेव निश्चयः — ब्रह्मोद्यं प्रति एतत्तुल्यो न कश्चिद्विद्यत इति । ततो ह वाचक्नव्युपरराम ॥
अत्र अन्तर्यामिब्राह्मणे एतदुक्तम् — यं पृथिवी न वेद, यं सर्वाणि भूतानि न विदुरिति च, यमन्तर्यामिणं न विदुः, ये च न विदुः, यच्च तदक्षरं दर्शनादिक्रियाकर्तृत्वेन सर्वेषां चेतनाधातुरित्युक्तम् — कस्तु एषां विशेषः, किं वा सामान्यमिति । तत्र केचिदाचक्षते — परस्य महासमुद्रस्थानीयस्य ब्रह्मणः अक्षरस्य अप्रचलितस्वरूपस्य ईषत्प्रचलितावस्था अन्तर्यामी ; अत्यन्तप्रचलितावस्था क्षेत्रज्ञः, यः तं न वेद अन्तर्यामिणम् ; तथा अन्याः पञ्चावस्थाः परिकल्पयन्ति ; तथा अष्टावस्था ब्रह्मणो भवन्तीति वदन्ति । अन्ये अक्षरस्य शक्तय एता इति वदन्ति, अनन्तशक्तिमदक्षरमिति च । अन्ये तु अक्षरस्य विकारा इति वदन्ति । अवस्थाशक्ती तावन्नोपपद्येते, अक्षरस्य अशनायादिसंसारधर्मातीतत्वश्रुतेः ; न हि अशनायाद्यतीतत्वम् अशनायादिधर्मवदवस्थावत्त्वं च एकस्य युगपदुपपद्यते ; तथा शक्तिमत्त्वं च । विकारावयवत्वे च दोषाः प्रदर्शिताश्चतुर्थे । तस्मात् एता असत्याः सर्वाः कल्पनाः । कस्तर्हि भेद एषाम् ? उपाधिकृत इति ब्रूमः ; न स्वत एषां भेदः अभेदो वा, सैन्धवघनवत् प्रज्ञानघनैकरसस्वाभाव्यात् , ‘अपूर्वमनपरमनन्तरमबाह्यम्’ (बृ. उ. २ । ५ । १९) ‘अयमात्मा ब्रह्म’ (बृ. उ. २ । ५ । १९) इति च श्रुतेः — ‘सबाह्याभ्यन्तरो ह्यजः’ (मु. उ. २ । १ । २) इति च आथर्वणे । तस्मात् निरुपाधिकस्य आत्मनो निरूपाख्यत्वात् निर्विशेषत्वात् एकत्वाच्च ‘नेति नेति’ (बृ. उ. २ । ३ । ६) इति व्यपदेशो भवति ; अविद्याकामकर्मविशिष्टकार्यकरणोपाधिरात्मा संसारी जीव उच्यते ; नित्यनिरतिशयज्ञानशक्त्युपाधिरात्मा अन्तर्यामी ईश्वर उच्यते ; स एव निरुपाधिः केवलः शुद्धः स्वेन स्वभावेन अक्षरं पर उच्यते । तथा हिरण्यगर्भाव्याकृतदेवताजातिपिण्डमनुष्यतिर्यक्प्रेतादिकार्यकरणोपाधिभिर्विशिष्टः तदाख्यः तद्रूपो भवति । तथा ‘तदेजति तन्नैजति’ (ई. उ. ५) इति व्याख्यातम् । तथा ‘एष त आत्मा’ (बृ. उ. ३ । ४ । १), (बृ. उ. ३ । ५ । १) ‘एष सर्वभूतान्तरात्मा’ (मु. उ. २ । १ । ४) ‘एष सर्वेषु भूतेषु गूढः’ (क. उ. १ । ३ । १२) ‘तत्त्वमसि’ (छा. उ. ६ । ८ । ७) ‘अहमेवेदं सर्वम्’ (छा. उ. ७ । २५ । १) ‘आत्मैवेदं सर्वम्’ ‘नान्योऽतोऽस्ति द्रष्टा’ (बृ. उ. ३ । ७ । २३) इत्यादिश्रुतयो न विरुध्यन्ते । कल्पनान्तरेषु एताः श्रुतयो न गच्छन्ति । तस्मात् उपाधिभेदेनैव एषां भेदः, नान्यथा, ‘एकमेवाद्वितीयम्’ इत्यवधारणात्सर्वोपनिषत्सु ॥
इति तृतीयाध्यायस्य अष्टमं ब्राह्मणम् ॥
अथ हैनं विदग्धः शाकल्यः पप्रच्छ । पृथिव्यादीनां सूक्ष्मतारतम्यक्रमेण पूर्वस्य पूर्वस्य उत्तरस्मिन्नुत्तरस्मिन् ओतप्रोतभावं कथयन् सर्वान्तरं ब्रह्म प्रकाशितवान् ; तस्य च ब्रह्मणो व्याकृतविषये सूत्रभेदेषु नियन्तृत्वमुक्तम् — व्याकृतविषये व्यक्ततरं लिङ्गमिति । तस्यैव ब्रह्मणः साक्षादपरोक्षत्वे नियन्तव्यदेवताभेदसङ्कोचविकासद्वारेणाधिगन्तव्ये इति तदर्थं शाकल्यब्राह्मणमारभ्यते —
अथ हैनं विदग्धः शाकल्यः पप्रच्छ कति देवा याज्ञवल्क्येति स हैतयैव निविदा प्रतिपेदे यावन्तो वैश्वदेवस्य निविद्युच्यन्ते त्रयश्च त्री च शता त्रयश्च त्री च सहस्रेत्योमिति होवाच कत्येव देवा याज्ञवल्क्येति त्रयस्त्रिंशदित्योमिति होवाच कत्येव देवा याज्ञवल्क्येति षडित्योमिति होवाच कत्येव देवा याज्ञवल्क्येति त्रय इत्योमिति होवाच कत्येव देवा याज्ञवल्क्येति द्वावित्योमिति होवाच कत्येव देवा याज्ञवल्क्येत्यध्यर्ध इत्योमिति होवाच कत्येव देवा याज्ञवल्क्येत्येक इत्योमिति होवाच कतमे ते त्रयश्च त्री च शता त्रयश्च त्री च सहस्रेति ॥ १ ॥
अथ हैनं विदग्ध इति नामतः, शकलस्यापत्यं शाकल्यः, पप्रच्छ — कतिसङ्ख्याका देवाः हे याज्ञवल्क्येति । स याज्ञवल्क्यः, ह किल, एतयैव वक्ष्यमाणया निविदा प्रतिपेदे सङ्ख्याम् , यां सङ्ख्यां पृष्टवान् शाकल्यः ; यावन्तः यावत्सङ्ख्याका देवाः वैश्वदेवस्य शस्त्रस्य निविदि — निविन्नाम देवतासङ्ख्यावाचकानि मन्त्रपदानि कानिचिद्वैश्वदेवे शस्त्रे शस्यन्ते, तानि निवित्संज्ञकानि ; तस्यां निविदि यावन्तो देवाः श्रूयन्ते, तावन्तो देवा इति । का पुनः सा निविदिति तानि निवित्पदानि प्रदर्श्यन्ते — त्रयश्च त्री च शतात्रयश्च देवाः, देवानां त्री च त्रीणि च शतानि ; पुनरप्येवं त्रयश्च, त्री च सहस्रा सहस्राणि — एतावन्तो देवा इति । शाकल्योऽपि ओमिति होवाच । एवमेषां मध्यमा सङ्ख्या सम्यक्तया ज्ञाता ; पुनस्तेषामेव देवानां सङ्कोचविषयां सङ्ख्यां पृच्छति — कत्येव देवा याज्ञवल्क्येति ; त्रयस्त्रिंशत् , षट् , त्रयः, द्वौ, अध्यर्धः, एकः — इति । देवतासङ्कोचविकासविषयां सङ्ख्यां पृष्ट्वा पुनः सङ्ख्येयस्वरूपं पृच्छति — कतमे ते त्रयश्च त्री च शता त्रयश्च त्री च सहस्रेति ॥
स होवाच महिमान एवैषामेते त्रयस्त्रिंशत्त्वेव देवा इति कतमे ते त्रयस्त्रिंशदित्यष्टौ वसव एकादश रुद्रा द्वादशादित्यास्त एकत्रिंशदिन्द्रश्चैव प्रजापतिश्च त्रयस्त्रिंशाविति ॥ २ ॥
स होवाच इतरः — महिमानः विभूतयः, एषां त्रयस्त्रिंशतः देवानाम् , एते त्रयश्च त्री च शतेत्यादयः ; परमार्थतस्तु त्रयस्त्रिंशत्त्वेव देवा इति । कतमे ते त्रयस्त्रिंशदित्युच्यते — अष्टौ वसवः, एकादश रुद्राः, द्वादश आदित्याः — ते एकत्रिंशत् — इन्द्रश्चैव प्रजापतिश्च त्रयस्त्रिंशाविति त्रयस्त्रिंशतः पूरणौ ॥
कतमे वसव इत्यग्निश्च पृथिवी च वायुश्चान्तरिक्षं चादित्यश्च द्यौश्च चन्द्रमाश्च नक्षत्राणि चैते वसव एतेषु हीदं सर्वं हितमिति तस्माद्वसव इति ॥ ३ ॥
कतमे वसव इति तेषां स्वरूपं प्रत्येकं पृच्छ्यते ; अग्निश्च पृथिवी चेति — अग्न्याद्या नक्षत्रान्ता एते वसवः — प्राणिनां कर्मफलाश्रयत्वेन कार्यकरणसङ्घातरूपेण तन्निवासत्वेन च विपरिणमन्तः जगदिदं सर्वं वासयन्ति वसन्ति च ; ते यस्माद्वासयन्ति तस्माद्वसव इति ॥
कतमे रुद्रा इति दशेमे पुरुषे प्राणा आत्मैकादशस्ते यदास्माच्छरीरान्मर्त्यादुत्क्रामन्त्यथ रोदयन्ति तद्यद्रोदयन्ति तस्माद्रुद्रा इति ॥ ४ ॥
कतमे रुद्रा इति । दश इमे पुरुषे, कर्मबुद्धीन्द्रियाणि प्राणाः, आत्मा मनः एकादशः — एकादशानां पूरणः ; ते एते प्राणाः यदा अस्माच्छरीरात् मर्त्यात् प्राणिनां कर्मफलोपभोगक्षये उत्क्रामन्ति — अथ तदा रोदयन्ति तत्सम्बन्धिनः । तत् तत्र यस्माद्रोदयन्ति ते सम्बन्धिनः, तस्मात् रुद्रा इति ॥
कतम आदित्या इति द्वादश वै मासाः संवत्सरस्यैत आदित्या एते हीदं सर्वमाददाना यन्ति ते यदिदं सर्वमाददाना यन्ति तस्मादादित्या इति ॥ ५ ॥
कतम आदित्या इति । द्वादश वै मासाः संवत्सरस्य कालस्य अवयवाः प्रसिद्धाः, एते आदित्याः ; कथम् ? एते हि यस्मात् पुनः पुनः परिवर्तमानाः प्राणिनामायूंषि कर्मफलं च आददानाः गृह्णन्त उपाददतः यन्ति गच्छन्ति — ते यत् यस्मात् एवम् इदं सर्वमाददाना यन्ति, तस्मादादित्या इति ॥
कतम इन्द्रः कतमः प्रजापतिरिति स्तनयित्नुरेवेन्द्रो यज्ञः प्रजापतिरिति कतमः स्तनयित्नुरित्यशनिरिति कतमो यज्ञ इति पशव इति ॥ ६ ॥
कतम इन्द्रः कतमः प्रजापतिरिति, स्तनयित्नुरेवेन्द्रो यज्ञः प्रजापतिरिति, कतमः स्तनयित्नुरित्यशनिरिति । अशनिः वज्रं वीर्यं बलम् , यत् प्राणिनः प्रमापयति, स इन्द्रः ; इन्द्रस्य हि तत् कर्म । कतमो यज्ञ इति पशव इति — यज्ञस्य हि साधनानि पशवः ; यज्ञस्यारूपत्वात् पशुसाधनाश्रयत्वाच्च पशवो यज्ञ इत्युच्यते ॥
कतमे षडित्यग्निश्च पृथिवी च वायुश्चान्तरिक्षं च आदित्यश्च द्यौश्चैते षडेते हीदं सर्वं षडिति ॥ ७ ॥
कतमे षडिति । त एव अग्न्यादयो वसुत्वेन पठिताः चन्द्रमसं नक्षत्राणि च वर्जयित्वा षड्भवन्ति — षट्सङ्ख्याविशिष्टाः । एते हि यस्मात् , त्रयस्त्रिंशदादि यदुक्तम् इदं सर्वम् , एत एव षड्भवन्ति ; सर्वो हि वस्वादिविस्तर एतेष्वेव षट्सु अन्तर्भवतीत्यर्थः ॥
कतमे ते त्रयो देवा इतीम एव त्रयो लोका एषु हीमे सर्वे देवा इति कतमौ तौ द्वौ देवावित्यन्नं चैव प्राणश्चेति कतमोऽध्यर्ध इति योऽयं पवत इति ॥ ८ ॥
कतमे ते त्रयो देवा इति ; इम एव त्रयो लोका इति — पृथिवीमग्निं च एकीकृत्य एको देवः, अन्तरिक्षं वायुं च एकीकृत्य द्वितीयः, दिवमादित्यं च एकीकृत्य तृतीयः — ते एव त्रयो देवा इति । एषु, हि यस्मात् , त्रिषु देवेषु सर्वे देवा अन्तर्भवन्ति, तेन एत एव देवास्त्रयः — इत्येष नैरुक्तानां केषाञ्चित्पक्षः । कतमौ तौ द्वौ देवाविति — अन्नं चैव प्राणश्च एतौ द्वौ देवौ ; अनयोः सर्वेषामुक्तानामन्तर्भावः । कतमोऽध्यर्ध इति — योऽयं पवते वायुः ॥
तदाहुर्यदयमेक इवैव पवतेऽथ कथमध्यर्ध इति यदस्मिन्निदं सर्वमध्यार्ध्नोत्तेनाध्यर्ध इति कतम एको देव इति प्राण इति स ब्रह्म त्यदित्याचक्षते ॥ ९ ॥
तत् तत्र आहुः चोदयन्ति — यदयं वायुः एक इवैव एक एव पवते ; अथ कथमध्यर्ध इति । यत् अस्मिन् इदं सर्वमध्यार्ध्नोत् — अस्मिन्वायौ सति इदं सर्वमध्यार्ध्नोत् — अधि ऋद्धिं प्राप्नोति — तेनाध्यर्ध इति । कतम एको देव इति, प्राण इति । स प्राणो ब्रह्म — सर्वदेवात्मकत्वान्महद्ब्रह्म, तेन स ब्रह्म त्यदित्याचक्षते — त्यदिति तद्ब्रह्माचक्षते परोक्षाभिधायकेन शब्देन । देवानामेतत् एकत्वं नानात्वं च — अनन्तानां देवानां निवित्सङ्ख्याविशिष्टेष्वन्तर्भावः ; तेषामपि त्रयस्त्रिंशदादिषूत्तरोत्तरेषु यावदेकस्मिन्प्राणे ; प्राणस्यैव चैकस्य सर्वः अनन्तसङ्ख्यातो विस्तरः । एवमेकश्च अनन्तश्च अवान्तरसङ्ख्याविशिष्टश्च प्राण एव । तत्र च देवस्यैकस्य नामरूपकर्मगुणशक्तिभेदः अधिकारभेदात् ॥
इदानीं तस्यैव प्राणस्य ब्रह्मणः पुनरष्टधा भेद उपदिश्यते —
पृथिव्येव यस्यायतनमग्निर्लोको मनोज्योतिर्यो वै तं पुरुषं विद्यात्सर्वस्यात्मनः परायणं स वै वेदिता स्यात् । याज्ञवल्क्य वेद वा अहं तं पुरुषं सर्वस्यात्मनः परायणं यमात्थ य एवायं शारीरः पुरुषः स एष वदैव शाकल्य तस्य का देवतेत्यमृतमिति होवाच ॥ १० ॥
पृथिव्येव यस्य देवस्य आयतनम् आश्रयः ; अग्निर्लोको यस्य — लोकयत्यनेनेति लोकः, पश्यतीति — अग्निना पश्यतीत्यर्थः ; मनोज्योतिः — मनसा ज्योतिषा सङ्कल्पविकल्पादिकार्यं करोति यः, सोऽयं मनोज्योतिः ; पृथिवीशरीरः अग्निदर्शनः मनसा सङ्कल्पयिता पृथिव्यभिमानी कार्यकरणसङ्घातवान्देव इत्यर्थः । य एवं विशिष्टं वै तं पुरुषं विद्यात् विजानीयात् , सर्वस्य आत्मनः आध्यात्मिकस्य कार्यकरणसङ्घातस्य आत्मनः परमयनम् पर आश्रयः तं परायणम् — मातृजेन त्वङ्मांसरुधिररूपेण क्षेत्रस्थानीयेन बीजस्थानीयस्य पितृजस्य अस्थिमज्जाशुक्ररूपस्य परम् अयनम् , करणात्मनश्च — स वै वेदिता स्यात् ; य एतदेवं वेत्ति स वै वेदिता पण्डितः स्यादित्यभिप्रायः । याज्ञवल्क्य त्वं तमजानन्नेव पण्डिताभिमानीत्यभिप्रायः । यदि तद्विज्ञाने पाण्डित्यं लभ्यते, वेद वै अहं तं पुरुषम् — सर्वस्य आत्मनः परायणं यमात्थ यं कथयसि — तमहं वेद । तत्र शाकल्यस्य वचनं द्रष्टव्यम् — यदि त्वं वेत्थ तं पुरुषम् , ब्रूहि किंविशेषणोऽसौ । शृणु, यद्विशेषणः सः — य एवायं शारीरः पार्थिवांशे शरीरे भवः शारीरः मातृजकोशत्रयरूप इत्यर्थः ; स एष देवः, यस्त्वया पृष्टः, हे शाकल्य ; किन्तु अस्ति तत्र वक्तव्यं विशेषणान्तरम् ; तत् वदैव पृच्छैवेत्यर्थः, हे शाकल्य । स एवं प्रक्षोभितोऽमर्षवशग आह, तोत्रार्दित इव गजः — तस्य देवस्य शारीरस्य का देवता — यस्मान्निष्पद्यते, यः ‘सा तस्य देवता’ इत्यस्मिन्प्रकरणे विवक्षितः ; अमृतमिति होवाच — अमृतमिति यो भुक्तस्यान्नस्य रसः मातृजस्य लोहितस्य निष्पत्तिहेतुः ; तस्माद्धि अन्नरसाल्लोहितं निष्पद्यते स्त्रियां श्रितम् ; ततश्च लोहितमयं शरीरं बीजाश्रयम् । समानमन्यत् ॥
काम एव यस्यायतनं हृदयं लोको मनो ज्योतिर्यो वै तं पुरुषं विद्यात्सर्वस्यात्मनः परायणं स वै वेदिता स्यात् । याज्ञवल्क्य वेद वा अहं तं पुरुषं सर्वस्यात्मनः परायणं यमात्थ य एवायं काममयः पुरुषः स एष वदैव शाकल्य तस्य का देवतेति स्त्रिय इति होवाच ॥ ११ ॥
काम एव यस्यायतनम् । स्त्रीव्यतिकराभिलाषः कामः कामशरीर इत्यर्थः । हृदयं लोकः, हृदयेन बुद्ध्या पश्यति । य एवायं काममयः पुरुषः अध्यात्ममपि काममय एव, तस्य का देवतेति — स्त्रिय इति होवाच ; स्त्रीतो हि कामस्य दीप्तिर्जायते ॥
रूपाण्येव यस्यायतनं चक्षुर्लोको मनोज्योतिर्यो वै तं पुरुषं विद्यात्सर्वस्यात्मनः परायणं स वै वेदिता स्यात् । याज्ञवल्क्य वेद वा अहं तं पुरुषं सर्वस्यात्मनः परायणं यमात्थ य एवासावादित्ये पुरुषः स एष वदैव शाकल्य तस्य का देवतेति सत्यमिति होवाच ॥ १२ ॥
रूपाण्येव यस्यायतनम् । रूपाणि शुक्लकृष्णादीनि । य एवासावादित्ये पुरुषः — सर्वेषां हि रूपाणां विशिष्टं कार्यमादित्ये पुरुषः, तस्य का देवतेति — सत्यमिति होवाच ; सत्यमिति चक्षुरुच्यते ; चक्षुषो हि अध्यात्मत आदित्यस्याधिदैवतस्य निष्पत्तिः ॥
आकाश एव यस्यायतनं श्रोत्रं लोको मनोज्योतिर्यो वै तं पुरुषं विद्यात्सर्वस्यात्मनः परायणं स वै वेदिता स्यात् । याज्ञवल्क्य वेद वा अहं तं पुरषं सर्वस्यात्मनः परायणं यमात्थ य एवायं श्रौत्रः प्रातिश्रुत्कः पुरुषः स एष वदैव शाकल्य तस्य का देवतेति दिश इति होवाच ॥ १३ ॥
आकाश एव यस्यायतनम् । य एवायं श्रोत्रे भवः श्रौत्रः, तत्रापि प्रतिश्रवणवेलायां विशेषतो भवतीति प्रातिश्रुत्कः, तस्य का देवतेति — दिश इति होवाच ; दिग्भ्यो ह्यसौ आध्यात्मिको निष्पद्यते ॥
तम एव यस्यायतनं हृदयं लोको मनोज्योतिर्यो वै तं पुरुषं विद्यात्सर्वस्यात्मनः परायणं स वै वेदिता स्यात् । याज्ञवल्क्य वेद वा अहं तं पुरुषं सर्वस्यात्मनः परायणं यमात्थ य एवायं छायामयः पुरुषः स एष वदैव शाकल्य तस्य का देवतेति मृत्युरिति होवाच ॥ १४ ॥
तम एव यस्यायतनम् । तम इति शार्वराद्यन्धकारः परिगृह्यते ; अध्यात्मं छायामयः अज्ञानमयः पुरुषः ; तस्य का देवतेति — मृत्युरिति होवाच ; मृत्युरधिदैवतं तस्य निष्पत्तिकारणम् ॥
रूपाण्येव यस्यायतनं चक्षुर्लोको मनोज्योतिर्यो वै तं पुरुषं विद्यात्सर्वस्यात्मनः परायणं स वै वेदिता स्यात् । याज्ञवल्क्यस्य वेद वा अहं तं पुरुषं सर्वस्यात्मनः परायणं यमात्थ य एवायमादर्शे पुरुषः स एष वदैव शाकल्य तस्य का देवतेत्यसुरिति होवाच ॥ १५ ॥
रूपाण्येव यस्यायतनम् । पूर्वं साधारणानि रूपाण्युक्तानि इह तु प्रकाशकानि विशिष्टानि रूपाणि गृह्यन्ते ; रूपायतनस्य देवस्य विशेषायतनं प्रतिबिम्बाधारमादर्शादि ; तस्य का देवतेति — असुरिति होवाच ; तस्य प्रतिबिम्बाख्यस्य पुरुषस्य निष्पत्तिः असोः प्राणात् ॥
आप एव यस्यायतनं हृदयं लोको मनोज्योतिर्यो वै तं पुरुषं विद्यात्सर्वस्यात्मनः परायणं स वै वेदिता स्यात् । याज्ञवल्क्य वेद वा अहं तं पुरुषं सर्वस्यात्मनः परायणं यमात्थ य एवायमप्सु पुरुषः स एष वदैव शाकल्य तस्य का देवतेति वरुण इति होवाच ॥ १६ ॥
आप एव यस्य आयतनम् । साधारणाः सर्वा आप आयतनम् ; वापीकूपतडागाद्याश्रयासु अप्सु विशेषावस्थानम् ; तस्य का देवतेति, वरुण इति — वरुणात् सङ्घातकर्त्र्यः अध्यात्मम् आप एव वाप्याद्यपां निष्पत्तिकारणम् ॥
रेत एव यस्यायतनं हृदयं लोको मनोज्योतिर्यो वै तं पुरुषं विद्यात्सर्वस्यात्मनः परायणं स वै वेदिता स्यात् । याज्ञवल्क्य वेद वा अहं तं पुरुषं सर्वस्यात्मनः परायणं यमात्थ य एवायं पुत्रमयः पुरुषः स एष वदैव शाकल्य तस्य का देवतेति प्रजापतिरिति होवाच ॥ १७ ॥
रेत एव यस्यायतनम् ; य एवायं पुत्रमयः विशेषायतनं रेतआयतनस्य — पुत्रमय इति च अस्थिमज्जाशुक्राणि पितुर्जातानि ; तस्य का देवतेति, प्रजापतिरिति होवाच — प्रजापतिः पितोच्यते, पितृतो हि पुत्रस्योत्पत्तिः ॥
शाकल्येति होवाच याज्ञवल्क्यस्त्वां स्विदिमे ब्राह्मणा अङ्गारावक्षयणमक्रता३ इति ॥ १८ ॥
अष्टधा देवलोकपुरुषभेदेन त्रिधा त्रिधा आत्मानं प्रविभज्य अवस्थित एकैको देवः प्राणभेद एव उपासनार्थं व्यपदिष्टः ; अधुना दिग्विभागेन पञ्चधा प्रविभक्तस्य आत्मन्युपसंहारार्थम् आह ; तूष्णीम्भूतं शाकल्यं याज्ञवल्क्यो ग्रहेणेव आवेशयन्नाह — शाकल्येति होवाच याज्ञवल्क्यः ; त्वां स्विदिति वितर्के, इमे नूनं ब्राह्मणाः, अङ्गारावक्षयणम् — अङ्गाराः अवक्षीयन्ते यस्मिन् सन्दंशादौ तत् अङ्गारावक्षयणम् — तत् नूनं त्वाम् अक्रत कृतवन्तः ब्राह्मणाः, त्वं तु तन्न बुध्यसे आत्मानं मया दह्यमानमित्यभिप्रायः ॥
याज्ञवल्क्येति होवाच शाकल्यो यदिदं कुरुपञ्चालानां ब्राह्मणानत्यवादीः किं ब्रह्म विद्वानिति दिशो वेद सदेवाः सप्रतिष्ठा इति यद्दिशो वेत्थ सदेवाः सप्रतिष्ठाः ॥ १९ ॥
याज्ञवल्क्येति होवाच शाकल्यः — यदिदं कुरुपञ्चालानां ब्राह्मणान् अत्यवादीः अत्युक्तवानसि — स्वयं भीतास्त्वामङ्गारावक्षयणं कृतवन्त इति — किं ब्रह्म विद्वान्सन् एवमधिक्षिपसि ब्राह्मणान् । याज्ञवल्क्य आह — ब्रह्मविज्ञानं तावदिदं मम ; किं तत् ? दिशो वेद दिग्विषयं विज्ञानं जाने ; तच्च न केवलं दिश एव, सदेवाः देवैः सह दिगधिष्ठातृभिः, किञ्च सप्रतिष्ठाः प्रतिष्ठाभिश्च सह । इतर आह — यत् यदि दिशो वेत्थ सदेवाः सप्रतिष्टा इति, सफलं यदि विज्ञानं त्वया प्रतिज्ञातम् ॥
किन्देवतोऽस्यां प्राच्यां दिश्यसीत्यादित्यदेवत इति स आदित्यः कस्मिन्प्रतिष्ठित इति चक्षुषीति कस्मिन्नु चक्षुः प्रतिष्ठितमिति रूपेष्विति चक्षुषा हि रूपाणि पश्यति कस्मिन्नु रूपाणि प्रतिष्ठितानीति हृदय इति होवाच हृदयेन हि रूपाणि जानाति हृदये ह्येव रूपाणि प्रतिष्ठितानि भवन्तीत्येवमेवैतद्याज्ञवल्क्य ॥ २० ॥
किन्देवतः का देवता अस्य तव दिग्भूतस्य । असौ हि याज्ञवल्क्यः हृदयमात्मानं दिक्षु पञ्चधा विभक्तं दिगात्मभूतम् , तद्द्वारेण सर्वं जगत् आत्मत्वेनोपगम्य, अहमस्मि दिगात्मेति व्यवस्थितः, पूर्वाभिमुखः — सप्रतिष्ठावचनात् ; यथा याज्ञवल्क्यस्य प्रतिज्ञा तथैव पृच्छति — किन्देवतस्त्वमस्यां दिश्यसीति । सर्वत्र हि वेदे यां यां देवतामुपास्ते इहैव तद्भूतः तां तां प्रतिपद्यत इति ; तथा च वक्ष्यति — ‘देवो भूत्वा देवानप्येति’ (बृ. उ. ४ । १ । २) इति । अस्यां प्राच्यां का देवता दिगात्मनस्तव अधिष्ठात्री, कया देवतया त्वं प्राचीदिग्रूपेण सम्पन्न इत्यर्थः । इतर आह — आदित्यदेवत इति ; प्राच्यां दिशि मम आदित्यो देवता, सोऽहमादित्यदेवतः । सदेवा इत्येतत् उक्तम् , सप्रतिष्ठा इति तु वक्तव्यमित्याह — स आदित्यः कस्मिन्प्रतिष्ठित इति, चक्षुषीति ; अध्यात्मतश्चक्षुष आदित्यो निष्पन्न इति हि मन्त्रब्राह्मणवादाः — ‘चक्षोः सूर्यो अजायत’ (ऋ. सं. १० । ९० । १३) ‘चक्षुष आदित्यः’ (ऐ. उ. १ । १ । ४) इत्यादयः ; कार्यं हि कारणे प्रतिष्ठितं भवति । कस्मिन्नु चक्षुः प्रतिष्ठितमिति, रूपेष्विति ; रूपग्रहणाय हि रूपात्मकं चक्षुः रूपेण प्रयुक्तम् ; यैर्हि रूपैः प्रयुक्तं तैरात्मग्रहणाय आरब्धं चक्षुः ; तस्मात् सादित्यं चक्षुः सह प्राच्या दिशा सह तत्स्थैः सर्वैः रूपेषु प्रतिष्ठितम् । चक्षुषा सह प्राची दिक्सर्वा रूपभूता ; तानि च कस्मिन्नु रूपाणि प्रतिष्ठितानीति ; हृदय इति होवाच ; हृदयारब्धानि रूपाणि ; रूपाकारेण हि हृदयं परिणतम् ; यस्मात् हृदयेन हि रूपाणि सर्वो लोको जानाति ; हृदयमिति बुद्धिमनसी एकीकृत्य निर्देशः ; तस्मात् हृदये ह्येव रूपाणि प्रतिष्ठितानि ; हृदयेन हि स्मरणं भवति रूपाणां वासनात्मनाम् ; तस्मात् हृदये रूपाणि प्रतिष्ठितानीत्यर्थः । एवमेवैतद्याज्ञवल्क्य ॥
किन्देवतोऽस्यां दक्षिणायां दिश्यसीति यमदेवत इति स यमः कस्मिन्प्रतिष्ठित इति यज्ञ इति कस्मिन्नु यज्ञः प्रतिष्ठित इति दक्षिणायामिति कस्मिन्नु दक्षिणा प्रतिष्ठितेति श्रद्धायामिति यदा ह्येव श्रद्धत्तेऽथ दक्षिणां ददाति श्रद्धायां ह्येव दक्षिणा प्रतिष्ठितेति कस्मिन्नु श्रद्धा प्रतिष्ठितेति हृदय इति होवाच हृदयेन हि श्रद्धां जानाति हृदये ह्येव श्रद्धा प्रतिष्ठिता भवतीत्येवमेवैतद्याज्ञवल्क्य ॥ २१ ॥
किन्देवतोऽस्यां दक्षिणायां दिश्यसीति पूर्ववत् — दक्षिणायां दिशि का देवता तव । यमदेवत इति — यमो देवता मम दक्षिणादिग्भूतस्य । स यमः कस्मिन्प्रतिष्ठित इति, यज्ञ इति — यज्ञे कारणे प्रतिष्ठितो यमः सह दिशा । कथं पुनर्यज्ञस्य कार्यं यम इत्युच्यते — ऋत्विग्भिर्निष्पादितो यज्ञः ; दक्षिणया यजमानस्तेभ्यो यज्ञं निष्क्रीय तेन यज्ञेन दक्षिणां दिशं सह यमेनाभिजायति ; तेन यज्ञे यमः कार्यत्वात्प्रतिष्ठितः सह दक्षिणया दिशा । कस्मिन्नु यज्ञः प्रतिष्ठित इति, दक्षिणायामिति — दक्षिणया स निष्क्रीयते ; तेन दक्षिणाकार्यं यज्ञः । कस्मिन्नु दक्षिणा प्रतिष्ठितेति, श्रद्धायामिति — श्रद्धा नाम दित्सुत्वम् आस्तिक्यबुद्धिर्भक्तिसहिता । कथं तस्यां प्रतिष्ठिता दक्षिणा ? यस्मात् यदा ह्येव श्रद्धत्ते अथ दक्षिणां ददाति, न अश्रद्दधत् दक्षिणां ददाति ; तस्मात् श्रद्धायां ह्येव दक्षिणा प्रतिष्ठितेति । कस्मिन्नु श्रद्धा प्रतिष्ठितेति, हृदय इति होवाच — हृदयस्य हि वृत्तिः श्रद्धा यस्मात् , हृदयेन हि श्रद्धां जानाति ; वृत्तिश्च वृत्तिमति प्रतिष्ठिता भवति ; तस्माद्धृदये ह्येव श्रद्धा प्रतिष्ठिता भवतीति । एवमेवैतद्याज्ञवल्क्य ॥
किन्देवतोऽस्यां प्रतीच्यां दिश्यसीति वरुणदेवत इति स वरुणः कस्मिन्प्रतिष्ठित इत्यप्स्विति कस्मिन्न्वापः प्रतिष्ठिता इति रेतसीति कस्मिन्नु रेतः प्रतिष्ठितमिति हृदय इति तस्मादपि प्रतिरूपं जातमाहुर्हृदयादिव सृप्तो हृदयादिव निर्मित इति हृदये ह्येव रेतः प्रतिष्ठितं भवतीत्येवमेवैतद्याज्ञवल्क्य ॥ २२ ॥
किं देवतोऽस्यां प्रतीच्यां दिश्यसीति । तस्यां वरुणोऽधिदेवता मम । स वरुणः कस्मिन्प्रतिष्ठित इति, अप्स्विति — अपां हि वरुणः कार्यम् , ‘श्रद्धा वा आपः’ (तै. सं. १ । ६ । ८ । १) ‘श्रद्धातो वरुणमसृजत’ ( ? ) इति श्रुतेः । कस्मिन्न्वापः प्रतिष्ठिता इति, रेतसीति — ‘रेतसो ह्यापः सृष्टाः’ ( ? ) इति श्रुतेः । कस्मिन्नु रेतः प्रतिष्ठितमिति, हृदय इति — यस्मात् हृदयस्य कार्यं रेतः ; कामो हृदयस्य वृत्तिः ; कामिनो हि हृदयात् रेतोऽधिस्कन्दति ; तस्मादपि प्रतिरूपम् अनुरूपं पुत्रं जातमाहुर्लौकिकाः — अस्य पितुर्हृदयादिव अयं पुत्रः सृप्तः विनिःसृतः, हृदयादिव निर्मितो यथा सुवर्णेन निर्मितः कुण्डलः । तस्मात् हृदये ह्येव रेतः प्रतिष्ठितं भवतीति । एवमेवैतद्याज्ञवल्क्य ॥
किन्देवतोऽस्यामुदीच्यां दिश्यसीति सोमदेवत इति स सोमः कस्मिन्प्रतिष्ठित इति दीक्षायामिति कस्मिन्नु दीक्षा प्रतिष्ठितेति सत्य इति तस्मादपि दीक्षितमाहुः सत्यं वदेति सत्ये ह्येव दीक्षा प्रतिष्ठितेति कस्मिन्नु सत्यं प्रतिष्ठितमिति हृदय इति होवाच हृदयेन हि सत्यं जानाति हृदये ह्येव सत्यं प्रतिष्ठितं भवतीत्येवमेवैतद्याज्ञवल्क्य ॥ २३ ॥
किन्देवतोऽस्यामुदीच्यां दिश्यसीति, सोमदेवत इति — सोम इति लतां सोमं देवतां चैकीकृत्य निर्देशः । स सोमः कस्मिन्प्रतिष्ठित इति, दीक्षायामिति — दीक्षितो हि यजमानः सोमं क्रीणाति ; क्रीतेन सोमेन इष्ट्वा ज्ञानवानुत्तरां दिशं प्रतिपद्यते सोमदेवताधिष्ठितां सौम्याम् । कस्मिन्नु दीक्षा प्रतिष्ठितेति, सत्य इति — कथम् ? यस्मात्सत्ये दीक्षा प्रतिष्ठिता, तस्मादपि दीक्षितमाहुः — सत्यं वदेति — कारणभ्रेषे कार्यभ्रेषो मा भूदिति । सत्ये ह्येव दीक्षा प्रतिष्ठितेति । कस्मिन्नु सत्यं प्रतिष्ठितमिति ; हृदय इति होवाच ; हृदयेन हि सत्यं जानाति ; तस्मात् हृदये ह्येव सत्यं प्रतिष्ठितं भवतीति । एवमेवैतद्याज्ञवल्क्य ॥
किन्देवतोऽस्यां ध्रुवायां दिश्यसीत्यग्निदेवत इति सोऽग्निः कस्मिन्प्रतिष्ठित इति वाचीति कस्मिन्नु वाक्प्रतिष्ठितेति हृदय इति कस्मिन्नु हृदयं प्रतिष्ठितमिति ॥ २४ ॥
किन्देवतोऽस्यां ध्रुवायां दिश्यसीति । मेरोः समन्ततो वसतामव्यभिचारात् ऊर्ध्वा दिक् ध्रुवेत्युच्यते । अग्निदेवत इति — ऊर्ध्वायां हि प्रकाशभूयस्त्वम् , प्रकाशश्च अग्निः सोऽग्निः कस्मिन्प्रतिष्ठित इति, वाचीति । कस्मिन्नु वाक्प्रतिष्ठितेति, हृदय इति । तत्र याज्ञवल्क्यः सर्वासु दिक्षु विप्रसृतेन हृदयेन सर्वा दिश आत्मत्वेनाभिसम्पन्नः ; सदेवाः सप्रतिष्ठा दिश आत्मभूतास्तस्य नामरूपकर्मात्मभूतस्य याज्ञवल्क्यस्य ; यत् रूपं तत् प्राच्यादिशा सह हृदयभूतं याज्ञवल्क्यस्य ; यत्केवलं कर्म पुत्रोत्पादनलक्षणं च ज्ञानसहितं च सह फलेन अधिष्ठात्रीभिश्च देवताभिः दक्षिणाप्रतीच्युदीच्यः कर्मफलात्मिकाः हृदयमेव आपन्नास्तस्य ; ध्रुवया दिशा सह नाम सर्वं वाग्द्वारेण हृदयमेव आपन्नम् ; एतावद्धीदं सर्वम् ; यदुत रूपं वा कर्म वा नाम वेति तत्सर्वं हृदयमेव ; तत् सर्वात्मकं हृदयं पृच्छ्यते — कस्मिन्नु हृदयं प्रतिष्ठितमिति ॥
अहल्लिकेति होवाच याज्ञवल्क्यो यत्रैतदन्यत्रास्मन्मन्यासै यद्ध्येतदन्यत्रास्मत्स्याच्छ्वानो वैनदद्युर्वयांसि वैनद्विमथ्नीरन्निति ॥ २५ ॥
अहल्लिकेति होवाच याज्ञवल्क्यः — नामान्तरेण सम्बोधनं कृतवान् । यत्र यस्मिन्काले, एतत् हृदयं आत्मा अस्य शरीरस्य अन्यत्र क्वचिद्देशान्तरे, अस्मत् अस्मत्तः, वर्तत इति मन्यासै मन्यसे — यद्धि यदि हि एतद्धृदयम् अन्यत्रास्मत् स्यात् भवेत् , श्वानो वा एनत् शरीरम् तदा अद्युः, वयांसि वा पक्षिणो वा एनत् विमथ्नीरन् विलोडयेयुः विकर्षेरन्निति । तस्मात् मयि शरीरे हृदयं प्रतिष्ठितमित्यर्थः । शरीरस्यापि नामरूपकर्मात्मकत्वाद्धृदये प्रतिष्ठितत्वम् ॥
कस्मिन्नु त्वं चात्मा च प्रतिष्ठितौ स्थ इति प्राण इति कस्मिन्नु प्राणः प्रतिष्ठित इत्यपान इति कस्मिन्न्वपानः प्रतिष्ठित इति व्यान इति कस्मिन्नु व्यानः प्रतिष्ठित इत्युदान इति कस्मिन्नूदानः प्रतिष्ठित इति समान इति स एष नेति नेत्यात्मागृह्यो न हि गृह्यतेऽशीर्यो न हि शीर्यतेऽसङ्गो न हि सज्यतेऽसितो न व्यथते न रिष्यति । एतान्यष्टावायतनान्यष्टौ लोका अष्टौ देवा अष्टौ पुरुषाः स यस्तान्पुरुषान्निरुह्य प्रत्युह्यात्यक्रामत्तं त्वौपनिषदं पुरुषं पृच्छामि तं चेन्मे न विवक्ष्यति मूर्धा ते विपतिष्यतीति । तं ह न मेने शाकल्यस्तस्य ह मूर्धा विपपातापि हास्य परिमोषिणोऽस्थीन्यपजह्रुरन्यन्मन्यमानाः ॥ २६ ॥
हृदयशरीरयोरेवमन्योन्यप्रतिष्ठा उक्ता कार्यकरणयोः ; अतस्त्वां पृच्छामि — कस्मिन्नु त्वं च शरीरम् आत्मा च तव हृदयं प्रतिष्ठितौ स्थ इति ; प्राण इति ; देहात्मानौ प्राणे प्रतिष्ठितौ स्यातां प्राणवृत्तौ । कस्मिन्नु प्राणः प्रतिष्ठित इति, अपान इति — सापि प्राणवृत्तिः प्रागेव प्रेयात् , अपानवृत्त्या चेन्न निगृह्येत । कस्मिन्न्वपानः प्रतिष्ठित इति, व्यान इति — साप्यपानवृत्तिः अध एव यायात् प्राणवृत्तिश्च प्रागेव, मध्यस्थया चेत् व्यानवृत्त्या न निगृह्येत । कस्मिन्नु व्यानः प्रतिष्ठित इति, उदान इति — सर्वास्तिस्रोऽपि वृत्तय उदाने कीलस्थानीये चेन्न निबद्धाः, विष्वगेवेयुः । कस्मिन्नूदानः प्रतिष्ठित इति, समान इति — समानप्रतिष्ठा ह्येताः सर्वा वृत्तयः । एतदुक्तं भवति — शरीरहृदयवायवोऽन्योन्यप्रतिष्ठाः । सङ्घातेन नियता वर्तन्ते विज्ञानमयार्थप्रयुक्ता इति । सर्वमेतत् येन नियतम् यस्मिन्प्रतिष्ठितम् आकाशान्तम् ओतं च प्रोतं च, तस्य निरुपाधिकस्य साक्षादपरोक्षाद्ब्रह्मणो निर्देशः कर्तव्य इत्ययमारम्भः । स एषः — स यो ‘नेति नेति’ (बृ. उ. २ । ३ । ६) इति निर्दिष्टो मधुकाण्डे एष सः, सोऽयमात्मा अगृह्यः न गृह्यः ; कथम् ? यस्मात्सर्वकार्यधर्मातीतः, तस्मादगृह्यः ; कुतः ? यस्मान्न हि गृह्यते ; यद्धि करणगोचरं व्याकृतं वस्तु, तद्ग्रहणगोचरम् ; इदं तु तद्विपरीतमात्मतत्त्वम् । तथा अशीर्यः — यद्धि मूर्तं संहतं शरीरादि तच्छीर्यते ; अयं तु तद्विपरीतः ; अतो न हि शीर्यते । तथा असङ्गः — मूर्तो मूर्तान्तरेण सम्बध्यमानः सज्यते ; अयं च तद्विपरीतः ; अतो न हि सज्यते । तथा असितः अबद्धः — यद्धि मूर्तं तत् बध्यते ; अयं तु तद्विपरीतत्वात् असितः ; अबद्धत्वान्न व्यथते ; अतो न रिष्यति — ग्रहणविशरणसङ्गबन्धकार्यधर्मरहितत्वान्न रिष्यति न हिंसामापद्यते न विनश्यतीत्यर्थः । क्रममतिक्रम्य औपनिषदस्य पुरुषस्य आख्यायिकातोऽपसृत्य श्रुत्या स्वेन रूपेण त्वरया निर्देशः कृतः ; ततः पुनः आख्यायिकामेवाश्रित्याह — एतानि यान्युक्तानि अष्टावायतनानि ‘पृथिव्येव यस्यायतनम्’ इत्येवमादीनि, अष्टौ लोकाः अग्निलोकादयः, अष्टौ देवाः ‘अमृतमिति होवाच’ (बृ. उ. ३ । ९ । १०) इत्येवमादयः, अष्टौ पुरुषाः ‘शरीरः पुरुषः’ इत्यादयः — स यः कश्चित् तान्पुरुषान् शारीरप्रभृतीन् निरुह्य निश्चयेनोह्य गमयित्वा अष्टचतुष्कभेदेन लोकस्थितिमुपपाद्य, पुनः प्राचीदिगादिद्वारेण प्रत्युह्य उपसंहृत्य स्वात्मनि हृदये अत्यक्रामत् अतिक्रान्तवानुपाधिधर्मं हृदयाद्यात्मत्वम् ; स्वेनैवात्मना व्यवस्थितो य औपनिषदः पुरुषः अशनायादिवर्जित उपनिषत्स्वेव विज्ञेयः नान्यप्रमाणगम्यः, तं त्वा त्वां विद्याभिमानिनं पुरुषं पृच्छामि । तं चेत् यदि मे न विवक्ष्यसि विस्पष्टं न कथयिष्यसि, मूर्धा ते विपतिष्यतीत्याह याज्ञवल्क्यः । तं त्वौपनिषदं पुरुषं शाकल्यो न मेने ह न विज्ञातवान्किल । तस्य ह मूर्धा विपपात विपतितः । समाप्ता आख्यायिका । श्रुतेर्वचनम् , ‘तं ह न मेने’ इत्यादि । किं च अपि ह अस्य परिमोषिणः तस्कराः अस्थीन्यपि संस्कारार्थं शिष्यैर्नीयमानानि गृहान्प्रत्यपजह्रुः अपहृतवन्तः — किं निमित्तम् — अन्यत् धनं नीयमानं मन्यमानाः । पूर्ववृत्ता ह्याख्यायिकेह सूचिता । अष्टाध्याय्यां किल शाकल्येन याज्ञवल्क्यस्य समानान्त एव संवादो निर्वृत्तः ; तत्र याज्ञवल्क्येन शापो दत्तः — ‘पुरेऽतिथ्ये मरिष्यसि न तेऽस्थीनिचन गृहान्प्राप्स्यन्ति’ (शत. ब्रा. ११ । ६ । ३ । ११) इति ‘स ह तथैव ममार ; तस्य हाप्यन्यन्मन्यमानाः परिमोषिणोऽस्थीन्यपजह्रुः ; तस्मान्नोपवादी स्यादुत ह्येवंवित्परो भवतीति’ (शत. ब्रा. ११ । ६ । ३ । ११) । सैषा आख्यायिका आचारार्थं सूचिता विद्यास्तुतये च इह ॥
यस्य नेति नेतीत्यन्यप्रतिषेधद्वारेण ब्रह्मणो निर्देशः कृतः तस्य विधिमुखेन कथं निर्देशः कर्तव्य इति पुनराख्यायिकामेवाश्रित्याह मूलं च जगतो वक्तव्यमिति । आख्यायिकासम्बन्धस्त्वब्रह्मविदो ब्राह्मणाञ्जित्वा गोधनं हर्तव्यमिति । न्यायं मत्वाह —
अथ होवाच ब्राह्मणा भगवन्तो यो वः कामयते स मा पृच्छतु सर्वे वा मा पृच्छत यो वः कामयते तं वः पृच्छामि सर्वान्वा वः पृच्छामीति ते ह ब्राह्मणा न दधृषुः ॥ २७ ॥
अथ होवाच । अथ अनन्तरं तूष्णीम्भूतेषु ब्राह्मणेषु ह उवाच, हे ब्राह्मणा भगवन्त इत्येवं सम्बोध्य — यो वः युष्माकं मध्ये कामयते इच्छति — याज्ञवल्क्यं पृच्छामीति, स मा माम् आगत्य पृच्छतु ; सर्वे वा मा पृच्छत — सर्वे वा यूयं मा मां पृच्छत ; यो वः कामयते — याज्ञवल्क्यो मां पृच्छत्विति, तं वः पृच्छामि ; सर्वान्वा वः युष्मान् अहं पृच्छामि । ते ह ब्राह्मणा न दधृषुः — ते ब्राह्मणा एवमुक्ता अपि न प्रगल्भाः संवृत्ताः किञ्चिदपि प्रत्युत्तरं वक्तुम् ॥
तान्हैतैः श्लोकैः पप्रच्छ —
यथा वृक्षो वनस्पतिस्तथैव पुरुषोऽमृषा । तस्य लोमानि पर्णानि त्वगस्योत्पाटिका बहिः ॥ १ ॥
तेष्वप्रगल्भभूतेषु ब्राह्मणेषु तान् ह एतैः वक्ष्यमाणैः श्लोकैः पप्रच्छ पृष्टवान् । यथा लोके वृक्षो वनस्पतिः, वृक्षस्य विशेषणं वनस्पतिरिति, तथैव पुरुषोऽमृषा — अमृषा सत्यमेतत् ; तस्य लोमानि — तस्य पुरुषस्य लोमानि इतरस्य वनस्पतेः पर्णानि ; त्वगस्योत्पाटिका बहिः — त्वक् अस्य पुरुषस्य इतरस्योत्पाटिका वनस्पतेः ॥
त्वच एवास्य रुधिरं प्रस्यन्दि त्वच उत्पटः । तस्मात्तदातृण्णात्प्रैति रसो वृक्षादिवाहतात् ॥ २ ॥
त्वच एव सकाशात् अस्य पुरुषस्य रुधिरं प्रस्यन्दि, वनस्पतेस्त्वचः उत्पटः — त्वच एव उत्स्फुटति यस्मात् ; एवं सर्वं समानमेव वनस्पतेः पुरुषस्य च ; तस्मात् आतृण्णात् हिंसितात् प्रैति तत् रुधिरं निर्गच्छति, वृक्षादिव आहतात् छिन्नात् रसः ॥
मांसान्यस्य शकराणि किनाटं स्नाव तत्स्थिरम् । अस्थीन्यन्तरतो दारूणि मज्जा मज्जोपमा कृता ॥ ३ ॥
एवं मांसान्यस्य पुरुषस्य, वनस्पतेः तानि शकराणि शकलानीत्यर्थः । किनाटम् , वृक्षस्य किनाटं नाम शकलेभ्योऽभ्यन्तरं वल्कलरूपं काष्ठसँलग्नम् , तत् स्नाव पुरुषस्य ; तत्स्थिरम् — तच्च किनाटं स्नाववत् दृढं हि तत् ; अस्थीनि पुरुषस्य, स्नाव्नोऽन्तरतः अस्थीनि भवन्ति ; तथा किनाटस्याभ्यन्तरतो दारूणि काष्ठानि ; मज्जा, मज्जैव वनस्पतेः पुरुषस्य च मज्जोपमा कृता, मज्जाया उपमा मज्जोपमा, नान्यो विशेषोऽस्तीत्यर्थः ; यथा वनस्पतेर्मज्जा तथा पुरुषस्य, यथा पुरुषस्य तथा वनस्पतेः ॥
यद्वृक्षो वृक्णो रोहति मूलान्नवतरः पुनः । मर्त्यः स्विन्मृत्युना वृक्णः कस्मान्मूलात्प्ररोहति ॥ ४ ॥
यत् यदि वृक्षो वृक्णः छिन्नः रोहति पुनः पुनः प्ररोहति प्रादुर्भवति मूलात् पुनर्नवतरः पूर्वस्मादभिनवतरः ; यदेतस्माद्विशेषणात्प्राक् वनस्पतेः पुरुषस्य च, सर्वं सामान्यमवगतम् ; अयं तु वनस्पतौ विशेषो दृश्यते — यत् छिन्नस्य प्ररोहणम् ; न तु पुरुषे मृत्युना वृक्णे पुनः प्ररोहणं दृश्यते ; भवितव्यं च कुतश्चित्प्ररोहणेन ; तस्मात् वः पृच्छामि — मर्त्यः मनुष्यः स्वित् मृत्युना वृक्णः कस्मात् मूलात् प्ररोहति, मृतस्य पुरुषस्य कुतः प्ररोहणमित्यर्थः ॥
रेतस इति मा वोचत जीवतस्तत्प्रजायते । धानारुह इव वै वृक्षोऽञ्जसा प्रेत्य सम्भवः ॥ ५ ॥
यदि चेदेवं वदथ — रेतसः प्ररोहतीति, मा वोचत मैवं वक्तुमर्हथ ; कस्मात् ? यस्मात् जीवतः पुरुषात् तत् रेतः प्रजायते, न मृतात् । अपि च धानारुहः धाना बीजम् , बीजरुहोऽपि वृक्षो भवति, न केवलं काण्डरुह एव ; इव - शब्दोऽनर्थकः ; वै वृक्षः अञ्जसा साक्षात् प्रेत्य मृत्वा सम्भवः धानातोऽपि प्रेत्य सम्भवो भवेत् अञ्जसा पुनर्वनस्पतेः ॥
यत्समूलमावृहेयुर्वृक्षं न पुनराभवेत् । मर्त्यः स्विन्मृत्युना वृक्णः कस्मान्मूलात्प्ररोहति ॥ ६ ॥
यत् यदि सह मूलेन धानया वा आवृहेयुः उद्यच्छेयुः उत्पाटयेयुः वृक्षम् , न पुनराभवेत् पुनरागत्य न भवेत् । तस्माद्वः पृच्छामि — सर्वस्यैव जगतो मूलं मर्त्यः स्वित् मृत्युना वृक्णः कस्मात् मूलात् प्ररोहति ॥
जात एव न जायते को न्वेनं जनयेत्पुनः । विज्ञानमानन्दं ब्रह्म रातिर्दातुः परायणं तिष्ठमानस्य तद्विद इति ॥ ७ ॥
जात एवेति, मन्यध्वं यदि, किमत्र प्रष्टव्यमिति — जनिष्यमाणस्य हि सम्भवः प्रष्टव्यः, न जातस्य ; अयं तु जात एव अतोऽस्मिन्विषये प्रश्न एव नोपपद्यत इति चेत् — न ; किं तर्हि ? मृतः पुनरपि जायत एव अन्यथा अकृताभ्यागमकृतनाशप्रसङ्गात् ; अतो वः पृच्छामि — को न्वेनं मृतं पुनर्जनयेत् । तत् न विजज्ञुर्ब्राह्मणाः — यतो मृतः पुनः प्ररोहति जगतो मूलं न विज्ञातं ब्राह्मणैः ; अतो ब्रह्मिष्ठत्वात् हृता गावः ; याज्ञवल्क्येन जिता ब्राह्मणाः । समाप्ता आख्यायिका । यज्जगतो मूलम् , येन च शब्देन साक्षाद्व्यपदिश्यते ब्रह्म, यत् याज्ञवल्क्यो ब्राह्मणान्पृष्टवान् , तत् स्वेन रूपेण श्रुतिरस्मभ्यमाह — विज्ञानं विज्ञप्तिः विज्ञानम् , तच्च आनन्दम् , न विषयविज्ञानवद्दुःखानुविद्धम् , किं तर्हि प्रसन्नं शिवमतुलमनायासं नित्यतृप्तमेकरसमित्यर्थः । किं तत् ब्रह्म उभयविशेषणवद्रातिः रातेः षष्ठ्यर्थे प्रथमा, धनस्येत्यर्थः ; धनस्य दातुः कर्मकृतो यजमानस्य परायणं परा गतिः कर्मफलस्य प्रदातृ । किञ्च व्युत्थायैषणाभ्यः तस्मिन्नेव ब्रह्मणि तिष्ठति अकर्मकृत् , तत् ब्रह्म वेत्तीति तद्विच्च, तस्य — तिष्ठमानस्य च तद्विदः, ब्रह्मविद इत्यर्थः, परायणमिति ॥
अत्रेदं विचार्यते — आनन्दशब्दो लोके सुखवाची प्रसिद्धः ; अत्र च ब्रह्मणो विशेषणत्वेन आनन्दशब्दः श्रूयते आनन्दं ब्रह्मेति ; श्रुत्यन्तरे च — ‘आनन्दो ब्रह्मेति व्यजानात्’ (तै. उ. ३ । ६ । ९) ‘आनन्दं ब्रह्मणो विद्वान्’ (तै. उ. २ । ९ । १) ‘यदेष आकाश आनन्दो न स्यात्’ (तै. उ. २ । ७ । १) ‘यो वै भूमा तत्सुखम्’ (छा. उ. ७ । २३ । १) इति च ; ‘एष परम आनन्दः’ इत्येवमाद्याः ; संवेद्ये च सुखे आनन्दशब्दः प्रसिद्धः ; ब्रह्मानन्दश्च यदि संवेद्यः स्यात् , युक्ता एते ब्रह्मणि आनन्दशब्दाः । ननु च श्रुतिप्रामाण्यात् संवेद्यानन्दस्वरूपमेव ब्रह्म, किं तत्र विचार्यमिति — न, विरुद्धश्रुतिवाक्यदर्शनात् — सत्यम् , आनन्दशब्दो ब्रह्मणि श्रूयते ; विज्ञानप्रतिषेधश्च एकत्वे — ‘यत्र त्वस्य सर्वमात्मैवाभूत् , तत्केन कं पश्येत् , तत्केन किं विजानीयात्’ (बृ. उ. ४ । ५ । १५) ‘यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमा’ (छा. उ. ७ । २४ । १) ‘प्राज्ञेनात्मना सम्परिष्वक्तो न बाह्यं किञ्चन वेद’ (बृ. उ. ४ । ३ । २१) इत्यादि ; विरुद्धश्रुतिवाक्यदर्शनात् तेन कर्तव्यो विचारः । तस्मात् युक्तं वेदवाक्यार्थनिर्णयाय विचारयितुम् । मोक्षवादिविप्रतिपत्तेश्च — साङ्ख्या वैशेषिकाश्च मोक्षवादिनो नास्ति मोक्षे सुखं संवेद्यमित्येवं विप्रतिपन्नाः ; अन्ये निरतिशयं सुखं स्वसंवेद्यमिति ॥
किं तावद्युक्तम् ? आनन्दादिश्रवणात् ‘जक्षत्क्रीडन्रममाणः’ (छा. उ. ८ । १२ । ३) ‘स यदि पितृलोककामो भवति’ (छा. उ. ८ । २ । १) ‘यः सर्वज्ञः सर्ववित्’ (मु. उ. १ । १ । ९) ‘सर्वान्कामान्समश्नुते’ (तै. उ. २ । ५ । १) इत्यादिश्रुतिभ्यः मोक्षे सुखं संवेद्यमिति । ननु एकत्वे कारकविभागाभावात् विज्ञानानुपपत्तिः, क्रियायाश्चानेककारकसाध्यत्वात् विज्ञानस्य च क्रियात्वात् — नैष दोषः ; शब्दप्रामाण्यात् भवेत् विज्ञानमानन्दविषये ; ‘विज्ञानमानन्दम्’ इत्यादीनि आनन्दस्वरूपस्यासंवेद्यत्वेऽनुपपन्नानि वचनानीत्यवोचाम । ननु वचनेनापि अग्नेः शैत्यम् उदकस्य च औष्ण्यं न क्रियत एव, ज्ञापकत्वाद्वचनानाम् ; न च देशान्तरेऽग्निः शीत इति शक्यते ज्ञापयितुम् ; अगम्ये वा देशान्तरे उष्णमुदकमिति — न, प्रत्यगात्मन्यानन्दविज्ञानदर्शनात् ; न ‘विज्ञानमानन्दम्’ इत्येवमादीनां वचनानां शीतोऽग्निरित्यादिवाक्यवत् प्रत्यक्षादिविरुद्धार्थप्रतिपादकत्वम् । अनुभूयते तु अविरुद्धार्थता ; सुखी अहम् इति सुखात्मकमात्मानं स्वयमेव वेदयते ; तस्मात् सुतरां प्रत्यक्षाविरुद्धार्थता ; तस्मात् आनन्दं ब्रह्म विज्ञानात्मकं सत् स्वयमेव वेदयते । तथा आनन्दप्रतिपादिकाः श्रुतयः समञ्जसाः स्युः ‘जक्षत्क्रीडन्रममाणः’ इत्येवमाद्याः पूर्वोक्ताः ॥
न, कार्यकरणाभावे अनुपपत्तेर्विज्ञानस्य — शरीरवियोगो हि मोक्ष आत्यन्तिकः ; शरीराभावे च करणानुपपत्तिः, आश्रयाभावात् ; ततश्च विज्ञानानुपपत्तिः अकार्यकरणत्वात् ; देहाद्यभावे च विज्ञानोत्पत्तौ सर्वेषां कार्यकरणोपादानानर्थक्यप्रसङ्गः । एकत्वविरोधाच्च — परं चेद्ब्रह्म आनन्दात्मकम् आत्मानं नित्यविज्ञानत्वात् नित्यमेव विजानीयात् , तन्न ; संसार्यपि संसारविनिर्मुक्तः स्वाभाव्यं प्रतिपद्येत ; जलाशय इवोदकाञ्जलिः क्षिप्तः न पृथक्त्वेन व्यवतिष्ठते आनन्दात्मकब्रह्मविज्ञानाय ; तदा मुक्त आनन्दात्मकमात्मानं वेदयत इत्येतदनर्थकं वाक्यम् । अथ ब्रह्मानन्दम् अन्यः सन् मुक्तो वेदयते, प्रत्यगात्मानं च, अहमस्म्यानन्दस्वरूप इति ; तदा एकत्वविरोधः ; तथा च सति सर्वश्रुतिविरोधः । तृतीया च कल्पना नोपपद्यते । किञ्चान्यत् , ब्रह्मणश्च निरन्तरात्मानन्दविज्ञाने विज्ञानाविज्ञानकल्पनानर्थक्यम् ; निरन्तरं चेत् आत्मानन्दविषयं ब्रह्मणो विज्ञानम् , तदेव तस्य स्वभाव इति आत्मानन्दं विजानातीति कल्पना अनुपपन्ना ; अतद्विज्ञानप्रसङ्गे हि कल्पनाया अर्थवत्त्वम् , यथा आत्मानं परं च वेत्तीति ; न हि इष्वाद्यासक्तमनसो नैरन्तर्येण इषुज्ञानाज्ञानकल्पनाया अर्थवत्त्वम् । अथ विच्छिन्नमात्मानन्दं विजानाति — विज्ञानस्य आत्मविज्ञानच्छिद्रे अन्यविषयत्वप्रसङ्गः ; आत्मनश्च विक्रियावत्त्वम् , ततश्चानित्यत्वप्रसङ्गः । तस्मात् ‘विज्ञानमानन्दम्’ इति स्वरूपान्वाख्यानपरैव श्रुतिः, नात्मानन्दसंवेद्यत्वार्था । ‘जक्षत्क्रीडन्’ (छा. उ. ८ । १२ । ३) इत्यादिश्रुतिविरोधोऽसंवेद्यत्व इति चेन्न, सर्वात्मैकत्वे यथाप्राप्तानुवादित्वात् — मुक्तस्य सर्वात्मभावे सति यत्र क्वचित् योगिषु देवेषु वा जक्षणादि प्राप्तम् ; तत् यथाप्राप्तमेवानूद्यते — तत् तस्यैव सर्वात्मभावादिति सर्वात्मभावमोक्षस्तुतये । यथाप्राप्तानुवादित्वे दुःखित्वमपीति चेत् — योग्यादिषु यथाप्राप्तजक्षणादिवत् स्थावरादिषु यथाप्राप्तदुःखित्वमपीति चेत् — न, नामरूपकृतकार्यकरणोपाधिसम्पर्कजनितभ्रान्त्यध्यारोपितत्वात् सुखित्वदुःखित्वादिविशेषस्येति परिहृतमेतत्सर्वम् । विरुद्धश्रुतीनां च विषयमवोचाम । तस्मात् ‘एषोऽस्य परम आनन्दः’ (बृ. उ. ४ । ३ । ३२) इतिवत् सर्वाण्यानन्दवाक्यानि द्रष्टव्यानि ॥
इति तृतीयाध्यायस्य नवमं ब्राह्मणम् ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ बृहदारण्यकोपनिषद्भाष्ये तृतीयोऽध्यायः ॥