श्रीमच्छङ्करभगवत्पूज्यपादविरचितम्

छान्दोग्योपनिषद्भाष्यम्

करतलकलिताद्वयात्मतत्त्वं क्षपितदुरन्तचिरन्तनप्रमोहम् ।
उपचितमुदितोदितैर्गुणौघैः उपनिषदामयमुज्जहार भाष्यम् ।।

श्वेतकेतुः ह आरुणेय आस इत्याद्यध्यायसम्बन्धः — ‘सर्वं खल्विदं ब्रह्म तज्जलान्’ इत्युक्तम् , कथं तस्मात् जगदिदं जायते तस्मिन्नेव च लीयते अनिति च तेनैव इत्येतद्वक्तव्यम् । अनन्तरं च एकस्मिन्भुक्ते विदुषि सर्वं जगत्तृप्तं भवतीत्युक्तम् , तत् एकत्वे सति आत्मनः सर्वभूतस्थस्य उपपद्यते, न आत्मभेदे ; कथं च तदेकत्वमिति तदर्थोऽयं षष्ठोऽध्याय आरभ्यते —
श्वेतकेतुर्हारुणेय आस तꣳ ह पितोवाच श्वेतकेतो वस ब्रह्मचर्यं न वैसोम्यास्मत्कुलीनोऽननूच्य ब्रह्मबन्धुरिव भवतीति ॥ १ ॥
पितापुत्राख्यायिका विद्यायाः सारिष्ठत्वप्रदर्शनार्था । श्वेतकेतुरिति नामतः, ह इत्यैतिह्यार्थः, आरुणेयः अरुणस्य पौत्रः आस बभूव । तं पुत्रं ह आरुणिः पिता योग्यं विद्याभाजनं मन्वानः तस्योपनयनकालात्ययं च पश्यन् उवाच — हे श्वेतकेतो अनुरूपं गुरुं कुलस्य नो गत्वा वस ब्रह्मचर्यम् ; न च एतद्युक्तं यदस्मत्कुलीनो हे सोम्य अननूच्य अनधीत्य ब्रह्मबन्धुरिव भवतीति ब्राह्मणान्बन्धून्व्यपदिशति न स्वयं ब्राह्मणवृत्त इति । तस्य अतः प्रवासो अनुमीयते पितुः, . येन स्वयं गुणवान्सन् पुत्रं नोपनेष्यति ॥
स ह द्वादशवर्ष उपेत्य चतुर्विꣳशतिवर्षः सर्वान्वेदानधीत्य महामना अनूचानमानी स्तब्ध एयाय तꣳह पितोवाच ॥ २ ॥
सः पित्रोक्तः श्वेतकेतुः ह द्वादशवर्षः सन् उपेत्य आचार्यं यावच्चतुर्विंशतिवर्षो बभूव, तावत् सर्वान्वेदान् चतुरोऽप्यधीत्य तदर्थं च बुद्ध्वा महामनाः महत् गम्भीरं मनः यस्य असममात्मानमन्यैर्मन्यमानं मनः यस्य सोऽयं महामनाः अनूचानमानी अनूचानमात्मानं मन्यत इति एवंशीलो यः सोऽनूचानमानी स्तब्धः अप्रणतस्वभावः एयाय गृहम् । तम् एवंभूतं ह आत्मनोऽननुरूपशीलं स्तब्धं मानिनं पुत्रं दृष्ट्वा पितोवाच सद्धर्मावतारचिकीर्षया ॥
श्वेतकेतो यन्नु सोम्येदं महामना अनूचानमानी स्तब्धोऽस्युत तमादेशमप्राक्ष्यः येनाश्रुतꣳ श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातमिति कथं नु भगवः स आदेशो भवतीति ॥ ३ ॥
श्वेतकेतो यन्नु इदं महामनाः अनूचानमानी स्तब्धश्चासि, कस्तेऽतिशयः प्राप्तः उपाध्यायात् , उत अपि तमादेशं आदिश्यत इत्यादेशः केवलशास्त्राचर्योपदेशगम्यमित्येतत् , येन वा परं ब्रह्म आदिश्यते स आदेशः तमप्राक्ष्यः पृष्टवानस्याचार्यम् ? तमादेशं विशिनष्टि — येन आदेशेन श्रुतेन अश्रुतमपि अन्यच्छ्रुतं भवति अमतं मतम् अतर्कितं तर्कितं भवति अविज्ञातं विज्ञातं अनिश्चितं निश्चितं भवतीति । सर्वानपि वेदानधीत्य सर्वं च अन्यद्वेद्यमधिगम्यापि अकृतार्थ एव भवति यावदात्मतत्त्वं न जानातीत्याख्यायिकातोऽवगम्यते । तदेतदद्भुतं श्रुत्वा आह, कथं नु एतदप्रसिद्धम् अन्यविज्ञानेनान्यद्विज्ञातं भवतीति ; एवं मन्वानः पृच्छति — कथं नु केन प्रकारेण हे भगवः स आदेशो भवतीति ॥
यथा सोम्यैकेन मृत्पिण्डेन सर्वं मृन्मयं विज्ञातꣳ स्याद्वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम् ॥ ४ ॥
यथा स आदेशो भवति तच्छृणु हे सोम्य — यथा लोके एकेन मृत्पिण्डेन रुचककुम्भादिकारणभूतेन विज्ञातेन सर्वमन्यत्तद्विकारजातं मृन्मयं मृद्विकारजातं विज्ञातं स्यात् । कथं मृत्पिण्डे कारणे विज्ञाते कार्यमन्यद्विज्ञातं स्यात् ? नैष दोषः, कारणेनानन्यत्वात्कार्यस्य । यन्मन्यसे अन्यस्मिन्विज्ञातेऽन्यन्न ज्ञायत इति — सत्यमेवं स्यात् , यद्यन्यत्कारणात्कार्यं स्यात् , न त्वेवमन्यत्कारणात्कार्यम् । कथं तर्हीदं लोके — इदं कारणमयमस्य विकार इति ? शृणु । वाचारम्भणं वागारम्भणं वागालम्बनमित्येतत् । कोऽसौ ? विकारो नामधेयं नामैव नामधेयम् , स्वार्थे धेयप्रत्ययः, वागालम्बनमात्रं नामैव केवलं न विकारो नाम वस्त्वस्ति ; परमार्थतो मृत्तिकेत्येव मृत्तिकैव तु सत्यं वस्त्वस्ति ॥
यथा सोम्यैकेन लोहमणिना सर्वं लोहमयं विज्ञातꣳस्याद्वाचारम्भणं विकारो नामधेयं लोहितमित्येव सत्यम् ॥ ५ ॥
यथा सोम्य एकेन लोहमणिना सुवर्णपिण्डेन सर्वमन्यद्विकारजातं कटकमुकुटकेयूरादि विज्ञातं स्यात् । वाचारम्भणमित्यादि समानम् ॥
यथा सोम्यैकेन नखनिकृन्तनेन सर्वं कार्ष्णायसं विज्ञातꣳ स्याद्वाचारम्भणं विकारो नामधेयं कृष्णायसमित्येव सत्यमेवꣳ सोम्य स आदेशो भवतीति ॥ ६ ॥
यथा सोम्य एकेन नखनिकृन्तनेनोपलक्षितेन कृष्णायसपिण्डेनेत्यर्थः ; सर्वं कार्ष्णायसं कृष्णायसविकारजातं विज्ञातं स्यात् । समानमन्यत् । अनेकदृष्टान्तोपादानं दार्ष्टान्तिकानेकभेदानुगमार्थम् , दृढप्रतीत्यर्थं च । एवं सोम्य स आदेशः, यः मयोक्तः भवति । इत्युक्तवति पितरि, आह इतरः —
न वै नूनं भगवन्तस्त एतदवेदिषुर्यद्ध्येतदवेदिष्यन्कथं मे नावक्ष्यन्निति भगवाꣳस्त्वेव मे तद्ब्रवीत्विति तथा सोम्येति होवाच ॥ ७ ॥
न वै नूनं भगवन्तः पूजावन्तः गुरवः मम ये, ते एतत् यद्भवदुक्तं वस्तु नावेदिषुः न विज्ञातवन्तः नूनम् । यत् यदि हि अवेदिष्यन् विदितवन्तः एतद्वस्तु, कथं मे गुणवते भक्तायानुगताय नावक्ष्यन् नोक्तवन्तः, तेनाहं मन्ये — न विदितवन्त इति । अवाच्यमपि गुरोर्न्यग्भावमवादीत् पुनर्गुरुकुलं प्रति प्रेषणभयात् । अतो भगवांस्त्वेव मे मह्यं तद्वस्तु, येन सर्वज्ञत्वं ज्ञातेन मे स्यात् , तद्ब्रवीतु कथयतु ; इत्युक्तः पितोवाच — तथास्तु सोम्येति ॥
इति प्रथमखण्डभाष्यम् ॥
सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् । तद्धैक आहुरसदेवेदमग्र आसीदेकमेवाद्वितीयं तस्मादसतः सज्जायत ॥ १ ॥
सदेव सदिति अस्तितामात्रं वस्तु सूक्ष्मं निर्विशेषं सर्वगतमेकं निरञ्जनं निरवयवं विज्ञानम् , यदवगम्यते सर्ववेदान्तेभ्यः । एव - शब्दः अवधारणार्थः । किं तदवध्रियत इति, आह — इदं जगत् , नामरूपक्रियावद्विकृतमुपलभ्यते यत् , तत्सदेवासीत् इति आसीच्छब्देन सम्बध्यते । कदा सदेवेदमासीदिति, उच्यते — अग्रे जगतः प्रागुत्पत्तेः । किं नेदानीमिदं सत् , येन अग्रे आसीदिति विशेष्यते ? न । कथं तर्हि विशेषणम् ? इदानीमपीदं सदेव, किन्तु नामरूपविशेषणवदिदंशब्दबुद्धिविषयं च इतीदं च भवति । प्रागुत्पत्तेस्तु अग्रे केवलसच्छब्दबुद्धिमात्रगम्यमेवेति सदेवेदमग्र आसीदित्यवधार्यते । न हि प्रागुत्पत्तेः नामवद्रूपवद्वा इदमिति ग्रहीतुं शक्यं वस्तु सुषुप्तकाले इव । यथा सुषुप्तादुत्थितः सत्त्वमात्रमवगच्छति सुषुप्ते सन्मात्रमेव केवलं वस्त्विति, तथा प्रागुत्पत्तेरित्यभिप्रायः । यथा इदमुच्यते लोके — पूर्वाह्णे धटादि सिसृक्षुणा कुलालेन मृत्पिण्डं प्रसारितमुपलभ्य ग्रामान्तरं गत्वा प्रत्यागतः अपराह्णे तत्रैव घटशरावाद्यनेकभेदभिन्नं कार्यमुपलभ्य मृदेवेदं घटशरावादि केवलं पूर्वाह्न आसीदिति, तथा इहाप्युच्यते — सदेवेदमग्र आसीदिति । एकमेवेति । स्वकार्यपतितमन्यन्नास्तीति एकमेवेत्युच्यते । अद्वितीयमिति । मृद्व्यतिरेकेण मृदः यथा अन्यद्घटाद्याकारेण परिणमयितृकुलालादिनिमित्तकारणं दृष्टम् , तथा सद्व्यतिरेकेण सतः सहकारिकारणं द्वितीयं वस्त्वन्तरं प्राप्तं प्रतिषिध्यते — अद्वितीयमिति, नास्य द्वितीयं वस्त्वन्तरं विद्यते इत्यद्वितीयम् । ननु वैशेषिकपक्षेऽपि सत्सामानाधिकरण्यं सर्वस्योपपद्यते, द्रव्यगुणादिषु सच्छब्दबुद्ध्यनुवृत्तेः — सद्द्रव्यं सन्गुणः सन्कर्मेत्यादिदर्शनात् । सत्यमेवं स्यादिदानीम् ; प्रागुत्पत्तेस्तु नैवेदं कार्यं सदेवासीदित्यभ्युपगम्यते वैशेषिकैः, प्रागुत्पत्तेः कार्यस्यासत्त्वाभ्युपगमात् । न च एकमेव सदद्वितीयं प्रागुत्पत्तेरिच्छन्ति । तस्माद्वैशेषिकपरिकल्पितात्सतः अन्यत्कारणमिदं सदुच्यते मृदादिदृष्टान्तेभ्यः । तत् तत्र ह एतस्मिन्प्रागुत्पत्तेर्वस्तुनिरूपणे एके वैनाशिका आहुः वस्तु निरूपयन्तः — असत् सदभावमात्रं प्रागुत्पत्तेः इदं जगत् एकमेव अग्रे अद्वितीयमासीदिति । सदभावमात्रं हि प्रागुत्पत्तेस्तत्त्वं कल्पयन्ति बौद्धाः । न तु सत्प्रतिद्वन्द्वि वस्त्वन्तरमिच्छन्ति । यथा सच्चासदिति गृह्यमाणं यथाभूतं तद्विपरीतं तत्त्वं भवतीति नैयायिकाः । ननु सदभावमात्रं प्रागुत्पत्तेश्चेदभिप्रेतं वैनाशिकैः, कथं प्रागुत्पत्तेरिदमासीदसदेकमेवाद्वितीयं चेति कालसम्बन्धः सङ्‍ख्यासम्वन्धोऽद्वितीयत्वं च उच्यते तैः । बाढं न युक्तं तेषां भावाभावमात्रमभ्युपगच्छताम् । असत्त्वमात्राभ्युपगमोऽप्ययुक्त एव, अभ्युपगन्तुरनभ्युपगमानुपपत्तेः । इदानीमभ्युपगन्ता अभ्युपगम्यते न प्रागुत्पत्तेरिति चेत् , न, प्रागुत्पत्तेः सदभावस्य प्रमाणाभावात् । प्रागुत्पत्ते रसदेवेति कल्पनानुपपत्तिः । ननु कथं वस्त्वाकृतेः शब्दार्थत्वे असदेकमेवाद्वितीयमिति पदार्थवाक्यार्थोपपत्तिः, तदनुपपत्तौ च इदं वाक्यमप्रमाणं प्रसज्येतेति चेत् , नैष दोषः, सद्ग्रहणनिवृत्तिपरत्वाद्वाक्यस्य । सदित्ययं तावच्छब्दः सदाकृतिवाचकः । एकमेवाद्वितीयमित्येतौ च सच्छब्देन समानाधिकरणौ ; तथेदमासीदिति च । तत्र नञ् सद्वाक्ये प्रयुक्तः सद्वाक्यमेवावलम्ब्य सद्वाक्यार्थविषयां बुद्धिं सदेकमेवाद्वितीयमिदमासीदित्येवंलक्षणां ततः सद्वाक्यार्थान्निवर्तयति, अश्वारूढ इव अश्वालम्बनः अश्वं तदभिमुखविषयान्निवर्तयति — तद्वत् । न तु पुनः सदभावमेव अबिधत्ते । अतः पुरुषस्य विपरीतग्रहणनिवृत्त्यर्थपरम् इदमसदेवेत्यादि वाक्यं प्रयुज्यते । दर्शयित्वा हि विपरीतग्रहणं ततो निवर्तयितुं शक्यत इत्यर्थवत्त्वात् असदादिवाक्यस्य श्रौतत्वं प्रामाण्यं च सिद्धमित्यदोषः । तस्मात् असतः सर्वाभावरूपात् सत् विद्यमानम् जायत समुत्पन्नम् अडभावः छान्दसः ॥
कुतस्तु खलु सोम्यैवं स्यादिति होवाच कथमसतः सज्जायेतेति । सत्त्वेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् ॥ २ ॥
तदेतद्विपरीतग्रहणं महावैनाशिकपक्षं दर्शयित्वा प्रतिषेधति — कुतस्तु प्रमाणात्खलु हे सोम्य एवं स्यात् असतः सज्जायेत इत्येवं कुतो भवेत् ? न कुतश्चित्प्रमाणादेवं सम्भवतीत्यर्थः । यदपि बीजोपमर्देऽङ्कुरो जायमानो दृष्टः अभावादेवेति, तदप्यभ्युपगमविरुद्धं तेषाम् । कथम् ? ये तावद्बीजावयवाः बीजसंस्थानविशिष्टाः तेऽङ्कुरेऽप्यनुवर्तन्त एव, न तेषामुपमर्दोऽङ्कुरजन्मनि । यत्पुनर्बीजाकारसंस्थानम् , तद्बीजावयवव्यतिरेकेण वस्तुभूतं न वैनाशिकैरभ्युपगम्यते, यदङ्कुरजन्मन्युपमृद्येत । अथ तदस्ति अवयवव्यतिरिक्तं वस्तुभूतम् , तथा च सति अभ्युपगमविरोधः । अथ संवृत्या अभ्युपगतं बीजसंस्थानरूपमुपमृद्यत इति चेत् , केयं संवृतिर्नाम — किमसावभावः, उत भावः इति ? यद्यभावः, दृष्टान्ताभावः । अथ भावः, तथापि नाभावादङ्कुरोत्पत्तिः, बीजावयवेभ्यो हि अङ्कुरोत्पत्तिः । अवयवा अप्युपमृद्यन्त इति चेत् , न, तदवयवेषु तुल्यत्वात् । यथा वैनाशिकानां बीजसंस्थानरूपोऽवयवी नास्ति, तथा अवयवा अपीति तेषामप्युपमर्दानुपपत्तिः । बीजावयवानामपि सूक्ष्मावयवाः तदवयवानामप्यन्ये सूक्ष्मतरावयवाः इत्येवं प्रसङ्गस्यानिवृत्तेः सर्वत्रोपमर्दानुपपत्तिः । सद्बुद्ध्यनुवृत्तेः सत्त्वानिवृत्तिश्चेति सद्वादिनां सत एव सदुत्पत्तिः सेत्स्यति । न तु असद्वादिनां दृष्टान्तोऽस्ति असतः सदुत्पत्तेः । मृत्पिण्डाद्घटोत्पत्तिर्दृश्यते सद्वादिनाम् , तद्भावे भावात्तदभावे चाभावात् । यद्यभावादेव घट उत्पद्येत, घटार्थिना मृत्पिण्डो नोपादीयेत, अभावशब्दबुद्ध्यनुवृत्तिश्च घटादौ प्रसज्येत ; न त्वेतदस्ति ; अतः नासतः सदुत्पत्तिः । यदप्याहुः मृद्बुद्धिर्घटबुद्धेर्निमित्तमिति मृद्बुद्धिर्घटबुद्धेः कारणमुच्यते, न तु परमार्थत एव मृद्घटो वा अस्तीति, तदपि मृद्बुद्धिर्विद्यमाना विद्यमानाया एव घटबुद्धेः कारणमिति नासतः सदुत्पत्तिः । मृद्घटबुद्ध्योः निमित्तनैमित्तिकतया आनन्तर्यमात्रम् , न तु कार्यकारणत्वमिति चेत् , न, बुद्धीनां नैरन्तर्ये गम्यमाने वैनाशिकानां बहिर्दृष्टान्ताभावात् । अतः कुतस्तु खलु सोम्य एवं स्यात् इति ह उवाच — कथं केन प्रकारेण असतः सज्जायेत इति ; असतः सदुत्पत्तौ न कश्चिदपि दृष्टान्तप्रकारोऽस्तीत्यभिप्रायः । एवमसद्वादिपक्षमुन्मथ्य उपसंहरति — सत्त्वेव सोम्येदमग्र आसीदिति स्वपक्षसिद्धिम् । ननु सद्वादिनोऽपि सतः सदुत्पद्यते इति नैव दृष्टान्तोऽस्ति, घटाद्घटान्तरोत्पत्त्यदर्शनात् । सत्यमेवं न सतः सदन्तरमुत्पद्यते ; किं तर्हि, सदेव संस्थानान्तरेणावतिष्ठते — यथा सर्पः कुण्डली भवति, यथा च मृत् चूर्णपिण्डघटकपालादिप्रभेदैः । यद्येवं सदेव सर्वप्रकारावस्थम् , कथं प्रागुत्पत्तेरिदमासीदित्युच्यते ? ननु न श्रुतं त्वया, सदेवेत्यवधारणम् इदं — शब्दवाच्यस्य कार्यस्य । प्राप्तं तर्हि प्रागुत्पत्तेः असदेवासीत् न इदं — शब्दवाच्यम् , इदानीमिदं जातमिति । न, सत एव इदं — शब्दबुद्धिविषयतया अवस्थानात् , यथा मृदेव पिण्डघटादिशब्दबुद्धिविषयत्वेनावतिष्ठते — तद्वत् । ननु यथा मृद्वस्तु एवं पिण्डघटाद्यपि, तद्वत् सद्बुद्धेरन्यबुद्धिविषयत्वात्कार्यस्य सतोऽन्यद्वस्त्वन्तरं स्यात्कार्यजातं यथा अश्वाद्गौः । न, पिण्डघटादीनामितरेतरव्यभिचारेऽपि मृत्त्वाव्यभिचारात् । यद्यपि घटः पिण्डं व्यभिचरति पिण्डश्च घटम् , तथापि पिण्डघटौ मृत्त्वं न व्यभिचरतः तस्मान्मृन्मात्रं पिण्डघटौ । व्यभिचरति त्वश्वं गौः अश्वो वा गाम् । तस्मान्मृदादिसंस्थानमात्रं घटादयः । एवं सत्संस्थानमात्रमिदं सर्वमिति युक्तं प्रागुत्पत्तेः सदेवेति, वाचारम्भणमात्रत्वाद्विकारसंस्थानमात्रस्य । ननु निरवयवं सत् , ‘निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनं’ (श्वे. उ. ६ । १९) ‘दिव्यो ह्यमूर्तः पुरुषः सबाह्याभ्यन्तरो ह्यजः’ (मु. उ. २ । १ । २) इत्यादिश्रुतिभ्यः ; निरवयवस्य सतः कथं विकारसंस्थानमुपपद्यते ? नैष दोषः, रज्ज्वाद्यवयवेभ्यः सर्पादिसंस्थानवत् बुद्धिपरिकल्पितेभ्यः सदवयवेभ्यः विकारसंस्थानोपपत्तेः । ‘वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्’ (छा. उ. ६ । १ । ४) एवं सदेव सत्यम् — इति श्रुतेः । एकमेवाद्वितीयं परमार्थतः इदम्बुद्धिकालेऽपि ॥
तदैक्षत बहु स्यां प्रजायेयेति तत्तेजोऽसृजत तत्तेज ऐक्षत बहु स्यां प्रजायेयेति तदपोऽसृजत । तस्माद्यत्र क्वच शोचति स्वेदते वा पुरुषस्तेजस एव तदध्यापो जायन्ते ॥ ३ ॥
तत् सत् ऐक्षत ईक्षां दर्शनं कृतवत् । अतश्च न प्रधानं साङ्ख्यपरिकल्पितं जगत्कारणम् , प्रधानस्याचेतनत्वाभ्युपगमात् । इदं तु सत् चेतनम् , ईक्षितृत्वात् । तत्कथमैक्षतेति, आह — बहु प्रभूतं स्यां भवेयं प्रजायेय प्रकर्षेणोत्पद्येय, यथा मृद्घटाद्याकारेण यथा वा रज्ज्वादि सर्पाद्याकारेण बुद्धिपरिकल्पितेन । असदेव तर्हि सर्वम् , यद्गृह्यते रज्जुरिव सर्पाद्याकारेण । न, सत एव द्वैतभेदेन अन्यथागृह्यमाणत्वात् न असत्त्वं कस्यचित्क्वचिदिति ब्रूमः । यथा सतोऽन्यद्वस्त्वन्तरं परिकल्प्य पुनस्तस्यैव प्रागुत्पत्तेः प्रध्वंसाच्चोर्ध्वम् असत्त्वं ब्रुवते तार्किकाः, न तथा अस्माभिः कदाचित्क्वचिदपि सतोऽन्यदभिधानमभिधेयं वा वस्तु परिकल्प्यते । सदेव तु सर्वमभिधानमभिधीयते च यदन्यबुद्ध्या, यथा रज्जुरेव सर्पबुद्ध्या सर्प इत्यभिधीयते, यथा वा पिण्डघटादि मृदोऽन्यबुद्ध्या पिण्डघटादिशब्देनाभिधीयते लोके । रज्जुविवेकदर्शिनां तु सर्पाभिधानबुद्धी निवर्तेते, यथा च मृद्विवेकदर्शिनां घटादिशब्दबुद्धी, तद्वत् सद्विवेकदर्शिनामन्यविकारशब्दबुद्धी निवर्तेते — ‘यतो वाचो निवर्तन्ते । अप्राप्य मनसा सह’ (तै. उ. २ । ९ । १) इति, ‘अनिरुक्तेऽनिलयने’ (तै. उ. २ । ७ । १) इत्यादिश्रुतिभ्यः । एवमीक्षित्वा तत् तेजः असृजत तेजः सृष्टवत् । ननु ‘तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः’ (तै. उ. २ । १ । १) इति श्रुत्यन्तरे आकाशाद्वायुः ततस्तृतीयं तेजः श्रुतम् , इह कथं प्राथम्येन तस्मादेव तेजः सृज्यते तत एव च आकाशमिति विरुद्धम् ? नैष दोषः, आकाशवायुसर्गानन्तरं तत्सत् तेजोऽसृजतेति कल्पनोपपत्तेः । अथवा अविवक्षितः इह सृष्टिक्रमः ; सत्कार्यमिदं सर्वम् , अतः सदेकमेवाद्वितीयमित्येतद्विवक्षितम् , मृदादिदृष्टान्तात् । अथवा त्रिवृत्करणस्य विवक्षितत्वात् तेजोबन्नानामेव सृष्टिमाचष्टे । तेज इति प्रसिद्धं लोके दग्धृ पक्तृ प्रकाशकं रोहितं चेति । तत् सत्सृष्टं तेजः ऐक्षत तेजोरूपसंस्थितं सत् ऐक्षतेत्यर्थः । बहु स्यां प्रजायेयेति पूर्ववत् । तत् अपोऽसृजत आपः द्रवाः स्निग्धाः स्यन्दिन्यः शुक्लाश्चेति प्रसिद्धा लोके । यस्मात्तेजसः कार्यभूता आपः, तस्माद्यत्र क्वच देशे काले वा शोचति सन्तप्यते स्वेदते प्रस्विद्यते वा पुरुषः तेजस एव तत् तदा आपः अधिजायन्ते ॥
ता आप ऐक्षन्त बह्व्यः स्याम प्रजायेमहीति ता अन्नमसृजन्त तस्माद्यत्र क्व च वर्षति तदेव भूयिष्ठमन्नं भवत्यद्भ्य एव तदध्यन्नाद्यं जायते ॥ ४ ॥
ता आप ऐक्षन्त पूर्ववदेव अबाकारसंस्थितं सदैक्षतेत्यर्थः । बह्वयः प्रभूताः स्याम भवेम प्रजायेमहि उत्पद्येमहीति । ता अन्नमसृजन्त पृथिवीलक्षणम् । पार्थिवं हि अन्नम् ; यस्मादप्कार्यमन्नम् , तस्मात् यत्र क्व च वर्षति देशे तत् तत्रैव भूयिष्ठं प्रभूतमन्नं भवति । अतः अद्भ्य एव तदन्नाद्यमधिजायते । ता अन्नमसृजन्तेति पृथिव्युक्ता पूर्वम् , इह तु दृष्टान्ते अन्नं च तदाद्यं चेति विशेषणात् व्रीहियवाद्या उच्यन्ते । अन्नं च गुरु स्थिरं धारणं कृष्णं च रूपतः प्रसिद्धम् ॥
ननु तेजःप्रभृतिषु ईक्षणं न गम्यते, हिंसादिप्रतिषेधाभावात् त्रासादिकार्यानुपलम्भाच्च ; तत्र कथं तत्तेज ऐक्षतेत्यादि ? नैष दोषः । ईक्षितृकारणपरिणामत्वात्तेजःप्रभृतीनां सत एव ईक्षितुः नियतक्रमविशिष्टकार्योत्पादकत्वाच्च तेजःप्रभृति ईक्षते इव ईक्षते इत्युच्यते भूतम् । ननु सतोऽप्युपचरितमेव ईक्षितृत्वम् । न । सदीक्षणस्य केवलशब्दगम्यत्वात् न शक्यमुपचरितं कल्पयितुम् । तेजःप्रभृतीनां त्वनुमीयते मुख्येक्षणाभाव इति युक्तमुपचरितं कल्पयितुम् । ननु सतोऽपि मृद्वत्कारणत्वादचेतनत्वं शक्यमनुमातुम् । अतः प्रधानस्यैवाचेतनस्य सतश्चेतनार्थत्वात् नियतकालक्रमविशिष्टकार्योत्पादकत्वाच्च ऐक्षत इव ऐक्षतेति शक्यमनुमातुम् उपचरितमेव ईक्षणम् । दृष्टश्च लोके अचेतने चेतनवदुपचारः, यथा कूलं पिपतिषतीति तद्वत् सतोऽपि स्यात् । न, ‘तत्सत्यं स आत्मा’ (छा. उ. ६ । १४ । ३) इति तस्मिन्नात्मोपदेशात् । आत्मोपदेशोऽप्युपचरित इति चेत्— यथा ममात्मा भद्रसेन इति सर्वार्थकारिण्यनात्मनि आत्मोपचारः — तद्वत् ; न, सदस्मीति सत्सत्याभिसन्धस्य ‘तस्य तावदेव चिरम्’ (छा. उ. ६ । १४ । २) इति मोक्षोपदेशात् । सोऽप्युपचार इति चेत्— प्रधानात्माभिसन्धस्य मोक्षसामीप्यं वर्तत इति मोक्षोपदेशोऽप्युपचरित एव, यथा लोके ग्रामं गन्तुं प्रस्थितः प्राप्तवानहं ग्राममिति ब्रूयात्त्वगपेक्षया — तद्वत् ; न, येन विज्ञातेनाविज्ञातं विज्ञातं भवतीत्युपक्रमात् । सति एकस्मिन्विज्ञाते सर्वं विज्ञातं भवति, तदनन्यत्वात् सर्वस्याद्वितीयवचनाच्च । न च अन्यद्विज्ञातव्यमवशिष्टं श्रावितं श्रुत्या अनुमेयं वा लिङ्गतः अस्ति, येन मोक्षोपदेश उपचरितः स्यात् । सर्वस्य च प्रपाठकार्थस्य उपचरितत्वपरिकल्पनायां वृथा श्रमः परिकल्पयितुः स्यात् , पुरुषार्थसाधनविज्ञानस्य तर्केणैवाधिगतत्वात्तस्य । तस्माद्वेदप्रामाण्यात् न युक्तः श्रुतार्थपरित्यागः । अतः चेतनावत्कारणं जगत इति सिद्धम् ॥
इति द्वितीयखण्डभाष्यम् ॥
तेषां खल्वेषां भूतानां त्रीण्येव बीजानि भवन्त्याण्डजं जीवजमुद्भिज्जमिति ॥ १ ॥
तेषां जीवाविष्टानां खलु एषां पक्ष्यादीनां भूतानाम् , एषामिति प्रत्यक्षनिर्देशात् , न तु तेजःप्रभृतीनाम् , तेषां त्रिवृत्करणस्य वक्ष्यमाणत्वात् ; असति त्रिवृत्करणे प्रत्यक्षनिर्देशानुपपत्तिः । देवताशब्दप्रयोगाच्च तेजःप्रभृतिषु — ‘इमास्तिस्रो देवताः’ इति । तस्मात् तेषां खल्वेषां भूतानां पक्षिपशुस्थावरादीनां त्रीण्येव नातिरिक्तानि बीजानि कारणानि भवन्ति । कानि तानीति, उच्यन्ते — आण्डजम् अण्डाज्जातमण्डजम् अण्डजमेव आण्डजं पक्ष्यादि । पक्षिसर्पादिभ्यो हि पक्षिसर्पादयो जायमाना दृश्यन्ते । तेन पक्षी पक्षिणां बीजं सर्पः सर्पाणां बीजं तथा अन्यदप्यण्डाज्जातं तज्जातीयानां बीजमित्यर्थः । ननु अण्डाज्जातम् अण्डजमुच्यते, अतोऽण्डमेव बीजमिति युक्तम् ; कथमण्डजं बीजमुच्यते ? सत्यमेवं स्यात् , यदि त्वदिच्छातन्त्रा श्रुतिः स्यात् ; स्वतन्त्रा तु श्रुतिः, यत आह अण्डजाद्येव बीजं न अण्डादीति । दृश्यते च अण्डजाद्यभावे तज्जातीयसन्तत्यभावः, न अण्डाद्यभावे । अतः अण्डजादीन्येव बीजानि अण्डजादीनाम् । तथा जीवाज्जातं जीवजं जरायुजमित्येतत्पुरुषपश्वादि । उद्भिज्जम् उद्भिनत्तीत्युद्भित् स्थावरं ततो जातमुद्भिज्जम् , धाना वा उद्भित् ततो जायत इत्युद्भिज्जं स्थावरबीजं स्थावराणां बीजमित्यर्थः । स्वेदजसंशोकजयोरण्डजोद्भिज्जयोरेव यथासम्भवमन्तर्भावः । एवं हि अवधारणं त्रीण्येव बीजानीत्युपपन्नं भवति ॥
सेयं देवतैक्षत हन्ताहमिमास्तिस्रो देवता अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणीति ॥ २ ॥
सेयं प्रकृता सदाख्या तेजोबन्नयोनिः देवता उक्ता ऐक्षत ईक्षितवती यथापूर्वं बहु स्यामिति । तदेव बहुभवनं प्रयोजनं नाद्यापि निर्वृत्तम् इत्यतः ईक्षां पुनः कृतवती बहुभवनमेव प्रयोजनमुररीकृत्य । कथम् ? हन्त इदानीमहमिमाः यथोक्ताः तेजआद्याः तिस्रो देवताः अनेन जीवेनेति स्वबुद्धिस्थं पूर्वसृष्ट्यनुभूतप्राणधारणम् आत्मानमेव स्मरन्ती आह— अनेन जीवेन आत्मनेति । प्राणधारणकर्त्रा आत्मनेति वचनात् स्वात्मनोऽव्यतिरिक्तेन चैतन्यस्वरूपतया अविशिष्टेनेत्येतद्दर्शयति । अनुप्रविश्य तेजोबन्नभूतमात्रासंसर्गेण लब्धविशेषविज्ञाना सती नाम च रूपं च नामरूपे व्याकरवाणि विस्पष्टमाकरवाणि, असौनामायम् इदंरूप इति व्याकुर्यामित्यर्थः ॥
ननु न युक्तमिदम् — असंसारिण्याः सर्वज्ञायाः देवतायाः बुद्धिपूर्वकमनेकशतसहस्रानर्थाश्रयं देहमनुप्रविश्य दुःखमनुभविष्यामीति सङ्कल्पनम् , अनुप्रवेशश्च स्वातन्त्र्ये सति । सत्यमेवं न युक्तं स्यात् — यदि स्वेनैवाविकृतेन रूपेणानुप्रविशेयं दुःखमनुभवेयमिति च सङ्कल्पितवती ; न त्वेवम् । कथं तर्हि ? अनेन जीवेन आत्मना अनुप्रविश्य इति वचनात् । जीवो हि नाम देवताया आभासमात्रम् , बुद्ध्यादि भूतमात्रासंसर्गजनितः — आदर्शे इव प्रविष्टः पुरुषप्रतिबिम्बः, जलादिष्विव च सूर्यादीनाम् । अचिन्त्यानन्तशक्तिमत्या देवतायाः बुद्ध्यादिसम्बन्धः चैतन्याभासः देवतास्वरूपविवेकाग्रहणनिमित्तः सुखी दुःखी मूढ इत्याद्यनेकविकल्पप्रत्ययहेतुः । छायामात्रेण जीवरूपेणानुप्रविष्टत्वात् देवता न दैहिकैः स्वतः सुखदुःखादिभिः सम्बध्यते — यथा पुरुषादित्यादयः आदर्शोदकादिषु च्छायामात्रेणानुप्रविष्टाः आदर्शोदकादिदोषैर्न सम्बध्यन्ते — तद्वद्देवतापि । ‘सूर्यो यथा सर्वलोकस्य चक्षुर्न लिप्यते चाक्षुषैर्बाह्यदोषैः । एकस्तथा सर्वभूतान्तरात्मा न लिप्यते लोकदुःखेन बाह्यः’ (क. उ. १ । ३ । १) ‘आकाशवत्सर्वगतश्च नित्यः’ (शत. ब्रा. १० । ६ । ३ । २) इति हि काठके ; ‘ध्यायतीव लेलायतीव’ (बृ. उ. ४ । ३ । ७) इति च वाजसनेयके । ननु च्छायामात्रश्चेज्जीवः मृषैव प्राप्तः, तथा परलोकेहलोकादि च तस्य । नैष दोषः, सदात्मना सत्यत्वाभ्युपगमात् । सर्वं च नामरूपादि सदात्मनैव सत्यं विकारजातम् , स्वतस्त्वनृतमेव, ‘वाचारम्भणं विकारो नामधेयम्’ (छा. उ. ६ । १ । ४) इत्युक्तत्वात् । तथा जीवोऽपीति । यक्षानुरूपो हि बलिरिति न्यायप्रसिद्धिः । अतः सदात्मना सर्वव्यवहाराणां सर्वविकाराणां च सत्यत्वं सतोऽन्यत्वे च अनृतत्वमिति न कश्चिद्दोषः तार्किकैरिहानुवक्तुं शक्यः, यथा इतरेतरविरुद्धद्वैतवादाः स्वबुद्धिविकल्पमात्रा अतत्त्वनिष्ठा इति शक्यं वक्तुम् ॥
तासां त्रिवृतं त्रिवृतमेकैकां करवाणीति सेयं देवतेमास्तिस्रो देवता अनेनैव जीवेनात्मनानुप्रविश्य नामरूपे व्याकरोत् ॥ ३ ॥
सैवं तिस्रो देवताः अनुप्रविश्य स्वात्मावस्थे बीजभूते अव्याकृते नामरूपे व्याकरवाणीति ईक्षित्वा तासां च तिसृणां देवतानामेकैकां त्रिवृतं त्रिवृतं करवाणि — एकैकस्यास्त्रिवृत्करणे एकैकस्याः प्राधान्यं द्वयोर्द्वयोर्गुणभावः ; अन्यथा हि रज्ज्वा इव एकमेव त्रिवृत्करणं स्यात् , न तु तिसृणां पृथक्पृथक्त्रिवृत्करणमिति । एवं हि तेजोबन्नानां पृथङ्नामप्रत्ययलाभः स्यात् — तेज इदम् इमा आपः अन्नमिदम् इति च । सति च पृथङ्नामप्रत्ययलाभे देवतानां सम्यग्व्यवहारस्य प्रसिद्धिः प्रयोजनं स्यात् । एवमीक्षित्वा सेयं देवता इमास्तिस्रो देवताः अनेनैव यथोक्तेनैव जीवेन सूर्यबिम्बवदन्तः प्रविश्य वैराजं पिण्डं प्रथमं देवादीनां च पिण्डाननुप्रविश्य यथासङ्कल्पमेव नामरूपे व्याकरोत् — असौनामा अयम् इदंरूप इति ॥
तासां त्रिवृतं त्रिवृतमेकैकामकरोद्यथा तु खलु सोम्येमास्तिस्रो देवतास्त्रिवृत्त्रिवृदेकैका भवति तन्मे विजानीहीति ॥ ४ ॥
तासां च देवतानां गुणप्रधानभावेन त्रिवृतं त्रिवृतम् एकैकामकरोत् कृतवती देवता । तिष्ठतु तावद्देवतादिपिण्डानां नामरूपाभ्यां व्याकृतानां तेजोबन्नमयत्वेन त्रिधात्वम् , यथा तु बहिरिमाः पिण्डेभ्यस्तिस्रो देवतात्त्रिवृदेकैका भवति तन्मे मम निगदतः विजानीहि विस्पष्टम् अवधारय उदाहरणतः ॥
इति तृतीयखण्डभाष्यम् ॥
यदग्ने रोहितꣳ रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां यत्कृष्णं तदन्नस्यापागादग्नेरग्नित्वं वाचारम्भणं विकारो नामधेयं त्रीणि रूपाणीत्येव सत्यम् ॥ १ ॥
यत्तद्देवतानां त्रिवृत्करणमुक्तम् तस्यैवोदाहरणमुच्यते — उदाहरणं नाम एकदेशप्रसिद्ध्या अशेषप्रसिद्ध्यर्थमुदाह्रियत इति । तदेतदाह — यदग्नेः त्रिवृत्कृतस्य रोहितं रूपं प्रसिद्धं लोके, तत् अत्रिवृत्कृतस्य तेजसो रूपमिति विद्धि । तथा यच्छुक्लं रूपमग्नेरेव तदपामत्रिवृत्कृतानाम् ; यत्कृष्णं तस्यैवाग्नेः रूपम् तदन्नस्य पृथिव्याः अत्रिवृत्कृतायाः इति विद्धि । तत्रैवं सति रूपत्रयव्यतिरेकेण अग्निरिति यन्मन्यसे त्वम् , तस्याग्नेरग्नित्वमिदानीम् अपागात् अपगतम् । प्राग्रूपत्रयविवेकविज्ञानात् या अग्निबुद्धिरासीत् ते, सा अग्निबुद्धिरपगता अग्निशब्दश्चेत्यर्थः — यथा दृश्यमानरक्तोपधानसंयुक्तः स्फटिको गृह्यमाणः पद्मरागोऽयमितिशब्दबुद्ध्योः प्रयोजको भवति प्रागुपधानस्फटिकयोर्विवेकविज्ञानात् , तद्विवेकविज्ञाने तु पद्मरागशब्दबुद्धी निवर्तेते तद्विवेकविज्ञातुः — तद्वत् । ननु किमत्र बुद्धिशब्दकल्पनया क्रियते, प्राग्रूपत्रयविवेककरणादग्निरेवासीत् , तदग्नेरग्नित्वं रोहितादिरूपविवेककरणादपागादिति युक्तम् — यथा तन्त्वपकर्षणे पटाभावः । नैवम् , बुद्धिशब्दमात्रमेव हि अग्निः ; यत आह वाचारम्भणमग्निर्नाम विकारो नामधेयं नाममात्रमित्यर्थः । अतः अग्निबुद्धिरपि मृषैव । किं तर्हि तत्र सत्यम् ? त्रीणि रूपाणीत्येव सत्यम् , नाणुमात्रमपि रूपत्रयव्यतिरेकेण सत्यमस्तीत्यवधारणार्थः ॥
यदादित्यस्य रोहितꣳ रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां यत्कृष्णं तदन्नस्यापागादादित्यादादित्यत्वं वाचारम्भणं विकारो नामधेयं त्रीणि रूपाणीत्येव सत्यम् ॥ २ ॥
यच्चन्द्रमसो रोहितꣳ रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां यत्कृष्णं तदन्नस्यापागाच्चान्द्राच्चन्द्रत्वं वाचारम्भणं विकारो नामधेयं त्रीणि रूपाणीत्येव सत्यम् ॥ ३ ॥
यद्विद्युतो रोहितꣳ रूपं तेजसस्तद्रूपं यत्छुक्लं तदपां यत्कृष्णं तदन्नस्यापागाद्विद्युतो विद्युत्त्वं वाचारम्भणं विकारो नामधेयं त्रीणि रूपाणीत्येव सत्यम् ॥ ४ ॥
तथा यदादित्यस्य यच्चन्द्रमसो यद्विद्युत इत्यादि समानम् । ननु ‘यथा तु खलु सोम्येमास्तिस्रो देवतास्त्रिवृत्त्रिवृदेकैका भवति तन्मे विजानीहि’ (छा. उ. ६ । ४ । ४) इत्युक्त्वा तेजस एव चतुर्भिरप्युदाहरणैः अग्न्यादिभिः त्रिवृत्करणं दर्शितम् , न अबन्नयोरुदाहरणं दर्शितं त्रिवृत्करणे । नैष दोषः अबन्नविषयाण्यप्युदाहरणानि एवमेव च द्रष्टव्यानीति मन्यते श्रुतिः । तेजस उदाहरणमुपलक्षणार्थम् , रूपवत्त्वात्स्पष्टार्थत्वोपपत्तेश्च । गन्धरसयोरनुदाहरणं त्रयाणामसम्भवात् । न हि गन्धरसौ तेजसि स्तः । स्पर्शशब्दयोरनुदाहरणं विभागेन दर्शयितुमशक्यत्वात् । यदि सर्वं जगत् त्रिवृत्कृतमिति अग्न्यादिवत् त्रीणि रूपाणीत्येव सत्यम् , अग्नेरग्नित्ववत् अपागाज्जगतो जगत्त्वम् । तथा अन्नस्याप्यप्शुङ्गत्वात् आप इत्येव सत्यं वाचारम्भणमात्रमन्नम् । तथा अपामपि तेजःशुङ्गत्वात् वाचारम्भणत्वं तेज इत्येव सत्यम् । तेजसोऽपिसच्छुङ्गत्वात् वाचारम्भणत्वं सदित्येव सत्यम् इत्येषोऽर्थो विवक्षितः । ननु वाय्वन्तरिक्षे तु अत्रिवृत्कृते तेजःप्रभृतिष्वनन्तर्भूतत्वात् अवशिष्येते, एवं गन्धरसशब्दस्पर्शाश्चावशिष्टा इति कथं सता विज्ञातेन सर्वमन्यदविज्ञातं विज्ञातं भवेत् ? तद्विज्ञाने वा प्रकारान्तरं वाच्यम् ; नैष दोषः, रूपवद्द्रव्ये सर्वस्य दर्शनात् । कथम् ? तेजसि तावद्रूपवति शब्दस्पर्शयोरप्युपलम्भात् वाय्वन्तरिक्षयोः तत्र स्पर्शशब्दगुणवतोः सद्भावो अनुमीयते । तथा अबन्नयोः रूपवतो रसगन्धान्तर्भाव इति । रूपवतां त्रयाणां तेजोबन्नानां त्रिवृत्करणप्रदर्शनेन सर्वं तदन्तर्भूतं सद्विकारत्वात् त्रीण्येव रूपाणि विज्ञातं मन्यते श्रुतिः । न हि मूर्तं रूपवद्द्रव्यं प्रत्याख्याय वाय्वाकाशयोः तद्गुणयोर्गन्धरसयोर्वा ग्रहणमस्ति । अथवा रूपवतामपि त्रिवृत्करणं प्रदर्शनार्थमेव मन्यते श्रुतिः । यथा तु त्रिवृत्कृते त्रीणि रूपाणीत्येव सत्यम् , तथा पञ्चीकरणेऽपि समानो न्याय इत्यतः सर्वस्य सद्विकारत्वात् सता विज्ञातेन सर्वमिदं विज्ञातं स्यात् सदेकमेवाद्वितीयं सत्यमिति सिद्धमेव भवति । तदेकस्मिन्सति विज्ञाते सर्वमिदं विज्ञातं भवतीति सूक्तम् ॥
एतद्ध स्म वै तद्विद्वांस आहुः पूर्वे महाशाला महाश्रोत्रिया न नोऽद्य कश्चनाश्रुतममतमविज्ञातमुदाहरिष्यतीति ह्येभ्यो विदाञ्चक्रुः ॥ ५ ॥
एतत् विद्वांसः विदितवन्तः पूर्वे अतिक्रान्ताः महाशालाः महाश्रोत्रियाः आहुः ह स्म वै किल । किमुक्तवन्त इति, आह — न नः अस्माकं कुले अद्य इदानीं यथोक्तविज्ञानवतां कश्चन कश्चिदपि अश्रुतममतमविज्ञातम् उदाहरिष्यति नोदाहरिष्यति, सर्वं विज्ञातमेव अस्मत्कुलीनानां सद्विज्ञानवत्त्वात् इत्यभिप्रायः । ते पुनः कथं सर्वं विज्ञातवन्त इति, आह — एभ्यः त्रिभ्यः रोहितादिरूपेभ्यः त्रिवृत्कृतेभ्यः विज्ञातेभ्यः सर्वमप्यन्यच्छिष्टमेवमेवेति विदाञ्चक्रुः विज्ञातवन्तः यस्मात् , तस्मात्सर्वज्ञा एव सद्विज्ञानात् ते आसुरित्यर्थः । अथवा एभ्यो विदाञ्चक्रुरिति अग्न्यादिभ्यो दृष्टान्तेभ्यो विज्ञातेभ्यः सर्वमन्यद्विदाञ्चक्रुरित्येतत् ॥
यदु रोहितमिवाभूदिति तेजसस्तद्रूपमिति तद्विदाञ्चक्रुर्यदु शुक्लमिवाभूदित्यपां रूपमिति तद्विदाञ्चक्रुर्यदु कृष्णमिवाभूदित्यन्नस्य रूपमिति तद्विदाञ्चक्रुः ॥ ६ ॥
यद्वविज्ञातमिवाभूदित्येतासामेव देवतानां समास इति तद्विदाञ्चक्रुर्यथा तु खलु सोम्येमास्तिस्रो देवताः पुरुषं प्राप्य त्रिवृत्त्रिवृदेकैका भवति तन्मे विजानीहीति ॥ ७ ॥
कथम् ? यदन्यद्रूपेण सन्दिह्यमाने कपोतादिरूपे रोहितमिव यद्गृह्यमाणमभूत् तेषां पूर्वेषां ब्रह्मविदाम् , तत्तेजसो रूपमिति विदाञ्चक्रुः । तथा यच्छुक्लमिवाभूद्गृह्यमाणं तदपां रूपम् , यत्कृष्णमिव । गृह्यमाणं तदन्नस्येति विदाञ्चक्रुः । एवमेवात्यन्तदुर्लक्ष्यं यत् उ अपि अविज्ञातमिव विशेषतो अगृह्यमाणमभूत् तदप्येतासामेव तिसृणां देवतानां समासः समुदाय इति विदाञ्चक्रुः । एवं तावद्बाह्यं वस्त्वग्न्यादिवद्विज्ञातम् , तथेदानीं यथा तु खलु हे सोम्य इमाः यथोक्तास्तिस्रो देवताः पुरुषं शिरःपाण्यादिलक्षणं कार्यकारणसङ्घातं प्राप्य पुरुषेणोपयुज्यमानाः त्रिवृत्त्रिवृदेकैका भवति, तत् आध्यात्मिकं विजानीहि निगदतः इत्युक्त्वा आह ॥
इति चतुर्थखण्डभाष्यम् ॥
अन्नमशितं त्रेधा विधीयते तस्य यः स्थविष्ठो धातुस्तत्पुरीषं भवति यो मध्यमस्तन्माꣳसं योऽणिष्ठस्तन्मनः ॥ १ ॥
अन्नम् अशितं भुक्तं त्रेधा विधीयते जाठरेणाग्निना पच्यमानं त्रिधा विभज्यते । कथम् ? तस्यान्नस्य त्रिधा विधीयमानस्य यः स्थविष्ठः स्थूलतमो धातुः स्थूलतमं वस्तु विभक्तस्य स्थूलांशः, तत्पुरीषं भवति ; यो मध्यमांशः धातुरन्नस्य, तद्रसादिक्रमेण परिणम्य मांसं भवति ; यः अणिष्ठः अणुतमो धातुः, स ऊर्ध्वं हृदयं प्राप्य सूक्ष्मासु हिताख्यासु नाडीषु अनुप्रविश्य वागादिकरणसङ्घातस्य स्थितिमुत्पादयन् मनो भवति । मनोरूपेण विपरिणमन् मनस उपचयं करोति । ततश्च अन्नोपचितत्वात् मनसः भौतिकत्वमेव न वैशेषिकतन्त्रोक्तलक्षणं नित्यं निरवयवं चेति गृह्यते । यदपि मनोऽस्य दैवं चक्षुरिति वक्ष्यति तदपि न नित्यत्वापेक्षया ; किं तर्हि, सूक्ष्मव्यवहितविप्रकृष्टादिसर्वेन्द्रियविषयव्यापारकत्वापेक्षया । यच्चान्येन्द्रियविषयापेक्षया नित्यत्वम् , तदप्यापेक्षिकमेवेति वक्ष्यामः, ‘सत् . . . एकमेवाद्वितीयम्’ इति श्रुतेः ॥
आपः पीतास्त्रेधा विधीयन्ते तासां यः स्थविष्ठो धातुस्तन्मूत्रं भवति यो मध्यमस्तल्लोहितं योऽणिष्ठः स प्राणः ॥ २ ॥
तथा आपः पीताः त्रेधा विधीयन्ते । तासां यः स्थविष्ठो धातुः, तन्मूत्रं भवति, यो मध्यमः, तल्लोहितं भवति ; योऽणिष्ठः, स प्राणो भवति । वक्ष्यति हि — ‘आपोमयः प्राणो नपिबतो विच्छेत्स्यते’ (छा. उ. ६ । ७ । १) इति ॥
तेजोऽशितं त्रेधा विधीयते तस्य यः स्थविष्ठो धातुस्तदस्थि भवति यो मध्यमः स मज्जा योऽणिष्ठः सा वाक् ॥ ३ ॥
तथा तेजः अशितं तैलघृतादि भक्षितं त्रेधा विधीयते । तस्य यः स्थविष्ठो धातुः तदस्थि भवति ; यो मध्यमः, स मज्जा अस्थ्यन्तर्गतः स्नेहः ; योऽणिष्ठः सा वाक् । तैलघृतादिभक्षणाद्धि वाग्विशदा भाषणे समर्था भवतीति प्रसिद्धं लोके ॥
अन्नमयꣳ हि सोम्य मन आपोमयः प्राणस्तेजोमयी वागिति भूय एव मा भगवान्विज्ञापयत्विति तथा सोम्येति होवाच ॥ ४ ॥
यत एवम् , अन्नमयं हि सोम्य मनः आपोमयः प्राणः तेजोमयी वाक् । ननु केवलान्नभक्षिण आखुप्रभृतयो वाग्मिनः प्राणवन्तश्च, तथा अब्मात्रभक्ष्याः सामुद्रा मीनमकरप्रभृतयो मनस्विनो वाग्मिनश्च, तथा स्नेहपानामपि प्राणवत्त्वं मनस्वित्वं च अनुमेयम् ; यदि सन्ति, तत्र कथमन्नमयं हि सोम्य मन इत्याद्युच्यते ? नैष दोषः, सर्वस्य त्रिवृत्कृतत्वात्सर्वत्र सर्वोपपत्तेः । न हि अत्रिवृत्कृतमन्नमश्नाति कश्चित् , आपो वा अत्रिवृत्कृताः पीयन्ते, तेजो वा अत्रिवृत्कृतमश्नाति कश्चित् इत्यन्नादानामाखुप्रभृतीनां वाग्मित्वं प्राणवत्त्वं च इत्याद्यविरुद्धम् । इत्येवं प्रत्यायितः श्वेतकेतुराह — भूय एव पुनरेव मा मां भगवान् अन्नमयं हि सोम्य मन इत्यादि विज्ञापयतु दृष्टान्तेनावगमयतु, नाद्यापि मम अस्मिन्नर्थे सम्यङ्निश्चयो जातः । यस्मात्तेजोबन्नमयत्वेनाविशिष्टे देहे एकस्मिन्नुपयुज्यमानान्यन्नाप्स्नेहजातानि अणिष्ठधातुरूपेण मनःप्राणवाच उपचिन्वन्ति स्वजात्यनतिक्रमेणेति दुर्विज्ञेयमित्यभिप्रायः ; अतो भूय एवेत्याद्याह । तमेवमुक्तवन्तं तथास्तु सोम्येति ह उवाच पिता शृण्वत्र दृष्टान्तं यथैतदुपपद्यते यत्पृच्छसि ॥
इति पञ्चमखण्डभाष्यम् ॥
दध्नः सोम्य मथ्यमानस्य योऽणिमा स ऊर्ध्वः समुदीषति तत्सर्पिर्भवति ॥ १ ॥
दध्नः सोम्य मथ्यमानस्य योऽणिमा अणुभावः स ऊर्ध्वः समुदीषति सम्भूयोर्ध्वं नवनीतभावेन गच्छति, तत्सर्पिर्भवति ॥
एवमेव खलु सोम्यान्नस्याश्यमानस्य योऽणिमा स ऊर्ध्वः समुदीषति तन्मनो भवति ॥ २ ॥
यथा अयं दृष्ठान्तः, एवमेव खलु सोम्य अन्नस्य ओदनादेः अश्यमानस्य भुज्यमानस्य औदर्येणाग्निना वायुसहितेन खजेनेव मथ्यमानस्य योऽणिमा स ऊर्ध्वः समुदीषति ; तन्मनो भवति, मनोवयवैः सह सम्भूय मन उपचिनोतीत्येतत् ॥
अपां सोम्य पीयमानानां योऽणिमा स ऊर्ध्वः समुदीषति स प्राणो भवति ॥ ३ ॥
तथा अपां सोम्य पीयमानानां यो अणिमा, स ऊर्ध्वः समुदीषति, स प्राणो भवतीति ॥
तेजसः सोम्याश्यमानस्य योऽणिमा स ऊर्ध्वः समुदीषति सा वाग्भवति ॥ ४ ॥
एवमेव खलु सोम्य तेजसोऽश्यमानस्य योऽणिमा स ऊर्ध्वः समुदीषति सा वाग्भवति ॥
अन्नमयं हि सोम्य मन आपोमयः प्राणस्तेजोमयी वागिति भूय एव मा भगवान्विज्ञापयत्विति तथा सोम्येति होवाच ॥ ५ ॥
अन्नमयं हि सोम्य मनः आपोमयः प्राणः तेजोमयी वाक् इति युक्तमेव मयोक्तमित्यभिप्रायः । अतः अप्तेजसोरस्त्वेतत्सर्वमेवम् । मनस्त्वन्नमयमित्यत्र नैकान्तेन मम निश्चयो जातः । अतः भूय एव मा भगवान् मनसोऽन्नमयत्वं दृष्टान्तेन विज्ञापयत्विति । तथा सोम्येति ह उवाच पिता ॥
इति षष्ठखण्डभाष्यम् ॥
षोडशकलः सोम्य पुरुषः पञ्चदशाहानि माशीः काममपः पिबापोमयः प्राणो नपिबतो विच्छेत्स्यत इति ॥ १ ॥
अन्नस्य भुक्तस्य यो अणिष्ठो धातुः, स मनसि शक्तिमधात् । सा अन्नोपचिता मनसः शक्तिः षोडशधा प्रविभज्य पुरुषस्य कलात्वेन निर्दिदिक्षिता । तया मनस्यन्नोपचितया शक्त्या षोडशधा प्रविभक्तया संयुक्तः तद्वन्कार्यकारणसङ्घातलक्षणो जीवविशिष्टः पुरुषः षोडशकल उच्यते ; यस्यां सत्यां द्रष्टा श्रोता मन्ता बोद्धा कर्ता विज्ञाता सर्वक्रियासमर्थः पुरुषो भवति ; हीयमानायां च यस्यां सामर्थ्यहानिः । वक्ष्यति च ‘अथान्नस्यायी द्रष्टा’ (छा. उ. ७ । ९ । १) इत्यादि । सर्वस्य कार्यकारणस्य सामर्थ्यं मनःकृतमेव । मानसेन हि बलेन सम्पन्ना बलिनो दृश्यन्ते लोके ध्यानाहाराश्च केचित् , अन्नस्य सर्वात्मकत्वात् । अतः अन्नकृतं मानसं वीर्यम् षोडश कलाः यस्य पुरुषस्य सोऽयं षोडशकलः पुरुषः । एतच्चेत्प्रत्यक्षीकर्तुमिच्छसि, पञ्चदशसङ्ख्याकान्यहानि माशीः अशनं माकार्षीः, कामम् इच्छातः अपः पिब, यस्मात् नपिबतः अपः ते प्राणो विच्छेत्स्यते विच्छेदमापत्स्यते, यस्मादापोमयः अब्विकारः प्राण इत्यवोचाम । न हि कार्यं स्वकारणोपष्टम्भमन्तरेण अविभ्रंशमानं स्थातुमुत्सहते ॥
स ह पञ्चदशाहानि नाशाथ हैनमुपससाद किं ब्रवीमि भो इत्यृचः सोम्य यजूꣳषि सामानीति स होवाच न वै मा प्रतिभान्ति भो इति ॥ २ ॥
स ह एवं श्रुत्वा मनसः अन्नमयत्वं प्रत्यक्षीकर्तुमिच्छन् पञ्चदशाहानि न आश अशनं न कृतवान् । अथ षोडशेऽहनि ह एवं पितरमुपससाद उपगतवान् उपगम्य च उवाच — किं ब्रवीमि भो इति । इतर आह — ऋचः सोम्य यजूंषि सामान्यधीष्वेति । एवमुक्तः पित्रा आह — न वै मा माम् ऋगादीनि प्रतिभान्ति मम मनसि न दृश्यन्त इत्यर्थः हे भो भगवन्निति ॥
तꣳहोवाच यथा सोम्य महतोऽभ्याहितस्यैकोऽङ्गारः खद्योतमात्रः परिशिष्टः स्यात्तेन ततोऽपि न बहु दहेदेवꣳ सोम्य ते षोडशानां कलानामेका कलातिशिष्टा स्यात्तयैतर्हि वेदान्नानुभवस्यशानाथ मे विज्ञास्यसीति ॥ ३ ॥
एवमुक्तवन्तं पिता आह — शृणु तत्र कारणम् , येन ते तानि ऋगादीनि न प्रतिभान्तीति ; तं ह उवाच — यथा लोके हे सोम्य महतः महत्परिमाणस्य अभ्याहितस्य उपचितस्य इन्धनैः अग्नेः एकोऽङ्गारः खद्योतमात्रः खद्योतपरिमाणः शान्तस्य परिशिष्टः अवशिष्टः स्यात् भवेत् , तेनाङ्गारेण ततोऽपि तत्परिमाणात् ईषदपि न बहु दहेत् , एवमेव खलु सोम्य ते तव अन्नोपचितानां षोडशानां कलानामेका कला अवयवः अतिशिष्टा अवशिष्टा स्यात् , तया त्वं खद्योतमात्राङ्गारतुल्यया एतर्हि इदानीं वेदान् नानुभवसि न प्रतिपद्यसे, श्रुत्वा च मे मम वाचम् अथ अशेषं विज्ञास्यसि अशान भुङ्क्ष्व तावत् ॥
स हाशाथ हैनमुपससाद तꣳ ह यत्किञ्च पप्रच्छ सर्वꣳ ह प्रतिपेदे ॥ ४ ॥
स ह तथैव आश भुक्तवान् । अथ अनन्तरं ह एवं पितरं शुश्रूषुः उपससाद । तं ह उपगतं पुत्रं यत्किञ्च ऋगादिषु पप्रच्छ ग्रन्थरूपमर्थजातं वा पिता । स श्वेतकेतुः सर्वं ह तत्प्रतिपेदे ऋगाद्यर्थतो ग्रन्थतश्च ॥
तंहोवाच यथा सोम्य महतोऽभ्याहितस्यैकमङ्गारं खद्योतमात्रं परिशिष्टं तं तृणैरुपसमाधाय प्राज्वलयेत्तेन ततोऽपि बहु दहेत् ॥ ५ ॥
तं ह उवाच पुनः पिता — यथा सोम्य महतः अभ्याहितस्येत्यादि समानम् , एकमङ्गारं शान्तस्याग्नेः खद्योतमात्रं परिशिष्टं तं तृणैश्चूर्णैश्च उपसमाधाय प्राज्वलयेत् वर्धयेत् । तेनेद्धेन अङ्गारेण ततोऽपि पूर्वपरिमाणात् बहु दहेत् ॥
एवꣳ सोम्य ते षोडशानां कलानामेका कलातिशिष्टाभूत्सान्नेनोपसमाहिता प्राज्वाली तयैतर्हि वेदाननुभवस्यन्नमयꣳ हि सोम्य मन आपोमयः प्राणस्तेजोमयी वागिति तद्धास्य विजज्ञाविति विजज्ञाविति ॥ ६ ॥
एवं सोम्य ते षोडशानामन्नकलानां सामर्थ्यरूपाणाम् एका कला अतिशिष्टा अभूत् अतिशिष्टा आसीत् , पञ्चदशाहान्यभुक्तवतः एकैकेनाह्ना एकैका कला चन्द्रमस इव अपरपक्षे क्षीणा, सा अतिशिष्टा कला तव अन्नेन भुक्तेनोपसमाहिता वर्धिता उपचिता प्राज्वाली, दैर्घ्यं छान्दसम् , प्रज्वलिता वर्धितेत्यर्थः । प्राज्वालिदिति पाठान्तरम् , तदा तेनोपसमाहिता स्वयं प्रज्वलितवतीत्यर्थः । तया वर्धितया एतर्हि इदानीं वेदाननुभवसि उपलभसे । एवं व्यावृत्त्यनुवृत्तिभ्यामन्नमयत्वं मनसः सिद्धमिति उपसंहरति — अन्नमयं हि सोम्य मन इत्यादि । यथा एतन्मनसोऽन्नमयत्वं तव सिद्धम् , तथा आपोमयः प्राणः तेजोमयी वाक् इत्येतदपि सिद्धमेवेत्यभिप्रायः । तदेतद्ध अस्य पितुरुक्तं मनआदीनामन्नादिमयत्वं विजज्ञौ विज्ञातवान् श्वेतकेतुः । द्विरभ्यासः त्रिवृत्करणप्रकरणसमाप्त्यर्थः ॥
इति सप्तमखण्डभाष्यम् ॥
उद्दालको हारुणिः श्वेतकेतुं पुत्रमुवाच स्वप्नान्तं मे सोम्य विजानीहीति यत्रैतत्पुरुषः स्वपिति नाम सता सोम्य तदा सम्पन्नो भवति स्वमपीतो भवति तस्मादेनꣳ स्वपितीत्याचक्षते स्वꣳ ह्यपीतो भवति ॥ १ ॥
यस्मिन्मनसि जीवेनात्मनानुप्रविष्टा परा देवता — आदर्शे इव पुरुषः प्रतिबिम्बेन जलादिष्विव च सूर्यादयः प्रतिबिम्बैः, तन्मनः अन्नमयं तेजोमयाभ्यां वाक्प्राणाभ्यां सङ्गतमधिगतम् । यन्मयो यत्स्थश्च जीवो मननदर्शनश्रवणादिव्यवहाराय कल्पते तदुपरमे च स्वं देवतारूपमेव प्रतिपद्यते । तदुक्तं श्रुत्यन्तरे — ‘ध्यायतीव लेलायतीव’ ‘सधीः स्वप्नो भूत्वेमं लोकमतिक्रामति’ (बृ. मा. ४ । १ । ७) ‘स वा अयमात्मा ब्रह्म विज्ञानमयो मनोमयः’ (बृ. उ. ४ । ४ । ५), (बृ. मा. ४ । २ । ६) इत्यादि, ‘स्वप्नेन शारीरम्’ (बृ. उ. ४ । ३ । ११) इत्यादि, ‘प्राणन्नेव प्राणो नाम भवति’ (बृ. उ. १ । ४ । ७) इत्यादि च । तस्यास्य मनस्थस्य मनआख्यां गतस्य मनउपशमद्वारेणेन्द्रियविषयेभ्यो निवृत्तस्य यस्यां परस्यां देवतायां स्वात्मभूतायां यदवस्थानम् , तत् , पुत्राय आचिख्यासुः उद्दालको ह किल आरुणिः श्वेतकेतुं पुत्रमुवाच उक्तवान् — स्वप्नान्तं स्वप्नमध्यम् स्वप्न इति दर्शनवृत्तेः स्वप्नस्याख्या, तस्य मध्यं स्वप्नान्तं सुषुप्तमित्येतत् ; अथवा स्वप्नान्तं स्वप्नसतत्त्वमित्यर्थः । तत्राप्यर्थात्सुषुप्तमेव भवति, ‘स्वमपीतो भवति’ इति वचनात् ; न हि अन्यत्र सुषुप्तात् स्वमपीतिं जीवस्य इच्छन्ति ब्रह्मविदः । तत्र हि आदर्शापनयने पुरुषप्रतिबिम्बः आदर्शगतः यथा स्वमेव पुरुषमपीतो भवति, एवं मन आद्युपरमे चैतन्यप्रतिबिम्बरूपेण जीवेन आत्मना मनसि प्रविष्टा नामरूपव्याकरणाय परा देवता सा स्वमेव आत्मानं प्रतिपद्यते जीवरूपतां मनआख्यां हित्वा । अतः सुषुप्त एव स्वप्नान्तशब्दवाच्य इत्यवगम्यते । यत्र तु सुप्तः स्वप्नान्पश्यति तत्स्वाप्नं दर्शनं सुखदुःखसंयुक्तमिति पुण्यापुण्यकार्यम् । पुण्यापुण्ययोर्हि सुखदुःखारम्भकत्वं प्रसिद्धम् । पुण्यापुण्ययोश्चाविद्याकामोपष्टम्भेनैव सुखदुःखदर्शनकार्यारम्भकत्वमुपपद्यते नान्यथेत्यविद्याकामकर्मभिः संसारहेतुभिः संयुक्त एव स्वप्ने इति न स्वमपीतो भवति । ‘अनन्वागतं पुण्येनानन्वागतं पापेन तीर्णो हि तदा सर्वान् शोकान् हृदयस्य भवति’ (बृ. उ. ४ । ३ । २२) ‘तद्वा अस्यैतदतिच्छन्दा’ (बृ. उ. ४ । ३ । २१) ‘एष परम आनन्दः’ (बृ. उ. ४ । ३ । ३३) इत्यादिश्रुतिभ्यः । सुषुप्त एव स्वं देवतारूपं जीवत्वविनिर्मुक्तं दर्शयिष्यामीत्याह — स्वप्नान्तं मे मम निगदतो हे सोम्य विजानीहि विस्पष्टमवधारयेत्यर्थः । कदा स्वप्नान्तो भवतीति, उच्यते — यत्र यस्मिन्काले एतन्नाम भवति पुरुषस्य स्वप्स्यतः । प्रसिद्धं हि लोके स्वपितीति । गौणं चेदं नामेत्याह — यदा स्वपितीत्युच्यते पुरुषः, तदा तस्मिन्काले सता सच्छब्दवाच्यया प्रकृतया देवतया सम्पन्नो भवति सङ्गतः एकीभूतो भवति । मनसि प्रविष्टं मनआदिसंसर्गकृतं जीवरूपं परित्यज्य स्वं सद्रूपं यत्परमार्थसत्यम् अपीतः अपिगतः भवति । अतः तस्मात् स्वपितीत्येनमाचक्षते लौकिकाः । स्वमात्मानं हि यस्मादपीतो भवति ; गुणनामप्रसिद्धितोऽपि स्वात्मप्राप्तिर्गम्यते इत्यभिप्रायः । कथं पुनर्लौकिकानां प्रसिद्धा स्वात्मसम्पत्तिः ? जाग्रच्छ्रमनिमित्तोद्भवत्वात्स्वापस्य इत्याहुः — जागरिते हि पुण्यापुण्यनिमित्तसुखदुःखाद्यनेकायासानुभवाच्छ्रान्तो भवति ; ततश्च आयस्तानां करणानामनेकव्यापारनिमित्तग्लानानां स्वव्यापारेभ्य उपरमो भवति । श्रुतेश्च ‘श्राम्यत्येव वाक् श्राम्यति चक्षुः’ (बृ. उ. १ । ५ । २१) इत्येवमादि । तथा च ‘गृहीता वाक् गृहीतं चक्षुः गृहीतं श्रोत्रं गृहीतं मनः’ (बृ. उ. २ । १ । १७) इत्येवमादीनि करणानि प्राणग्रस्तानि ; प्राण एकः अश्रान्तः देहे कुलाये यो जागर्ति, तदा जीवः श्रमापनुत्तये स्वं देवतारूपमात्मानं प्रतिपद्यते । नान्यत्र स्वरूपावस्थानाच्छ्रमापनोदः स्यादिति युक्ता प्रसिद्धिर्लौकिकानाम् — स्वं ह्यपीतो भवतीति । दृश्यते हि लोके ज्वरादिरोगग्रस्तानां तद्विनिर्मोके स्वात्मस्थानां विश्रमणम् , तद्वदिहापि स्यादिति युक्तम् । ‘तद्यथा श्येनो वा सुपर्णो वा विपरिपत्य श्रान्तः’ (बृ. उ. ४ । ३ । १९) इत्यादिश्रुतेश्च ॥
स यथा शकुनिः सूत्रेण प्रबद्धो दिशं दिशं पतित्वान्यत्रायतनमलब्ध्वा बन्धनमेवोपश्रयत एवमेव खलु सोम्य तन्मनो दिशं दिशं पतित्वान्यत्रायतनमलब्ध्वा प्राणमेवोपश्रयते प्राणबन्धनꣳ हि सोम्य मन इति ॥ २ ॥
तत्रायं दृष्टान्तः यथोक्तेऽर्थे — स यथा शकुनिः पक्षी शकुनिघातकस्य हस्तगतेन सूत्रेण प्रबद्धः पाशितः दिशं दिशं बन्धनमोक्षार्थी सन् प्रतिदिशं पतित्वा अन्यत्र बन्धनात् आयतनम् आश्रयं विश्रणाय अलब्ध्वा अप्राप्य बन्धनमेवोपश्रयते । एवमेव यथा अयं दृष्टान्तः खलु हे सोम्य तन्मनः तत्प्रकृतं षोडशकलमन्नोपचितं मनो निर्धारितम् , तत्प्रविष्टः तत्स्थः तदुपलक्षितो जीवः तन्मन इति निर्दिश्यते — मञ्चाक्रोशनवत् । स मनआख्योपाधिः जीवः अविद्याकामकर्मोपदिष्टां दिशं दिशं सुखदुःखादिलक्षणां जाग्रत्स्वप्नयोः पतित्वा गत्वा अनुभूयेत्यर्थः, अन्यत्र सदाख्यात् स्वात्मनः आयतनं विश्रमणस्थानमलब्ध्वा प्राणमेव, प्राणेन सर्वकार्यकरणाश्रयेणोपलक्षिता प्राण इत्युच्यते सदाख्या परा देवता, ‘प्राणस्य प्राणम्’ (बृ. उ. ४ । ४ । १८) ‘प्राणशरीरो भारूपः’ (छा. उ. ३ । १४ । २) इत्यादिश्रुतेः । अतः तां देवतां प्राणं प्राणाख्यामेव उपश्रयते । प्राणो बन्धनं यस्य मनसः तत्प्राणबन्धनं हि यस्मात् सोम्य मनः प्राणोपलक्षितदेवताश्रयम् , मन इति तदुपलक्षितो जीव इति ॥
अशनापिपासे मे सोम्य विजानीहीति यत्रैतत्पुरुषोऽशिशिषति नामाप एव तदशितं नयन्ते तद्यथा गोनायोऽश्वनायः पुरुषनाय इत्येवं तदप आचक्षतेऽशनायेति तत्रैतच्छुङ्गमुत्पतितꣳ सोम्य विजानीहि नेदममूलं भविष्यतीति ॥ ३ ॥
एवं स्वपितिनामप्रसिद्धिद्वारेण यज्जीवस्य सत्यस्वरूपं जगतो मूलम् , तत्पुत्रस्य दर्शयित्वा आह अन्नादिकार्यकारणपरम्परयापि जगतो मूलं सद्दिदर्शयिषुः — अशनापिपासे अशितुमिच्छा अशना, सन् यलोपेन, पातुमिच्छा पिपासा ते अशनापिपासे अशनापिपासयोः सतत्त्वं विजानीहीत्येतत् । यत्र यस्मिन्काले एतन्नाम पुरुषो भवति । किं तत् ? अशिशिषति अशितुमिच्छतीति । तदा तस्य पुरुषस्य किंनिमित्तं नाम भवतीति, आह — यत्तत्पुरुषेण अशितमन्नं कठिनं पीता आपो नयन्ते द्रवीकृत्य रसादिभावेन विपरिणमयन्ते, तदा भुक्तमन्नं जीर्यति । अथ च भवत्यस्य नाम अशिशिषतीति गौणम् । जीर्णे हि अन्ने अशितुमिच्छति सर्वो हि जन्तुः । तत्र अपामशितनेतृत्वात् अशनाया इति नाम प्रसिद्धमित्येतस्मिन्नर्थे । तथा गोनायः गां नयतीति गोनायः इत्युच्यते गोपालः, यथा अश्वान्नयतीत्यश्वनायः अश्वपाल इत्युच्यते, पुरुषनायः पुरुषान्नयतीति राजा सेनापतिर्वा, एवं तत् तदा अप आचक्षते लौकिकाः अशनायेति विसर्जनीयलोपेन । तत्रैवं सति अद्भिः रसादिभावेन नीतेन अशितेनान्नेन निष्पादितमिदं शरीरं वटकणिकायामिव शुङ्गः अङ्कुर उत्पतितः उद्गतः ; तमिमं शुङ्गं कार्यं शरीराख्यं वटादिशुङ्गवदुत्पतितं हे सोम्य विजानीहि । किं तत्र विज्ञेयमिति, उच्यते — शृणु इदं शुङ्गवत्कार्यत्वात् शरीरं नामूलं मूलरहितं भविष्यति इत्युक्तः आह श्वेतकेतुः ॥
तस्य क्व मूलꣳ स्यादन्यत्रान्नादेवमेव खलु सोम्यान्नेन शुङ्गेनापो मूलमन्विच्छद्भिः सोम्य शुङ्गेन तेजो मूलमन्विच्छ तेजसा सोम्य शुङ्गेन सन्मूलमन्विच्छ सन्मूलाः सोम्येमाः सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठाः ॥ ४ ॥
यद्येवं समूलमिदं शरीरं वटादिशुङ्गवत् , तस्य अस्य शरीरस्य क्व मूलं स्यात् भवेत् इत्येवं पृष्टः आह पिता — तस्य क्व मूलं स्यात् अन्यत्रान्नादन्नं मूलमित्यभिप्रायः । कथम् ? अशितं हि अन्नमद्भिर्द्रवीकृतं जाठरेणाग्निना पच्यमानं रसभावेन परिणमते । रसाच्छोणितं शोणितान्मांसं मांसान्मेदो मेदसोऽस्थीन्यस्थिभ्यो मज्जा मज्जायाः शुक्रम् । तथा योषिद्भुक्तं च अन्नं रसादिक्रमेणैवं परिणतं लोहितं भवति । ताभ्यां शुक्रशोणिताभ्यामन्नकार्याभ्यां संयुक्ताभ्यामन्नेन एवं प्रत्यहं भुज्यमानेन आपूर्यमाणाभ्यां कुड्यमिव मृत्पिण्डैः प्रत्यहमुपचीयमानः अन्नमूलः देहशुङ्गः परिनिष्पन्न इत्यर्थः । यत्तु देहशुङ्गस्य मूलमन्नं निर्दिष्टम् , तदपि देहवद्विनाशोत्पत्तिमत्त्वात् कस्माच्चिन्मूलादुत्पतितं शुङ्ग एवेति कृत्वा आह — यथा देहशुङ्गः अन्नमूलः एवमेव खलु सोम्य अन्नेन शुङ्गेन कार्यभूतेन अपो मूलमन्नस्य शुङ्गस्यान्विच्छ प्रतिपद्यस्व ।
अपामपि विनाशोत्पत्तिमत्त्वात् शुङ्गत्वमेवेति अद्भिः सोम्य शुङ्गेन कार्येण कारणं तेजो मूलमन्विच्छ । तेजसोऽपि विनाशोत्पत्तिमत्त्वात् शुङ्गत्वमिति तेजसा सोम्य शुङ्गेन सन्मूलम् एकमेवाद्वितीयं परमार्थसत्यम् । यस्मिन्सर्वमिदं वाचारम्भणं विकारो नामधेयमनृतं रज्ज्वामिव सर्पादिविकल्पजातमध्यस्तमविद्यया, तदस्य जगतो मूलम् ; अतः सन्मूलाः सत्कारणाः हे सोम्य इमाः स्थावरजङ्गमलक्षणाः सर्वाः प्रजाः । न केवलं सन्मूला एव, इदानीमपि स्थितिकाले सदायतनाः सदाश्रया एव । न हि मृदमनाश्रित्य घटादेः सत्त्वं स्थितिर्वा अस्ति । अतः मृद्वत्सन्मूलत्वात्प्रजानां सत् आयतनं यासां ताः सदायतनाः प्रजाः । अन्ते च सत्प्रतिष्ठाः सदेव प्रतिष्ठा लयः समाप्तिः अवसानं परिशेषः यासां ताः सत्प्रतिष्ठाः ॥
अथ यत्रैतत्पुरुषः पिपासति नाम तेज एव तत्पीतं नयते तद्यथा गोनायोऽश्वनायः पुरुषनाय इत्येवं तत्तेज आचष्ट उदन्येति तत्रैतदेव शुङ्गमुत्पतितꣳ सोम्य विजानीहि नेदममूलं भविष्यतीति ॥ ५ ॥
अथ इदानीमप्शुङ्गद्वारेण सतो मूलस्यानुगमः कार्य इत्याह — यत्र यस्मिन्काले एतन्नाम पिपासति पातुमिच्छतीति पुरुषो भवति । अशिशिषतीतिवत् इदमपि गौणमेव नाम भवति । द्रवीकृतस्याशितस्यान्नस्य नेत्र्यः आपः अन्नशुङ्गं देहं क्लेदयन्त्यः शिथिलीकुर्युः अब्बाहुल्यात् यदि तेजसा न शोष्यन्ते । नितरां च तेजसा शोष्यमाणास्वप्सु देहभावेन परिणममानासु पातुमिच्छा पुरुषस्य जायते ; तदा पुरुषः पिपासति नाम ; तदेतदाह — तेज एव तत् तदा पीतमबादि शोषयत् देहगतलोहितप्राणभावेन नयते परिणमयति । तद्यथा गोनाय इत्यादि समानम् ; एवं तत्तेज आचष्टे लोकः — उदन्येति उदकं नयतीत्युदन्यम् , उदन्येति च्छान्दसं तत्रापि पूर्ववत् । अपामपि एतदेव शरीराख्यं शुङ्गं नान्यदित्येवमादि समानमन्यत् ॥
तस्य क्व मूलꣳ स्यादन्यत्राद्भ्योऽद्भिः सोम्य शुङ्गेन तेजो मूलमन्विच्छ तेजसा सोम्य शुङ्गेन सन्मूलमन्विच्छ सन्मूलाः सोम्येमाः सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठा यथा तु खलु सोम्येमास्तिस्रो देवताः पुरुषं प्राप्य त्रिवृत्त्रिवृदेकैका भवति तदुक्तं पुरस्तादेव भवत्यस्य सोम्य पुरुषस्य प्रयतो वाङ्मनसि सम्पद्यते मनः प्राणे प्राणस्तेजसि तेजः परस्यां देवतायाम् ॥ ६ ॥
सामर्थ्यात् तेजसोऽप्येतदेव शरीराख्यं शुङ्गम् । अतः अप्शुङ्गेन देहेन आपो मूलं गम्यते । अद्भिः शुङ्गेन तेजो मूलं गम्यते । तेजसा शुङ्गेन सन्मूलं गम्यते पूर्ववत् । एवं हि तेजोबन्नमयस्य देहशुङ्गस्य वाचारम्भणमात्रस्य अन्नादिपरम्परया परमार्थसत्यं सन्मूलमभयमसन्त्रासं निरायासं सन्मूलमन्विच्छेति पुत्रं गमयित्वा अशिशिषति पिपासतीति नामप्रसिद्धिद्वारेण यदन्यत् इह अस्मिन्प्रकरणे तेजोबन्नानां पुरुषेणोपयुज्यमानानां कार्यकरणसङ्घातस्य देहशुङ्गस्य स्वजात्यसाङ्कर्येणोपचयकरत्वं वक्तव्यं प्राप्तम् , तदिहोक्तमेव द्रष्टव्यमिति पूर्वोक्तं व्यपदिशति — यथा तु खलु येन प्रकारेण इमाः तेजोबन्नाख्याः तिस्रः देवताः पुरुषं प्राप्य त्रिवृत्त्रिवृदेकैका भवति, तदुक्तं पुरस्तादेव भवति ‘अन्नमशितं त्रेधा विधीयते’ (छा. उ. ६ । ५ । १) इत्यादि तत्रैवोक्तम् । अन्नादीनामशितानां ये मध्यमा धातवः, ते साप्तधातुकं शरीरमुपचिन्वन्तीत्युक्तम् — मांसं भवति लोहितं भवति मज्जा भवति अस्थि भवतीति । ये त्वणिष्ठा धातवः मनः प्राणं वाचं देहस्यान्तःकरणसङ्घातमुपचिन्वन्तीति च उक्तम् — तन्मनो भवति स प्राणो भवति स वाग्भवतीति ।
सोऽयं प्राणकरणसङ्घातः देहे विशीर्णे देहान्तरं जीवाधिष्ठितः येन क्रमेण पूर्वदेहात्प्रच्युतः गच्छति, तदाह — अस्य हे सोम्य पुरुषस्य प्रयतः म्रियमाणस्य वाक् मनसि सम्पद्यते मनस्युपसंह्रियते । अथ तदाहुः ज्ञातयो न वदतीति । मनःपूर्वको हि वाग्व्यापारः, ‘यद्वै मनसा ध्यायति तद्वाचा वदति’ ( ? ) इति श्रुतेः । वाच्युपसंहृतायां मनसि मननव्यापारेण केवलेन वर्तते । मनोऽपि यदा उपसंह्रियते, तदा मनः प्राणे सम्पन्नं भवति — सुषुप्तकाले इव ; तदा पार्श्वस्था ज्ञातयः न विजानातीत्याहुः । प्राणश्च तदोर्ध्वोच्छ्वासी स्वात्मन्युपसंहृतबाह्यकरणः संवर्गविद्यायां दर्शनात् हस्तपादादीन्विक्षिपन् मर्मस्थानानि निकृन्तन्निव उत्सृजन् क्रमेणोपसंहृतः तेजसि सम्पद्यते ; तदाहुः ज्ञातयो न चलतीति । मृतः नेति वा विचिकित्सन्तः देहमालभमानाः उष्णं च उपलभमानाः देहः उष्णः जीवतीति यदा तदप्यौष्ण्यलिङ्गं तेज उपसंह्रियते, तदा तत्तेजः परस्यां देवतायां प्रशाम्यति । तदैवं क्रमेणोपसंहृते स्वमूलं प्राप्ते च मनसि तत्स्थो जीवोऽपि सुषुप्तकालवत् निमित्तोपसंहारादुपसंह्रियमाणः सन् सत्याभिसन्धिपूर्वकं चेदुपसंह्रियते सदेव सम्पद्यते न पुनर्देहान्तराय सुषुप्तादिवोत्तिष्ठति, यथा लोके सभये देशे वर्तमानः कथञ्चिदिवाभयं देशं प्राप्तः — तद्वत् । इतरस्तु अनात्मज्ञः तस्मादेव मूलात् सुषुप्तादिवोत्थाय मृत्वा पुनर्देहजालमाविशति यस्मान्मूलादुत्थाय देहमाविशति जीवः ॥
स य एषोऽणिमैतदात्म्यमिदꣳ सर्वं तत्सत्यꣳ स आत्मा तत्त्वमसि श्वेतकेतो इति भूय एव मा भगवान्विज्ञापयत्विति तथा सोम्येति होवाच ॥ ७ ॥
स यः सदाख्यः एषः उक्तः अणिमा अणुभावः जगतो मूलम् ऐतदात्म्यम् एतत्सदात्मा यस्य सर्वस्य तत् एतदात्म तस्य भावः ऐतदात्म्यम् । एतेन सदाख्येन आत्मना आत्मवत् सर्वमिदं जगत् । चान्योऽस्त्यस्यात्मासंसारी, ‘नान्यदतोऽस्ति द्रष्टृ नान्यदतोऽस्ति श्रोतृ’ (बृ. उ. ३ । ८ । ११) इत्यादिश्रुत्यन्तरात् । येन च आत्मना आत्मवत्सर्वमिदं जगत् , तदेव सदाख्यं कारणं सत्यं परमार्थसत् । अतः स एव आत्मा जगतः प्रत्यक्स्वरूपं सतत्त्वं याथात्म्यम् , आत्मशब्दस्य निरुपपदस्य प्रत्यगात्मनि गवादिशब्दवत् निरूढत्वात् । अतः तत् सत् त्वमसीति हे श्वेतकेतो इत्येवं प्रत्यायितः पुत्रः आह — भूय एव मा भगवान् विज्ञापयतु, यद्भवदुक्तं तत् सन्दिग्धं मम — अहन्यहनि सर्वाः प्रजाः सुषुप्तौ सत् सम्पद्यन्ते इत्येतत् , येन सत् सम्पद्य न विदुः सत्सम्पन्ना वयमिति । अतः दृष्टान्तेन मां प्रत्याययत्वित्यर्थः । एवमुक्तः तथा अस्तु सोम्य इति ह उवाच पिता ॥
इति अष्टमखण्डभाष्यम् ॥
यथा सोम्य मधु मधुकृतो निस्तिष्ठन्ति नानात्ययानां वृक्षाणाꣳ रसान्समवहारमेकताꣳ रसं गमयन्ति ॥ १ ॥
यत्पृच्छसि — अहन्यहनि सत्सम्पद्य न विदुः सत्सम्पन्नाः स्म इति, तत्कस्मादिति — अत्र शृणु दृष्टान्तम् — यथा लोके हे सोम्य मधुकृतः मधु कुर्वन्तीति मधुकृतः मधुकरमक्षिकाः मधु निस्तिष्ठन्ति मधु निष्पादयन्ति तत्पराः सन्तः । कथम् ? नानात्ययानां नानागतीनां नानादिक्कानां वृक्षाणां रसान् समवहारं समाहृत्य एकताम् एकभावं मधुत्वेन रसान् गमयन्ति मधुत्वमापादयन्ति ॥
ते यथा तत्र न विवेकं लभन्तेऽमुष्याहं वृक्षस्य रसोऽस्म्यमुष्याहं वृक्षस्य रसोऽस्मीत्येवमेव खलु सोम्येमाः सर्वाः प्रजाः सति सम्पद्य न विदुः सति सम्पद्यामह इति ॥ २ ॥
ते रसाः यथा मधुत्वेनैकतां गताः तत्र मधुनि विवेकं न लभन्ते ; कथम् ? अमुष्याहमाम्रस्य पनसस्य वा वृक्षस्य रसोऽस्मीति — यथा हि लोके बहूनां चेतनावतां समेतानां प्राणिनां विवेकलाभो भवति अमुष्याहं पुत्रः अमुष्याहं नप्तास्मीति ; ते च लब्धविवेकाः सन्तः न सङ्कीर्यन्ते ; न तथा इह अनेकप्रकारवृक्षरसानामपि मधुराम्लतिक्तकटुकादीनां मधुत्वेन एकतां गतानां मधुरादिभावेन विवेको गृह्यत इत्यभिप्रायः । यथा अयं दृष्टान्तः, इत्येवमेव खलु सोम्य इमाः सर्वाः प्रजाः अहन्यहनि सति सम्पद्य सुषुप्तिकाले मरणप्रलययोश्च न विदुः न विजानीयुः — सति सम्पद्यामहे इति सम्पन्ना इति वा ॥
त इह व्याघ्रो वा सिंहो वा वृको वा वराहो वा कीटो वा पतङ्गो वा दꣳशो वा मशको वा यद्यद्भवन्ति तदाभवन्ति ॥ ३ ॥
यस्माच्च एवमात्मनः सद्रूपतामज्ञात्वैव सत्सम्पद्यन्ते, अतः ते इह लोके यत्कर्मनिमित्तां यां यां जातिं प्रतिपन्ना आसुः व्याघ्रादीनाम् — व्याघ्रोऽहं सिंहोहऽमित्येवम् , ते तत्कर्मज्ञानवासनाङ्किताः सन्तः सत्प्रविष्टा अपि तद्भावेनैव पुनराभवन्ति पुनः सत आगत्य व्याघ्रो वा सिंहो वा वृको वा वराहो वा कीटो वा पतङ्गो वा दंशो वा मशको वा यद्यत्पूर्वमिह लोके भवन्ति बभूवुरित्यर्थः, तदेव पुनरागत्य भवन्ति । युगसहस्रकोट्यन्तरितापि संसारिणः जन्तोः या पुरा भाविता वासना, सा न नश्यतीत्यर्थः । ‘यथाप्रज्ञं हि सम्भवाः’ (ऐ. आ. २ । ३ । २) इति श्रुत्यन्तरात् ॥
स य एषोऽणिमैतदात्म्यमिदꣳ सर्वꣳ तत्सत्यं स आत्मा तत्त्वमसि श्वेतकेतो इति भूय एव मा भगवान्विज्ञापयत्विति तथा सोम्येति होवाच ॥ ४ ॥
ताः प्रजाः यस्मिन्प्रविश्य पुनराविर्भवन्ति, ये तु इतोऽन्ये सत्सत्यात्माभिसन्धाः यमणुभावं यदात्मानं प्रविश्य नावर्तन्ते, स य एषोऽणिमेत्यादि व्याख्यातम् । यथा लोके स्वकीये गृहे सुप्तः उत्थाय ग्रामान्तरं गतः जानाति स्वगृहादागतोऽस्मीति, एवं सत आगतोऽस्मीति च जन्तूनां कस्माद्विज्ञानं न भवतीति भूय एव मा भगवान्विज्ञापयतु इत्युक्तः तथा सोम्येति ह उवाच पिता ॥
इति नवमखण्डभाष्यम् ॥
इमाः सोम्य नद्यः पुरस्तात्प्राच्यः स्यन्दन्ते पश्चात्प्रतीच्यस्ताः समुद्रात्समुद्रमेवापियन्ति स समुद्र एव भवति ता यथा तत्र न विदुरियमहमस्मीयमहमस्मीति ॥ १ ॥
शृणु तत्र दृष्टान्तम् — यथा सोम्य इमा नद्यः गङ्गाद्याः पुरस्तात् पूर्वां दिशं प्रति प्राच्यः प्रागञ्चनाः स्यन्दन्ते स्रवन्ती । पश्चात् प्रतीची दिशं प्रति सिन्ध्वाद्याः प्रतीचीम् अञ्जन्ति गच्छन्तीति प्रतीच्यः, ताः समुद्रादम्भोनिधेः जलधरैराक्षिप्ताः पुनर्वृष्टिरूपेण पतिताः गङ्गादिनदीरूपिण्यः पुनः समुद्रम् अम्भोनिधिमेव अपियन्ति स समुद्र एव भवति । ता नद्यः यथा तत्र समुद्रे समुद्रात्मना एकतां गताः न विदुः न जानन्ति — इयं गङ्गां अहमस्मि इयं यमुना अहमस्मीति च ॥
एवमेव खलु सोम्येमाः सर्वाः प्रजाः सत आगम्य न विदुः सत आगच्छामाह इति त इह व्याघ्रो वा सिꣳहो वा वृको वा वराहो वा कीटो वा पतङ्गो वा दꣳशो वा मशको वा यद्यद्भवन्ति तदाभवन्ति ॥ २ ॥
स य एषोऽणिमैतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा तत्त्वमसि श्वेतकेतो इति भूय एव मा भगवान्विज्ञापयत्विति तथा सोम्येति होवाच ॥ ३ ॥
एवमेव खलु सोम्य इमाः सर्वाः प्रजाः यस्मात् सति सम्पद्य न विदुः, तस्मात्सत आगम्य विदुः — सत आगच्छामहे आगता इति वा । त इह व्याघ्र इत्यादि समानमन्यत् । दृष्टं लोके जले वीचीतरङ्गफेनबुद्बुदादय उत्थिताः पुनस्तद्भावं गता विनष्टा इति । जीवास्तु तत्कारणभावं प्रत्यहं गच्छन्तोऽपि सुषुप्ते मरणप्रलययोश्च न विनश्यन्तीत्येतत् , भूय एव मा भगवान्विज्ञापयतु दृष्टान्तेन । तथा सोम्येति ह उवाच पिता ॥
इति दशमखण्डभाष्यम् ॥
अस्य सोम्य महतो वृक्षस्य यो मूलेऽभ्याहन्याज्जीवन्स्रवेद्यो मध्येऽभ्याहन्याज्जीवन्स्रवेद्योऽग्रेऽभ्याहन्याज्जीवन्स्रवेत्स एष जीवेनात्मनानुप्रभूतः पेपीयमानो मोदमानस्तिष्टति ॥ १ ॥
शृणु दृष्टान्तम् — अस्य हे सोम्य महतः अनेकशाखादियुक्तस्य वृक्षस्य, अस्येत्यग्रतः स्थितं वृक्षं दर्शयन् आह — यदि यः कश्चित् अस्य मूले अभ्याहन्यात् , परश्वादिना सकृद्घातमात्रेण न शुष्यतीति जीवन्नेव भवति, तदा, तस्य रसः स्रवेत् । तथा यो मध्ये अभ्याहन्यात् जीवन्स्रवेत् , तथा योऽग्रे अभ्याहन्यात् जीवन्स्रवेत् । स एष वृक्षः इदानीं जीवेन आत्मना अनुप्रभूतः अनुव्याप्तः पेपीयमानः अत्यर्थं पिबन् उदकं भौमांश्च रसान् मूलैर्गृह्णन् मोदमानः हर्षं प्राप्नुवन् तिष्ठति ॥
अस्य यदेकां शाखां जीवो जहात्यथ सा शुष्यति द्वितीयां जहात्यथ सा शुष्यति तृतीयां जहात्यथ सा शुष्यति सर्वं जहाति सर्वः शुष्यति ॥ २ ॥
तस्यास्य यदेकां शाखां रोगग्रस्ताम् आहतां वा जीवः जहाति उपसंहरति शाखायां विप्रसृतमात्मांशम् , अथ सा शुष्यति । वाङ्मनःप्राणकरणग्रामानुप्रविष्टो हि जीव इति तदुपसंहारे उपसंह्रियते । जीवेन च प्राणयुक्तेन अशितं पीतं च रसतां गतं जीवच्छरीरं वृक्षं च वर्धयत् रसरूपेण जीवस्य सद्भावे लिङ्गं भवति । अशितपीताभ्यां हि देहे जीवस्तिष्ठति । ते च अशितपीते जीवकर्मानुसारिणी इति तस्यैकाङ्गवैकल्यनिमित्तं कर्म यदोपस्थितं भवति, तदा जीवः एकां शाखां जहाति शाखाय आत्मानमुपसंहरति ; अथ तदा सा शाखा शुष्यति । जीवस्थितिनिमित्तो रसः जीवकर्माक्षिप्तः जीवोपसंहारे न तिष्ठति । रसापगमे च शाखा शोषमुपैति । तथा सर्वं वृक्षमेव यदा अयं जहाति तदा सर्वोऽपि वृक्षः शुष्यति । वृक्षस्य रसस्रवणशोषणादिलिङ्गात् जीववत्त्वं दृष्टान्तश्रुतेश्च चेतनावन्तः स्थावरा इति बौद्धकाणादमतमचेतनाः स्थावरा इत्येतदसारमिति दर्शितं भवति ॥
एवमेव खलु सोम्य विद्धीति होवाच जीवापेतं वाव किलेदं म्रियते न जीवो म्रियत इति स य एषोऽणिमैतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा तत्त्वमसि श्वेतकेतो इति भूय एव मा भगवान्विज्ञापयत्विति तथा सोम्येति होवाच ॥ ३ ॥
यथा अस्मिन्वृक्षदृष्टान्ते दर्शितम् — जीवेन युक्तः वृक्षः अशुष्कः रसपानादियुक्तः जीवतीत्युच्यते, तदपेतश्च म्रियत इत्युच्यते ; एवमेव खलु सोम्य विद्धीति ह उवाच — जीवापेतं जीववियुक्तं वाव किल इदं शरीरं म्रियते न जीवो म्रियत इति । कार्यशेषे च सुप्तोत्थितस्य मम इदं कार्यशेषम् अपरिसमाप्तमिति स्मृत्वा समापनदर्शनात् । जातमात्राणां च जन्तूनां स्तन्याभिलाषभयादिदर्शनाच्च अतीतजन्मान्तरानुभूतस्तन्यपानदुःखानुभवस्मृतिर्गम्यते । अग्निहोत्रादीनां च वैदिकानां कर्मणामर्थवत्त्वात् न जीवो म्रियत इति । स य एषोऽणिमेत्यादि समानम् । कथं पुनरिदमत्यन्तस्थूलं पृथिव्यादि नामरूपवज्जगत् अत्यन्तसूक्ष्मात्सद्रूपान्नामरूपरहितात्सतो जायते, इति एतद्दृष्टान्तेन भूय एव मा भगवान्विज्ञापयतु इति । तथा सोम्येति ह उवाच पिता ॥
इति एकादशखण्डभाष्यम् ॥
न्यग्रोधफलमत आहरेतीदं भगव इति भिन्द्धीति भिन्नं भगव इति किमत्र पश्यसीत्यण्व्य इवेमा धाना भगव इत्यासामङ्गैकां भिन्द्धीति भिन्ना भगव इति किमत्र पश्यसीति न किञ्चन भगव इति ॥ १ ॥
यदि एतत्प्रत्यक्षीकर्तुमिच्छसि अतोऽस्मान्महतः न्यग्रोधात् फलमेकमाहर — इत्युक्तः तथा चकार सः ; इदं भगव उपहृतं फलमिति दर्शितवन्तं प्रति आह — फलं भिन्द्धीति । भिन्नमित्याह इतरः । तमाह पिता — किमत्र पश्यसीति ; उक्तः आह — अण्व्यः अणुतरा इव इमाः धानाः बीजानि पश्यामि भगव इति । आसां धानानामेकां धानाम् अङ्ग हे वत्स भिन्द्घि, इत्युक्तः आह — भिन्ना भगव इति । यदि भिन्ना धाना तस्यां भिन्नायां किं पश्यसि, इत्युक्तः आह — न किञ्चन पश्यामि भगव इति ॥
तꣳ होवाच यं वै सोम्यैतमणिमानं न निभालयस एतस्य वै सोम्यैषोऽणिम्न एवं महान्यग्रोधस्तिष्ठति श्रद्धत्स्व सोम्येति ॥ २ ॥
तं पुत्रं ह उवाच — वटधानायां भिन्नायां यं वटबीजाणिमानं हे सोम्य एतं न निभालयसे न पश्यसि, तथा अप्येतस्य वै किल सोम्य एष महान्यग्रोधः बीजस्य अणिम्नः सूक्ष्मस्य अदृश्यमानस्य कार्यभूतः स्थूलशाखास्कन्धफलपलाशवान् तिष्ठति उत्पन्नः सन् , उत्तिष्ठतीति वा, उच्छब्दोऽध्याहार्यः । अतः श्रद्धत्स्व सोम्य सत एव अणिम्नः स्थूलं नामरूपादिमत्कार्यं जगदुत्पन्नमिति । यद्यपि न्यायागमाभ्यां निर्धारितोऽर्थः तथैवेत्यवगम्यते, तथापि अत्यन्तसूक्ष्मेष्वर्थेषु बाह्यविषयासक्तमनसः स्वभावप्रवृत्तस्यासत्यां गुरुतरायां श्रद्धायां दुरवगमत्वं स्यादित्याह — श्रद्धत्स्वेति । श्रद्धायां तु सत्यां मनसः समाधानं बुभुत्सितेऽर्थे भवेत् , ततश्च तदर्थावगतिः, ‘अन्यत्रमना अभूवम्’ (बृ. उ. १ । ५ । ३) इत्यादिश्रुतेः ॥
स य एषोऽणिमैतदात्म्यमिदꣳ सर्वं तत्सत्यꣳ स आत्मा तत्त्वमसि श्वेतकेतो इति भूय एव मा भगवान्विज्ञापयत्विति तथा सोम्येति होवाच ॥ ३ ॥
स य इत्याद्युक्तार्थम् । यदि तत्सज्जगतो मूलम् , कस्मान्नोपलभ्यत इत्येतद्दृष्टान्तेन मा भगवान्भूय एव विज्ञापयत्विति । तथा सोम्येति ह उवाच पिता ॥
इदि द्वादशखण्डभाष्यम् ॥
लवणमेतदुदकेऽवधायाथ मा प्रातरुपसीदथा इति स ह तथा चकार तं होवाच यद्दोषा लवणमुदकेऽवाधा अङ्ग तदाहरेति तद्धावमृश्य न विवेद ॥ १ ॥
विद्यमानमपि वस्तु नोपलभ्यते, प्रकारान्तरेण तु उपलभ्यत इति शृणु अत्र दृष्टान्तम् — यदि च इममर्थं प्रत्यक्षीकर्तुमिच्छसि, पिण्डरूपं लवणम् एतद्घटादौ उदके अवधाय प्रक्षिप्य अथ मा मां श्वः प्रातः उपसीदथाः उपगच्छेथाः इति । स ह पित्रोक्तमर्थं प्रत्यक्षीकर्तुमिच्छन् तथा चकार । तं ह उवाच परेद्युः प्रातः — यल्लवणं दोषा रात्रौ उदके अवाधाः निक्षिप्तवानसि अङ्ग हे वत्स तदाहर — इत्युक्तः तल्लवणमाजिहीर्षुः ह किल अवमृश्य उदके न विवेद न विज्ञातवान् । यथा तल्लवणं विद्यमानमेव सत् अप्सु लीनं संश्लिष्टमभूत् ॥
यथा विलीनमेवाङ्गास्यान्तादाचामेति कथमिति लवणमिति मध्यादाचामेति कथमिति लवणमित्यन्तादाचामेति कथमिति लवणमित्यभिप्रास्यैतदथ मोपसीदथा इति तद्ध तथा चकार तच्छश्वत्संवर्तते तंꣳ होवाचात्र वाव किल सत्सोम्य न निभालयसेऽत्रैव किलेति ॥ २ ॥
यथा विलीनं लवणं न वेत्थ, तथापि तच्चक्षुषा स्पर्शनेन च पिण्डरूपं लवणमगृह्यमाणं विद्यत एव अप्सु, उपलभ्यते च उपायान्तरेण — इत्येतत् पुत्रं प्रत्याययितुमिच्छन् आह — अङ्ग अस्योदकस्य अन्तात् उपरि गृहीत्वा आचाम — इत्युक्त्वा पुत्रं तथाकृतवन्तमुवाच — कथमिति ; इतर आह — लवणं स्वादुत इति । तथा मध्यादुदकस्य गृहीत्वा आचाम इति, कथमिति, लवणमिति । तथान्तात् अधोदेशात् गृहीत्वा आचाम इति, कथमिति, लवणमिति । यद्येवम् , अभिप्रास्य परित्यज्य एतदुदकम् आचम्य अथ मोपसीदथाः इति ; तद्ध तथा चकार लवणं परित्यज्य पितृसमीपमाजगामेत्यर्थः इदं वचनं ब्रुवन् — तल्लवणं तस्मिन्नेवोदके यन्मया रात्रौ क्षिप्तं शश्वन्नित्यं संवर्तते विद्यमानमेव सत् सम्यग्वर्तते । इति एवमुक्तवन्तं तं ह उवाच पिता — यथेदं लवणं दर्शनस्पर्शनाभ्यां पूर्वं गृहीतं पुनरुदके विलीनं ताभ्यामगृह्यमाणमपि विद्यत एव उपायान्तरेण जिह्वयोपलभ्यमानत्वात् — एवमेव अत्रैव अस्मिन्नेव तेजोबन्नादिकार्ये शुङ्गे देहे, वाव किलेत्याचार्योपदेशस्मरणप्रदर्शनार्थौ, सत् तेजोबन्नादिशुङ्गकारणं वटबीजाणिमवद्विद्यमानमेव इन्द्रियैर्नोपलभसे न निभालयसे । यथा अत्रैवोदके दर्शनस्पर्शनाभ्यामनुपलभ्यमानं लवणं विद्यमानमेव जिह्वया उपलब्धवानसि — एवमेवात्रैव किल विद्यमानं सत् जगन्मूलम् उपायान्तरेण लवणाणिमवत् उपलप्स्यस इति वाक्यशेषः ॥
स य एषोऽणिमैतदात्म्यमिदꣳ सर्वं तत्सत्यꣳ स आत्मा तत्त्वमसि श्वेतकेतो इति भूय एव मा भगवान्विज्ञापयत्विति तथा सोम्येति होवाच ॥ ३ ॥
स य इत्यादि समानम् । यद्येवं लवणाणिमवदिन्द्रियैरनुपलभ्यमानमपि जगन्मूलं सत् उपायान्तरेण उपलब्धुं शक्यते, यदुपलम्भात्कृतार्थः स्याम् अनुपलम्भाच्चाकृतार्थः स्यामहम् , तस्यैवोपलब्धौ क उपायः इत्येतत् भूय एव मा भगवान् विज्ञापयतु दृष्टान्तेन । तथा सोम्य इति ह उवाच ॥
इति त्रयोदशखण्डभाष्यम् ॥
यथा सोम्य पुरुषं गन्धारेभ्योऽभिनद्धाक्षमानीय तं ततोऽतिजने विसृजेत्स यथा तत्र प्राङ्वोदङ्वाधराङ्वा प्रत्यङ्वा प्रध्मायीताभिनद्धाक्ष आनीतोऽभिनद्धाक्षो विसृष्टः ॥ १ ॥
यथा लोके हे सोम्य पुरुषं यं कञ्चित् गन्धारेभ्यो जनपदेभ्यः अभिनद्धाक्षं बद्धचक्षुषम् आनीय द्रव्यहर्ता तस्करः तमभिनद्धाक्षमेव बद्धहस्तम् अरण्ये ततोऽप्यतिजने अतिगतजने अत्यन्तविगतजने देशे विसृजेत् , स तत्र दिग्भ्रमोपेतः यथा प्राङ्वा प्रागञ्चनः प्राह्मुखो वेत्यर्थः, तथोदङ्वा अधराङ्वा प्रत्यङ्वा प्रध्मायीत शब्दं कुर्यात् विक्रोशेत् — अभिनद्धाक्षोऽहं गन्धारेभ्यस्तस्करेणानीतोऽभिनद्धाक्ष एव विसृष्ट इति ॥
तस्य यथाभिनहनं प्रमुच्य प्रब्रूयादेतां दिशं गन्धारा एतां दिशं व्रजेति स ग्रामाद्ग्रामं पृच्छन्पण्डितो मेधावी गन्धारानेवोपसम्पद्येतैवमेवेहाचार्यवान्पुरुषो वेद तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ सम्पत्स्य इति ॥ २ ॥
एवं विक्रोशतः तस्य यथाभिनहनं यथा बन्धनं प्रमुच्य मुक्त्वा कारुणिकः कश्चित् एतां दिशमुत्तरतः गन्धाराः एतां दिशं व्रज — इति प्रब्रूयात् । स एवं कारुणिकेन बन्धनान्मोक्षितः ग्रामात् ग्रामान्तरं पृच्छन् पण्डितः उपदेशवान् मेधावी परोपदिष्टग्रामप्रवेशमार्गावधारणसमर्थः सन् गन्धारानेवोपसम्पद्येत । नेतरो मूढमतिः देशान्तरदर्शनतृड्वा । यथा अयं दृष्टान्तः वर्णितः — स्वविषयेभ्यो गन्धारेभ्यः पुरुषः तस्करैरभिनद्धाक्षः अविवेकः दिङ्मूढः अशनायापिपासादिमान् व्याघ्रतस्कराद्यनेकभयानर्थव्रातयुतमरण्यं प्रवेशितः दुःखार्तः विक्रोशन् बन्धनेभ्यो मुमुक्षुस्तिष्ठति, स कथञ्चिदेव कारुणिकेन केनचिन्मोक्षितः स्वदेशान्गन्धारानेवापन्नः निर्वृतः सुख्यभूत् — एवमेव सतः जगदात्मस्वरूपात्तेजोबन्नादिमयं देहारण्यं वातपित्तकफरुधिरमेदोमांसास्थिमज्जाशुक्रकृमिमूत्रपुरीषवत् शीतोष्णाद्यनेकद्वन्द्वदुःखवच्च इदं मोहपटाभिनद्धाक्षः भार्यापुत्रमित्रपशुबन्ध्वादिदृष्टादृष्टानेकविषयतृष्णापाशितः पुण्यापुण्यादितस्करैः प्रवेशितः अहममुष्य पुत्रः, ममैते बान्धवाः, सुख्यहं दुःखी मूढः पण्डितो धार्मिको बन्धुमान् जातः मृतो जीर्णः पापी, पुत्रो मे मृतः, धनं मे नष्टम् , हा हतोऽस्मि, कथं जीविष्यामि, का मे गतिः, किं मे त्राणम् — इत्येवमनेकशतसहस्रानर्थजालवान् विक्रोशन् कथञ्चिदेव पुण्यातिशयात्परमकारुणिकं कञ्चित्सद्ब्रह्मात्मविदं विमुक्तबन्धनं ब्रह्मिष्ठं यदा आसादयति, तेन च ब्रह्मविदा कारुण्यात् दर्शितसंसारविषयदोषदर्शनमार्गः विरक्तः संसारविषयेभ्यः — नासि त्वं संसारी अमुष्य पुत्रत्वादिधर्मवान् , किं तर्हि, सत् यत्तत्त्वमसि —इत्यविद्यामोहपटाभिनहनान्मोक्षितः गन्धारपुरुषवच्च स्वं सदात्मानम् उपसम्पद्य सुखी निर्वृतः स्यादित्येतमेवार्थमाह — आचार्यवान्पुरुषो वेदेति । तस्यास्य एवमाचार्यवतो मुक्ताविद्याभिनहनस्य तावदेव तावानेव कालः चिरं क्षेपः सदात्मस्वरूपसम्पत्तेरिति वाक्यशेषः । कियान्कालश्चिरमिति, उच्यते — यावन्न विमोक्ष्ये न विमोक्ष्यते इत्येतत्पुरुषव्यत्ययेन, सामर्थ्यात् ; येन कर्मणा शरीरमारब्धं तस्योपभोगेन क्षयात् देहपातो यावदित्यर्थः । अथ तदैव सत् सम्पत्स्ये सम्पत्स्यते इति पूर्ववत् । न हि देहमोक्षस्य सत्सम्पत्तेश्च कालभेदोऽस्ति येन अथ - शब्दः आनन्तर्यार्थः स्यात् ॥
ननु यथा सद्विज्ञानानन्तरमेव देहपातः सत्सम्पत्तिश्च न भवति कर्मशेषवशात् , तथा अप्रवृत्तफलानि प्राग्ज्ञानोत्पत्तेर्जन्मान्तरसञ्चितान्यपि कर्माणि सन्तीति तत्फलोपभोगार्थं पतिते अस्मिञ्शरीरान्तरमारब्धव्यम् । उत्पन्ने च ज्ञाने यावज्जीवं विहितानि प्रतिषिद्धानि वा कर्माणि करोत्येवेति तत्फलोपभोगार्थं च अवश्यं शरीरान्तरमारब्धव्यम् , ततश्च कर्माणि ततः शरीरान्तरम् इति ज्ञानानर्थक्यम् , कर्मणां फलवत्त्वात् । अथ ज्ञानवतः क्षीयन्ते कर्माणि, तदा ज्ञानप्राप्तिसमकालमेव ज्ञानस्य सत्सम्पत्तिहेतुत्वान्मोक्षः स्यादिति शरीरपातः स्यात् । तथा च आचार्याभावः इति आचार्यवान्पुरुषो वेद इत्यनुपपत्तिः । ज्ञानान्मोक्षाभावप्रसङ्गश्च देशान्तरप्राप्त्युपायज्ञानवदनैकान्तिकफलत्वं वा ज्ञानस्य । न, कर्मणां प्रवृत्ताप्रवृत्तफलवत्त्वविशेषोपपत्तेः । यदुक्तम् अप्रवृत्तफलानां कर्मणां ध्रुवफलवत्त्वाद्ब्रह्मविदः शरीरे पतिते शरीरान्तरमारब्धव्यम् अप्रवृत्तकर्मफलोपभोगार्थमिति, एतदसत् । विदुषः ‘तस्य तावदेव चिरम्’ इति श्रुतेः प्रामाण्यात् । ननु ‘पुण्यो वै पुण्येन कर्मणा भवति’ (बृ. उ. ३ । २ । १५) इत्यादिश्रुतेरपि प्रामाण्यमेव । सत्यमेवम् । तथापि प्रवृत्तफलानामप्रवृत्तफलानां च कर्मणां विशेषोऽस्ति । कथम् ? यानि प्रवृत्तफलानि कर्माणि यैर्विद्वच्छरीरमारब्धम् , तेषामुपभागेनैव क्षयः — यथा आरब्धवेगस्य लक्ष्यमुक्तेष्वादेः वेगक्षयादेव स्थितिः, न तु लक्ष्यवेधसमकालमेव प्रयोजनं नास्तीति — तद्वत् । अन्यानि तु अप्रवृत्तफलानि इह प्राग्ज्ञानोत्पत्तेरूर्ध्वं च कृतानि वा क्रियमाणानि वा अतीतजन्मान्तरकृतानि वा अप्रवृत्तफलानि ज्ञानेन दह्यन्ते प्रायश्चित्तेनेव ; ‘ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा’ (भ. गी. ४ । ३७) इति स्मृतेश्च । ‘क्षीयन्ते चास्य कर्माणि’ (मु. उ. २ । २ । ९) इति च आथर्वणे । अतः ब्रह्मविदः जीवनादिप्रयोजनाभावेऽपि प्रवृत्तफलानां कर्मणामवश्यमेव फलोपभोगः स्यादिति मुक्तेषुवत् तस्य तावदेव चिरमिति युक्तमेवोक्तमिति यथोक्तदोषचोदनानुपपत्तिः । ज्ञानोत्पत्तेरूर्ध्वं च ब्रह्मविदः कर्माभावमवोचाम ‘ब्रह्मसंस्थोऽमृतत्वमेति’ (छा. उ. २ । २३ । १) इत्यत्र । तच्च स्मर्तुमर्हसि ॥
स य एषोऽणिमैतदात्म्यमिदꣳ सर्वं तत्सत्यꣳ स आत्मा तत्त्वमसि श्वेतकेतो इति भूय एव मा भगवान्विज्ञापयत्विति तथा सोम्येति होवाच ॥ ३ ॥
स य इत्याद्युक्तार्थम् । आचार्यवान् विद्वान् येन क्रमेण सत् सम्पद्यते, तं क्रमं दृष्टान्तेन भूय एव मा भगवान्विज्ञापयत्विति । तथा सोम्य इति ह उवाच ॥
इति चतुर्दशखण्डभाष्यम् ॥
पुरुषं सोम्योतोपतापिनं ज्ञातयः पर्युपासते जानासि मां जानासि मामिति तस्य यावन्न वाङ्मनसि सम्पद्यते मनः प्राणे प्राणस्तेजसि तेजः परस्यां देवतायां तावज्जानाति ॥ १ ॥
पुरुषं हे सोम्य उत उपतापिनं ज्वराद्युपतापवन्तं ज्ञातयः बान्धवाः परिवार्य उपासते मुमूर्षुम् — जानासि मां तव पितरं पुत्रं भ्रातरं वा — इति पृच्छन्तः । तस्य मुमूर्षोः यावन्न वाङ्मनसि सम्पद्यते मनः प्राणे प्राणस्तेजसि तेजः परस्यां देवतायाम् इत्येतदुक्तार्थम् ॥
अथ यदास्य वाङ्मनसि सम्पद्यते मनः प्राणे प्राणस्तेजसि तेजः परस्यां देवतायामथ न जानाति ॥ २ ॥
संसारिणः यः मरणक्रमः स एवायं विदुषोऽपि सत्सम्पत्तिक्रम इत्येतदाह — परस्यां देवतायां तेजसि सम्पन्ने अथ न जानाति । अविद्वांस्तु सत उत्थाय प्राग्भावितं व्याघ्रादिभावं देवमनुष्यादिभावं वा विशति । विद्वांस्तु शास्त्राचार्योपदेशजनितज्ञानदीपप्रकाशितं सद्ब्रह्मात्मानं प्रविश्य न आवर्तते इत्येष सत्सम्पत्तिक्रमः । अन्ये तु मूर्धन्यया नाड्या उत्क्रम्य आदित्यादिद्वारेण सद्गच्छन्तीत्याहुः ; तदसत् , देशकालनिमित्तफलाभिसन्धानेन गमनदर्शनात् । न हि सदात्मैकत्वदर्शिनः सत्याभिसन्धस्य देशकालनिमित्तफलाद्यनृताभिसन्धिरुपपद्यते, विरोधात् । अविद्याकामकर्मणां च गमननिमित्तानां सद्विज्ञानहुताशनविप्लुष्टत्वात् गमनानुपपत्तिरेव ; ‘पर्योप्तकामस्य कृतात्मनस्त्विहैव सर्वे प्रविलीयन्ति कामाः’ (मु. उ. ३ । २ । २) इत्याद्याथर्वणे नदीसमुद्रदृष्टान्तश्रुतेश्च ॥
स य एषोऽणिमैतदात्म्यमिदꣳ सर्वं तत्सत्यꣳ स आत्मा तत्त्वमसि श्वेतकेतो इति भूय एव मा भगवान्विज्ञापयत्विति तथा सोम्येति होवाच ॥ ३ ॥
स य इत्यादि समानम् । यदि मरिष्यतो मुमुक्षतश्च तुल्या सत्सम्पत्तिः, तत्र विद्वान् सत्सम्पन्नो नावर्तते, आवर्तते त्वविद्वान् — इत्यत्र कारणं दृष्टान्तेन भूय एव मा भगवान्विज्ञापयत्विति । तथा सोम्येति ह उवाच ॥
इति पञ्चदशखण्डभाष्यम् ॥
पुरुषꣳ सोम्योत हस्तगृहीतमानयन्त्यपहार्षीत्स्तेयमकार्षीत्परशुमस्मै तपतेति स यदि तस्य कर्ता भवति तत एवानृतमात्मानं कुरुते सोऽनृताभिसन्धोऽनृतेनात्मानमन्तर्धाय परशुं तप्तं प्रतिगृह्णाति स दह्यतेऽथ हन्यते ॥ १ ॥
शृणु — यथा सोम्य पुरुषं चौर्यकर्मणि सन्दिह्यमानं निग्रहाय परीक्षणाय च उत अपि हस्तगृहीतं बद्धहस्तम् आनयन्ति राजपुरुषाः । किं कृतवानयमिति पृष्टाश्च आहुः — अपहार्षीद्धनमस्यायम् । ते च आहुः — किमपहरणमात्रेण बन्धनमर्हति, अन्यथा दत्तेऽपि धने बन्धनप्रसङ्गात् ; इत्युक्ताः पुनराहुः — स्तेयमकार्षीत् चौर्येण धनमपहार्षीदिति । तेष्वेवं वदत्सु इतरः अपह्नुते — नाहं तत्कर्तेति । ते च आहुः — सन्दिह्यमानं स्तेयमकार्षीः त्वमस्य धनस्येति । तस्मिंश्च अपह्नुवाने आहुः — परशुमस्मै तपतेति शोधयत्वात्मानमिति । स यदि तस्य स्तैन्यस्य कर्ता भवति बहिश्चापह्नुते, स एवंभूतः तत एवानृतमन्यथाभूतं सन्तमन्यथात्मानं कुरुते । स तथा अनृताभिसन्धोऽनृतेनात्मानमन्तर्धाय व्यवहितं कृत्वा परशुं तप्तं मोहात्प्रतिगृह्णाति, स दह्यते, अथ हन्यते राजपुरुषैः स्वकृतेनानृताभिसन्धिदोषेण ॥
अथ यदि तस्याकर्ता भवति तत एव सत्यमात्मानं कुरुते स सत्याभिसन्धः सत्येनात्मानमन्तर्धाय परशुं तप्तं प्रतिगृह्णाति स न दह्यतेऽथ मुच्यते ॥ २ ॥
अथ यदि तस्य कर्मणः अकर्ता भवति, तत एव सत्यमात्मानं कुरुते । स सत्येन तया स्तैन्याकर्तृतया आत्मानमन्तर्धाय परशुं तप्तं प्रतिगृह्णाति । स सत्याभिसन्धः सन् न दह्यते सत्यव्यवधानात् , अथ मुच्यते च मृषाभियोक्तृभ्यः । तप्तपरशुहस्ततलसंयोगस्य तुल्यत्वेऽपि स्तेयकर्त्रकर्त्रोरनृताभिसन्धो दह्यते न तु सत्याभिसन्धः ॥
स यथा तत्र नादाह्येतैतदात्म्यमिदꣳ सर्वं तत्सत्यꣳ स आत्मा तत्त्वमसि श्वेतकेतो इदि तद्धास्य विजज्ञाविति विजज्ञाविति ॥ ३ ॥
स यथा सत्याभिसन्धः तप्तपरशुग्रहणकर्मणि सत्यव्यवहितहस्ततलत्वात् नादाह्येत न दह्येतेत्येतत् , एवं सद्ब्रह्मसत्याभिसन्धेतरयोः शरीरपातकाले च तुल्यायां सत्सम्पत्तौ विद्वान् सत्सम्पद्य न पुनर्व्याघ्रदेवादिदेहग्रहणाय आवर्तते । अविद्वांस्तु विकारानृताभिसन्धः पुनर्व्याघ्रादिभावं देवतादिभावं वा यथाकर्म यथाश्रुतं प्रतिपद्यते । यदात्माभिसन्ध्यनभिसन्धिकृते मोक्षबन्धने, यच्च मूलं जगतः, यदायतना यत्प्रतिष्ठाश्च सर्वाः प्रजाः, यदात्मकं च सर्वं यच्चाजममृतमभयं शिवमद्वितीयम् , तत्सत्यं स आत्मा तव, अतस्तत्त्वमसि श्वेतकेतो — इत्युक्तार्थमसकृद्वाक्यम् । कः पुनरसौ श्वेतकेतुः त्वंशब्दार्थः ? योऽहं श्वेतकेतुरुद्दालकस्य पुत्र इति वेद आत्मानमादेशं श्रुत्वा मत्वा विज्ञाय च, अश्रुतममतमविज्ञातं विज्ञातुं पितरं पप्रच्छ ‘कथं नु भगवः स आदेशो भवति’ (छा. उ. ६ । १ । ३) इति । स एषः अधिकृतः श्रोता मन्ता विज्ञाता तेजोबन्नमयं कार्यकरणसङ्घातं प्रविष्टा परैव देवता नामरूपव्याकरणाय — आदर्शे इव पुरुषः सूर्यादिरिव जलादौ प्रतिबिम्बरूपेण । स आत्मानं कार्यकरणेभ्यः प्रविभक्तं सद्रूपं सर्वात्मानं प्राक् पितुः श्रवणात् न विजज्ञौ । अथेदानीं पित्रा प्रतिबोधितः तत्त्वमसि इति दृष्टान्तैर्हेतुभिश्च तत् पितुरस्य ह किलोक्तं सदेवाहमस्मीति विजज्ञौ विज्ञातवान् । द्विर्वचनमध्यायपरिसमाप्त्यर्थम् ॥
किं पुनरत्र षष्ठे वाक्यप्रमाणेन जनितं फलमात्मनि ? कर्तृत्वभोक्तृत्वयोरधिकृतत्वविज्ञाननिवृत्तिः तस्य फलम् , यमवोचाम त्वंशब्दवाच्यमर्थं श्रोतुं मन्तुं च अधिकृतमविज्ञातविज्ञानफलार्थम् । प्राक्च एतस्माद्विज्ञानात् अहमेवं करिष्याम्यग्निहोत्रादीनि कर्माणि, अहमत्राधिकृतः, एषां च कर्मणां फलमिहामुत्र च भोक्ष्ये, कृतेषु वा कर्मसु कृतकर्तव्यः स्याम् — इत्येवं कर्तृत्वभोक्तृत्वयोरधिकृतोऽस्मीत्यात्मनि यद्विज्ञानमभूत् तस्य, यत्सज्जगतो मूलम् एकमेवाद्वितीयं तत्त्वमसीत्यनेन वाक्येन प्रतिबुद्धस्य निवर्तते, विरोधात् — न हि एकस्मिन्नद्वितीये आत्मनि अयमहमस्मीति विज्ञाते ममेदम् अन्यदनेन कर्तव्यम् इदं कृत्वा अस्य फलं भोक्ष्ये — इति वा भेदविज्ञानमुपपद्यते । तस्मात् सत्सत्याद्वितीयात्मविज्ञाने विकारानृतजीवात्मविज्ञानं निवर्तते इति युक्तम् । ननु ‘तत्त्वमसि’ इत्यत्र त्वंशब्दवाच्येऽर्थे सद्बुद्धिरादिश्यते — यथा आदित्यमनआदिषु ब्रह्मादिबुद्धिः, यथा च लोके प्रतिमादिषु विष्ण्वादिबुद्धिः, तद्वत् ; न तु सदेव त्वमिति ; यदि सदेव श्वेतकेतुः स्यात् , कथमात्मानं न विजानीयात् , येन तस्मै तत्त्वमसीत्युपदिश्यते ? न, आदित्यादिवाक्यवैलक्षण्यात् — ‘आदित्यो ब्रह्म’ (छा. उ. ३ । १९ । १) इत्यादौ इतिशब्दव्यवधानात् न साक्षाद्ब्रह्मत्वं गम्यते, रूपादिमत्त्वाच्च आदित्यादीनाम् । आकाशमनसोश्च इतिशब्दव्यवधानादेव अब्रह्मत्वम् । इह तु सत एवेह प्रवेशं दर्शयित्वा ‘तत्त्वमसि’ इति निरङ्कुशं सदात्मभावमुपदिशति । ननु पराक्रमादिगुणः सिंहोऽसि त्वम् इतिवत् तत्त्वमसीति स्यात् । न, मृदादिवत् सदेकमेवाद्वितीयं सत्यम् इत्युपदेशात् । न च उपचारविज्ञानात् ‘तस्य तावदेव चिरम्’ (छा. उ. ६ । १४ । २) इति सत्सम्पत्तिरुपदिश्येत । मृषात्वादुपचारविज्ञानस्य — त्वमिन्द्रो यम इतिवत् । नापि स्तुतिः, अनुपास्यत्वाच्छ्वेतकेतोः । नापि सत् श्वेतकेतुत्वोपदेशेन स्तूयेत — न हि राजा दासस्त्वमिति स्तुत्यः स्यात् । नापि सतः सर्वात्मन एकदेशनिरोधो युक्तः तत्त्वमसीतिदेशाधिपतेरिव ग्रामाध्यक्षस्त्वमिति । न च अन्या गतिरिह सदात्मत्वोपदेशात् अर्थान्तरभूता सम्भवति । ननु सदस्मीति बुद्धिमात्रमिह कर्तव्यतया चोद्यते न त्वज्ञातं सदसीति ज्ञाप्यत इति चेत् । नन्वस्मिन्पक्षेऽपि ‘अश्रुतं श्रुतं भवति’ (छा. उ. ६ । १ । ३) इत्याद्यनुपपन्नम् । न, सदस्मीति बुद्धिविधेः स्तुत्यर्थत्वात् । न, ‘आचार्यवान्पुरुषो वेद । तस्य तावदेव चिरम्’ (छा. उ. ६ । १४ । २) इत्युपदेशात् । यदि हि सदस्मीति बुद्धिमात्रं कर्तव्यतया विधीयते न तु त्वंशब्दवाच्यस्य सद्रूपत्वमेव, तदा न आचार्यवान्वेद इति ज्ञानोपयोपदेशो वाच्यः स्यात् । यथा ‘अग्निहोत्रं जुहुयात्’ ( ? ) इत्येवमादिष्वर्थप्राप्तमेव आचार्यवत्त्वमिति, तद्वत् । ‘तस्य तावदेव चिरम्’ इति च क्षेपकरणं न युक्तं स्यात् , सदात्मतत्त्वे अविज्ञातेऽपि सकृद्बुद्धिमात्रकरणे मोक्षप्रसङ्गात् । न च तत्त्वमसीत्युक्ते नाहं सदिति प्रमाणवाक्यमजनिता बुद्धिः निवर्तयितुं शक्या ; नोत्पन्नेति वा शक्यं वक्तुम् , सर्वोपनिषद्वाक्यानां तत्परतयैवोपक्षयात् । यथा अग्निहोत्रादिविधिजनिताग्निहोत्रादिकर्तव्यताबुद्धीनामतथार्थत्वमनुत्पन्नत्वं वा न शक्यते वक्तुम् — तद्वत् । यत्तूक्तं सदात्मा सन् आत्मानं कथं न जानीयादिति, नासौ दोषः, कार्यकरणसङ्घातव्यतिरिक्तः अहं जीवः कर्ता भोक्तेत्यपि स्वभावतः प्राणिनां विज्ञानादर्शनात् । किमु तस्य सदात्मविज्ञानम् । कथमेवं व्यतिरिक्तविज्ञाने असति तेषां कर्तृत्वादिविज्ञानं सम्भवति दृश्यते च । तद्वत्तस्यापि देहादिष्वात्मबुद्धित्वात् न स्यात्सदात्मविज्ञानम् । तस्मात् विकारानृताधिकृतजीवात्मविज्ञाननिवर्तकमेव इदं वाक्यम् ‘तत्त्वमसि’ इति सिद्धमिति ॥
इति षोडशखण्डभाष्यम् ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ छान्दोग्योपनिषद्भाष्ये षष्ठोऽध्यायः समाप्तः ॥