श्रीमच्छङ्करभगवत्पूज्यपादविरचितम्

श्रीमद्भगवद्गीताभाष्यम्

ततो महाभारतसारभूताः स व्याकरोद्भागवतीश्च गीताः ।
 

द्वितीयाध्यायप्रभृतिषु विभूत्यन्तेषु अध्यायेषु परमात्मनः ब्रह्मणः अक्षरस्य विध्वस्तसर्वोपाधिविशेषस्य उपासनम् उक्तम् ; सर्वयोगैश्वर्यसर्वज्ञानशक्तिमत्सत्त्वोपाधेः ईश्वरस्य तव च उपासनं तत्र तत्र उक्तम् । विश्वरूपाध्याये तु ऐश्वरम् आद्यं समस्तजगदात्मरूपं विश्वरूपं त्वदीयं दर्शितम् उपासनार्थमेव त्वया । तच्च दर्शयित्वा उक्तवानसि ‘मत्कर्मकृत्’ (भ. गी. ११ । ५५) इत्यादि । अतः अहम् अनयोः उभयोः पक्षयोः विशिष्टतरबुभुत्सया त्वां पृच्छामि इति अर्जुन उवाच —
अर्जुन उवाच —
एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते ।
ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः ॥ १ ॥
एवम् इति अतीतानन्तरश्लोकेन उक्तम् अर्थं परामृशति ‘मत्कर्मकृत्’ (भ. गी. ११ । ५५) इत्यादिना । एवं सततयुक्ताः, नैरन्तर्येण भगवत्कर्मादौ यथोक्ते अर्थे समाहिताः सन्तः प्रवृत्ता इत्यर्थः । ये भक्ताः अनन्यशरणाः सन्तः त्वां यथादर्शितं विश्वरूपं पर्युपासते ध्यायन्ति ; ये चान्येऽपि त्यक्तसर्वैषणाः संन्यस्तसर्वकर्माणः यथाविशेषितं ब्रह्म अक्षरं निरस्तसर्वोपाधित्वात् अव्यक्तम् अकरणगोचरम् । यत् हि करणगोचरं तत् व्यक्तम् उच्यते, अञ्जेः धातोः तत्कर्मकत्वात् ; इदं तु अक्षरं तद्विपरीतम् , शिष्टैश्च उच्यमानैः विशेषणैः विशिष्टम् , तत् ये चापि पर्युपासते, तेषाम् उभयेषां मध्ये के योगवित्तमाः ? के अतिशयेन योगविदः इत्यर्थः ॥ १ ॥
श्रीभगवान् उवाच — ये तु अक्षरोपासकाः सम्यग्दर्शिनः निवृत्तैषणाः, ते तावत् तिष्ठन्तु ; तान् प्रति यत् वक्तव्यम् , तत् उपरिष्टात् वक्ष्यामः । ये तु इतरे —
श्रीभगवानुवाच —
मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते ।
श्रद्धया परयोपेतास्ते मे युक्ततमा मताः ॥ २ ॥
मयि विश्वरूपे परमेश्वरे आवेश्य समाधाय मनः, ये भक्ताः सन्तः, मां सर्वयोगेश्वराणाम् अधीश्वरं सर्वज्ञं विमुक्तरागादिक्लेशतिमिरदृष्टिम् , नित्ययुक्ताः अतीतानन्तराध्यायान्तोक्तश्लोकार्थन्यायेन सततयुक्ताः सन्तः उपासते श्रद्धया परया प्रकृष्टया उपेताः, ते मे मम मताः अभिप्रेताः युक्ततमाः इति । नैरन्तर्येण हि ते मच्चित्ततया अहोरात्रम् अतिवाहयन्ति । अतः युक्तं तान् प्रति युक्ततमाः इति वक्तुम् ॥ २ ॥
किमितरे युक्ततमाः न भवन्ति ? न ; किन्तु तान् प्रति यत् वक्तव्यम् , तत् शृणु —
ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते ।
सर्वत्रगमचिन्त्यं च कूटस्थमचलं ध्रुवम् ॥ ३ ॥
ये तु अक्षरम् अनिर्देश्यम् , अव्यक्तत्वात् अशब्दगोचर इति न निर्देष्टुं शक्यते, अतः अनिर्देश्यम् , अव्यक्तं न केनापि प्रमाणेन व्यज्यत इत्यव्यक्तं पर्युपासते परि समन्तात् उपासते । उपासनं नाम यथाशास्त्रम् उपास्यस्य अर्थस्य विषयीकरणेन सामीप्यम् उपगम्य तैलधारावत् समानप्रत्ययप्रवाहेण दीर्घकालं यत् आसनम् , तत् उपासनमाचक्षते । अक्षरस्य विशेषणमाह उपास्यस्य — सर्वत्रगं व्योमवत् व्यापि अचिन्त्यं च अव्यक्तत्वादचिन्त्यम् । यद्धि करणगोचरम् , तत् मनसापि चिन्त्यम् , तद्विपरीतत्वात् अचिन्त्यम् अक्षरम् , कूटस्थं दृश्यमानगुणम् अन्तर्दोषं वस्तु कूटम् । ‘कूटरूपम्’ ’ कूटसाक्ष्यम्’ इत्यादौ कूटशब्दः प्रसिद्धः लोके । तथा च अविद्याद्यनेकसंसारबीजम् अन्तर्दोषवत् मायाव्याकृतादिशब्दवाच्यतया ‘मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम्’ (श्वे. उ. ४ । १०) ‘मम माया दुरत्यया’ (भ. गी. ७ । १४) इत्यादौ प्रसिद्धं यत् तत् कूटम् , तस्मिन् कूटे स्थितं कूटस्थं तदध्यक्षतया । अथवा, राशिरिव स्थितं कूटस्थम् । अत एव अचलम् । यस्मात् अचलम् , तस्मात् ध्रुवम् , नित्यमित्यर्थः ॥ ३ ॥
संनियम्येन्द्रियग्रामं सर्वत्र समबुद्धयः ।
ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः ॥ ४ ॥
सन्नियम्य सम्यक् नियम्य उपसंहृत्य इन्द्रियग्रामम् इन्द्रियसमुदायं सर्वत्र सर्वस्मिन् काले समबुद्धयः समा तुल्या बुद्धिः येषाम् इष्टानिष्टप्राप्तौ ते समबुद्धयः । ते ये एवंविधाः ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः । न तु तेषां वक्तव्यं किञ्चित् ‘मां ते प्राप्नुवन्ति’ इति ; ‘ज्ञानी त्वात्मैव मे मतम्’ (भ. गी. ७ । १८) इति हि उक्तम् । न हि भगवत्स्वरूपाणां सतां युक्ततमत्वमयुक्ततमत्वं वा वाच्यम् ॥ ४ ॥
किं तु —
क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम् ।
अव्यक्ता हि गतिर्दुःखं देहवद्भिरवाप्यते ॥ ५ ॥
क्लेशः अधिकतरः, यद्यपि मत्कर्मादिपराणां क्लेशः अधिक एव क्लेशः अधिकतरस्तु अक्षरात्मनां परमात्मदर्शिनां देहाभिमानपरित्यागनिमित्तः । अव्यक्तासक्तचेतसाम् अव्यक्ते आसक्तं चेतः येषां ते अव्यक्तासक्तचेतसः तेषाम् अव्यक्तासक्तचेतसाम् । अव्यक्ता हि यस्मात् या गतिः अक्षरात्मिका दुःखं सा देहवद्भिः देहाभिमानवद्भिः अवाप्यते, अतः क्लेशः अधिकतरः ॥ ५ ॥
अक्षरोपासकानां यत् वर्तनम् , तत् उपरिष्टाद्वक्ष्यामः —
ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्पराः ।
अनन्येनैव योगेन मां ध्यायन्त उपासते ॥ ६ ॥
ये तु सर्वाणि कर्माणि मयि ईश्वरे संन्यस्य मत्पराः अहं परः येषां ते मत्पराः सन्तः अनन्येनैव अविद्यमानम् अन्यत् आलम्बनं विश्वरूपं देवम् आत्मानं मुक्त्वा यस्य सः अनन्यः तेन अनन्येनैव ; केन ? योगेन समाधिना मां ध्यायन्तः चिन्तयन्तः उपासते ॥ ६ ॥
तेषां किम् ? —
तेषामहं समुद्धर्ता मृत्युसंसारसागरात् ।
भवामि न चिरात्पार्थ मय्यावेशितचेतसाम् ॥ ७ ॥
तेषां मदुपासनैकपराणाम् अहम् ईश्वरः समुद्धर्ता । कुतः इति आह — मृत्युसंसारसागरात् मृत्युयुक्तः संसारः मृत्युसंसारः, स एव सागर इव सागरः, दुस्तरत्वात् , तस्मात् मृत्युसंसारसागरात् अहं तेषां समुद्धर्ता भवामि न चिरात् । किं तर्हि ? क्षिप्रमेव हे पार्थ, मयि आवेशितचेतसां मयि विश्वरूपे आवेशितं समाहितं चेतः येषां ते मय्यावेशितचेतसः तेषाम् ॥ ७ ॥
यतः एवम् , तस्मात् —
मय्येव मन आधत्स्व मयि बुद्धिं निवेशय ।
निवसिष्यसि मय्येव अत ऊर्ध्वं न संशयः ॥ ८ ॥
मयि एव विश्वरूपे ईश्वरे मनः सङ्कल्पविकल्पात्मकं आधत्स्व स्थापय । मयि एव अध्यवसायं कुर्वतीं बुद्धिम् आधत्स्व निवेशय । ततः ते किं स्यात् इति शृणु — निवसिष्यसि निवत्स्यसि निश्चयेन मदात्मना मयि निवासं करिष्यसि एव अतः शरीरपातात् ऊर्ध्वम् । न संशयः संशयः अत्र न कर्तव्यः ॥ ८ ॥
अथ चित्तं समाधातुं
न शक्नोषि मयि स्थिरम् ।
अभ्यासयोगेन ततो
मामिच्छाप्तुं धनञ्जय ॥ ९ ॥
अथ एवं यथा अवोचं तथा मयि चित्तं समाधातुं स्थापयितुं स्थिरम् अचलं न शक्नोषि चेत् , ततः पश्चात् अभ्यासयोगेन, चित्तस्य एकस्मिन् आलम्बने सर्वतः समाहृत्य पुनः पुनः स्थापनम् अभ्यासः, तत्पूर्वको योगः समाधानलक्षणः तेन अभ्यासयोगेन मां विश्वरूपम् इच्छ प्रार्थयस्व आप्तुं प्राप्तुं हे धनञ्जय ॥ ९ ॥
अभ्यासेऽप्यसमर्थोऽसि
मत्कर्मपरमो भव ।
मदर्थमपि कर्माणि
कुर्वन्सिद्धिमवाप्स्यसि ॥ १० ॥
अभ्यासे अपि असमर्थः असि अशक्तः असि, तर्हि मत्कर्मपरमः भव मदर्थं कर्म मत्कर्म तत्परमः मत्कर्मपरमः, मत्कर्मप्रधानः इत्यर्थः । अभ्यासेन विना मदर्थमपि कर्माणि केवलं कुर्वन् सिद्धिं सत्त्वशुद्धियोगज्ञानप्राप्तिद्वारेण अवाप्स्यसि ॥ १० ॥
अथैतदप्यशक्तोऽसि कर्तुं मद्योगमाश्रितः ।
सर्वकर्मफलत्यागं ततः कुरु यतात्मवान् ॥ ११ ॥
अथ पुनः एतदपि यत् उक्तं मत्कर्मपरमत्वम् , तत् कर्तुम् अशक्तः असि, मद्योगम् आश्रितः मयि क्रियमाणानि कर्माणि संन्यस्य यत् करणं तेषाम् अनुष्ठानं सः मद्योगः, तम् आश्रितः सन् , सर्वकर्मफलत्यागं सर्वेषां कर्मणां फलसंन्यासं सर्वकर्मफलत्यागं ततः अनन्तरं कुरु यतात्मवान् संयतचित्तः सन् इत्यर्थः ॥ ११ ॥
इदानीं सर्वकर्मफलत्यागं स्तौति —
श्रेयो हि ज्ञानमभ्यासाज्ज्ञानाद्ध्यानं विशिष्यते ।
ध्यानात्कर्मफलत्यागस्त्यागाच्छान्तिरनन्तरम् ॥ १२ ॥
श्रेयः हि प्रशस्यतरं ज्ञानम् । कस्मात् ? विवेकपूर्वकात् अभ्यासात् । तस्मादपि ज्ञानात् ज्ञानपूर्वकं ध्यानं विशिष्यते । ज्ञानवतो ध्यानात् अपि कर्मफलत्यागः, ‘विशिष्यते’ इति अनुषज्यते । एवं कर्मफलत्यागात् पूर्वविशेषणवतः शान्तिः उपशमः सहेतुकस्य संसारस्य अनन्तरमेव स्यात् , न तु कालान्तरम् अपेक्षते ॥
अज्ञस्य कर्मणि प्रवृत्तस्य पूर्वोपदिष्टोपायानुष्ठानाशक्तौ सर्वकर्मणां फलत्यागः श्रेयःसाधनम् उपदिष्टम् , न प्रथममेव । अतश्च ‘श्रेयो हि ज्ञानमभ्यासात्’ इत्युत्तरोत्तरविशिष्टत्वोपदेशेन सर्वकर्मफलत्यागः स्तूयते, सम्पन्नसाधनानुष्ठानाशक्तौ अनुष्ठेयत्वेन श्रुतत्वात् । केन साधर्म्येण स्तुतित्वम् ? ‘यदा सर्वे प्रमुच्यन्ते’ (क. उ. २ । ३ । १४) इति सर्वकामप्रहाणात् अमृतत्वम् उक्तम् ; तत् प्रसिद्धम् । कामाश्च सर्वे श्रौतस्मार्तकर्मणां फलानि । तत्त्यागे च विदुषः ध्याननिष्ठस्य अनन्तरैव शान्तिः इति सर्वकामत्यागसामान्यम् अज्ञकर्मफलत्यागस्य अस्ति इति तत्सामान्यात् सर्वकर्मफलत्यागस्तुतिः इयं प्ररोचनार्था । यथा अगस्त्येन ब्राह्मणेन समुद्रः पीतः इति इदानीन्तनाः अपि ब्राह्मणाः ब्राह्मणत्वसामान्यात् स्तूयन्ते, एवं कर्मफलत्यागात् कर्मयोगस्य श्रेयःसाधनत्वमभिहितम् ॥ १२ ॥
अत्र च आत्मेश्वरभेदमाश्रित्य विश्वरूपे ईश्वरे चेतःसमाधानलक्षणः योगः उक्तः, ईश्वरार्थं कर्मानुष्ठानादि च । ‘अथैतदप्यशक्तोऽसि’ (भ. गी. १२ । ११) इति अज्ञानकार्यसूचनात् न अभेददर्शिनः अक्षरोपासकस्य कर्मयोगः उपपद्यते इति दर्शयति ; तथा कर्मयोगिनः अक्षरोपासनानुपपत्तिम् । ‘ते प्राप्नुवन्ति मामेव’ (भ. गी. १२ । ४) इति अक्षरोपासकानां कैवल्यप्राप्तौ स्वातन्त्र्यम् उक्त्वा, इतरेषां पारतन्त्र्यात् ईश्वराधीनतां दर्शितवान् ‘तेषामहं समुद्धर्ता’ (भ. गी. १२ । ७) इति । यदि हि ईश्वरस्य आत्मभूताः ते मताः अभेददर्शित्वात् , अक्षरस्वरूपाः एव ते इति समुद्धरणकर्मवचनं तान् प्रति अपेशलं स्यात् । यस्माच्च अर्जुनस्य अत्यन्तमेव हितैषी भगवान् तस्य सम्यग्दर्शनानन्वितं कर्मयोगं भेददृष्टिमन्तमेव उपदिशति । न च आत्मानम् ईश्वरं प्रमाणतः बुद्ध्वा कस्यचित् गुणभावं जिगमिषति कश्चित् , विरोधात् । तस्मात् अक्षरोपासकानां सम्यग्दर्शननिष्ठानां संन्यासिनां त्यक्तसर्वैषणानाम् ‘अद्वेष्टा सर्वभूतानाम्’ इत्यादिधर्मपूगं साक्षात् अमृतत्वकारणं वक्ष्यामीति प्रवर्तते —
अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च ।
निर्ममो निरहङ्कारः समदुःखसुखः क्षमी ॥ १३ ॥
अद्वेष्टा सर्वभूतानां न द्वेष्टा, आत्मनः दुःखहेतुमपि न किञ्चित् द्वेष्टि, सर्वाणि भूतानि आत्मत्वेन हि पश्यति । मैत्रः मित्रभावः मैत्री मित्रतया वर्तते इति मैत्रः । करुणः एव च, करुणा कृपा दुःखितेषु दया, तद्वान् करुणः, सर्वभूताभयप्रदः, संन्यासी इत्यर्थः । निर्ममः ममप्रत्ययवर्जितः । निरहङ्कारः निर्गताहंप्रत्ययः । समदुःखसुखः समे दुःखसुखे द्वेषरागयोः अप्रवर्तके यस्य सः समदुःखसुखः । क्षमी क्षमावान् , आक्रुष्टः अभिहतो वा अविक्रियः एव आस्ते ॥ १३ ॥
सन्तुष्टः सततं योगी यतात्मा दृढनिश्चयः ।
मय्यर्पितमनोबुद्धिर्यो मद्भक्तः स मे प्रियः ॥ १४ ॥
सन्तुष्टः सततं नित्यं देहस्थितिकारणस्य लाभे अलाभे च उत्पन्नालंप्रत्ययः । तथा गुणवल्लाभे विपर्यये च सन्तुष्टः । सततं योगी समाहितचित्तः । यतात्मा संयतस्वभावः । दृढनिश्चयः दृढः स्थिरः निश्चयः अध्यवसायः यस्य आत्मतत्त्वविषये स दृढनिश्चयः । मय्यर्पितमनोबुद्धिः सङ्कल्पविकल्पात्मकं मनः, अध्यवसायलक्षणा बुद्धिः, ते मय्येव अर्पिते स्थापिते यस्य संन्यासिनः सः मय्यर्पितमनोबुद्धिः । यः ईदृशः मद्भक्तः सः मे प्रियः । ‘प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः’ (भ. गी. ७ । १७) इति सप्तमे अध्याये सूचितम् , तत् इह प्रपञ्च्यते ॥ १४ ॥
यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः ।
हर्षामर्षभयोद्वेगैर्मुक्तो यः स च मे प्रियः ॥ १५ ॥
यस्मात् संन्यासिनः न उद्विजते न उद्वेगं गच्छति न सन्तप्यते न सङ्क्षुभ्यति लोकः, तथा लोकात् न उद्विजते च यः, हर्षामर्षभयोद्वेगैः हर्षश्च अमर्षश्च भयं च उद्वेगश्च तैः हर्षामर्षभयोद्वेगैः मुक्तः ; हर्षः प्रियलाभे अन्तःकरणस्य उत्कर्षः रोमाञ्चनाश्रुपातादिलिङ्गः, अमर्षः असहिष्णुता, भयं त्रासः, उद्वेगः उद्विग्नता, तैः मुक्तः यः स च मे प्रियः ॥ १५ ॥
अनपेक्षः शुचिर्दक्ष
उदासीनो गतव्यथः ।
सर्वारम्भपरित्यागी
यो मद्भक्तः स मे प्रियः ॥ १६ ॥
देहेन्द्रियविषयसम्बन्धादिषु अपेक्षाविषयेषु अनपेक्षः निःस्पृहः । शुचिः बाह्येन आभ्यन्तरेण च शौचेन सम्पन्नः । दक्षः प्रत्युत्पन्नेषु कार्येषु सद्यः यथावत् प्रतिपत्तुं समर्थः । उदासीनः न कस्यचित् मित्रादेः पक्षं भजते यः, सः उदासीनः यतिः । गतव्यथः गतभयः । सर्वारम्भपरित्यागी आरभ्यन्त इति आरम्भाः इहामुत्रफलभोगार्थानि कामहेतूनि कर्माणि सर्वारम्भाः, तान् परित्यक्तुं शीलम् अस्येति सर्वारम्भपरित्यागी यः मद्भक्तः सः मे प्रियः ॥ १६ ॥
किञ्च —
यो न हृष्यति न द्वेष्टि
न शोचति न काङ्क्षति ।
शुभाशुभपरित्यागी
भक्तिमान्यः स मे प्रियः ॥ १७ ॥
यः न हृष्यति इष्टप्राप्तौ, न द्वेष्टि अनिष्टप्राप्तौ, न शोचति प्रियवियोगे, न च अप्राप्तं काङ्क्षति, शुभाशुभे कर्मणी परित्यक्तुं शीलम् अस्य इति शुभाशुभपरित्यागी भक्तिमान् यः सः मे प्रियः ॥ १७ ॥
समः शत्रौ च मित्रे च
तथा मानापमानयोः ।
शीतोष्णसुखदुःखेषु
समः सङ्गविवर्जितः ॥ १८ ॥
समः शत्रौ च मित्रे च, तथा मानापमानयोः पूजापरिभवयोः, शीतोष्णसुखदुःखेषु समः, सर्वत्र च सङ्गविवर्जितः ॥ १८ ॥
किञ्च —
तुल्यनिन्दास्तुतिर्मौनी सन्तुष्टो येन केनचित् ।
अनिकेतः स्थिरमतिर्भक्तिमान्मे प्रियो नरः ॥ १९ ॥
तुल्यनिन्दास्तुतिः निन्दा च स्तुतिश्च निन्दास्तुती ते तुल्ये यस्य सः तुल्यनिन्दास्तुतिः । मौनी मौनवान् संयतवाक् । सन्तुष्टः येन केनचित् शरीरस्थितिहेतुमात्रेण ; तथा च उक्तम् — ‘येन केनचिदाच्छन्नो येन केनचिदाशितः । यत्र क्वचन शायी स्यात्तं देवा ब्राह्मणं विदुः’ (मो. ध. २४५ । १२) इति । किञ्च, अनिकेतः निकेतः आश्रयः निवासः नियतः न विद्यते यस्य सः अनिकेतः, ‘नागारे’ ( ? ) इत्यादिस्मृत्यन्तरात् । स्थिरमतिः स्थिरा परमार्थविषया यस्य मतिः सः स्थिरमतिः । भक्तिमान् मे प्रियः नरः ॥ १९ ॥
‘अद्वेष्टा सर्वभूतानाम्’ (भ. गी. १२ । १३), इत्यादिना अक्षरोपासकानां निवृत्तसर्वैषणानां सन्यासिनां परमार्थज्ञाननिष्ठानां धर्मजातं प्रक्रान्तम् उपसंह्रियते —
ये तु धर्म्यामृतमिदं
यथोक्तं पर्युपासते ।
श्रद्दधाना मत्परमा
भक्तास्तेऽतीव मे प्रियाः ॥ २० ॥
ये तु संन्यासिनः धर्म्यामृतं धर्मादनपेतं धर्म्यं च तत् अमृतं च तत् , अमृतत्वहेतुत्वात् , इदं यथोक्तम् ‘अद्वेष्टा सर्वभूतानाम्’ (भ. गी. १२ । १३) इत्यादिना पर्युपासते अनुतिष्ठन्ति श्रद्दधानाः सन्तः मत्परमाः यथोक्तः अहं अक्षरात्मा परमः निरतिशया गतिः येषां ते मत्परमाः, मद्भक्ताः च उत्तमां परमार्थज्ञानलक्षणां भक्तिमाश्रिताः, ते अतीव मे प्रियाः । ‘प्रियो हि ज्ञानिनोऽत्यर्थम्’ (भ. गी. ७ । १७) इति यत् सूचितं तत् व्याख्याय इह उपसंहृतम् ‘भक्तास्तेऽतीव मे प्रियाः’ इति । यस्मात् धर्म्यामृतमिदं यथोक्तमनुतिष्ठन् भगवतः विष्णोः परमेश्वरस्य अतीव प्रियः भवति, तस्मात् इदं धर्म्यामृतं मुमुक्षुणा यत्नतः अनुष्ठेयं विष्णोः प्रियं परं धाम जिगमिषुणा इति वाक्यार्थः ॥ २० ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ श्रीमद्भगवद्गीताभाष्ये द्वादशोऽध्यायः ॥