श्रीमच्छङ्करभगवत्पूज्यपादविरचितम्

माण्डूक्योपनिषद्भाष्यम्

गौडपादीयकारिकाभाष्यं च

करतलकलिताद्वयात्मतत्त्वं क्षपितदुरन्तचिरन्तनप्रमोहम् ।
उपचितमुदितोदितैर्गुणौघैः उपनिषदामयमुज्जहार भाष्यम् ।।

उपासनाश्रितो धर्मो जाते ब्रह्मणि वर्तते ।
प्रागुत्पत्तेरजं सर्वं तेनासौ कृपणः स्मृतः ॥ १ ॥
ओङ्कारनिर्णये उक्तः प्रपञ्चोपशमः शिवोऽद्वैत आत्मेति प्रतिज्ञामात्रेण, ‘ज्ञाते द्वैतं न विद्यते’ (मा. का. १ । १८) इति च । तत्र द्वैताभावस्तु वैतथ्यप्रकरणेन स्वप्नमायागन्धर्वनगरादिदृष्टान्तैर्दृश्यत्वाद्यन्तवत्त्वादिहेतुभिस्तर्केण च प्रतिपादितः । अद्वैतं किमागममात्रेण प्रतिपत्तव्यम् , आहोस्वित्तर्केणापीत्यत आह — शक्यते तर्केणापि ज्ञातुम् ; तत्कथमित्यद्वैतप्रकरणमारभ्यते । उपास्योपासनादिभेदजातं सर्वं वितथम् , केवलश्चात्मा अद्वयः परमार्थ इति स्थितमतीते प्रकरणे ; यतः उपासनाश्रितः उपासनामात्मनो मोक्षसाधनत्वेन गतः उपासकोऽहं ममोपास्यं ब्रह्म । तदुपासनं कृत्वा जाते ब्रह्मणीदानीं वर्तमानः अजं ब्रह्म शरीरपातादूर्ध्वं प्रतिपत्स्ये प्रागुत्पत्तेश्चाजमिदं सर्वमहं च । यदात्मकोऽहं प्रागुत्पत्तेरिदानीं जातो जाते ब्रह्मणि च वर्तमान उपासनया पुनस्तदेव प्रतिपत्स्ये इत्येवमुपासनाश्रितो धर्मः साधकः येनैवं क्षुद्रब्रह्मवित् , तेनासौ कारणेन कृपणो दीनोऽल्पकः स्मृतो नित्याजब्रह्मदर्शिभिर्महात्मभिरित्यभिप्रायः, ‘यद्वाचानभ्युदितं येन वागभ्युद्यते । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते’ (के. उ. १ । ५) इत्यादिश्रुतेस्तलवकाराणाम् ॥
अतो वक्ष्याम्यकार्पण्यमजाति समतां गतम् ।
यथा न जायते किञ्चिज्जायमानं समन्ततः ॥ २ ॥
सबाह्याभ्यन्तरमजमात्मानं प्रतिपत्तुमशक्नुवन् अविद्यया दीनमात्मानं मन्यमानः जातोऽहं जाते ब्रह्मणि वर्ते तदुपासनाश्रितः सन्ब्रह्म प्रतिपत्स्ये इत्येवं प्रतिपन्नः कृपणो भवति यस्मात् , अतो वक्ष्यामि अकार्पण्यम् अकृपणभावमजं ब्रह्म । तद्धि कार्पण्यास्पदम् , ‘यत्रान्योऽन्यत्पश्यत्यन्यच्छृणोत्यन्यद्विजानाति तदल्पम्’ (छा. उ. ७ । २४ । १) ‘मर्त्यं तत्’ ‘वाचारम्भणं विकारो नामधेयम्’ (छा. उ. ६ । १ । ४) इत्यादिश्रुतिभ्यः । तद्विपरीतं सबाह्याभ्यन्तरमजमकार्पण्यं भूमाख्यं ब्रह्म ; यत्प्राप्याविद्याकृतसर्वकार्पण्यनिवृत्तिः, तदकार्पण्यं वक्ष्यामीत्यर्थः । तत् अजाति अविद्यमाना जातिरस्य । समतां गतं सर्वसाम्यं गतम् ; कस्मात् ? अवयववैषम्याभावात् । यद्धि सावयवं वस्तु, तदवयववैषम्यं गच्छज्जायत इत्युच्यते ; इदं तु निरवयवत्वात्समतां गतमिति न कैश्चिदवयवैः स्फुटति ; अतः अजाति अकार्पण्यं समन्ततः समन्तात् , यथा न जायते किञ्चित् अल्पमपि न स्फुटति रज्जुसर्पवदविद्याकृतदृष्ट्या जायमानं येन प्रकारेण न जायते सर्वतः अजमेव ब्रह्म भवति, तथा तं प्रकारं शृण्वित्यर्थः ॥
आत्मा ह्याकाशवज्जीवैर्घटाकाशैरिवोदितः ।
घटादिवच्च सङ्घातैर्जातावेतन्निदर्शनम् ॥ ३ ॥
अजाति ब्रह्माकार्पण्यं वक्ष्यामीति प्रतिज्ञातम् ; तत्सिद्ध्यर्थं हेतुं दृष्टान्तं च वक्ष्यामीत्याह — आत्मा परः हि यस्मात् आकाशवत् सूक्ष्मो निरवयवः सर्वगत आकाशवदुक्तः जीवैः क्षेत्रज्ञैः घटाकाशैरिव घटाकाशतुल्यैः उदितः उक्तः ; स एव आकाशसमः पर आत्मा । अथवा घटाकाशैर्यथा आकाश उदितः उत्पन्नः, तथा परो जीवात्मभिरुत्पन्नः ; जीवात्मनां परस्मादात्मन उत्पत्तिर्या श्रूयते वेदान्तेषु, सा महाकाशाद्घटाकाशोत्पत्तिसमा, न परमार्थत इत्यभिप्रायः । तस्मादेवाकाशाद्घटादयः सङ्घाता यथा उत्पद्यन्ते, एवमाकाशस्थानीयात्परमात्मनः पृथिव्यादिभूतसङ्घाता आध्यात्मिकाश्च कार्यकरणलक्षणा रज्जुसर्पवद्विकल्पिता जायन्ते ; अत उच्यते — घटादिवच्च सङ्घातैरुदित इति । यदा मन्दबुद्धिप्रतिपिपादयिषया श्रुत्या आत्मनो जातिरुच्यते जीवादीनाम् , तदा जातावुपगम्यमानायाम् एतत् निदर्शनं दृष्टान्तः यथोदिताकाशवदित्यादिः ॥
घटादिषु प्रलीनेषु घटाकाशादयो यथा ।
आकाशे सम्प्रलीयन्ते तद्वज्जीवा इहात्मनि ॥ ४ ॥
यथा घटाद्युत्पत्त्या घटाकाशाद्युत्पत्तिः, यथा च घटादिप्रलयेन घटाकाशादिप्रलयः, तद्वद्देहादिसङ्घातोत्पत्त्या जीवोत्पत्तिः तत्प्रलयेन च जीवानाम् इह आत्मनि प्रलयः, न स्वत इत्यर्थः ॥
यथैकस्मिन्घटाकाशे रजोधूमादिभिर्युते ।
न सर्वे सम्प्रयुज्यन्ते तद्वज्जीवाः सुखादिभिः ॥ ५ ॥
सर्वदेहेष्वात्मैकत्वे एकस्मिन् जननमरणसुखदुःखादिमत्यात्मनि सर्वात्मनां तत्सम्बन्धः क्रियाफलसाङ्कर्यं च स्यादिति ये त्वाहुर्द्वैतिनः, तान्प्रतीदमुच्यते — यथा एकस्मिन् घटाकाशे रजोधूमादिभिः युते संयुक्ते, न सर्वे घटाकाशादयः तद्रजोधूमादिभिः संयुज्यन्ते, तद्वत् जीवाः सुखादिभिः । ननु, एक एवात्मा ; बाढम् ; ननु न श्रुतं त्वया आकाशवत्सर्वसङ्घातेष्वेक एवात्मेति ? यद्येक एवात्मा, तर्हि सर्वत्र सुखी दुःखी च स्यात् ; न चेदं साङ्ख्यस्य चोद्यं सम्भवति ; न हि साङ्ख्य आत्मनः सुखदुःखादिमत्त्वमिच्छति, बुद्धिसमवायाभ्युपगमात्सुखदुःखादीनाम् ; न चोपलब्धिस्वरूपस्यात्मनो भेदकल्पनायां प्रमाणमस्ति । भेदाभावे प्रधानस्य पारार्थ्यानुपपत्तिरिति चेत् , न ; प्रधानकृतस्यार्थस्यात्मन्यसमवायात् ; यदि हि प्रधानकृतो बन्धो मोक्षो वा अर्थः पुरुषेषु भेदेन समवैति, ततः प्रधानस्य पारार्थ्यमात्मैकत्वे नोपपद्यत इति युक्ता पुरुषभेदकल्पना ; न च साङ्ख्यैर्बन्धो मोक्षो वार्थः पुरुषसमवेतोऽभ्युपगम्यते, निर्विशेषाश्च चेतनमात्रा आत्मानोऽभ्युपगम्यन्ते ; अतः पुरुषसत्तामात्रप्रयुक्तमेव प्रधानस्य पारार्थ्यं सिद्धम् , न तु पुरुषभेदप्रयुक्तमिति ; अतः पुरुषभेदकल्पनायां न प्रधानस्य पारार्थ्यं हेतुः ; न चान्यत्पुरुषभेदकल्पनायां प्रमाणमस्ति साङ्‍ख्यानाम् । परसत्तामात्रमेव चैतन्निमित्तीकृत्य स्वयं बध्यते मुच्यते च प्रधानम् ; परश्चोपलब्धिमात्रसत्तास्वरूपेण प्रधानप्रवृत्तौ हेतुः, न केनचिद्विशेषेणेति, केवलमूढतयैव पुरुषभेदकल्पना वेदार्थपरित्यागश्च । ये त्वाहुर्वैशेषिकादयः इच्छादय आत्मसमवायिन इति ; तदप्यसत् , स्मृतिहेतूनां संस्काराणामप्रदेशवत्यात्मन्यसमवायात् , आत्ममनःसंयोगाच्च स्मृत्युत्पत्तेः स्मृतिनियमानुपपत्तिः, युगपद्वा सर्वस्मृत्युत्पत्तिप्रसङ्गः । न च भिन्नजातीयानां स्पर्शादिहीनानामात्मनां मनआदिभिः सम्बन्धो युक्तः । न च द्रव्याद्रूपादयो गुणाः कर्मसामान्यविशेषसमवाया वा भिन्नाः सन्ति । परेषां यदि ह्यत्यन्तभिन्ना एव द्रव्यात्स्युः इच्छादयश्चात्मनः, तथा सति द्रव्येण तेषां सम्बन्धानुपपत्तिः । अयुतसिद्धानां समवायलक्षणः सम्बन्धो न विरुध्यत इति चेत् , न ; इच्छादिभ्योऽनित्येभ्य आत्मनो नित्यस्य पूर्वसिद्धत्वान्नायुतसिद्धत्वोपपत्तिः । आत्मना अयुतसिद्धत्वे च इच्छादीनामात्मगतमहत्त्ववन्नित्यत्वप्रसङ्गः । स चानिष्टः, आत्मनोऽनिर्मोक्षप्रसङ्गात् । समवायस्य च द्रव्यादन्यत्वे सति द्रव्येण सम्बन्धान्तरं वाच्यम् , यथा द्रव्यगुणयोः । समवायो नित्यसम्बन्ध एवेति न वाच्यमिति चेत् , तथा सति समवायसम्बन्धवतां नित्यसम्बन्धप्रसङ्गात्पृथक्त्वानुपपत्तिः । अत्यन्तपृथक्त्वे च द्रव्यादीनां स्पर्शवदस्पर्शद्रव्ययोरिव षष्ठ्यर्थानुपपत्तिः । इच्छाद्युपजनापायवद्गुणवत्त्वे च आत्मनोऽनित्यत्वप्रसङ्गः । देहफलादिवत्सावयवत्वं विक्रियावत्त्वं च देहादिवदेवेति दोषावपरिहार्यौ । यथा त्वाकाशस्य अविद्याध्यारोपितघटाद्युपाधिकृतरजोधूममलवत्त्वादिदोषवत्त्वम् , तथा आत्मनः अविद्याध्यारोपितबुद्ध्याद्युपाधिकृतसुखदुःखादिदोषवत्त्वे बन्धमोक्षादयो व्यावहारिका न विरुध्यन्ते ; सर्ववादिभिरविद्याकृतव्यवहाराभ्युपगमात् परमार्थानभ्युपगमाच्च । तस्मादात्मभेदपरिकल्पना वृथैव तार्किकैः क्रियत इति ॥
रूपकार्यसमाख्याश्च भिद्यन्ते तत्र तत्र वै ।
आकाशस्य न भेदोऽस्ति तद्वज्जीवेषु निर्णयः ॥ ६ ॥
कथं पुनरात्मभेदनिमित्त इव व्यवहार एकस्मिन्नात्मन्यविद्याकृत उपपद्यत इति, उच्यते । यथा इहाकाशे एकस्मिन्घटकरकापवरकाद्याकाशानामल्पत्वमहत्त्वादिरूपाणि भिद्यन्ते, तथा कार्यमुदकाहरणधारणशयनादि, समाख्याश्च घटाकाशः करकाकाश इत्याद्याः तत्कृताश्च भिन्ना दृश्यन्ते, तत्र तत्र वै व्यवहारविषये इत्यर्थः । सर्वोऽयमाकाशे रूपादिभेदकृतो व्यवहारः अपरमार्थ एव । परमार्थतस्त्वाकाशस्य न भेदोऽस्ति । न चाकाशभेदनिमित्तो व्यवहारोऽस्ति अन्तरेण परोपाधिकृतं द्वारम् । यथैतत् , तद्वद्देहोपाधिभेदकृतेषु जीवेषु घटाकाशस्थानीयेष्वात्मसु निरूपणात्कृतः बुद्धिमद्भिः निर्णयः निश्चय इत्यर्थः ॥
नाकाशस्य घटाकाशो विकारावयवौ यथा ।
नैवात्मनः सदा जीवो विकारावयवौ तथा ॥ ७ ॥
ननु तत्र परमार्थकृत एव घटाकाशादिषु रूपकार्यादिभेदव्यवहार इति ; नैतदस्ति, यस्मात्परमार्थाकाशस्य घटाकाशो न विकारः, यथा सुवर्णस्य रुचकादिः, यथा वा अपां फेनबुद्बुदहिमादिः ; नाप्यवयवः, यथा वृक्षस्य शाखादिः । न तथा आकाशस्य घटाकाशो विकारावयवौ यथा, तथा नैवात्मनः परस्य परमार्थसतो महाकाशस्थानीयस्य घटाकाशस्थानीयो जीवः सदा सर्वदा यथोक्तदृष्टान्तवन्न विकारः, नाप्यवयवः । अत आत्मभेदकृतो व्यवहारो मृषैवेत्यर्थः ॥
यथा भवति बालानां गगनं मलिनं मलैः ।
तथा भवत्यबुद्धानामात्मापि मलिनो मलैः ॥ ८ ॥
यस्माद्यथा घटाकाशादिभेदबुद्धिनिबन्धनो रूपकार्यादिभेदव्यवहारः, तथा देहोपाधिजीवभेदकृतो जन्ममरणादिव्यवहारः, तस्मात्तत्कृतमेव क्लेशकर्मफलमलवत्त्वमात्मनः, न परमार्थत इत्येतमर्थं दृष्टान्तेन प्रतिपिपादयिषन्नाह — यथा भवति लोके बालानाम् अविवेकिनां गगनम् आकाशं घनरजोधूमादिमलैः मलिनं मलवत् , न गगनयाथात्म्यविवेकवताम् , तथा भवति आत्मा परोऽपि — यो विज्ञाता प्रत्यक् — क्लेशकर्मफलमलैर्मलिनः अबुद्धानां प्रत्यगात्मविवेकरहितानाम् , नात्मविवेकवताम् । न ह्यूषरदेशः तृड्वत्प्राण्यध्यारोपितोदकफेनतरङ्गादिमान् , तथा नात्मा अबुधारोपितक्लेशादिमलैः मलिनो भवतीत्यर्थः ॥
मरणे सम्भवे चैव गत्यागमनयोरपि ।
स्थितौ सर्वशरीरेषु चाकाशेनाविलक्षणः ॥ ९ ॥
पुनरप्युक्तमेवार्थं प्रपञ्चयति — घटाकाशजन्मनाशगमनागमनस्थितिवत्सर्वशरीरेष्वात्मनो जन्ममरणादिराकाशेनाविलक्षणः प्रत्येतव्य इत्यर्थः ॥
सङ्घाताः स्वप्नवत्सर्व आत्ममायाविसर्जिताः ।
आधिक्ये सर्वसाम्ये वा नोपपत्तिर्हि विद्यते ॥ १० ॥
घटादिस्थानीयास्तु देहादिसङ्घाताः स्वप्नदृश्यदेहादिवन्मायाविकृतदेहादिवच्च आत्ममायाविसर्जिताः, आत्मनो माया अविद्या, तया प्रत्युपस्थापिताः, न परमार्थतः सन्तीत्यर्थः । यदि आधिक्यमधिकभावः तिर्यग्देहाद्यपेक्षया देवादिकार्यकरणसङ्घातानाम् , यदि वा सर्वेषां समतैव, तेषां न ह्युपपत्तिसम्भवः, सम्भवप्रतिपादको हेतुः न विद्यते नास्ति ; हि यस्मात् , तस्मादविद्याकृता एव, न परमार्थतः सन्तीत्यर्थः ॥
रसादयो हि ये कोशा व्याख्यातास्तैत्तिरीयके ।
तेषामात्मा परो जीवः खं यथा सम्प्रकाशितः ॥ ११ ॥
उत्पत्त्यादिवर्जितस्याद्वयस्यास्यात्मतत्त्वस्य श्रुतिप्रमाणकत्वप्रदर्शनार्थं वाक्यान्युपन्यस्यन्ते — रसादयः अन्नरसमयः प्राणमय इत्येवमादयः कोशा इव कोशाः अस्यादेः, उत्तरोत्तरापेक्षया बहिर्भावात्पूर्वपूर्वस्य व्याख्याताः विस्पष्टमाख्याताः तैत्तिरीयके तैत्तिरीयकशाखोपनिषद्वल्ल्याम् , तेषां कोशानामात्मा येनात्मना पञ्चापि कोशा आत्मवन्तोऽन्तरतमेन । स हि सर्वेषां जीवननिमित्तत्वाज्जीवः । कोऽसावित्याह — पर एवात्मा यः पूर्वम् ‘सत्यं ज्ञानमनन्तं ब्रह्म’ (तै. उ. २ । १ । १) इति प्रकृतः ; यस्मादात्मनः स्वप्नमायादिवदाकाशादिक्रमेण रसादयः कोशलक्षणाः सङ्घाता आत्ममायाविसर्जिता इत्युक्तम् । स आत्मा अस्माभिः यथा खं तथेति सम्प्रकाशितः, ‘आत्मा ह्याकाशवत्’ (मा. का. ३ । ३) इत्यादिश्लोकैः । न तार्किकपरिकल्पितात्मवत्पुरुषबुद्धिप्रमाणगम्य इत्यभिप्रायः ॥
द्वयोर्द्वयोर्मधुज्ञाने परं ब्रह्म प्रकाशितम् ।
पृथिव्यामुदरे चैव यथाकाशः प्रकाशितः ॥ १२ ॥
किञ्च, अधिदैवतमध्यात्मं च तेजोमयोऽमृतमयः पुरुषः पृथिव्याद्यन्तर्गतो यो विज्ञाता पर एवात्मा ब्रह्म सर्वमिति द्वयोर्द्वयोः आ द्वैतक्षयात् परं ब्रह्म प्रकाशितम् ; क्वेत्याह — ब्रह्मविद्याख्यं मधु अमृतम् , अमृतत्वं मोदनहेतुत्वात् , तद्विज्ञायते यस्मिन्निति मधुज्ञानं मधुब्राह्मणम् , तस्मिन्नित्यर्थः । किमिवेत्याह — पृथिव्याम् उदरे चैव यथा एक आकाशः अनुमानेन प्रकाशितः लोके, तद्वदित्यर्थः ॥
जीवात्मनोरनन्यत्वमभेदेन प्रशस्यते ।
नानात्वं निन्द्यते यच्च तदेवं हि समञ्जसम् ॥ १३ ॥
यद्युक्तितः श्रुतितश्च निर्धारितं जीवस्य परस्य चात्मनोऽनन्यत्वम् अभेदेन प्रशस्यते स्तूयते शास्त्रेण व्यासादिभिश्च, यच्च सर्वप्राणिसाधारणं स्वाभाविकं शास्त्रबहिर्मुखैः कुतार्किकैर्विरचितं नानात्वदर्शनं निन्द्यते, ‘न तु तद्द्वितीयमस्ति’ (बृ. उ. ४ । ३ । २३) ‘द्वितीयाद्वै भयं भवति’ (बृ. उ. १ । ४ । २) ‘उदरमन्तरं कुरुते, अथ तस्य भयं भवति’ (तै. उ. २ । ७ । १) ‘इदं सर्वं यदयमात्मा’ (बृ. उ. २ । ४ । ६) ‘मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति’ (क. उ. २ । ४ । १०) इत्येवमादिवाक्यैरन्यैश्च ब्रह्मविद्भिः यच्चैतत् , तदेवं हि समञ्जसम् ऋज्ववबोधं न्याय्यमित्यर्थः । यास्तु तार्किकपरिकल्पिताः कुदृष्टयः, ताः अनृज्व्यो निरूप्यमाणा न घटनां प्राञ्चन्तीत्यभिप्रायः ॥
जीवात्मनोः पृथक्त्वं यत्प्रागुत्पत्तेः प्रकीर्तितम् ।
भविष्यद्वृत्त्या गौणं तन्मुख्यत्वं हि न युज्यते ॥ १४ ॥
ननु श्रुत्यापि जीवपरमात्मनोः पृथक्त्वं यत् प्रागुत्पत्तेः उत्पत्त्यर्थोपनिषद्वाक्येभ्यः पूर्वं प्रकीर्तितं कर्मकाण्डे अनेकशः कामभेदतः इदङ्कामः अदःकाम इति, परश्च ‘स दाधार पृथिवीं द्याम्’ (ऋ. १० । १२१ । १) इत्यादिमन्त्रवर्णैः ; तत्र कथं कर्मज्ञानकाण्डवाक्यविरोधे ज्ञानकाण्डवाक्यार्थस्यैवैकत्वस्य सामञ्जस्यमवधार्यत इति । अत्रोच्यते — ‘यतो वा इमानि भूतानि जायन्ते’ (तै. उ. ३ । १ । १) ‘यथाग्नेः क्षुद्रा विस्फुलिङ्गाः’ (बृ. उ. २ । १ । २०) ‘तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः’ (तै. उ. २ । १ । १) ‘तदैक्षत तत्तेजोऽसृजत’ (छा. उ. ६ । २ । ३) इत्याद्युत्पत्त्यर्थोपनिषद्वाक्येभ्यः प्राक्पृथक्त्वं कर्मकाण्डे प्रकीर्तितं यत् , तन्न परमार्थतः । किं तर्हि ? गौणम् ; महाकाशघटाकाशादिभेदवत् , यथा ओदनं पचतीति भविष्यद्वृत्त्या, तद्वत् । न हि भेदवाक्यानां कदाचिदपि मुख्यभेदार्थकत्वमुपपद्यते, स्वाभाविकाविद्यावत्प्राणिभेददृष्ट्यनुवादित्वादात्मभेदवाक्यानाम् । इह च उपनिषत्सु उत्पत्तिप्रलयादिवाक्यैर्जीवपरात्मनोरेकत्वमेव प्रतिपिपादयिषितम् ‘तत्त्वमसि’ (छा. उ. ६ । ८ । ७) ‘अन्योऽसावन्योऽहमस्मीति न स वेद’ (बृ. उ. १ । ४ । १०) इत्यादिभिः ; अत उपनिषत्स्वेकत्वं श्रुत्या प्रतिपिपादयिषितं भविष्यतीति भाविनीमिव वृत्तिमाश्रित्य लोके भेददृष्ट्यनुवादो गौण एवेत्यभिप्रायः । अथवा, ‘तदैक्षत. . . तत्तेजोऽसृजत’ (छा. उ. ६ । २ । ३) इत्याद्युत्पत्तेः प्राक् ‘एकमेवाद्वितीयम्’ (छा. उ. ६ । २ । २) इत्येकत्वं प्रकीर्तितम् ; तदेव च ‘तत्सत्यं स आत्मा, तत्त्वमसि’ (छा. उ. ६ । ८ । ७) इत्येकत्वं भविष्यतीति तां भविष्यद्वृत्तिमपेक्ष्य यज्जीवात्मनोः पृथक्त्वं यत्र क्वचिद्वाक्ये गम्यमानम् , तद्गौणम् ; यथा ओदनं पचतीति, तद्वत् ॥
मृल्लोहविस्फुलिङ्गाद्यैः सृष्टिर्या चोदितान्यथा ।
उपायः सोऽवताराय नास्ति भेदः कथञ्चन ॥ १५ ॥
ननु यद्युत्पत्तेः प्रागजं सर्वमेकमेवाद्वितीयम् , तथापि उत्पत्तेरूर्ध्वं जातमिदं सर्वं जीवाश्च भिन्ना इति । मैवम् , अन्यार्थत्वादुत्पत्तिश्रुतीनाम् । पूर्वमपि परिहृत एवायं दोषः — स्वप्नवदात्ममायाविसर्जिताः सङ्घाताः, घटाकाशोत्पत्तिभेदादिवज्जीवानामुत्पत्तिभेदादिरिति । इत एव उत्पत्तिभेदादिश्रुतिभ्य आकृष्य इह पुनरुत्पत्तिश्रुतीनामैदम्पर्यप्रतिपिपादयिषयोपन्यासः मृल्लोहविस्फुलिङ्गादिदृष्टान्तोपन्यासैः सृष्टिः या च उदिता प्रकाशिता कल्पिता अन्यथान्यथा च, स सर्वः सृष्टिप्रकारो जीवपरमात्मैकत्वबुद्ध्यवतारायोपायोऽस्माकम् , यथा प्राणसंवादे वागाद्यासुरपाप्मवेधाद्याख्यायिका कल्पिता प्राणवैशिष्ट्यबोधावताराय ; तदप्यसिद्धमिति चेत् ; न, शाखाभेदेष्वन्यथान्यथा च प्राणादिसंवादश्रवणात् । यदि हि वादः परमार्थ एवाभूत् , एकरूप एव संवादः सर्वशाखास्वश्रोष्यत, विरुद्धानेकप्रकारेण नाश्रोष्यत ; श्रूयते तु ; तस्मान्न तादर्थ्यं संवादश्रुतीनाम् । तथोत्पत्तिवाक्यानि प्रत्येतव्यानि । कल्पसर्गभेदात्संवादश्रुतीनामुत्पत्तिश्रुतीनां च प्रतिसर्गमन्यथात्वमिति चेत् ; न, निष्प्रयोजनत्वाद्यथोक्तबुद्ध्यवतारप्रयोजनव्यतिरेकेण । न ह्यन्यप्रयोजनवत्त्वं संवादोत्पत्तिश्रुतीनां शक्यं कल्पयितुम् । तथात्वप्रत्तिपत्तये ध्यानार्थमिति चेत् ; न, कलहोत्पत्तिप्रलयानां प्रतिपत्तेरनिष्टत्वात् । तस्मादुत्पत्त्यादिश्रुतय आत्मैकत्वबुद्ध्यवतारायैव, नान्यार्थाः कल्पयितुं युक्ताः । अतो नास्त्युत्पत्त्यादिकृतो भेदः कथञ्चन ॥
आश्रमास्त्रिविधा हीनमध्यमोत्कृष्टदृष्टयः ।
उपासनोपदिष्टेयं तदर्थमनुकम्पया ॥ १६ ॥
यदि हि पर एवात्मा नित्यशुद्धबुद्धमुक्तस्वभाव एकः परमार्थतः सन् ‘एकमेवाद्वितीयम्’ (छा. उ. ६ । २ । २) इत्यादिश्रुतिभ्यः, असदन्यत् , किमर्थेयमुपासनोपदिष्टा ‘आत्मा वा अरे द्रष्टव्यः’ (बृ. उ. २ । ४ । ५) ‘य आत्मापहतपाप्मा’ (छा. उ. ८ । ७ । १) ‘स क्रतुं कुर्वीत’ (छा. उ. ३ । १४ । १) ‘आत्मेत्येवोपासीत’ (बृ. उ. १ । ४ । ७) इत्यादिश्रुतिभ्यः, कर्माणि चाग्निहोत्रादीनि ? शृणु तत्र कारणम् — आश्रमाः आश्रमिणोऽधिकृताः, वर्णिनश्च मार्गगाः, आश्रमशब्दस्य प्रदर्शनार्थत्वात् , त्रिविधाः । कथम् ? हीनमध्यमोत्कृष्टदृष्टयः हीना निकृष्टा मध्यमा उत्कृष्टा च दृष्टिः दर्शनसामर्थ्यं येषां ते, मन्दमध्यमोत्तमबुद्धिसामर्थ्योपेता इत्यर्थः । उपासना उपदिष्टा इयं तदर्थं मन्दमध्यमदृष्ट्याश्रमाद्यर्थं कर्माणि च । न चात्मैक एवाद्वितीय इति निश्चितोत्तमदृष्ट्यर्थम् । दयालुना देवेनानुकम्पया सन्मार्गगाः सन्तः कथमिमामुत्तमामेकत्वदृष्टिं प्राप्नुयुरिति, ‘यन्मनसा न मनुते येनाहुर्मनो मतम् । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते’ (के. उ. १ । ५) ‘तत्त्वमसि’ (छा. उ. ६ । ८ । ७) ‘आत्मैवेदं सर्वम्’ (छा. उ. ७ । २५ । २) इत्यादिश्रुतिभ्यः ॥
स्वसिद्धान्तव्यवस्थासु द्वैतिनो निश्चिता दृढम् ।
परस्परं विरुध्यन्ते तैरयं न विरुध्यते ॥ १७ ॥
शास्त्रोपपत्तिभ्यामवधारितत्वादद्वयात्मदर्शनं सम्यग्दर्शनम् , तद्बाह्यत्वान्मिथ्यादर्शनमन्यत् । इतश्च मिथ्यादर्शनं द्वैतिनां रागद्वेषादिदोषास्पदत्वात् । कथम् ? स्वसिद्धान्तव्यवस्थासु स्वसिद्धान्तरचनानियमेषु कपिलकणादबुद्धार्हतादिदृष्ट्यनुसारिणो द्वैतिनो निश्चिताः, एवमेवैष परमार्थो नान्यथेति, तत्र तत्रानुरक्ताः प्रतिपक्षं चात्मनः पश्यन्तस्तं द्विषन्त इत्येवं रागद्वेषोपेताः स्वसिद्धान्तदर्शननिमित्तमेव परस्परम् अन्योन्यं विरुध्यन्ते । तैरन्योन्यविरोधिभिरस्मदीयोऽयं वैदिकः सर्वानन्यत्वादात्मैकत्वदर्शनपक्षो न विरुध्यते, यथा स्वहस्तपादादिभिः । एवं रागद्वेषादिदोषानास्पदत्वादात्मैकत्वबुद्धिरेव सम्यग्दर्शनमित्यभिप्रायः ॥
अद्वैतं परमार्थो हि द्वैतं तद्भेद उच्यते ।
तेषामुभयथा द्वैतं तेनायं न विरुध्यते ॥ १८ ॥
केन हेतुना तैर्न विरुध्यत इत्युच्यते — अद्वैतं परमार्थः, हि यस्मात् द्वैतं नानात्वं तस्याद्वैतस्य भेदः तद्भेदः, तस्य कार्यमित्यर्थः, ‘एकमेवाद्वितीयम्’ (छा. उ. ६ । २ । १) ‘तत्तेजोऽसृजत’ (छा. उ. ६ । २ । ३) इति श्रुतेः ; उपपत्तेश्च, स्वचित्तस्पन्दनाभावे समाधौ मूर्छायां सुषुप्तौ वा अभावात् । अतः तद्भेद उच्यते द्वैतम् । द्वैतिनां तु तेषां परमार्थतोऽपरमार्थतश्च उभयथापि द्वैतमेव ; यदि च तेषां भ्रान्तानां द्वैतदृष्टिः अस्माकमद्वैतदृष्टिरभ्रान्तानाम् , तेनायं हेतुना अस्मत्पक्षो न विरुध्यते तैः, ‘इन्द्रो मायाभिः’ (बृ. उ. २ । ५ । १९) ‘न तु तद्द्वितीयमस्ति’ (बृ. उ. ४ । ३ । २३) इति श्रुतेः । यथा मत्तगजारूढः उन्मत्तं भूमिष्ठम् ‘प्रतिगजारूढोऽहं गजं वाहय मां प्रति’ इति ब्रुवाणमपि तं प्रति न वाहयत्यविरोधबुद्ध्या, तद्वत् । ततः परमार्थतो ब्रह्मविदात्मैव द्वैतिनाम् । तेनायं हेतुना अस्मत्पक्षो न विरुध्यते तैः ॥
मायया भिद्यते ह्येतन्नान्यथाजं कथञ्चन ।
तत्त्वतो भिद्यमाने हि मर्त्यताममृतं व्रजेत् ॥ १९ ॥
द्वैतमद्वैतभेद इत्युक्ते द्वैतमप्यद्वैतवत्परमार्थसदिति स्यात्कस्यचिदाशङ्केत्यत आह — यत्परमार्थसदद्वैतम् , मायया भिद्यते ह्येतत् तैमिरिकानेकचन्द्रवत् रज्जुः सर्पधारादिभिर्भेदैरिव ; न परमार्थतः, निरवयवत्वादात्मनः । सावयवं ह्यवयवान्यथात्वेन भिद्यते, यथा मृत् घटादिभेदैः । तस्मान्निरवयवमजं नान्यथा कथञ्चन, केनचिदपि प्रकारेण न भिद्यत इत्यभिप्रायः । तत्त्वतो भिद्यमानं हि अमृतमजमद्वयं स्वभावतः सत् मर्त्यतां व्रजेत् , यथा अग्निः शीतताम् । तच्चानिष्टं स्वभाववैपरीत्यगमनम् , सर्वप्रमाणविरोधात् । अजमद्वयमात्मतत्त्वं माययैव भिद्यते, न परमार्थतः । तस्मान्न परमार्थसद्द्वैतम् ॥
अजातस्यैव भावस्य जातिमिच्छन्ति वादिनः ।
अजातो ह्यमृतो भावो मर्त्यतां कथमेष्यति ॥ २० ॥
ये तु पुनः केचिदुपनिषद्व्याख्यातारो ब्रह्मवादिनो वावदूकाः अजातस्यैव आत्मतत्त्वस्यामृतस्य स्वभावतो जातिम् उत्पत्तिम् इच्छन्ति परमार्थत एव, तेषां जातं चेत् , तदेव मर्त्यतामेष्यत्यवश्यम् । स च अजातो ह्यमृतो भावः स्वभावतः सन्नात्मा कथं मर्त्यतामेष्यति ? न कथञ्चन मर्त्यत्वं स्वभाववैपरीत्यमेष्यतीत्यर्थः ॥
न भवत्यमृतं मर्त्यं न मर्त्यममृतं तथा ।
प्रकृतेरन्यथाभावो न कथञ्चिद्भविष्यति ॥ २१ ॥
यस्मान्न भवति अमृतं मर्त्यं लोके नापि मर्त्यममृतं तथा, ततः प्रकृतेः स्वभावस्य अन्यथाभावः स्वतः प्रच्युतिः न कथञ्चिद्भविष्यति, अग्नेरिवौष्ण्यस्य ॥
स्वभावेनामृतो यस्य भावो गच्छति मर्त्यताम् ।
कृतकेनामृतस्तस्य कथं स्थास्यति निश्चलः ॥ २२ ॥
यस्य पुनर्वादिनः स्वभावेन अमृतो भावः मर्त्यतां गच्छति परमार्थतो जायते, तस्य प्रागुत्पत्तेः स भावः स्वभावतोऽमृत इति प्रतिज्ञा मृषैव । कथं तर्हि ? कृतकेनामृतः तस्य स्वभावः । कृतकेनामृतः स कथं स्थास्यति निश्चलः ? अमृतस्वभावतया न कथञ्चित्स्थास्यति । आत्मजातिवादिनः सर्वथा अजं नाम नास्त्येव । सर्वमेतन्मर्त्यम् ; अतः अनिर्मोक्षप्रसङ्ग इत्यभिप्रायः ॥
भूततोऽभूततो वापि सृज्यमाने समा श्रुतिः ।
निश्चितं युक्तियुक्तं च यत्तद्भवति नेतरत् ॥ २३ ॥
नन्वजातिवादिनः सृष्टिप्रतिपादिका श्रुतिर्न सङ्गच्छते । बाढम् ; विद्यते सृष्टिप्रतिपादिका श्रुतिः ; सा त्वन्यपरा, ‘उपायः सोऽवतारय’ (मा. का. ३ । १५) इत्यवोचाम । इदानीमुक्तेऽपि परिहारे पुनश्चोद्यपरिहारौ विवक्षितार्थं प्रति सृष्टिश्रुत्यक्षराणामानुलोम्यविरोधशङ्कामात्रपरिहारार्थौ । भूततः परमार्थतः सृज्यमाने वस्तुनि, अभूततः मायया वा मायाविनेव सृज्यमाने वस्तुनि समा तुल्या सृष्टिश्रुतिः । ननु गौणमुख्ययोर्मुख्ये शब्दार्थप्रतिपत्तिर्युक्ता ; न, अन्यथासृष्टेरप्रसिद्धत्वान्निष्प्रयोजनत्वाच्च इत्यवोचाम । अविद्यासृष्टिविषयैव सर्वा गौणी मुख्या च सृष्टिः, न परमार्थतः, ‘सबाह्याभ्यन्तरो ह्यजः’ (मु. उ. २ । १ । २) इति श्रुतेः । तस्मात् श्रुत्या निश्चितं यत् एकमेवाद्वितीयमजममृतमिति, युक्तियुक्तं च युक्त्या च सम्पन्नम् , तदेवेत्यवोचाम पूर्वैर्ग्रन्थैः ; तदेव श्रुत्यर्थो भवति, नेतरत्कदाचिदपि क्वचिदपि ॥
नेह नानेति चाम्नायादिन्द्रो मायाभिरित्यपि ।
अजायमानो बहुधा जायते मायया तु सः ॥ २४ ॥
कथं श्रुतिनिश्चय इत्याह — यदि हि भूतत एव सृष्टिः स्यात् , ततः सत्यमेव नानावस्त्विति तदभावप्रदर्शनार्थ आम्नायो न स्यात् ; अस्ति च ‘नेह नानास्ति किञ्चन’ (क. उ. २ । १ । ११) इत्याम्नायो द्वैतभावप्रतिषेधार्थः ; तस्मादात्मैकत्वप्रतिपत्त्यर्था कल्पिता सृष्टिरभूतैव प्राणसंवादवत् । ‘इन्द्रो मायाभिः’ (बृ. उ. २ । ५ । १९) इत्यभूतार्थप्रतिपादकेन मायाशब्देन व्यपदेशात् । ननु प्रज्ञावचनो मायाशब्दः ; सत्यम् , इन्द्रियप्रज्ञाया अविद्यामयत्वेन मायात्वाभ्युपगमाददोषः । मायाभिः इन्द्रियप्रज्ञाभिरविद्यारूपाभिरित्यर्थः । ‘अजायमानो बहुधा विजायते’ (तै. आ. ३ । १३) इति श्रुतेः । तस्मात् जायते मायया तु सः ; तु —शब्दोऽवधारणार्थः माययैवेति । न ह्यजायमानत्वं बहुधाजन्म च एकत्र सम्भवति, अग्नाविव शैत्यमौष्ण्यं च । फलवत्त्वाच्चात्मैकत्वदर्शनमेव श्रुतिनिश्चितोऽर्थः, ‘तत्र को मोहः कः शोक एकत्वमनुपश्यतः’ (ई. उ. ७) इत्यादिमन्त्रवर्णात् ‘मृत्योः स मृत्युमाप्नोति’ (क. उ. २ । ४ । १०) इति निन्दितत्वाच्च सृष्ट्यादिभेददृष्टेः ॥
सम्भूतेरपवादाच्च सम्भवः प्रतिषिध्यते ।
को न्वेनं जनयेदिति कारणं प्रतिषिध्यते ॥ २५ ॥
‘अन्धं तमः प्रविशन्ति ये सम्भूतिमुपासते’ (ई. मा. ९) इति सम्भूतेरुपास्यत्वापवादात्सम्भवः प्रतिषिध्यते ; न हि परमार्थसद्भूतायां सम्भूतौ तदपवाद उपपद्यते । ननु विनाशेन सम्भूतेः समुच्चयविधानार्थः सम्भूत्यपवादः, यथा ‘अन्धं तमः प्रविशन्ति येऽविद्यामुपासते’ (ई. मा. १२) इति । सत्यमेव, देवतादर्शनस्य सम्भूतिविषयस्य विनाशशब्दवाच्यस्य च कर्मणः समुच्चयविधानार्थः सम्भूत्यपवादः ; तथापि विनाशाख्यस्य कर्मणः स्वाभाविकाज्ञानप्रवृत्तिरूपस्य मृत्योरतितरणार्थत्ववत् देवतादर्शनकर्मसमुच्चयस्य पुरुषसंस्कारार्थस्य कर्मफलरागप्रवृत्तिरूपस्य साध्यसाधनैषणाद्वयलक्षणस्य मृत्योरतितरणार्थत्वम् । एवं ह्येषणाद्वयरूपान्मृत्योरशुद्धेर्वियुक्तः पुरुषः संस्कृतः स्यात् । अतो मृत्योरतितरणार्था देवतादर्शनकर्मसमुच्चयलक्षणा ह्यविद्या । एवमेव एषणाद्वयलक्षणाविद्याया मृत्योरतितीर्णस्य विरक्तस्योपनिषच्छास्त्रार्थालोचनपरस्य नान्तरीयिका परमात्मैकत्वविद्योत्पत्तिरिति पूर्वभाविनीमविद्यामपेक्ष्य पश्चाद्भाविनी ब्रह्मविद्या अमृतत्वसाधना एकेन पुरुषेण सम्बध्यमाना अविद्यया समुच्चीयत इत्युच्यते । अतः अन्यार्थत्वादमृतत्वसाधनं ब्रह्मविद्यामपेक्ष्य, निन्दार्थ एव भवति सम्भूत्यपवादः यद्यप्यशुद्धिवियोगहेतुः अतन्निष्ठत्वात् । अत एव सम्भूतेरपवादात्सम्भूतेरापेक्षिकमेव सत्त्वमिति परमार्थसदात्मैकत्वमपेक्ष्य अमृताख्यः सम्भवः प्रतिषिध्यते । एवं मायानिर्मितस्यैव जीवस्य अविद्यया प्रत्युपस्थापितस्य अविद्यानाशे स्वभावरूपत्वात्परमार्थतः को न्वेनं जनयेत् ? न हि रज्ज्वामविद्याध्यारोपितं सर्पं पुनर्विवेकतो नष्टं जनयेत्कश्चित् ; तथा न कश्चिदेनं जनयेदिति । को न्वित्याक्षेपार्थत्वात्कारणं प्रतिषिध्यते । अविद्योद्भूतस्य नष्टस्य जनयितृ कारणं न किञ्चिदस्तीत्यभिप्रायः ; ‘नायं कुतश्चिन्न बभूव कश्चित्’ (क. उ. १ । २ । १८) इति श्रुतेः ॥
स एष नेति नेतीति व्याख्यातं निह्नुते यतः ।
सर्वमग्राह्यभावेन हेतुनाजं प्रकाशते ॥ २६ ॥
सर्वविशेषप्रतिषेधेन ‘अथात आदेशो नेति नेति’ (बृ. उ. २ । ३ । ६) इति प्रतिपादितस्यात्मनो दुर्बोधत्वं मन्यमाना श्रुतिः पुनः पुनरुपायान्तरत्वेन तस्यैव प्रतिपिपादयिषया यद्यद्व्याख्यातं तत्सर्वं निह्नुते । ग्राह्यं जनिमद्बुद्धिविषयमपलपत्यर्थात् ‘स एष नेति नेति’ (बृ. उ. ३ । ९ । २६), (बृ. उ. ४ । २ । ४), (बृ. उ. ४ । ४ । २२), (बृ. उ. ४ । ५ । १५) इत्यात्मनोऽदृश्यतां दर्शयन्ती श्रुतिः । उपायस्योपेयनिष्ठतामजानत उपायत्वेन व्याख्यातस्य उपेयवद्ग्राह्यता मा भूदिति अग्राह्यभावेन हेतुना कारणेन निह्नुत इत्यर्थः । ततश्चैवमुपायस्योपेयनिष्ठतामेव जानत उपेयस्य च नित्यैकरूपत्वमिति तस्य सबाह्याभ्यन्तरमजमात्मतत्त्वं प्रकाशते स्वयमेव ॥
सतो हि मायया जन्म युज्यते न तु तत्त्वतः ।
तत्त्वतो जायते यस्य जातं तस्य हि जायते ॥ २७ ॥
एवं हि श्रुतिवाक्यशतैः सबाह्याभ्यन्तरमजमात्मतत्त्वमद्वयं न ततोऽन्यदस्तीति निश्चितमेतत् । युक्त्या चाधुनैतदेव पुनर्निर्धार्यत इत्याह — तत्रैतत्स्यात् सदा अग्राह्यमेव चेदसदेवात्मतत्त्वमिति ; तन्न, कार्यग्रहणात् । यथा सतो मायाविनः मायया जन्म कार्यम् , एवं जगतो जन्म कार्यं गृह्यमाणं मायाविनमिव परमार्थसन्तमात्मानं जगज्जन्म मायास्पदमेव गमयति । यस्मात् सतो हि विद्यमानात्कारणात् मायानिर्मितस्य हस्त्यादिकार्यस्येव जगज्जन्म युज्यते, नासतः कारणात् । न तु तत्त्वत एव आत्मनो जन्म युज्यते । अथवा, सतः विद्यमानस्य वस्तुनो रज्ज्वादेः सर्पादिवत् मायया जन्म युज्यते न तु तत्त्वतो यथा, तथा अग्राह्यस्यापि सत एवात्मनो रज्जुसर्पवज्जगद्रूपेण मायया जन्म युज्यते । न तु तत्त्वत एवाजस्यात्मनो जन्म । यस्य पुनः परमार्थसदजमात्मतत्त्वं जगद्रूपेण जायते वादिनः, न हि तस्य अजं जायत इति शक्यं वक्तुम् , विरोधात् । ततः तस्यार्थाज्जातं जायत इत्यापन्नम् । ततश्चानवस्थापाताज्जायमानत्वं न । तस्मादजमेकमेवात्मतत्त्वमिति सिद्धम् ॥
असतो मायया जन्म तत्त्वतो नैव युज्यते ।
वन्ध्यापुत्रो न तत्त्वेन मायया वापि जायते ॥ २८ ॥
असद्वादिनाम् असतो भावस्य मायया तत्त्वतो वा न कथञ्चन जन्म युज्यते, अदृष्टत्वात् । न हि वन्ध्यापुत्रो मायया तत्त्वतो वा जायते । तस्मादत्रासद्वादो दूरत एवानुपपन्न इत्यर्थः ॥
यथा स्वप्ने द्वयाभासं स्पन्दते मायया मनः ।
तथा जाग्रद्द्वयाभासं स्पन्दते मायया मनः ॥ २९ ॥
कथं पुनः सतो माययैव जन्मेत्युच्यते — यथा रज्ज्वां विकल्पितः सर्पो रज्जुरूपेणावेक्ष्यमाणः सन् , एवं मनः परमात्मविज्ञप्त्यात्मरूपेणावेक्ष्यमाणं सत् ग्राह्यग्राहकरूपेण द्वयाभासं स्पन्दते स्वप्ने मायया, रज्ज्वामिव सर्पः ; तथा तद्वदेव जाग्रत् जागरिते स्पन्दते मायया मनः, स्पन्दत इवेत्यर्थः ॥
अद्वयं च द्वयाभासं मनः स्वप्ने न संशयः ।
अद्वयं च द्वयाभासं तथा जाग्रन्न संशयः ॥ ३० ॥
रज्जुरूपेण सर्प इव परमार्थत आत्मरूपेण अद्वयं सत् द्वयाभासं मनः स्वप्ने, न संशयः । न हि स्वप्ने हस्त्यादि ग्राह्यं तद्ग्राहकं वा चक्षुरादि, द्वयं विज्ञानव्यतिरेकेणास्ति ; जाग्रदपि तथैवेत्यर्थः ; परमार्थसद्विज्ञानमात्राविशेषात् ॥
मनोदृश्यमिदं द्वैतं यत्किञ्चित्सचराचरम् ।
मनसो ह्यमनीभावे द्वैतं नैवोपलभ्यते ॥ ३१ ॥
रज्जुसर्पवद्विकल्पनारूपं द्वैतरूपेण मन एवेत्युक्तम् । तत्र किं प्रमाणमिति, अन्वयव्यतिरेकलक्षणमनुमानमाह । कथम् ? तेन हि मनसा विकल्प्यमानेन दृश्यं मनोदृश्यम् इदं द्वैतं सर्वं मन इति प्रतिज्ञा, तद्भावे भावात् तदभावे चाभावात् । मनसो हि अमनीभावे निरुद्धे विवेकदर्शनाभ्यासवैराग्याभ्यां रज्ज्वामिव सर्पे लयं गते वा सुषुप्ते द्वैतं नैवोपलभ्यत इति अभावात्सिद्धं द्वैतस्यासत्त्वमित्यर्थः ॥
आत्मसत्यानुबोधेन न सङ्कल्पयते यदा ।
अमनस्तां तदा याति ग्राह्याभावे तदग्रहम् ॥ ३२ ॥
कथं पुनरयममनीभाव इत्युच्यते — आत्मैव सत्यमात्मसत्यम् , मृत्तिकावत् , ‘वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्’ (छा. उ. ६ । १ । ४) इति श्रुतेः । तस्य शास्त्राचार्योपदेशमन्ववबोध आत्मसत्यानुबोधः । तेन सङ्कल्प्याभावात्तन्न सङ्कल्पयते दाह्याभावे ज्वलनमिवाग्नेः यदा यस्मिन्काले, तदा तस्मिन्काले अमनस्ताम् अमनोभावं याति ; ग्राह्याभावे तत् मनः अग्रहं ग्रहणविकल्पनावर्जितमित्यर्थः ॥
अकल्पकमजं ज्ञानं ज्ञेयाभिन्नं प्रचक्षते ।
ब्रह्म ज्ञेयमजं नित्यमजेनाजं विबुध्यते ॥ ३३ ॥
यद्यसदिदं द्वैतम् , केन समञ्जसमात्मतत्त्वं विबुध्यत इति, उच्यते — अकल्पकं सर्वकल्पनावर्जितम् , अत एव अजं ज्ञानं ज्ञप्तिमात्रं ज्ञेयेन परमार्थसता ब्रह्मणा अभिन्नं प्रचक्षते कथयन्ति ब्रह्मविदः । ‘न हि विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यते’ (बृ. उ. ४ । ३ । ३०) अग्न्युष्णवत् , ‘विज्ञानमानन्दं ब्रह्म’ (बृ. उ. ३ । ९ । २८) ‘सत्यं ज्ञानमनन्तं ब्रह्म’ (तै. उ. २ । १ । १) इत्यादिश्रुतिभ्यः । तस्यैव विशेषणम् — ब्रह्म ज्ञेयं यस्य, स्वस्थं तदिदं ब्रह्म ज्ञेयम् औष्ण्यस्येवाग्निवदभिन्नम् , तेन आत्मस्वरूपेण अजेन ज्ञानेन अजं ज्ञेयमात्मतत्त्वं स्वयमेव विबुध्यते अवगच्छति । नित्यप्रकाशस्वरूप इव सविता नित्यविज्ञानैकरसघनत्वान्न ज्ञानान्तरमपेक्षत इत्यर्थः ॥
निगृहीतस्य मनसो निर्विकल्पस्य धीमतः ।
प्रचारः स तु विज्ञेयः सुषुप्तेऽन्यो न तत्समः ॥ ३४ ॥
आत्मसत्यानुबोधेन सङ्कल्पमकुर्वत् बाह्यविषयाभावे निरिन्धनाग्निवत्प्रशान्तं सत् निगृहीतं निरुद्धं मनो भवतीत्युक्तम् । एवं च मनसो ह्यमनीभावे द्वैताभावश्चोक्तः । तस्यैवं निगृहीतस्य निरुद्धस्य मनसः निर्विकल्पस्य सर्वकल्पनावर्जितस्य धीमतः विवेकवतः प्रचरणं प्रचारो यः, स तु प्रचारः विशेषेण ज्ञेयो विज्ञेयो योगिभिः । ननु सर्वप्रत्ययाभावे यादृशः सुषुप्तिस्थस्य मनसः प्रचारः, तादृश एव निरुद्धस्यापि, प्रत्ययाभावाविशेषात् ; किं तत्र विज्ञेयमिति । अत्रोच्यते — नैवम् , यस्मात्सुषुप्ते अन्यः प्रचारोऽविद्यामोहतमोग्रस्तस्य अन्तर्लीनानेकानर्थप्रवृत्तिबीजवासनावतो मनसः आत्मसत्यानुबोधहुताशविप्लुष्टाविद्याद्यनर्थप्रवृत्तिबीजस्य निरुद्धस्य अन्य एव प्रशान्तसर्वक्लेशरजसः स्वतन्त्रः प्रचारः । अतो न तत्समः । तस्माद्युक्तः स विज्ञातुमित्यभिप्रायः ॥
लीयते हि सुषुप्तौ तन्निगृहीतं न लीयते ।
तदेव निर्भयं ब्रह्म ज्ञानालोकं समन्ततः ॥ ३५ ॥
प्रचारभेदे हेतुमाह — लीयते सुषुप्तौ हि यस्मात्सर्वाभिरविद्यादिप्रत्ययबीजवासनाभिः सह तमोरूपम् अविशेषरूपं बीजभावमापद्यते तद्विवेकविज्ञानपूर्वकं निगृहीतं निरुद्धं सत् न लीयते तमोबीजभावं नापद्यते । तस्माद्युक्तः प्रचारभेदः सुषुप्तस्य समाहितस्य मनसः । यदा ग्राह्यग्राहकाविद्याकृतमलद्वयवर्जितम् , तदा परमद्वयं ब्रह्मैव तत्संवृत्तमित्यतः तदेव निर्भयम् , द्वैतग्रहणस्य भयनिमित्तस्याभावात् । शान्तमभयं ब्रह्म यद्विद्वान्न बिभेति कुतश्चन । तदेव विशेष्यते — ज्ञप्तिर्ज्ञानम् आत्मस्वभावचैतन्यम् , तदेव ज्ञानमालोकः प्रकाशो यस्य, तद्ब्रह्म ज्ञानालोकं विज्ञानैकरसघनमित्यर्थः । समन्ततः समन्तात् ; सर्वतो व्योमवन्नैरन्तर्येण व्यापकमित्यर्थः ॥
अजमनिद्रमस्वप्नमनामकमरूपकम् ।
सकृद्विभातं सर्वज्ञं नोपचारः कथञ्चन ॥ ३६ ॥
जन्मनिमित्ताभावात्सबाह्याभ्यन्तरम् अजम् ; अविद्यानिमित्तं हि जन्म रज्जुसर्पवदित्यवोचाम । सा चाविद्या आत्मसत्यानुबोधेन निरुद्धा यतः, अतः अजम् , अत एव अनिद्रम् अविद्यालक्षणानादिर्मायानिद्रास्वापात्प्रबुद्धम् अद्वयस्वरूपेणात्मना ; अतः अस्वप्नम् । अप्रबोधकृते ह्यस्य नामरूपे ; प्रबोधाच्च ते रज्जुसर्पवद्विनष्टे । न नाम्नाभिधीयते ब्रह्म, रूप्यते वा न केनचित्प्रकारेण इति अनामकम् अरूपकं च तत् , ‘यतो वाचो निवर्तन्ते’ (तै. उ. २ । ४ । १) इत्यादिश्रुतेः । किञ्च, सकृद्विभातं सदैव विभातं सदा भारूपम् , अग्रहणान्यथाग्रहणाविर्भावतिरोभाववर्जितत्वात् । ग्रहणाग्रहणे हि रात्र्यहनी ; तमश्चाविद्यालक्षणं सदा अप्रभातत्वे कारणम् ; तदभावान्नित्यचैतन्यभारूपत्वाच्च युक्तं सकृद्विभातमिति । अत एव सर्वं च तत् ज्ञप्तिस्वरूपं चेति सर्वज्ञम् । नेह ब्रह्मण्येवंविधे उपचरणमुपचारः कर्तव्यः, यथा अन्येषामात्मस्वरूपव्यतिरेकेण समाधानाद्युपचारः । नित्यशुद्धबुद्धमुक्तस्वभावत्वाद्ब्रह्मणः कथञ्चन न कथञ्चिदपि कर्तव्यसम्भवः अविद्यानाशे इत्यर्थः ॥
सर्वाभिलापविगतः सर्वचिन्तासमुत्थितः ।
सुप्रशान्तः सकृज्ज्योतिः समाधिरचलोऽभयः ॥ ३७ ॥
अनामकत्वाद्युक्तार्थसिद्धये हेतुमाह — अभिलप्यते अनेनेति अभिलापः वाक्करणं सर्वप्रकारस्याभिधानस्य, तस्माद्विगतः ; वागत्रोपलक्षणार्था, सर्वबाह्यकरणवर्जित इत्येतत् । तथा, सर्वचिन्तासमुत्थितः, चिन्त्यते अनयेति चिन्ता बुद्धिः, तस्याः समुत्थितः, अन्तःकरणविवर्जित इत्यर्थः, ‘अप्राणो ह्यमनाः शुभ्रः अक्षरात्परतः परः’ (मु. उ. २ । १ । २) इत्यादिश्रुतेः । यस्मात्सर्वविषयवर्जितः, अतः सुप्रशान्तः । सकृज्ज्योतिः सदैव ज्योतिः आत्मचैतन्यस्वरूपेण । समाधिः समाधिनिमित्तप्रज्ञावगम्यत्वात् ; समाधीयते अस्मिन्निति वा समाधिः । अचलः अविक्रियः । अत एव अभयः विक्रियाभावात् ॥
ग्रहो न तत्र नोत्सर्गश्चिन्ता यत्र न विद्यते ।
आत्मसंस्थं तदा ज्ञानमजाति समतां गतम् ॥ ३८ ॥
यस्माद्ब्रह्मैव ‘समाधिरचलोऽभयः’ इत्युक्तम् , अतः न तत्र तस्मिन्ब्रह्मणि ग्रहः ग्रहणमुपादानम् , न उत्सर्गः उत्सर्जनं हानं वा विद्यते । यत्र हि विक्रिया तद्विषयत्वं वा, तत्र हानोपादाने स्याताम् ; न तद्द्वयमिह ब्रह्मणि सम्भवति, विकारहेतोरन्यस्याभावान्निरवयवत्वाच्च ; अतो न तत्र हानोपादाने सम्भवतः । चिन्ता यत्र न विद्यते, सर्वप्रकारैव चिन्ता न सम्भवति यत्र अमनस्त्वात् , कुतस्तत्र हानोपादाने इत्यर्थः । यदैव आत्मसत्यानुबोधो जातः, तदैव आत्मसंस्थं विषयाभावादग्न्युष्णवदात्मन्येव स्थितं ज्ञानम् , अजाति जातिवर्जितम् , समतां गतम् परं साम्यमापन्नं भवति । यदादौ प्रतिज्ञातम् ‘अतो वक्ष्याम्यकार्पण्यमजाति समतां गतम्’ (मा. का. ३ । २) इति, इदं तदुपपत्तितः शास्त्रतश्चोक्तमुपसंह्रियते — अजाति समतां गतमिति । एतस्मादात्मसत्यानुबोधात्कार्पण्यविषयमन्यत् , ‘यो वा एतदक्षरं गार्ग्यविदित्वास्माल्लोकात्प्रैति स कृपणः’ (बृ. उ. ३ । ८ । १०) इति श्रुतेः । प्राप्यैतत्सर्वः कृतकृत्यो ब्राह्मणो भवतीत्यभिप्रायः ॥
अस्पर्शयोगो वै नाम दुर्दर्शः सर्वयोगिणाम् ।
योगिनो बिभ्यति ह्यस्मादभये भयदर्शिनः ॥ ३९ ॥
यद्यपीदमित्थं परमार्थतत्त्वम् , अस्पर्शयोगो नाम अयं सर्वसम्बन्धाख्यस्पर्शवर्जितत्वात् अस्पर्शयोगो नाम वै स्मर्यते प्रसिद्ध उपनिषत्सु । दुःखेन दृश्यत इति दुर्दर्शः सर्वयोगिणाम् वेदान्तविज्ञानरहितानाम् ; आत्मसत्यानुबोधायासलभ्य एवेत्यर्थः । योगिनः बिभ्यति हि अस्मात्सर्वभयवर्जितादपि आत्मनाशरूपमिमं योगं मन्यमाना भयं कुर्वन्ति, अभये अस्मिन् भयदर्शिनः भयनिमित्तात्मनाशदर्शनशीलाः अविवेकिनः इत्यर्थः ॥
मनसो निग्रहायत्तमभयं सर्वयोगिणाम् ।
दुःखक्षयः प्रबोधश्चाप्यक्षया शान्तिरेव च ॥ ४० ॥
येषां पुनर्ब्रह्मस्वरूपव्यतिरेकेण रज्जुसर्पवत्कल्पितमेव मन इन्द्रियादि च न परमार्थतो विद्यते, तेषां ब्रह्मस्वरूपाणामभयं मोक्षाख्या च अक्षया शान्तिः स्वभावत एव सिद्धा, नान्यायत्ता, ‘नोपचारः कथञ्चन’ (मा. का. ३ । ३६) इत्युक्तेः ; ये त्वतोऽन्ये योगिनो मार्गगा हीनमध्यमदृष्टयो मनोऽन्यदात्मव्यतिरिक्तमात्मसम्बन्धि पश्यन्ति, तेषामात्मसत्यानुबोधरहितानां मनसो निग्रहायत्तमभयं सर्वेषां योगिनाम् । किञ्च, दुःखक्षयोऽपि । न ह्यात्मसम्बन्धिनि मनसि प्रचलिते दुःखक्षयोऽस्त्यविवेकिनाम् । किञ्च, आत्मप्रबोधोऽपि मनोनिग्रहायत्त एव । तथा, अक्षयापि मोक्षाख्या शान्तिस्तेषां मनोनिग्रहायत्तैव ॥
उत्सेक उदधेर्यद्वत्कुशाग्रेणैकबिन्दुना ।
मनसो निग्रहस्तद्वद्भवेदपरिखेदतः ॥ ४१ ॥
मनोनिग्रहोऽपि तेषाम् उदधेः कुशाग्रेण एकबिन्दुना उत्सेचनेन शोषणव्यवसायवत् व्यवसायवतामनवसन्नान्तःकरणानामनिर्वेदात् अपरिखेदतः भवतीत्यर्थः ॥
उपायेन निगृह्णीयाद्विक्षिप्तं कामभोगयोः ।
सुप्रसन्नं लये चैव यथा कामो लयस्तथा ॥ ४२ ॥
किमपरिखिन्नव्यवसायमात्रमेव मनोनिग्रहे उपायः ? नेत्युच्यते ; अपरिखिन्नव्यवसायवान्सन् , वक्ष्यमाणेनोपायेन कामभोगविषयेषु विक्षिप्तं मनो निगृह्णीयात् निरुन्ध्यादात्मन्येवेत्यर्थः । किञ्च, लीयतेऽस्मिन्निति सुषुप्तो लयः ; तस्मिन् लये च सुप्रसन्नम् आयासवर्जितमपीत्येतत् , निगृह्णीयादित्यनुवर्तते । सुप्रसन्नं चेत्कस्मान्निगृह्यत इति, उच्यते ; यस्मात् यथा कामः अनर्थहेतुः, तथा लयोऽपि ; अतः कामविषयस्य मनसो निग्रहवल्लयादपि निरोद्धव्यत्वमित्यर्थः ॥
दुःखं सर्वमनुस्मृत्य कामभोगान्निवर्तयेत् ।
अजं सर्वमनुस्मृत्य जातं नैव तु पश्यति ॥ ४३ ॥
कः स उपाय इति, उच्यते — सर्वं द्वैतमविद्याविजृम्भितं दुःखमेव इत्यनुस्मृत्य कामभोगात् कामनिमित्तो भोगः इच्छाविषयः तस्मात् विप्रसृतं मनो निवर्तयेत् वैराग्यभावनयेत्यर्थः । अजं ब्रह्म सर्वम् इत्येतच्छास्त्राचार्योपदेशतः अनुस्मृत्य तद्विपरीतं द्वैतजातं नैव तु पश्यति अभावात् ॥
लये सम्बोधयेच्चित्तं विक्षिप्तं शमयेत्पुनः ।
सकषायं विजानीयात्समप्राप्तं न चालयेत् ॥ ४४ ॥
एवमनेन ज्ञानाभ्यासवैराग्यद्वयोपायेन लये सुषुप्ते लीनं सम्बोधयेत् मनः आत्मविवेकदर्शनेन योजयेत् । चित्तं मन इत्यनर्थान्तरम् । विक्षिप्तं च कामभोगेषु शमयेत्पुनः । एवं पुनः पुनरभ्यासतो लयात्सम्बोधितं विषयेभ्यश्च व्यावर्तितम् , नापि साम्यापन्नमन्तरालावस्थं सकषायं सरागं बीजसंयुक्तं मन इति विजानीयात् । ततोऽपि यत्नतः साम्यमापादयेत् । यदा तु समप्राप्तं भवति, समप्राप्त्यभिमुखीभवतीत्यर्थः ; ततः तत् न चालयेत् , विषयाभिमुखं न कुर्यादित्यर्थः ॥
नास्वादयेत्सुखं तत्र निःसङ्गः प्रज्ञया भवेत् ।
निश्चलं निश्चरच्चित्तमेकीकुर्यात्प्रयत्नतः ॥ ४५ ॥
समाधित्सतो योगिनो यत्सुखं जायते, तत् नास्वादयेत् तत्र न रज्येतेत्यर्थः । कथं तर्हि ? निःसङ्गः निःस्पृहः प्रज्ञया विवेकबुद्ध्या यदुपलभ्यते सुखम् , तदविद्यापरिकल्पितं मृषैवेति विभावयेत् ; ततोऽपि सुखरागान्निगृह्णीयादित्यर्थः । यदा पुनः सुखरागान्निवृत्तं निश्चलस्वभावं सत् निश्चरत् बहिर्निर्गच्छद्भवति चित्तम् , ततस्ततो नियम्य उक्तोपायेन आत्मन्येव एकीकुर्यात् प्रयत्नतः । चित्स्वरूपसत्तामात्रमेवापादयेदित्यर्थः ॥
यदा न लीयते चित्तं न च विक्षिप्यते पुनः ।
अनिङ्गनमनाभासं निष्पन्नं ब्रह्म तत्तदा ॥ ४६ ॥
यथोक्तेनोपायेन निगृहीतं चित्तं यदा सुषुप्ते न लीयते, न च पुनर्विषयेषु विक्षिप्यते ; अनिङ्गनम् अचलं निवातप्रदीपकल्पम् , अनाभासं न केनचित्कल्पितेन विषयभावेनावभासते इति ; यदा एवंलक्षणं चित्तम् , तदा निष्पन्नं ब्रह्म ; ब्रह्मस्वरूपेण निष्पन्नं चित्तं भवतीत्यर्थः ॥ स्वस्थं शान्तं सनिर्वाणमकथ्यं सुखमुत्तमम् ।
अजमजेन ज्ञेयेन सर्वज्ञं परिचक्षते ॥ ४७ ॥
यथोक्तं परमार्थसुखमात्मसत्यानुबोधलक्षणं स्वस्थं स्वात्मनि स्थितम् ; शान्तं सर्वानर्थोपशमरूपम् ; सनिर्वाणम् , निर्वृतिर्निर्वाणं कैवल्यम् , सह निर्वाणेन वर्तते ; तच्च अकथ्यं न शक्यते कथयितुम् , अत्यन्तासाधारणविषयत्वात् ; सुखमुत्तमं निरतिशयं हि तद्योगिप्रत्यक्षमेव ; न जातमिति अजम् , यथा विषयविषयम् ; अजेन अनुत्पन्नेन ज्ञेयेन अव्यतिरिक्तं सत् स्वेन सर्वज्ञरूपेण सर्वज्ञं ब्रह्मैव सुखं परिचक्षते कथयन्ति ब्रह्मविदः ॥
न कश्चिज्जायते जीवः सम्भवोऽस्य न विद्यते ।
एतत्तदुत्तमं सत्यं यत्र किञ्चिन्न जायते ॥ ४८ ॥
सर्वोऽप्ययं मनोनिग्रहादिः मृल्लोहादिवत्सृष्टिरुपासना च उक्ता परमार्थस्वरूपप्रतिपत्त्युपायत्वेन, न परमार्थसत्येति । परमार्थसत्यं तु न कश्चिज्जायते जीवः कर्ता भोक्ता च नोत्पद्यते केनचिदपि प्रकारेण । अतः स्वभावतः अजस्य अस्य एकस्यात्मनः सम्भवः कारणं न विद्यते नास्ति । यस्मान्न विद्यतेऽस्य कारणम् , तस्मान्न कश्चिज्जायते जीव इत्येतत् । पूर्वेषूपायत्वेनोक्तानां सत्यानाम् एतत् उत्तमं सत्यं यस्मिन्सत्यस्वरूपे ब्रह्मणि अणुमात्रमपि किञ्चिन्न जायते इति ॥
इति तृतीयमद्वैतप्रकरणं सम्पूर्णम् ॥