श्रीमच्छङ्करभगवत्पूज्यपादविरचितम्

प्रश्नोपनिषद्भाष्यम्

करतलकलिताद्वयात्मतत्त्वं क्षपितदुरन्तचिरन्तनप्रमोहम् ।
उपचितमुदितोदितैर्गुणौघैः उपनिषदामयमुज्जहार भाष्यम् ।।

अथ हैनं सुकेशा भारद्वाजः पप्रच्छ । भगवन्हिरण्यनाभः कौसल्यो राजपुत्रो मामुपेत्यैतं प्रश्नमपृच्छत षोडशकलं भारद्वाज पुरुषं वेत्थ । तमहं कुमारमब्रवं नाहमिमं वेद यद्यहमिममवेदिषं कथं ते नावक्ष्यमिति, समूलो वा एष परिशुष्यति योऽनृतमभिवदति तस्मान्नार्हाम्यनृतं वक्तुम् । स तूष्णीं रथमारुह्य प्रवव्राज । तं त्वा पृच्छामि क्वासौ पुरुष इति ॥ १ ॥
अथ ह एनं सुकेशा भारद्वाजः पप्रच्छ समस्तं जगत्कार्यकारणलक्षणं सह विज्ञानात्मना परस्मिन्नक्षरे सुषुप्तिकाले सम्प्रतिष्ठत इत्युक्तम् । तत्सामर्थ्यात्प्रलयेऽपि तस्मिन्नेवाक्षरे सम्प्रतिष्ठते जगत्तत एवोत्पद्यत इति च सिद्धं भवति । न ह्यकारणे कार्यस्य सम्प्रतिष्ठानमुपपद्यते । उक्तं च ‘आत्मन एष प्राणो जायते’ (प्र. उ. ३ । ३) इति । जगतश्च यन्मूलं तत्परिज्ञानात्परं श्रेय इति सर्वोपनिषदां निश्चितोऽर्थः । अनन्तरं चोक्तम् ‘स सर्वज्ञः सर्वो भवति’ (प्र. उ. ४ । १०) इति । वक्तव्यं च क्व तर्हि तदक्षरं सत्यं पुरुषाख्यं विज्ञेयमिति ; तदर्थोऽयं प्रश्न आरभ्यते । वृत्तान्वाख्यानं च विज्ञानस्य दुर्लभत्वज्ञापनेन तल्लब्ध्यर्थं मुमुक्षूणां यत्नविशेषोपादानार्थम् । हे भगवन् , हिरण्यनाभः नामतः कोसलायां भवः कौसल्यः राजपुत्रः जातितः क्षत्रियः माम् उपेत्य उपगम्य एतम् उच्यमानं प्रश्नम् अपृच्छत । षोडशकलं षोडशसङ्‍ख्याकाः कला अवयवा इवात्मन्यविद्याध्यारोपितरूपा यस्मिन्पुरुषे, सोऽयं षोडशकलः ; तं षोडशकलं हे भारद्वाज, पुरुषं वेत्थ त्वं विजानासि । तम् अहं राजपुत्रं कुमारं पृष्टवन्तम् अब्रवम् उक्तवानस्मि — नाहमिमं वेद यं त्वं पृच्छसीति । एवमुक्तवत्यपि मय्यज्ञानमसम्भावयन्तं तमज्ञाने कारणमवादिषम् — यदि कथञ्चित् अहम् इमं त्वया पृष्टं पुरुषम् अवेदिषं विदितवानस्मि, कथम् अत्यन्तशिष्यगुणवतेऽर्थिने ते तुभ्यं न अवक्ष्यं नोक्तवानस्मि न ब्रूयामित्यर्थः । भूयोऽप्यप्रत्ययमेवालक्ष्य प्रत्याययितुमब्रवम् — समूलः सह मूलेन वै एषः अन्यथा सन्तमात्मानमन्यथा कुर्वन् यः अनृतम् अयथाभूतार्थम् अभिवदति, स परिशुष्यति शोषमुपैति इहलोकपरलोकाभ्यां विच्छिद्यते विनश्यति । यत एवं जाने तस्मात् न अर्हामि अहम् अनृतं वक्तुं मूढवत् । स राजपुत्रः एवं प्रत्यायितः तूष्णीं व्रीडितः रथम् आरुह्य प्रवव्राज प्रगतवान् यथागतमेव । अतो न्यायत उपसन्नाय योग्याय जानता विद्या वक्तव्यैव ; अनृतं च न वक्तव्यं सर्वास्वप्यवस्थास्वित्येतत्सिद्धं भवति । तं पुरुषं त्वा त्वां पृच्छामि मम हृदि विज्ञेयत्वेन शल्यमिव स्थितम् , क्व असौ वर्तते विज्ञेयः पुरुष इति ॥
तस्मै स होवाचेहैवान्तःशरीरे सोम्य स पुरुषो यस्मिन्नेताः षोडश कलाः प्रभवन्तीति ॥ २ ॥
तस्मै स होवाच । इहैव अन्तःशरीरे हृदयपुण्डरीकाकाशमध्ये हे सोम्य स पुरुषः, न देशान्तरे विज्ञेयः । यस्मिन् एताः उच्यमानाः षोडश कलाः प्राणाद्याः प्रभवन्ति उत्पद्यन्त इति षोडशभिः कलाभिरुपाधिभूताभिः सकल इव निष्कलः पुरुषो लक्ष्यतेऽविद्ययेति ; तदुपाधिकलाध्यारोपापनयनेन विद्यया स पुरुषः केवलो दर्शयितव्य इति कलानां तत्प्रभवत्वमुच्यते प्राणादीनाम् । अत्यन्तनिर्विशेषे ह्यद्वये विशुद्धे तत्त्वे न शक्योऽध्यारोपमन्तरेण प्रतिपाद्यप्रतिपादनादिव्यवहारः कर्तुमिति कलानां प्रभवस्थित्यप्यया आरोप्यन्तेऽविद्याविषयाः । चैतन्याव्यतिरेकेणैव हि कला जायमानास्तिष्ठन्त्यः प्रलीयमानाश्च सर्वदा लक्ष्यन्ते । अत एव भ्रान्ताः केचित् — अग्निसंयोगाद्धृतमिव घटाद्याकारेण चैतन्यमेव प्रतिक्षणं जायते नश्यतीति । तन्निरोधे शून्यमेव सर्वमिति अपरे । घटादिविषयं चैतन्यं चेतयिदुर्नित्यस्यात्मनोऽनित्यं जायते विनश्यतीत्यपरे । चैतन्यं भूतधर्म इति लौकायतिकाः । अनपायोपजनधर्मकचैतन्यमात्मैव नामरूपाद्युपाधिधर्मैः प्रत्यवभासते ‘सत्यं ज्ञानमनन्तं ब्रह्म’ (तै. उ. २ । १ । १) ‘प्रज्ञानं ब्रह्म’ (ऐ. उ. ३ । १ । ३) ‘विज्ञानमानन्दं ब्रह्म’ (बृ. उ. ३ । ९ । २८) ‘विज्ञानघन एव’ (बृ. उ. २ । ४ । १२) इत्यादिश्रुतिभ्यः । स्वरूपव्यभिचारिषु पदार्थेषु चैतन्यस्याव्यभिचाराद्यथा यथा यो यः पदार्थो ज्ञायते, तथा तथा ज्ञायमानत्वादेव तस्य तस्य चैतन्यस्याव्यभिचारित्वम् । वस्तुतत्त्वं भवति किञ्चित् , न ज्ञायत इति चानुपपन्नम् ; रूपं च दृश्यते, न चास्ति चक्षुरिति यथा । व्यभिचरति तु ज्ञेयम् ; न ज्ञानं व्यभिचरति कदाचिदपि ज्ञेयम् , ज्ञेयाभावेऽपि ज्ञेयान्तरे भावाज्ज्ञानस्य । न हि ज्ञानेऽसति ज्ञेयं नाम भवति कस्यचित् ; सुषुप्तेऽदर्शनात् — ज्ञानस्यापि सुषुप्तेऽभावाज्ज्ञेयवज्ज्ञानस्वरूपस्य व्यभिचार इति चेत् , न ; ज्ञेयावभासकस्य ज्ञानस्यालोकवज्ज्ञेयाभिव्यक्त्यर्थत्वात्स्वव्यङ्ग्याभावे आलोकाभावानुपपत्तिवत् अप्रतीतेषु वस्तुषु सुषुप्ते विज्ञानाभावानुपपत्तेः । न ह्यन्धकारे चक्षुषो रूपानुपलब्धौ चक्षुषोऽभावः शक्यः कल्पयितुमवैनाशिकेन । वैनाशिको ज्ञेयाभावे ज्ञानाभावं कल्पयत्येवेति चेत् , येन तदभावं कल्पयेत्तस्याभावः केन कल्प्यत इति वक्तव्यं वैनाशिकेन ; तदभावस्यापि ज्ञेयत्वाज्ज्ञानाभावे तदनुपपत्तेः । ज्ञानस्य ज्ञेयाव्यतिरिक्तत्वाज्ज्ञेयाभावे ज्ञानाभाव इति चेत् , न ; अभावस्यापि ज्ञेयत्वाभ्युपगमात् — अभावोऽपि ज्ञेयोऽभ्युपगम्यते वैनाशिकैर्नित्यश्च । तदव्यतिरिक्तं चेज्ज्ञानं नित्यं कल्पितं स्यात् । तदभावस्य च ज्ञानात्मकत्वादभावत्वं च वाङ्मात्रमेव ; न परमार्थतोऽभावत्वमनित्यत्वं च ज्ञानस्य । न च नित्यस्य ज्ञानस्याभावनाममात्राध्यारोपे किञ्चिन्नश्छिन्नम् । अथाभावो ज्ञेयोऽपि सन् ज्ञानव्यतिरिक्त इति चेत् , न तर्हि ज्ञेयाभावो ज्ञानाभावः । ज्ञेयं ज्ञानव्यतिरिक्तम् ; न तु ज्ञानं ज्ञेयव्यतिरिक्तमिति चेत् , न ; शब्दमात्रत्वाद्विशेषानुपपत्तेः । ज्ञेयज्ञानयोरेकत्वं चेदभ्युपगम्यते, ज्ञेयं ज्ञानव्यातिरिक्तम् , न ज्ञेयव्यतिरिक्तं ज्ञानम् इति तु शब्दमात्रमेव तत् — वह्निरग्निव्यतिरिक्तः, अग्निर्न वह्निव्यतिरिक्त इति यद्वत् — अभ्युपगम्यम् । ज्ञेयव्यतिरेके तु ज्ञानस्य ज्ञेयाभावे ज्ञानाभावानुपपत्तिः सिद्धा । ज्ञेयाभावेऽदर्शनादभावो ज्ञानस्येति चेत् , न ; सुषुप्ते ज्ञप्त्यभ्युपगमात् — वैनाशिकैरभ्युपगम्यते हि सुषुप्तेऽपि विज्ञानास्तित्वम् । तत्रापि ज्ञेयत्वमभ्युपगम्यते ज्ञानस्य स्वेनैवेति चेत् , न ; भेदस्य सिद्धत्वात् — सिद्धं ह्यभावविज्ञेयविषयस्य ज्ञानस्याभावज्ञेयव्यतिरेकाज्ज्ञेयज्ञानयोरन्यत्वम् । न हि तत्सिद्धं मृतमिवोज्जीवयितुं पुनरन्यथा कर्तुं शक्यते वैनाशिकशतैरपि । ज्ञानस्य स्वाज्ञेयत्वे तदप्यन्येन तदप्यन्येनेति त्वत्पक्षेऽतिप्रसङ्ग इति चेत् , न ; तद्विभागोपपत्तेः सर्वस्य — यदा हि सर्वं ज्ञेयं कस्यचित् , तदा तद्व्यतिरिक्तं ज्ञानं ज्ञानमेवेति द्वितीयो विभाग एवाभ्युपगम्यतेऽवैनाशिकैः । न तृतीयस्तद्विषय इत्यनवस्थानुपपत्तिः । ज्ञानस्य स्वेनैवाविज्ञेयत्वे सर्वज्ञत्वहानिरिति चेत् , सोऽपि दोषस्तस्यैवास्तु ; किं तन्निबर्हणेनास्माकम् ? अनवस्थादोषश्च ज्ञानस्य ज्ञेयत्वाभ्युपगमात् — अवश्यं च वैनाशिकानां ज्ञानं ज्ञेयम् । स्वात्मना चाविज्ञेयत्वेनानवस्था अनिवार्या । समान एवायं दोष इति चेत् , न ; ज्ञानस्यैकत्वोपपत्तेः — सर्वदेशकालपुरुषाद्यवस्थास्वेकमेव ज्ञानं नामरूपाद्यनेकोपाधिभेदात् सवित्रादिजलादिप्रतिबिम्बवदनेकधावभासत इति । नासौ दोषः । तथा चेहेदमुच्यते । ननु श्रुतेरिहैवान्तःशरीरे परिच्छिन्नः कुण्डबदरवत्पुरुष इति, न ; प्राणादिकलाकारणत्वात् — न हि शरीरमात्रपरिच्छिन्नः प्राणश्रद्धादीनां कलानां कारणत्वं प्रतिपत्तुं शक्नुयात् । कलाकार्यत्वाच्च शरीरस्य — न हि पुरुषकार्याणां कलानां कार्यं सच्छरीरं कारणकारणं स्वस्य पुरुषं कुण्डबदरमिवाभ्यन्तरीकुर्यात् । बीजवृक्षादिवत्स्यादिति चेत् — यथा बीजकार्यं वृक्षस्तत्कार्यं च फलं स्वकारणकारणं बीजमभ्यन्तरीकरोत्याम्रादि, तद्वत्पुरुषमभ्यन्तरीकुर्याच्छरीरं स्वकारणकारणमपीति चेत् , न ; अन्यत्वात्सावयवत्वाच्च — दृष्टान्ते कारणाद्बीजाद्वृक्षफलसंवृत्तान्यन्यान्येव बीजानि ; दार्ष्टान्तिके तु स्वकारणकारणभूतः स एव पुरुषः शरीरेऽभ्यन्तरीकृतः श्रूयते । बीजवृक्षादीनां सावयवत्वाच्च स्यादाधाराधेयत्वम् ; निरवयवश्च पुरुषः, सावयवाश्च कलाः शरीरं च । एतेनाकाशस्यापि शरीराधारत्वमनुपपन्नम् ; किमुताकाशकारणस्य पुरुषस्य ? तस्मादसमानो दृष्टान्तः । किं दृष्टान्तेन ? वचनात्स्यादिति चेत् , न ; वचनस्याकारकत्वात् — न हि वचनं वस्तुनोऽन्यथाकरणे व्याप्रियते ; किं तर्हि, यथाभूतार्थावद्योतने । तस्मादन्तःशरीर इत्येतद्वचनम् ‘अण्डस्यान्तर्व्योम’ इतिवद्द्रष्टव्यम् । उपलब्धिनिमित्तत्वाच्च — दर्शनश्रवणमननविज्ञानादिलिङ्गैरन्तःशरीरे परिच्छिन्न इव ह्युपलभ्यते पुरुष उपलभ्यते चात्र । अत उच्यते — अन्तःशरीरे सोम्य स पुरुष इति । न पुनराकाशकारणभूतः सन्कुण्डबदरवच्छरीरपरिच्छिन्न इति मनसापीच्छति वक्तुं मूढोऽपि ; किमुत प्रमाणभूता श्रुतिः ॥
स ईक्षाञ्चक्रे कस्मिन्नहमुत्क्रान्त उत्क्रान्तो भविष्यामि कस्मिन्वा प्रतिष्ठिते प्रतिष्ठास्यामीति ॥ ३ ॥
यस्मिन्नेताः षोडश कलाः प्रभवन्तीत्युक्तः पुरुषविशेषणार्थः कलानां प्रभवः, स चान्यार्थोऽपि श्रुतः केन क्रमेण स्यादित्यत इदमुच्यते । चेतनपूर्विका च सृष्टिरित्येवमर्थं च । स पुरुषः षोडशकलः पृष्टो यो भारद्वाजेन सः ईक्षाञ्चक्रे ईक्षणं दर्शनं चक्रे — कृतवानित्यर्थः — सृष्टिफलक्रमादिविषयम् । कथमिति, उच्यते — कस्मिन् कर्तृविशेषे देहादुत्क्रान्ते उत्क्रान्तो भविष्यामि अहमेव ; कस्मिन्वा शरीरे प्रतिष्ठिते अहं प्रतिष्ठास्यामि प्रतिष्ठितः स्यामित्यर्थः । नन्वात्मा अकर्ता प्रधानं कर्तृ ; अतः पुरुषार्थं प्रयोजनमुररीकृत्य प्रधानं प्रवर्तते महदाद्याकारेण ; तत्रेदमनुपपन्नं पुरुषस्य स्वातन्त्र्येणेक्षापूर्वकं कर्तृत्ववचनम् , सत्त्वादिगुणसाम्ये प्रधाने प्रमाणोपपन्ने सृष्टिकर्तरि सति ईश्वरेच्छानुवर्तिषु वा परमाणुषु सत्सु आत्मनोऽप्येकत्वेन कर्तृत्वे साधनाभावादात्मन आत्मन्यनर्थकर्तृत्वानुपपत्तेश्च । न हि चेतनावान्बुद्धिपूर्वकारी आत्मनः अनर्थं कुर्यात् तस्मात्पुरुषार्थेन प्रयोजनेनेक्षापूर्वकमिव नियतक्रमेण प्रवर्तमानेऽचेतनेऽपि प्रधाने चेतनवदुपचारोऽयं स ईक्षाञ्चक्रे इत्यादिः ; यथा राज्ञः सर्वार्थकारिणि भृत्ये राजेति, तद्वत् । न ; आत्मनो भोक्तृत्ववत्कर्तृत्वोपपत्तेः — यथा साङ्‍ख्यस्य चिन्मात्रस्यापरिणामिनोऽप्यात्मनो भोक्तृत्वम् , तद्वद्वेदवादिनामीक्षापूर्वकं जगत्कर्तृत्वमुपपन्नं श्रुतिप्रामाण्यात् । तत्त्वान्तरपरिणामादात्मनोऽनित्यत्वाशुद्धत्वानेकत्वनिमित्तं चिन्मात्रस्वरूपविक्रियातः पुरुषस्य स्वात्मन्येव भोक्तृत्वे चिन्मात्रस्वरूपविक्रिया न दोषाय । भवतां पुनर्वेदवादिनां सृष्टिकर्तृत्वे तत्त्वान्तरपरिणाम एवेत्यात्मनोऽनित्यत्वादिसर्वदोषप्रसङ्ग इति चेत् , न ; एकस्याप्यात्मनोऽविद्याविषयनामरूपोपाध्यनुपाधिकृतविशेषाभ्युपगमात् । अविद्याकृतनामरूपोपाधिनिमित्तो हि विशेषोऽभ्युपगम्यते आत्मनो बन्धमोक्षादिशास्त्रकृतसंव्यवहाराय । परमार्थतोऽनुपाधिकृतं च तत्त्वमेकमेवाद्वितीयमुपादेयं सर्वतार्किकबुद्ध्यनवगम्यं ह्यजमभयं शिवमिष्यते । न तत्र कर्तृत्वं भोक्तृत्वं वा क्रियाकारकफलं वास्ति, अद्वैतत्वात्सर्वभावानाम् । साङ्‍ख्यास्त्वविद्याध्यारोपितमेव पुरुषे कर्तृत्वं क्रियाकारकं फलं चेति कल्पयित्वा आगमबाह्यत्वात्पुनस्ततस्त्रस्यन्तः परमार्थत एव भोक्तृत्वं पुरुषस्येच्छन्ति । तत्त्वान्तरं च प्रधानं पुरुषाद्बाह्यं परमार्थवस्तुभूतमेव कल्पयन्तोऽन्यतार्किककृतबुद्धिविषयाः सन्तो विहन्यन्ते । तथेतरेतार्किकाः साङ्ख्यैः ; इत्येवं परस्परविरुद्धार्थकल्पनात आमिषार्थिन इव प्राणिनोऽन्योन्यविरुध्यमानार्थदर्शित्वात्परमार्थतत्त्वाद्दूरमेवापकृष्यन्ते । अतस्तन्मतमनादृत्य वेदान्तार्थतत्त्वमेकत्वदर्शनं प्रत्यादरवन्तो मुमुक्षवः स्युरिति तार्किकमतदोषप्रदर्शनं किञ्चिदुच्यतेऽस्माभिः ; न तु तार्किकवत्तात्पर्येण । तथैतदत्रोक्तम् — विवदत्स्वेव निक्षिप्य विरोधोद्भवकारणम् । तैः संरक्षितसद्बुद्धिः सुखं निर्वाति वेदवित् ॥ किञ्च, भोक्तृत्वकर्तृत्वयोर्विक्रिययोर्विशेषानुपपत्तिः । का नामासौ कर्तृत्वाज्जात्यन्तरभूता भोक्तृत्वविशिष्टा विक्रिया, यतो भोक्तैव पुरुषः कल्प्यते न कर्ता ; प्रधानं तु कर्त्रेव न भोक्तृ इति । ननु उक्तं पुरुषश्चिन्मात्र एव ; स च स्वात्मस्थो विक्रियते भुञ्जानः, न तत्त्वान्तरपरिणामेन । प्रधानं तु तत्त्वान्तरपरिणामेन विक्रियते ; अतो नैकमशुद्धमचेतनं चेत्यादिधर्मवत् । तद्विपरीतः पुरुषः । नासौ विशेषः, वाङ्मात्रत्वात् । प्राग्भोगोत्पत्तेः केवलचिन्मात्रस्य पुरुषस्य भोक्तृत्वं नाम विशेषो भोगोत्पत्तिकाले चेत् जायते, निवृत्ते च भोगे पुनस्तद्विशेषादपेतश्चिन्मात्र एव भवतीति चेत् ; महदाद्याकारेण च परिणम्य प्रधानं ततोऽपेत्य पुनः प्रधानस्वरूपेण व्यवतिष्ठत इति अस्यां कल्पनायां न कश्चिद्विशेष इति वाङ्मात्रेण प्रधानपुरुषयोर्विशिष्टविक्रिया कल्प्यते । अथ भोगकालेऽपि चिन्मात्र एव प्राग्वत्पुरुष इति चेत् , न तर्हि परमार्थतो भोगः पुरुषस्य । अथ भोगकाले चिन्मात्रस्य विक्रिया परमार्थैव, तेन भोगः पुरुषस्येति चेत् , न ; प्रधानस्यापि भोगकाले विक्रियावत्त्वाद्भोक्तृकत्वप्रसङ्गः । चिन्मात्रस्यैव विक्रिया भोक्तृत्वमिति चेत् , औष्ण्याद्यसाधारणधर्मवतामग्न्यादीनामभोक्तृत्वे हेत्वनुपपत्तिः । प्रधानपुरुषयोर्द्वयोर्युगपद्भोक्तृत्वमिति चेत् , न ; प्रधानस्य पारार्थ्यानुपपत्तेः — न हि भोक्त्रोर्द्वयोरितरेतरगुणप्रधानभाव उपपद्यते प्रकाशयोरिवेतरेतरप्रकाशने । भोगधर्मवति सत्त्वाङ्गिनि चेतसि पुरुषस्य चैतन्यप्रतिबिम्बोदयादविक्रियस्य पुरुषस्य भोक्तृत्वमिति चेत् , न ; पुरुषस्य विशेषाभावे भोक्तृत्वकल्पनानर्थक्यात् । भोगरूपश्चेदनर्थः पुरुषस्य नास्मि सदा निर्विशेषत्वात्पुरुषस्य, कस्यापनयनार्थं मोक्षसाधनं शास्त्रं प्रणीयते ? अविद्याध्यारोपितानर्थापनयनाय शास्त्रप्रणयनमिति चेत् , परमार्थतः पुरुषो भोक्तैव, न कर्ता ; प्रधानं कर्त्रेव न भोक्तृ परमार्थसद्वस्त्वन्तरं पुरुषाच्च इतीयं कल्पना आगमबाह्या व्यर्थानिर्हेतुका च इति नादर्तव्या मुमुक्षुभिः । एकत्वेऽपि शास्त्रप्रणयनाद्यानर्थक्यमिति चेत् , न ; अभावात् — सत्सु हि शास्त्रप्रणेत्रादिषु तत्फलार्थिषु च शास्त्रस्य प्रणयनमर्थवदनर्थकं वेति विकल्पना स्यात् । न ह्यात्मैकत्वे शास्त्रप्रणेत्रादयस्ततो भिन्नाः सन्ति ; तदभावे एवं विकल्पनैवानुपपन्ना । अभ्युपगते आत्मैकत्वे प्रमाणार्थश्चाभ्युपगतो भवता यदात्मैकत्वमभ्युपगच्छता । तदभ्युपगमे च विकल्पानुपपत्तिमाह शास्त्रम् ‘यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्’ (बृ. उ. ४ । ५ । १४) इत्यादि ; शास्त्रप्रणयनाद्युपपत्तिं चाह अन्यत्र परमार्थवस्तुस्वरूपादविद्याविषये ‘यत्र हि द्वैतमिव भवति’ (बृ. उ. ४ । ५ । १४) इत्यादि विस्तरतो वाजसनेयके । अत्र च विभक्ते विद्याविद्ये परापरे इत्यादावेव शास्त्रस्य । अतो न तार्किकवादभटप्रवेशो वेदान्तराजप्रमाणबाहुगुप्ते इहात्मैकत्वविषये इति । एतेनाविद्याकृतनामरूपाद्युपाधिकृतानेकशक्तिसाधनकृतभेदवत्त्वाद्ब्रह्मणः सृष्ट्यादिकर्तृत्वे साधनाद्यभावो दोषः प्रत्युक्तो वेदितव्यः, परैरुक्त आत्मानर्थकर्तृत्वादिदोषश्च । यस्तु दृष्टान्तो राज्ञः सर्वार्थकारिणि कर्तरि भृत्ये उपचारो राजा कर्तेति, सोऽत्रानुपपन्नः ; ‘स ईक्षाञ्चक्रे’ इति श्रुतेर्मुख्यार्थबाधनात्प्रमाणभूतायाः । तत्र हि गौणी कल्पना शब्दस्य, यत्र मुख्यार्थो न सम्भवति । इह त्वचेतनस्य मुक्तबद्धपुरुषविशेषापेक्षया कर्तृकर्मदेशकालनिमित्तापेक्षया च बन्धमोक्षादिफलार्था नियता पुरुषं प्रति प्रवृत्तिर्नोपपद्यते ; यथोक्तसर्वज्ञेश्वरकर्तृत्वपक्षे तु उपपन्ना । ईश्वरेणैव सर्वाधिकारी प्राणः पुरुषेण सृज्यते ॥
स प्राणमसृजत प्राणाच्छ्रद्धा खं वायुर्ज्योतिरापः पृथिवीन्द्रियं मनः । अन्नमन्नाद्वीर्यं तपो मन्त्राः कर्म लोका लोकेषु च नाम च ॥ ४ ॥
कथम् ? सः पुरुषः उक्तप्रकारेणेक्षित्वा सर्वप्राणं हिरण्यगर्भाख्यं सर्वप्राणिकरणाधारमन्तरात्मानम् असृजत सृष्टवान् । ततः प्राणात् श्रद्धां सर्वप्राणिनां शुभकर्मप्रवृत्तिहेतुभूताम् ; ततः कर्मफलोपभोगसाधनाधिष्ठानानि कारणभूतानि महाभूतानि असृजत — खं शब्दगुणकम् , वायुः स्वेन स्पर्शगुणेन शब्दगुणेन च विशिष्टो द्विगुणः, तथा ज्योतिः स्वेन रूपेण पूर्वगुणाभ्यां च विशिष्टं शब्दस्पर्शाभ्यां त्रिगुणम् , तथा आपो रसगुणेनासाधारणेन पूर्वगुणानुप्रवेशेन च चतुर्गुणाः, तथा गन्धगुणेन पूर्वगुणानुप्रवेशेन च पञ्चगुणा पृथिवी, तथा तैरेव भूतैरारब्धम् इन्द्रियं द्विप्रकारं बुद्ध्यर्थं कर्मार्थं च दशसङ्‍ख्याकम् , तस्य चेश्वरमन्तःस्थं संशयविकल्पादिलक्षणं मनः । एवं प्राणिनां कार्यं करणं च सृष्ट्वा तत्स्थित्यर्थं व्रीहियवादिलक्षणम् अन्नम् , ततश्च अन्नात् अद्यमानात् वीर्यं सामर्थ्यं बलं सर्वकर्मप्रवृत्तिसाधनम् , तद्वीर्यवतां च प्राणिनां तपः विशुद्धिसाधनं सङ्कीर्यमाणानाम् , मन्त्राः तपोविशुद्धान्तर्बहिःकरणेभ्यः कर्मसाधनभूता ऋग्यजुःसामाथर्वाङ्गिरसः ; ततः कर्म अग्निहोत्रादिलक्षणम् , ततो लोकाः कर्मणां फलम् , तेषु च लोकेषु सृष्टानां प्राणिनां नाम च देवदत्तो यज्ञदत्त इत्यादि । एवमेताः कलाः प्राणिनामविद्यादिदोषबीजापेक्षया सृष्टास्तैमिरिकदृष्टिसृष्टा इव द्विचन्द्रमशकमक्षिकाद्याः स्वप्नदृक्सृष्टा इव च सर्वपदार्थाः पुनस्तस्मिन्नेव पुरुषे प्रलीयन्ते हित्वा नामरूपादिविभागम् ॥
स यथेमा नद्यः स्यन्दमानाः समुद्रायणाः समुद्रं प्राप्यास्तं गच्छन्ति भिद्येते तासां नामरूपे समुद्र इत्येवं प्रोच्यते । एवमेवास्य परिद्रष्टुरिमाः षोडश कलाः पुरुषायणाः पुरुषं प्राप्यास्तं गच्छन्ति भिद्येते चासां नामरूपे पुरुष इत्येवं प्रोच्यते स एषोऽकलोऽमृतो भवति तदेष श्लोकः ॥ ५ ॥
कथम् ? सः दृष्टान्तः, यथा लोके इमा नद्यः स्यन्दमानाः स्रवन्त्यः समुद्रायणाः, समुद्र एव अयनं गतिरात्मभावो यासां ताः समुद्रायणाः, समुद्रं प्राप्य उपगम्य अस्तम् अदर्शनं नामरूपतिरस्कारं गच्छन्ति ; तासां चास्तं गतानां भिद्येते विनश्येते नामरूपे गङ्गा यमुनेत्यादिलक्षणे ; तदभेदेन समुद्र इत्येवं प्रोच्यते तद्वस्तूदकलक्षणम् ; एवं यथायं दृष्टान्तः उक्तलक्षणस्य प्रकृतस्य अस्य पुरुषस्य परिद्रष्टुः परि समन्ताद्द्रष्टुर्दर्शनस्य कर्तुः स्वरूपभूतस्य । यथा अर्कः स्वात्मप्रकाशस्य कर्ता सर्वतः, तद्वत् इमाः षोडश प्राणाद्या उक्ताः कलाः पुरुषायणाः नदीनामिव समुद्रः पुरुषोऽयनमात्मभावगमनं यासां कलानां ताः पुरुषायणाः पुरुषं प्राप्य पुरुषात्मभावमुपगम्य तथैवास्तं गच्छन्ति । भिद्येते च आसां नामरूपे कलानां प्राणाद्याख्या रूपं च यथास्वम् । भेदे च नामरूपयोर्यदनष्टं तत्तत्त्वं पुरुषः इत्येवं प्रोच्यते ब्रह्मविद्भिः । य एवं विद्वान्गुरुणा प्रदर्शितकलाप्रलयमार्गः, स एषः विद्यया प्रविलापितास्वविद्याकामकर्मजनितासु प्राणादिकलासु अकलः अविद्याकृतकलानिमित्तो हि मृत्युः ; तदपगमेऽकलत्वादेव अमृतः भवति । तदेतस्मिन्नर्थे एषः श्लोकः ॥
अरा इव रथनाभौ कला यस्मिन्प्रतिष्ठिताः ।
तं वेद्यं पुरुषं वेद यथा मा वो मृत्युः परिव्यथा इति ॥ ६ ॥
अरा इव रथचक्रपरिवारा इव रथनाभौ रथचक्रस्य नाभौ यथाप्रवेशिताः तदाश्रया भवन्ति यथा, तथेत्यर्थः । कलाः प्राणाद्याः यस्मिन् पुरुषे प्रतिष्ठिताः उत्पत्तिस्थितिलयकालेषु, तं पुरुषं कलानामात्मभूतं वेद्यं वेदनीयं पूर्णत्वात्पुरुषं पुरि शयनाद्वा वेद जानाति ; यथा हे शिष्याः, मा वाः युष्मान् मृत्युः परिव्यथाः मा परिव्यथयतु । न चेद्विज्ञायेत पुरुषो मृत्युनिमित्तां व्यथामापन्ना दुःखिन एव यूयं स्थ । अतस्तन्माभूद्युष्माकमित्यभिप्रायः ॥
तान्होवाचैतावदेवाहमेतत्परं ब्रह्म वेद नातः परमस्तीति ॥ ७ ॥
तान् एवमनुशिष्य शिष्यान् तान् होवाच पिप्पलादः किल एतावदेव वेद्यं परं ब्रह्म वेद विजानाम्यहमेतत् । न अतः अस्मात् परम् अस्ति प्रकृष्टतरं वेदितव्यम् इत्येवमुक्तवान् शिष्याणामविदितशेषास्तित्वाशङ्कानिवृत्तये कृतार्थबुद्धिजननार्थं च ॥
ते तमर्चयन्तस्त्वं हि नः पिता योऽस्माकमविद्यायाः परं पारं तारयसीति । नमः परमऋषिभ्यो नमः परमऋषिभ्यः ॥ ८ ॥
ततः ते शिष्या गुरुणानुशिष्टाः तं गुरुं कृतार्थाः सन्तो विद्यानिष्क्रयमन्यदपश्यन्तः किं कृतवन्त इत्युच्यते — अर्चयन्तः पूजयन्तः पादयोः पुष्पाञ्जलिप्रकिरणेन प्रणिपातेन च शिरसा । किमूचुरित्याह — त्वं हि नः अस्माकं पिता ब्रह्मशरीरस्य विद्यया जनयितृत्वान्नित्यस्याजरामरणस्याभयस्य । यः त्वमेव अस्माकम् अविद्यायाः विपरीतज्ञानाज्जन्मजरामरणरोगदुःखादिग्राहादपारादविद्यामहोदधेर्विद्याप्लवेन परम् अपुनरावृत्तिलक्षणं मोक्षाख्यं महोदधेरिव पारं तारयसि अस्मानित्यतः पितृत्वं तवास्मान्प्रत्युपपन्नमितरस्मात् । इतरोऽपि हि पिता शरीरमात्रं जनयति, तथापि स पूज्यतमो लोके ; किमु वक्तव्यमात्यन्तिकाभयदातुरित्यभिप्रायः । नमः परमऋषिभ्यः ब्रह्मविद्यासम्प्रदायकर्तृभ्यः । नमः परमऋषिभ्य इति द्विर्वचनमादरार्थम् ॥