श्रीमच्छङ्करभगवत्पूज्यपादविरचितम्

ब्रह्मसूत्रभाष्यम्

श्रीभारतीतीर्थमुनिप्रणीता

वैयासिकन्यायमाला

युष्मदस्मत्प्रत्ययगोचरयोर्विषयविषयिणोस्तमःप्रकाशवद्विरुद्धस्वभावयोरितरेतरभावानुपपत्तौ सिद्धायाम् , तद्धर्माणामपि सुतरामितरेतरभावानुपपत्तिःइत्यतः अस्मत्प्रत्ययगोचरे विषयिणि चिदात्मके युष्मत्प्रत्ययगोचरस्य विषयस्य तद्धर्माणां चाध्यासः तद्विपर्ययेण विषयिणस्तद्धर्माणां विषयेऽध्यासो मिथ्येति भवितुं युक्तम् । तथाप्यन्योन्यस्मिन्नन्योन्यात्मकतामन्योन्यधर्मांश्चाध्यस्येतरेतराविवेकेन अत्यन्तविविक्तयोर्धर्मधर्मिणोः मिथ्याज्ञाननिमित्तः सत्यानृते मिथुनीकृत्यअहमिदम्’ ‘ममेदम्इति नैसर्गिकोऽयं लोकव्यवहारः
आहकोऽयमध्यासो नामेति । उच्यतेस्मृतिरूपः परत्र पूर्वदृष्टावभासः । तं केचित् अन्यत्रान्यधर्माध्यास इति वदन्ति । केचित्तु यत्र यदध्यासः तद्विवेकाग्रहनिबन्धनो भ्रम इति । अन्ये तु यत्र यदध्यासः तस्यैव विपरीतधर्मत्वकल्पनामाचक्षते । सर्वथापि तु अन्यस्यान्यधर्मावभासतां व्यभिचरति । तथा लोकेऽनुभवःशुक्तिका हि रजतवदवभासते, एकश्चन्द्रः सद्वितीयवदिति
कथं पुनः प्रत्यगात्मन्यविषये अध्यासो विषयतद्धर्माणाम् ? सर्वो हि पुरोऽवस्थित एव विषये विषयान्तरमध्यस्यति ; युष्मत्प्रत्ययापेतस्य प्रत्यगात्मनः अविषयत्वं ब्रवीषि । उच्यते तावयमेकान्तेनाविषयः, अस्मत्प्रत्ययविषयत्वात् अपरोक्षत्वाच्च प्रत्यगात्मप्रसिद्धेः ; चामस्ति नियमःपुरोऽवस्थित एव विषये विषयान्तरमध्यसितव्यमिति ; अप्रत्यक्षेऽपि ह्याकाशे बालाः तलमलिनतादि अध्यस्यन्ति ; एवमविरुद्धः प्रत्यगात्मन्यपि अनात्माध्यासः
तमेतमेवंलक्षणमध्यासं पण्डिता अविद्येति मन्यन्ते । तद्विवेकेन वस्तुस्वरूपावधारणं विद्यामाहुः । त्रैवं सति, यत्र यदध्यासः, तत्कृतेन दोषेण गुणेन वा अणुमात्रेणापि सम्बध्यते । मेतमविद्याख्यमात्मानात्मनोरितरेतराध्यासं पुरस्कृत्य सर्वे प्रमाणप्रमेयव्यवहारा लौकिका वैदिकाश्च प्रवृत्ताः, सर्वाणि शास्त्राणि विधिप्रतिषेधमोक्षपराणि । कथं पुनरविद्यावद्विषयाणि प्रत्यक्षादीनि प्रमाणानि शास्त्राणि चेति, उच्यतेदेहेन्द्रियादिषु अहंममाभिमानरहितस्य प्रमातृत्वानुपपत्तौ प्रमाणप्रवृत्त्यनुपपत्तेः । हीन्द्रियाण्यनुपादाय प्रत्यक्षादिव्यवहारः सम्भवति । चाधिष्ठानमन्तरेण इन्द्रियाणां व्यापारः सम्भवति । चानध्यस्तात्मभावेन देहेन कश्चिद्व्याप्रियते । चैतस्मिन् सर्वस्मिन्नसति असङ्गस्यात्मनः प्रमातृत्वमुपपद्यते । प्रमातृत्वमन्तरेण प्रमाणप्रवृत्तिरस्ति । तस्मादविद्यावद्विषयाण्येव प्रत्यक्षादीनि प्रमाणानि शास्त्राणि चेति । पश्वादिभिश्चाविशेषात् । यथा हि पश्वादयः शब्दादिभिः श्रोत्रादीनां सम्बन्धे सति शब्दादिविज्ञाने प्रतिकूले जाते ततो निवर्तन्ते, अनुकूले प्रवर्तन्ते ; यथा ण्डोद्यतकरं पुरुषमभिमुखमुपलभ्यमां हन्तुमयमिच्छतिइति पलायितुमारभन्ते, हरिततृणपूर्णपाणिमुपलभ्य तं प्रति अभिमुखीभवन्ति ; एवं पुरुषा अपि व्युत्पन्नचित्ताः क्रूरदृष्टीनाक्रोशतः खड्गोद्यतकरान्बलवत उपलभ्य ततो निवर्तन्ते, तद्विपरीतान्प्रति प्रवर्तन्ते । अतः समानः पश्वादिभिः पुरुषाणां प्रमाणप्रमेयव्यवहारः । पश्वादीनां प्रसिद्धः अविवेकपूर्वकः प्रत्यक्षादिव्यवहारः । तत्सामान्यदर्शनाद्व्युत्पत्तिमतामपि पुरुषाणां प्रत्यक्षादिव्यवहारस्तत्कालः समान इति निश्चीयते । शास्त्रीये तु व्यवहारे यद्यपि बुद्धिपूर्वकारी नाविदित्वा आत्मनः परलोकसम्बन्धमधिक्रियते, तथापि वेदान्तवेद्यमशनायाद्यतीतमपेतब्रह्मक्षत्रादिभेदमसंसार्यात्मतत्त्वमधिकारेऽपेक्ष्यते, अनुपयोगात् अधिकारविरोधाच्च । प्राक् तथाभूतात्मविज्ञानात् प्रवर्तमानं शास्त्रमविद्यावद्विषयत्वं नातिवर्तते । तथा हि — ‘ब्राह्मणो यजेतइत्यादीनि शास्त्राण्यात्मनि वर्णाश्रमवयोऽवस्थादिविशेषाध्यासमाश्रित्य प्रवर्तन्ते । अध्यासो नाम अतस्मिंस्तद्बुद्धिरित्यवोचाम । तद्यथापुत्रभार्यादिषु विकलेषु सकलेषु वा अहमेव विकलः सकलो वेति बाह्यधर्मानात्मन्यध्यस्यति ; तथा देहधर्मान्स्थूलोऽहं कृशोऽहं गौरोऽहं तिष्ठामि गच्छामि लङ्घयामि इति ; थेन्द्रियधर्मान् — ‘मूकः काणः क्लीबो बधिरोऽन्धोऽहम्इति ; तथान्तःकरणधर्मान् कामसङ्कल्पविचिकित्साध्यवसायादीन् । एवहंप्रत्ययिनमशेषस्वप्रचारसाक्षिणि प्रत्यगात्मन्यध्यस्य तं प्रत्यगात्मानं सर्वसाक्षिणं तद्विपर्ययेणान्तःकरणादिष्वध्यस्यति । एवमयनादिरनन्तो नैसर्गिकोऽध्यासो मिथ्याप्रत्ययरूपः कर्तृत्वभोक्तृत्वप्रवर्तकः सर्वलोकप्रत्यक्षः । स्यानर्थहेतोः प्रहाणाय त्मैकत्वविद्याप्रतिपत्तये सर्वे वेदान्ता आरभ्यन्ते । यथा चायमर्थः सर्वेषां वेदान्तानाम् , तथा वयमस्यां शारीरकमीमांसायां प्रदर्शयिष्यामः । वेदान्तमीमांसाशास्त्रस्य व्याचिख्यासितस्येदमादिमं सूत्रम्
अथातो ब्रह्मजिज्ञासा ॥ १ ॥
तत्र अथशब्दः आनन्तर्यार्थः परिगृह्यते ; नाधिकारार्थः, ब्रह्मजिज्ञासाया अनधिकार्यत्वात् ; मङ्गलस्य वाक्यार्थे समन्वयाभावात् ; अर्थान्तरप्रयुक्त एव ह्यथशब्दः श्रुत्या मङ्गलप्रयोजनो भवति ; पूर्वप्रकृतापेक्षायाश्च फलत आनन्तर्याव्यतिरेकात् । सति आनन्तर्यार्थत्वे, यथा धर्मजिज्ञासा पूर्ववृत्तं वेदाध्ययनं नियमेनापेक्षते, एवं ब्रह्मजिज्ञासापि यत्पूर्ववृत्तं नियमेनापेक्षते तद्वक्तव्यम् । स्वाध्यायानन्तर्यं तु समानम् । नन्वि कर्मावबोधानन्तर्यं विशेषः ; ; धर्मजिज्ञासायाः प्रागपि अधीतवेदान्तस्य ब्रह्मजिज्ञासोपपत्तेः । यथा हृदयाद्यवदानानामानन्तर्यनियमः, क्रमस्य विवक्षितत्वात् , तथेह क्रमो विवक्षितः ; शेषशेषित्वे अधिकृताधिकारे वा प्रमाणाभावात् । धर्मब्रह्मजिज्ञासयोः फलजिज्ञास्यभेदाच्च । अभ्युदयफलं धर्मज्ञानम् , च्चानुष्ठानापेक्षम् ; निःश्रेयसफलं तु ब्रह्मज्ञानम् , चानुष्ठानान्तरापेक्षम् ; भव्यश्च धर्मो जिज्ञास्यो ज्ञानकालेऽस्ति, पुरुषव्यापारतन्त्रत्वात् ; इह तु भूतं ब्रह्म जिज्ञास्यं नित्यत्वान्न पुरुषव्यापारतन्त्रम् । चोदनाप्रवृत्तिभेदाच्च । या हि चोदना धर्मस्य लक्षणम् , सा स्वविषये नियुञ्जानैव पुरुषमवबोधयति । ब्रह्मचोदना तु पुरुषमवबोधयत्येव केवलम् , अवबोधस्य चोदनाजन्यत्वात् , पुरुषोऽवबोधे नियुज्यतेयथा अक्षार्थसन्निकर्षेणार्थावबोधे, तद्वत् । तस्मात्किमपि वक्तव्यम् , यदनन्तरं ब्रह्मजिज्ञासोपदिश्यत इति । उच्यतेनित्यानित्यवस्तुविवेकः, इहामुत्रार्थभोगविरागः, शमदमादिसाधनसम्पत् , मुमुक्षुत्वं  । तेषु हि सत्सु , प्रागपि धर्मजिज्ञासाया ऊर्ध्वं , शक्यते ब्रह्म जिज्ञासितुं ज्ञातुं ; विपर्यये । तस्मात् अथशब्देन यथोक्तसाधनसम्पत्त्यानन्तर्यमुपदिश्यते
अतःशब्दः हेत्वर्थः । यस्माद्वे एव अग्निहोत्रादीनां श्रेयःसाधनानामनित्यफलतां दर्शयतितद्यथेह कर्मचितो लोकः क्षीयत एवमेवामुत्र पुण्यचितो लोकः क्षीयते’ (छा. उ. ८ । १ । ६) इत्यादिः ; तथा ब्रह्मज्ञानादपि परं पुरुषार्थं दर्शयतिब्रह्मविदाप्नोति परम्’ (तै. उ. २ । १ । १) इत्यादिः ; तस्मात् यथोक्तसाधनसम्पत्त्यनन्तरं ब्रह्मजिज्ञासा कर्तव्या
ब्रह्मणो जिज्ञासा ब्रह्मजिज्ञासा । ब्रह्म वक्ष्यमाणलक्षणम्जन्माद्यस्य यतःइति । अत एव ब्रह्मशब्दस्य जात्याद्यर्थान्तरमाशङ्कितव्यम् । ब्रह्मण इति कर्मणि षष्ठी, शेषे ; जिज्ञास्यापेक्षत्वाज्जिज्ञासायाः, जिज्ञास्यान्तरानिर्देशाच्च । ननु शेषषष्ठीपरिग्रहेऽपि ब्रह्मणो जिज्ञासाकर्मत्वं विरुध्यते, सम्बन्धसामान्यस्य विशेषनिष्ठत्वात् ; एवमपि प्रत्यक्षं ब्रह्मणः कर्मत्वमुत्सृज्य सामान्यद्वारेण परोक्षं कर्मत्वं कल्पयतो व्यर्थः प्रयासः स्यात् । व्यर्थः, ब्रह्माश्रिताशेषविचारप्रतिज्ञानार्थत्वादिति चेत् , ; प्रधानपरिग्रहे तदपेक्षितानामर्थाक्षिप्तत्वात् । ब्रह्म हि ज्ञानेनाप्तुमिष्टतमत्वात्प्रधानम् । तस्मिन्प्रधाने जिज्ञासाकर्मणि परिगृहीते, यैर्जिज्ञासितैर्विना ब्रह्म जिज्ञासितं भवति, तान्यर्थाक्षिप्तान्येवेति पृथक्सूत्रयितव्यानि । यथाराजासौ गच्छतिइत्युक्ते सपरिवारस्य राज्ञो गमनमुक्तं भवति, तद्वत् । श्रुत्यनुगमाच्च । यतो वा इमानि भूतानि जायन्ते’ (तै. उ. ३ । १ । १)इत्याद्याः श्रुतयः तद्विजिज्ञासस्व तद्ब्रह्म’ (तै. उ. ३ । १ । १) इति प्रत्यक्षमेव ब्रह्मणो जिज्ञासाकर्मत्वं दर्शयन्ति । तच्च कर्मणिषष्ठीपरिग्रहे सूत्रेणानुगतं भवति । तस्माद्ब्रह्मण इति कर्मणि षष्ठी
ज्ञातुमिच्छा जिज्ञासा । अवगतिपर्यन्तं ज्ञानं सन्वाच्याया इच्छायाः कर्म, फलविषयत्वादिच्छायाः । ज्ञानेन हि प्रमाणेनावगन्तुमिष्टं ब्रह्म । ब्रह्मावगतिर्हि पुरुषार्थः, निःशेषसंसारबीजाविद्याद्यनर्थनिबर्हणात् । तस्माद्ब्रह्म जिज्ञासितव्यम्
त्पुनर्ब्रह्म प्रसिद्धमप्रसिद्धं वा स्यात् ; यदि प्रसिद्धं जिज्ञासितव्यम् । अथाप्रसिद्धं नैव शक्यं जिज्ञासितुमिति । उच्यतेअस्ति तावद्ब्रह्म नित्यशुद्धबुद्धमुक्तस्वभावं सर्वज्ञं सर्वशक्तिसमन्वितम् । ब्रह्मशब्दस्य हि व्युत्पाद्यमानस्य नित्यशुद्धत्वादयोऽर्थाः प्रतीयन्ते, बृंहतेर्धातोरर्थानुगमात् । सर्वस्यात्मत्वाच्च ब्रह्मास्तित्वप्रसिद्धिः । सर्वो ह्यात्मास्तित्वं प्रत्येति, नाहमस्मिइति । यदि हि नात्मास्तित्वप्रसिद्धिः स्यात् , सर्वो लोकःनाहमस्मिइति प्रतीयात् । आत्मा ब्रह्म । यदि तर्हि लोके ब्रह्म आत्मत्वेन प्रसिद्धमस्ति, ततो ज्ञातमेवेत्यजिज्ञास्यत्वं पुनरापन्नम् ; ; तद्विशेषं प्रति विप्रतिपत्तेः । देहमात्रं चैतन्यविशिष्टमात्मेति प्राकृता जना लोकायतिकाश्च प्रतिपन्नाः । इन्द्रियाण्येव चेतनान्यात्मेत्यपरे । मन इत्यन्ये । विज्ञानमात्रं क्षणिकमित्येके । शून्यमित्यपरे । अस्ति देहादिव्यतिरिक्तः संसारी कर्ता भोक्तेत्यपरे । भोक्तैव केवलं कर्तेत्येके । अस्ति तद्व्यतिरिक्त ईश्वरः सर्वज्ञः सर्वशक्तिरिति केचित् । आत्मा भोक्तुरित्यपरे । एवं बहवो विप्रतिपन्ना युक्तिवाक्यतदाभाससमाश्रयाः सन्तः । तत्राविचार्य यत्किञ्चित्प्रतिपद्यमानो निःश्रेयसात्प्रतिहन्येत, अनर्थं चेयात् । तस्माद्ब्रह्मजिज्ञासोपन्यासमुखेन वेदान्तवाक्यमीमांसा तदविरोधितर्कोपकरणा निःश्रेयसप्रयोजना प्रस्तूयते ॥ १ ॥
ब्रह्म जिज्ञासितव्यमित्युक्तम् । किंलक्षणं पुनस्तद्ब्रह्मेत्यत आह भगवान्सूत्रकारः
जन्माद्यस्य यतः ॥ २ ॥
जन्म उत्पत्तिः आदिः अस्यइति तद्गुणसंविज्ञानो बहुव्रीहिः । जन्मस्थितिभङ्गं समासार्थः । जन्मनश्चादित्वं श्रुतिनिर्देशापेक्षं वस्तुवृत्तापेक्षं  । श्रुतिनिर्देशस्तावत्यतो वा इमानि भूतानि जायन्ते’ (तै. उ. ३ । १ । १) इति, अस्मिन्वाक्ये जन्मस्थितिप्रलयानां क्रमदर्शनात् । वस्तुवृत्तमपिजन्मना लब्धसत्ताकस्य धर्मिणः स्थितिप्रलयसम्भवात् । अस्येति प्रत्यक्षादिसन्निधापितस्य धर्मिण इदमा निर्देशः । षष्ठी जन्मादिधर्मसम्बन्धार्था । यत इति कारणनिर्देशः । अस्य जगतो नामरूपाभ्यां व्याकृतस्य अनेककर्तृभोक्तृसंयुक्तस्य प्रतिनियतदेशकालनिमित्तक्रियाफलाश्रयस्य मनसाप्यचिन्त्यरचनारूपस्य जन्मस्थितिभङ्गं यतः सर्वज्ञात्सर्वशक्तेः कारणाद्भवति, तद्ब्रह्मेति वाक्यशेषः । अन्येषामपि भावविकाराणां त्रिष्वेवान्तर्भाव इति जन्मस्थितिनाशानामिह ग्रहणम् । यास्कपरिपठितानां तुजायतेऽस्तिइत्यादीनां ग्रहणे तेषां जगतः स्थितिकाले सम्भाव्यमानत्वान्मूलकारणादुत्पत्तिस्थितिनाशा जगतो गृहीताः स्युरित्याशङ्क्येत ; तन्मा शङ्कि ; इति या उत्पत्तिर्ब्रह्मणः , तत्रैव स्थितिः प्रलयश्च, एव गृह्यन्ते । यथोक्तविशेषणस्य जगतो यथोक्तविशेषणमीश्वरं मुक्त्वा, अन्यतः प्रधानादचेतनात् अणुभ्यः अभावात् संसारिणो वा उत्पत्त्यादि सम्भावयितुं शक्यम् । स्वभावतः, विशिष्टदेशकालनिमित्तानामिहोपादानात् । एतदेवानुमानं संसारिव्यतिरिक्तेश्वरास्तित्वादिसाधनं मन्यन्ते ईश्वरकारणवादिनः
न्विहापि तदेवोपन्यस्तं जन्मादिसूत्रे ; ; वेदान्तवाक्यकुसुमग्रथनार्थत्वात्सूत्राणाम् । वेदान्तवाक्यानि हि सूत्रैरुदाहृत्य विचार्यन्ते । वाक्यार्थविचारणाध्यवसाननिर्वृत्ता हि ब्रह्मावगतिः, नानुमानादिप्रमाणान्तरनिर्वृत्ता । सत्सु तु वेदान्तवाक्येषु जगतो जन्मादिकारणवादिषु , तदर्थग्रहणदार्ढ्याय अनुमानमपि वेदान्तवाक्याविरोधि प्रमाणं भवत् , निवार्यते, श्रुत्यैव सहायत्वेन तर्कस्याभ्युपेतत्वात् । तथा हिश्रोतव्यो मन्तव्यः’ (बृ. उ. २ । ४ । ५) इति श्रुतिः पण्डितो मेधावी गन्धारानेवोपसम्पद्येतैवमेवेहाचार्यवान्पुरुषो वेद’ (छा. उ. ६ । १४ । २) इति पुरुषबुद्धिसाहाय्यमात्मनो दर्शयति । धर्मजिज्ञासायामिव श्रुत्यादय एव प्रमाणं ब्रह्मजिज्ञासायाम् । किन्तु श्रुत्यादयोऽनुभवादयश्च यथासम्भवमिह प्रमाणम् , अनुभवावसानत्वाद्भूतवस्तुविषयत्वाच्च ब्रह्मज्ञानस्य । कर्तव्ये हि विषये नानुभवापेक्षास्तीति श्रुत्यादीनामेव प्रामाण्यं स्यात् , पुरुषाधीनात्मलाभत्वाच्च कर्तव्यस्य । कर्तुकर्तुमन्यथा वा कर्तुं शक्यं लौकिकं वैदिकं कर्म ; यथा अश्वेन गच्छति, पद्भ्याम् , अन्यथा वा, वा गच्छतीति । तथाअतिरात्रे षोडशिनं गृह्णाति, नातिरात्रे षोडशिनं गृह्णाति’ ‘उदिते जुहोति, अनुदिते जुहोतिइति । विधिप्रतिषेधाश्च अत्र अर्थवन्तः स्युः, विकल्पोत्सर्गापवादाश्च । तु वस्तुएवम् , नैवम्’ ‘अस्ति, नास्तिइति वा विकल्प्यते । विकल्पनास्तु पुरुषबुद्ध्यपेक्षाः । वस्तुयाथात्म्यज्ञानं पुरुषबुद्ध्यपेक्षम् । किं तर्हि ? वस्तुतन्त्रमेव तत् । हि स्थाणावेकस्मिन्स्थाणुर्वा, पुरुषोऽन्यो वाइति तत्त्वज्ञानं भवति । तत्रपुरुषोऽन्यो वाइति मिथ्याज्ञानम् । ‘स्थाणुरेवइति तत्त्वज्ञानम् , वस्तुतन्त्रत्वात् । एवं भूतवस्तुविषयाणां प्रामाण्यं वस्तुतन्त्रम् । त्रैवं सति ब्रह्मज्ञानमपि वस्तुतन्त्रमेव, भूतवस्तुविषयत्वात् । ननु भूतवस्तुविषयत्वे ब्रह्मणः प्रमाणान्तरविषयत्वमेवेति वेदान्तवाक्यविचारणा अनर्थिकैव प्राप्ता ; ; इन्द्रियाविषयत्वेन सम्बन्धाग्रहणात् । स्वभावतो विषयविषयाणीन्द्रियाणि, ब्रह्मविषयाणि । सति हीन्द्रियविषयत्वे ब्रह्मणः, इदं ब्रह्मणा सम्बद्धं कार्यमिति गृह्येत । कार्यमात्रमे तु गृह्यमाणम्किं ब्रह्मणा सम्बद्धम् ? किमन्येन केनचिद्वा सम्बद्धम् ? — इति शक्यं निश्चेतुम् । तस्माज्जन्मादिसूत्रं नानुमानोपन्यासार्थम् । किं तर्हि ? वेदान्तवाक्यप्रदर्शनार्थम् । किं पुनस्तद्वेदान्तवाक्यं यत् सूत्रेणेह लिलक्षयिषितम् ? भृगुर्वै वारुणिः । वरुणं पितरमुपससार । अधीहि भगवो ब्रह्मेति’ (तै. उ. ३ । १ । १) इत्युपक्रम्याहयतो वा इमानि भूतानि जायन्ते । येन जातानि जीवन्ति । यत्प्रयन्त्यभिसंविशन्ति । तद्विजिज्ञासस्व । तद्ब्रह्मेति । ’ (तै. उ. ३ । १ । १) तस्य निर्णयवाक्यम्आनन्दाद्ध्येव खल्विमानि भूतानि जायन्ते । आनन्देन जातानि जीवन्ति । आनन्दं प्रयन्त्यभिसंविशन्ति’ (तै. उ. ३ । ६ । १) इति । अन्यान्यप्येवंजातीयकानि वाक्यानि नित्यशुद्धबुद्धमुक्तस्वभावसर्वज्ञस्वरूपकारणविषयाणि उदाहर्तव्यानि ॥ २ ॥
जगत्कारणत्वप्रदर्शनेन सर्वज्ञं ब्रह्मेत्युपक्षिप्तम् , तदेव द्रढयन्नाह
शास्त्रयोनित्वात् ॥ ३ ॥
महत ऋग्वेदादेः शास्त्रस्य अनेकविद्यास्थानोपबृंहितस्य प्रदीपवत्सर्वार्थावद्योतिनः सर्वज्ञकल्पस्य योनिः कारणं ब्रह्म । हीदृशस्य शास्त्रस्य ऋग्वेदादिलक्षणस्य सर्वज्ञगुणान्वितस्य सर्वज्ञादन्यतः सम्भवोऽस्ति । यद्यद्विस्तरार्थं शास्त्रं यस्मात्पुरुषविशेषात्सम्भवति, यथा व्याकरणादि पाणिन्यादेः ज्ञेयैकदेशार्थमपि, ततोऽप्यधिकतरविज्ञान इति प्रसिद्धं लोके । किमु वक्तव्यम्अनेकशाखाभेदभिन्नस्य देवतिर्यङ्मनुष्यवर्णाश्रमादिप्रविभागहेतोः ऋग्वेदाद्याख्यस्य सर्वज्ञानाकरस्य अप्रयत्नेनै लीलान्यायेन पुरुषनिःश्वासवत् यस्मान्महतो भूतात् योनेः सम्भवःअस्य महतो भूतस्य निःश्वसितमेतत् यदृग्वेदः’ (बृ. उ. २ । ४ । १०) इत्यादिश्रुतेःतस्य महतो भूतस्य निरतिशयं सर्वज्ञत्वं सर्वशक्तिमत्त्वं चेति
अथवा यथोक्तमृग्वेदादिशास्त्रं योनिः कारणं प्रमाणमस्य ब्रह्मणो यथावत्स्वरूपाधिगमे । शास्त्रादेव प्रमाणात् जगतो जन्मादिकारणं ब्रह्माधिगम्यत इत्यभिप्रायः । शास्त्रमुदाहृतं पूर्वसूत्रेयतो वा इमानि भूतानि जायन्ते’ (तै. उ. ३ । १ । १) इत्यादि । किमर्थं तर्हीदं सूत्रम् , यावता पूर्वसूत्रेणैव एवंजातीयकं शास्त्रमुदाहरता शास्त्रयोनित्वं ब्रह्मणो दर्शितम् । उच्यतेतत्र सूत्राक्षरेण स्पष्टं शास्त्रस्यानुपादानाज्जन्मादिसूत्रेण केवलमनुमानमुपन्यस्तमित्याशङ्क्येत ; तामाशङ्कां निवर्तयितुमिदं सूत्रं प्रववृते — ‘शास्त्रयोनित्वात्इति ॥ ३ ॥
कथं पुनर्ब्रह्मणः शास्त्रप्रमाणकत्वमुच्यते, यावता आम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थानाम्’ (जै. सू. १ । २ । १) इति क्रियापरत्वं शास्त्रस्य प्रदर्शितम् । अतो वेदान्तानामानर्थक्यम् , अक्रियार्थत्वात् ; कर्तृदेवतादिप्रकाशनार्थत्वेन वा क्रियाविधिशेषत्वम् , उपासनादिक्रियान्तरविधानार्थत्वं वा । हि परिनिष्ठितवस्तुप्रतिपादनं सम्भवति ; प्रत्यक्षादिविषयत्वात्परिनिष्ठितवस्तुनः, त्प्रतिपादने हेयोपादेयरहिते पुरुषार्थाभावात् । अत एवसोऽरोदीत्इत्येवमादीनामानर्थक्यं मा भूदिति विधिना त्वेकवाक्यत्वात्स्तुत्यर्थेन विधीनां स्युः’ (जै. सू. १ । २ । ७) इति स्तावकत्वेनार्थवत्त्वमुक्तम् । मन्त्राणां इषे त्वाइत्यादीनां क्रियातत्साधनाभिधायित्वेन कर्मसमवायित्वमुक्तम् । अतो क्वचिपि वेदवाक्यानां विधिसंस्पर्शमन्तरेणार्थवत्ता दृष्टा उपपन्ना वा । परिनिष्ठिते वस्तुस्वरूपे विधिः सम्भवति, क्रियाविषयत्वाद्विधेः । तस्मात्कर्मापेक्षितकर्तृदेवतादिस्वरूपप्रकाशनेन क्रियाविधिशेषत्वं वेदान्तानाम् । अथ प्रकरणान्तरभयान्नैतदभ्युपगम्यते, तथापि स्ववाक्यगतोपासनादिकर्मपरत्वम् । तस्मान्न ब्रह्मणः शास्त्रयोनित्वमिति प्राप्ते, उच्यते
तत्तु समन्वयात् ॥ ४ ॥
तुशब्दः पूर्वपक्षव्यावृत्त्यर्थः । तद्ब्रह्म सर्वज्ञं सर्वशक्ति जगदुत्पत्तिस्थितिलयकारणं वेदान्तशास्त्रादेवावगम्यते । कथम् ? समन्वयात् । सर्वेषु हि वेदान्तेषु वाक्यानि तात्पर्येणैतस्यार्थस्य प्रतिपादकत्वेन समनुगतानि । सदेव सोम्येदमग्र आसीत् एकमेवाद्वितीयम्’ (छा. उ. ६ । २ । १) आत्मा वा इदमेक एवाग्र आसीत्’ (ऐ. उ. १ । १ । १) तदेतद्ब्रह्मापूर्वमनपरमनन्तरमबाह्यम्’ (बृ. उ. २ । ५ । १९) अयमात्मा ब्रह्म सर्वानुभूः’ (बृ. उ. २ । ५ । १९) ब्रह्मैवेदमृतं पुरस्तात्’ (मु. उ. २ । २ । १२) इत्यादीनि । तद्गतानां पदानां ब्रह्मस्वरूपविषये निश्चिते समन्वयेऽवगम्यमाने अर्थान्तरकल्पना युक्ता, श्रुतहान्यश्रुतकल्पनाप्रसङ्गात् । तेषां कर्तृदेवतादिस्वरूपप्रतिपादनपरता अवसीयते, तत्केन कं पश्येत्’ (बृ. उ. २ । ४ । १४) इत्यादिक्रियाकारकफलनिराकरणश्रुतेः । परिनिष्ठितवस्तुस्वरूपत्वेऽपि प्रत्यक्षादिविषयत्वं ब्रह्मणः, तत्त्वमसि’ (छा. उ. ६ । ८ । ७) इति ब्रह्मात्मभावस्य शास्त्रमन्तरेणानवगम्यमानत्वात् । यत्तु हेयोपादेयरहितत्वादुपदेशानर्थक्यमिति, नै दोषः ; हेयोपादेयशून्यब्रह्मात्मतावगमादेव सर्वक्लेशप्रहाणात्पुरुषार्थसिद्धेः । देवतादिप्रतिपादनस्य तु स्ववाक्यगतोपासनार्थत्वेऽपि कश्चिद्विरोधः । तु तथा ब्रह्मण उपासनाविधिशेषत्वं सम्भवति, एकत्वे हेयोपादेयशून्यतया क्रियाकारकादिद्वैतविज्ञानोपमर्दोपपत्तेः । हि एकत्वविज्ञानेनोन्मथितस्य द्वैतविज्ञानस्य पुनः सम्भवोऽस्ति येनोपासनाविधिशेषत्वं ब्रह्मणः प्रतिपाद्येत । यद्यप्यन्यत्र वेदवाक्यानां विधिसंस्पर्शमन्तरेण प्रमाणत्वं दृष्टम् , तथाप्यात्मविज्ञानस्य फलपर्यन्तत्वान्न तद्विषयस्य शास्त्रस्य प्रामाण्यं शक्यं प्रत्याख्यातुम् । चानुमानगम्यं शास्त्रप्रामाण्यम् , येनान्यत्र दृष्टं निदर्शनमपेक्ष्येत । तस्मात्सिद्धं ब्रह्मणः शास्त्रप्रमाणकत्वम्
अत्रापरे प्रत्यवतिष्ठन्तेयद्यपि शास्त्रप्रमाणकं ब्रह्म, तथापि प्रतिपत्तिविधिविषयतयैव शास्त्रेण ब्रह्म समर्प्यते ; यथा यूपाहवनीयादीन्यलौकिकान्यपि विधिशेषतया शास्त्रेण समर्प्यन्ते, तद्वत् । कुत एतत् ? प्रवृत्तिनिवृत्तिप्रयोजनपरत्वाच्छास्त्रस्य । तथा हि शास्त्रतात्पर्यविदामनुक्रमणम् — ‘दृष्टो हि तस्यार्थः कर्मावबोधनं नामइति ; ‘चोदनेति क्रियायाः प्रवर्तकं वचनम्तस्य ज्ञानमुपदेशः’ (जै. सू. १ । १ । ५) तद्भूतानां क्रियार्थेन समाम्नायः’ (जै. सू. १ । १ । २५) आम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थानाम्’ (जै. सू. १ । २ । १) इति  । अतः पुरुषं क्वचिद्विषयविशेषे प्रवर्तयत्कुतश्चिद्विषयविशेषान्निवर्तयच्चार्थवच्छास्त्रम् । तच्छेषतया चान्यदुपयुक्तम् । तत्सामान्याद्वेदान्तानामपि तथैवार्थवत्त्वं स्यात् । सति विधिपरत्वे, यथा स्वर्गादिकामस्याग्निहोत्रादिसाधनं विधीयते, एवममृतत्वकामस्य ब्रह्मज्ञानं विधीयत इति युक्तम् । न्विह जिज्ञास्यवैलक्षण्यमुक्तम्कर्मकाण्डे भव्यो धर्मो जिज्ञास्यः, इह तु भूतं नित्यनिर्वृत्तं ब्रह्म जिज्ञास्यमिति ; तत्र धर्मज्ञानफलादनुष्ठानापेक्षाद्विलक्षणं ब्रह्मज्ञानफलं भवितुमर्हति । नार्हत्येवं भवितुम् , कार्यविधिप्रयुक्तस्यैव ब्रह्मणः प्रतिपाद्यमानत्वात् । आत्मा वा अरे द्रष्टव्यः’ (बृ. उ. २ । ४ । ५) आत्मापहतपाप्मा ... सोऽन्वेष्टव्यः विजिज्ञासितव्यः’ (छा. उ. ८ । ७ । १) आत्मेत्येवोपासीत’ (बृ. उ. १ । ४ । ७) आत्मानमेव लोकमुपासीत’ (बृ. उ. १ । ४ । १५) ब्रह्म वेद ब्रह्मैव भवति’ (मु. उ. ३ । २ । ९) इत्यादिषु विधानेषु सत्सु, ‘कोऽसावात्मा ?’ ‘किं तद्ब्रह्म ?’ इत्याकाङ्क्षायां तत्स्वरूपसमर्पणेन सर्वे वेदान्ता उपयुक्ताःनित्यः सर्वज्ञः सर्वगतो नित्यतृप्तो नित्यशुद्धबुद्धमुक्तस्वभावो विज्ञानमानन्दं ब्रह्म इत्येवमादयः । तदुपासनाच्च शास्त्रदृष्टोऽदृष्टो मोक्षः फलं भविष्यति । कर्तव्यविध्यननुप्रवेशे तु वस्तुमात्रकथने हानोपादानासम्भवात्सप्तद्वीपा वसुमती’ ‘राजासौ गच्छतिइत्यादिवाक्यवद्वेदान्तवाक्यानामानर्थक्यमेव स्यात् । ननु वस्तुमात्रकथनेऽपिरज्जुरियम् , नायं सर्पःइत्यादौ भ्रान्तिजनितभीतिनिवर्तनेनार्थवत्त्वं दृष्टम् ; तथेहाप्यसंसार्यात्मवस्तुकथनेन संसारित्वभ्रान्तिनिवर्तनेनार्थवत्त्वं स्यात् । स्यादेतदेवम् , यदि रज्जुस्वरूपश्रवणमात्रेणेव सर्पभ्रान्तिः, संसारित्वभ्रान्तिर्ब्रह्मस्वरूपश्रवणमात्रेण निवर्तेत ; तु निवर्तते ; श्रुतब्रह्मणोऽपि यथापूर्वं सुखदुःखादिसंसारिधर्मदर्शनात् , श्रोतव्यो मन्तव्यो निदिध्यासितव्यः’ (बृ. उ. २ । ४ । ५) इति श्रवणोत्तरकालयोर्मनननिदिध्यासनयोर्विधिदर्शनात् । तस्मात्प्रतिपत्तिविधिविषयतयैव शास्त्रप्रमाणकं ब्रह्माभ्युपगन्तव्यमिति
अत्राभिधीयते ; कर्मब्रह्मविद्याफलयोर्वैलक्षण्यात् । शारीरं वाचिकं मानसं कर्म श्रुतिस्मृतिसिद्धं धर्माख्यम् , यद्विषया जिज्ञासा अथातो धर्मजिज्ञासा’ (जै. सू. १ । १ । १) इति सूत्रिता । अधर्मोऽपि हिंसादिः प्रतिषेधचोदनालक्षणत्वाज्जिज्ञास्यः परिहाराय । तयोश्चोदनालक्षणयोरर्थानर्थयोर्धर्माधर्मयोः फले प्रत्यक्षे सुखदुःखे शरीरवाङ्मनोभिरेवोपभुज्यमाने विषयेन्द्रियसंयोगजन्ये ब्रह्मादिषु स्थावरान्तेषु प्रसिद्धे । मनुष्यत्वादारभ्य ब्रह्मान्तेषु देहवत्सु सुखतारतम्यमनुश्रूयते । ततश्च तद्धेतोर्धर्मस्यापि तारतम्यं गम्यते । धर्मतारतम्यादधिकारितारतम्यम् । प्रसिद्धं चार्थित्वसामर्थ्यादिकृतमधिकारितारतम्यम् । तथा यागाद्यनुष्ठायिनामेव विद्यासमाधिविशेषादुत्तरेण पथा गमनम् , केवलैरिष्टापूर्तदत्तसाधनैर्धूमादिक्रमेण दक्षिणेन पथा गमनम् , तत्रापि सुखतारतम्यम् , तत्साधनतारतम्यं शास्त्रात् यावत्सम्पातमुषित्वा’ (छा. उ. ५ । १० । ५) इत्यस्माद्गम्यते । तथा मनुष्यादिषु स्थावरान्तेषु सुखलवश्चोदनालक्षणधर्मसाध्य एवेति गम्यते तारतम्येन वर्तमानः । तथोर्ध्वगतेष्वधोगतेषु देहवत्सु दुःखतारतम्यदर्शनात्तद्धेतोरधर्मस्य प्रतिषेधचोदनालक्षणस्य तदनुष्ठायिनां तारतम्यं गम्यते । एवमविद्यादिदोषवतां धर्माधर्मतारतम्यनिमित्तं शरीरोपादानपूर्वकं सुखदुःखतारतम्यमनित्यं संसाररूपं श्रुतिस्मृतिन्यायप्रसिद्धम् । तथा श्रुतिः वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्तिइति यथावर्णितं संसाररूपमनुवदति । अशरीरं वाव सन्तं प्रियाप्रिये स्पृशतः’ (छा. उ. ८ । १२ । १) इति प्रियाप्रियस्पर्शनप्रतिषेधाच्चोदनालक्षणधर्मकार्यत्वं मोक्षाख्यस्याशरीरत्वस्य प्रतिषिध्यत इति गम्यते । धर्मकार्यत्वे हि प्रियाप्रियस्पर्शनप्रतिषेधो नोपपद्येत । अशरीरत्वमेव धर्मकार्यमिति चेत् , ; तस्य स्वाभाविकत्वात्अशरीरꣳ शरीरेष्वनवस्थेष्ववस्थितम् । महान्तं विभुमात्मानं मत्वा धीरो शोचति’ (क. उ. १ । २ । २२) अप्राणो ह्यमनाः शुभ्रः’ (मु. उ. २ । १ । २) असङ्गो ह्ययं पुरुषः’ (बृ. उ. ४ । ३ । १५) इत्यादिश्रुतिभ्यः । अत एवानुष्ठेयकर्मफलविलक्षणं मोक्षाख्यमशरीरत्वं नित्यमिति सिद्धम् । तत्र किञ्चित्परिणामिनित्यं यस्मिन्विक्रियमाणेऽपि तदेवेदमिति बुद्धिर्न विहन्यते ; यथा पृथिव्यादि जगन्नित्यत्ववादिनाम् , यथा वा सांख्यानां गुणाः । इदं तु पारमार्थिकं कूटस्थनित्यं व्योमवत्सर्वव्यापि सर्वविक्रियारहितं नित्यतृप्तं निरवयवं स्वयंज्योतिःस्वभावम् , यत्र धर्माधर्मौ सह कार्येण कालत्रयं नोपावर्तेते ; तदेतदशरीरत्वं मोक्षाख्यम्अन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात्कृताकृतात् । अन्यत्र भूताच्च भव्याच्च’ (क. उ. १ । २ । १४) इत्यादिश्रुतिभ्यः । अतस्तद्ब्रह्म, यस्येयं जिज्ञासा प्रस्तुता । तद्यदि कर्तव्यशेषत्वेनोपदिश्येत, तेन कर्तव्येन साध्यश्चेन्मोक्षोऽभ्युपगम्येत, अनित्य एव स्यात् । त्रैवं सति यथोक्तकर्मफलेष्वेव तारतम्यावस्थितेष्वनित्येषु कश्चिदतिशयो मोक्ष इति प्रसज्येत । नित्यश्च मोक्षः सर्वैर्मोक्षवादिभिरभ्युपगम्यते । अतो कर्तव्यशेषत्वेन ब्रह्मोपदेशो युक्तः । अपि ब्रह्म वेद ब्रह्मैव भवति’ (मु. उ. ३ । २ । ९) क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे’ (मु. उ. २ । २ । ९) आनन्दं ब्रह्मणो विद्वान्न बिभेति कुतश्चन’ (तै. उ. २ । ९ । १) अभयं वै जनक प्राप्तोऽसि’ (बृ. उ. ४ । २ । ४) तदात्मानमेवावेदहं ब्रह्मास्मीति, तस्मात्तत्सर्वमभवत्’ (वाजसनेयि ब्रह्मण. उ. १ । ४ । १०) तत्र को मोहः कः शोक एकत्वमनुपश्यतः’ (ई. उ. ७) इत्येवमाद्याः श्रुतयो ब्रह्मविद्यानन्तरमेव मोक्षं दर्शयन्त्यो मध्ये कार्यान्तरं वारयन्ति । तथा तद्धैतत्पश्यन्नृषिर्वामदेवः प्रतिपेदेऽहं मनुरभवं सूर्यश्च’ (बृ. उ. १ । ४ । १०) इति ब्रह्मदर्शनसर्वात्मभावयोर्मध्ये कर्तव्यान्तरवारणायोदाहार्यम्यथातिष्ठन्गायतिइति तिष्ठतिगायत्योर्मध्ये तत्कर्तृकं कार्यान्तरं नास्तीति गम्यते । त्वं हि नः पिता योऽस्माकमविद्यायाः परं पारं तारयसि’ (प्र. उ. ६ । ८) श्रुतं ह्ये मे भगवद्दृशेभ्यस्तरति शोकमात्मविदिति ; सोऽहं भगवः शोचामि, तं मा भगवाञ्छोकस्य पारं तारयतु’ (छा. उ. ७ । १ । ३) तस्मै मृदितकषायाय तमसः पारं दर्शयति भगवान्सनत्कुमारः’ (छा. उ. ७ । २६ । २) इति चैवमाद्याः श्रुतयो मोक्षप्रतिबन्धनिवृत्तिमात्रमेवात्मज्ञानस्य फलं दर्शयन्ति । तथा आचार्यप्रणीतं न्यायोपबृंहितं सूत्रम्दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्गः’ (न्या. सू. १ । १ । २) इति । मिथ्याज्ञानापायश्च ब्रह्मात्मैकत्वविज्ञानाद्भवति । चेदं ब्रह्मात्मैकत्वविज्ञानं सम्पद्रूपम्यथा अनन्तं वै मनोऽनन्ता विश्वेदेवा अनन्तमेव तेन लोकं जयति’ (बृ. उ. ३ । १ । ९) इति । चाध्यासरूपम्यथा मनो ब्रह्मेत्युपासीत’ (छा. उ. ३ । १८ । १) आदित्यो ब्रह्मेत्यादेशः’ (छा. उ. ३ । १९ । १) इति मनआदित्यादिषु ब्रह्मदृष्ट्यध्यासः । नापि विशिष्टक्रियायोगनिमित्तम् वायुर्वाव संवर्गः’ (छा. उ. ४ । ३ । १) प्राणो वाव संवर्गः’ (छा. उ. ४ । ३ । ३) इतिवत् । नाप्याज्यावेक्षणादिकर्मवत्कर्माङ्गसंस्काररूपम् । सम्पदादिरूपे हि ब्रह्मात्मैकत्वविज्ञानेऽभ्युपगम्यमाने, तत्त्वमसि’ (छा. उ. ६ । ८ । ७) अहं ब्रह्मास्मि’ (बृ. उ. १ । ४ । १०) अयमात्मा ब्रह्म’ (बृ. उ. २ । ५ । १९) इत्येवमादीनां वाक्यानां ब्रह्मात्मैकत्ववस्तुप्रतिपादनपरः पदसमन्वयः पीड्येत । भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः’ (मु. उ. २ । २ । ९) इति चैवमादीन्यविद्यानिवृत्तिफलश्रवणान्युपरुध्येरन् । ब्रह्म वेद ब्रह्मैव भवति’ (मु. उ. ३ । २ । ९) इति चैवमादीनि तद्भावापत्तिवचनानि सम्पदादिरूपत्वे सामञ्जस्येनोपपद्येरन् । तस्मान्न सम्पदादिरूपं ब्रह्मात्मैकत्वविज्ञानम् । अतो पुरुषव्यापारतन्त्रा ब्रह्मविद्या । किं तर्हि ? प्रत्यक्षादिप्रमाणविषयवस्तुज्ञानवद्वस्तुतन्त्रैव । एवंभूतस्य ब्रह्मणस्तज्ज्ञानस्य कयाचिद्युक्त्या शक्यः कार्यानुप्रवेशः कल्पयितुम् । विदिक्रियाकर्मत्वेन कार्यानुप्रवेशो ब्रह्मणःअन्यदेव तद्विदितादथो अविदितादधि’ (के. उ. १ । ४) इति विदिक्रियाकर्मत्वप्रतिषेधात् , येनेदं सर्वं विजानाति तं केन विजानीयात्’ (बृ. उ. २ । ४ । १४) इति  । तथोपास्तिक्रियाकर्मत्वप्रतिषेधोऽपि भवति — ‘यद्वाचानभ्युदितं येन वागभ्युद्यतेइत्यविषयत्वं ब्रह्मण उपन्यस्य, तदेव ब्रह्म त्वं विद्धि, नेदं यदिदमुपासते’ (के. उ. १ । ५) इति । अविषयत्वे ब्रह्मणः शास्त्रयोनित्वानुपपत्तिरिति चेत् , ; अविद्याकल्पितभेदनिवृत्तिपरत्वाच्छास्त्रस्य । हि शास्त्रमिदंतया विषयभूतं ब्रह्म प्रतिपिपादयिषति । किं तर्हि ? प्रत्यगात्मत्वेनाविषयतया प्रतिपादयत् अविद्याकल्पितं वेद्यवेदितृवेदनादिभेदमपनयति । तथा शास्त्रम्यस्यामतं तस्य मतं मतं यस्य वेद सः । अविज्ञातं विजानतां विज्ञातमविजानताम्’ (के. उ. २ । ३) दृष्टेर्द्रष्टारं पश्येः’ (बृ. उ. ३ । ४ । २) विज्ञातेर्विज्ञातारं विजानीयाः’ (बृ. उ. ३ । ४ । २) इति चैवमादि । अतोऽविद्याकल्पितसंसारित्वनिवर्तनेन नित्यमुक्तात्मस्वरूपसमर्पणान्न मोक्षस्यानित्यत्वदोषः । यस्य तूत्पाद्यो मोक्षः, तस्य मानसं वाचिकं कायिकं वा कार्यमपेक्षत इति युक्तम् । तथा विकार्यत्वे  । तयोः पक्षयोर्मोक्षस्य ध्रुवमनित्यत्वम् । हि दध्यादि विकार्यम् उत्पाद्यं वा घटादि नित्यं दृष्टं लोके । आप्यत्वेनापि कार्यापेक्षा, स्वात्मस्वरूपत्वे सत्यनाप्यत्वात् ; स्वरूपव्यतिरिक्तत्वेऽपि ब्रह्मणो नाप्यत्वम् , सर्वगतत्वेन नित्याप्तस्वरूपत्वात्सर्वेण ब्रह्मण आकाशस्येव । नापि संस्कार्यो मोक्षः, येन व्यापारमपेक्षेत । संस्कारो हि नाम संस्कार्यस्य गुणाधानेन वा स्यात् , दोषापनयनेन वा । तावद्गुणाधानेन सम्भवति, अनाधेयातिशयब्रह्मस्वरूपत्वान्मोक्षस्य । नापि दोषापनयनेन, नित्यशुद्धब्रह्मस्वरूपत्वान्मोक्षस्य । स्वात्मधर्म एव सन् तिरोभूतो मोक्षः क्रिययात्मनि संस्क्रियमाणेऽभिव्यज्यतेयथा आदर्शे निघर्षणक्रियया संस्क्रियमाणे भास्वरत्वं धर्म इति चेत् , ; क्रियाश्रयत्वानुपपत्तेरात्मनः । यदाश्रया हि क्रिया, तमविकुर्वती नैवात्मानं लभते । द्यात्मा क्रियया विक्रियेत, अनित्यत्वमात्मनः प्रसज्येत । ‘अविकार्योऽयमुच्यतेइति चैवमादीनि वाक्यानि बाध्येरन् । तच्चानिष्टम् । तस्मान्न स्वाश्रया क्रिया आत्मनः सम्भवति । अन्याश्रयायास्तु क्रियाया अविषयत्वान्न तयात्मा संस्क्रियते । ननु देहाश्रयया स्नानाचमनयज्ञोपवीतधारणादिकया क्रियया देही संस्क्रियमाणो दृष्टः, ; देहादिसंहतस्यैवाविद्यागृहीतस्यात्मनः संस्क्रियमाणत्वात् । प्रत्यक्षं हि स्नानाचमनादेर्देहसमवायित्वम् । तया देहाश्रयया तत्संहत एव कश्चिविद्ययात्मत्वेन परिगृहीतः संस्क्रियत इति युक्तम् । यथा देहाश्रयचिकित्सानिमित्तेन धातुसाम्येन तत्संहतस्य तदभिमानिन आरोग्यफलम् , ‘अहमरोगःइति यत्र बुद्धिरुत्पद्यतेएवं स्नानाचमनयज्ञोपवीतधारणादिकयाअहं शुद्धः संस्कृतःइति यत्र बुद्धिरुपद्यते, संस्क्रियते । देहेन संहत एव । तेनैव ह्यहंकर्त्रा अहंप्रत्ययविषयेण प्रत्ययिना सर्वाः क्रिया निर्वर्त्यन्ते । तत्फलं एवाश्नाति, तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्योऽभिचाकशीति’ (मु. उ. ३ । १ । १) इति मन्त्रवर्णात्आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः’ (क. उ. १ । ३ । ४) इति  । तथा एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा । कर्माध्यक्षः सर्वभूताधिवासः साक्षी चेता केवलो निर्गुणश्च’ (श्वे. उ. ६ । ११) इति, पर्यगाच्छुक्रमकायमव्रणमस्नाविरं शुद्धमपापविद्धम्’ (ई. उ. ८) इति, एतौ मन्त्रावनाधेयातिशयतां नित्यशुद्धतां ब्रह्मणो दर्शयतः । ब्रह्मभावश्च मोक्षः । तस्मान्न संस्कार्योऽपि मोक्षः । अतोऽन्यन्मोक्षं प्रति क्रियानुप्रवेशद्वारं शक्यं केनचिद्दर्शयितुम् । तस्माज्ज्ञानमेकं मुक्त्वा क्रियाया गन्धमात्रस्याप्यनुप्रवेश इह नोपपद्यते । ननु ज्ञानं नाम मानसी क्रिया, ; वैलक्षण्यात् । क्रिया हि नाम सा, यत्र वस्तुस्वरूपनिरपेक्षैव चोद्यते, पुरुषचित्तव्यापाराधीना , यथा — ‘यस्यै देवतायै हविर्गृहीतं स्यात्तां मनसा ध्यायेद्वषट्करिष्यन्इति, संध्यां मनसा ध्यायेत्’ (ऐ. ब्रा. ३ । ८ । १) इति चैवमादिषु । ध्यानं चिन्तनं यद्यपि मानसम् , तथापि पुरुषेण कर्तुमकर्तुमन्यथा वा कर्तुं शक्यम् , पुरुषतन्त्रत्वात् । ज्ञानं तु प्रमाणजन्यम् । प्रमाणं यथाभूतवस्तुविषयम् । अतो ज्ञानं कर्तुमकर्तुमन्यथा वा कर्तुमशक्यम् । केवलं वस्तुतन्त्रमेव तत् ; चोदनातन्त्रम् , नापि पुरुषतन्त्रम् ; तस्मान्मानसत्वेऽपि ज्ञानस्य महद्वैलक्षण्यम् । यथा पुरुषो वाव गौतमाग्निः’ (छा. उ. ५ । ७ । १) योषा वाव गौतमाग्निः’ (छा. उ. ५ । ७ । १) इत्यत्र योषित्पुरुषयोरग्निबुद्धिर्मानसी भवति ; केवलचोदनाजन्यत्वात् क्रियैव सा पुरुषतन्त्रा  । या तु प्रसिद्धेऽग्नावग्निबुद्धिः, सा चोदनातन्त्रा ; नापि पुरुषतन्त्रा । किं तर्हि ? प्रत्यक्षविषयवस्तुतन्त्रैवेति ज्ञानमेवैतत् ; क्रियाएवं सर्वप्रमाणविषयवस्तुषु वेदितव्यम् । त्रैवं सति यथाभूतब्रह्मात्मविषयमपि ज्ञानं चोदनातन्त्रम् । तद्विषये लिङादयः श्रूयमाणा अपि अनियोज्यविषयत्वात्कुण्ठीभवन्ति उपलादिषु प्रयुक्तक्षुरतैक्ष्ण्यादिवत् , अहेयानुपादेयवस्तुविषयत्वात् । किमर्थानि तर्हि आत्मा वा अरे द्रष्टव्यः श्रोतव्यः’ (बृ. उ. २ । ४ । ५) इत्यादीनि विधिच्छायानि वचनानि ? स्वाभाविकप्रवृत्तिविषयविमुखीकरणार्थानीति ब्रूमः । यो हि बहिर्मुखः प्रवर्तते पुरुषःइष्टं मे भूयादनिष्टं मा भूत्इति, तत्रात्यन्तिकं पुरुषार्थं लभते, मात्यन्तिकपुरुषार्थवाञ्छिनं स्वाभाविकात्कार्यकरणसङ्घातप्रवृत्तिगोचराद्विमुखीकृत्य प्रत्यगात्मस्रोतस्तया प्रवर्तयन्तिआत्मा वा अरे द्रष्टव्यःइत्यादीनि ; तस्यात्मान्वेषणाय प्रवृत्तस्याहेयमनुपादेयं चात्मतत्त्वमुपदिश्यतेइदं सर्वं यदयमात्मा’ (बृ. उ. २ । ४ । ६) यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत् ... केन कं विजानीयात्’ (बृ. उ. ४ । ५ । १५) विज्ञातारमरे केन विजानीयात्’ (बृ. उ. २ । ४ । १४) अयमात्मा ब्रह्म’ (बृ. उ. २ । ५ । १९) इत्यादिभिः । यदप्यकर्तव्यप्रधानमात्मज्ञानं हानायोपादानाय वा भवतीति, त्तथैवेत्यभ्युपगम्यते । अलङ्कारो ह्ययमस्माकम्यद्ब्रह्मात्मावगतौ सत्यां सर्वकर्तव्यताहानिः कृतकृत्यता चेति । तथा श्रुतिःआत्मानं चेद्विजानीयादयमस्मीति पूरुषः । किमिच्छन्कस्य कामाय शरीरमनुसंज्वरेत्’ (बृ. उ. ४ । ४ । १२) इति, एतद्बुद्ध्वा बुद्धिमान्स्यात्कृतकृत्यश्च भारत’ (भ. गी. १५ । २०) इति स्मृतिः । तस्मान्न प्रतिपत्तिविधिविषयतया ब्रह्मणः समर्पणम्
यदपि केचिदाहुःप्रवृत्तिनिवृत्तिविधितच्छेषव्यतिरेकेण केवलवस्तुवादी वेदभागो नास्तीति, तन्न ; औपनिषदस्य पुरुषस्यानन्यशेषत्वात् । योऽसावुपनिषत्स्वेवाधिगतः पुरुषोऽसंसारी ब्रह्मस्वरूपः उत्पाद्यादिचतुर्विधद्रव्यविलक्षणः स्वप्रकरणस्थोऽनन्यशेषः, नासौ नास्ति नाधिगम्यत इति वा शक्यं वदितुम् ; एष नेति नेत्यात्मा’ (बृ. उ. ३ । ९ । २६) इत्यात्मशब्दात् आत्मनश्च प्रत्याख्यातुमशक्यत्वात् , एव निराकर्ता तस्यैवात्मत्वात् । न्वात्मा अहंप्रत्ययविषयत्वादुपनिषत्स्वेव विज्ञायत इत्यनुपपन्नम् ; , तत्साक्षित्वेन प्रत्युक्तत्वात् । ह्यहंप्रत्ययविषयकर्तृव्यतिरेकेण तत्साक्षी सर्वभूतस्थः सम एकः कूटस्थनित्यः पुरुषो विधिकाण्डे तर्कसमये वा केनचिदधिगतः सर्वस्यात्मा । अतः केनचित्प्रत्याख्यातुं शक्यः, विधिशेषत्वं वा नेतुम्आत्मत्वादे सर्वेषाम् हेयो नाप्युपादेयः । सर्वं हि विनश्यद्विकारजातं पुरुषान्तं विनश्यति ; पुरुषो हि विनाशहेत्वभावादविनाशी ; विक्रियाहेत्वभावाच्च कूटस्थनित्यः ; अत एव नित्यशुद्धबुद्धमुक्तस्वभावः ; तस्मात् पुरुषान्न परं किञ्चित्सा काष्ठा सा परा गतिः’ (क. उ. १ । ३ । ११) तं त्वौपनिषदं पुरुषं पृच्छामि’ (बृ. उ. ३ । ९ । २६) इति चौपनिषदत्वविशेषणं पुरुषस्योपनिषत्सु प्राधान्येन प्रकाश्यमानत्वे उपपद्यते । अतो भूतवस्तुपरो वेदभागो नास्तीति वचनं साहसमात्रम्
यदपि शास्त्रतात्पर्यविदामनुक्रमणम् — ‘दृष्टो हि तस्यार्थः कर्मावबोधनम्इत्येवमादि, तत् धर्मजिज्ञासाविषयत्वाद्विधिप्रतिषेधशास्त्राभिप्रायं द्रष्टव्यम् । अपि आम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थानाम्इत्येतदेकान्तेनाभ्युपगच्छतां भूतोपदेशानर्थक्यप्रसङ्गः । प्रवृत्तिनिवृत्तिविधितच्छेषव्यतिरेकेण भूतं चेद्वस्तूपदिशति भव्यार्थत्वेन, कूटस्थनित्यं भूतं नोपदिशतीति को हेतुः । हि भूतमुपदिश्यमानं क्रिया भवति । अक्रियात्वेऽपि भूतस्य क्रियासाधनत्वात्क्रियार्थ एव भूतोपदेश इति चेत् , नैष दोषः ; क्रियार्थत्वेऽपि क्रियानिर्वर्तनशक्तिमद्वस्तूपदिष्टमेव ; क्रियार्थत्वं तु प्रयोजनं तस्य ; चैतावता वस्त्वनुपदिष्टं भवति । यदि नामोपदिष्टं किं तव तेन स्यादिति, उच्यतेअनवगतात्मवस्तूपदेशश्च तथैव भवितुमर्हति ; तदवगत्या मिथ्याज्ञानस्य संसारहेतोर्निवृत्तिः प्रयोजनं क्रियत इत्यविशिष्टमर्थवत्त्वं क्रियासाधनवस्तूपदेशेन । अपि ब्राह्मणो हन्तव्यःइति चैवमाद्या निवृत्तिरुपदिश्यते । सा क्रिया । नापि क्रियासाधनम् । अक्रियार्थानामुपदेशोऽनर्थकश्चेत् , ‘ब्राह्मणो हन्तव्यःइत्यादिनिवृत्त्युपदेशानामानर्थक्यं प्राप्तम् । तच्चानिष्टम् । स्वभावप्राप्तहन्त्यर्थानुरागेण नञः शक्यमप्राप्तक्रियार्थत्वं कल्पयितुं हननक्रियानिवृत्त्यौदासीन्यव्यतिरेकेण । नञश्चै स्वभावः, यत्स्वसम्बन्धिनोऽभावं बोधयतीति । अभावबुद्धिश्चौदासीन्यकारणम् । सा दग्धेन्धनाग्निवत्स्वयमेवोपशाम्यति । तस्मात्प्रसक्तक्रियानिवृत्त्यौदासीन्यमेवब्राह्मणो हन्तव्यःइत्यादिषु प्रतिषेधार्थं मन्यामहे, अन्यत्र प्रजापतिव्रतादिभ्यः । तस्मात्पुरुषार्थानुपयोग्युपाख्यानादिभूतार्थवादविषयमानर्थक्याभिधानं द्रष्टव्यम्
यदप्युक्तम्कर्तव्यविध्यनुप्रवेशमन्तरेण वस्तुमात्रमुच्यमानमनर्थकं स्यात्सप्तद्वीपा वसुमतीइत्यादिवदिति, त्परिहृतम् ; ‘रज्जुरियम् , नायं सर्पःइति वस्तुमात्रकथनेऽपि प्रयोजनस्य दृष्टत्वात् । ननु श्रुतब्रह्मणोऽपि यथापूर्वं संसारित्वदर्शनान्न रज्जुस्वरूपकथनवदर्थवत्त्वमित्युक्तम् । अत्रोच्यतेनावगतब्रह्मात्मभावस्य यथापूर्वं संसारित्वं शक्यं दर्शयितुम् , वेदप्रमाणजनितब्रह्मात्मभावविरोधात् । हि शरीराद्यात्माभिमानिनो दुःखभयादिमत्त्वं दृष्टमिति, तस्यैव वेदप्रमाणजनितब्रह्मात्मावगमे तदभिमाननिवृत्तौ तदेव मिथ्याज्ञाननिमित्तं दुःखभयादिमत्त्वं भवतीति शक्यं कल्पयितुम् । हि धनिनो गृहस्थस्य धनाभिमानिनो धनापहारनिमित्तं दुःखं दृष्टमिति, तस्यैव प्रव्रजितस्य धनाभिमानरहितस्य तदेव धनापहारनिमित्तं दुःखं भवति । कुण्डलिनः कुण्डलित्वाभिमाननिमित्तं सुखं दृष्टमिति तस्यैव कुण्डलवियुक्तस्य कुण्डलित्वाभिमानरहितस्य तदेव कुण्डलित्वाभिमाननिमित्तं सुखं भवति । तदुक्तं श्रुत्याअशरीरं वाव सन्तं प्रियाप्रिये स्पृशतः’ (छा. उ. ८ । १२ । १) इति । शरीरे पतितेऽशरीरत्वं स्यात् , जीवत इति चेत् , ; सशरीरत्वस्य मिथ्याज्ञाननिमित्तत्वात् । ह्यात्मनः शरीरात्माभिमानलक्षणं मिथ्याज्ञानं मुक्त्वा अन्यतः सशरीरत्वं शक्यं कल्पयितुम् । नित्यशरीरत्वमकर्मनिमित्तत्वादित्यवोचाम । तत्कृतधर्माधर्मनिमित्तं सशरीरत्वमिति चेत् , ; शरीरसम्बन्धस्यासिद्धत्वात् धर्माधर्मयोरात्मकृतत्वासिद्धेः, शरीरसम्बन्धस्य धर्माधर्मयोस्तत्कृतत्वस्य चेतरेतराश्रयत्वप्रसङ्गात् ; अन्धपरम्परैषा अनादित्वकल्पना । क्रियासमवायाभावाच्चात्मनः कर्तृत्वानुपपत्तेः । सन्निधानमात्रेण राजप्रभृतीनां दृष्टं कर्तृत्वमिति चेत् , ; धनदानाद्युपार्जितभृत्यसम्बन्धित्वात्तेषां कर्तृत्वोपपत्तेः ; त्वात्मनो धनदानादिवच्छरीरादिभिः स्वस्वामिभावसम्बन्धनिमित्तं किञ्चिच्छक्यं कल्पयितुम् । मिथ्याभिमानस्तु प्रत्यक्षः सम्बन्धहेतुः । एतेन यजमानत्वमात्मनो व्याख्यातम् । अत्राहुःदेहादिव्यतिरिक्तस्यात्मनः आत्मीये देहादावहमभिमानो गौणः, मिथ्येति चेत् , ; प्रसिद्धवस्तुभेदस्य गौणत्वमुख्यत्वप्रसिद्धेः । यस्य हि प्रसिद्धो वस्तुभेदःयथा केसरादिमानाकृतिविशेषोऽन्वयव्यतिरेकाभ्यां सिंहशब्दप्रत्ययभाङ्मुख्योऽन्यः प्रसिद्धः, ततश्चान्यः पुरुषः प्रायिकैः क्रौर्यशौर्यादिभिः सिंहगुणैः सम्पन्नः सिद्धः, तस्य तस्मिन्पुरुषे सिंहशब्दप्रत्ययौ गौणौ भवतः ; नाप्रसिद्धवस्तुभेदस्य । तस्य त्वन्यत्रान्यशब्दप्रत्ययौ भ्रान्तिनिमित्तावेव भवतः, गौणौ ; यथा मन्दान्धकारे स्थाणुरयमित्यगृह्यमाणविशेषे पुरुषशब्दप्रत्ययौ स्थाणुविषयौ, यथा वा शुक्तिकायामकस्माद्रजतमिदमिति निश्चितौ शब्दप्रत्ययौ तद्वद्देहादिसङ्घाते अहम् इति निरुपचारेण शब्दप्रत्ययावात्मानात्माविवेकेनोत्पद्यमानौ कथं गौणौ शक्यौ वदितुम् । आत्मानात्मविवेकिनामपि पण्डितानामजाविपालानामिवाविविक्तौ शब्दप्रत्ययौ भवतः । तस्माद्देहादिव्यतिरिक्तात्मास्तित्ववादिनां देहादावहंप्रत्ययो मिथ्यैव, गौणः । तस्मान्मिथ्याप्रत्ययनिमित्तत्वात्सशरीरत्वस्य, सिद्धं जीवतोऽपि विदुषोऽशरीरत्वम् । तथा ब्रह्मविद्विषया श्रुतिःतद्यथाहिनिर्ल्वयनी वल्मीके मृता प्रत्यस्ता शयीतैवमेवेदं शरीरं शेते अथायमशरीरोऽमृतः प्राणो ब्रह्मैव तेज एव’ (बृ. उ. ४ । ४ । ७) इति ; ‘सचक्षुरचक्षुरिव सकर्णोऽकर्ण इव सवागवागिव समना अमना इव सप्राणोऽप्राण इवइति  । स्मृतिरपिस्थितप्रज्ञस्य का भाषा’ (भ. गी. २ । ५४) इत्याद्या स्थितप्रज्ञस्य लक्षणान्याचक्षाणा विदुषः सर्वप्रवृत्त्यसम्बन्धं दर्शयति । तस्मान्नावगतब्रह्मात्मभावस्य यथापूर्वं संसारित्वम् । यस्य तु यथापूर्वं संसारित्वं नासाववगतब्रह्मात्मभाव इत्यनवद्यम्
यत्पुनरुक्तं श्रवणात्पराचीनयोर्मनननिदिध्यासनयोर्दर्शनाद्विधिशेषत्वं ब्रह्मणः, स्वरूपपर्यवसायित्वमिति, न्न ; श्रवणवदवगत्यर्थत्वान्मनननिदिध्यासनयोः । यदि ह्यवगतं ब्रह्मान्यत्र विनियुज्येत, भवेत्तदा विधिशेषत्वम् ; तु तदस्ति, मनननिदिध्यासनयोरपि श्रवणवदवगत्यर्थत्वात् । तस्मान्न प्रतिपत्तिविधिविषयतया शास्त्रप्रमाणकत्वं ब्रह्मणः सम्भवतीत्यतः स्वतन्त्रमे ब्रह्म शास्त्रप्रमाणकं वेदान्तवाक्यसमन्वयादिति सिद्धम् । एवं सतिअथातो ब्रह्मजिज्ञासाइति तद्विषयः पृथक्शास्त्रारम्भ उपपद्यते । प्रतिपत्तिविधिपरत्वे हिअथातो धर्मजिज्ञासाइत्येवारब्धत्वान्न पृथक्शास्त्रमारभ्येत ; आरभ्यमाणं चैवमारभ्येतअथातः परिशिष्टधर्मजिज्ञासेति, अथातः क्रत्वर्थपुरुषार्थयोर्जिज्ञासा’ (जै. सू. ४ । ११) इतिवत् । ब्रह्मात्मैक्यावगतिस्त्वप्रतिज्ञातेति तदर्थो युक्तः शास्त्रारम्भः — ‘अथातो ब्रह्मजिज्ञासाइति । तस्मात् अहं ब्रह्मास्मीत्येतदवसाना एव सर्वे विधयः सर्वाणि चेतराणि प्रमाणानि । ह्यहेयानुपादेयाद्वैतात्मावगतौ सत्याम् , निर्विषयाण्यप्रमातृकाणि प्रमाणानि भवितुमर्हन्तीति । अपि चाहुः — ‘गौणमिथ्यात्मनोऽसत्त्वे पुत्रदेहादिबाधनात् । सद्ब्रह्मात्माहमित्येवं बोधे कार्यं कथं भवेत्अन्वेष्टव्यात्मविज्ञानात्प्राक्प्रमातृत्वमात्मनः । अन्विष्टः स्यात्प्रमातैव पाप्मदोषादिवर्जितःदेहात्मप्रत्ययो यद्वत्प्रमाणत्वेन कल्पितः । लौकिकं तद्वदेवेदं प्रमाणं त्वाऽऽत्मनिश्चयात्इति ॥ ४ ॥
एवं तावद्वेदान्तवाक्यानां ब्रह्मात्मावगतिप्रयोजनानां ब्रह्मात्मनि तात्पर्येण समन्वितानामन्तरेणापि कार्यानुप्रवेशं ब्रह्मणि पर्यवसानमुक्तम् । ब्रह्म सर्वज्ञं सर्वशक्ति जगदुत्पत्तिस्थितिलयकारणमित्युक्तम् । सांख्यादयस्तु परिनिष्ठितं वस्तु प्रमाणान्तरगम्यमेवेति मन्यमानाः प्रधानादीनि कारणान्तराण्यनुमिमानास्तत्परतयैव वेदान्तवाक्यानि योजयन्ति । सर्वेष्वे वेदान्तवाक्येषु सृष्टिविषयेष्वनुमानेनैव कार्येण कारणं लिलक्षयिषितम् । प्रधानपुरुषसंयोगा नित्यानुमेया इति सांख्या मन्यन्ते । काणादास्त्वेतेभ्य एव वाक्येभ्य ईश्वरं निमित्तकारणमनुमिमते, अणूंश्च समवायिकारणम् । एवमन्येऽपि तार्किका वाक्याभासयुक्त्याभासावष्टम्भाः पूर्वपक्षवादिन इहोत्तिष्ठन्ते । तत्र पदवाक्यप्रमाणज्ञेनाचार्येण वेदान्तवाक्यानां ब्रह्मात्मावगतिपरत्वप्रदर्शनाय वाक्याभासयुक्त्याभासप्रतिपत्तयः पूर्वपक्षीकृत्य निराक्रियन्ते
तत्र सांख्याः प्रधानं त्रिगुणमचेतनं स्वतन्त्रं जगतः कारणमिति मन्यमाना आहुःयानि वेदान्तवाक्यानि सर्वज्ञस्य सर्वशक्तेर्ब्रह्मणो जगत्कारणत्वं प्रदर्शयन्तीत्यवोचः, तानि प्रधानकारणपक्षेऽपि योजयितुं शक्यन्ते । सर्वशक्तित्वं तावत्प्रधानस्यापि स्वविकारविषयमुपपद्यते । एवं सर्वज्ञत्वमप्युपपद्यते ; कथम् ? यत्त्वं ज्ञानं मन्यसे, सत्त्वधर्मः, सत्त्वात्संजायते ज्ञानम्’ (भ. गी. १४ । १७) इति स्मृतेः । तेन सत्त्वधर्मेण ज्ञानेन कार्यकरणवन्तः पुरुषाः सर्वज्ञा योगिनः प्रसिद्धाः । सत्त्वस्य हि निरतिशयोत्कर्षे सर्वज्ञत्वं प्रसिद्धम् । केवलस्य अकार्यकरणस्य पुरुषस्योपलब्धिमात्रस्य सर्वज्ञत्वं किञ्चिज्ज्ञत्वं वा कल्पयितुं शक्यम् । त्रिगुणत्वात्तु प्रधानस्य सर्वज्ञानकारणभूतं सत्त्वं प्रधानावस्थायामपि विद्यत इति प्रधानस्याचेतनस्यैव सतः सर्वज्ञत्वमुपचर्यते वेदान्तवाक्येषु । अवश्यं त्वयापि सर्वज्ञं ब्रह्मेत्यभ्युपगच्छता सर्वज्ञानशक्तिमत्त्वेनैव सर्वज्ञत्वमभ्युपगन्तव्यम् । हि सर्वदा सर्वविषयं ज्ञानं कुर्वदेव ब्रह्म वर्तते । तथाहिज्ञानस्य नित्यत्वे ज्ञानक्रियां प्रति स्वातन्त्र्यं ब्रह्मणो हीयेत ; अथानित्यं तदिति ज्ञानक्रियाया उपरमे उपरमेतापि ब्रह्म, तदा सर्वज्ञानशक्तिमत्त्वेनैव सर्वज्ञत्वमापतति । अपि प्रागुत्पत्तेः सर्वकारकशून्यं ब्रह्मेष्यते त्वया । ज्ञानसाधनानां शरीरेन्द्रियादीनामभावे ज्ञानोत्पत्तिः कस्यचिदुपपन्ना । अपि प्रधानस्यानेकात्मकस्य परिणामसम्भवात्कारणत्वोपपत्तिर्मृदादिवत् , नासंहतस्यैकात्मकस्य ब्रह्मणः ; — इत्येवं प्राप्ते, इदं सूत्रमारभ्यते
ईक्षतेर्नाशब्दम् ॥ ५ ॥
सांख्यपरिकल्पितमचेतनं प्रधानं जगतः कारणं शक्यं वेदान्तेष्वाश्रयितुम् । अशब्दं हि तत् । कथमशब्दत्वम् ? ईक्षतेः ईक्षितृत्वश्रवणात्कारणस्य । कथम् ? एवं हि श्रूयतेसदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्’ (छा. उ. ६ । २ । १) इत्युपक्रम्य तदैक्षत बहु स्यां प्राजायेयेति त्तेजोऽसृजत’ (छा. उ. ६ । २ । ३) इति । तत्र इदंशब्दवाच्यं नामरूपव्याकृतं जगत् प्रागुत्पत्तेः सदात्मनावधार्य, तस्यैव प्रकृतस्य सच्छब्दवाच्यस्येक्षणपूर्वकं तेजःप्रभृतेः स्रष्टृत्वं दर्शयति । तथान्यत्रआत्मा वा इदमेक एवाग्र आसीत् । नान्यत्किञ्चन मिषत् । ईक्षत लोकान्नु सृजा इति ।’ (ऐ. उ. १ । १ । १) इमाँल्लोकानसृजत’ (ऐ. उ. १ । १ । २) इतीक्षापूर्विकामेव सृष्टिमाचष्टे । क्वचिच्च षोडशकलं पुरुषं प्रस्तुत्याह ईक्षाञ्चक्रे’ (प्र. उ. ६ । ३), प्राणमसृजत’ (प्र. उ. ६ । ४) इति । ईक्षतेरिति धात्वर्थनिर्देशोऽभिप्रेतः, यजतेरितिवत् , धातुनिर्देशः । तेन यः सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तपः । तस्मादेतद्ब्रह्म नाम रूपमन्नं जायते’ (मु. उ. १ । १ । ९) इत्येवमादीन्यपि सर्वज्ञेश्वरकारणपराणि वाक्यान्युदाहर्तव्यानि
यत्तूक्तं सत्त्वधर्मेण ज्ञानेन सर्वज्ञं प्रधानं भविष्यतीति, तन्नोपपद्यते । हि प्रधानावस्थायां गुणसाम्यात्सत्त्वधर्मो ज्ञानं सम्भवति । ननूक्तं सर्वज्ञानशक्तिमत्त्वेन सर्वज्ञं भविष्यतीति ; तदपि नोपपद्यते । यदि गुणसाम्ये सति सत्त्वव्यपाश्रयां ज्ञानशक्तिमाश्रित्य सर्वज्ञं प्रधानमुच्येत, कामं रजस्तमोव्यपाश्रयामपि ज्ञानप्रतिबन्धकशक्तिमाश्रित्य किञ्चिज्ज्ञमुच्येत । अपि नासाक्षिका सत्त्ववृत्तिर्जानातिना अभिधीयते । चाचेतनस्य प्रधानस्य साक्षित्वमस्ति । तस्मादनुपपन्नं प्रधानस्य सर्वज्ञत्वम् । योगिनां तु चेतनत्वात्सत्त्वोत्कर्षनिमित्तं सर्वज्ञत्वमुपपन्नमित्यनुदाहरणम् । अथ पुनः साक्षिनिमित्तमीक्षितृत्वं प्रधानस्यापि कल्प्येत, यथाग्निनिमित्तमयःपिण्डादेर्दग्धृत्वम् ; तथा सति यन्निमित्तमीक्षितृत्वं प्रधानस्य, तदेव सर्वज्ञं ब्रह्म मुख्यं जगतः कारणमिति युक्तम् । यत्पुनरुक्तं ब्रह्मणोऽपि मुख्यं सर्वज्ञत्वमुपपद्यते, नित्यज्ञानक्रियत्वे ज्ञानक्रियां प्रति स्वातन्त्र्यासम्भवादिति ; अत्रोच्यतेइदं तावद्भवान्प्रष्टव्यःकथं नित्यज्ञानक्रियत्वे सर्वज्ञत्वहानिरिति । यस्य हि सर्वविषयावभासनक्षमं ज्ञानं नित्यमस्ति, सोऽसर्वज्ञ इति विप्रतिषिद्धम् । अनित्यत्वे हि ज्ञानस्य, कदाचिज्जानाति कदाचिन्न जानातीत्यसर्वज्ञत्वमपि स्यात् ।
नासौ ज्ञाननित्यत्वे दोषोऽस्ति । ज्ञाननित्यत्वे ज्ञानविषयः स्वातन्त्र्यव्यपदेशो नोपपद्यते इति चेत् , ; प्रततौष्ण्यप्रकाशेऽपि सवितरिदहति’ ‘प्रकाशयतिइति स्वातन्त्र्यव्यपदेशदर्शनात् । ननु सवितुर्दाह्यप्रकाश्यसंयोगे सतिदहति’ ‘प्रकाशयतिइति व्यपदेशः स्यात् ; तु ब्रह्मणः प्रागुत्पत्तेर्ज्ञानकर्मसंयोगोऽस्तीति विषमो दृष्टान्तः । ; असत्यपि कर्मणिसविता प्रकाशतेइति कर्तृत्वव्यपदेशदर्शनात् , एवमसत्यपि ज्ञानकर्मणि ब्रह्मणःतदैक्षतइति कर्तृत्वव्यपदेशोपपत्तेर्न वैषम्यम् । कर्मापेक्षायां तु ब्रह्मणि ईक्षितृत्वश्रुतयः सुतरामुपपन्नाः । किं पुनस्तत्कर्म, यत्प्रागुत्पत्तेरीश्वरज्ञानस्य विषयो भवतीतितत्त्वान्यत्वाभ्यामनिर्वचनीये नामरूपे अव्याकृते व्याचिकीर्षिते इति ब्रूमः । यत्प्रसादाद्धि योगिनामप्यतीतानागतविषयं प्रत्यक्षं ज्ञानमिच्छन्ति योगशास्त्रविदः, किमु वक्तव्यं तस्य नित्यसिद्धस्येश्वरस्य सृष्टिस्थितिसंहृतिविषयं नित्यज्ञानं भवतीति । यदप्युक्तं प्रागुत्पत्तेर्ब्रह्मणः शरीरादिसम्बन्धमन्तरेणेक्षितृत्वमनुपपन्नमिति, तच्चोद्यमवतरति ; सवितृप्रकाशवद्ब्रह्मणो ज्ञानस्वरूपनित्यत्वेन ज्ञानसाधनापेक्षानुपपत्तेः । अपि चाविद्यादिमतः संसारिणः शरीराद्यपेक्षा ज्ञानोत्पत्तिः स्यात् ; ज्ञानप्रतिबन्धकारणरहितस्येश्वरस्य । मन्त्रौ चेमावीश्वरस्य शरीराद्यनपेक्षतामनावरणज्ञानतां दर्शयतः तस्य कार्यं करणं विद्यते तत्समश्चाभ्यधिकश्च दृश्यते । परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया ’ (श्वे. उ. ६ । ८) इति । अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः शृणोत्यकर्णः । वेत्ति वेद्यं तस्यास्ति वेत्ता तमाहुरग्र्यं पुरुषं महान्तम्’ (श्वे. उ. ३ । १९) इति  । ननु नास्ति तव ज्ञानप्रतिबन्धकारणवानीश्वरादन्यः संसारीनान्योऽतोऽस्ति द्रष्टा ... नान्योऽतोऽस्ति विज्ञाता’ (बृ. उ. ३ । ७ । २३) इत्यादिश्रुतेः ; तत्र किमिदमुच्यतेसंसारिणः शरीराद्यपेक्षा ज्ञानोत्पत्तिः, नेश्वरस्येति ? अत्रोच्यतेसत्यं नेश्वरादन्यः संसारी ; तथापि देहादिसङ्घातोपाधिसम्बन्ध इष्यत एव, घटकरकगिरिगुहाद्युपाधिसम्बन्ध इव व्योम्नः ; तत्कृतश्च शब्दप्रत्ययव्यवहारो लोकस्य दृष्टः — ‘घटच्छिद्रम्’ ‘करकच्छिद्रम्इत्यादिः, आकाशाव्यतिरेकेऽपि ; तत्कृता चाकाशे घटाकाशादिभेदमिथ्याबुद्धिर्दृष्टा ; तथेहापि देहादिसङ्घातोपाधिसम्बन्धाविवेककृतेश्वरसंसारिभेदमिथ्याबुद्धिः । दृश्यते चात्मन एव सतो देहादिसङ्घातेऽनात्मन्यात्मत्वाभिनिवेशो मिथ्याबुद्धिमात्रेण पूर्वपूर्वेण । सति चैवं संसारित्वे देहाद्यपेक्षमीक्षितृत्वमुपपन्नं संसारिणः । यदप्युक्तं प्रधानस्यानेकात्मकत्वान्मृदादिवत्कारणत्वोपपत्तिर्नासंहतस्य ब्रह्मण इति, तत्प्रधानस्याशब्दत्वेनैव प्रत्युक्तम् । यथा तु तर्केणापि ब्रह्मण एव कारणत्वं निर्वोढुं शक्यते, प्रधानादीनाम् , तथा प्रपञ्चयिष्यति विलक्षणत्वादस्य ...’ (ब्र. सू. २ । १ । ४) इत्येवमादिना ॥ ५ ॥
अत्राहयदुक्तं नाचेतनं प्रधानं जगत्कारणमीक्षितृत्वश्रवणादिति, तदन्यथाप्युपपद्यते ; अचेतनेऽपि चेतनवदुपचारदर्शनात् । यथा प्रत्यासन्नपतनतां नद्याः कूलस्यालक्ष्यकूलं पिपतिषतिइत्यचेतनेऽपि कूले चेतनवदुपचारो दृष्टः, तद्वदचेतनेऽपि प्रधाने प्रत्यासन्नसर्गे चेतनवदुपचारो भविष्यतितदैक्षतइति । यथा लोके कश्चिच्चेतनःस्नात्वा भुक्त्वा चापराह्णे ग्रामं रथेन गमिष्यामिइतीक्षित्वा अनन्तरं तथैव नियमेन प्रवर्तते, तथा प्रधानमपि महदाद्याकारेण नियमेन प्रवर्तते ; तस्माच्चेतनवदुपचर्यते । कस्मात्पुनः कारणात् विहाय मुख्यमीक्षितृत्वम् औपचारिकं तत्कल्प्यते ? तत्तेज ऐक्षत’ (छा. उ. ६ । २ । ३) ता आप ऐक्षन्त’ (छा. उ. ६ । २ । ४) इति चाचेतनयोरप्यप्तेजसोश्चेतनवदुपचारदर्शनात् ; तस्मात्सत्कर्तृकमपीक्षणमौपचारिकमिति गम्यते, उपचारप्राये वचनात् ; — इत्येवं प्राप्ते, इदं सूत्रमारभ्यते
गौणश्चेन्नात्मशब्दात् ॥ ६ ॥
यदुक्तं प्रधानमचेतनं सच्छब्दवाच्यं तस्मिन्नौपचारिकमीक्षितृत्वम् अप्तेजसोरिवेति, तदसत् । कस्मात् ? आत्मशब्दात् ; ‘सदेव सोम्येदमग्र आसीत्इत्युपक्रम्य, तदैक्षत’ (छा. उ. ६ । २ । ३) तत्तेजोऽसृजत’ (छा. उ. ६ । २ । ३) इति तेजोबन्नानां सृष्टिमुक्त्वा, तदेव प्रकृतं सदीक्षितृ तानि तेजोबन्नानि देवताशब्देन परामृश्याह — ‘सेयं देवतैक्षतहन्ताहमिमास्तिस्रो देवता अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि’ (छा. उ. ६ । ३ । २) इति । तत्र यदि प्रधानमचेतनं गुणवृत्त्येक्षितृ कल्प्येत, तदेव प्रकृतत्वात्सेयं देवताइति परामृश्येत ; तदा देवता जीवमात्मशब्देनाभिदध्यात् । जीवो हि नाम चेतनः शरीराध्यक्षः प्राणानां धारयिता, तत्प्रसिद्धेर्निर्वचनाच्च । कथमचेतनस्य प्रधानस्यात्मा भवेत् । आत्मा हि नाम स्वरूपम् । नाचेतनस्य प्रधानस्य चेतनो जीवः स्वरूपं भवितुमर्हति । अथ तु चेतनं ब्रह्म मुख्यमीक्षितृ परिगृह्येत, तस्य जीवविषय आत्मशब्दप्रयोग उपपद्यते । तथा एषोऽणिमैतदात्म्यमिदं सर्वं तत्सत्यं आत्मा तत्त्वमसि श्वेतकेतो’ (छा. उ. ६ । १४ । ३) इत्यत्र आत्माइति प्रकृतं सदणिमानमात्मानमात्मशब्देनोपदिश्य, ‘तत्त्वमसि श्वेतकेतोइति चेतनस्य श्वेतकेतोरात्मत्वेनोपदिशति । अप्तेजसोऽस्तु विषयत्वादचेतनत्वम् , नामरूपव्याकरणादौ प्रयोज्यत्वेनैव निर्देशात् , चात्मशब्दवत्किञ्चिन्मुख्यत्वे कारणमस्तीति युक्तं कूलवद्गौणत्वमीक्षितृत्वस्य । तयोरपि सदधिष्ठितत्वापेक्षमेवेक्षितृत्वम् । सतस्त्वात्मशब्दान्न गौणमीक्षितृत्वमित्युक्तम् ॥ ६ ॥
अथोच्येतअचेतनेऽपि प्रधाने भवत्यात्मशब्दः, आत्मनः सर्वार्थकारित्वात् ; यथा राज्ञः सर्वार्थकारिणि भृत्ये भवत्यात्मशब्दःममात्मा भद्रसेनःइति । प्रधानं हि पुरुषस्यात्मनो भोगापवर्गौ कुर्वदुपकरोति, राज्ञ इव भृत्यः सन्धिविग्रहादिषु वर्तमानः । अथवै एवात्मशब्दश्चेतनाचेतनविषयो भविष्यति, ‘भूतात्मा’ ‘इन्द्रियात्माइति प्रयोगदर्शनात् ; थै एव ज्योतिःशब्दः क्रतुज्वलनविषयः । तत्र कुत एतदात्मशब्दादीक्षतेरगौणत्वमित्यत उत्तरं पठति
तन्निष्ठस्य मोक्षोपदेशात् ॥ ७ ॥
प्रधानमचेतनमात्मशब्दालम्बनं भवितुमर्हति ; ‘ आत्माइति प्रकृतं सदणिमानमादाय, ‘तत्त्वमसि श्वेतकेतोइति चेतनस्य श्वेतकेतोर्मोक्षयितव्यस्य तन्निष्ठामुपदिश्य, आचार्यवान्पुरुषो वेद तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ सम्पत्स्ये’ (छा. उ. ६ । १४ । २) इति मोक्षोपदेशात् । यदि ह्यचेतनं प्रधानं सच्छब्दवाच्यम्तत् असिइति ग्राहयेत् , मुमुक्षुं चेतनं सन्तमचेतनोऽसीति, तदा विपरीतवादि शास्त्रं पुरुषस्यानर्थायेत्यप्रमाणं स्यात् । तु निर्दोषं शास्त्रमप्रमाणं कल्पयितुं युक्तम् । यदि चाज्ञस्य सतो मुमुक्षोरचेतनमनात्मानमात्मेत्युपदिशेत्प्रमाणभूतं शास्त्रम् , श्रद्दधानतया अन्धगोलाङ्गूलन्यायेन तदात्मदृष्टिं परित्यजेत् , तद्व्यतिरिक्तं चात्मानं प्रतिपद्येत ; तथा सति पुरुषार्थाद्विहन्येत, अनर्थं ऋच्छेत् । तस्माद्यथा स्वर्गाद्यर्थिनोऽग्निहोत्रादिसाधनं यथाभूतमुपदिशति, तथा मुमुक्षोरपि आत्मा तत्त्वमसि श्वेतकेतोइति यथाभूतमेवात्मानमुपदिशतीति युक्तम् । एवं सति तप्तपरशुग्रहणमोक्षदृष्टान्तेन सत्याभिसन्धस्य मोक्षोपदेश उपपद्यते । अन्यथा ह्यमुख्ये सदात्मतत्त्वोपदेशे, अहमुक्थमस्मीति विद्यात्’ (ऐ. आ. २ । १ । २ । ६) इतिवत्सम्पन्मात्रमिदमनित्यफलं स्यात् ; तत्र मोक्षोपदेशो नोपपद्येत । तस्मान्न सदणिमन्यात्मशब्दस्य गौणत्वम् । भृत्ये तु स्वामिभृत्यभेदस्य प्रत्यक्षत्वादुपपन्नो गौण आत्मशब्दःममात्मा भद्रसेनःइति । अपि क्वचिद्गौणः शब्दो दृष्ट इति नैतावता शब्दप्रमाणकेऽर्थे गौणीकल्पना न्याय्या, सर्वत्रानाश्वासप्रसङ्गात् । यत्तूक्तं चेतनाचेतनयोः साधारण आत्मशब्दः, क्रतुज्वलनयोरिव ज्योतिःशब्द इति, तन्न ; अनेकार्थत्वस्यान्याय्यत्वात् । तस्माच्चेतनविषय एव मुख्य आत्मशब्दश्चेतनत्वोपचाराद्भूतादिषु प्रयुज्यते — ‘भूतात्मा’ ‘इन्द्रियात्माइति  । साधारणत्वेऽप्यात्मशब्दस्य प्रकरणमुपपदं वा किञ्चिन्निश्चायकमन्तरेणान्यतरवृत्तिता निर्धारयितुं शक्यते । चात्राचेतनस्य निश्चायकं किञ्चित्कारणमस्ति । प्रकृतं तु सदीक्षितृ सन्निहितश्च चेतनः श्वेतकेतुः । हि चेतनस्य श्वेतकेतोरचेतन आत्मा सम्भवतीत्यवोचाम । तस्माच्चेतनविषय इहात्मशब्द इति निश्चीयते । ज्योतिःशब्दोऽपि लौकिकेन प्रयोगेण ज्वलन एव रूढः, अर्थवादकल्पितेन तु ज्वलनसादृश्येन क्रतौ प्रवृत्त इत्यदृष्टान्तः । अथवा पूर्वसूत्र एवात्मशब्दं निरस्तसमस्तगौणत्वसाधारणत्वाशङ्कतया व्याख्याय, ततः स्वतन्त्र एव प्रधानकारणनिराकरणहेतुर्व्याख्येयः — ‘तन्निष्ठस्य मोक्षोपदेशात्इति । तस्मान्नाचेतनं प्रधानं सच्छब्दवाच्यम् ॥ ७ ॥
कुतश्च प्रधानं सच्छब्दवाच्यम् ? —
हेयत्वावचनाच्च ॥ ८ ॥
यद्यनात्मैव प्रधानं सच्छब्दवाच्यम् , ‘ आत्मा तत्त्वमसिइतीहोपदिष्टं स्यात् ; तदुपदेशश्रवणादनात्मज्ञतया तन्निष्ठो मा भूदिति, मुख्यमात्मानमुपदिदिक्षु शास्त्रं तस्य हेयत्वं ब्रूयात् । यथारुन्धतीं दिदर्शयिषुस्तत्समीपस्थां स्थूलां ताराममुख्यां प्रथममरुन्धतीति ग्राहयित्वा, तां प्रत्याख्याय, पश्चादरुन्धतीमेव ग्राहयति ; तद्वन्नायमात्मेति ब्रूयात् । चैवमवोचत् । सन्मात्रात्मावगतिनिष्ठैव हि षष्ठप्रपाठकपरिसमाप्तिर्दृश्यते । चशब्दः प्रतिज्ञाविरोधाभ्युच्चयप्रदर्शनार्थः । सत्यपि हेयत्ववचने प्रतिज्ञाविरोधः प्रसज्येत । कारणविज्ञानाद्धि सर्वं विज्ञातमिति प्रतिज्ञातम्उत तमादेशमप्राक्ष्यः येनाश्रुतꣳ श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातमिति ; कथं नु भगवः आदेशो भवतीति’ (छा. उ. ६ । १ । ३) ; यथा सोम्यैकेन मृत्पिण्डेन सर्वं मृन्मयं विज्ञातं स्याद्वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्’ (छा. उ. ६ । १ । ४) एवं सोम्य आदेशो भवति’ (छा. उ. ६ । १ । ६) इति वाक्योपक्रमे श्रवणात् । सच्छब्दवाच्ये प्रधाने भोग्यवर्गकारणे हेयत्वेनाहेयत्वेन वा विज्ञाते भोक्तृवर्गो विज्ञातो भवति, अप्रधानविकारत्वाद्भोक्तृवर्गस्य । तस्मान्न प्रधानं सच्छब्दवाच्यम् ॥ ८ ॥
कुतश्च प्रधानं सच्छब्दवाच्यम् ? —
स्वाप्ययात् ॥ ९ ॥
तदेव सच्छब्दवाच्यं कारणं प्रकृत्य श्रूयतेयत्रैतत्पुरुषः स्वपिति नाम, सता सोम्य तदा सम्पन्नो भवति ; स्वमपीतो भवति ; तस्मादेनं स्वपितीत्याचक्षते ; स्वं ह्यपीतो भवति’ (छा. उ. ६ । ८ । १) इति । एषा श्रुतिः स्वपितीत्येतत्पुरुषस्य लोकप्रसिद्धं नाम निर्वक्ति । स्वशब्देनेहात्मोच्यते । यः प्रकृतः सच्छब्दवाच्यस्तमपीतो भवत्यपिगतो भवतीत्यर्थः । अपिपूर्वस्यैतेर्लयार्थत्वं प्रसिद्धम् , प्रभवाप्ययावित्युत्पत्तिप्रलययोः प्रयोगदर्शनात् । मनःप्रचारोपाधिविशेषसम्बन्धादिन्द्रियार्थान्गृह्णंस्तद्विशेषापन्नो जीवो जागर्ति ; तद्वासनाविशिष्टः स्वप्नान्पश्यन्मनःशब्दवाच्यो भवति ; उपाधिद्वयोपरमे सुषुप्तावस्थायामुपाधिकृतविशेषाभावात्स्वात्मनि प्रलीन इवेति स्वं ह्यपीतो भवति’ (छा. उ. ६ । ८ । १) इत्युच्यते । यथा हृदयशब्दनिर्वचनं श्रुत्या दर्शितम् वा एष आत्मा हृदि, तस्यैतदेव निरुक्तम्हृद्ययमिति ; तस्माद्धृदयमिति’ (छा. उ. ८ । ३ । ३); यथा वाशनायोदन्याशब्दप्रवृत्तिमूलं दर्शयति श्रुतिःआप एव तदशितं नयन्ते’ (छा. उ. ६ । ८ । ३) तेज एव तत्पीतं नयते’ (छा. उ. ६ । ८ । ५) इति ; एवं स्वमात्मानं सच्छब्दवाच्यमपीतो भवति इतीममर्थं स्वपितिनामनिर्वचनेन दर्शयति । चेतन आत्मा अचेतनं प्रधानं स्वरूपत्वेन प्रतिपद्येत । यदि पुनः प्रधानमेवात्मीयत्वात्स्वशब्देनैवोच्येत, एवमपि चेतनोऽचेतनमप्येतीति विरुद्धमापद्येत । श्रुत्यन्तरं प्राज्ञेनात्मना सम्परिष्वक्तो बाह्यं किञ्चन वेद नान्तरम्’ (बृ. उ. ४ । ३ । २१) इति सुषुप्तावस्थायां चेतने अप्ययं दर्शयति । अतो यस्मिन्नप्ययः सर्वेषां चेतनानां तच्चेतनं सच्छब्दवाच्यं जगतः कारणं, प्रधानम् ॥ ९ ॥
कुतश्च प्रधानं जगतः कारणम् ? —
गतिसामान्यात् ॥ १० ॥
यदि तार्किकसमय इववेदान्तेष्वपि भिन्ना कारणावगतिरभविष्यत् , क्वचिच्चेतनं ब्रह्म जगतः कारणम् , क्वचिदचेतनं प्रधानम् , क्वचिदन्यदेवेति ; ततः कदाचित्प्रधानकारणवादानुरोधेनापीक्षत्यादिश्रवणमकल्पयिष्यत् । त्वेतस्ति । समानैव हि सर्वेषु वेदान्तेषु चेतनकारणावगतिः । यथाग्नेर्ज्वलतः सर्वा दिशो विस्फुलिङ्गा विप्रतिष्ठेरन्नेवमेवैतस्मादात्मनः सर्वे प्राणा यथायतनं विप्रतिष्ठन्ते प्राणेभ्यो देवा देवेभ्यो लोकाः’ (कौ. उ. ३ । ३) इति, तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः’ (तै. उ. २ । १ । १) इति, आत्मत एवेदं सर्वम्’ (छा. उ. ७ । २६ । १) इति, आत्मन एष प्राणो जायते’ (प्र. उ. ३ । ३) इति आत्मनः कारणत्वं दर्शयन्ति सर्वे वेदान्ताः । आत्मशब्दश्च चेतनवचन इत्यवोचाम । महच्च प्रामाण्यकारणमेतत् , यद्वेदान्तवाक्यानां चेतनकारणत्वे समानगतित्वम् , चक्षुरादीनामिव रूपादिषु । अतो गतिसामान्यात्सर्वज्ञं ब्रह्म जगतः कारणम् ॥ १० ॥
कुतश्च सर्वज्ञं ब्रह्म जगतः कारणम् ? —
श्रुतत्वाच्च ॥ ११ ॥
स्वशब्देनै सर्वज्ञ ईश्वरो जगतः कारणमिति श्रूयते, श्वेताश्वतराणां मन्त्रोपनिषदि सर्वज्ञमीश्वरं प्रकृत्य कारणं करणाधिपाधिपो चास्य कश्चिज्जनिता चाधिपः’ (श्वे. उ. ६ । ९) इति । तस्मात्सर्वज्ञं ब्रह्म जगतः कारणम् , नाचेतनं प्रधानमन्यद्वेति सिद्धम् ॥ ११ ॥
जन्माद्यस्य यतःइत्यारभ्यश्रुतत्वाच्चइत्येतदन्तैः सूत्रैर्यान्युदाहृतानि वेदान्तवाक्यानि, तेषां सर्वज्ञः सर्वशक्तिरीश्वरो जगतो जन्मस्थितिलयकारणमित्येतस्यार्थस्य प्रतिपादकत्वं न्यायपूर्वकं प्रतिपादितम् । गतिसामान्योपन्यासेन सर्वे वेदान्ताश्चेतनकारणवादिन इति व्याख्यातम् । अतः परस्य ग्रन्थस्य किमुत्थानमिति, उच्यतेद्विरूपं हि ब्रह्मावगम्यतेनामरूपविकारभेदोपाधिविशिष्टम् , तद्विपरीतं सर्वोपाधिविवर्जितम् । यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति’ (बृ. उ. २ । ४ । १४) यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्’ (बृ. उ. ४ । ५ । १५) यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति भूमाथ यत्रान्यत्पश्यत्यन्यच्छृणोत्यन्यद्विजानाति तदल्पम् ; यो वै भूमा तदमृतमथ यदल्पं तन्मर्त्यम्’ (छा. उ. ७ । २४ । १) सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाभिवदन्यदास्ते’ (तै. आ. ३ । १२ । ७) निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम् । अमृतस्य परं सेतुं दग्धेन्धनमिवानलम्’ (श्वे. उ. ६ । १९) नेति नेति’ (बृ. उ. २ । ३ । ६) अस्थूलमनण्वह्रस्वमदीर्घम्’ (बृ. उ. ३ । ८ । ८)न्यूनन्यत्स्थानं सम्पूर्णमन्यत्इति चैवं सहस्रशो विद्याविद्याविषयभेदेन ब्रह्मणो द्विरूपतां दर्शयन्ति वेदान्तवाक्यानि । तत्राविद्यावस्थायां ब्रह्मण उपास्योपासकादिलक्षणः सर्वो व्यवहारः । तत्र कानिचिद्ब्रह्मण उपासनान्यभ्युदयार्थानि, कानिचित्क्रममुक्त्यर्थानि, कानिचित्कर्मसमृद्ध्यर्थानि । तेषां गुणविशेषोपाधिभेदेन भेदः । एक एव तु परमात्मेश्वरस्तैस्तैर्गुणविशेषैर्विशिष्ट उपास्यो यद्यपि भवति, तथापि यथागुणोपासनमेव फलानि भिद्यन्ते ; ‘तं यथा यथोपासते तदेव भवतिइति श्रुतेः, यथाक्रतुरस्मिँल्लोके पुरुषो भवति, तथेतः प्रेत्य भवति’ (छा. उ. ३ । १४ । १) इति  । स्मृतेश्चयं यं वापि स्मरन्भावं त्यजत्यन्ते कलेबरम् । तं तमेवैति कौन्तेय सदा तद्भावभावितः’ (भ. गी. ८ । ६) इति । यद्यप्येक आत्मा सर्वभूतेषु स्थावरजङ्गमेषु गूढः, तथापि चित्तोपाधिविशेषतारतम्यादात्मनः कूटस्थनित्यस्यैकरूपस्याप्युत्तरोत्तरमाविष्कृतस्य तारतम्यमैश्वर्यशक्तिविशेषैः श्रूयतेतस्य आत्मानमाविस्तरां वेद’ (ऐ. आ. २ । ३ । २ । १) इत्यत्र । स्मृतापियद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा । तत्तदेवावगच्छ त्वं मम तेजोंऽशसम्भवम्’ (भ. गी. १० । ४१) इति यत्र यत्र विभूत्याद्यतिशयः, ईश्वर इत्युपास्यतया चोद्यते । एवमिहाप्यादित्यमण्डले हिरण्मयः पुरुषः सर्वपाप्मोदयलिङ्गात्पर एवेति वक्ष्यति । एवम् आकाशस्तल्लिङ्गात्’ (ब्र. सू. १ । १ । २२) इत्यादिषु द्रष्टव्यम् । एवं सद्योमुक्तिकारणमप्यात्मज्ञानमुपाधिविशेषद्वारेणोपदिश्यमानमप्यविवक्षितोपाधिसम्बन्धविशेषं परापरविषयत्वेन सन्दिह्यमानं वाक्यगतिपर्यालोचनया निर्णेतव्यं भवतियथेहैव तावत्आनन्दमयोऽभ्यासात्इति । एवमेकमपि ब्रह्मापेक्षितोपाधिसम्बन्धं निरस्तोपाधिसम्बन्धं चोपास्यत्वेन ज्ञेयत्वेन वेदान्तेषूपदिश्यत इति प्रदर्शयितुं परो ग्रन्थ आरभ्यते । यच्चगतिसामान्यात्इत्यचेतनकारणनिराकरणमुक्तम् , तदपि वाक्यान्तराणि ब्रह्मविषयाणि व्याचक्षाणेन ब्रह्मविपरीतकारणनिषेधेन प्रपञ्च्यते
आनन्दमयोऽभ्यासात् ॥ १२ ॥
तैत्तिरीयके अन्नमयं प्राणमयं मनोमयं विज्ञानमयं चानुक्रम्याम्नायतेतस्माद्वा एतस्माद्विज्ञानमयादन्योऽन्तर आत्मानन्दमयः’ (तै. उ. २ । ५ । १) इति । तत्र संशयःकिमिहानन्दमयशब्देन परमेव ब्रह्मोच्यते, यत्प्रकृतम् सत्यं ज्ञानमनन्तं ब्रह्म’ (तै. उ. २ । १ । १) इति, किं वान्नमयादिवद्ब्रह्मणोऽर्थान्तरमिति । किं तावत्प्राप्तम् ? ब्रह्मणोऽर्थान्तरममुख्य आत्मानन्दमयः स्यात् । कस्मात् ? अन्नमयाद्यमुख्यात्मप्रवाहपतितत्वात् । अथापि स्यात्सर्वान्तरत्वादानन्दमयो मुख्य एवात्मेति ; स्यात्प्रियाद्यवयवयोगाच्छारीरत्वश्रवणाच्च । मुख्यश्चेदात्मा स्यान्न प्रियादिसंस्पर्शः स्यात् । इह तु तस्य प्रियमेव शिरः’ (तै. उ. २ । ५ । १) इत्यादि श्रूयते । शारीरत्वं श्रूयते — ‘तस्यैष एव शारीर आत्मा यः पूर्वस्यइति । तस्य पूर्वस्य विज्ञानमयस्यैष एव शारीर आत्मा एष आनन्दमय इत्यर्थः । सशरीरस्य सतः प्रियाप्रियसंस्पर्शो वारयितुं शक्यः । तस्मात्संसार्येवानन्दमय आत्मेत्येवं प्राप्ते, इदमुच्यते
आनन्दमयोऽभ्यासात्’ । पर एवात्मानन्दमयो भवितुमर्हति । कुतः ? अभ्यासात् । परस्मिन्नेव ह्यात्मन्यानन्दशब्दो बहुकृत्वोऽभ्यस्यते । आनन्दमयं प्रस्तुत्य रसो वै सः’ (तै. उ. २ । ७ । १) इति तस्यैव रसत्वमुक्त्वा, उच्यतेरसꣳ ह्येवायं लब्ध्वानन्दीभवति । को ह्येवान्यात्कः प्राण्यात् । यदेष आकाश आनन्दो स्यात् । एष ह्येवानन्दयाति’ (तै. उ. २ । ७ । १) (तै. उ. २ । ७ । १)सैषानन्दस्य मीमाꣳसा भवति’ (तै. उ. २ । ८ । १) एतमानन्दमयमात्मानमुपसङ्क्रामति’ (तै. उ. २ । ८ । ५) आनन्दं ब्रह्मणो विद्वान्न बिभेति कुतश्चन’ (तै. उ. २ । ९ । १) इति ; आनन्दो ब्रह्मेति व्यजानात्’ (तै. उ. ३ । ६ । १) इति  । श्रुत्यन्तरे विज्ञानमानन्दं ब्रह्म’ (बृ. उ. ३ । ९ । २८) इति ब्रह्मण्येवानन्दशब्दो दृष्टः । एवमानन्दशब्दस्य बहुकृत्वो ब्रह्मण्यभ्यासादानन्दमय आत्मा ब्रह्मेति गम्यते । यत्तूक्तमन्नमयाद्यमुख्यात्मप्रवाहपतितत्वादानन्दमयस्याप्यमुख्यत्वमिति, नासौ दोषः, आनन्दमयस्य सर्वान्तरत्वात् । मुख्यमे ह्यात्मानमुपदिदिक्षु शास्त्रं लोकबुद्धिनुसरत् , अन्नमयं शरीरमनात्मानमत्यन्तमूढानामात्मत्वेन प्रसिद्धमनूद्य मूषानिषिक्तद्रुतताम्रादिप्रतिमावत्ततोऽन्तरं ततोऽन्तरमित्येवं पूर्वेण पूर्वेण समानमुत्तरमुत्तरमनात्मानमात्मेति ग्राहयत् , प्रतिपत्तिसौकर्यापेक्षया सर्वान्तरं मुख्यमानन्दमयमात्मानमुपदिदेशेति श्लिष्टतरम् । यथारुन्धतीदर्शने बह्वीष्वपि तारास्वमुख्यास्वरुन्धतीषु दर्शितासु , या अन्त्या प्रदर्श्यते सा मुख्यैवारुन्धती भवति ; एवमिहाप्यानन्दमयस्य सर्वान्तरत्वान्मुख्यमात्मत्वम् । यत्तु ब्रूषे, प्रियादीनां शिरस्त्वादिकल्पनानुपपन्ना मुख्यस्यात्मन इतिअतीतानन्तरोपाधिजनिता सा ; स्वाभाविकीत्यदोषः । शारीरत्वमप्यानन्दमयस्यान्नमयादिशरीरपरम्परया प्रदर्श्यमानत्वात् ; पुनः साक्षादेव शारीरत्वं संसारिवत् । तस्मादानन्दमयः पर एवात्मा ॥ १२ ॥
विकारशब्दान्नेति चेन्न प्राचुर्यात् ॥ १३ ॥
अत्राहनानन्दमयः पर आत्मा भवितुमर्हति ; कस्मात् ? विकारशब्दात् ; प्रकृतिवचनादयमन्यः शब्दो विकारवचनः समधिगतःआनन्दमयःइति, मयटो विकारार्थत्वात् ; तस्मादन्नमयादिशब्दवद्विकारविषय एवायमानन्दमयशब्द इति चेत् , ; प्राचुर्यार्थेऽपि मयटः स्मरणात् । तत्प्रकृतवचने मयट्’ (पा. सू. ५ । ४ । २) इति हि प्रचुरतायामपि मयट् स्मर्यते ; यथाअन्नमयो यज्ञःइत्यन्नप्रचुर उच्यते, एवमानन्दप्रचुरं ब्रह्मानन्दमयमुच्यते । आनन्दप्रचुरत्वं ब्रह्मणो मनुष्यत्वादारभ्योत्तरस्मिन्नुत्तरस्मिन्स्थाने शतगुण आनन्द इत्युक्त्वा ब्रह्मानन्दस्य निरतिशयत्वावधारणात् । तस्मात्प्राचुर्यार्थे मयट् ॥ १३ ॥
तद्धेतुव्यपदेशाच्च ॥ १४ ॥
इतश्च प्राचुर्यार्थे मयट् ; यस्मादानन्दहेतुत्वं ब्रह्मणो व्यपदिशति श्रुतिः — ‘एष ह्येवानन्दयातिइतिआनन्दयतीत्यर्थः । यो ह्यन्यानानन्दयति प्रचुरानन्द इति प्रसिद्धं भवति ; यथा लोके योऽन्येषां धनिकत्वमापादयति प्रचुरधन इति गम्यते, तद्वत् । तस्मात्प्राचुर्यार्थेऽपि मयटः सम्भवादानन्दमयः पर एवात्मा ॥ १४ ॥
मान्त्रवर्णिकमेव च गीयते ॥ १५ ॥
इतश्चानन्दमयः पर एवात्मा ; यस्मात् ब्रह्मविदाप्नोति परम्’ (तै. उ. २ । १ । १) इत्युपक्रम्य, सत्यं ज्ञानमनन्तं ब्रह्म’ (तै. उ. २ । १ । १) इत्यस्मिन्मन्त्रे यत् ब्रह्म प्रकृतं सत्यज्ञानानन्तविशेषणैर्निर्धारितम् , यस्मादाकाशादिक्रमेण स्थावरजङ्गमानि भूतान्यजायन्त, यच्च भूतानि सृष्ट्वा तान्यनुप्रविश्य गुहायामवस्थितं सर्वान्तरम् , यस्य विज्ञानायअन्योऽन्तर आत्मा’ ‘अन्योऽन्तर आत्माइति प्रक्रान्तम् , तन्मान्त्रवर्णिकमेव ब्रह्मेह गीयतेअन्योऽन्तर आत्मानन्दमयः’ (तै. उ. २ । ५ । १) इति । मन्त्रब्राह्मणयोश्चैकार्थत्वं युक्तम् , अविरोधात् । अन्यथा हि प्रकृतहानाप्रकृतप्रक्रिये स्याताम् । चान्नमयादिभ्य इवानन्दमयादन्योऽन्तर आत्माभिधीयते । एतन्निष्ठैव सैषा भार्गवी वारुणी विद्या’ (तै. उ. ३ । ६ । १)आनन्दो ब्रह्मेति व्यजानात्’ (तै. उ. ३ । ६ । १) इति । तस्मादानन्दमयः पर एवात्मा ॥ १५ ॥
नेतरोऽनुपपत्तेः ॥ १६ ॥
इतश्चानन्दमयः पर एवात्मा, नेतरः ; इतर ईश्वरादन्यः संसारी जीव इत्यर्थः । जीव आनन्दमयशब्देनाभिधीयते । कस्मात् ? अनुपपत्तेः । आनन्दमयं हि प्रकृत्य श्रूयतेसोऽकामयत । बहु स्यां प्रजायेयेति । तपोऽतप्यत । तपस्तप्त्वा । इदꣳ सर्वमसृजत । यदिदं किञ्च’ (तै. उ. २ । ६ । १) इति । तत्र प्राक्शरीराद्युत्पत्तेरभिध्यानम् , सृज्यमानानां विकाराणां स्रष्टुरव्यतिरेकः, सर्वविकारसृष्टिश्च परस्मादात्मनोऽन्यत्रोपपद्यते ॥ १६ ॥
भेदव्यपदेशाच्च ॥ १७ ॥
इतश्च नानन्दमयः संसारी ; यस्मादानन्दमयाधिकारे रसो वै सः । रसꣳ ह्येवायं लब्ध्वानन्दी भवति’ (तै. उ. २ । ७ । १) इति जीवानन्दमयौ भेदेन व्यपदिशति । हि लब्धैव लब्धव्यो भवति । कथं तर्हिआत्मान्वेष्टव्यः’ ‘आत्मलाभान्न परं विद्यतेइति श्रुतिस्मृती, यावता लब्धैव लब्धव्यो भवतीत्युक्तम् ? बाढम्तथाप्यात्मनोऽप्रच्युतात्मभावस्यैव सतस्तत्त्वानवबोधनिमित्तो मिथ्यैव देहादिष्वनात्मसु आत्मत्वनिश्चयो लौकिको दृष्टः । तेन देहादिभूतस्यात्मनोऽपि आत्माअनन्विष्टःअन्वेष्टव्यः’, अलब्धःलब्धव्यः’, अश्रुतःश्रोतव्यः’, अमतःमन्तव्यः’, अविज्ञातःविज्ञातव्यः’ — इत्यादिभेदव्यपदेश उपपद्यते । प्रतिषिध्यत एव तु परमार्थतः सर्वज्ञात्परमेश्वरादन्यो द्रष्टा श्रोता वा नान्योऽतोऽस्ति द्रष्टा’ (बृ. उ. ३ । ७ । २३) इत्यादिना । परमेश्वरस्तु अविद्याकल्पिताच्छारीरात्कर्तुर्भोक्तुः विज्ञानात्माख्यात् अन्यः ; यथा मायाविनश्चर्मखड्गधरात्सूत्रेणाकाशमधिरोहतः एव मायावी परमार्थरूपो भूमिष्ठोऽन्यः ; यथा वा घटाकाशादुपाधिपरिच्छिन्नादनुपाधिपरिच्छिन्न आकाशोऽन्यः । ईदृशं विज्ञानात्मपरमात्मभेदमाश्रित्यनेतरोऽनुपपत्तेः’ ‘भेदव्यपदेशाच्चइत्युक्तम् ॥१७ ॥
कामाच्च नानुमानापेक्षा ॥ १८ ॥
आनन्दमयाधिकारे सोऽकामयत बहु स्यां प्रजायेयेति’ (तै. उ. २ । ६ । १) इति कामयितृत्वनिर्देशात् नानुमानिकमपि सांख्यपरिकल्पितमचेतनं प्रधानमानन्दमयत्वेन कारणत्वेन वा अपेक्षितव्यम् । ईक्षतेर्नाशब्दम्’ (ब्र. सू. १ । १ । ५) इति निराकृतमपि प्रधानं पूर्वसूत्रोदाहृतां कामयितृत्वश्रुतिमाश्रित्य प्रसङ्गात्पुनर्निराक्रियते गतिसामान्यप्रपञ्चनाय ॥ १८ ॥
अस्मिन्नस्य च तद्योगं शास्ति ॥ १९ ॥
इतश्च प्रधाने जीवे वानन्दमयशब्दः ; यस्मादस्मिन्नानन्दमये प्रकृत आत्मनि, प्रतिबुद्धस्यास्य जीवस्य, तद्योगं शास्तितदात्मना योगस्तद्योगः, तद्भावापत्तिः, मुक्तिरित्यर्थःतद्योगं शास्ति शास्त्रम्यदा ह्येवैष एतस्मिन्नदृश्येऽनात्म्येऽनिरुक्तेऽनिलयनेऽभयं प्रतिष्ठां विन्दते । अथ सोऽभयं गतो भवति । यदा ह्येवैष एतस्मिन्नुदरमन्तरं कुरुते । अथ तस्य भयं भवति’ (तै. उ. २ । ७ । १)(तै. उ. २ । ७ । १) इति । एतदुक्तं भवतियदैतस्मिन्नानन्दमयेऽल्पमप्यन्तरमतादात्म्यरूपं पश्यति, तदा संसारभयान्न निवर्तते ; यदा त्वेतस्मिन्नानन्दमये निरन्तरं तादात्म्येन प्रतितिष्ठति, तदा संसारभयान्निवर्तत इति । तच्च परमात्मपरिग्रहे घटते, प्रधानपरिग्रहे जीवपरिग्रहे वा । तस्मादानन्दमयः परमात्मेति स्थितम् ॥ १९ ॥
इदं त्वि वक्तव्यम् वा एष पुरुषोऽन्नरसमयः’ (तै. उ. २ । १ । १)तस्माद्वा एतस्मादन्नरसमयादन्योऽन्तर आत्मा प्राणमयः’ (तै. उ. २ । २ । १)तस्मात् अन्योऽन्तर आत्मा मनोमयः’ (तै. उ. २ । ३ । १)तस्मात् अन्योऽन्तर आत्मा विज्ञानमयः’ (तै. उ. २ । ४ । १) इति विकारार्थे मयट्‍प्रवाहे सति, आनन्दमय एवाकस्मादर्धजरतीयन्यायेन कथमिव मयटः प्राचुर्यार्थत्वं ब्रह्मविषयत्वं चाश्रीयत इति । मान्त्रवर्णिकब्रह्माधिकारादिति चेत् , ; अन्नमयादीनामपि तर्हि ब्रह्मत्वप्रसङ्गः । अत्राहयुक्तमन्नमयादीनामब्रह्मत्वम् , तस्मात्तस्मादान्तरस्यान्तरस्यान्यस्यान्यस्यात्मन उच्यमानत्वात् ; आनन्दमयात्तु कश्चिदन्य आन्तर आत्मोच्यते ; तेनानन्दमयस्य ब्रह्मत्वम् , अन्यथा प्रकृतहानाप्रकृतप्रक्रियाप्रसङ्गादिति । अत्रोच्यतेयद्यप्यन्नमयादिभ्य इवानन्दमयात्अन्योऽन्तर आत्माइति श्रूयते, तथापि नानन्दमयस्य ब्रह्मत्वम् ; यत आनन्दमयं प्रकृत्य श्रूयतेतस्य प्रियमेव शिरः, मोदो दक्षिणः पक्षः, प्रमोद उत्तरः पक्षः, आनन्द आत्मा, ब्रह्म पुच्छं प्रतिष्ठा’ (तै. उ. २ । ५ । १) इति । तत्र द्ब्रह्मेह मन्त्रवर्णे प्रकृतम् सत्यं ज्ञानमनन्तं ब्रह्म’ (तै. उ. २ । १ । १) इति, तदिहब्रह्म पुच्छं प्रतिष्ठाइत्युच्यते । तद्विजिज्ञापयिषयैवान्नमयादय आनन्दमयपर्यन्ताः पञ्च कोशाः कल्प्यन्ते । तत्र कुतः प्रकृतहानाप्रकृतप्रक्रियाप्रसङ्गः । न्वानन्दमयस्यावयवत्वेनब्रह्म पुच्छं प्रतिष्ठाइत्युच्यते, अन्नमयादीनामिवइदं पुच्छं प्रतिष्ठाइत्यादि ; तत्र कथं ब्रह्मणः स्वप्रधानत्वं शक्यं विज्ञातुम् ? प्रकृतत्वादिति ब्रूमः । न्वानन्दमयावयवत्वेनापि ब्रह्मणि विज्ञायमाने प्रकृतत्वं हीयते, आनन्दमयस्य ब्रह्मत्वादिति ; अत्रोच्यतेतथा सति तदेव ब्रह्म आनन्दमय आत्मा अवयवी, तदेव ब्रह्म पुच्छं प्रतिष्ठा अवयव इत्यसामञ्जस्यं स्यात् । अन्यतरपरिग्रहे तु युक्तम्ब्रह्म पुच्छं प्रतिष्ठाइत्यत्रैव ब्रह्मनिर्देश आश्रयितुम् , ब्रह्मशब्दसंयोगात् ; नानन्दमयवाक्ये, ब्रह्मशब्दसंयोगाभावादिति । अपि ब्रह्म पुच्छं प्रतिष्ठेत्युक्त्वेदमुच्यतेतदप्येष श्लोको भवति । असन्नेव भवति । असद्ब्रह्मेति वेद चेत् । अस्ति ब्रह्मेति चेद्वेद । सन्तमेनं ततो विदुः’ (तै. उ. २ । ६ । १) इति । अस्मिंश्च श्लोकेऽननुकृष्यानन्दमयं ब्रह्मण एव भावाभाववेदनयोर्गुणदोषाभिधानाद्गम्यते — ‘ब्रह्म पुच्छं प्रतिष्ठाइत्यत्र ब्रह्मण एव स्वप्रधानत्वमिति । चानन्दमयस्यात्मनो भावाभावाशङ्का युक्ता, प्रियमोदादिविशिष्टस्यानन्दमयस्य सर्वलोकप्रसिद्धत्वात् । कथं पुनः स्वप्रधानं सद्ब्रह्म आनन्दमयस्य पुच्छत्वेन निर्दिश्यते — ‘ब्रह्म पुच्छं प्रतिष्ठाइति ? नैष दोषः । पुच्छवत्पुच्छम् , प्रतिष्ठा परायणमेकनीडं लौकिकस्यानन्दजातस्य ब्रह्मानन्दः इत्येतदनेन विवक्ष्यते, नावयवत्वम् ; एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति’ (बृ. उ. ४ । ३ । ३२) इति श्रुत्यन्तरात् । अपि चानन्दमयस्य ब्रह्मत्वे प्रियाद्यवयवत्वेन सविशेषं ब्रह्माभ्युपगन्तव्यम् ; निर्विशेषं तु ब्रह्म वाक्यशेषे श्रूयते, वाङ्मनसयोरगोचरत्वाभिधानात्यतो वाचो निवर्तन्ते । अप्राप्य मनसा सह । आनन्दं ब्रह्मणो विद्वान् । बिभेति कुतश्चन’ (तै. उ. २ । ९ । १) इति । अपि चानन्दप्रचुर इत्युक्ते दुःखास्तित्वमपि गम्यते ; प्राचुर्यस्य लोके प्रतियोग्यल्पत्वापेक्षत्वात् । तथा सति यत्र नान्यत्पश्यति, नान्यच्छृणोति, नान्यद्विजानाति, भूमा’ (छा. उ. ७ । २४ । १) इति भूम्नि ब्रह्मणि तद्व्यतिरिक्ताभावश्रुतिरुपरुध्येत । प्रतिशरीरं प्रियादिभेदादानन्दमयस्य भिन्नत्वम् ; ब्रह्म तु प्रतिशरीरं भिद्यते, सत्यं ज्ञानमनन्तं ब्रह्म’ (तै. उ. २ । १ । १) इत्यानन्त्यश्रुतेः एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा’ (श्वे. उ. ६ । ११) इति श्रुत्यन्तरात् । चानन्दमयस्याभ्यासः श्रूयते । प्रातिपदिकार्थमात्रमेव हि सर्वत्राभ्यस्यतेरसो वै सः । रसꣳ ह्येवायं लब्ध्वानन्दी भवति । को ह्येवान्यात्कः प्राण्यात् । यदेष आकाश आनन्दो स्यात्’ (तै. उ. २ । ७ । १) (तै. उ. २ । ७ । १)सैषानन्दस्य मीमाꣳसा भवति’ (तै. उ. २ । ८ । १)आनन्दं ब्रह्मणो विद्वान्न बिभेति कुतश्चनेति’ (तै. उ. २ । ९ । १) आनन्दो ब्रह्मेति व्यजानात्’ (तै. उ. ३ । ६ । १) इति  । यदि चानन्दमयशब्दस्य ब्रह्मविषयत्वं निश्चितं भवेत् , तत उत्तरेष्वानन्दमात्रप्रयोगेष्वप्यानन्दमयाभ्यासः कल्प्येत ; त्वानन्दमयस्य ब्रह्मत्वमस्ति, प्रियशिरस्त्वादिभिर्हेतुभिरित्यवोचाम ; तस्माच्छ्रुत्यन्तरे विज्ञानमानन्दं ब्रह्म’ (बृ. उ. ३ । ९ । २८) इत्यानन्दप्रातिपदिकस्य ब्रह्मणि प्रयोगदर्शनात् , यदेष आकाश आनन्दो स्यात्’ (तै. उ. २ । ७ । १) इति ब्रह्मविषयः प्रयोगो त्वानन्दमयाभ्यास इत्यवगन्तव्यम् । यस्त्वयं मयडन्तस्यैवानन्दमयशब्दस्याभ्यासः एतमानन्दमयमात्मानमुपसङ्क्रामति’ (तै. उ. २ । ८ । ५) इति, तस्य ब्रह्मविषयत्वमस्ति ; विकारात्मनामेवान्नमयादीनामनात्मनामुपसङ्क्रमितव्यानां प्रवाहे पठितत्वात् । न्वानन्दमयस्योपसङ्क्रमितव्यस्यान्नमयादिवदब्रह्मत्वे सति नैव विदुषो ब्रह्मप्राप्तिः फलं निर्दिष्टं भवेत् । नैष दोषः, आनन्दमयोपसङ्क्रमणनिर्देशेनैव विदुषः पुच्छप्रतिष्ठाभूतब्रह्मप्राप्तेः फलस्य निर्दिष्टत्वात् , ‘तदप्ये श्लोको भवति’ ‘यतो वाचो निवर्तन्तेइत्यादिना प्रपञ्च्यमानत्वात् । या त्वानन्दमयसन्निधाने सोऽकामयत बहु स्यां प्रजायेयेति’ (तै. उ. २ । ६ । १) इतीयं श्रुतिरुदाहृता, साब्रह्म पुच्छं प्रतिष्ठाइत्यनेन सन्निहिततरेण ब्रह्मणा सम्बध्यमाना नानन्दमयस्य ब्रह्मतां प्रतिबोधयति । तदपेक्षत्वाच्चोत्तरस्य ग्रन्थस्य रसो वै सः’ (तै. उ. २ । ७ । १) इत्यादेर्नानन्दमयविषयता । ननुसोऽकामयतइति ब्रह्मणि पुंलिङ्गनिर्देशो नोपपद्यते । नायं दोषः, ‘तस्माद्वा एतस्मादात्मन आकाशः सम्भूतःइत्यत्र पुंलिङ्गेनाप्यात्मशब्देन ब्रह्मणः प्रकृतत्वात् । यत्तु भार्गवी वारुणी विद्याआनन्दो ब्रह्मेति व्यजानात्’ (तै. उ. ३ । ६ । १) इति, तस्यां मयडश्रवणात्प्रियशिरस्त्वाद्यश्रवणाच्च युक्तमानन्दस्य ब्रह्मत्वम् । तस्मादणुमात्रमपि विशेषमनाश्रित्य स्वत एव प्रियशिरस्त्वादि ब्रह्मण उपपद्यते । चेह सविशेषं ब्रह्म प्रतिपिपादयिषितम् , वाङ्मनसगोचरातिक्रमश्रुतेः । तस्मादन्नमयादिष्विवानन्दमयेऽपि विकारार्थ एव मयट् विज्ञेयः, प्राचुर्यार्थः
सूत्राणि त्वेवं व्याख्येयानि — ‘ब्रह्म पुच्छं प्रतिष्ठाइत्यत्र किमानन्दमयावयवत्वेन ब्रह्म विवक्ष्यते, उत स्वप्रधानत्वेनेति । पुच्छशब्दादवयवत्वेनेति प्राप्ते, उच्यतेआनन्दमयोऽभ्यासात्आनन्दमय आत्मा इत्यत्रब्रह्म पुच्छं प्रतिष्ठाइति स्वप्रधानमेव ब्रह्मोपदिश्यते ; अभ्यासात्असन्नेव भवतिइत्यस्मिन्निगमनश्लोके ब्रह्मण एव केवलस्याभ्यस्यमानत्वात् । विकारशब्दान्नेति चेन्न प्राचुर्यात्विकारशब्देनावयवशब्दोऽभिप्रेतः ; पुच्छमित्यवयवशब्दान्न स्वप्रधानत्वं ब्रह्मण इति यदुक्तम् , तस्य परिहारो वक्तव्यः ; अत्रोच्यतेनायं दोषः, प्राचुर्यादप्यवयवशब्दोपपत्तेः ; प्राचुर्यं प्रायापत्तिः, अवयवप्राये वचनमित्यर्थः ; अन्नमयादीनां हि शिरआदिषु पुच्छान्तेष्ववयवेषूक्तेष्वानन्दमयस्यापि शिरआदीन्यवयवान्तराण्युक्त्वा अवयवप्रायापत्त्याब्रह्म पुच्छं प्रतिष्ठाइत्याह, नावयवविवक्षया ; यत्कारणम्अभ्यासात्इति स्वप्रधानत्वं ब्रह्मणः समर्थितम् । तद्धेतुव्यपदेशाच्चसर्वस्य हि विकारजातस्य सानन्दमयस्य कारणत्वेन ब्रह्म व्यपदिश्यतेइदꣳ सर्वमसृजत, यदिदं किञ्च’ (तै. उ. २ । ६ । १) इति । कारणं सद्ब्रह्म स्वविकारस्यानन्दमयस्य मुख्यया वृत्त्यावयव उपपद्यते । अपराण्यपि सूत्राणि यथासम्भवं पुच्छवाक्यनिर्दिष्टस्यैव ब्रह्मण उपपादकानि द्रष्टव्यानि ॥१२ – १९ ॥
अन्तस्तद्धर्मोपदेशात् ॥ २० ॥
इदमाम्नायतेअथ एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते हिरण्यश्मश्रुर्हिरण्यकेश प्रणखात्सर्व एव सुवर्णः’ (छा. उ. १ । ६ । ६)तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी तस्योदिति नाम एष सर्वेभ्यः पाप्मभ्य उदित उदेति वै सर्वेभ्यः पाप्मभ्यो एवं वेद’ (छा. उ. १ । ६ । ७)‘... इत्यधिदैवतम्’ (छा. उ. १ । ६ । ८) थाध्यात्मम् ...’ (छा. उ. १ । ७ । १) अथ एषोऽन्तरक्षिणि पुरुषो दृश्यते’ (छा. उ. १ । ७ । ५) इत्यादि । तत्र संशयःकिं विद्याकर्मातिशयवशात्प्राप्तोत्कर्षः कश्चित्संसारी सूर्यमण्डले चक्षुषि चोपास्यत्वेन श्रूयते, किं वा नित्यसिद्धः परमेश्वर इति । किं तावत्प्राप्तम् ? संसारीति । कुतः ? रूपवत्त्वश्रवणात् । आदित्यपुरुषे तावत्हिरण्यश्मश्रुःइत्यादि रूपमुदाहृतम् ; अक्षिपुरुषेऽपि तदेवातिदेशेन प्राप्यतेतस्यैतस्य तदेव रूपं यदमुष्य रूपम्इति । परमेश्वरस्य रूपवत्त्वं युक्तम् , अशब्दमस्पर्शमरूपमव्ययम्’ (क. उ. १ । ३ । १५) इति श्रुतेः ; आधारश्रवणाच्च — ‘ एषोऽन्तरादित्ये एषोऽन्तरक्षिणिइति । ह्यनाधारस्य स्वमहिमप्रतिष्ठस्य सर्वव्यापिनः परमेश्वरस्याधार उपदिश्येत । भगवः कस्मिन्प्रतिष्ठित इति स्वे महिम्नि’ (छा. उ. ७ । २४ । १) इति आकाशवत्सर्वगतश्च नित्यः’ (शत. ब्रा. १० । ६ । ३ । २) इति श्रुती भवतः । ऐश्वर्यमर्यादाश्रुतेश्च एष ये चामुष्मात्पराञ्चो लोकास्तेषां चेष्टे देवकामानां ’ (छा. उ. १ । ६ । ८) इत्यादित्यपुरुषस्य ऐश्वर्यमर्यादा ; एष ये चैतस्मादर्वाञ्चो लोकास्तेषां चेष्टे मनुष्यकामानां ’ (छा. उ. १ । ७ । ६) इत्यक्षिपुरुषस्य । परमेश्वरस्य मर्यादावदैश्वर्यं युक्तम् ; एष सर्वेश्वर एष भूताधिपतिरेष भूतपाल एष सेतुर्विधरण एषां लोकानामसंभेदाय’ (बृ. उ. ४ । ४ । २२) इत्यविशेषश्रुतेः । तस्मान्नाक्ष्यादित्ययोरन्तः परमेश्वर इत्येवं प्राप्ते ब्रूमः
अन्तस्तद्धर्मोपदेशात् इति । ‘ एषोऽन्तरादित्ये’ ‘ एषोऽन्तरक्षिणिइति श्रूयमाणः पुरुषः परमेश्वर एव, संसारी । कुतः ? तद्धर्मोपदेशात् । तस्य हि परमेश्वरस्य धर्मा इहोपदिष्टाः । तद्यथा — ‘तस्योदिति नामइति श्रावयित्वा तस्यादित्यपुरुषस्य नाम एष सर्वेभ्यः पाप्मभ्य उदितःइति सर्वपाप्मापगमेन निर्वक्ति । तदेव कृतनिर्वचनं नामाक्षिपुरुषस्याप्यतिदिशति — ‘यन्नाम तन्नामइति । सर्वपाप्मापगमश्च परमात्मन एव श्रूयते आत्मापहतपाप्मा’ (छा. उ. ८ । ७ । १) इत्यादौ । तथा चाक्षुषे पुरुषेसैव ऋक् तत्साम तदुक्थं तद्यजुस्तद्ब्रह्मइति ऋक्सामाद्यात्मकतां निर्धारयति । सा परमेश्वरस्योपपद्यते, सर्वकारणत्वात्सर्वात्मकत्वोपपत्तेः । पृथिव्यग्न्याद्यात्मके चाधिदैवतमृक्सामे, वाक्प्राणाद्यात्मके चाध्यात्ममनुक्रम्याह — ‘तस्यर्क्च साम गेष्णौइत्यधिदैवतम् । तथाध्यात्ममपि — ‘यावमुष्य गेष्णौ तौ गेष्णौइति । तच्च सर्वात्मकत्वे सत्येवोपपद्यते । तद्य इमे वीणायां गायन्त्येतं ते गायन्ति तस्मात्ते धनसनयः’ (छा. उ. १ । ७ । ६) इति लौकिकेष्वपि गानेष्वस्यैव गीयमानत्वं दर्शयति । तच्च परमेश्वरपरिग्रह एव घटतेयद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा । तत्तदेवावगच्छ त्वं मम तेजोंशसम्भवम्’ (भ. गी. १० । ४१) इति भगवद्गीतादर्शनात् । लोककामेशितृत्वमपि निरङ्कुशं श्रूयमाणं परमेश्वरं गमयति । यत्तूक्तं हिरण्यश्मश्रुत्वादिरूपवत्त्वश्रवणं परमेश्वरे नोपपद्यत इति, अत्र ब्रूमःस्यात्परमेश्वरस्यापीच्छावशान्मायामयं रूपं साधकानुग्रहार्थम् , ‘माया ह्येषा मया सृष्टा यन्मां पश्यसि नारद । सर्वभूतगुणैर्युक्तं मैवं मां ज्ञातुमर्हसिइति स्मरणात् । अपि , यत्र तु निरस्तसर्वविशेषं पारमेश्वरं रूपमुपदिश्यते, भवति तत्र शास्त्रम् अशब्दमस्पर्शमरूपमव्ययम्’ (क. उ. १ । ३ । १५) इत्यादि । सर्वकारणत्वात्तु विकारधर्मैरपि कैश्चिद्विशिष्टः परमेश्वर उपास्यत्वेन निर्दिश्यतेसर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः’ (छा. उ. ३ । १४ । २) इत्यादिना । तथा हिरण्यश्मश्रुत्वादिनिर्देशोऽपि भविष्यति । यदप्याधारश्रवणान्न परमेश्वर इति, अत्रोच्यतेस्वमहिमप्रतिष्ठस्याप्याधारविशेषोपदेश उपासनार्थो भविष्यति ; सर्वगतत्वाद्ब्रह्मणो व्योमवत्सर्वान्तरत्वोपपत्तेः । ऐश्वर्यमर्यादाश्रवणमप्यध्यात्माधिदैवतविभागापेक्षमुपासनार्थमेव । तस्मात्परमेश्वर एवाक्ष्यादित्ययोरन्तरुपदिश्यते ॥ २० ॥
भेदव्यपदेशाच्चान्यः ॥ २१ ॥
अस्ति चादित्यादिशरीराभिमानिभ्यो जीवेभ्योऽन्य ईश्वरोऽन्तर्यामी आदित्ये तिष्ठन्नादित्यादन्तरो मादित्यो वेद स्यादित्यः शरीरं आदित्यमन्तरो यमयत्येष आत्मान्तर्याम्यमृतः’ (बृ. उ. ३ । ७ । ९) इति श्रुत्यन्तरे भेदव्यपदेशात् । तत्र हिआदित्यादन्तरो यमादित्यो वेदइति वेदितुरादित्याद्विज्ञानात्मनोऽन्योऽन्तर्यामी स्पष्टं निर्दिश्यते । एवेहाप्यन्तरादित्ये पुरुषो भवितुमर्हति, श्रुतिसामान्यात् । तस्मात्परमेश्वर एवेहोपदिश्यत इति सिद्धम् ॥ २१ ॥
आकाशस्तल्लिङ्गात् ॥ २२ ॥
इदमामनन्ति अस्य लोकस्य का गतिरित्याकाश इति होवाच सर्वाणि वा इमानि भूतान्याकाशादेव समुत्पद्यन्त आकाशं प्रत्यस्तं यन्त्याकाशो ह्येवैभ्यो ज्यायानाकाशः परायणम्’ (छा. उ. १ । ९ । १) इति । तत्र संशयःकिमाकाशशब्देन परं ब्रह्माभिधीयते, उत भूताकाशमिति । कुतः संशयः ? उभयत्र प्रयोगदर्शनात् । भूतविशेषे तावत्सुप्रसिद्धो लोकवेदयोराकाशशब्दः । ब्रह्मण्यपि क्वचित्प्रयुज्यमानो दृश्यते, यत्र वाक्यशेषवशादसाधारणगुणश्रवणाद्वा निर्धारितं ब्रह्म भवतियथा यदेष आकाश आनन्दो स्यात्’ (तै. उ. २ । ७ । १) इति आकाशो वै नाम नामरूपयोर्निर्वहिता ते यदन्तरा तद्ब्रह्म’ (छा. उ. ८ । १४ । १) इति चैवमादौ । अतः संशयः । किं पुनरत्र युक्तम् ? भूताकाशमिति । कुतः ? तद्धि प्रसिद्धतरेण प्रयोगेण शीघ्रं बुद्धिमारोहति । चायमाकाशशब्द उभयोः साधारणः शक्यो विज्ञातुम् , अनेकार्थत्वप्रसङ्गात् । तस्माद्ब्रह्मणि गौण एव आकाशशब्दो भवितुमर्हति । विभुत्वादिभिर्हि बहुभिर्धर्मैः सदृशमाकाशेन ब्रह्म भवति । मुख्यसम्भवे गौणोऽर्थो ग्रहणमर्हति । सम्भवति चेह मुख्यस्यैवाकाशस्य ग्रहणम् । ननु भूताकाशपरिग्रहे वाक्यशेषो नोपपद्यते — ‘सर्वाणि वा इमानि भूतान्याकाशादेव समुत्पद्यन्तेइत्यादिः ; नैष दोषः, भूताकाशस्यापि वाय्वादिक्रमेण कारणत्वोपपत्तेः । विज्ञायते हितस्माद्वा एतस्मादात्मन आकाशः सम्भूत आकाशाद्वायुर्वायोरग्निः’ (तै. उ. २ । १ । १) इत्यादि । ज्यायस्त्वपरायणत्वे अपि भूतान्तरापेक्षयोपपद्येते भूताकाशस्यापि । तस्मादाकाशशब्देन भूताकाशस्य ग्रहणमित्येवं प्राप्ते ब्रूमः
आकाशस्तल्लिङ्गात् । आकाशशब्देनेह ब्रह्मणो ग्रहणं युक्तम् । कुतः ? तल्लिङ्गात् । परस्य हि ब्रह्मण इदं लिङ्गम् — ‘सर्वाणि वा इमानि भूतान्याकाशादेव समुत्पद्यन्तेइति । परस्माद्धि ब्रह्मणो भूतानामुत्पत्तिरिति वेदान्तेषु मर्यादा । ननु भूताकाशस्यापि वाय्वादिक्रमेण कारणत्वं दर्शितम् । सत्यं दर्शितम् । तथापि मूलकारणस्य ब्रह्मणोऽपरिग्रहात् , आकाशादेवेत्यवधारणं सर्वाणीति भूतविशेषणं नानुकूलं स्यात् । तथाआकाशं प्रत्यस्तं यन्तिइति ब्रह्मलिङ्गम् , ‘आकाशो ह्येवैभ्यो ज्यायानाकाशः परायणम्इति ज्यायस्त्वपरायणत्वे । ज्यायस्त्वं ह्यनापेक्षिकं परमात्मन्येवैकस्मिन्नाम्नातम्ज्यायान्पृथिव्या ज्यायानन्तरिक्षाज्ज्यायान्दिवो ज्यायानेभ्यो लोकेभ्यः’ (छा. उ. ३ । १४ । ३) इति । तथा परायणत्वमपि परमकारणत्वात्परमात्मन्येव उपपन्नतरं भवति । श्रुतिश्चविज्ञानमानन्दं ब्रह्म रातिर्दातुः परायणम्’ (बृ. उ. ३ । ९ । २८) इति । अपि चान्तवत्त्वदोषेण शालावत्यस्य पक्षं निन्दित्वा, अनन्तं किञ्चिद्वक्तुकामेन जैवलिनाकाशः परिगृहीतः ; तं चाकाशमुद्गीथे सम्पाद्योपसंहरति एष परोवरीयानुद्गीथः एषोऽनन्तः’ (छा. उ. १ । ९ । २) इति । तच्चानन्त्यं ब्रह्मलिङ्गम् । यत्पुनरुक्तं भूताकाशं प्रसिद्धिबलेन प्रथमतरं प्रतीयत इति, अत्र ब्रूमःप्रथमतरं प्रतीतमपि सद्वाक्यशेषगतान्ब्रह्मगुणान्दृष्ट्वा परिगृह्यते । दर्शितश्च ब्रह्मण्यप्याकाशशब्दः आकाशो वै नाम नामरूपयोर्निर्वहिता’ (छा. उ. ८ । १४ । १) इत्यादौ । तथाकाशपर्यायवाचिनामपि ब्रह्मणि प्रयोगो दृश्यतेऋचो अक्षरे परमे व्योमन् यस्मिन्देवा अधि विश्वे निषेदुः’ (ऋ. सं. १ । १६४ । ३९) सैषा भार्गवी वारुणी विद्या परमे व्योमन्प्रतिष्ठिता’ (तै. उ. ३ । ६ । १) कं ब्रह्म खं ब्रह्म’ (छा. उ. ४ । १० । ४) खं पुराणम्’ (बृ. उ. ५ । १ । १) इति चैवमादौ । वाक्योपक्रमेऽपि वर्तमानस्याकाशशब्दस्य वाक्यशेषवशाद्युक्ता ब्रह्मविषयत्वावधारणा । ‘अग्निरधीतेऽनुवाकम्इति हि वाक्योपक्रमगतोऽप्यग्निशब्दो माणवकविषयो दृश्यते । तस्मादाकाशशब्दं ब्रह्मेति सिद्धम् ॥ २२ ॥
अत एव प्राणः ॥ २३ ॥
उद्गीथे — ‘प्रस्तोतर्या देवता प्रस्तावमन्वायत्ताइत्युपक्रम्य श्रूयतेकतमा सा देवतेति’ (छा. उ. १ । ११ । ४), प्राण इति होवाच, सर्वाणि वा इमानि भूतानि प्राणमेवाभिसंविशन्ति, प्राणमभ्युज्जिहते, सैषा देवता प्रस्तावमन्वायत्ता’ (छा. उ. १ । ११ । ५) इति । तत्र संशयनिर्णयौ पूर्ववदेव द्रष्टव्यौ । प्राणबन्धनं हि सोम्य मनः’ (छा. उ. ६ । ८ । २) प्राणस्य प्राणम्’ (बृ. उ. ४ । ४ । १८) इति चैवमादौ ब्रह्मविषयः प्राणशब्दो दृश्यते ; वायुविकारे तु प्रसिद्धतरो लोकवेदयोः ; अत इह प्राणशब्देन कतरस्योपादानं युक्तमिति भवति संशयः । किं पुनरत्र युक्तम् ? वायुविकारस्य पञ्चवृत्तेः प्राणस्योपादानं युक्तम् । तत्र हि प्रसिद्धतरः प्राणशब्द इत्यवोचाम । ननु पूर्ववदिहापि तल्लिङ्गाद्ब्रह्मण एव ग्रहणं युक्तम् । इहापि हि वाक्यशेषे भूतानां संवेशनोद्गमनं पारमेश्वरं कर्म प्रतीयते । , मुख्येऽपि प्राणे भूतसंवेशनोद्गमनस्य दर्शनात् । एवं ह्याम्नायतेयदा वै पुरुषः स्वपिति प्राणं तर्हि वागप्येति प्राणं चक्षुः प्राणं श्रोत्रं प्राणं मनः, यदा प्रबुध्यते प्राणादेवाधि पुनर्जायन्ते’ (श. ब्रा. १० । ३ । ३ । ६) इति । प्रत्यक्षं चैतत्स्वापकाले प्राणवृत्तावपरिलुप्यमानायामिन्द्रियवृत्तयः परिलुप्यन्ते, प्रबोधकाले पुनः प्रादुर्भवन्तीति । इन्द्रियसारत्वाच्च भूतानामविरुद्धो मुख्ये प्राणेऽपि भूतसंवेशनोद्गमनवादी वाक्यशेषः । अपि चादित्योऽन्नं चोद्गीथप्रतिहारयोर्देवते प्रस्तावदेवतायाः प्राणस्यानन्तरं निर्दिश्येते ; तयोर्ब्रह्मत्वमस्ति ; तत्सामान्याच्च प्राणस्यापि ब्रह्मत्वमित्येवं प्राप्ते सूत्रकार आह
अत एव प्राणः इति । तल्लिङ्गादिति पूर्वसूत्रे निर्दिष्टम् । अत एव तल्लिङ्गात्प्राणशब्दमपि परं ब्रह्म भवितुमर्हति । प्राणस्यापि हि ब्रह्मलिङ्गसम्बन्धः श्रूयतेसर्वाणि वा इमानि भूतानि प्राणमेवाभिसंविशन्ति प्राणमभ्युज्जिहते’ (छा. उ. १ । ११ । ५) इति । प्राणनिमित्तौ सर्वेषां भूतानामुत्पत्तिप्रलयावुच्यमानौ प्राणस्य ब्रह्मतां गमयतः । ननूक्तं मुख्यप्राणपरिग्रहेऽपि संवेशनोद्गमनदर्शनमविरुद्धम् , स्वापप्रबोधयोर्दर्शनादिति । अत्रोच्यतेस्वापप्रबोधयोरिन्द्रियाणामेव केवलानां प्राणाश्रयं संवेशनोद्गमनं दृश्यते, सर्वेषां भूतानाम् ; इह तु सेन्द्रियाणां सशरीराणां जीवाविष्टानां भूतानाम् , ‘सर्वाणि वा इमानि भूतानिइति श्रुतेः । यदापि भूतश्रुतिर्महाभूतविषया परिगृह्यते, तदापि ब्रह्मलिङ्गत्वमविरुद्धम् । ननु सहापि विषयैरिन्द्रियाणां स्वापप्रबोधयोः प्राणेऽप्ययं प्राणाच्च प्रभवं शृणुमःयदा सुप्तः स्वप्नं कञ्चन पश्यत्यथास्मिन्प्राण एवैकधा भवति तदैनं वाक्सर्वैर्नामभिः सहाप्येति’ (कौ. उ. ३ । ३) इति । तत्रापि तल्लिङ्गात्प्राणशब्दं ब्रह्मैव । यत्पुनरुक्तमन्नादित्यसन्निधानात्प्राणस्याब्रह्मत्वमिति, तदयुक्तम् ; वाक्यशेषबलेन प्राणशब्दस्य ब्रह्मविषयतायां प्रतीयमानायां सन्निधानस्याकिञ्चित्करत्वात् । यत्पुनः प्राणशब्दस्य पञ्चवृत्तौ प्रसिद्धतरत्वम् , तदाकाशशब्दस्येव प्रतिविधेयम् । तस्मात्सिद्धं प्रस्तावदेवतायाः प्राणस्य ब्रह्मत्वम्
अत्र केचिदुदाहरन्ति — ‘प्राणस्य प्राणम्’ ‘प्राणबन्धनं हि सोम्य मनःइति  । तदयुक्तम् ; शब्दभेदात्प्रकरणाच्च संशयानुपपत्तेः । यथा पितुः पितेति प्रयोगे, अन्यः पिता षष्ठीनिर्दिष्टात् प्रथमानिर्दिष्टः, पितुः पिता इति गम्यते ; तद्वत्प्राणस्य प्राणम्इति शब्दभेदात्प्रसिद्धात्प्राणात् अन्यः प्राणस्य प्राण इति निश्चीयते । हि एव तस्येति भेदनिर्देशार्हो भवति । यस्य प्रकरणे यो निर्दिश्यते नामान्तरेणापि एव तत्र प्रकरणी निर्दिष्ट इति गम्यते ; यथा ज्योतिष्टोमाधिकारेवसन्ते वसन्ते ज्योतिषा यजेतइत्यत्र ज्योतिःशब्दो ज्योतिष्टोमविषयो भवति, तथा परस्य ब्रह्मणः प्रकरणेप्राणबन्धनं हि सोम्य मनःइति श्रुतः प्राणशब्दो वायुविकारमात्रं कथमवगमयेत् । अतः संशयाविषयत्वान्नैतदुदाहरणं युक्तम् । प्रस्तावदेवतायां तु प्राणे संशयपूर्वपक्षनिर्णया उपपादिताः ॥ २३ ॥
ज्योतिश्चरणाभिधानात् ॥ २४ ॥
इदमामनन्तिअथ यदतः परो दिवो ज्योतिर्दीप्यते विश्वतः पृष्ठेषु सर्वतः पृष्ठेष्वनुत्तमेषूत्तमेषु लोकेष्विदं वाव तद्यदिदमस्मिन्नन्तः पुरुषे ज्योतिः’ (छा. उ. ३ । १३ । ७) इति । तत्र संशयःकिमिह ज्योतिःशब्देनादित्यादिकं ज्योतिरभिधीयते, किं वा पर आत्मा इति । अर्थान्तरविषयस्यापि प्राणशब्दस्य तल्लिङ्गाद्ब्रह्मविषयत्वमुक्तम् । इह तु तल्लिङ्गमेवास्ति नास्तीति विचार्यते । किं तावत्प्राप्तम् ? आदित्यादिकमेव ज्योतिःशब्देन परिगृह्यत इति । कुतः ? प्रसिद्धेः । तमो ज्योतिरिति हीमौ शब्दौ परस्परप्रतिद्वन्द्विविषयौ प्रसिद्धौ । चक्षुर्वृत्तेर्निरोधकं शार्वरादिकं तम उच्यते । तस्या एवानुग्राहकमादित्यादिकं ज्योतिः । तथादीप्यतेइतीयमपि श्रुतिरादित्यादिविषया प्रसिद्धा । हि रूपादिहीनं ब्रह्म दीप्यत इति मुख्यां श्रुतिमर्हति । द्युमर्यादत्वश्रुतेश्च । हि चराचरबीजस्य ब्रह्मणः सर्वात्मकस्य द्यौर्मर्यादा युक्ता ; कार्यस्य तु ज्योतिषः परिच्छिन्नस्य द्यौर्मर्यादा स्यात् । ‘परो दिवो ज्योतिःइति ब्राह्मणम् । ननु कार्यस्यापि ज्योतिषः सर्वत्र गम्यमानत्वाद्द्युमर्यादावत्त्वमसमञ्जसम् । अस्तु तर्ह्यत्रिवृत्कृतं तेजः प्रथमजम् । , अत्रिवृत्कृतस्य तेजसः प्रयोजनाभावादिति । इदमेव प्रयोजनं यदुपास्यत्वमिति चेत् , ; प्रयोजनान्तरप्रयुक्तस्यैवादित्यादेरुपास्यत्वदर्शनात् , तासां त्रिवृतं त्रिवृतमेकैकां करवाणि’ (छा. उ. ६ । ३ । ३) इति चाविशेषश्रुतेः । चात्रिवृत्कृतस्यापि तेजसो द्युमर्यादत्वं प्रसिद्धम् । अस्तु तर्हि त्रिवृत्कृतमेव तत्तेजो ज्योतिःशब्दम् । ननूक्तमर्वागपि दिवोऽवगम्यतेऽग्न्यादिकं ज्योतिरिति ; नैष दोषः ; सर्वत्रापि गम्यमानस्य ज्योतिषःपरो दिवःइत्युपासनार्थः प्रदेशविशेषपरिग्रहो विरुध्यते । तु निष्प्रदेशस्यापि ब्रह्मणः प्रदेशविशेषकल्पना भागिनी । ‘सर्वतः पृष्ठेष्वनुत्तमेषूत्तमेषु लोकेषुइति चाधारबहुत्वश्रुतिः कार्ये ज्योतिष्युपपद्यतेतराम् । इदं वाव तद्यदिदमस्मिन्नन्तः पुरुषे ज्योतिः’ (छा. उ. ३ । १३ । ७) इति कौक्षेये ज्योतिषि परं ज्योतिरध्यस्यमानं दृश्यते । सारूप्यनिमित्ताश्चाध्यासा भवन्तियथा तस्य भूरिति शिर एकं हि शिर एकमेतदक्षरम्’ (बृ. उ. ५ । ५ । ३) इति । कौक्षेयस्य तु ज्योतिषः प्रसिद्धमब्रह्मत्वम् । तस्यैषा दृष्टिः’ (छा. उ. ३ । १३ । ८)तस्यैषा श्रुतिःइति चौष्ण्यघोषविशिष्टत्वस्य श्रवणात् । ‘तदेतद्दृष्टं श्रुतं चेत्युपासीतइति श्रुतेः । चक्षुष्यः श्रुतो भवति एवं वेद’ (छा. उ. ३ । १३ । ८) इति चाल्पफलश्रवणादब्रह्मत्वम् । महते हि फलाय ब्रह्मोपासनमिष्यते । चान्यदपि किञ्चित्स्ववाक्ये प्राणाकाशवज्ज्योतिषोऽस्ति ब्रह्मलिङ्गम् । पूर्वस्मिन्नपि वाक्ये ब्रह्म निर्दिष्टमस्ति, ‘गायत्री वा इदꣳ सर्वं भूतम्इति च्छन्दोनिर्देशात् । अथापि कथञ्चित्पूर्वस्मिन्वाक्ये ब्रह्म निर्दिष्टं स्यात् , एवमपि तस्येह प्रत्यभिज्ञानमस्ति । तत्र हि त्रिपादस्यामृतं दिवि’ (छा. उ. ३ । १२ । ६)(छा. उ. ३ । १२ । ६) इति द्यौरधिकरणत्वेन श्रूयते ; अत्र पुनःपरो दिवो ज्योतिःइति द्यौर्मर्यादात्वेन । तस्मात्प्राकृतं ज्योतिरिह ग्राह्यमित्येवं प्राप्ते ब्रूमः
ज्योतिरिह ब्रह्म ग्राह्यम् । कुतः ? चरणाभिधानात् , पादाभिधानादित्यर्थः । पूर्वस्मिन्हि वाक्ये चतुष्पाद्ब्रह्म निर्दिष्टम्तावानस्य महिमा ततो ज्यायाꣳश्च पूरुषः । पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवि’ (छा. उ. ३ । १२ । ६) इत्यनेन मन्त्रेण । तत्र यच्चतुष्पदो ब्रह्मणस्त्रिपादमृतं द्युसम्बन्धिरूपं निर्दिष्टम् , तदेवेह द्युसम्बन्धान्निर्दिष्टमिति प्रत्यभिज्ञायते । तत्परित्यज्य प्राकृतं ज्योतिः कल्पयतः प्रकृतहानाप्रकृतप्रक्रिये प्रसज्येयाताम् । केवलं ज्योतिर्वाक्य एव ब्रह्मानुवृत्तिः ; परस्यामपि शाण्डिल्यविद्यायामनुवर्तिष्यते ब्रह्म । तस्मादिह ज्येतिरिति ब्रह्म प्रतिपत्तव्यम् । यत्तूक्तम् — ‘ज्योतिर्दीप्यतेइति चैतौ शब्दौ कार्ये ज्योतिषि प्रसिद्धाविति, नायं दोषः ; प्रकरणाद्ब्रह्मावगमे सत्यनयोः शब्दयोरविशेषकत्वात् , दीप्यमानकार्यज्योतिरुपलक्षिते ब्रह्मण्यपि प्रयोगसम्भवात् ; येन सूर्यस्तपति तेजसेद्धः’ (तै. ब्रा. ३ । १२ । ९ । ७) इति मन्त्रवर्णात् । यद्वा, नायं ज्योतिःशब्दश्चक्षुर्वृत्तेरेवानुग्राहके तेजसि वर्तते, अन्यत्रापि प्रयोगदर्शनात्वाचैवायं ज्योतिषास्ते’ (बृ. उ. ४ । ३ । ५) मनो ज्योतिर्जुषताम्’ (तै. ब्रा. १ । ६ । ३ । ३) इति  । तस्माद्यद्यत्कस्यचिदवभासकं तत्तज्ज्योतिःशब्देनाभिधीयते । तथा सति ब्रह्मणोऽपि चैतन्यरूपस्य समस्तजगदवभासहेतुत्वादुपपन्नो ज्योतिःशब्दः । तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति’ (क. उ. २ । २ । १५) तद्देवा ज्योतिषां ज्योतिरायुर्होपासतेऽमृतम्’ (बृ. उ. ४ । ४ । १६) इत्यादिश्रुतिभ्यश्च । यदप्युक्तं द्युमर्यादत्वं सर्वगतस्य ब्रह्मणो नोपपद्यत इति, अत्रोच्यतेसर्वगतस्यापि ब्रह्मण उपासनार्थः प्रदेशविशेषपरिग्रहो विरुध्यते । ननूक्तं निष्प्रदेशस्य ब्रह्मणः प्रदेशविशेषकल्पना नोपपद्यत इति ; नायं दोषः, निष्प्रदेशस्यापि ब्रह्मण उपाधिविशेषसम्बन्धात्प्रदेशविशेषकल्पनोपपत्तेः । तथा हिआदित्ये, चक्षुषि, हृदये इति प्रदेशविशेषसम्बन्धीनि ब्रह्मणः उपासनानि श्रूयन्ते । एतेनविश्वतः पृष्ठेषुइत्याधारबहुत्वमुपपादितम् । यदप्येतदुक्तम् औष्ण्यघोषानुमिते कौक्षेये कार्ये ज्योतिष्यध्यस्यमानत्वात्परमपि दिवः कार्यज्योतिरेवेति, तदप्ययुक्तम् ; परस्यापि ब्रह्मणो नामादिप्रतीकत्ववत्कौक्षेयज्योतिष्प्रतीकत्वोपपत्तेः । ‘दृष्टं श्रुतं चेत्युपासीतइति तु प्रतीकद्वारकं दृष्टत्वं श्रुतत्वं भविष्यति । यदप्युक्तमल्पफलश्रवणात् ब्रह्मेति, तदप्यनुपपन्नम् ; हि इयते फलाय ब्रह्माश्रयणीयम् , इयते इति नियमे हेतुरस्ति । यत्र हि निरस्तसर्वविशेषसम्बन्धं परं ब्रह्मात्मत्वेनोपदिश्यते, तत्रैकरूपमेव फलं मोक्ष इत्यवगम्यते । यत्र तु गुणविशेषसम्बन्धं प्रतीकविशेषसम्बन्धं वा ब्रह्मोपदिश्यते, तत्र संसारगोचराण्येवोच्चावचानि फलानि दृश्यन्तेअन्नादो वसुदानो विन्दते वसु एवं वेद’ (बृ. उ. ४ । ४ । २४) इत्याद्यासु श्रुतिषु । यद्यपि स्ववाक्ये किञ्चिज्ज्योतिषो ब्रह्मलिङ्गमस्ति, तथापि पूर्वस्मिन्वाक्ये दृश्यमानं ग्रहीतव्यं भवति । तदुक्तं सूत्रकारेणज्योतिश्चरणाभिधानादिति । कथं पुनर्वाक्यान्तरगतेन ब्रह्मसन्निधानेन ज्योतिःश्रुतिः स्वविषयात् शक्या प्रच्यावयितुम् ? नैष दोषः, ‘अथ यदतः परो दिवो ज्योतिःइति प्रथमतरपठितेन यच्छब्देन सर्वनाम्ना द्युसम्बन्धात्प्रत्यभिज्ञायमाने पूर्ववाक्यनिर्दिष्टे ब्रह्मणि स्वसामर्थ्येन परामृष्टे सत्यर्थाज्ज्योतिःशब्दस्यापि ब्रह्मविषयत्वोपपत्तेः । तस्मादिह ज्योतिरिति ब्रह्म प्रतिपत्तव्यम् ॥ २४ ॥
छन्दोभिधानान्नेति चेन्न तथा चेतोर्पणनिगदात्तथाहि दर्शनम् ॥२५॥
अथ यदुक्तं पूर्वस्मिन्नपि वाक्ये ब्रह्माभिहितमस्ति, गायत्री वा इदꣳ सर्वं भूतं यदिदं किञ्च’ (छा. उ. ३ । १२ । १) इति गायत्र्याख्यस्य च्छन्दसोऽभिहितत्वादिति ; तत्परिहर्तव्यम् । कथं पुनश्छन्दोभिधानान्न ब्रह्माभिहितमिति शक्यते वक्तुम् ? यावतातावानस्य महिमाइत्येतस्यामृचि चतुष्पाद्ब्रह्म दर्शितम् । नैतस्ति । ‘गायत्री वा इदꣳ सर्वम्इति गायत्रीमुपक्रम्य, तामेव भूतपृथिवीशरीरहृदयवाक्प्राणप्रभेदैर्व्याख्याय, सैषा चतुष्पदा षड्विधा गायत्री तदेतदृचाभ्यनूक्तं’ (छा. उ. ३ । १२ । ५) तावानस्य महिमा’ (छा. उ. ३ । १२ । ६) इति तस्यामेव व्याख्यातरूपायां गायत्र्यामुदाहृतो मन्त्रः कथमकस्माद्ब्रह्म चतुष्पादभिदध्यात् । योऽपि तत्र यद्वै तद्ब्रह्म’ (छा. उ. ३ । १२ । ७) इति ब्रह्मशब्दः, सोऽपि च्छन्दसः प्रकृतत्वाच्छन्दोविषय एव । एतामेवं ब्रह्मोपनिषदं वेद’ (छा. उ. ३ । ११ । ३) इत्यत्र हि वेदोपनिषदमिति व्याचक्षते । तस्माच्छन्दोभिधानान्न ब्रह्मणः प्रकृतत्वमिति चेत् , नैष दोषः । तथा चेतोर्पणनिगदात्तथा गायत्र्याख्यच्छन्दोद्वारेण, तदनुगते ब्रह्मणि चेतसोऽर्पणं चित्तसमाधानम् अनेन ब्राह्मणवाक्येन निगद्यते — ‘गायत्री वा इदꣳ सर्वम्इति । ह्यक्षरसन्निवेशमात्राया गायत्र्याः सर्वात्मकत्वं सम्भवति । तस्माद्यद्गायत्र्याख्यविकारेऽनुगतं जगत्कारणं ब्रह्म निर्दिष्टम् , तदिह सर्वमित्युच्यते, यथा सर्वं खल्विदं ब्रह्म’ (छा. उ. ३ । १४ । १) इति । कार्यं कारणादव्यतिरिक्तमिति वक्ष्यामःतदनन्यत्वमारम्भणशब्दादिभ्यः’ (ब्र. सू. २ । १ । १४) इत्यत्र । तथान्यत्रापि विकारद्वारेण ब्रह्मण उपासनं दृश्यतेएतं ह्येव बह्वृचा महत्युक्थे मीमांसन्त एतमग्नावध्वर्यव एवं महाव्रते च्छन्दोगाः’ (ऐ. आ. ३ । २ । ३ । १२) इति । तस्मादस्ति च्छन्दोभिधानेऽपि पूर्वस्मिन्वाक्ये चतुष्पाद्ब्रह्म निर्दिष्टम् । तदेव ज्योतिर्वाक्येऽपि परामृश्यत उपासनान्तरविधानाय । अपर आहसाक्षादेव गायत्रीशब्देन ब्रह्म प्रतिपाद्यते, संख्यासामान्यात् । यथा गायत्री चतुष्पदा षडक्षरैः पादैः, तथा ब्रह्म चतुष्पात् । तथान्यत्रापि च्छन्दोभिधायी शब्दोऽर्थान्तरे संख्यासामान्यात्प्रयुज्यमानो दृश्यते । तद्यथा — ‘ते वा एते पञ्चान्ये पञ्चान्ये दश सन्तस्तत्कृतम्इत्युपक्रम्याहसैषा विराडन्नादीइति । अस्मिन्पक्षे ब्रह्मैवाभिहितमिति च्छन्दोभिधानम् । सर्वथाप्यस्ति पूर्वस्मिन्वाक्ये प्रकृतं ब्रह्म इति ॥ २५ ॥
भूतादिपादव्यपदेशोपपत्तेश्चैवम् ॥ २६ ॥
इतश्चैवमभ्युपगन्तव्यमस्ति पूर्वस्मिन्वाक्ये प्रकृतं ब्रह्मेति ; यतो भूतादीन्पादान्व्यपदिशति श्रुतिः । भूतपृथिवीशरीरहृदयानि हि निर्दिश्याहसैषा चतुष्पदा षड्विधा गायत्री’ (छा. उ. ३ । १२ । ५) इति । हि ब्रह्मानाश्रयणे केवलस्य च्छन्दसो भूतादयः पादा उपपद्यन्ते । अपि ब्रह्मानाश्रयणे नेयमृक् सम्बध्येत — ‘तावानस्य महिमाइति । अनया हि ऋचा स्वरसेन ब्रह्मैवाभिधीयते, पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवि’ (छा. उ. ३ । १२ । ६) इति सर्वात्मत्वोपपत्तेः । पुरुषसूक्तेऽपीयमृक् ब्रह्मपरतयैव समाम्नायते । स्मृतिश्च ब्रह्मण एवंरूपतां दर्शयतिविष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत्’ (भ. गी. १० । ४२) इति । यद्वै तद्ब्रह्म’ (छा. उ. ३ । १२ । ७) इति निर्देश एवं सति मुख्यार्थ उपपद्यते । ते वा एते पञ्च ब्रह्मपुरुषाः’ (छा. उ. ३ । १३ । ६) इति हृदयसुषिषु ब्रह्मपुरुषश्रुतिर्ब्रह्मसम्बन्धितायां विवक्षितायां सम्भवति । तस्मादस्ति पूर्वस्मिन्वाक्ये ब्रह्म प्रकृतम् । तदेव ब्रह्म ज्योतिर्वाक्ये द्युसम्बन्धात्प्रत्यभिज्ञायमानं परामृश्यत इति स्थितम् ॥ २६ ॥
उपदेशभेदान्नेति चेन्नोभयस्मिन्नप्यविरोधात् ॥ २७ ॥
यदप्येतदुक्तम्पूर्वत्रत्रिपादस्यामृतं दिविइति सप्तम्या द्यौः आधारत्वेनोपदिष्टा ; इह पुनःअथ यदतः परो दिवःइति पञ्चम्या मर्यादात्वेन ; तस्मादुपदेशभेदान्न तस्येह प्रत्यभिज्ञानमस्तीतितत्परिहर्तव्यम् । त्रोच्यतेनायं दोषः, उभयस्मिन्नप्यविरोधात् । उभयस्मिन्नपि सप्तम्यन्ते पञ्चम्यन्ते चोपदेशे प्रत्यभिज्ञानं विरुध्यते । यथा लोके वृक्षाग्रेण सम्बद्धोऽपि श्येन उभयथोपदिश्यमानो दृश्यतेवृक्षाग्रे श्येनो वृक्षाग्रात्परतः श्येन इति , एवं दिव्येव सद्ब्रह्म दिवः परमित्युपदिश्यते । अपर आहयथा लोके वृक्षाग्रेणासम्बद्धोऽपि श्येन उभयथोपदिश्यमानो दृश्यतेवृक्षाग्रे श्येनो वृक्षाग्रात्परतः श्येन इति , एवं दिवः परमपि सद्ब्रह्म दिवीत्युपदिश्यते । तस्मादस्ति पूर्वनिर्दिष्टस्य ब्रह्मण इह प्रत्यभिज्ञानम् । अतः परमेव ब्रह्म ज्योतिःशब्दमिति सिद्धम् ॥ २७ ॥
प्राणस्तथानुगमात् ॥ २८ ॥
अस्ति कौषीतकिब्राह्मणोपनिषदीन्द्रप्रतर्दनाख्यायिकाप्रतर्दनो वै दैवोदासिरिन्द्रस्य प्रियं धामोपजगाम युद्धेन पौरुषेण ’ (कौ. उ. ३ । १) इत्यारभ्याम्नाता । तस्यां श्रूयते होवाच प्राणोऽस्मि प्रज्ञात्मा तं मामायुरमृतमित्युपास्स्व’ (कौ. उ. ३ । २) इति । तथोत्तरत्रापिअथ खलु प्राण एव प्रज्ञात्मेदं शरीरं परिगृह्योत्थापयति’ (कौ. उ. ३ । ३) इति । तथा वाचं विजिज्ञासीत वक्तारं विद्यात्इति । अन्ते एष प्राण एव प्रज्ञात्मानन्दोऽजरोऽमृतः’ (कौ. उ. ३ । ९) इत्यादि । तत्र संशयःकिमिह प्राणशब्देन वायुमात्रमभिधीयते, उत देवतात्मा, उत जीवः, अथवा परं ब्रह्मेति । ननुअत एव प्राणःइत्यत्र वर्णितं प्राणशब्दस्य ब्रह्मपरत्वम् ; इहापि ब्रह्मलिङ्गमस्ति — ‘आनन्दोऽजरोऽमृतःइत्यादि ; कथमिह पुनः संशयः सम्भवति ? — अनेकलिङ्गदर्शनादिति ब्रूमः । केवलमिह ब्रह्मलिङ्गमेवोपलभ्यते । सन्ति हीतरलिङ्गान्यपिमामेव विजानीहि’ (कौ. उ. ३ । १) इतीन्द्रस्य वचनं देवतात्मलिङ्गम् । ‘इदं शरीरं परिगृह्योत्थापयतिइति प्राणलिङ्गम् । ‘ वाचं विजिज्ञासीत वक्तारं विद्यात्इत्यादि जीवलिङ्गम् । अत उपपन्नः संशयः । तत्र प्रसिद्धेर्वायुः प्राण इति प्राप्ते इदमुच्यते
प्राणशब्दं ब्रह्म विज्ञेयम् । कुतः ? तथानुगमात् । तथाहि पौर्वापर्येण पर्यालोच्यमाने वाक्ये पदानां समन्वयो ब्रह्मप्रतिपादनपर उपलभ्यते । उपक्रमे तावत्वरं वृणीष्वइतीन्द्रेणोक्तः प्रतर्दनः परमं पुरुषार्थं वरमुपचिक्षेप — ‘त्वमेव मे वृणीष्व यं त्वं मनुष्याय हिततमं मन्यसेइति । तस्मै हिततमत्वेनोपदिश्यमानः प्राणः कथं परमात्मा स्यात् । ह्यन्यत्र परमात्मविज्ञानाद्धिततमप्राप्तिरस्ति, तमेव विदित्वाति मृत्युमेति नान्यः पन्था विद्यतेऽयनाय’ (श्वे. उ. ३ । ८) इत्यादिश्रुतिभ्यः । तथा यो मां वेद वै तस्य केनचन कर्मणा लोको मीयते स्तेयेन भ्रूणहत्यया’ (कौ. उ. ३ । १) इत्यादि ब्रह्मपरिग्रहे घटते । ब्रह्मविज्ञानेन हि सर्वकर्मक्षयः प्रसिद्धः — ‘क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरेइत्याद्यासु श्रुतिषु । प्रज्ञात्मत्वं ब्रह्मपक्ष एवोपपद्यते । ह्यचेतनस्य वायोः प्रज्ञात्मत्वं सम्भवति । तथोपसंहारेऽपिआनन्दोऽजरोऽमृतःइत्यानन्दत्वादीनि ब्रह्मणोऽन्यत्र सम्यक् सम्भवन्ति । ‘ साधुना कर्मणा भूयान्भवति नो एवासाधुना कर्मणा कनीयानेष ह्येव साधु कर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीषते । एष एवासाधु कर्म कारयति तं यमेभ्यो लोकेभ्योऽधो निनीषतेइति, एष लोकाधिपतिरेष लोकपाल एष लोकेशः’ (कौ. उ. ३ । ९) इति  । सर्वमेतत्परस्मिन्ब्रह्मण्याश्रीयमाणेऽनुगन्तुं शक्यते, मुख्ये प्राणे । तस्मात्प्राणो ब्रह्म ॥ २८ ॥
न वक्तुरात्मोपदेशादिति चेदध्यात्मसम्बन्धभूमा ह्यस्मिन् ॥ २९ ॥
यदुक्तं प्राणो ब्रह्मेति, तदाक्षिप्यते परं ब्रह्म प्राणशब्दम् ; कस्मात् ? वक्तुरात्मोपदेशात् । वक्ता हीन्द्रो नाम कश्चिद्विग्रहवान्देवताविशेषः स्वमात्मानं प्रतर्दनायाचचक्षे — ‘मामेव विजानीहिइत्युपक्रम्यप्राणोऽस्मि प्रज्ञात्माइत्यहंकारवादेन । एष वक्तुरात्मत्वेनोपदिश्यमानः प्राणः कथं ब्रह्म स्यात् ? हि ब्रह्मणो वक्तृत्वं सम्भवति, अवागमनाः’ (बृ. उ. ३ । ८ । ८) इत्यादिश्रुतिभ्यः । तथा विग्रहसम्बन्धिभिरेव ब्रह्मण्यसम्भवद्भिर्धर्मैरिन्द्र आत्मानं तुष्टाव — ‘त्रिशीर्षाणं त्वाष्ट्रमहनमरुन्मुखान्यतीञ्शालावृकेभ्यः प्रायच्छम्इत्येवमादिभिः । प्राणत्वं चेन्द्रस्य बलवत्त्वादुपपद्यते ; ‘प्राणो वै बलम्इति हि विज्ञायते । बलस्य चेन्द्रो देवता प्रसिद्धा । ‘या काचिद्बलकृतिः, इन्द्रकर्मैव तत्इति हि वदन्ति । प्रज्ञात्मत्वमप्यप्रतिहतज्ञानत्वाद्देवतात्मनः सम्भवति । अप्रतिहतज्ञाना देवता इति हि वदन्ति । निश्चिते चैवं देवतात्मोपदेशे हिततमत्वादिवचनानि यथासम्भवं तद्विषयाण्येव योजयितव्यानि । तस्माद्वक्तुरिन्द्रस्यात्मोपदेशात् प्राणो ब्रह्मेत्याक्षिप्य प्रतिसमाधीयते — ‘अध्यात्मसम्बन्धभूमा ह्यस्मिन्इति । अध्यात्मसम्बन्धः प्रत्यगात्मसम्बन्धः, तस्य भूमा बाहुल्यम् , अस्मिन्नध्याये उपलभ्यते । ‘यावद्ध्यस्मिञ्शरीरे प्राणो वसति तावदायुःइति प्राणस्यैव प्रज्ञात्मनः प्रत्यग्भूतस्यायुष्प्रदानोपसंहारयोः स्वातन्त्र्यं दर्शयति, देवताविशेषस्य पराचीनस्य । थास्तित्वे प्राणानां निःश्रेयसमित्यध्यात्ममेवेन्द्रियाश्रयं प्राणं दर्शयति । तथा प्राण एव प्रज्ञात्मेदं शरीरं परिगृह्योत्थापयति’ (कौ. उ. ३ । ३) इति । ‘ वाचं विजिज्ञासीत वक्तारं विद्यात्इति चोपक्रम्यतद्यथा रथस्यारेषु नेमिरर्पिता नाभावरा अर्पिता एवमेवैता भूतमात्राः प्रज्ञामात्रास्वर्पिताः प्रज्ञामात्राः प्राणेऽर्पिताः एष प्राण एव प्रज्ञात्मानन्दोऽजरोऽमृतःइति विषयेन्द्रियव्यवहारारनाभिभूतं प्रत्यगात्मानमेवोपसंहरति । ‘ आत्मेति विद्यात्इति चोपसंहारः प्रत्यगात्मपरिग्रहे साधुः, पराचीनपरिग्रहे । अयमात्मा ब्रह्म सर्वानुभूः’ (बृ. उ. २ । ५ । १९) इति श्रुत्यन्तरम् । तस्मादध्यात्मसम्बन्धबाहुल्याद्ब्रह्मोपदेश एवायम् , देवतात्मोपदेशः ॥ २९ ॥
कथं तर्हि वक्तुरात्मोपदेशः ? —
शास्त्रदृष्ट्या तूपदेशो वामदेववत् ॥ ३० ॥
इन्द्रो नाम देवतात्मा स्वमात्मानं परमात्मत्वेनअहमेव परं ब्रह्मइत्यार्षेण दर्शनेन यथाशास्त्रं पश्यन् उपदिशति स्म — ‘मामेव विजानीहिइति ; यथातद्धैतत्पश्यन्नृषिर्वामदेवः प्रतिपेदेऽहं मनुरभवꣳ सूर्यश्चइति, तद्वत् ; तद्यो यो देवानां प्रत्यबुध्यत एव तदभवत्’ (बृ. उ. १ । ४ । १०) इति श्रुतेः । यत्पुनरुक्तम् — ‘मामेव विजानीहिइत्युक्त्वा, विग्रहधर्मैरिन्द्रः आत्मानं तुष्टाव त्वाष्ट्रवधादिभिरिति, तत्परिहर्तव्यम् ; अत्रोच्यते तावत् त्वाष्ट्रवधादीनां विज्ञेयेन्द्रस्तुत्यर्थत्वेनोपन्यासः — ‘यस्मादेवंकर्माहम् , तस्मान्मां विजानीहिइति ; कथं तर्हि ? विज्ञानस्तुत्यर्थत्वेन ; त्कारणं त्वाष्ट्रवधादीनि साहसान्युपन्यस्य परेण विज्ञानस्तुतिमनुसन्दधाति — ‘तस्य मे तत्र लोम मीयते यो मां वेद वै तस्य केन कर्मणा लोको मीयतेइत्यादिना । एतदुक्तं भवतियस्मादीदृशान्यपि क्रूराणि कर्माणि कृतवतो मम ब्रह्मभूतस्य लोमापि हिंस्यते, योऽन्योऽपि मां वेद, तस्य केनचिदपि कर्मणा लोको हिंस्यत इति । विज्ञेयं तु ब्रह्मैवप्राणोऽस्मि प्रज्ञात्माइति वक्ष्यमाणम् । तस्माद्ब्रह्मवाक्यमेतत् ॥ ३० ॥
जीवमुख्यप्राणलिङ्गान्नेति चेन्नोपासात्रैविध्यादाश्रितत्वादिह तद्योगात् ॥ ३१ ॥
यद्यप्यध्यात्मसम्बन्धभूमदर्शनान्न पराचीनस्य देवतात्मन उपदेशः, तथापि ब्रह्मवाक्यं भवितुमर्हति । कुतः ? जीवलिङ्गात् मुख्यप्राणलिङ्गाच्च । जीवस्य तावदस्मिन्वाक्ये विस्पष्टं लिङ्गमुपलभ्यते — ‘ वाचं विजिज्ञासीत वक्तारं विद्यात्इत्यादि । अत्र हि वागादिभिः करणैर्व्यापृतस्य कार्यकरणाध्यक्षस्य जीवस्य विज्ञेयत्वमभिधीयते । तथा मुख्यप्राणलिङ्गमपि — ‘अथ खलु प्राण एव प्रज्ञात्मेदं शरीरं परिगृह्योत्थापयतिइति । शरीरधारणं मुख्यप्राणस्य धर्मः ; प्राणसंवादे वागादीन्प्राणान्प्रकृत्यतान्वरिष्ठः प्राण उवाच मा मोहमापद्यथाहमेवैतत्पञ्चधात्मानं प्रविभज्यैतद्बाणमवष्टभ्य विधारयामि’ (प्र. उ. २ । ३) इति श्रवणात् । ये तुइमं शरीरं परिगृह्यइति पठन्ति, तेषाम् इमं जीवमिन्द्रियग्रामं वा परिगृह्य शरीरमुत्थापयतीति व्याख्येयम् । प्रज्ञात्मत्वमपि जीवे तावच्चेतनत्वादुपपन्नम् । मुख्येऽपि प्राणे प्रज्ञासाधनप्राणान्तराश्रयत्वादुपपन्नमेव । एवं जीवमुख्यप्राणपरिग्रहे , प्राणप्रज्ञात्मनोः सहवृत्तित्वेनाभेदनिर्देशः, स्वरूपेण भेदनिर्देशः, इत्युभयथापि निर्देश उपपद्यते — ‘यो वै प्राणः प्रज्ञा या वै प्रज्ञा प्राणः’ ‘सह ह्येतावस्मिञ्शरीरे वसतः सहोत्क्रामतःइति । ब्रह्मपरिग्रहे तु किं कस्माद्भिद्येत ? तस्मादिह जीवमुख्यप्राणयोरन्यतर उभौ वा प्रतीयेयातां ब्रह्मेति चेत् , नैतदेवम् ; उपासात्रैविध्यात् । एवं सति त्रिविधमुपासनं प्रसज्येतजीवोपासनं मुख्यप्राणोपासनं ब्रह्मोपासनं चेति । चैतदेकस्मिन्वाक्येऽभ्युपगन्तुं युक्तम् । उपक्रमोपसंहाराभ्यां हि वाक्यैकवाक्यत्वमवगम्यते । ‘मामेव विजानीहिइत्युपक्रम्य, ‘प्राणोऽस्मि प्रज्ञात्मा तं मामायुरमृतमित्युपास्स्वइत्युक्त्वा, अन्ते एष प्राण एव प्रज्ञात्मानन्दोऽजरोऽमृतःइत्येकरूपावुपक्रमोपसंहारौ दृश्येते । तत्रार्थैकत्वं युक्तमाश्रयितुम् । ब्रह्मलिङ्गन्यपरत्वेन परिणेतुं शक्यम् ; दशानां भूतमात्राणां प्रज्ञामात्राणां ब्रह्मणोऽन्यत्र अर्पणानुपपत्तेः । आश्रितत्वाच्च अन्यत्रापि ब्रह्मलिङ्गवशात्प्राणशब्दस्य ब्रह्मणि वृत्तेः, इहापि हिततमोपन्यासादिब्रह्मलिङ्गयोगात् , ब्रह्मोपदेश एवायमिति गम्यते । यत्तु मुख्यप्राणलिङ्गं दर्शितम् — ‘इदं शरीरं परिगृह्योत्थापयतिइति, तदसत् ; प्राणव्यापारस्यापि परमात्मायत्तत्वात्परमात्मन्युपचरितुं शक्यत्वात् प्राणेन नापानेन मर्त्यो जीवति कश्चन । इतरेण तु जीवन्ति यस्मिन्नेतावुपाश्रितौ’ (क. उ. २ । २ । ५) इति श्रुतेः । यदपि वाचं विजिज्ञासीत वक्तारं विद्यात्इत्यादि जीवलिङ्गं दर्शितम् , तदपि ब्रह्मपक्षं निवारयति । हि जीवो नामात्यन्तभिन्नो ब्रह्मणः, ‘तत्त्वमसि’ ‘अहं ब्रह्मास्मिइत्यादिश्रुतिभ्यः । बुद्ध्याद्युपाधिकृतं तु विशेषमाश्रित्य ब्रह्मैव सन् जीवः कर्ता भोक्ता चेत्युच्यते । तस्योपाधिकृतविशेषपरित्यागेन स्वरूपं ब्रह्म दर्शयितुम् वाचं विजिज्ञासीत वक्तारं विद्यात्इत्यादिना प्रत्यगात्माभिमुखीकरणार्थ उपदेशो विरुध्यते । यद्वाचानभ्युदितं येन वागभ्युद्यते । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते’ (के. उ. १ । ५) इत्यादि श्रुत्यन्तरं वचनादिक्रियाव्यापृतस्यैवात्मनो ब्रह्मत्वं दर्शयति । यत्पुनरेतदुक्तम् — ‘सह ह्येतावस्मिञ्शरीरे वसतः सहोत्क्रामतःइति प्राणप्रज्ञात्मनोर्भेददर्शनं ब्रह्मवादे नोपपद्यत इति, नैष दोषः ; ज्ञानक्रियाशक्तिद्वयाश्रययोर्बुद्धिप्राणयोः प्रत्यगात्मोपाधिभूतयोर्भेदनिर्देशोपपत्तेः । उपाधिद्वयोपहितस्य तु प्रत्यगात्मनः स्वरूपेणाभेद इत्यतःप्राण एव प्रज्ञात्माइत्येकीकरणमविरुद्धम्
अथवानोपासात्रैविध्यादाश्रितत्वादिह तद्योगात्इत्यस्यायमन्योऽर्थः ब्रह्मवाक्येऽपि जीवमुख्यप्राणलिङ्गं विरुध्यते । कथम् ? उपासात्रैविध्यात् । त्रिविधमिह ब्रह्मण उपासनं विवक्षितम्प्राणधर्मेण, प्रज्ञाधर्मेण, स्वधर्मेण  । तत्रआयुरमृतमित्युपास्स्वायुः प्राणःइतिइदं शरीरं परिगृह्योत्थापयतिइतितस्मादेतदेवोक्थमुपासीतइति प्राणधर्मः । ‘अथ यथास्यै प्रज्ञायै सर्वाणि भूतान्येकीभवन्ति तद्व्याख्यास्यामःइत्युपक्रम्यवागेवास्या एकमङ्गमदूदुहत्तस्यै नाम परस्तात्प्रतिविहिता भूतमात्रा प्रज्ञया वाचं समारुह्य वाचा सर्वाणि नामान्याप्नोतिइत्यादिः प्रज्ञाधर्मः । ‘ता वा एता दशैव भूतमात्रा अधिप्रज्ञं दश प्रज्ञामात्रा अधिभूतम् । यदि भूतमात्रा स्युर्न प्रज्ञामात्राः स्युः । यदि प्रज्ञामात्रा स्युर्न भूतमात्राः स्युः । ह्यन्यतरतो रूपं किञ्चन सिध्येत् । नो एतन्नाना । तद्यथा रथस्यारेषु नेमिरर्पिता नाभावरा अर्पिता एवमेवैता भूतमात्राः प्रज्ञामात्रास्वर्पिताः प्रज्ञामात्राः प्राणेऽर्पिताः एष प्राण एव प्रज्ञात्माइत्यादिर्ब्रह्मधर्मः । तस्माद्ब्रह्मण एवैतदुपाधिद्वयधर्मेण स्वधर्मेण चैकमुपासनं त्रिविधं विवक्षितम् । अन्यत्रापि मनोमयः प्राणशरीरः’ (छा. उ. ३ । १४ । २) इत्यादावुपाधिधर्मेण ब्रह्मण उपासनमाश्रितम् ; इहापि तद्युज्यते वाक्यस्योपक्रमोपसंहाराभ्यामेकार्थत्वावगमात् प्राणप्रज्ञाब्रह्मलिङ्गावगमाच्च । तस्माद्ब्रह्मवाक्यमेवैतदिति सिद्धम् ॥ ३१ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ शारीरकमीमांसासूत्रभाष्ये प्रथमाध्यायस्य प्रथमःपादः
प्रथमे पादेजन्माद्यस्य यतःइत्याकाशादेः समस्तस्य जगतो जन्मादिकारणं ब्रह्मेत्युक्तम् । तस्य समस्तजगत्कारणस्य ब्रह्मणो व्यापित्वं नित्यत्वं सर्वज्ञत्वं सर्वशक्तित्वं सर्वात्मत्वमित्येवंजातीयका धर्मा उक्ता एव भवन्ति । अर्थान्तरप्रसिद्धानां केषाञ्चिच्छब्दानां ब्रह्मविषयत्वहेतुप्रतिपादनेन कानिचिद्वाक्यानि स्पष्टब्रह्मलिङ्गानि सन्दिह्यमानानि ब्रह्मपरतया निर्णीतानि । पुनरप्यन्यानि वाक्यान्यस्पष्टब्रह्मलिङ्गानि सन्दिह्यन्तेकिं परं ब्रह्म प्रतिपादयन्ति, आहोस्विदर्थान्तरं किञ्चिदिति । तन्निर्णयाय द्वितीयतृतीयौ पादावारभ्येते
सर्वत्र प्रसिद्धोपदेशात् ॥ १ ॥
इदमाम्नायतेसर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत । अथ खलु क्रतुमयः पुरुषो यथाक्रतुरस्मिँल्लोके पुरुषो भवति तथेतः प्रेत्य भवति क्रतुं कुर्वीत’ (छा. उ. ३ । १४ । १) मनोमयः प्राणशरीरः’ (छा. उ. ३ । १४ । २) इत्यादि । तत्र संशयःकिमिह मनोमयत्वादिभिर्धर्मैः शारीर आत्मोपास्यत्वेनोपदिश्यते, आहोस्वित्परं ब्रह्मेति । किं तावत्प्राप्तम् ? शारीर इति । कुतः ? तस्य हि कार्यकरणाधिपतेः प्रसिद्धो मनआदिभिः सम्बन्धः, परस्य ब्रह्मणः ; अप्राणो ह्यमनाः शुभ्रः’ (मु. उ. २ । १ । २) इत्यादिश्रुतिभ्यः । ननुसर्वं खल्विदं ब्रह्मइति स्वशब्देनैव ब्रह्मोपात्तम् ; कथमिह शारीर आत्मोपास्यत्वेनाशङ्क्यते ? नैष दोषः ; नेदं वाक्यं ब्रह्मोपासनाविधिपरम् । किं तर्हि ? शमविधिपरम् ; यत्कारणम्सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीतइत्याह । एतदुक्तं भवतियस्मात्सर्वमिदं विकारजातं ब्रह्मैव, तज्जत्वात् तल्लत्वात् तदनत्वाच्च सर्वस्यैकात्मत्वे रागादयः सम्भवन्तितस्मात् शान्त उपासीतेति । शमविधिपरत्वे सत्यनेन वाक्येन ब्रह्मोपासनं नियन्तुं शक्यते । उपासनं तु क्रतुं कुर्वीतइत्यनेन विधीयते । क्रतुः सङ्कल्पो ध्यानमित्यर्थः । तस्य विषयत्वेन श्रूयते — ‘मनोमयः प्राणशरीरःइति जीवलिङ्गम् । अतो ब्रूमःजीवविषयमेतदुपासनमिति । ‘सर्वकर्मा सर्वकामःइत्याद्यपि श्रूयमाणं पर्यायेण जीवविषयमुपपद्यते । ‘एष आत्मान्तर्हृदयेऽणीयान्व्रीहेर्वा यवाद्वाइति हृदयायतनत्वमणीयस्त्वं चाराग्रमात्रस्य जीवस्यावकल्पते, नापरिच्छिन्नस्य ब्रह्मणः । ननुज्यायान्पृथिव्याःइत्याद्यपि परिच्छिन्नेऽवकल्पत इति । अत्र ब्रूमः तावदणीयस्त्वं ज्यायस्त्वं चोभयमेकस्मिन्समाश्रयितुं शक्यम् , विरोधात् ; अन्यतराश्रयणे , प्रथमश्रुतत्वादणीयस्त्वं युक्तमाश्रयितुम् ; ज्यायस्त्वं तु ब्रह्मभावापेक्षया भविष्यतीति । निश्चिते जीवविषयत्वे यदन्ते ब्रह्मसङ्कीर्तनम्एतद्ब्रह्म’ (छा. उ. ३ । १४ । ४) इति, तदपि प्रकृतपरामर्शार्थत्वाज्जीवविषयमेव । तस्मान्मनोमयत्वादिभिर्धर्मैर्जीव उपास्य इत्येवं प्राप्ते ब्रूमः
परमेव ब्रह्मेह मनोमयत्वादिभिर्धर्मैरुपास्यम् । कुतः ? सर्वत्र प्रसिद्धोपदेशात् । यत्सर्वेषु वेदान्तेषु प्रसिद्धं ब्रह्मशब्दस्यालम्बनं जगत्कारणम् , इह सर्वं खल्विदं ब्रह्मइति वाक्योपक्रमे श्रुतम् , तदेव मनोमयत्वादिधर्मैर्विशिष्टमुपदिश्यत इति युक्तम् । एवं सति प्रकृतहानाप्रकृतप्रक्रिये भविष्यतः । ननु वाक्योपक्रमे शमविधिविवक्षया ब्रह्म निर्दिष्टं स्वविवक्षयेत्युक्तम् । अत्रोच्यतेयद्यपि शमविधिविवक्षया ब्रह्म निर्दिष्टम् , तथापि मनोमयत्वादिषूपदिश्यमानेषु तदेव ब्रह्म सन्निहितं भवति, जीवस्तु सन्निहितः, स्वशब्देनोपात्त इति वैषम्यम् ॥ १ ॥
विवक्षितगुणोपपत्तेश्च ॥ २ ॥
वक्तुमिष्टा विवक्षिताः । यद्यप्यपौरुषेये वेदे वक्तुरभावात् नेच्छार्थः सम्भवति, तथाप्युपादानेन फलेनोपचर्यते । लोकेऽपि यच्छब्दाभिहितमुपादेयं भवति तद्विवक्षितमित्युच्यते, यदनुपादेयं तदविवक्षितमिति । तद्वद्वेदेऽप्युपादेयत्वेनाभिहितं विवक्षितं भवति, इतरदविवक्षितम् । उपादानानुपादाने तु वेदवाक्यतात्पर्यातात्पर्याभ्यामवगम्येते । तदिह ये विवक्षिता गुणा उपासनायामुपादेयत्वेनोपदिष्टाः सत्यसङ्कल्पप्रभृतयः, ते परस्मिन्ब्रह्मण्युपपद्यन्ते । सत्यसङ्कल्पत्वं हि सृष्टिस्थितिसंहारेष्वप्रतिबद्धशक्तित्वात्परमात्मन एवावकल्पते । परमात्मगुणत्वेन आत्मापहतपाप्मा’ (छा. उ. ८ । ७ । १) इत्यत्रसत्यकामः सत्यसङ्कल्पःइति श्रुतम् , ‘आकाशात्माइति  । आकाशवदात्मा अस्येत्यर्थः । सर्वगतत्वादिभिर्धर्मैः सम्भवत्याकाशेन साम्यं ब्रह्मणः । ‘ज्यायान्पृथिव्याःइत्यादिना चैतदेव दर्शयति । यदापि आकाश आत्मा अस्येति व्याख्यायते, तदापि सम्भवति सर्वजगत्कारणस्य सर्वात्मनो ब्रह्मण आकाशात्मत्वम् । अत एवसर्वकर्माइत्यादि । एवमिहोपास्यतया विवक्षिता गुणा ब्रह्मण्युपपद्यन्ते । यत्तूक्तम् — ‘मनोमयः प्राणशरीरःइति जीवलिङ्गम् , तद्ब्रह्मण्युपपद्यत इति ; तदपि ब्रह्मण्युपपद्यत इति ब्रूमः । सर्वात्मत्वाद्धि ब्रह्मणो जीवसम्बन्धीनि मनोमयत्वादीनि ब्रह्मसम्बन्धीनि भवन्ति । तथा ब्रह्मविषये श्रुतिस्मृती भवतःत्वं स्त्री त्वं पुमानसि त्वं कुमार उत वा कुमारी । त्वं जीर्णो दण्डेन वञ्चसि त्वं जातो भवसि विश्वतोमुखः’ (श्वे. उ. ४ । ३) इति ; सर्वतःपाणिपादं तत्सर्वतोऽक्षिशिरोमुखम् । सर्वतःश्रुतिमल्लोके सर्वमावृत्य तिष्ठति’ (भ. गी. १३ । १३) इति  । ‘अप्राणो ह्यमनाः शुभ्रःइति श्रुतिः शुद्धब्रह्मविषया, इयं तु श्रुतिःमनोमयः प्राणशरीरःइति सगुणब्रह्मविषयेति विशेषः । अतो विवक्षितगुणोपपत्तेः परमेव ब्रह्म इहोपास्यत्वेनोपदिष्टमिति गम्यते ॥ २ ॥
अनुपपत्तेस्तु न शारीरः ॥ ३ ॥
पूर्वेण सूत्रेण ब्रह्मणि विवक्षितानां गुणानामुपपत्तिरुक्ता । अनेन शरीरे तेषामनुपपत्तिरुच्यते । तुशब्दोऽवधारणार्थः । ब्रह्मैवोक्तेन न्यायेन मनोमयत्वादिगुणम् ; तु शारीरो जीवो मनोमयत्वादिगुणः ; यत्कारणम् — ‘सत्यसङ्कल्पः’ ‘आकाशात्मा’ ‘अवाकी’ ‘अनादरः’ ‘ज्यायान्पृथिव्याःइति चैवंजातीयका गुणा शारीरे आञ्जस्येनोपपद्यन्ते । शारीर इति शरीरे भव इत्यर्थः । नन्वीश्वरोऽपि शरीरे भवति । सत्यम् , शरीरे भवति ; तु शरीर एव भवति ; ‘ज्यायान्पृथिव्या ज्यायानन्तरिक्षात्आकाशवत्सर्वगतश्च नित्यः’ (शत. ब्रा. १० । ६ । ३ । २) इति व्यापित्वश्रवणात् । जीवस्तु शरीर एव भवति, तस्य भोगाधिष्ठानाच्छरीरादन्यत्र वृत्त्यभावात् ॥ ३ ॥
कर्मकर्तृव्यपदेशाच्च ॥ ४ ॥
इतश्च शारीरो मनोमयत्वादिगुणः ; यस्मात्कर्मकर्तृव्यपदेशो भवतिएतमितः प्रेत्याभिसम्भवितास्मि’ (छा. उ. ३ । १४ । ४) इति । एतमिति प्रकृतं मनोमयत्वादिगुणमुपास्यमात्मानं कर्मत्वेन प्राप्यत्वेन व्यपदिशति ; अभिसम्भवितास्मीति शारीरमुपासकं कर्तृत्वेन प्रापकत्वेन । अभिसम्भवितास्मीति प्राप्तास्मीत्यर्थः । सत्यां गतावेकस्य कर्मकर्तृव्यपदेशो युक्तः । तथोपास्योपासकभावोऽपि भेदाधिष्ठान एव । तस्मादपि शारीरो मनोमयत्वादिविशिष्टः ॥ ४ ॥
शब्दविशेषात् ॥ ५ ॥
इतश्च शारीरादन्यो मनोमयत्वादिगुणः ; यस्माच्छब्दविशेषो भवति समानप्रकरणे श्रुत्यन्तरेयथा व्रीहिर्वा यवो वा श्यामाको वा श्यामाकतण्डुलो वैवमयमन्तरात्मन्पुरुषो हिरण्मयः’ (श. ब्रा. १० । ६ । ३ । २) इति । शारीरस्यात्मनो यः शब्दोऽभिधायकः सप्तम्यन्तःअन्तरात्मन्निति ; तस्माद्विशिष्टोऽन्यः प्रथमान्तः पुरुषशब्दो मनोमयत्वादिविशिष्टस्यात्मनोऽभिधायकः । तस्मात्तयोर्भेदोऽधिगम्यते ॥ ५ ॥
स्मृतेश्च ॥ ६ ॥
अत्राहकः पुनरयं शारीरो नाम परमात्मनोऽन्यः, यः प्रतिषिध्यते — ‘अनुपपत्तेस्तु शारीरःइत्यादिना ? श्रुतिस्तु नान्योऽतोऽस्ति द्रष्टा नान्योऽतोऽस्ति श्रोता’ (बृ. उ. ३ । ७ । २३) इत्येवंजातीयका परमात्मनोऽन्यमात्मानं वारयति । तथा स्मृतिरपि क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत’ (भ. गी. १३ । २) इत्येवंजातीयकेति । अत्रोच्यतेसत्यमेवैतत्पर एवात्मा देहेन्द्रियमनोबुद्ध्युपाधिभिः परिच्छिद्यमानो बालैः शारीर इत्युपचर्यते ; यथा घटकरकाद्युपाधिवशादपरिच्छिन्नमपि नभः परिच्छिन्नवदवभासते, तद्वत् । तदपेक्षया कर्मकर्तृत्वादिभेदव्यवहारो विरुध्यते प्राक्तत्त्वमसिइत्यात्मैकत्वोपदेशग्रहणात् । गृहीते त्वात्मैकत्वे बन्धमोक्षादिसर्वव्यवहारपरिसमाप्तिरेव स्यात् ॥ ६ ॥
अर्भकौकस्त्वात्तद्व्यपदेशाच्च नेति चेन्न निचाय्यत्वादेवं व्योमवच्च ॥ ७ ॥
अर्भकमल्पम् ओको नीडम् , ‘एष आत्मान्तर्हृदयेइति परिच्छिन्नायतनत्वात् , स्वशब्देन अणीयान्व्रीहेर्वा यवाद्वाइत्यणीयस्त्वव्यपदेशात् , शारीर एवाराग्रमात्रो जीव इहोपदिश्यते, सर्वगतः परमात्माइति यदुक्तं तत्परिहर्तव्यम् । अत्रोच्यतेनायं दोषः । तावत्परिच्छिन्नदेशस्य सर्वगतत्वव्यपदेशः कथमप्युपपद्यते । सर्वगतस्य तु सर्वदेशेषु विद्यमानत्वात्परिच्छिन्नदेशव्यपदेशोऽपि कयाचिदपेक्षया सम्भवति । यथा समस्तवसुधाधिपतिरपि हि सन् अयोध्याधिपतिरिति व्यपदिश्यते । कया पुनरपेक्षया सर्वगतः सन्नीश्वरोऽर्भकौका अणीयांश्च व्यपदिश्यत इति । निचाय्यत्वादेवमिति ब्रूमः । एवम् अणीयस्त्वादिगुणगणोपेत ईश्वरः, तत्र हृदयपुण्डरीके निचाय्यो द्रष्टव्य उपदिश्यते ; यथा सालग्रामे हरिः । तत्रास्य बुद्धिविज्ञानं ग्राहकम् ; सर्वगतोऽपीश्वरस्तत्रोपास्यमानः प्रसीदति । व्योमवच्चैतद्द्रष्टव्यम् । यथा सर्वगतमपि सद्व्योम सूचीपाशाद्यपेक्षयार्भकौकोऽणीयश्चेति व्यपदिश्यते, एवं ब्रह्मापि । तदेवं निचाय्यत्वापेक्षं ब्रह्मणोऽर्भकौकस्त्वमणीयस्त्वं , पारमार्थिकम् । तत्र यदाशङ्क्यतेहृदयायतनत्वाद्ब्रह्मणो हृदयानां प्रतिशरीरं भिन्नत्वाद्भिन्नायतनानां शुकादीनामनेकत्वसावयवत्वानित्यत्वादिदोषदर्शनाद्ब्रह्मणोऽपि तत्प्रसङ्ग इति, तदपि परिहृतं भवति ॥ ७ ॥
सम्भोगप्राप्तिरिति चेन्न वैशेष्यात् ॥ ८ ॥
व्योमवत्सर्वगतस्य ब्रह्मणः सर्वप्राणिहृदयसम्बन्धात् , चिद्रूपतया शारीरादविशिष्टत्वात् , सुखदुःखादिसम्भोगोऽप्यविशिष्टः प्रसज्येत ; एकत्वाच्च हि परस्मादात्मनोऽन्यः कश्चिदात्मा संसारी विद्यते, नान्योऽतोऽस्ति विज्ञाता’ (बृ. उ. ३ । ७ । २३) इत्यादिश्रुतिभ्यः । तस्मात्परस्यैव ब्रह्मणः सम्भोगप्राप्तिरिति चेत् , ; वैशेष्यात् । तावत्सर्वप्राणिहृदयसम्बन्धात् चिद्रूपतया शारीरवद्ब्रह्मणः सम्भोगप्रसङ्गः, वैशेष्यात् । विशेषो हि भवति शारीरपरमेश्वरयोः । एकः कर्ता भोक्ता धर्माधर्मादिसाधनः सुखदुःखादिमांश्च । एकस्तद्विपरीतोऽपहतपाप्मत्वादिगुणः । एतस्मादनयोर्विशेषादेकस्य भोगः, नेतरस्य । यदि सन्निधानमात्रेण वस्तुशक्तिमनाश्रित्य कार्यसम्बन्धोऽभ्युपगम्येत, आकाशादीनामपि दाहादिप्रसङ्गः । सर्वगतानेकात्मवादिनामपि समावेतौ चोद्यपरिहारौ । यदप्येकत्वाद्ब्रह्मण आत्मान्तराभावाच्छारीरस्य भोगेन ब्रह्मणो भोगप्रसङ्ग इति, अत्र वदामःइदं तावद्देवानांप्रियः प्रष्टव्यःकथमयं त्वयात्मान्तराभावोऽध्यवसित इति । ‘तत्त्वमसि’ ‘अहं ब्रह्मास्मि’ ‘नान्योऽतोऽस्ति विज्ञाताइत्यादिशास्त्रेभ्य इति चेत् , यथाशास्त्रं तर्हि शास्त्रीयोऽर्थः प्रतिपत्तव्यः, तत्रार्धजरतीयं लभ्यम् । शास्त्रं तत्त्वमसिइत्यपहतपाप्मत्वादिविशेषणं ब्रह्म शारीरस्यात्मत्वेनोपदिशच्छारीरस्यैव तावदुपभोक्तृत्वं वारयति । कुतस्तदुपभोगेन ब्रह्मण उपभोगप्रसङ्गः । अथागृहीतं शारीरस्य ब्रह्मणैकत्वम् , तदा मिथ्याज्ञाननिमित्तः शारीरस्योपभोगः ; तेन परमार्थरूपस्य ब्रह्मणः संस्पर्शः । हि बालैस्तलमलिनतादिभिर्व्योम्नि विकल्प्यमाने तलमलिनतादिविशिष्टमेव परमार्थतो व्योम भवति । तदाह, वैशेष्यादिति नैकत्वेऽपि शारीरस्योपभोगेन ब्रह्मण उपभोगप्रसङ्गः, वैशेष्यात् । विशेषो हि भवति मिथ्याज्ञानसम्यग्ज्ञानयोः । मिथ्याज्ञानकल्पित उपभोगः, सम्यग्ज्ञानदृष्टमेकत्वम् । मिथ्याज्ञानकल्पितेनोपभोगेन सम्यग्ज्ञानदृष्टं वस्तु संस्पृश्यते । तस्मान्नोपभोगगन्धोऽपि शक्य ईश्वरस्य कल्पयितुम् ॥ ८ ॥
अत्ता चराचरग्रहणात् ॥ ९ ॥
कठवल्लीषु पठ्यते यस्य ब्रह्म क्षत्रं चोभे भवत ओदनः । मृत्युर्यस्योपसेचनं इत्था वेद यत्र सः’ (क. उ. १ । २ । २५) इति । अत्र कश्चिदोदनोपसेचनसूचितोऽत्ता प्रतीयते । तत्र किमग्निरत्ता स्यात् , उत जीवः, अथवा परमात्मा, इति संशयः ; विशेषानवधारणात् , त्रयाणां चाग्निजीवपरमात्मनामस्मिन्ग्रन्थे प्रश्नोपन्यासोपलब्धेः । किं तावत्प्राप्तम् ? अग्निरत्तेति । कुतः ? अग्निरन्नादः’ (बृ. उ. १ । ४ । ६) इति श्रुतिप्रसिद्धिभ्याम् । जीवो वा अत्ता स्यात् तयोरन्यः पिप्पलं स्वाद्वत्ति’ (मु. उ. ३ । १ । १) इति दर्शनात् ; परमात्मा, ‘अनश्नन्नन्योऽभिचाकशीतिइति दर्शनादित्येवं प्राप्ते ब्रूमः
अत्तात्र परमात्मा भवितुमर्हति । कुतः ? चराचरग्रहणात् । चराचरं हि स्थावरजङ्गमं मृत्यूपसेचनमिहाद्यत्वेन प्रतीयते ; तादृशस्य चाद्यस्य परमात्मनोऽन्यः कार्त्स्न्येनात्ता सम्भवति । परमात्मा तु विकारजातमुपसंहरन्सर्वमत्तीत्युपपद्यते । नन्विह चराचरग्रहणं नोपलभ्यते , कथं सिद्धवच्चराचरग्रहणं हेतुत्वेनोपादीयते ? नैष दोषः, मृत्यूपसेचनत्वेनेहाद्यत्वेन सर्वस्य प्राणिनिकायस्य प्रतीयमानत्वात् , ब्रह्मक्षत्रयोश्च प्राधान्यात्प्रदर्शनार्थत्वोपपत्तेः । यत्तु परमात्मनोऽपि नात्तृत्वं सम्भवतिअनश्नन्नन्योऽभिचाकशीतिइति दर्शनादिति, अत्रोच्यतेकर्मफलभोगस्य प्रतिषेधकमेतद्दर्शनम् , तस्य सन्निहितत्वात् । विकारसंहारस्य प्रतिषेधकम् , सर्ववेदान्तेषु सृष्टिस्थितिसंहारकारणत्वेन ब्रह्मणः प्रसिद्धत्वात् । तस्मात्परमात्मैवेहात्ता भवितुमर्हति ॥ ९ ॥
प्रकरणाच्च ॥ १० ॥
इतश्च परमात्मैवेहात्ता भवितुमर्हति ; यत्कारणं प्रकरणमिदं परमात्मनः जायते म्रियते वा विपश्चित्’ (क. उ. १ । २ । १८) इत्यादि । प्रकृतग्रहणं न्याय्यम् । ‘ इत्था वेद यत्र सःइति दुर्विज्ञानत्वं परमात्मलिङ्गम् ॥ १० ॥
गुहां प्रविष्टावात्मानौ हि तद्दर्शनात् ॥ ११ ॥
कठवल्लीष्वेव पठ्यतेऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परार्धे । छायातपौ ब्रह्मविदो वदन्ति पञ्चाग्नयो ये त्रिणाचिकेताः’ (क. उ. १ । ३ । १) इति । तत्र संशयःकिमिह बुद्धिजीवौ निर्दिष्टौ, उत जीवपरमात्मानाविति । यदि बुद्धिजीवौ, ततो बुद्धिप्रधानात्कार्यकरणसङ्घाताद्विलक्षणो जीवः प्रतिपादितो भवति । तदपीह प्रतिपादयितव्यम् , येयं प्रेते विचिकित्सा मनुष्येऽस्तीत्येके नायमस्तीति चैके । एतद्विद्यामनुशिष्टस्त्वयाहं वराणामेष वरस्तृतीयः’ (क. उ. १ । १ । २०) इति पृष्टत्वात् । अथ जीवपरमात्मानौ, ततो जीवाद्विलक्षणः परमात्मा प्रतिपादितो भवति । तदपीह प्रतिपादयितव्यम्अन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात्कृताकृतात् । अन्यत्र भूताच्च भव्याच्च यत्तत्पश्यसि तद्वद’ (क. उ. १ । २ । १४) इति पृष्टत्वात् । अत्राहाक्षेप्ताउभावप्येतौ पक्षौ सम्भवतः । कस्मात् ? ऋतपानं हि कर्मफलोपभोगः, ‘सुकृतस्य लोकेइति लिङ्गात् । तच्च चेतनस्य क्षेत्रज्ञस्य सम्भवति, नाचेतनाया बुद्धेः । ‘पिबन्तौइति द्विवचनेन द्वयोः पानं दर्शयति श्रुतिः । अतो बुद्धिक्षेत्रज्ञपक्षस्तावन्न सम्भवति । अत एव क्षेत्रज्ञपरमात्मपक्षोऽपि सम्भवति ; चेतनेऽपि परमात्मनि ऋतपानासम्भवात् , ‘अनश्नन्नन्योऽभिचाकशीतिइति मन्त्रवर्णादिति । अत्रोच्यतेनैष दोषः ; छत्रिणो गच्छन्तीत्येकेनापि च्छत्रिणा बहूनामच्छत्रिणां छत्रित्वोपचारदर्शनात् । एवमेकेनापि पिबता द्वौ पिबन्तावुच्येयाताम् । यद्वा जीवस्तावत्पिबति ; ईश्वरस्तु पाययति ; पाययन्नपि पिबतीत्युच्यते, पाचयितर्यपि पक्तृत्वप्रसिद्धिदर्शनात् । बुद्धिक्षेत्रज्ञपरिग्रहोऽपि सम्भवति ; करणे कर्तृत्वोपचारात् , ‘एधांसि पचन्तिइति प्रयोगदर्शनात् । चाध्यात्माधिकारेऽन्यौ कौचिद्द्वावृतं पिबन्तौ सम्भवतः । तस्माद्बुद्धिजीवौ स्यातां जीवपरमात्मानौ वेति संशयः
किं तावत्प्राप्तम् ? बुद्धिक्षेत्रज्ञाविति । कुतः ? ‘गुहां प्रविष्टौइति विशेषणात् । यदि शरीरं गुहा, यदि वा हृदयम् , उभयथापि बुद्धिक्षेत्रज्ञौ गुहां प्रविष्टावुपपद्येते । सति सम्भवे सर्वगतस्य ब्रह्मणो विशिष्टदेशत्वं युक्तं कल्पयितुम् । ‘सुकृतस्य लोकेइति कर्मगोचरानतिक्रमं दर्शयति । परमात्मा तु सुकृतस्य वा दुष्कृतस्य वा गोचरे वर्तते, ‘ कर्मणा वर्धते नो कनीयान्इति श्रुतेः । ‘छायातपौइति चेतनाचेतनयोर्निर्देश उपपद्यते, छायातपवत्परस्परविलक्षणत्वात् । तस्माद्बुद्धिक्षेत्रज्ञाविहोच्येयातामित्येवं प्राप्ते ब्रूमः
विज्ञानात्मपरमात्मानाविहोच्येयाताम् । कस्मात् ? आत्मानौ हि तावुभावपि चेतनौ समानस्वभावौ । संख्याश्रवणे समानस्वभावेष्वेव लोके प्रतीतिर्दृश्यते । ‘अस्य गोर्द्वितीयोऽन्वेष्टव्यःइत्युक्ते, गौरेव द्वितीयोऽन्विष्यते, नाश्वः पुरुषो वा । तदिह ऋतपानेन लिङ्गेन निश्चिते विज्ञानात्मनि द्वितीयान्वेषणायां समानस्वभावश्चेतनः परमात्मैव प्रतीयते । ननूक्तं गुहाहितत्वदर्शनान्न परमात्मा प्रत्येतव्य इति ; गुहाहितत्वदर्शनादेव परमात्मा प्रत्येतव्य इति वदामः । गुहाहितत्वं तु श्रुतिस्मृतिष्वसकृत्परमात्मन एव दृश्यतेगुहाहितं गह्वरेष्ठं पुराणम्’ (क. उ. १ । २ । १२) यो वेद निहितं गुहायां परमे व्योमन्’ (तै. उ. २ । १ । १)आत्मानमन्विच्छ गुहां प्रविष्टम्इत्याद्यासु । सर्वगतस्यापि ब्रह्मण उपलब्ध्यर्थो देशविशेषोपदेशो विरुध्यत इत्येतदप्युक्तमेव । सुकृतलोकवर्तित्वं तु च्छत्रित्ववदेकस्मिन्नपि वर्तमानमुभयोरविरुद्धम् । ‘छायातपौइत्यप्यविरुद्धम् ; छायातपवत्परस्परविलक्षणत्वात्संसारित्वासंसारित्वयोः, अविद्याकृतत्वात्संसारित्वस्य पारमार्थिकत्वाच्चासंसारित्वस्य । तस्माद्विज्ञानात्मपरमात्मानौ गुहां प्रविष्टौ गृह्येते ॥ ११ ॥
कुतश्च विज्ञानात्मपरमात्मानौ गृह्येते ? —
विशेषणाच्च ॥ १२ ॥
विशेषणं विज्ञानात्मपरमात्मनोरेव भवति । आत्मानं रथिनं विद्धि शरीरं रथमेव तु’ (क. उ. १ । ३ । ३) इत्यादिना परेण ग्रन्थेन रथिरथादिरूपककल्पनया विज्ञानात्मानं रथिनं संसारमोक्षयोर्गन्तारं कल्पयति । सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम्’ (क. उ. १ । ३ । ९) इति परमात्मानं गन्तव्यं कल्पयति । तथा तं दुर्दर्शं गूढमनुप्रविष्टं गुहाहितं गह्वरेष्ठं पुराणम् । अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोकौ जहाति’ (क. उ. १ । २ । १२) इति पूर्वस्मिन्नपि ग्रन्थे मन्तृमन्तव्यत्वेनैतावेव विशेषितौ । प्रकरणं चेदं परमात्मनः । ‘ब्रह्मविदो वदन्तिइति वक्तृविशेषोपादानं परमात्मपरिग्रहे घटते । तस्मादिह जीवपरमात्मानावुच्येयाताम् । एष एव न्यायः द्वा सुपर्णा सयुजा सखाया’ (मु. उ. ३ । १ । १) इत्येवमादिष्वपि । तत्रापि ह्याध्यात्माधिकारान्न प्राकृतौ सुपर्णावुच्येते । ‘तयोरन्यः पिप्पलं स्वाद्वत्तिइत्यदनलिङ्गाद्विज्ञानात्मा भवति । ‘अनश्नन्नन्योऽभिचाकशीतिइत्यनशनचेतनत्वाभ्यां परमात्मा । अनन्तरे मन्त्रे तावेव द्रष्टृद्रष्टव्यभावेन विशिनष्टिसमाने वृक्षे पुरुषो निमग्नोऽनीशया शोचति मुह्यमानः । जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकः’ (मु. उ. ३ । १ । २) इति
अपर आह — ‘द्वा सुपर्णाइति नेयमृगस्याधिकरणस्य सिद्धान्तं भजते, पैङ्गिरहस्यब्राह्मणेनान्यथा व्याख्यातत्वात् — ‘तयोरन्यः पिप्पलं स्वाद्वत्तीति सत्त्वमनश्नन्नन्योऽभिचाकशीतीत्यनश्नन्नन्योऽभिपश्यति ज्ञस्तावेतौ सत्त्वक्षेत्रज्ञौइति । सत्त्वशब्दो जीवः क्षेत्रज्ञशब्दः परमात्मेति यदुच्यते, तन्न ; सत्त्वक्षेत्रज्ञशब्दयोरन्तःकरणशारीरपरतया प्रसिद्धत्वात् । तत्रैव व्याख्यातत्वात् — ‘तदेतत्सत्त्वं येन स्वप्नं पश्यति, अथ योऽयं शारीर उपद्रष्टा क्षेत्रज्ञस्तावेतौ सत्त्वक्षेत्रज्ञौइति । नाप्यस्याधिकरणस्य पूर्वपक्षं भजते । ह्यत्र शारीरः क्षेत्रज्ञः कर्तृत्वभोक्तृत्वादिना संसारधर्मेणोपेतो विवक्ष्यते । कथं तर्हि ? सर्वसंसारधर्मातीतो ब्रह्मस्वभावश्चैतन्यमात्रस्वरूपः ; ‘अनश्नन्नन्योऽभिचाकशीतीत्यनश्नन्नन्योऽभिपश्यति ज्ञःइति वचनात् , ‘तत्त्वमसिक्षेत्रज्ञं चापि मां विद्धि’ (भ. गी. १३ । २) इत्यादिश्रुतिस्मृतिभ्यश्च । तावता विद्योपसंहारदर्शनमेवमेवावकल्पते, ‘तावेतौ सत्त्वक्षेत्रज्ञौ वा एवंविदि किञ्चन रज आध्वंसतेइत्यादि । कथं पुनरस्मिन्पक्षेतयोरन्यः पिप्पलं स्वाद्वत्तीति सत्त्वम्इत्यचेतने सत्त्वे भोक्तृत्ववचनमिति, उच्यतेनेयं श्रुतिरचेतनस्य सत्त्वस्य भोक्तृत्वं वक्ष्यामीति प्रवृत्ताकिं तर्हि ? — चेतनस्य क्षेत्रज्ञस्याभोक्तृत्वं ब्रह्मस्वभावतां वक्ष्यामीति । तदर्थं सुखदुःखादिविक्रियावति सत्त्वे भोक्तृत्वमध्यारोपयति । इदं हि कर्तृत्वं भोक्तृत्वं सत्त्वक्षेत्रज्ञयोरितरेतरस्वभावाविवेककृतं कल्प्यते । परमार्थतस्तु नान्यतरस्यापि सम्भवति, अचेतनत्वात्सत्त्वस्य, अविक्रियत्वाच्च क्षेत्रज्ञस्य । अविद्याप्रत्युपस्थापितस्वभावत्वाच्च सत्त्वस्य सुतरां सम्भवति । तथा श्रुतिः — ‘यत्र वा अन्यदिव स्यात्तत्रान्योऽन्यत्पश्येत्इत्यादिना स्वप्नदृष्टहस्त्यादिव्यवहारवदविद्याविषय एव कर्तृत्वादिव्यवहारं दर्शयति । यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्’ (बृ. उ. ४ । ५ । १५) इत्यादिना विवेकिनः कर्तृत्वादिव्यवहारं निवारयति ॥ १२ ॥
अन्तर उपपत्तेः ॥ १३ ॥
एषोऽक्षिणि पुरुषो दृश्यत एष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेति । तद्यद्यप्यस्मिन्सर्पिर्वोदकं वा सिञ्चति वर्त्मनी एव गच्छति’ (छा. उ. ४ । १५ । १) इत्यादि श्रूयते । तत्र संशयःकिमयं प्रतिबिम्बात्माक्ष्यधिकरणो निर्दिश्यते, अथ विज्ञानात्मा, उत देवतात्मेन्द्रियस्याधिष्ठाता, अथवेश्वर इति । किं तावत्प्राप्तम् ? छायात्मा पुरुषप्रतिरूप इति । कुतः ? तस्य दृश्यमानत्वप्रसिद्धेः, ‘ एषोऽक्षिणि पुरुषो दृश्यतेइति प्रसिद्धवदुपदेशात् । विज्ञानात्मनो वायं निर्देश इति युक्तम् । हि चक्षुषा रूपं पश्यंश्चक्षुषि सन्निहितो भवति । आत्मशब्दश्चास्मिन्पक्षेऽनुकूलो भवति । आदित्यपुरुषो वा चक्षुषोऽनुग्राहकः प्रतीयतेरश्मिभिरेषोऽस्मिन्प्रतिष्ठितः’ (बृ. उ. ५ । ५ । २) इति श्रुतेः, अमृतत्वादीनां देवतात्मन्यपि कथञ्चित्सम्भवात् । नेश्वरः, स्थानविशेषनिर्देशात्इत्येवं प्राप्ते ब्रूमः
परमेश्वर वाक्षिण्यभ्यन्तरः पुरुष इहोपदिष्ट इति । कस्मात् ? उपपत्तेः । उपपद्यते हि परमेश्वरे गुणजातमिहोपदिश्यमानम् । आत्मत्वं तावन्मुख्यया वृत्त्या परमेश्वरे उपपद्यते, ‘ आत्मा तत्त्वमसिइति श्रुतेः । अमृतत्वाभयत्वे तस्मिन्नसकृच्छ्रूयेते । तथा परमेश्वरानुरूपमेतदक्षिस्थानम् । यथा हि परमेश्वरः सर्वदोषैरलिप्तः, अपहतपाप्मत्वादिश्रवणात् ; तथाक्षिस्थानं सर्वलेपरहितमुपदिष्टम्तद्यद्यप्यस्मिन्सर्पिर्वोदकं वा सिञ्चति, वर्त्मनी एव गच्छतिइति श्रुतेः । संयद्वामत्वादिगुणोपदेशश्च तस्मिन्नवकल्पते । एतं संयद्वाम इत्याचक्षते । एतं हि सर्वाणि वामान्यभिसंयन्ति’, (छा. उ. ४ । १५ । २) एष एव वामनीरे हि सर्वाणि वामानि नयति ।’ (छा. उ. ४ । १५ । ३)एष एव भामनीरे हि सर्वेषु लोकेषु भाति’ (छा. उ. ४ । १५ । ४) इति  । अत उपपत्तेरन्तरः परमेश्वरः ॥ १३ ॥
स्थानादिव्यपदेशाच्च ॥ १४ ॥
कथं पुनराकाशवत्सर्वगतस्य ब्रह्मणोऽक्ष्यल्पं स्थानमुपपद्यत इति, अत्रोच्यतेभवेदेषानवकॢप्तिः, यद्येतदेवैकं स्थानमस्य निर्दिष्टं भवेत् । सन्ति ह्यन्यान्यपि पृथिव्यादीनि स्थानान्यस्य निर्दिष्टानियः पृथिव्यां तिष्ठन्’ (बृ. उ. ३ । ७ । ३) इत्यादिना । तेषु हि चक्षुरपि निर्दिष्टम्यश्चक्षुषि तिष्ठन्इति । स्थानादिव्यपदेशादित्यादिग्रहणेनैतद्दर्शयति केवलं स्थानमेवैकमनुचितं ब्रह्मणो निर्दिश्यते । किं तर्हि ? नाम रूपमित्येवंजातीयकमप्यनामरूपस्य ब्रह्मणोऽनुचितं निर्दिश्यमानं दृश्यतेतस्योदिति नाम’ (छा. उ. १ । ६ । ७)हिरण्यश्मश्रुःइत्यादि । निर्गुणमपि सद्ब्रह्म नामरूपगतैर्गुणैः सगुणमुपासनार्थं तत्र तत्रोपदिश्यत इत्येतदप्युक्तमेव । सर्वगतस्यापि ब्रह्मण उपलब्ध्यर्थं स्थानविशेषो विरुध्यते, सालग्राम इव विष्णोरित्येतदप्युक्तमेव ॥ १४ ॥
सुखविशिष्टाभिधानादेव च ॥ १५ ॥
अपि नैवात्र विवदितव्यम्किं ब्रह्मास्मिन्वाक्येऽभिधीयते, वेति । सुखविशिष्टाभिधानादेव ब्रह्मत्वं सिद्धम् । सुखविशिष्टं हि ब्रह्म यद्वाक्योपक्रमे प्रक्रान्तम् प्राणो ब्रह्म कं ब्रह्म खं ब्रह्म’ (छा. उ. ४ । १० । ४) इति, तदेवेहाभिहितम् ; प्रकृतपरिग्रहस्य न्याय्यत्वात् , आचार्यस्तु ते गतिं वक्ता’ (छा. उ. ४ । १४ । १) इति गतिमात्राभिधानप्रतिज्ञानात् । कथं पुनर्वाक्योपक्रमे सुखविशिष्टं ब्रह्म विज्ञायत इति, उच्यतेप्राणो ब्रह्म कं ब्रह्म खं ब्रह्म’ (छा. उ. ४ । १० । ४) इत्येतदग्नीनां वचनं श्रुत्वोपकोसल उवाच — ‘विजानाम्यहं यत्प्राणो ब्रह्म, कं तु खं विजानामिइति । तत्रेदं प्रतिवचनम् — ‘यद्वाव कं तदेव खं यदेव खं तदेव कम्इति । तत्र खंशब्दो भूताकाशे निरूढो लोके । यदि तस्य विशेषणत्वेन कंशब्दः सुखवाची नोपादीयेत, तथा सति केवले भूताकाशे ब्रह्मशब्दो नामादिष्विव प्रतीकाभिप्रायेण प्रयुक्त इति प्रतीतिः स्यात् । तथा कंशब्दस्य विषयेन्द्रियसम्पर्कजनिते सामये सुखे प्रसिद्धत्वात् , यदि तस्य खंशब्दो विशेषणत्वेन नोपादीयेत ; लौकिकं सुखं ब्रह्मेति प्रतीतिः स्यात् । इतरेतरविशेषितौ तु कंखंशब्दौ सुखात्मकं ब्रह्म गमयतः । तत्र द्वितीये ब्रह्मशब्देऽनुपादीयमानेकं खं ब्रह्मइत्येवोच्यमाने कंशब्दस्य विशेषणत्वेनैवोपयुक्तत्वात्सुखस्य गुणस्याध्येयत्वं स्यात् ; तन्मा भूत्इत्युभयोः कंखंशब्दयोर्ब्रह्मशब्दशिरस्त्वम् — ‘कं ब्रह्म खं ब्रह्मइति । इष्टं हि सुखस्यापि गुणस्य गुणिवद्ध्येयत्वम् । तदेवं वाक्योपक्रमे सुखविशिष्टं ब्रह्मोपदिष्टम् । प्रत्येकं गार्हपत्यादयोऽग्नयः स्वं स्वं महिमानमुपदिश्यएषा सोम्य तेऽस्मद्विद्यात्मविद्या इत्युपसंहरन्तः पूर्वत्र ब्रह्म निर्दिष्टमिति ज्ञापयन्ति । ‘आचार्यस्तु ते गतिं वक्ताइति गतिमात्राभिधानप्रतिज्ञानमर्थान्तरविवक्षां वारयति । यथा पुष्करपलाश आपो श्लिष्यन्त एवमेवंविदि पापं कर्म श्लिष्यते’ (छा. उ. ४ । १४ । ३) इति चाक्षिस्थानं पुरुषं विजानतः पाप्मनानुपघातं ब्रुवन्नक्षिस्थानस्य पुरुषस्य ब्रह्मत्वं दर्शयति । तस्मात्प्रकृतस्यैव ब्रह्मणोऽक्षिस्थानतां संयद्वामत्वादिगुणतां चोक्त्वा अर्चिरादिकां तद्विदो गतिं वक्ष्यामीत्युपक्रमते एषोऽक्षिणि पुरुषो दृश्यत एष आत्मेति होवाच’ (छा. उ. ४ । १५ । १) इति ॥ १५ ॥
श्रुतोपनिषत्कगत्यभिधानाच्च ॥ १६ ॥
इतश्चाक्षिस्थानः पुरुषः परमेश्वरः, यस्माच्छ्रुतोपनिषत्कस्य श्रुतरहस्यविज्ञानस्य ब्रह्मविदो या गतिर्देवयानाख्या प्रसिद्धा श्रुतौथोत्तरेण तपसा ब्रह्मचर्येण श्रद्धया विद्ययात्मानमन्विष्यादित्यमभिजयन्ते । एतद्वै प्राणानामायतनमेतदमृतमभयमेतत्परायणमेतस्मान्न पुनरावर्तन्ते’ (प्र. उ. १ । १०) इति, स्मृतावपिअग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरायणम् । तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः’ (भ. गी. ८ । २४) इति, सैवेहाक्षिपुरुषविदोऽभिधीयमाना दृश्यते । ‘अथ यदु चैवास्मिञ्छव्यं कुर्वन्ति यदि नार्चिषमेवाभिसम्भवन्तिइत्युपक्रम्य आदित्याच्चन्द्रमसं चन्द्रमसो विद्युतं तत्पुरुषोऽमानवः एनान्ब्रह्म गमयत्येष देवपथो ब्रह्मपथ एतेन प्रतिपद्यमाना इमं मानवमावर्तं नावर्तन्ते’ (छा. उ. ४ । १५ । ५) इति । तदिह ब्रह्मविद्विषयया प्रसिद्धया गत्या अक्षिस्थानस्य ब्रह्मत्वं निश्चीयते ॥ १६ ॥
अनवस्थितेरसम्भवाच्च नेतरः ॥ १७ ॥
यत्पुनरुक्तं छायात्मा, विज्ञानात्मा, देवतात्मा वा स्यादक्षिस्थान इति, अत्रोच्यते च्छायात्मादिरितर इह ग्रहणमर्हति । कस्मात् ? अनवस्थितेः । तावच्छायात्मनश्चक्षुषि नित्यमवस्थानं सम्भवति । यदैव हि कश्चित्पुरुषश्चक्षुरासीदति, तदा चक्षुषि पुरुषच्छाया दृश्यते ; अपगते तस्मिन्न दृश्यते । ‘ एषोऽक्षिणि पुरुषःइति श्रुतिः सन्निधानात्स्वचक्षुषि दृश्यमानं पुरुषमुपास्यत्वेनोपदिशति । चोपासनाकाले च्छायाकरं कञ्चित्पुरुषं चक्षुःसमीपे सन्निधाप्योपास्त इति युक्तं कल्पयितुम् । स्यै शरीरस्य नाशमन्वेष नश्यति’ (छा. उ. ८ । ९ । १) इति श्रुतिश्छायात्मनोऽप्यनवस्थितत्वं दर्शयति । असम्भवाच्च तस्मिन्नमृतत्वादीनां गुणानां च्छायात्मनि प्रतीतिः । तथा विज्ञानात्मनोऽपि साधारणे कृत्स्नशरीरेन्द्रियसम्बन्धे सति चक्षुष्येवावस्थितत्वं शक्यं वक्तुम् । ब्रह्मणस्तु सर्वव्यापिनोऽपि दृष्ट उपलब्ध्यर्थो हृदयादिदेशविशेषसम्बन्धः । समानश्च विज्ञानात्मन्यप्यमृतत्वादीनां गुणानामसम्भवः । यद्यपि विज्ञानात्मा परमात्मनोऽनन्य एव, तथाप्यविद्याकामकर्मकृतं तस्मिन्मर्त्यत्वमध्यारोपितं भयं चेत्यमृतत्वाभयत्वे नोपपद्येते । संयद्वामत्वादयश्चैतस्मिन्ननैश्वर्यादनुपपन्ना एव । देवतात्मनस्तुरश्मिभिरेषोऽस्मिन्प्रतिष्ठितःइति श्रुतेः यद्यपि चक्षुष्यवस्थानं स्यात् , तथाप्यात्मत्वं तावन्न सम्भवति, पराग्रूपत्वात् । अमृतत्वादयोऽपि सम्भवन्ति, उत्पत्तिप्रलयश्रवणात् । अमरत्वमपि देवानां चिरकालावस्थानापेक्षम् । ऐश्वर्यमपि परमेश्वरायत्तम् , स्वाभाविकम् ; भीषास्माद्वातः पवते । भीषोदेति सूर्यः । भीषास्मादग्निश्चेन्द्रश्च । मृत्युर्धावति पञ्चमः’ (तै. उ. २ । ८ । १) इति मन्त्रवर्णात् । तस्मात्परमेश्वर एवायमक्षिस्थानः प्रत्येतव्यः । अस्मिंश्च पक्षेदृश्यतेइति प्रसिद्धवदुपादानं शास्त्राद्यपेक्षं विद्वद्विषयं प्ररोचनार्थमिति व्याख्येयम् ॥ १७ ॥
अन्तर्याम्यधिदैवादिषु तद्धर्मव्यपदेशात् ॥ १८ ॥
इमं लोकं परं लोकं सर्वाणि भूतानि योऽन्तरो यमयति’ (बृ. उ. ३ । ७ । १) इत्युपक्रम्य श्रूयतेयः पृथिव्यां तिष्ठन्पृथिव्या अन्तरो यं पृथिवी वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयत्येष आत्मान्तर्याम्यमृतः’ (बृ. उ. ३ । ७ । ३) इत्यादि । त्राधिदैवतमधिलोकमधिवेदमधियज्ञमधिभूतमध्यात्मं कश्चिदन्तरवस्थितो यमयिता अन्तर्यामीति श्रूयते । किमधिदैवाद्यभिमानी देवतात्मा कश्चित् , किं वा प्राप्ताणिमाद्यैश्वर्यः कश्चिद्योगी, किं वा परमात्मा, किं वार्थान्तरं किञ्चित् , इत्यपूर्वसंज्ञादर्शनात्संशयः । किं तावन्नः प्रतिभाति ? संज्ञाया अप्रसिद्धत्वात्संज्ञिनाप्यप्रसिद्धेनार्थान्तरेण केनचिद्भवितव्यमिति । अथवा नानिरूपितरूपमर्थान्तरं शक्यमस्त्यभ्युपगन्तुम् । अन्तर्यामिशब्दश्चान्तर्यमनयोगेन प्रवृत्तो नात्यन्तमप्रसिद्धः । तस्मात्पृथिव्याद्यभिमानी कश्चिद्देवोऽन्तर्यामी स्यात् । तथा श्रूयतेपृथिव्येव यस्यायतनमग्निर्लोको मनो ज्योतिः’ (बृ. उ. ३ । ९ । १०) इत्यादि । कार्यकरणवत्त्वात्पृथिव्यादीनन्तस्तिष्ठन्यमयतीति युक्तं देवतात्मनो यमयितृत्वम् । योगिनो वा कस्यचित्सिद्धस्य सर्वानुप्रवेशेन यमयितृत्वं स्यात् । तु परमात्मा प्रतीयेत, अकार्यकरणत्वात् ; त्येवं प्राप्ते इदमुच्यते
योऽन्तर्याम्यधिदैवादिषु श्रूयते, परमात्मैव स्यात् , नान्य इति । कुतः ? तद्धर्मव्यपदेशात् । तस्य हि परमात्मनो धर्मा इह निर्दिश्यमाना दृश्यन्ते । पृथिव्यादि तावदधिदैवादिभेदभिन्नं समस्तं विकारजातमन्तस्तिष्ठन्यमयतीति परमात्मनो यमयितृत्वं धर्म उपपद्यते ; सर्वविकारकारणत्वे सति सर्वशक्त्युपपत्तेः । ‘एष आत्मान्तर्याम्यमृतःइति चात्मत्वामृतत्वे मुख्ये परमात्मन उपपद्येते । ‘यं पृथिवी वेदइति पृथिवीदेवताया अविज्ञेयमन्तर्यामिणं ब्रुवन्देवतात्मनोऽन्यमन्तर्यामिणं दर्शयति । पृथिवी देवता ह्यहमस्मि पृथिवीत्यात्मानं विजानीयात् । तथाअदृष्टोऽश्रुतःइत्यादिव्यपदेशो रूपादिविहीनत्वात्परमात्मन उपपद्यत इति । यत्त्वकार्यकरणस्य परमात्मनो यमयितृत्वं नोपपद्यत इति, नैष दोषः ; यान्नियच्छति तत्कार्यकरणैरेव तस्य कार्यकरणवत्त्वोपपत्तेः । तस्याप्यन्यो नियन्तेत्यनवस्थादोषश्च सम्भवति, भेदाभावात् । भेदे हि सत्यनवस्थादोषोपपत्तिः । तस्मात्परमात्मैवान्तर्यामी ॥ १८ ॥
न च स्मार्तमतद्धर्माभिलापात् ॥ १९ ॥
स्यादेतत्अदृष्टत्वादयो धर्माः सांख्यस्मृतिकल्पितस्य प्रधानस्याप्युपपद्यन्ते, रूपादिहीनतया तस्य तैरभ्युपगमात् । अप्रतर्क्यविज्ञेयं प्रसुप्तमिव सर्वतः’ (मनु. १ । ५) इति हि स्मरन्ति । तस्यापि नियन्तृत्वं सर्वविकारकारणत्वादुपपद्यते । तस्मात्प्रधानमन्तर्यामिशब्दं स्यात् । ईक्षतेर्नाशब्दम्’ (ब्र. सू. १ । १ । ५) इत्यत्र निराकृतमपि सत् प्रधानमिहादृष्टत्वादिव्यपदेशसम्भवेन पुनराशङ्क्यते । अत उत्तरमुच्यते स्मार्तं प्रधानमन्तर्यामिशब्दं भवितुमर्हति । कस्मात् ? अतद्धर्माभिलापात् । यद्यप्यदृष्टत्वादिव्यपदेशः प्रधानस्य सम्भवति, तथापि द्रष्टृत्वादिव्यपदेशः सम्भवति, प्रधानस्याचेतनत्वेन तैरभ्युपगमात् । अदृष्टो द्रष्टाश्रुतः श्रोतामतो मन्ताविज्ञातो विज्ञाता’ (बृ. उ. ३ । ७ । २३) इति हि वाक्यशेष इह भवति । आत्मत्वमपि प्रधानस्योपपद्यते ॥ १९ ॥
यदि प्रधानमात्मत्वद्रष्टृत्वाद्यसम्भवान्नान्तर्याम्यभ्युपगम्यते, शारीरस्तर्ह्यन्तर्यामी भवतु । शारीरो हि चेतनत्वाद्द्रष्टा श्रोता मन्ता विज्ञाता भवति, आत्मा प्रत्यक्त्वात् । अमृतश्च, धर्माधर्मफलोपभोगोपपत्तेः । अदृष्टत्वादयश्च धर्माः शारीरे सुप्रसिद्धाः ; दर्शनादिक्रियायाः कर्तरि प्रवृत्तिविरोधात् , दृष्टेर्द्रष्टारं पश्येः’ (बृ. उ. ३ । ४ । २) इत्यादिश्रुतिभ्यश्च । तस्य कार्यकरणसङ्घातमन्तर्यमयितुं शीलम् , भोक्तृत्वात् । तस्माच्छारीरोऽन्तर्यामीत्यत उत्तरं पठति
शारीरश्चोभयेऽपि हि भेदेनैनमधीयते ॥ २० ॥
नेति पूर्वसूत्रादनुवर्तते । शारीरश्च नान्तर्यामी स्यात् । कस्मात् ? यद्यपि द्रष्टृत्वादयो धर्मास्तस्य सम्भवन्ति, तथापि घटाकाशवदुपाधिपरिच्छिन्नत्वान्न कार्त्स्न्येन पृथिव्यादिष्वन्तरवस्थातुं नियन्तुं शक्नोति । अपि चोभयेऽपि हि शाखिनः काण्वा माध्यन्दिनाश्चान्तर्यामिणो भेदेनैनं शारीरं पृथिव्यादिवदधिष्ठानत्वेन नियम्यत्वेन चाधीयतेयो विज्ञाने तिष्ठन्’ (बृ. उ. ३ । ७ । २२) इति काण्वाः । ‘ आत्मनि तिष्ठन्इति माध्यन्दिनाः । ‘ आत्मनि तिष्ठन्इत्यस्मिंस्तावत् पाठे भवत्यात्मशब्दः शारीरस्य वाचकः । ‘यो विज्ञाने तिष्ठन्इत्यस्मिन्नपि पाठे विज्ञानशब्देन शारीर उच्यते, विज्ञानमयो हि शारीर इति । तस्माच्छारीरादन्य ईश्वरोऽन्तर्यामीति सिद्धम् । कथं पुनरेकस्मिन्देहे द्वौ द्रष्टारावुपपद्येतेयश्चायमीश्वरोऽन्तर्यामी, यश्चायमितरः शारीरः ? का पुनरिहानुपपत्तिः ? ‘नान्योऽतोऽस्ति द्रष्टाइत्यादिश्रुतिवचनं विरुध्येत । अत्र हि प्रकृतादन्तर्यामिणोऽन्यं द्रष्टारं श्रोतारं मन्तारं विज्ञातारं चात्मानं प्रतिषेधति । नियन्त्रन्तरप्रतिषेधार्थमेतद्वचनमिति चेत् , ; नियन्त्रन्तराप्रसङ्गादविशेषश्रवणाच्च । अत्रोच्यतेअविद्याप्रत्युपस्थापितकार्यकरणोपाधिनिमित्तोऽयं शारीरान्तर्यामिणोर्भेदव्यपदेशः, पारमार्थिकः । एको हि प्रत्यगात्मा भवति, द्वौ प्रत्यगात्मानौ सम्भवतः । एकस्यैव तु भेदव्यवहार उपाधिकृतः, यथा घटाकाशो महाकाश इति । ततश्च ज्ञातृज्ञेयादिभेदश्रुतयः प्रत्यक्षादीनि प्रमाणानि संसारानुभवो विधिप्रतिषेधशास्त्रं चेति सर्वमेतदुपपद्यते । तथा श्रुतिः — ‘यत्र हि द्वैतमिव भवति तदितर इतरं पश्यतिइत्यविद्याविषये सर्वं व्यवहारं दर्शयति । ‘यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्इति विद्याविषये सर्वं व्यवहारं वारयति ॥ २० ॥
अदृश्यत्वादिगुणको धर्मोक्तेः ॥ २१ ॥
अथ परा यया तदक्षरमधिगम्यते’ (मु. उ. १ । १ । ५)यत्तद्रेश्यमग्राह्यमगोत्रमवर्णमचक्षुःश्रोत्रं तदपाणिपादम् , नित्यं विभुं सर्वगतं सुसूक्ष्मं तदव्ययं यद्भूतयोनिं परिपश्यन्ति धीराः’ (मु. उ. १ । १ । ६) इति श्रूयते । तत्र संशयःकिमयमदृश्यत्वादिगुणको भूतयोनिः प्रधानं स्यात् , उत शारीरः, आहोस्वित्परमेश्वर इति । तत्र प्रधानमचेतनं भूतयोनिरिति युक्तम् , अचेतनानामेव तत्र दृष्टान्तत्वेनोपादानात् । यथोर्णनाभिः सृजते गृह्णते यथा पृथिव्यामोषधयः सम्भवन्ति । यथा सतः पुरुषात्केशलोमानि तथाक्षरात्सम्भवतीह विश्वम्’ (मु. उ. १ । १ । ७) इति । ननूर्णनाभिः पुरुषश्च चेतनाविह दृष्टान्तत्वेनोपात्तौ ; नेति ब्रूमः । हि केवलस्य चेतनस्य तत्र सूत्रयोनित्वं केशलोमयोनित्वं वास्ति । चेतनाधिष्ठितं ह्यचेतनमूर्णनाभिशरीरं सूत्रस्य योनिः, पुरुषशरीरं केशलोम्नामिति प्रसिद्धम् । अपि पूर्वत्रादृष्टत्वाद्यभिलापसम्भवेऽपि द्रष्टृत्वाद्यभिलापासम्भवान्न प्रधानमभ्युपगतम् । इह त्वदृश्यत्वादयो धर्माः प्रधाने सम्भवन्ति । चात्र विरुध्यमानो धर्मः कश्चिदभिलप्यते । ननु यः सर्वज्ञः सर्ववित्’ (मु. उ. १ । १ । ९) इत्ययं वाक्यशेषोऽचेतने प्रधाने सम्भवति, कथं प्रधानं भूतयोनिः प्रतिज्ञायत इति ; अत्रोच्यते — ‘यया तदक्षरमधिगम्यते’ ‘यत्तदद्रेश्यम्इत्यक्षरशब्देनादृश्यत्वादिगुणकं भूतयोनिं श्रावयित्वा, पुनरन्ते श्रावयिष्यतिअक्षरात्परतः परः’ (मु. उ. २ । १ । २) इति । तत्र यः परोऽक्षराच्छ्रुतः, सर्वज्ञः सर्ववित्सम्भविष्यति । प्रधानमेव त्वक्षरशब्दनिर्दिष्टं भूतयोनिः । यदा तु योनिशब्दो निमित्तवाची, तदा शारीरोऽपि भूतयोनिः स्यात् , धर्माधर्माभ्यां भूतजातस्योपार्जनादिति । एवं प्राप्ते अभिधीयते
योऽयमदृश्यत्वादिगुणको भूतयोनिः, परमेश्वर एव स्यात् , नान्य इति । कथमेतदवगम्यते ? धर्मोक्तेः । परमेश्वरस्य हि धर्म इहोच्यमानो दृश्यते — ‘यः सर्वज्ञः सर्ववित्इति । हि प्रधानस्याचेतनस्य शारीरस्य वोपाधिपरिच्छिन्नदृष्टेः सर्वज्ञत्वं सर्ववित्त्वं वा सम्भवति । न्वक्षरशब्दनिर्दिष्टाद्भूतयोनेः परस्यैव एतत्सर्वज्ञत्वं सर्ववित्त्वं , भूतयोनिविषयमित्युक्तम् ; अत्रोच्यतेनैवं सम्भवति ; यत्कारणम्अक्षरात्सम्भवतीह विश्वम्इति प्रकृतं भूतयोनिमिह जायमानप्रकृतित्वेन निर्दिश्य, अनन्तरमपि जायमानप्रकृतित्वेनैव सर्वज्ञं निर्दिशति — ‘यः सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तपः । तस्मादेतद्ब्रह्म नाम रूपमन्नं जायतेइति । तस्मान्निर्देशसाम्येन प्रत्यभिज्ञायमानत्वात्प्रकृतस्यैवाक्षरस्य भूतयोनेः सर्वज्ञत्वं सर्ववित्त्वं धर्म उच्यत इति गम्यते । ‘अक्षरात्परतः परःइत्यत्रापि प्रकृताद्भूतयोनेरक्षरात्परः कश्चिदभिधीयते । कथमेतदवगम्यते ? येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्त्वतो ब्रह्मविद्याम्’ (मु. उ. १ । २ । १३) इति प्रकृतस्यैवाक्षरस्य भूतयोनेरदृश्यत्वादिगुणकस्य वक्तव्यत्वेन प्रतिज्ञातत्वात् । कथं तर्हिअक्षरात्परतः परःइति व्यपदिश्यत इति, उत्तरसूत्रे तद्वक्ष्यामः । अपि चात्र द्वे विद्ये वेदितव्ये उक्ते — ‘परा चैवापरा इति । तत्रापरामृग्वेदादिलक्षणां विद्यामुक्त्वा ब्रवीतिअथ परा यया तदक्षरमधिगम्यतेइत्यादि । तत्र परस्या विद्याया विषयत्वेनाक्षरं श्रुतम् । यदि पुनः परमेश्वरादन्यददृश्यत्वादिगुणकमक्षरं परिकल्प्येत, नेयं परा विद्या स्यात् । परापरविभागो ह्ययं विद्ययोः अभ्युदयनिःश्रेयसफलतया परिकल्प्यते । प्रधानविद्या निःश्रेयसफला केनचिदभ्युपगम्यते । तिस्रश्च विद्याः प्रतिज्ञायेरन्, त्वत्पक्षेऽक्षराद्भूतयोनेः परस्य परमात्मनः प्रतिपाद्यमानत्वात् । द्वे एव तु विद्ये वेदितव्ये इह निर्दिष्टे । कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवति’ (मु. उ. १ । १ । ३) इति चैकविज्ञानेन सर्वविज्ञानापेक्षणं सर्वात्मके ब्रह्मणि विवक्ष्यमाणेऽवकल्पते, नाचेतनमात्रैकायतने प्रधाने, भोग्यव्यतिरिक्ते वा भोक्तरि । अपि ब्रह्मविद्यां सर्वविद्याप्रतिष्ठामथर्वाय ज्येष्ठपुत्राय प्राह’ (मु. उ. १ । १ । १) इति ब्रह्मविद्यां प्राधान्येनोपक्रम्य परापरविभागेन परां विद्यामक्षराधिगमनीं दर्शयन् तस्या ब्रह्मविद्यात्वं दर्शयति । सा ब्रह्मविद्यासमाख्या तदधिगम्यस्य अक्षरस्याब्रह्मत्वे बाधिता स्यात् । अपरा ऋग्वेदादिलक्षणा कर्मविद्या ब्रह्मविद्योपक्रमे उपन्यस्यते ब्रह्मविद्याप्रशंसायैप्लवा ह्येते अदृढा यज्ञरूपा अष्टादशोक्तमवरं येषु कर्म । एतच्छ्रेयो येऽभिनन्दन्ति मूढा जरामृत्युं ते पुनरेवापि यन्ति’ (मु. उ. १ । २ । ७) इत्येवमादिनिन्दावचनात् । निन्दित्वा चापरां विद्यां ततो विरक्तस्य परविद्याधिकारं दर्शयतिपरीक्ष्य लोकान्कर्मचितान्ब्राह्मणो निर्वेदमायान्नास्त्यकृतः कृतेन । तद्विज्ञानार्थं गुरुमेवाभिगच्छेत्समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम्’ (मु. उ. १ । २ । १२) इति । यत्तूक्तम्अचेतनानां पृथिव्यादीनां दृष्टान्तत्वेनोपादानाद्दार्ष्टान्तिकेनाप्यचेतनेनैव भूतयोनिना भवितव्यमिति, तदयुक्तम् ; हि दृष्टान्तदार्ष्टान्तिकयोरत्यन्तसाम्येन भवितव्यमिति नियमोऽस्ति ; अपि स्थूलाः पृथिव्यादयो दृष्टान्तत्वेनोपात्ता इति स्थूल एव दार्ष्टान्तिको भूतयोनिरभ्युपगम्यते । तस्माददृश्यत्वादिगुणको भूतयोनिः परमेश्वर एव ॥ २१ ॥
विशेषणभेदव्यपदेशाभ्यां च नेतरौ ॥ २२ ॥
इतश्च परमेश्वर एव भूतयोनिः, नेतरौशारीरः प्रधानं वा । कस्मात् ? विशेषणभेदव्यपदेशाभ्याम् । विशिनष्टि हि प्रकृतं भूतयोनिं शारीराद्विलक्षणत्वेनदिव्यो ह्यमूर्तः पुरुषः सबाह्याभ्यन्तरो ह्यजः । अप्राणो ह्यमनाः शुभ्रः’ (मु. उ. २ । १ । २) इति । ह्येतद्दिव्यत्वादिविशेषणम् अविद्याप्रत्युपस्थापितनामरूपपरिच्छेदाभिमानिनः तद्धर्मान्स्वात्मनि कल्पयतः शारीरस्योपपद्यते । तस्मात्साक्षादौपनिषदः पुरुष इहोच्यते । तथा प्रधानादपि प्रकृतं भूतयोनिं भेदेन व्यपदिशति — ‘अक्षरात्परतः परःइति । अक्षरमव्याकृतं नामरूपबीजशक्तिरूपं भूतसूक्ष्ममीश्वराश्रयं तस्यैवोपाधिभूतम् , सर्वस्माद्विकारात्परो योऽविकारः, तस्मात्परतः परः इति भेदेन व्यपदिशन् परमात्मानमिह विवक्षितं दर्शयति । नात्र प्रधानं नाम किञ्चित्स्वतन्त्रं तत्त्वमभ्युपगम्य, तस्माद्भेदव्यपदेश उच्यते । किं तर्हि ? यदि प्रधानमपि कल्प्यमानं श्रुत्यविरोधेनाव्याकृतादिशब्दवाच्यं भूतसूक्ष्मं परिकल्प्येत, परिकल्प्यताम् । तस्माद्भेदव्यपदेशात् परमेश्वरो भूतयोनिरित्येतदिह प्रतिपाद्यते ॥ २२ ॥
कुतश्च परमेश्वरो भूतयोनिः ? —
रूपोपन्यासाच्च ॥ २३ ॥
अपि अक्षरात्परतः परःइत्यस्यानन्तरम्एतस्माज्जायते प्राणःइति प्राणप्रभृतीनां पृथिवीपर्यन्तानां तत्त्वानां सर्गमुक्त्वा, तस्यैव भूतयोनेः सर्वविकारात्मकं रूपमुपन्यस्यमानं पश्यामःअग्निर्मूर्धा चक्षुषी चन्द्रसूर्यौ दिशः श्रोत्रे वाग्विवृताश्च वेदाः । वायुः प्राणो हृदयं विश्वमस्य पद्भ्यां पृथिवी ह्येष सर्वभूतान्तरात्मा’ (मु. उ. २ । १ । ४) इति । तच्च परमेश्वरस्यैवोचितम् , सर्वविकारकारणत्वात् ; शारीरस्य तनुमहिम्नः ; नापि प्रधानस्य अयं रूपोपन्यासः सम्भवति, सर्वभूतान्तरात्मत्वासम्भवात् । तस्मात्परमेश्वर एव भूतयोनिः, नेतराविति गम्यते । कथं पुनर्भूतयोनेरयं रूपोपन्यास इति गम्यते ? प्रकरणात् , ‘एषःइति प्रकृतानुकर्षणात् । भूतयोनिं हि प्रकृत्यएतस्माज्जायते प्राणः’ ‘एष सर्वभूतान्तरात्माइति वचनं भूतयोनिविषयमेव भवति ; यथा उपाध्यायं प्रकृत्यएतस्मादधीष्व, एष वेदवेदाङ्गपारगःइति वचनमुपाध्यायविषयं भवति, तद्वत् । कथं पुनरदृश्यत्वादिगुणकस्य भूतयोनेर्विग्रहवद्रूपं सम्भवति ? सर्वात्मत्वविवक्षयेदमुच्यते, तु विग्रहवत्त्वविवक्षया इत्यदोषः, ‘अहमन्नम्अहमन्नादः’ (तै. उ. ३ । १० । ६) इत्यादिवत्
अन्ये पुनर्मन्यन्तेनायं भूतयोनेः रूपोपन्यासः, जायमानत्वेनोपन्यासात् । ‘एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि  । खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणीइति हि पूर्वत्र प्राणादि पृथिव्यन्तं तत्त्वजातं जायमानत्वेन निरदिक्षत् । उत्तरत्रापि तस्मादग्निः समिधो यस्य सूर्यःइत्येवमादिअतश्च सर्वा ओषधयो रसश्चइत्येवमन्तं जायमानत्वेनैव निर्देक्ष्यति । इहैव कथमकस्मादन्तराले भूतयोनेः रूपमुपन्यसेत् ? सर्वात्मत्वमपि सृष्टिं परिसमाप्योपदेक्ष्यतिपुरुष एवेदं विश्वं कर्म’ (मु. उ. २ । १ । १०) इत्यादिना । श्रुतिस्मृत्योश्च त्रैलोक्यशरीरस्य प्रजापतेर्जन्मादि निर्दिश्यमानमुपलभामहेहिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत् । दाधार पृथिवीं द्यामुतेमां कस्मै देवाय हविषा विधेम’ (ऋ. सं. १० । १२१ । १) इतिसमवर्ततेति अजायतेत्यर्थःतथा, ‘ वै शरीरी प्रथमः वै पुरुष उच्यते । आदिकर्ता भूतानां ब्रह्माग्रे समवर्ततइति  । विकारपुरुषस्यापि सर्वभूतान्तरात्मत्वं सम्भवति, प्राणात्मना सर्वभूतानामध्यात्ममवस्थानात् । अस्मिन्पक्षेपुरुष एवेदं विश्वं कर्मइत्यादिसर्वरूपोपन्यासः परमेश्वरप्रतिपत्तिहेतुरिति व्याख्येयम् ॥ २३ ॥
वैश्वानरः साधारणशब्दविशेषात् ॥ २४ ॥
को आत्मा किं ब्रह्म’ (छा. उ. ५ । ११ । १) इति आत्मानमेवेमं वैश्वानरं सम्प्रत्यध्येषि तमेव नो ब्रूहि’ (छा. उ. ५ । ११ । ६) इति चोपक्रम्य द्युसूर्यवाय्वाकाशवारिपृथिवीनां सुतेजस्त्वादिगुणयोगमेकैकोपासननिन्दया वैश्वानरं प्रत्येषां मूर्धादिभावमुपदिश्याम्नायतेयस्त्वेतमेवं प्रादेशमात्रमभिविमानमात्मानं वैश्वानरमुपास्ते, सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मस्वन्नमत्ति ;’ (छा. उ. ५ । १८ । १) तस्य वा एतस्यात्मनो वैश्वानरस्य मूर्धैव सुतेजाश्चक्षुर्विश्वरूपः प्राणः पृथग्वर्त्मात्मा सन्देहो बहुलो वस्तिरेव रयिः पृथिव्येव पादावुर एव वेदिर्लोमानि बर्हिर्हृदयं गार्हपत्यो मनोऽन्वाहार्यपचन आस्यमाहवनीयः’ (छा. उ. ५ । १८ । २) इत्यादि । तत्र संशयःकिं वैश्वानरशब्देन जाठरोऽग्निरुपदिश्यते, उत भूताग्निः, अथ तदभिमानिनी देवता, अथवा शारीरः, आहोस्वित्परमेश्वरः इति । किं पुनरत्र संशयकारणम् ? वैश्वानर इति जाठरभूताग्निदेवतानां साधारणशब्दप्रयोगात् , आत्मेति शारीरपरमेश्वरयोः । तत्र कस्योपादानं न्याय्यं कस्य वा हानमिति भवति संशयः । किं तावत्प्राप्तम् ? जाठरोऽग्निरिति ; कुतः ? तत्र हि विशेषेण क्वचित्प्रयोगो दृश्यतेअयमग्निर्वैश्वानरो योऽयमन्तः पुरुषे येनेदमन्नं पच्यते यदिदमद्यते’ (बृ. उ. ५ । ९ । १) इत्यादौ । अग्निमात्रं वा स्यात् , सामान्येनापि प्रयोगदर्शनात्विश्वस्मा अग्निं भुवनाय देवा वैश्वानरं केतुमह्नामकृण्वन्’ (ऋ. सं. १० । ८८ । १२) इत्यादौ । अग्निशरीरा वा देवता स्यात् , तस्यामपि प्रयोगदर्शनात्वैश्वानरस्य सुमतौ स्याम राजा हि कं भुवनानामभिश्रीः’ (ऋ. सं. १ । ९८ । १) इत्येवमाद्यायाः श्रुतेर्देवतायामैश्वर्याद्युपेतायां सम्भवात् । थात्मशब्दसामानाधिकरण्यादुपक्रमे को आत्मा किं ब्रह्मइति केवलात्मशब्दप्रयोगादात्मशब्दवशेन वैश्वानरशब्दः परिणेय इत्युच्यते, तथापि शारीर आत्मा स्यात् ; तस्य भोक्तृत्वेन वैश्वानरसन्निकर्षात् , प्रादेशमात्रमिति विशेषणस्य तस्मिन्नुपाधिपरिच्छिन्ने सम्भवात् । तस्मान्नेश्वरो वैश्वानर इत्येवं प्राप्तम्
तत्रेदमुच्यतेवैश्वानरः परमात्मा भवितुमर्हति । कुतः ? साधारणशब्दविशेषात् ; साधारणशब्दयोर्विशेषः साधारणशब्दविशेषः ; यद्यप्येतावुभावप्यात्मवैश्वानरशब्दौ साधारणशब्दौवैश्वानरशब्दस्तु त्रयाणां साधारणः, आत्मशब्दश्च द्वयोःतथापि विशेषो दृश्यते, — येन परमेश्वरपरत्वं तयोरभ्युपगम्यते — ‘तस्य वा एतस्यात्मनो वैश्वानरस्य मूर्धैव सुतेजाःइत्यादिः । अत्र हि परमेश्वर एव द्युमूर्धत्वादिविशिष्टोऽवस्थान्तरगतः प्रत्यगात्मत्वेनोपन्यस्त आध्यानायेति गम्यते, कारणत्वात् । कारणस्य हि सर्वाभिः कार्यगताभिरवस्थाभिरवस्थावत्त्वात् द्युलोकाद्यवयवत्वमुपपद्यते । ‘ सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मस्वन्नमत्तिइति सर्वलोकाद्याश्रयं फलं श्रूयमाणं परमकारणपरिग्रहे सम्भवति, एवं हास्य सर्वे पाप्मानः प्रदूयन्ते’ (छा. उ. ५ । २४ । ३) इति तद्विदः सर्वपाप्मप्रदाहश्रवणम् , ‘को आत्मा किं ब्रह्मइति चात्मब्रह्मशब्दाभ्यामुपक्रमः ; — इत्येवमेतानि लिङ्गानि परमेश्वरमेव गमयन्ति । तस्मात्परमेश्वर एव वैश्वानरः ॥ २४ ॥
स्मर्यमाणमनुमानं स्यादिति ॥ २५ ॥
इतश्च परमेश्वर एव वैश्वानरः ; यस्मात्परमेश्वरस्यैवअग्निरास्यं द्यौर्मूर्धाइतीदृशं त्रैलोक्यात्मकं रूपं स्मर्यते — ‘यस्याग्निरास्यं द्यौर्मूर्धा खं नाभिश्चरणौ क्षितिः । सूर्यश्चक्षुर्दिशः श्रोत्रं तस्मै लोकात्मने नमःइति । तत्स्मर्यमाणं रूपं मूलभूतां श्रुतिमनुमापयदस्य वैश्वानरशब्दस्य परमेश्वरपरत्वे अनुमानं लिङ्गं गमकं स्यादित्यर्थः । इतिशब्दो हेत्वर्थेयस्मादिदं गमकम् , तस्मादपि वैश्वानरः परमात्मैवेत्यर्थः । यद्यपि स्तुतिरियम् — ‘तस्मै लोकात्मने नमःइति, तथापि स्तुतित्वमपि नासति मूलभूते वेदवाक्ये सम्यक् ईदृशेन रूपेण सम्भवति । ‘द्यां मूर्धानं यस्य विप्रा वदन्ति खं वै नाभिं चन्द्रसूर्यौ नेत्रे । दिशः श्रोत्रे विद्धि पादौ क्षितिं सोऽचिन्त्यात्मा सर्वभूतप्रणेताइत्येवंजातीयका स्मृतिरिहोदाहर्तव्या ॥ २५ ॥
शब्दादिभ्योऽन्तःप्रतिष्ठानाच्च नेति चेन्न तथादृष्ट्युपदेशादसम्भवात्पुरुषमपि चैनमधीयते ॥ २६॥
अत्राह परमेश्वरो वैश्वानरो भवितुमर्हति । कुतः ? शब्दादिभ्योऽन्तःप्रतिष्ठानाच्च । शब्दस्तावत्वैश्वानरशब्दो परमेश्वरे सम्भवति, अर्थान्तरे रूढत्वात् ; तथाग्निशब्दः एषोऽग्निर्वैश्वानरःइति । आदिशब्दात् हृदयं गार्हपत्यः’ (छा. उ. ५ । १८ । २) इत्याद्यग्नित्रेताप्रकल्पनम् ; तद्यद्भक्तं प्रथममागच्छेत्तद्धोमीयम्’ (छा. उ. ५ । १९ । १) इत्यादिना प्राणाहुत्यधिकरणतासङ्कीर्तनम् । एतेभ्यो हेतुभ्यो जाठरो वैश्वानरः प्रत्येतव्यः । थान्तःप्रतिष्ठानमपि श्रूयते — ‘पुरुषेऽन्तः प्रतिष्ठितं वेदइति । तच्च जाठरे सम्भवति । यदप्युक्तम्मूर्धैव सुतेजाःइत्यादेर्विशेषात्कारणात्परमात्मा वैश्वानर इति, अत्र ब्रूमःकुतो ह्येष निर्णयः, यदुभयथापि विशेषप्रतिभाने सति परमेश्वरविषय एव विशेष आश्रयणीयो जाठरविषय इति । अथवा भूताग्नेरन्तर्बहिश्चावतिष्ठमानस्यैष निर्देशो भविष्यति । तस्यापि हि द्युलोकादिसम्बन्धो मन्त्रवर्णे अवगम्यतेयो भानुना पृथिवीं द्यामुतेमामाततान रोदसी अन्तरिक्षम्’ (ऋ. सं. १० । ८८ । ३) इत्यादौ । अथवा तच्छरीराया देवताया ऐश्वर्ययोगात् द्युलोकाद्यवयवत्वं भविष्यति । तस्मान्न परमेश्वरो वैश्वानर इति
अत्रोच्यते तथादृष्ट्युपदेशादिति । शब्दादिभ्यः कारणेभ्यः परमेश्वरस्य प्रत्याख्यानं युक्तम् । कुतः ? तथा जाठरापरित्यागेन, दृष्ट्युपदेशात् । परमेश्वरदृष्टिर्हि जाठरे वैश्वानरे इहोपदिश्यतेमनो ब्रह्मेत्युपासीत’ (छा. उ. ३ । १८ । १) इत्यादिवत् । अथवा जाठरवैश्वानरोपाधिः परमेश्वर इह द्रष्टव्यत्वेनोपदिश्यतेमनोमयः प्राणशरीरो भारूपः’ (छा. उ. ३ । १४ । २) इत्यादिवत् । यदि चे परमेश्वरो विवक्ष्येत, केवल एव जाठरोऽग्निर्विवक्ष्येत, ततःमूर्धैव सुतेजाःइत्यादेर्विशेषस्यासम्भव एव स्यात् । यथा तु देवताभूताग्निव्यपाश्रयेणाप्ययं विशेष उपपादयितुं शक्यते, तथोत्तरसूत्रे वक्ष्यामः । यदि केवल एव जाठरो विवक्ष्येत, पुरुषेऽन्तःप्रतिष्ठितत्वं केवलं तस्य स्यात् ; तु पुरुषत्वम् ; पुरुषमपि चैनमधीयते वाजसनेयिनः एषोऽग्निर्वैश्वानरो यत्पुरुषः यो हैतमेवमग्निं वैश्वानरं पुरुषविधं पुरुषेऽन्तः प्रतिष्ठितं वेद’ (श. ब्रा. १० । ६ । १ । ११) इति । परमेश्वरस्य तु सर्वात्मत्वात्पुरुषत्वं पुरुषेऽन्तःप्रतिष्ठितत्वं चोभयमुपपद्यते । ये तुपुरुषविधमपि चैनमधीयतेइति सूत्रावयवं पठन्ति, तेषामेषोऽर्थःकेवलजाठरपरिग्रहे पुरुषेऽन्तःप्रतिष्ठितत्वं केवलं स्यात् ; तु पुरुषविधत्वम् ; पुरुषविधमपि चैनमधीयते वाजसनेयिनः — ‘पुरुषविधं पुरुषेऽन्तः प्रतिष्ठितं वेदइति । पुरुषविधत्वं प्रकरणात् यदधिदैवतं द्युमूर्धत्वादि पृथिवीप्रतिष्ठितत्वान्तम् , यच्चाध्यात्मं प्रसिद्धं मूर्धत्वादि चुबुकप्रतिष्ठितत्वान्तम् , तत्परिगृह्यते ॥ २६ ॥
अत एव न देवता भूतं च ॥ २७ ॥
यत्पुनरुक्तम्भूताग्नेरपि मन्त्रवर्णे द्युलोकादिसम्बन्धदर्शनात्मूर्धैव सुतेजाःइत्याद्यवयवकल्पनं तस्यैव भविष्यतीति, तच्छरीराया देवताया वा ऐश्वर्ययोगादिति ; तत्परिहर्तव्यम् । अत्रोच्यतेअत एवोक्तेभ्यो हेतुभ्यो देवता वैश्वानरः । तथा भूताग्निरपि वैश्वानरः ; हि भूताग्नेरौष्ण्यप्रकाशमात्रात्मकस्य द्युमूर्धत्वादिकल्पनोपपद्यते, विकारस्य विकारान्तरात्मत्वासम्भवात् । तथा देवतायाः सत्यप्यैश्वर्ययोगे द्युमूर्धत्वादिकल्पना सम्भवति, अकारणत्वात् परमेश्वराधीनैश्वर्यत्वाच्च । आत्मशब्दासम्भवश्च सर्वेष्वेषु पक्षेषु स्थित एव ॥ २७ ॥
साक्षादप्यविरोधं जैमिनिः ॥ २८ ॥
पूर्वं जाठराग्निप्रतीको जाठराग्न्युपाधिको वा परमेश्वर उपास्य इत्युक्तम् अन्तःप्रतिष्ठितत्वाद्यनुरोधेन । इदानीं तु विनैव प्रतीकोपाधिकल्पनाभ्यां साक्षादपि परमेश्वरोपासनपरिग्रहे कश्चिद्विरोध इति जैमिनिराचार्यो मन्यते । ननु जाठराग्न्यपरिग्रहेऽन्तःप्रतिष्ठितत्ववचनं शब्दादीनि कारणानि विरुध्येरन्निति । अत्रोच्यतेअन्तःप्रतिष्ठितत्ववचनं तावन्न विरुध्यते । हीहपुरुषविधं पुरुषेऽन्तः प्रतिष्ठितं वेदइति जाठराग्न्यभिप्रायेणेदमुच्यते, तस्याप्रकृतत्वादसंशब्दितत्वाच्च । कथं तर्हि ? यत्प्रकृतं मूर्धादिचुबुकान्तेषु पुरुषावयवेषु पुरुषविधत्वं कल्पितम् , तदभिप्रायेणेदमुच्यते — ‘पुरुषविधं पुरुषेऽन्तः प्रतिष्ठितं वेदइति ; यथा वृक्षे शाखां प्रतिष्ठितां पश्यतीति, तद्वत् । अथवा यः प्रकृतः परमात्माध्यात्ममधिदैवतं पुरुषविधत्वोपाधिः, तस्य यत्केवलं साक्षिरूपम् , तदभिप्रायेणेदमुच्यते — ‘पुरुषविधं पुरुषेऽन्तः प्रतिष्ठितं वेदइति । निश्चिते पूर्वापरालोचनवशेन परमात्मपरिग्रहे, तद्विषय एव वैश्वानरशब्दः केनचिद्योगेन वर्तिष्यतेविश्वश्चायं नरश्चेति, विश्वेषां वायं नरः, विश्वे वा नरा अस्येति विश्वानरः परमात्मा, सर्वात्मत्वात् , विश्वानर एव वैश्वानरः ; तद्धितोऽनन्यार्थः, राक्षसवायसादिवत् । अग्निशब्दोऽप्यग्रणीत्वादियोगाश्रयणेन परमात्मविषय एव भविष्यति । गार्हपत्यादिकल्पनं प्राणाहुत्यधिकरणत्वं परमात्मनोऽपि सर्वात्मत्वादुपपद्यते ॥ २८ ॥
कथं पुनः परमेश्वरपरिग्रहे प्रादेशमात्रश्रुतिरुपपद्यत इति, तां व्याख्यातु मारभते
अभिव्यक्तेरित्याश्मरथ्यः ॥ २९ ॥
अतिमात्रस्यापि परमेश्वरस्य प्रादेशमात्रत्वमभिव्यक्तिनिमित्तं स्यात् । अभिव्यज्यते किल प्रादेशमात्रपरिमाणः परमेश्वर उपासकानां कृते । प्रदेशविशेषेषु वा हृदयादिषूपलब्धिस्थानेषु विशेषेणाभिव्यज्यते । अतः परमेश्वरेऽपि प्रादेशमात्रश्रुतिरभिव्यक्तेरुपपद्यत इत्याश्मरथ्य आचार्यो मन्यते ॥ २९ ॥
अनुस्मृतेर्बादरिः ॥ ३० ॥
प्रादेशमात्रहृदयप्रतिष्ठेन वायं मनसानुस्मर्यते ; तेनप्रादेशमात्रःइत्युच्यते ; यथा प्रस्थमिता यवाः प्रस्था इत्युच्यन्ते, तद्वत् । यद्यपि यवेषु स्वगतमेव परिमाणं प्रस्थसम्बन्धाद्व्यज्यते, चेह परमेश्वरगतं किञ्चित्परिमाणमस्तियद्धृदयसम्बन्धाद्व्यज्येत ; तथापि प्रयुक्तायाः प्रादेशमात्रश्रुतेः सम्भवति यथाकथञ्चिनुस्मरणमालम्बनमित्युच्यते । प्रादेशमात्रत्वेन वायमप्रादेशमात्रोऽप्यनुस्मरणीयः प्रादेशमात्रश्रुत्यर्थवत्तायै । एवमनुस्मृतिनिमित्ता परमेश्वरे प्रादेशमात्रश्रुतिरिति बादरिराचार्यो मन्यते ॥ ३० ॥
सम्पत्तेरिति जैमिनिस्तथा हि दर्शयति ॥ ३१ ॥
सम्पत्तिनिमित्ता वा स्यात्प्रादेशमात्रश्रुतिः । कुतः ? तथाहि समानप्रकरणं वाजसनेयिब्राह्मणं द्युप्रभृतीन्पृथिवीपर्यन्तांस्त्रैलोक्यात्मनो वैश्वानरस्यावयवानध्यात्ममूर्धप्रभृतिषु चुबुकपर्यन्तेषु देहावयवेषु सम्पादयत्प्रादेशमात्रसम्पत्तिं परमेश्वरस्य दर्शयति — ‘प्रादेशमात्रमिव वै देवाः सुविदिता अभिसम्पन्नास्तथा तु एतान्वक्ष्यामि यथा प्रादेशमात्रमेवाभिसम्पादयिष्यामीति । होवाच मूर्धानमुपदिशन्नुवाचैष वा अतिष्ठा वैश्वानर इति । चक्षुषी उपदिशन्नुवाचैष वै सुतेजा वैश्वानर इति । नासिके उपदिशन्नुवाचैष वै पृथग्वर्त्मात्मा वैश्वानर इति । मुख्यमाकाशमुपदिशन्नुवाचैष वै बहुलो वैश्वानर इति । मुख्या अप उपदिशन्नुवाचैष वै रयिर्वैश्वानर इति । चुबुकमुपदिशन्नुवाचैष वै प्रतिष्ठा वैश्वानरःइति । चुबुकमित्यधरं मुखफलकमुच्यते । यद्यपि वाजसनेयके द्यौरतिष्ठात्वगुणा समाम्नायते, आदित्यश्च सुतेजस्त्वगुणः, छान्दोग्ये पुनः द्यौः सुतेजस्त्वगुणा समाम्नायते, आदित्यश्च विश्वरूपत्वगुणः ; तथापि नैतावता विशेषेण किञ्चिद्धीयते, प्रादेशमात्रश्रुतेरविशेषात् , सर्वशाखाप्रत्ययत्वाच्च । सम्पत्तिनिमित्तां प्रादेशमात्रश्रुतिं युक्ततरां जैमिनिराचार्यो मन्यते ॥ ३१ ॥
आमनन्ति चैनमस्मिन् ॥ ३२ ॥
आमनन्ति चैनं परमेश्वरमस्मिन्मूर्धचुबुकान्तराले जाबालाः — ‘ एषोऽनन्तोऽव्यक्त आत्मा सोऽविमुक्ते प्रतिष्ठित इति । सोऽविमुक्तः कस्मिन्प्रतिष्ठित इति । वरणायां नास्यां मध्ये प्रतिष्ठित इति । का वै वरणा का नासीति’ । तत्र चेमामेव नासिकाम्सर्वाणीन्द्रियकृतानि पापानि वारयतीति सा वरणा, सर्वाणीन्द्रियकृतानि पापानि नाशयतीति सा नासीइति वरणानासीति निरुच्य, पुनरप्यामनन्तिकतमच्चास्य स्थानं भवतीति । भ्रुवोर्घ्राणस्य यः सन्धिः एष द्युलोकस्य परस्य सन्धिर्भवति’ (जा. उ. २) इति । तस्मादुपपन्ना परमेश्वरे प्रादेशमात्रश्रुतिः । अभिविमानश्रुतिः प्रत्यगात्मत्वाभिप्राया । प्रत्यगात्मतया सर्वैः प्राणिभिरभिविमीयत इत्यभिविमानः ; अभिगतो वायं प्रत्यगात्मत्वात् , विमानश्च मानवियोगात् इत्यभिविमानः । अभिविमिमीते वा सर्वं जगत् , कारणत्वादित्यभिविमानः । तस्मात्परमेश्वरो वैश्वानर इति सिद्धम् ॥ ३२ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ शारीरकमीमांसासूत्रभाष्ये प्रथमाध्यायस्य द्वितीयः पादः
द्युभ्वाद्यायतनं स्वशब्दात् ॥ १ ॥
इदं श्रूयतेयस्मिन्द्यौः पृथिवी चान्तरिक्षमोतं मनः सह प्राणैश्च सर्वैः । तमेवैकं जानथ आत्मानमन्या वाचो विमुञ्चथामृतस्यैष सेतुः’ (मु. उ. २ । २ । ५) इति । अत्र यदेतद्द्युप्रभृतीनामोतत्ववचनादायतनं किञ्चिदवगम्यते, तत्किं परं ब्रह्म स्यात् , आहोस्विदर्थान्तरमिति सन्दिह्यते । तत्रार्थान्तरं किमप्यायतनं स्यादिति प्राप्तम् । कस्मात् ? ‘अमृतस्यैष सेतुःइति श्रवणात् । पारवान्हि लोके सेतुः प्रख्यातः । परस्य ब्रह्मणः पारवत्त्वं शक्यमभ्युपगन्तुम्अनन्तमपारम्’ (बृ. उ. २ । ४ । १२) इति श्रवणात् । अर्थान्तरे चायतने परिगृह्यमाणे स्मृतिप्रसिद्धं प्रधानं परिग्रहीतव्यम् , तस्य कारणत्वादायतनत्वोपपत्तेः । श्रुतिप्रसिद्धो वा वायुः स्यात्वायुर्वाव गौतम तत्सूत्रं वायुना वै गौतम सूत्रेणायं लोकः परश्च लोकः सर्वाणि भूतानि सन्दृब्धानि भवन्ति’ (बृ. उ. ३ । ७ । २) इति वायोरपि विधारणत्वश्रवणात् । शारीरो वा स्यात् ; — तस्यापि भोक्तृत्वात् , भोग्यं प्रपञ्चं प्रत्यायतनत्वोपपत्तेः इत्येवं प्राप्ते इदमाह
द्युभ्वाद्यायतनमिति । द्यौश्च भूश्च द्युभुवौ, द्युभुवौ आदी यस्य तदिदं द्युभ्वादि । यदेतदस्मिन्वाक्ये द्यौः पृथिव्यन्तरिक्षं मनः प्राणा इत्येवमात्मकं जगत् ओतत्वेन निर्दिष्टम् , तस्यायतनं परं ब्रह्म भवितुमर्हति । कुतः ? स्वशब्दात् आत्मशब्दादित्यर्थः । आत्मशब्दो हीह भवति — ‘तमेवैकं जानथ आत्मानम्इति । आत्मशब्दश्च परमात्मपरिग्रहे सम्यगवकल्पते, नार्थान्तरपरिग्रहे । क्वचिच्च स्वशब्देनैव ब्रह्मण आयतनत्वं श्रूयतेसन्मूलाः सोम्येमाः सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठाः’ (छा. उ. ६ । ८ । ४) इति । स्वशब्देनैव चेह पुरस्तादुपरिष्टाच्च ब्रह्म सङ्कीर्त्यते — ‘पुरुष एवेदं विश्वं कर्म तपो ब्रह्म परामृतम्इति, ब्रह्मैवेदममृतं पुरस्ताद्ब्रह्म पश्चाद्ब्रह्म दक्षिणतश्चोत्तरेण’ (मु. उ. २ । २ । १२) इति  । तत्र त्वायतनायतनवद्भावश्रवणात् । सर्वं ब्रह्मेति सामानाधिकरण्यात् , यथानेकात्मको वृक्षः शाखा स्कन्धो मूलं चेति, एवं नानारसो विचित्र आत्मेत्याशङ्का सम्भवति ; तां निवर्तयितुं सावधारणमाह — ‘तमेवैकं जानथ आत्मानम्इति । एतदुक्तं भवति कार्यप्रपञ्चविशिष्टो विचित्र आत्मा विज्ञेयः । किं तर्हि ? अविद्याकृतं कार्यप्रपञ्चं विद्यया प्रविलापयन्तः तमेवैकमायतनभूतमात्मानं जानथ एकरसमिति । यथायस्मिन्नास्ते देवदत्तस्तदानयइत्युक्ते आसनमेवानयति, देवदत्तम् ; तद्वदायतनभूतस्यैवैकरसस्यात्मनो विज्ञेयत्वमुपदिश्यते । विकारानृताभिसन्धस्य चापरवादः श्रूयतेमृत्योः मृत्युमाप्नोति इह नानेव पश्यति’ (क. उ. २ । १ । १०) इति । ‘सर्वं ब्रह्मइति तु सामानाधिकरण्यं प्रपञ्चप्रविलापनार्थम् , अनेकरसताप्रतिपादनार्थम् , यथा सैन्धवघनोऽनन्तरोऽबाह्यः कृत्स्नो रसघन एवैवं वा अरेऽयमात्मानन्तरोऽबाह्यः कृत्स्नः प्रज्ञानघन एव’ (बृ. उ. ४ । ५ । १३) इत्येकरसताश्रवणात् । तस्माद्द्युभ्वाद्यायतनं परं ब्रह्म । यत्तूक्तम्सेतुश्रुतेः, सेतोश्च पारवत्त्वोपपत्तेः, ब्रह्मणोऽर्थान्तरेण द्युभ्वाद्यायतनेन भवितव्यमिति, अत्रोच्यतेविधारणत्वमात्रमत्र सेतुश्रुत्या विवक्ष्यते, पारवत्त्वादि । हि मृद्दारुमयो लोके सेतुर्दृष्ट इत्यत्रापि मृद्दारुमय एव सेतुरभ्युपगम्यते । सेतुशब्दार्थोऽपि विधारणत्वमात्रमेव, पारवत्त्वादि, षिञो बन्धनकर्मणः सेतुशब्दव्युत्पत्तेः । अपर आह — ‘तमेवैकं जानथ आत्मानम्इति यदेतत्सङ्कीर्तितमात्मज्ञानम् , यच्चैतत्अन्या वाचो विमुञ्चथ