श्रीमच्छङ्करभगवत्पूज्यपादविरचितम्

हस्तामलकीयभाष्यम्

 

यस्मिन्ज्ञाते भवेत्सर्वं विज्ञातं परमात्मनि ।
तं वन्दे नित्यविज्ञानमानन्दमजमव्ययम् ॥

यदज्ञानादभूद्द्वैतं ज्ञाते यस्मिन्निवर्तते ।
रज्जुसर्पवदत्यन्तं तं वन्दे पुरुषोत्तमम् ॥

यस्योपदेशदीधित्या चिदात्मा नः प्रकाशते ।
नमः सद्गुरवे तस्मै स्वाविद्याध्वान्तभानवे ॥

इह हि सर्वस्य जन्तोः सुखं मे भूयाद्दुःखं मे मा भूयात् इति स्वरसत एव सुखोपादित्सादुःखजिहासे भवतः । तत्र यः कश्चित् पुण्यातिशयशाली अवश्यंभाविदुःखाविनाभूतत्वादनित्यत्वाच्च विषयजं सुखं दुःखमेवेति ज्ञात्वा यत्नेन ससाधनात्संसारात्त्यक्तासक्तिरत्यन्तं विरज्यते । विरक्तश्च संसारहानौ यतते । संसारस्य च आत्मस्वरूपापरिज्ञानकृतत्वात् आत्मज्ञानान्निवृत्तिरिति तं प्रत्यात्मज्ञानमाचार्य उपदिशति —
निमित्तं मनश्चक्षुरादिप्रवृत्तौ
निरस्ताखिलोपाधिराकाशकल्पः ।
रविर्लोकचेष्टानिमित्तं यथा यः
स नित्योपलब्धिस्वरूपोऽहमात्मा ॥ १ ॥
ननु सर्वत्र ग्रन्थादौ शिष्टानामिष्टदेवतास्तुतिनमस्कारपूर्विका प्रवृत्तिरुपलब्धा ; अयं च विना स्तुतिनमस्कारौ प्रवर्तमानोऽशिष्टत्वात् अनादरणीयवचनः प्रसज्येतेति चेत् — न ; स्तुतिनमस्कारयोस्त्रैविध्यात् ; त्रिविधौ हि स्तुतिनमस्कारौ — कायिकौ वाचिकौ मानसिकौ चेति । तत्र कायिकवाचिकयोरभावेऽपि परमशिष्टत्वादाचार्यस्य ग्रन्थस्य अविघ्नेन परिसमाप्तेश्च मानसिकौ स्तुतिनमस्कारावकरोदयमाचार्य इत्यवगम्यते ; यत्किञ्चिदेतत् । प्रकृतमनुसरामः — मनश्च चक्षुश्च मनश्चक्षुषी, ते आदिर्येषां तानि मनश्चक्षुरादीनि ; आदिशब्दः प्रत्येकमभिसम्बध्यते ; ततश्च अयमर्थो भवति — मनआदीनां मनोऽहङ्कारबुद्धिचित्तानां चतुर्णामन्तःकरणानाम् , तथा चक्षुरादीनां चक्षुस्त्वक्श्रोत्रजिह्वाघ्राणानां पञ्चबुद्धीन्द्रियाणाम् , एवं वाक्पाणिपादपायूपस्थानां पञ्चकर्मेन्द्रियाणाम् , प्रवृत्तौ स्वस्वव्यापारे, निमित्तं हेतुः यः, सोऽहमात्मेति सम्बन्धः । स कीदृश इत्याकाङ्क्षायामाह — नित्योपलब्धिरिति । नित्या च असावुपलब्धिश्चेति नित्योपलब्धिः, सा स्वरूपं यस्य स तथोक्तः । रविः आदित्यः यथा येन प्रकारेण प्रकाशकत्वेन लोकानां चेष्टायां स्पन्दने निमित्तं हेतुः, तथैव अधिष्ठातृत्वेन यो निमित्तं सोऽहमात्मेत्यर्थः — इति इयं दृष्टिः आत्मज्ञानोपायत्वेन दर्शिता । परमार्थतस्तु निरस्ताः निराकृताः अखिलाः निरवशेषाः उपाधयो बुद्ध्यादिलक्षणाः यस्य स तथोक्तः । निरस्ताखिलोपाधित्वादेव अयमाकाशकल्पः आकाशवद्विशुद्ध इत्यर्थः ॥
ननु मनश्चक्षुरादिप्रवृत्तौ किमर्थमधिष्ठाता इष्यते ? स्वयमेव कस्मान्न प्रवर्तन्ते ? कथं च नित्योपलब्धिस्वरूपत्वम् अधिष्ठातुरिष्यते ? इत्यत आह —
यमग्न्युष्णवन्नित्यबोधस्वरूपं
मनश्चक्षुरादीन्यबोधात्मकानि ।
प्रवर्तन्त आश्रित्य निष्कम्पमेकं
स नित्योपलब्धिस्वरूपोऽहमात्मा ॥ २ ॥
यं नित्यबोधस्वरूपमात्मानम् आश्रित्य मनश्चक्षुरादीनि प्रवर्तन्ते, सोऽहमात्मेति सम्बन्धः । ननु कथं बोधस्य नित्यत्वम् ? बोधो हि नाम ज्ञानम् ; तच्च इन्द्रियार्थसंनिकर्षादिना जायते समुत्पद्यते ; उत्पन्नं च ज्ञानं स्वकार्येण संस्कारेण विरोधिना ज्ञानान्तरेण वा विनश्यति ; अतः उत्पत्तिनाशधर्मवत्त्वात् न नित्यं भवितुमर्हति ; नापि बोधस्वरूपत्वमात्मन उपपद्यते, नित्यत्वादात्मनः, अनित्यत्वाच्च बोधस्य ; न हि नित्यानित्ययोरेकस्वभावत्वम् , विरोधात् इति ॥
अत्रोच्यते — बोधो हि नाम चैतन्यमभिप्रेतम् ; न च ज्ञानं चैतन्यम् , जन्यज्ञानस्य ज्ञेयत्वेन घटादिवज्जडत्वात् । ज्ञेयं हि ज्ञानम् , घटज्ञानं मे जातं पटज्ञानं मे जातमिति साक्षादनुभूयमानत्वात् । अतः तस्य अनित्यत्वेन अनात्मस्वरूपत्वेऽपि, नित्यबोधस्वरूपत्वम् आत्मन उपपद्यते । ननु आत्मनः चेतनत्वे किं प्रमाणमिति चेत् , जगत्प्रकाश इति ब्रूमः । जगत् प्रकाशत इति सर्वजनसिद्धम् ; तत्र ज्ञानादीनां ज्ञेयत्वेन जडत्वात् , आत्मप्रकाशेनैव जगत् प्रकाशत इति निश्चितं भवति । आत्मा च स्वपरप्रकाशवान् सवितृप्रकाशवत् — यथा सविता स्वयं प्रकाशमानो जगदपि प्रकाशयति, तथा आत्मापीति । अस्तु तर्हि चिद्धर्मा पुरुषः, कथमयं चित्स्वभाव इति ; न, धर्मधर्मिभावस्य अनुपपत्तेः ॥
तथा हि — आत्मनश्चैतन्यं भिन्नम् , अभिन्नं वा, भिन्नाभिन्नं वा । तत्र न तावद्भिन्नम् ; भिन्नं चेत् , घटवदात्मधर्मत्वानुपपत्तेः । ननु घटः असम्बन्धात् आत्मधर्मो न भवति, चैतन्यं तु आत्मसम्बन्धीति युक्तमात्मधर्मत्वम् इत्यपि न सम्बन्धानुपपत्तेः । सम्बन्धो हि तावत् संयोगो वा समवायो वा स्यात् , सम्बन्धान्तरस्य अत्र असम्भवात् । न तावत्संयोगः, तस्य द्रव्यमात्रधर्मत्वात् , अद्रव्यत्वाच्चैतन्यस्य । नापि समवायः, अनवस्थापातात् । समवायो हि सम्बद्धः समवायिनौ सम्बध्नाति, असम्बद्धो वा ? न तावदसम्बद्धः, घटादिवदकिञ्चित्करत्वात् । सम्बद्धश्चेत् , संयोगादेरभावेन समवायस्यापि समवायान्तरमभ्युपगन्तव्यम् । एवं परम्परापेक्षायाम् अनवस्थापात इति यत्किञ्चिदेतत् । तस्माद्भिन्नत्वपक्षे धर्मधर्मिभावः सर्वथा नोपपद्यते । अभिन्नत्वपक्षे तु बोधस्य आत्मरूपत्वेन सुतरां धर्मधर्मिभावो नास्त्येव । न हि तस्य तदेव धर्मो भवति ; न हि शुक्लं शुक्लस्य धर्मो भवतीति । तस्मात् भिन्नाभिन्नत्वपक्ष एव अवशिष्यते । स च विरोधान्न युज्यते — न ह्येकमेवैकस्मात् भिन्नमभिन्नं च भवितुमर्हति, विरोधात् ।
अथोच्यते — प्रत्यक्षसिद्धत्वात् भेदाभेदौ अविरुद्धौ । तथा हि — गौरियमिति पिण्डाव्यतिरेकेण गोत्वं प्रतीयते ; तदेव पिण्डान्तरे प्रत्यभिज्ञायमानत्वात् भेदेनावगम्यते ; अतः प्रत्यक्षेणैव भेदाभेदयोः प्रतीयमानत्वात् अविरोध इति — नैतत्साधु मन्यामहे, प्रत्यक्षस्य अन्यथासिद्धत्वात् — भिन्नमपि हि वस्तु प्रत्यक्षेण अत्यन्तसंनिधानादिदोषात् अभिन्नवत्प्रतीयते — यथा दीपज्वाला भिन्नापि कुतश्चित्कारणादभिन्नवत्प्रतिभासन्ते, तथा अभिन्नमपि वस्तु भिन्नमिव प्रतिभासते — यथा एकस्माच्चन्द्राद्वितीयश्चन्द्र इति — अतः प्रत्यक्षस्य अन्यथासिद्धत्वात् न तेन प्रत्यक्षेण प्रमाणसिद्धस्य भेदाभेदविरोधस्य प्रतिक्षेपो युक्त इति ।
अथैवमुच्यते — चैतन्यस्य द्वे रूपे स्तः, आत्मस्वरूपता चैतन्यस्वरूपता चेति । तत्र आत्मस्वरूपतया आत्मनो न भिद्यते ; भिद्यते च चैतन्यस्वरूपतया । अतः उभयरूपाभ्यां भिन्नाभिन्नत्वमविरुद्धमिति — तदपि न, धर्मधर्मित्वाभावात् । तथा हि — येन रूपेण तदभिन्नं न तेन रूपेण धर्मत्वम् अभिन्नत्वादवोचाम । येन रूपेण भिन्नम् , तेनापि न धर्मः, भिन्नत्वाद्घटादिवदित्युक्तम् । यच्चोक्तम् उभयरूपाभ्यां भिन्नाभिन्नत्वमिति, तदपि विचारं न सहते । ते रूपे किं चैतन्याद्भिन्ने, अभिन्ने, भिन्नाभिन्ने वा । तत्र न तावद्भिन्ने, भिन्नत्वे घटादिवदकिञ्चित्करणत्वात् ; अभिन्नत्वे चैतन्यमात्रमेवेति न ताभ्यां भिन्नाभिन्नत्वम् । भिन्नाभिन्नत्वं च विरोधादेव न युक्तम् । तयोरपि रूपान्तराभ्यां भिन्नभिन्नत्वाभ्युपगमे अनवस्थापात इत्यलमतिविस्तरेण । तस्मान्नात्मा सर्वथा चिद्धर्मा ; किं तर्हि ? चित्स्वरूप एवेति । एतेन सदानन्दयोरपि आत्मस्वरूपत्वं व्याख्यातम् ।
नित्यश्च आत्मा, सदकारणवत्त्वात् परमाणुवत् ; सन् आत्मा, अहमस्मीति प्रतीतेः । अकारणवांश्च ; न हि अस्य कारणं वस्तु प्रत्यक्षादिभिरुपलभ्यते, नापि श्रूयते ; किं तु त्रैलोक्यैककारणता हि आत्मनः श्रूयते ‘तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः’ इत्यादिश्रुतिभ्यः । न त्वात्मनोऽपि कारणान्तरम् । अतः सदकारणवत्त्वात् नित्य आत्मेति सिद्धम् । तस्मात् साधूक्तं नित्यबोधस्वरूपमिति । तत्रैव दृष्टान्तमाह — अग्न्युष्णवदिति । यथा उष्णत्वमग्नेर्न व्यतिरिच्यते । व्यतिरेके हि कदाचिदग्नेरन्यत्राप्युपलभ्येत — यथा पुरुषाद्दण्डादि ; न चैवमस्ति ; तस्मादग्निस्वरूपमेव अग्नेरुष्णत्वम् । एवमात्मनोऽपि चैतन्यं स्वरूपमेवेत्यर्थः । तथा च उक्तम् — ‘निरंशत्वाद्विभुत्वाच्च तथानश्वरभावतः । ब्रह्मव्योम्नोर्न भेदोऽस्ति चैतन्यं ब्रह्मणोऽधिकम्’ इति । यच्चोक्तं मनश्चक्षुरादीनां प्रवृत्तौ किमर्थमधिष्ठाता इष्यते, स्वयमेव कस्मान्न प्रवर्तन्ते इति, तत्राह — अबोधात्मकानीति । हेतुगर्भमिदं विशेषणम् ; अतश्च अयमर्थः सेत्स्यति — अबोधात्मकत्वात् अचेतनत्वाच्च घटादिवच्चेतनमधिष्ठातारमाश्रित्यैव प्रवर्तन्त इति । तदचेतनत्वं चैषां तज्ज्ञेयत्वात् घटादिवदिति । श्रुतिरपि ‘नान्योऽतोऽस्ति द्रष्टा’ इत्यादिना आत्मव्यतिरिक्तस्य चेतनत्वं प्रतिषेधति । अतो युक्तमुक्तं चेतनमात्मानमाश्रित्य प्रवर्तन्त इति । निष्कम्पं निस्तरङ्गं निःसंशयमित्यर्थः । तथा च श्रुतिः ‘भिद्यते हृदयग्रन्थिश्च्छिद्यन्ते सर्वसंशयाः क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे’ इति । एकम् अद्वितीयं देवतिर्यङ्मनुष्यादिशरीरेषु एकम् , न तु साङ्ख्यादिपरिकल्पितवत् नानाभूतमित्यर्थः ॥
ननु आत्मन एकत्वे सुखदुःखादिव्यवस्था न स्यात् । तथा हि — सर्वशरीरेषु यदि एक आत्मा भवेत् तदा एकस्मिन् सुखिनि सर्व एव सुखिनः प्रसज्येरन् , सर्वस्य अविशेषात् ; एकमेकस्मिन् दुःखिनि सर्व एव दुःखिनो भवेयुः ; एवमेकस्मिञ्जानति सर्व एव जानीयुः ; तथैव एकस्मिञ्जायमाने म्रियमाणे वा सर्व एव जायेरन् म्रियेरन् ; एवमेकस्मिन्बद्धे मुक्ते वा सर्व एव बद्ध्येरन् मुच्येरन् इति । न चैवमस्ति । तस्मादेकत्वमात्मनो न भवितुमर्हति इत्यत आह —
मुखाभासको दर्पणे दृश्यमानो
मुखत्वात्पृथक्त्वेन नैवास्ति वस्तु ।
चिदाभासको धीषु जीवोऽपि तद्व —
त्स नित्योपलब्धिस्वरूपोऽहमात्मा ॥ ३ ॥
मुखाभासकः मुखप्रतिबिम्बः दर्पणादौ नानाकारेषु दर्पणेषु इति यावत् दृश्यमानः मुखत्वात् परमार्थतः मुखस्वरूपत्वात् पृथक्त्वेन भेदेन न विद्यते । यद्यपि मुखाभासको नाम वस्तु नास्त्येव, तथापि उपाधिभेदात् परमार्थसतो मुखात् परस्परं च ते मुखाभासका भिन्नाः प्रतीयन्ते । तथा च उपाधिगतमलिनत्वादिधर्मैः मलिनत्वादिधर्मकाः प्रतीयन्ते । तद्वत् मुखाभासकवत् चिदाभासकः आत्मनः प्रतिबिम्बो धीषु बुद्धिषु दृश्यमानो जीव इत्युच्यते यः, सोऽहमात्मा जीवास्ते उपाधिभेदात् भिन्नाः प्रतिभासन्ते । उपाधिगतसुखदुःखादिभिश्च सुखदुःखादिमन्तश्च प्रतिभासन्ते । उपाधयश्च व्यवस्थितरूपा एवेति सुखदुःखादीनामैकात्म्यपक्षे व्यवस्था युक्तैवेति नायमात्मभेदः शक्यो व्यवस्थापयितुम् । श्रुतिश्चैकात्म्यमेव प्रतिपादयति — ‘एकमेवाद्वितीयं ब्रह्म’ इति । आत्मभेदपक्षं तु इयं सुखदुःखादिव्यवस्था नोपपद्यते । तथा हि — प्रतिशरीरम् आत्मानो भिन्नाः ते च सर्वे प्रत्येकं सर्वगता इति आत्मभेदवादिनो मन्यन्ते । तत्र सर्वेषां सर्वगतत्वात् सर्वसंनिधौ सुखादिकमुत्पद्यमानं विशेषहेतोरभावात् कथमेकस्यैव तत् सुखादिकम् , न सर्वेषाम् इत्यवधारयितुं शक्यते । अथ यत्सम्बन्धिना कार्यकरणसङ्घातेन सुखादिकं जन्यते, तस्यैव तदित्यभिधीयते इति ; तन्न, कार्यकरणसङ्घातस्यापि सर्वात्मसंनिधावुत्पद्यमानस्य विशेषहेतोरभावादेव कथमेकात्मसम्बन्धित्वमिति । अथ यत्कर्मवशात्कार्यकरणसङ्घातस्योत्पत्तिः, तस्यैव असौ कार्यकरणसङ्घात इति विशेषहेतुरिति चेत् ; न, कर्मणोऽपि सर्वात्मसंनिधावुत्पद्यमानस्य सर्वात्मसम्बन्धित्वेन तज्जनितकार्यकरणसङ्घातस्यापि सर्वात्मसम्बन्धित्वात् तज्जनितस्य सुखदुःखादेरपि सर्वात्मसम्बन्धित्वमिति सुखादिकस्य नानात्मपक्ष एव न व्यवस्थितिः । पूर्वपुर्वकार्यकरणसङ्घातस्य कर्मापेक्षायां च अनवस्थादोषः । अनादित्वेन अनवस्थादोषपरिहारश्च अन्धपरम्परेति । श्रुतिरपि नानात्मपक्षं प्रतिषेधति — ‘नेह नानास्ति किञ्चन’ इति । अतः साधूक्तम् एकमिति ॥
नन्वेवं सति आत्मनः सुखदुःखादिसम्बन्धाभावात् बन्धो नास्ति ; बन्धाभावाच्च मोक्षाभावः ; बद्धो हि मुच्यते नाबद्ध इति ; तथा चिदाभासस्यापि बन्धमोक्षौ न विद्येते, अवस्तुत्वात् ; तस्य बुद्धेरपि विनाशित्वात् बन्धमोक्षयोरभावः ; ततश्च मोक्षशास्त्रमनर्थकमापन्नम् इत्यत आह —
यथा दर्पणाभाव आभासहानौ
मुखं विद्यते कल्पनाहीनमेकम् ।
तथा धीवियोगे निराभासको यः
स नित्योपलब्धिस्वरूपोऽहमात्मा ॥ ४ ॥
यथा दर्पणाभावे सति आभासस्य मुखप्रतिबिम्बस्य हानौ सत्यां मुखं परमार्थसत् कल्पनाहीनं मिथ्याज्ञानरहितम् एकमेव परं नापरं विद्यते, तथा तेनैव प्रकारेण धीवियोगे बुद्धेरभावे निराभासको अप्रतिबिम्बः परमार्थतः सन् एक एव यः, सोऽहमात्मेति योजना । अयमभिप्रायः आत्माज्ञानकृतोऽयं बुद्ध्यादिप्रपञ्चः । तत्र बुद्ध्यादौ प्रतिबिम्बरूपेण आत्मानमध्यस्य तद्गतसुखदुःखादिकम् आत्मन्यध्यस्यति । सोऽयमध्यासो बन्धः । आत्मज्ञानेन अज्ञाननिवृत्त्या बुद्ध्यादिप्रपञ्चनिवृत्तौ अध्यासनिवृत्तिर्मोक्षः । न पुनः पारमार्थिकौ बन्धमोक्षौ अस्य विद्येते इति सर्वं समञ्जसमिति ॥
केचित् बुद्ध्यादीनामात्मत्वं मन्यन्ते ; तान्प्रत्याह —
मनश्चक्षुरादेर्वियुक्तः स्वयं यो
मनश्चक्षुरादेर्मनश्चक्षुरादिः ।
मनश्चक्षुरादेरगम्यस्वरूपः
स नित्योपलब्धिस्वरूपोऽहमात्मा ॥ ५ ॥
मनश्चक्षुरादेः मनआदेः चक्षुरादेश्च वियुक्तः पृथग्भूतः यः सोऽहमात्मेति सम्बन्धः । मनश्चक्षुराद्युपादानेन तदन्तर्गतत्वात् शरीरमपि उपात्तं द्रष्टव्यम् । एतेन शरीरादपि वियुक्त इति लक्ष्यते । तथा च गुरुः — ‘बुद्धीन्द्रियशरीरेभ्यो भिन्न आत्मा विभुर्ध्रुवः । नानारूपः प्रतिक्षेत्रमात्मा वृत्तिषु भासते’ इति कथं मनश्चक्षुरादिकस्य प्रकाशकस्य उपरि अयमात्मा प्रकाशकः, मनआदेः चक्षुरादेः कथं वियुक्तः इत्यत आह — स्वयमिति । स्वयं य आत्मा मनश्चक्षुरादेः मनश्चक्षुरादिः मनश्चक्षुरादिकस्य प्रकाशकस्य मनश्चक्षुरादिः प्रकाशकः, प्रकाशकत्वगुणयोगात् ; अयमर्थः — यथा बाह्यस्य घटादेः प्रकाशको मनश्चक्षुरादिः ततो व्यतिरिच्यते, तथा, आन्तरस्यापि मनश्चक्षुरादेः प्रकाशकः आत्मा ततो व्यतिरिच्यत इति निश्चीयते । अत एव मनश्चक्षुरादीनाम् अनात्मत्वमिति सिद्धं ज्ञेयादन्यो ज्ञाता भवति । ननु आत्मनोऽपि ज्ञेयत्वात् अनात्मत्वं प्रसज्यते इत्यत आह — मनश्चक्षुरादेरगम्यस्वरूपः प्रकाशस्वभावः । तथा च श्रुतिः — ‘यतो वाचो निवर्तन्ते अप्राप्य मनसा सह’ इति ॥
ननु यद्यात्मा मनश्चक्षुरादेरगम्यः कथं तर्हि अस्य सिद्धिः ? घटपटादयो हि मनश्चक्षुराद्यधीनसिद्धयो दृष्टाः । ततः आत्मनोऽपि तदधीनसिद्धिर्युक्ता । यदा तस्य तदधीना सिद्धिर्न भवति, तदा अस्य सिद्धिरेव न स्यात् शशविषाणवत् इत्यत आह —
य एको विभाति स्वतः शुद्धचेताः
प्रकाशस्वरूपोऽपि नानेव धीषु ।
शरावोदकस्थो यथा भानुरेकः
स नित्योपलब्धिस्वरूपोऽहमात्मा ॥ ६ ॥
य इति स्वतःसिद्धतामाह । एकः अद्वितीयः विभाति विशेषेण प्रकाशते स्वतः स्वयमेव न परतः शुद्धं निर्मलं चेतो मनो यस्य सः स्वतःशुद्धचेताः ; शुद्धचित्तस्य हि आत्मा स्वयमेव स्फुरतीत्यर्थः । अत एव सत्त्वशुद्ध्यर्थं वेदेऽपि वेदानुवचनादयो विहिताः — ‘तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसानाशकेन’ इति । घटपटादयश्च जडत्वात् प्रकाशान्तरापेक्षत्वाच्च न प्रकाशन्त इति युक्तम् । आत्मा तु प्रकाशस्वरूपत्वात् प्रकाशान्तरानपेक्षः प्रकाशते सवितृवत् — यथा सविता स्वप्रकाशः प्रकाशान्तरं नापेक्षते अथ च प्रकाशते, तद्वदात्मापीति भावः । एवमुत्पन्नात्मज्ञानो अद्वयो जीवन्मुक्तः स्वयं प्रकाशरूपोऽपि परमार्थतो नानाविधासु धीषु उपाधिषु नानेव भाति यः, सोऽहमात्मेति सम्बन्धः । शरावोदकेषु उपाधिषु अवस्थितो भानुः आदित्यः प्रकाशस्वरूपोऽपि एक एव सन् नानेव भाति, तद्वदात्मापीति भावः ।
ननु कथं जीवन्मुक्तः ? देहवांस्तावत् जीवन्नित्युच्यते ; तस्य जीवतोऽपि यदि देहाभावो मुक्तिरभिप्रेयते, नासावुपपद्यते, विरोधात् । न हि जीवतो देहाभावः सम्भवति । अथ सत्यपि देहे भोगविच्छेदो मुक्तिरिति, तदपि च चतुरश्रम् । सकलभोगकारणेन्द्रियसम्पत्तौ भोगविच्छेदस्य असम्भावितत्वात् । मिथ्याज्ञाननिबन्धनो हि भोगः ; तस्य च संयग्ज्ञानेन निवृत्तत्वात् भोगविच्छेद इति चेत् ; न, बाधितस्यापि मिथ्याज्ञानस्य द्विचन्द्रादिज्ञानवत् अनुवृत्त्यभ्युपगमात् । अन्यथा देहवानेव न स्यात् अत एव विदुषां जनकादीनां राज्यादिकं श्रूयते । श्रुतिरपि देहवतो भोगविच्छेदं प्रतिषेधति — ‘न ह वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्ति’ इति । तस्मादयुक्ता जीवन्मुक्तिरिति ।
अत्रोच्यते — जीवतस्तावत् तत्त्वज्ञानमुत्पद्यते न तु मृतस्य ; शमदमादेः श्रवणमननादेश्च ज्ञानहेतोः मृतस्यासम्भवात् । अत एव हि विदुषां याज्ञवल्क्यादीनां संन्यासः श्रूयते । न च मृतस्य संन्यासः श्रूयते सम्भवति वा । तस्मात् जीवतस्तत्त्वज्ञानमुत्पद्यत इति सिद्धम् । आत्मज्ञानादेव मुक्तिरिति सिद्धा जीवन्मुक्तिः ‘स यो ह वै तत्परमं ब्रह्म वेद ब्रह्मैव भवति’ ‘ब्रह्मविदाप्नोति परम्’ इत्यादिश्रुतिभ्यः । ननु ज्ञानस्य मोक्षफलकत्वे श्रुतिषु सहकार्यन्तरं प्रतीयते इति चेत् , न, ज्ञानमात्रस्य श्रवणात् — ‘भिद्यते हृदयग्रन्थिः’ इति ; ‘नान्यः पन्था विद्यतेऽयनाय’ इति सहकार्यन्तरप्रतिषेधाच्च । ननु श्रुतिरेव मरणसहकारिणो ज्ञानान्मोक्षं दर्शयति ‘तस्य तावदेव चिरं यावन्न विमोक्ष्ये अथ सम्पत्स्ये’ इति ; न, पूर्वोत्पन्नस्य ज्ञानस्य चिरप्रवृत्तत्वात् मरणकाले तस्य संनिधापयितुमशक्तेः । तत्कालमेवोत्पन्नात् ज्ञानान्तरान्मुक्तिरिति चेत् , न, ‘यदेव भगवान्वेद तदेव मे ब्रूहि’ इति ‘आचार्यवान्पुरुषो वेद’ इत्यादिश्रुतिपर्यालोचनया प्रथमज्ञानादेव मुक्तेः श्रूयमाणत्वात् । एतेन वचनान्तरमनुगृहीतं भवति — जीवन्नेव हि विद्वान् हर्षमर्षाभ्यां विमुच्यते इति । न च ‘न ह वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्ति’ इति श्रुत्यन्तरविरोधो वाच्यः, श्रुत्यन्तरस्य सामान्यविषयत्वात् , अत्र ‘विद्वान्’ इति विशेषनिर्देशात् । ‘तस्य तावदेव चिरम्’ इति श्रुतिस्त्यक्ता स्यादिति चेत् , न, व्यवस्थया उपपत्तेः । तथा हि — मुक्तिः खलु स्वाभाविकी सर्वेषाम् , न सा ज्ञानेन जन्यते । किं तर्हि ? अविद्यातिमिरतिरोहिताया मुक्तेः तिमिरमात्रं निराक्रियते । तच्च प्रथमज्ञानेनैव निराकृतम् । तथापि अविद्याकार्यस्य देहस्य अविनाशात् पुनःपुनः महान्धकारवदुत्सारितमपि तिरस्करोति । तस्य तिरस्कारप्रतिभासस्य देहविच्छेदाद्विच्छेदो भवति । एवं च सति प्राचीनमेव महान्धकारोत्सारणं ज्ञानमात्रनिबन्धनमवतिष्ठते — यथा सूर्योदयेन महातिमिरोत्सारणे कृतेऽपि छत्रादिकृतस्य तिमिराभासस्य छत्रादिविगमे विगमः । ततश्च प्राचीनमेव महातिमिरोत्सारणं सूर्योदयमात्रनिबन्धनमवतिष्ठत इति । तस्मात् न ज्ञानान्तरान्मुक्तिः । अपि तु पूर्वोत्पन्नज्ञानादेव मुक्तिरिति सिद्धम् ।
ननु यदि पारमार्थिकम् अद्वैतं मिथ्याज्ञानविजृम्भितश्च प्रपञ्च इति श्रुत्यर्थो अवधारितः, तत्कथं सत्यपि बाधके प्रपञ्चानुवृत्तिः ; न हि सत्येव शुक्तिकाज्ञाने रजतादिप्रपञ्चो अनुर्तते ; उच्यते — ‘नेति नेति न ह्येतस्मादिति नेत्यन्यत्परमस्ति’ ‘नेह नानास्ति किञ्चन’ इत्यादिवाक्यसहितात् तत्त्वमस्यादिवाक्यात् प्रपञ्चविलयद्वारेण असन्दिग्धमबाधितं च अद्वैतज्ञानं तावदुत्पद्यते । न च तत् प्रपञ्चप्रत्ययेन बाध्यत इति युक्तम् , तत्प्रविलयेनैव उत्पत्तेः ।
यत्पुनरुक्तं कथं प्रपञ्चप्रत्ययानुवृत्तिरिति, अत्रोच्यते — द्विविधं हि बाधकं भवति — यथा सत्येव मिथ्याज्ञानहेतुभूते पित्तादौ जाग्रत्येव पीतः शङ्खः इति ज्ञाने निमित्तान्तरात् नायं पीत इति मिथ्याज्ञानकारणापगमे, वा यथा मन्दालोकप्रभवस्य शुक्तिकारजतज्ञानस्य महत्यालोके नेदं रजतमिति ज्ञानम् , तद्वदिहापि पीतः शङ्ख इति ज्ञानबाधकवत् सत्येव मिथ्याज्ञाने हेतुभूते शरीरे प्रपञ्चप्रत्ययस्य बाधकमद्वैतज्ञानमुत्पद्यते । अत एव स्वकारणाद्बाधितमपि प्रपञ्चज्ञानं पीतशङ्खज्ञानवत् पुनः पुनः जायत इति । ननु देहस्यापि प्रपञ्चान्तर्गतत्वात् उच्छित्तिरेव प्रसज्यते इति चेत् ; न, प्रारब्धकर्मवशात् अनुवृत्तेः । कर्मणश्च कुलालचक्रभ्रमणवत्संस्कारादनुवृत्तिरिति सिद्धा जीवन्मुक्तिरिति । कर्मसंस्कारक्षयश्च देहपाते सति सर्वस्यैव प्रपञ्चप्रत्ययस्यापि प्रविलयः । कर्मान्तराणां च ज्ञानेन क्षपितत्वात् देहान्तरानुत्पत्तिरिति परममुक्तिः ।
एवं च सति ज्ञानमात्रान्मुक्तिरिति प्रतिपादनादेव कर्मणो मुक्तिहेतुत्वमपास्तं वेदितव्यम् । तथा हि — न तावत्केवलात्कर्मणो मुक्तिश्रवणात् । नापि तत एव ज्ञानसहितात् , अश्रुतेरेव । ननु ‘तं विद्याकर्मणी समन्वारभेते पूर्वप्रज्ञा च’ इति विद्याकर्मणोः सहभावः श्रूयते ; सत्यम् , संसारविषयं तच्छ्रवणं न मुक्तिविषयम् इति । ‘यावज्जीवमग्निहोत्रं जुहोति’ इत्यादिचोदनाप्राप्तानां नित्यनैमित्तिककर्मणां ज्ञानस्य च अर्थात्समुच्चय इति चेत् ; न, विनियोजकप्रमाणाभावात् । ‘तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसानाशकेन’ इत्यत्र तृतीयाश्रुतिः विनियोजिका इति चेत् ; न, विविदिषासम्बन्धात् कर्मणां ज्ञानार्थत्वप्रतीतेः मोक्षार्थत्वं नावगम्यते इति । किं च, न हि ज्ञानम् अज्ञाननिवृत्तौ उपकारकमपेक्षते, उत्पन्नादेव तस्मात् अज्ञाननिवृत्तेरवश्यम्भावात् । तथा च श्रुतिः — ‘तमेव विदित्वातिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय’ इति । अपि च यदि कर्मफलं मोक्षो भवेत् , तदा अनित्यत्वं प्रसज्यते घटादिवत्स्वर्गादिवच्चेति । अमुमेवार्थं श्रुतिरप्याह — तद्यथेह कर्मचितो लोकः क्षीयते एवमेवामुत्र पुण्यचितो लोकः क्षीयते’ इति । ‘अग्निहोत्रादि तु तत्कार्यायैव’ इति सूत्रकारेण परम्परया कर्मणां मुक्तिहेतुत्वमभिहितं प्रयाजादिवत् । अतः ज्ञानार्थत्वेन कर्मणामुपयोगोऽस्त्येव । ज्ञानोत्पत्तेस्तु परं कर्मणामुपयोगाभावेऽपि लोकसङ्ग्रहार्थमनुष्ठानं कर्तव्यमेवेति सर्वं समञ्जसम् ॥
ननु कथम् एक एव आत्मा युगपत् अनेकां बुद्धिम् अधितिष्ठति ? न ह्येक एव अश्वसादी युगपदनेकानश्वानधितिष्ठन्नुपलभ्यते । क्रमेण त्वधिष्ठानं युक्तम् । तच्चेह नास्ति ; युगपदेव सर्वबुद्धीनां स्वव्यापारे प्रवृत्तिदर्शनात् । अनधिष्ठितानां च प्रवृत्त्यसम्भवाच्च । अतः नैक आत्मा इत्यत आह —
यथानेकचक्षुःप्रकाशो रविर्न
क्रमेण प्रकाशीकरोति प्रकाश्यम् ।
अनेका धियो यस्तथैकप्रबोधः
स नित्योपलब्धिस्वरूपोऽहमात्मा ॥ ७ ॥
यथा येन प्रकाशकत्वप्रकारेण रविः आदित्यः एक एव अनेकेषां चक्षुषां प्रकाशको युगपदेव अनेकानि चक्षूंषि अधितिष्ठति न च क्रमेण एकैकस्मै चक्षुषे प्रकाश्यं प्रकाशीकरोति, तथा तेनैव प्रकारेण एकश्चासौ प्रबोधश्च एकप्रबोधः सः अधिष्ठाता अनेका धियो बुद्धीः युगपदधितिष्ठति न क्रमेणैकैकस्यै धियै प्रकाश्यं प्रकाशीकरोति यः सोऽहमात्मेति सम्बन्धः ॥
नन्वस्तु तर्हि रविरेव बुद्धीनां प्रेरकः अधिष्ठाता, किमात्माभ्युपगमेन ? तथा च श्रुतिः — ‘धियो यो नः प्रचोदयात्’ इति, अत आह —
विवस्वत्प्रभातं यथारूपपक्षं
प्रगृह्णाति नाभातमेवं विवस्वान् ।
यदाभात आभासयत्यक्षमेकः
स नित्योपलब्धिस्वरूपोऽहमात्मा ॥ ८ ॥
विवस्वता सूर्येण प्रभातं प्रकाशितं रूपं यथा येन प्रकारेण अक्षं चक्षुः प्रगृह्णाति प्रकर्षेण जानाति, नाभातं न अप्रकाशितम् , अन्धकारे घटाद्यनुपलम्भात् एवं विवस्वानपि एकः तथा तेनैव प्रकारेण यदाभातः येनाधितिष्ठितः सन् आभासयति अधितिष्ठति अक्षं यथा विवस्वान् अधिष्ठाता, तथा विवस्वतोऽप्यधिष्ठाता यः, सोऽहमात्मेति सम्बन्धः । स चाहम्बुद्धीनामधिष्ठाता ; श्रुत्या तु चक्षुरधिष्ठातृत्वमभिप्रेत्य विवस्वतो बुद्धिप्रेरकत्वमभिहितम् । यस्माद्विवस्वदधिष्ठितं चक्षुः बुद्धिवृद्धिमुत्पादयति ; अधिष्ठातुरात्मनो वा स्वरूपमभिप्रेत्योक्तः ; तथा च 'सूर्य आत्मा जगतस्तस्थुषश्च’ इति । नन्वपि तर्हि प्रकाशान्तरेणैव अधिष्ठातव्यम् , न, तस्य स्वप्रकाशत्वात् । ‘नान्यदतोऽस्ति द्रष्टा’ इति च श्रुत्या तदितरप्रतिषेधाच्च ॥
किं च —
यथा सूर्य एकोऽप्स्वनेकश्चलासु
स्थिरास्वप्यनन्वग्विभाव्यस्वरूपः ।
चलासु प्रभिन्नासु धीष्वेवमेकः
स नित्योपलब्धिस्वरूपोऽहमात्मा ॥ ९ ॥
यथा येन प्रकारेण आदित्यः एकः अप्सु वारिषु चलासु स्थिरासु च अनेकोऽपि नानापि एकः सन् प्रतिभासते अनन्वग्विभाव्यस्वरूपः अनु पश्चात् अञ्चति गच्छतीति अन्वक् न अन्वक् अनन्वक् अननुगत इति यावत् । यद्वा अनन्वक्त्वेन विभाव्यं स्वरूपं यस्य स तथोक्तः । एवं बहुव्रीहिसमासं कृत्वा पश्चात् नञ्समासः । ततश्चायमर्थो भवति — न वारिषु रविरनुगतो भवति । किं तर्हि तथैव नभसि देदीप्यमानो भ्रान्त्या वारिषु दृश्यत इत्यर्थः । एवं एक आत्मा चलासु प्रभिन्नासु नानाभूतासु धीषु बुद्धिषु अनेकः सन् अनन्वग्विभाव्यस्वरूपो न बुद्धीरनुगतो भवति । किं तर्हि, पृथगेव देदीप्यते यः सोऽहमात्मेत्यर्थः ॥
किं च —
घनच्छन्नदृष्टिर्घनच्छन्नमर्कं
यथा निष्प्रभं मन्यते चातिमूढः ।
तथा बद्धवद्भाति यो मूढदृष्टेः
स नित्योपलब्धिस्वरूपोऽहमात्मा ॥ १० ॥
>घनेन मेघेन छन्ना तिरोहिता दृष्टिः दर्शनं यस्य सः घनच्छन्नदृष्टिः पुरुषः घनच्छन्नम् अर्कम् आदित्यं यथा येन घनच्छन्नत्वप्रकारेण मन्यते जानाति निष्प्रभं प्रभारहितम् अप्रकाशस्वभावमिति यावत् । मूढो मन्यते घनच्छन्नदृष्टित्वात् प्रकाशस्वभावमपि रविम् अप्रकाशं पश्यतीत्याह — अतिमूढ इति । अतिमूर्खत्वात् स्वात्मनो दृष्टिविघातमगणयन् सूर्यमेव अप्रकाशं मन्यते । पादपूरणे चकारः । तथा तेन प्रकारेण अविद्याच्छन्नदृष्टिः बुद्धिमात्मत्वेन गृहीत्वा तद्गतदुःखादिकम् आत्मन्यध्यारोप्य बद्ध इव आभाति यः मूढदृष्टेः सोऽहमात्मेति सम्बन्धः ॥
किं च —
समस्तेषु वस्तुष्वनुस्यूतमेकं
समस्तानि वस्तूनि यं न स्पृशन्ति ।
वियद्वत्सदा शुद्धमच्छस्वरूपः
स नित्योपलब्धिस्वरूपोऽहमात्मा ॥ ११ ॥
समस्तेषु निरवशेषेषु प्रपञ्चात्मकेषु सदात्मना अनुस्यूतम् अनुगतं व्याप्तम् एवं हि नाना समस्तानि वस्तूनि प्रपञ्चात्मकानि यं सद्रूपं न स्पृशन्ति । कुतः ? वियद्वत् आकाशमिव सदा सर्वदा शुद्धं निर्मलं रागादिदोषरहितम् अच्छस्वरूपम् अमृतरूपं यत् परं ब्रह्म सोऽहमात्मेति सम्बन्धः ॥
व्युत्पादितमर्थमुपसंहरति —
उपाधौ यथा भेदता सन्मणीनां
तथा भेदता बुद्धिभेदेषु तेऽपि ।
यथा चन्द्रिकाणां जले चञ्चलत्वं
तथा चञ्चलत्वं तवापीह विष्णो ॥ १२ ॥
उपाधौ सति उपाधिभेदसम्बन्धे सति यथा भेदता भेद एव भेदता, स्वार्थे तल् , सन्मणीनां विशुद्धमणीनां स्फटिकादीनां लोहितकृष्णादिभेदेन भेदता भेदः । तथा बुद्धिभेदेषु नानाबुद्धिषु ते तवापि नानात्वं हे विष्णो परमार्थतस्तु तव भेदो नास्त्येव बुद्ध्युपाधिकृतस्तु विद्यत इत्यर्थः । यथा चन्द्रिकाणां चन्द्रा एव चन्द्रिकाः, स्वार्थे कप्रत्ययः, निर्मलितानां जले प्रतिबिम्बितस्वरूपेण दृश्यमानानां जलस्य चञ्चलत्वात् चञ्चलत्वम् औपाधिकं न पारमार्थिकम् , तथा बुद्धीनां चञ्चलत्वात् तवापि चञ्चलत्वमौपाधिकं न पारमार्थिकमित्यर्थः । इह बुद्धिषु हे विष्णो व्यापनशील ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छङ्करभगवतः कृतौ
हस्तामलकीयभाष्यं सम्पूर्णम् ॥