आनन्दज्ञानविरचिता

आनन्दगिरिटीका

पदच्छेदः पदार्थोक्तिर्विग्रहो वाक्ययोजना ।
आक्षेपोऽथ समाधानं व्याख्यानं षड्विधं मतम् ॥

आनन्दगिरिटीका

दृष्टिं मयि विशिष्टार्थां कृपापीयूषवर्षिणीम् ।
हेरम्ब देहि प्रत्यूहक्ष्वेडव्यूहनिवारिणीम् ॥ १ ॥ यद्वक्त्रपङ्केरुहसम्प्रसूतं निष्ठामृतं विश्वविभागनिष्ठम् ।
साध्येतराभ्यां परिनिष्टितान्तं तं वासुदेवं सततं नतोऽस्मि ॥ २ ॥ प्रत्यञ्चमच्युतं नत्वा गुरूनपि गरीयसः ।
क्रियते शिष्यशिक्षायै गीताभाष्यविवेचनम् ॥ ३ ॥

कर्मनिष्ठाज्ञाननिष्ठेत्युपायोपेयभूतं निष्ठाद्वयमधिकृत्य प्रवृत्त गीताशास्त्रं व्याचिख्यासुर्भगवान् भाष्यकारो विघ्नोपप्लवोपशमनादिप्रयोजनप्रसिद्धये प्रामाणिकव्यवहारप्रमाणकमिष्टदेवतातत्त्वानुस्मरणं मङ्गलाचरणं सम्पादयन् अनवशेषेणेतिहासपुराणयोर्व्याचिख्यासितगीताशास्त्रेणैकवाक्यतामभिप्रेत्य पौराणिकश्लोकमेवान्तर्यामिविषयमुदाहरति –

नारायण इति ।

'आपो नारा इति प्रोक्ता आपो वै नरसूनवः ।
अयनं तस्य ताः पूर्वं तेन नारायणः स्मृतः ॥ ‘ [मनुः १.१०] इति स्मृतिसिद्धः स्थूलदृशां नारायणशब्दार्थः । सूक्ष्मदर्शिनः पुनराचक्षते – नरशब्देन चराचरात्मकं शरीरजातमुच्यते । तत्र नित्यसन्निहिताश्चिदाभासा जीवा नारा इति निरुच्यन्ते । तेषामयनमाश्रयो नियामकोऽन्तर्यामी नारायण इति । यमधिकृत्यान्तर्यामिब्राह्मणं श्रीनारायणाख्यं मन्त्राम्नायं चाधीयते । तदनेन शास्त्रप्रतिपाद्यं विशिष्टं तत्त्वमादिष्टं भवति ।

ननु परस्याऽऽत्मनो मायासम्बन्धादन्तर्यामित्वं शास्त्रप्रतिपाद्यत्वं च वक्तव्यम् । अन्यथा कूटस्थासङ्गाविषयाद्वितीयस्य तदयोगात् । तथा च शुद्धतासिद्धौ कथं यथोक्ता परदेवता शास्त्रादावनुस्मर्यते ? शुद्धस्य हि तत्त्वस्यानुस्मरणमभीष्टफलवदभीष्टम् । तत्राह –

परोऽव्यक्तादिति ।

अव्यक्तम् अव्याकृतं मायेत्यनर्थान्तरम् । तस्मात् परो – व्यतिरिक्त स्तेनासंस्पृष्टोऽयं परः, ‘अक्षरात् परतः परः’ (मु. उ. २-१-२) इति श्रुतेर्गृहीतः । तत्त्वतो मायासम्बन्धाभावेऽपि कल्पनया तदीयसङ्गतिमङ्गीकृत्यान्तर्यामित्वादिकमुन्नेयम् ।

यस्मादीश्वरस्य व्यतिरेको विवक्षितस्तस्मिन्नव्यक्ते साक्षिसिद्धेऽपि, कार्यलिङ्गकमनुमानमुपन्यस्यति –

अण्डमिति ।

अपञ्चीकृतपञ्चमहाभूतात्मकं हैरण्यगर्भं तत्त्वमण्डमित्यभिलप्यते । तदव्यक्तात् पूर्वोक्तादुत्पद्यते । प्रसिद्धा हि श्रुतिस्मृतिवादेषु हिरण्यगर्भस्य मूलकारणादुत्पत्तिः । तथा च कार्यलिङ्गादव्यक्तादभिव्यक्तिरित्यर्थः ।

हिरण्यगर्भे श्रुतिस्मृतिसमधिगतेऽपि कार्यलिङ्गकमनुमानमस्तीति मन्वानो विराडुत्पत्तिमुपदर्शयति –

अण्डस्येति ।

उक्तस्याण्डस्य हिरण्यगर्भाभिधानीयस्यान्तरिमे भूरादयो लोका विराडात्मका वर्तन्ते । कार्यं हि कारणस्यान्तर्भवति । तेन हिरण्यगर्भान्तर्भूता भूरादयो लोका विराडात्मानस्तेन सृष्टा इति तल्लिङ्गाद्धिरण्यगर्भसिद्धिरित्यर्थः ।

लोकानेव पञ्चीकृतपञ्चमहाभूतात्मकविराडात्मत्वेन व्युत्पादयति –

सप्तद्वीपेति ।

‘सा पृथिव्यभवत्‘ [बृ.उ. १.२.२] इति श्रुतौ विराजो जन्म सङ्कीर्तितमित्यङ्गीकारादशेषद्वीपोपेता पृथिवीत्यनेन सर्वलोकात्मको विराडेवोच्यते । चशब्देन विराजो हि हिरण्यगर्भे पूर्वोक्ताण्डात्मन्यन्तर्भावात् , ततः सम्भवोऽनुकृष्यते । परमात्मा हि स्वाज्ञानद्वारा जगदशेषमुत्पाद्य स्वात्मन्येवान्तर्भाव्याखण्डैकरससच्चिदानन्दात्मना स्वे महिम्नि तिष्ठतीत्यर्थः । अत्र च नारायणशब्देनाभिधेयमुक्तम् । नरा एव नारा जीवाः, त्वम्पदवाच्याः, तेषामयनमधिष्ठानं तत्पदवाच्यं परं ब्रह्म । तथा च कल्पितस्याधिष्ठानातिरिक्तस्वरूपाभावाद्वाच्यस्य कल्पितत्वेऽपि लक्ष्यस्य ब्रह्ममात्रत्वाद्ब्रह्मात्मैक्यं विषयोऽत्र सूच्यते । तेनार्थाद्विषयविषयिभावः सम्बन्धोऽपि ध्वनितः । परोऽव्यक्तादित्यनेन मायासंस्पर्शाभावोक्त्या सर्वानर्थनिवृत्त्या परमानन्दाविर्भावलक्षणो मोक्षो विवक्षितः । तेन च तत्कामस्याधिकारो द्योतितः । परिशिष्टेन तु, शब्देन वस्तुनो वास्तवमद्वितीयत्वमावेदितम् । तेन च वस्तुद्वारा परमविषयवं तज्ज्ञाननिष्ठायास्तदुपायभूतकर्मनिष्ठायाश्चावान्तरविषयत्वमित्यर्थादुक्तमित्यवधेयम् ॥ १ ॥

ननु नैवं साध्यसाधनभूतं निष्ठाद्वयमत्र भगवता प्रतिपाद्यते, भूमिप्रार्थितेन ब्रह्मणाऽभ्यर्थितस्य भगवतो भूमिभारापहारार्थं वसुदेवेन देवक्यामाविर्भूतस्य तादर्थ्येन मध्यमं पृथासुतं प्रथितमहिमानं प्रेरयितुं धर्मयोरिहानूद्यमानत्वात् , अतो नास्य शास्त्रस्य निष्ठाद्वयं परापरविषयभावमनुभवितुमलमिति । तन्न । भगवतो धर्मसंस्थापनस्वाभाव्यध्रौव्याद् धर्मद्वयस्थापनार्थमेव प्रादुर्भावाभ्युपगमाद्भूभारपरिहारस्य चाऽऽर्थिकत्वात् , अर्जुनं निमित्तीकृत्याधिकारिणं स्वधर्मप्रवर्तनद्वारा ज्ञाननिष्ठायामवतारयितुं गीताशास्त्रस्य प्रणीतत्वात् , उचितमस्य निष्ठाद्वयविषयत्वमिति परिहरति –

स भगवान् इत्यादिना धर्मद्वयमर्जुनायोपदिदेश इत्यन्तेन भाष्येण ।

तत्र, नेदं गीताशास्त्रं व्याख्यातुमुचितमाप्तप्रणीतत्वानिर्धारणात् तथाविधशास्त्रान्तरवदित्याशङ्क्य, मङ्गलाचरणस्योद्देश्यं दर्शयन् आदौ शास्त्रप्रणेतुराप्तत्वनिर्धारणार्थं सर्वज्ञत्वादिप्रतिज्ञापूर्वकं सर्वजगज्जनयितृत्वमाह –

स भगवानिति ।

प्रकृतो नारायणाख्यो देवः सर्वज्ञः सर्वेश्वरः समस्तमपि प्रपञ्चमुत्पाद्य व्यवस्थितः । न च तस्यानाप्तत्वम् , ईश्वरानुगृहीतानामाप्तत्वप्रसिद्ध्या तस्य परमाप्तत्वप्रसिद्धेरित्यर्थः ।

ननु भगवता सृष्टमपि चातुर्वर्ण्यादिविशिष्टं हिरण्यगर्भादिलक्षणं जगत् न व्यवस्थितिमास्थातुं शक्यते व्यवस्थापकाभावात् , न च परस्यैवेश्वरस्य व्यवस्थापकत्वं वैषम्यादिप्रसङ्गात् , तत्राह –

तस्य चेति ।

सृष्टस्य जगतो मर्यादाविरहितत्वे शङ्किते तदीयां व्यवस्थां कर्तुमिच्छन् व्यवस्थापकमालोच्य क्षत्रस्यापि क्षत्रत्वेन प्रसिद्धं धर्मं तथाविधमधिगम्य सृष्टवानित्यर्थः ।

सृष्टस्य धर्मस्य साध्यस्वभावतया साधयितारमन्तरेणासम्भावत् तस्यैव तदनुष्ठातृत्वानभ्युपगमात् प्राणिप्रभेदानामधर्मप्रायाणां तदयोगात् कुतस्तदीया सृष्टिरित्याशङ्क्याह –

मरीच्यादीनिति ।

तेषां भगवता सृष्टानां प्रजासृष्टिहेतूनां यागदानादिप्रवृत्तिसाध्यं धर्ममनुष्ठातुमधिकृतानां स्वकीयत्वेन तदुपादानमुपपन्नमित्यर्थः ।

चैत्यवन्दनादिभ्यो विशेषार्थं धर्मं विशिनष्टि –

वेदोक्तमिति ।

ननु नैतावता जगदशेषमपि व्यवस्थापयितुं शक्यते, प्रवृत्तिमार्गस्य पूर्वोक्तधर्मं प्रति नियतत्वेऽपि निवृत्तिमार्गस्य तेन व्यवस्थापनायोग्यत्वात् , तत्राह –

ततोऽन्यांश्चेति ।

निवृत्तिरूपस्य धर्मस्य शमदमाद्यात्मनो गमकमाह –

ज्ञानेति ।

विवेकवैराग्यातिशये शमाद्यतिशयो गम्यते । ततो विवेकादि तस्य गमकमित्यर्थः ।

धर्मे बहुविदां विवाददर्शनाज्जगतः स्थेम्ने कारणीभूतधर्मान्तरमपि स्रष्टव्यमस्तीत्याशङ्क्याह –

द्विविधो हीति ।

अतिप्रसङ्गाप्रसङ्गव्यावृत्तये प्रकृतं धर्मं लक्षयति –

प्राणिनामिति ।

प्रवृत्तिलक्षणो धर्मोऽभ्युदयार्थिनां साक्षादभ्युदयहेतुः, निश्रेयसार्थिनां परम्परया निःश्रेयसहेतुः । निवृत्तिलक्षणस्तु धर्मः साक्षादेव निःश्रेयसहेतुरिति विभागः । ज्ञानस्यैव निःश्रेयसहेतुत्वेऽपि शमादीनां ज्ञानद्वारा मोक्षहेतुत्वं, ज्ञानातिरिक्तव्यवधानाभावाच्च साक्षादित्युक्तम् ।

यद्येवं धर्मो लक्ष्यते, तर्हि वर्णित्वमाश्रमित्वं चोपेक्ष्य सर्वैरेव पुरुषार्थार्थिभिर्द्वावपि धर्मौ यथायोग्यमनुष्ठेयावित्यानुष्ठातृनियमासिद्धिरित्याशङ्क्याह –

ब्राह्मणाद्यैरिति ।

अर्थित्वाविशेषेऽपि श्रुतिस्मृतिपर्यालोचनयाऽनुष्ठानान्नियमसिद्धिरित्यर्थः ।

नित्यनैमित्तिकेषु यावज्जीवमनुष्ठानं काम्येषु करणांशे रागाधीना प्रवृत्तिः इतिकर्तव्यतांशे वैधीति विभागेऽपि कदाचिदेवानुष्ठानमिति विभागमभिप्रेत्याह –

दीर्घेणेति ।

अथ यथोक्तधर्मवशादेव जगतो विवक्षितस्थितिसिद्धेर्भगवतो नारायणस्यादिकर्तुरनेकानर्थकलुषितशरीरपरिग्रहासम्भवादन्यस्यैव कस्यचिदनाप्तस्य वैषम्यनैर्घृण्यवतो निग्रहपरिग्रहद्वारेण गीताशास्त्रप्रणयनमिति कुतोऽस्य आप्तप्रणीतत्वम् , तत्राह –

अनुष्ठातॄणामिति ।

अथवा यथोक्तशङ्कायां दीर्घेणेत्यारभ्योत्तरम् । महता कालेन कृतत्रेतात्यये द्वापरावसाने साधकानां कामक्रोधादिपूर्वकादविवेकादधर्मबाहुल्याद्धर्माभिभवादधर्माभिवृद्धेश्च जगतो मर्यादाभेदे तदीयां मर्यादामात्मनिर्मितां पालयितुमिच्छन् प्रकृतो भगवान् एतदर्थेन चातुर्वर्ण्यादिसंरक्षणार्थं लीलामयं मायाशक्तिप्रयुक्तं स्वेच्छाविग्रहं जग्राहेत्यर्थः ।

‘भौमस्य ब्रह्मणो गुप्त्यै वसुदेवादजीजनत्‘ [म.भा.शां. ४७.२९] इति स्मृतिमनुसृत्य पदद्वयमनूद्य व्याचष्टे –

भौमस्येति ।

अंशेनेति ।

स्वेच्छानिर्मितेन मायामयेन स्वरूपेणेत्यर्थः ।

किल इति

किलेत्यस्मिन्नर्थे पौराणिकी प्रसिद्धिरनूद्यते । न हि भगवतो व्यतिरिक्तस्येदं जन्मेति युज्यते, बहुविधागमविरोधादिति भावः ।

ननु वैदिकधर्मसंरक्षणार्थं भगवतो जन्म, ‘यदा यदा हि धर्मस्य‘ [भ. गी. ४.७] इत्यादिदर्शनात् । किमिदं ब्राह्मणत्वस्य रक्षणार्थमिति तत्राह –

ब्राह्मणत्वस्य हीति ।

तथापि वर्णाश्रमभेदव्यवस्थापनं विना कथं यथोक्तधर्मरक्षणमित्याशङ्क्याह –

तदधीनत्वादिति ।

ब्राह्मणं हि पुरोधाय क्षत्रादिः प्रतिष्ठां प्रतिपद्यते, याजनाध्यापनयोस्तद्धर्मत्वात् तद्द्वारा च वर्णाश्रमभेदव्यवस्थापनात् । अतो ब्राह्मण्ये रक्षिते सर्वमपि सुरक्षितं भवतीत्यर्थः ।

नन्वेवमपि भगवतो नारायणस्य शरीरादिमत्त्वे सत्यस्मदादिभिरविशेषादनीश्वरत्वप्रसक्तिरित्याशङ्क्य ज्ञानादिकृतं विशेषमाह –

स चेति ।

ज्ञानं – ज्ञप्तिः – अर्थपरिच्छित्तिः, ऐश्वर्यम् – ईश्वरत्वं स्वातन्त्र्यम्, शक्तिः – तदर्थनिर्वर्तनसामर्थ्यम् , बलम् – सहायसम्पत्तिः, वीर्यम् – पराक्रमवत्त्वम् , तेजस्तु प्रागल्भ्यमधृष्यत्वम् , एते च षड्गुणाः सर्वविषयाः सर्वदा भगवति वर्तन्ते । तथा च तस्य शरीरादिमत्त्वेऽपि नास्मदादिसाम्यमित्यर्थः ।

अथैवमपि कथमीश्वरस्यानादिनिधनस्य नित्यशुद्धबुद्वमुक्तस्वभावस्य स्वभावविपरीतं जन्मादि सम्भवति ? न हि भूतानामीशिता स्वतन्त्रः स्वात्मनोऽनर्थं स्वयमेव सम्पादयितुमर्हति, न चास्य देहादिग्रहे किमपि फलमुपलभ्यते, तत्राह –

त्रिगुणात्मिकामिति ।

सिसृक्षितदेहादिगतवैरूप्यसिद्ध्यर्थमिदं विशेषणम् । तस्या व्यापकत्वं वक्तुं वैष्णवीमित्युक्तम् ।

ईश्वरपारवश्यं तस्या दर्शयति –

स्वामिति ।

तस्याश्च प्रतिभासमात्रशरीरत्वमेव न तु वस्तुत्वमित्याह –

मायामिति ।

तस्या नानाविधकार्याकारेण परिणामित्वं सूचयति –

मूलप्रकृतिमिति ।

ईश्वरस्य प्रकृत्यधीनत्वं वारयति –

वशीकृत्येति ।

नित्यशुद्धबुद्धमुक्त

नित्यत्वं कार्याकारविरहितत्वम् , शुद्धत्वमकारणत्वम् , बुद्धत्वं अजडत्वम् , मुक्तत्वं अविद्याकामकर्मपारतन्त्र्यराहित्यम् ।

न च नित्यत्वादयः संसारावस्थायामसन्तो मोक्षावस्थायां सम्भवन्तीति युक्तमित्याह –

स्वभाव इति ।

स्वमायया ।

देहग्रहे प्राधान्यं मायाया दर्शयितुं पुनः स्वमाययेत्युक्तम् ।

इव जात इव

इवकाराभ्यां देहादेरवस्तुत्वेन कल्पितत्वं द्योत्यते ।

लोकानुग्रहमिति

धर्मद्वयोपदेशद्वारा प्राणिवर्गस्याभ्युदयनिःश्रेयसतत्परत्वापादनं लोकानुग्रहः । यद्यपि कूटस्थः स्वतन्त्रो नित्यत्वादिलक्षणश्चायमीश्वरः स्वतो दृश्यते, तथापि यथोक्तमायाशक्त्या देहादि गृहीत्वा प्राणिनामनुग्रहमादधानो न स्वभावविपर्ययं पर्येतीत्यर्थः ।

ननु ‘प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते‘ इति न्यायादीश्वरस्याऽऽप्तकामतया कृतकृत्यस्य प्रयोजनाभावादनुग्राह्याणां चाद्वैतवादे व्यतिरिक्तानामसत्त्वान्न धर्मद्वयमुपदेष्टुमुचितमिति, तत्राह –

स्वप्रयोजनेति ।

कल्पितभेदभाञ्जि भूतान्युपादाय तदनुग्रहेच्छया चैत्यवन्दनादिविलक्षणं धर्मद्वयमर्जुनं निमित्तीकृत्याऽऽप्तकामोऽपि भगवानुपदिष्टवानित्यर्थः ।

अर्जुनस्योपदेशापेक्षास्तीति दर्शयितुं विशिनष्टि –

शोकेति ।

ननु भूतानुग्रहे कर्तव्ये किमित्यर्जुनाय धर्मद्वयं भगवतोपदिश्यते, तत्राह –

गुणाधिकैरिति ।

प्रचयं गमिष्यतीति मत्वा धर्मद्वयमर्जुनायोपदिदेशेति सम्बन्धः ।

अथ तथापि सुगतोपदिष्टधर्मवदयमपि भगवदुपदिष्टो धर्मो न प्रामाणिकोपादेयतामुपगच्छेदित्याशङ्क्य वेदोक्तत्वान्नास्य तत्तुल्यत्वमित्युक्तमित्यभिप्रत्य शिष्टपरिगृहीतत्वाच्च मैवमित्याह –

तं धर्ममिति ।

अधर्मे धर्मबुद्धिर्वेदव्यासस्य जातेत्याशङ्क्याह –

सर्वज्ञ इति ।

‘कृष्णद्वैपायनं विद्धि व्यासं नारायणं प्रभुम्‘ [वि.पु. ३.४.५] इति स्मृतेः सज्जनोपकारकभगवदवतारत्वाच्च व्यासस्य नान्यथाबुद्धिरित्याह –

भगवानिति ।

गीताशास्त्रस्यानाप्तप्रणीतत्वमपाकृत्य व्याख्येयत्वमुपपादितमुपसंहरति –

तदिदमिति ।

पौरुषेयस्य वचसो मूलप्रमाणाभावेनाप्रामाण्यमिति मत्वा विशिनष्टि –

समस्तेति ।

शास्त्राक्षरैरेव तदर्थप्रतिपत्तिसम्भवे किमिति व्याख्यानमित्याशङ्क्याह –

दुर्विज्ञेयार्थमिति ।

'पदच्छेदः पदार्थोक्तिर्विग्रहो वाक्ययोजना ।
आक्षेपस्य समाधानं व्याक्यानं पञ्चलक्षणम् ॥ ‘इत्यादिक्रमेणास्य शास्त्रस्य पूर्वाचार्यैर्व्याख्यातत्वात् किमर्थमिदमारभ्यते गतार्थत्वात् , तत्राह –

तदर्थेति ।

गीताशास्त्रार्थस्य प्रकटीकरणार्थं पदविभागस्तदर्थोक्तिः समासद्वारा वाक्यार्थनिर्देशः, तत्रापेक्षितो न्यायश्चाक्षेपसमाधानलक्षणो वृत्तिकारैर्दर्शितः तथापि तथाविधमेव शास्त्रं शास्त्रपरिचयशून्यैः समुच्चयवादिभिर्विरुद्धार्थत्वेनानेकार्थत्वेन च गृहीतमालक्ष्य तद्बुद्धिमनुरोद्धुमिदमारब्धव्यमित्यर्थः ।

येषां प्राचीने व्याख्याने बुद्धिरप्रविष्टा तेषां सम्प्रतितने एतस्मिन्नसौ प्रवेक्ष्यतीति कुतो नियमस्तत्राह –

विवेकत इति ।

पूर्वव्याख्याने तत्तदर्थनिर्धारणार्थोपन्यासः सङ्कीर्णवद्भातीति न तत्र केषाञ्चिन्मनीषा समुन्मिषति, प्रकृते त्वसम्प्रकीर्णतया तत्तत्पदार्थनिर्णयोपयोगिन्यायो विव्रियते, तेनात्र मन्दमध्यमयोरपि बुद्धिरवतरतीत्यर्थः । किञ्च अनपेक्षिताधिकग्रन्थसद्भावान्न प्राचीने व्याख्याने श्रोतॄणां प्रवृत्तिः । अत्र त्वपेक्षिताल्पग्रन्थे विवरणे प्रायशः सर्वेषां प्रवृत्तिः स्यादिति मत्वाह –

सङ्क्षेपत इति ।

ननु अनाप्तप्रणीतत्वाद्यभावेऽपि नेदं शास्त्रं व्याख्येयं विषयाद्यनुबन्धस्यानभिहितत्वेन शास्त्रत्वाभावादित्याशङ्क्य सर्वव्यापाराणां प्रयोजनार्थत्वादादौ प्रयोजनमाह –

तस्येति ।

प्रसाधितप्रामाण्यस्य, व्याख्येयत्वेन मनसि संनिहितस्य गीताशास्त्रस्य सङ्क्षेपतः सङ्ग्रहः सम्पिण्डितत्वमेकवाक्यत्वं, तेनेदं परमं फलं यन्निश्चितं श्रेयो निःश्रेयसं कैवल्यम् । अवान्तरफलं तु तत्रतत्रावान्तरवाक्यभेदेन मनोनिग्रहादि विवक्ष्यते ।

निःश्रेयसं च द्विविधम् – निरतिशयसुखाविर्भावो निःशेषानर्थोच्छित्तिश्च । तत्राद्यमुदाहरति –

परमिति ।

द्वितीयं दर्शयति –

सहेतुकस्येति ।

संसारोपरमस्यात्यन्तिकत्वं प्रतियोगिनः संसारस्य पुनरुत्पत्त्ययोग्यत्वम् । तच्च स्वापमूर्च्छादिव्यवच्छेदार्थं विशेषणम् । तदेव साधयितुं सहेतुकस्येत्युक्तम् ।

उक्तं फलं समुच्चितादेकाकिनो वा कर्मणः स्यादिति तस्यैव शास्त्रप्रतिपाद्यतेत्याशङ्क्याभिधेयमभिधित्समानः समाधत्ते –

तच्चेति ।

आत्मज्ञाननिष्ठाशेषत्वेन कर्मनिष्ठा अत्रोच्यते । प्राधान्येन त्वात्मज्ञाननिष्ठैवात्र प्रतिपाद्यत इत्यर्थः ।

ननु शेषिणी निष्ठा कुतो भवति संन्यासात् ? न कर्मनिष्ठायाः शेषत्वात् तत्राह –

सर्वेति ।

संन्यासद्वारेणासकृदनुष्ठितश्रवणादेः शेषिणी निष्ठा सिद्ध्यति, शेषत्वं च कर्मणः, तत्र परस्पराश्रयत्वमित्यर्थः ।

ननु ‘यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत् ‘ [भ. गी. १८.५] इति वाक्यशेषात् समुच्चितमात्मज्ञानमत्र प्रतिपाद्यते, नेत्याह –

तथेति ।

सर्वकर्मसंन्यासपूर्वकमात्मज्ञाननिष्ठारूपं धर्मं निःश्रेयसप्रयोजनं प्रागुक्तं परामृशति –

इममेवेति ।

वक्तृभेदादभिप्रायभेदाशङ्कां वारयति –

भगवतैवेति ।

उक्तमनुगीतास्विति सम्बन्धः ।

ब्रह्मणः पदं

ब्रह्मणः पदं – पूर्वोक्तं निःश्रेयसम् । तस्य वेदनं लाभः । तत्र विशिष्टो ज्ञाननिष्ठारूपो धर्मः समर्थो भवतीत्यर्थः । यज्ञदानादिवाक्यस्य तु तद्वयाख्यानावसरे तात्पर्यं वक्ष्यते ।

कर्मत्यागस्य भगवतोऽभिप्रेतत्वे वाक्यान्तरमनुगीतागतमेवोदाहरति –

तत्रैवेति ।

धर्माधर्मापूर्वासंसर्गित्वे हेतुमाह –

नैवेति ।

क्रियाद्वयसम्बन्धाभावात् तन्निर्वर्त्त्यापूर्वाभ्यामसम्बन्धे प्राप्तमर्थमाह –

यः स्यादिति ।

वागादिबाह्यकरणव्यापारविरहितत्वं तूष्णीमित्युच्यते । किञ्चिदचिन्तयन् इत्यन्तःकरणव्यापाराभावोऽभिप्रेतः । द्विविधकरणव्यापारविरहितः सन् प्रागुक्तो योऽधिकारी केवलमेकस्मिन् – अद्वितीये ब्रह्मणि आसनमवस्थानम् , तत्र लीनः, तस्मिन्नेव समाप्तिभागी स्यात् , तस्यासम्प्रज्ञातसमाधिनिष्ठस्य सर्वकर्मत्यागहेतुकं ज्ञानं मुक्तिहेतुर्भवतीत्यर्थः ।

न केवलमनुगीतास्वेव यथोक्तं ज्ञानमुक्तम् । किन्तु प्रकृतेऽपि शास्त्रे समाप्त्यवसरे दर्शितमित्याह –

इहापीति ।

नन्वत्र निवृत्तिलक्षणधर्मात्मकं ससंन्यसमात्मज्ञानमेव न प्रतिपाद्यते, ‘कुरु कर्मैव तस्मात् त्वम् ‘ [भ. गी. ४.१५] इत्यादौ प्रवृत्तिलक्षणस्यापि धर्मस्य वक्ष्यमाणत्वात् , धर्मयोश्च प्रकृतत्वाविशेषात् , तत्राह –

अभ्युदयार्थोऽपीति ।

ननु वर्णिभिराश्रमिभिश्चानुष्ठेयत्वेनान्यत्र विहितस्यापि तस्य न युक्तं मोक्षसाधनत्वाधिकारे विधानम् , देवादिस्थानप्राप्तिहेतुत्वेन मोक्षं प्रति प्रतिपक्षत्वात् । सत्यम् , तथापि फलाभिलाषमन्तरेणेश्वरार्पणधिया कृतस्य बुद्धिशुद्धिहेतुत्वात् तस्येह वचनमित्याह –

स देवादीति ।

फलाभिसन्धिद्वारा कृतः सन्निति शेषः ।

प्रवृत्तिलक्षणधर्मस्योक्तरीत्या चित्तशुद्धिहेतुत्वेऽपि मोक्षहेतुत्वेन कुतो मोक्षाधिकारे निर्देशः स्यादित्याशङ्क्याह –

शुद्धेति ।

प्रतिपद्यते प्रागुक्तो धर्म इति शेषः ।

यदुक्तं फलाभिसन्धिवर्जितमीश्वरार्पणबुद्ध्याऽनुष्ठितं कर्म बुद्धिशुद्धये भवतीति, तत्र वाक्यषेषमनुकूलयति –

तथा चेति ।

शास्त्रस्य प्रयोजनं ससाधनमुक्तमनूद्य विषयं दर्शयति –

इममिति ।

दर्शितेन फलेन शास्त्रस्य निष्ठाद्वयद्वारा साध्यसाधनभावः सम्बन्धो विषयेण विषयविषयित्वमिति विवक्षित्वाह –

विशेषत इति ।

एवमनुबन्धत्रयविशिष्टं शास्त्रं व्याख्यानार्हमित्युपसंहरति –

विशिष्टेति ।

सिद्धे व्याख्यानयोग्यत्वे व्याख्येयत्वं फलितमाह –

यत इति ।

तत्रैषाऽक्षरयोजना -

धृतराष्ट्र उवाचेति ।

धृतराष्ट्रो हि प्रज्ञाचक्षुर्बाह्यचक्षुरभावाद्बाह्यमर्थं प्रत्यक्षयितुमनीशः सन् अभ्याशवर्तिनं सञ्जयमात्मनो हितोपदेष्टारं पृच्छति -

धर्मक्षेत्र इति ।

धर्मस्य  तद्बुद्धेश्च क्षेत्रमभिवृद्धिकारणं यदुच्यते कुरुक्षेत्रमिति, तत्र समवेताः सङ्गताः, युयुत्सवो योद्धुकामास्ते च केचिन्मदीया दुर्योधनप्रभृतयः पाण्डवाश्चापरे युधिष्ठिरादयः, ते च सर्वे युद्धभूमौ सङ्गता भूत्वा किं कृतवन्तः ॥ १ ॥

‘किमस्मदीयं प्रबलं बलं प्रतिलभ्य धीरपुरुषैर्भीष्मादिभिरधिष्ठितं परेषां भयमाविरभूत् , यद्वा पक्षद्वयहिंसानिमित्ताधर्मभयमासीत् , येनैते युद्धादुपरमेरन् ? ‘ इत्येवं पुत्रपरवशस्य पुत्रस्नेहाभिनिविष्टस्य धृतराष्ट्रस्य प्रश्ने सञ्जयस्य प्रतिवचनम् -

दृष्ट्वेत्यादि ।

पाण्डवानां भयप्रसङ्गो नास्तीत्येतत् तुशब्देन द्योत्यते । प्रत्युत दुर्योधनस्यैव राज्ञो भयं प्रभूतं प्रादुर्बभूव । पाण्डवानां - पाण्डुसुतानां युधिष्ठिरादीनामनीकं - सैन्यं धृष्टद्युम्नादिभिरतिधृष्टैर्व्यूहाधिष्ठितं दृष्ट्वा प्रत्यक्षेण प्रतीत्य त्रस्तहृदयो दुर्योधनो राजा तदा - तस्यां सङ्ग्रामोद्योगावस्थायाम् , आचार्यं द्रोणनामानमात्मनः शिक्षितारं रक्षितारं च श्लाघयन्नुपसङ्गम्य - तदीयं समीपं विनयेन प्राप्य भयोद्विग्नहृदयत्वेऽपि तेजस्वित्वादेव वचनमर्थसहितं वाक्यमुक्तवानित्यर्थः ॥ २ ॥

तदेव वचनमुदाहरति -

पश्येति ।

एतामस्मदभ्याशे महापुरुषानपि भवत्प्रमुखानपरिगणय्य भयलेशशून्यामवस्थितां चमूमिमां सेनां पाण्डुपुत्रैर्युधिष्ठिरादिभिरानीतां महतीमनेकाक्षौहिणीसहितामक्षोभ्यां, पश्येत्याचार्यं दुर्योधनो नियुङ्क्ते । नियोगद्वारा च तस्मिन् परेषामवज्ञां विज्ञापयन् क्रोधातिरेकमुत्पादयितुमुत्सहते ।

परकीयसेनाया वैशिष्ट्याभिधानद्वारा परपक्षेऽपि त्वदीयमेव बलमिति सूचयन् आचार्यस्य तन्निरसनं सुकरमिति मन्वानः सन्नाह -

व्यूढामिति ।

राज्ञो द्रुपदस्य पुत्रः तव च शिष्यो धृष्टद्युम्नो लोके ख्यातिमुपगतः, स्वयं च शस्त्रास्त्रविद्यासम्पन्नो महामहिमा तेन व्यूहमापाद्याधिष्ठितामिमां चमूं किमिति न प्रतिपद्यसे किमिति वा मृष्यसीत्यर्थः ॥ ३ ॥

अन्येऽपि प्रतिपक्षे पराक्रमभाजो बहवः सन्तीत्यनुपेक्षणीयत्वं परपक्षस्य विवक्षयन्नाह -

अत्रेति ।

अस्यां हि प्रतिपक्षभूतायां सेनायां शूराः - स्वयमभीरवः शस्त्रास्त्रकुशलाः भीमार्जुनाभ्यां सर्वसम्प्रतिपन्नवीर्याभ्यां तुल्याः युद्धभूमावुपलभ्यन्ते ।

तेषां युद्धशौण्डीर्यं विशदीकर्तुं विशिनष्टि -

महेष्वासा इति ।

इषुरस्यतेऽस्मिन्निति व्युत्पत्त्या धनुस्तदुच्यते । तच्च महत् अन्यैरप्रधृष्यं तद् येषां ते राजानस्तथा विवक्ष्यन्ते ।

तानेव परसेनामध्यमध्यासीनान् परपक्षानुरागिणो राज्ञो विज्ञापयति -

युयुधान इत्यादिना सौभद्रो द्रौपदेयाश्चेत्यन्तेन ।

तेषां सर्वेषामपि महाबलपराक्रमभाक्त्वादनुपेक्ष्यत्वं पुनर्विवक्षति -

सर्व एवेति

॥ ४, ५, ६ ॥

यद्येवं परकीयं बलमतिप्रभूतं प्रतीत्यातिभीतवदभिदधासि, हन्त सन्धिरेव परैरिष्यताम् , अलं विग्रहाग्रहेण इत्याचार्याभिप्रायमाशङ्क्य ब्रवीति -

अस्माकमिति ।

तुशब्देनान्तरुत्पन्नमपि स्वकीयं भयं तिरोदधानो धृष्टतामात्मनो द्योतयति । ये खल्वस्मत्पक्षे व्यवस्थिताः सर्वेभ्यः समुत्कर्षजुषः तान् मयोच्यमानान् निबोध - निश्चयेन मद्वचनादवधारयेत्यर्थः ।

यद्यपि त्वमेव त्रैवर्णिकेषु त्रैविद्यवृद्धेषु प्रधानत्वात् प्रतिपत्तुं प्रभवसि, तथापि मदीयसैन्यस्य ये मुख्यास्तानहं ते तुभ्यं संज्ञार्थमसङ्ख्येषु तेषु मध्ये कतिचिन्नामभिर्गृहीत्वा परिशिष्टानुपलक्षयितुं विज्ञापनं करोमि, न त्वज्ञातं किञ्चित् तव ज्ञापयामीति मत्वाह -

द्विजोत्तमेति

॥ ७ ॥

तानेव स्वसेनानिविष्टान् पुरुषधौरेयान् आत्मीयभयपरिहारार्थं परिगणयति -

भवानित्यादिना

॥ ८ ॥

द्रोणादिपरिगणनस्य परिशिष्टपरिसङ्ख्यार्थत्वं व्यावर्तयति -

अन्ये चेति ।

सर्वेऽपि भवन्तमारभ्य मदीयपृतनायां प्रविष्टाः स्वजीवितादपि मह्यं स्पृहयन्तीत्याह -

मदर्थ इति ।

यत्तु तेषां शूरत्वमुक्तं तदिदानीं विशदयति -

नानेति ।

नानाविधानि अनेकप्रकाराणि शस्त्राणि - आयुधानि प्रहरणानि - प्रहरणसाधनानि येषां ते तथा ।

बहुविधायुधसम्पत्तावपि तत्प्रयोगे नैपुण्याभावे तद्वैफल्यमिति चेत् , नेत्याह -

सर्व इति

॥ ९ ॥

राजा पुनरपि स्वकीयभयाभावे हेत्वन्तरमाचार्यं प्रत्यावेदयति -

अपर्याप्तमिति ।

अस्माकं खल्विदं एकादशसङ्ख्याकाक्षौहिणीपरिगणितमपरिमितं बलं भीष्मेण च प्रथितमहामहिम्ना सूक्ष्मबुद्धिना सर्वतो रक्षितं पर्याप्तं - परोषां परिभवे समर्थम् । एतेषां पुनस्तदल्पं - सप्तसङ्ख्याकाक्षौहिणीपरिमितं बलं भीमेन चपलबुद्धिना कुशलताविकलेन परिपालितं अपर्याप्तम् - अस्मानभिभवितुमसमर्थमित्यर्थः । अथवा - तदिदमस्माकं बलं भीष्माधिष्ठितमपर्याप्तं - अपरिमितं अधृष्यं - अक्षोभ्यम् । एतेषां तु पाण्डवानां बलं भीमेनाभिरक्षितं पर्याप्तं - अपरिमितम् सोढुं शक्यमित्यर्थः । अथवा - तत् पाण्डवानां बलमपर्याप्तं - नालम् , अस्माकं - अस्मभ्यं भीष्माभिरक्षितं भीष्मोऽभिरक्षितोऽस्मै परबलनिवृत्त्यर्थमिति तदेव तथोच्यते । इदं पुनरस्मदीयं बलमेतेषां - पाण्डवानां पर्याप्तं - परिभवे समर्थम् , भीमाभिरक्षितं भीमो दुर्बलहृदयो यस्मादस्मै परबलनिवृत्त्यर्थमभिरक्षितः । तस्मादस्माकं न किञ्चिदपि भयकारणमस्तीत्यर्थः ॥ १० ॥

स्वकीयबलस्य भीष्माधिष्ठितत्वेन बलिष्ठत्वमुक्त्वा भीष्मशेषत्वेन तदनुगुणत्वं द्रोणादीनां प्रार्थयते -

अयनेष्विति ।

कर्तव्यविशेषद्योती चशब्दः । समरसमारम्भसमये योधानां यथाप्रधानं युद्धभूमौ पूर्वापरादिदिग्विभागेनावस्थितिस्थानानि नियम्यन्ते । तान्यत्र अयनान्युच्यन्ते । सेनापतिश्च सर्वसैन्यमधिष्ठाय मध्ये तिष्ठति । तेषु सर्वेषु प्रक्लृप्तं प्रविभागमप्रत्याख्याय भवान् अश्वत्थामा कर्णश्चेत्येवमादयो भवन्तः सर्वेऽवस्थिताः सन्तो भीष्ममेव सेनापतिं सर्वतो रक्षन्तु । तस्य हि रक्षणे सर्वमस्मदीयं बलं रक्षितं स्यात् , परबलनिवृत्त्यर्थत्वेन तस्यास्माभी रक्षितत्वादित्यर्थः ॥ ११ ॥

तमेवमाचार्यं प्रति संवादं कुर्वन्तं भयाविष्टं राजानं दृष्ट्वा तदभ्याशवर्ती पितामहस्तद् - बुद्ध्यनुरोधार्थमित्थं कृतवानित्याह -

तस्येति ।

राज्ञो दुर्योधनस्य हर्षं - बुद्धिगतमुल्लासविशेषं परपरिभवद्वारा स्वकीयविजयद्वारकं सम्यगुत्पादयन् भयं तदीयमपनिनीषुरुच्चैः सिंहनादं कृत्वा शङ्खमापूरितवान् । किमिति दुर्योधनस्य हर्षमुत्पादयितुं पितामहो यतते, कुरुवृद्धत्वात् तस्य कुरुराजत्वात् पितामहत्वाच्चास्य दुर्योधनभयापनयनार्था प्रवृत्तिरुचिता, तदुपजीवितया तद्वशत्वाच्च । तस्य च सिंहनादे शङ्खशब्दे च परेषां हृदयव्यथा सम्भाव्यते, दूरादेव अरिनिवहं प्रति भयजननलक्षणप्रतापत्वादित्यर्थः ॥ १२ ॥

राजाभिप्रायं प्रतीत्य भीष्मप्रवृत्त्यनन्तरं तत्पक्षैस्तैस्तै राजभिः शङ्खादयो वाद्यविशेषा झटिति शब्दवन्तः सम्पादिताः । स च शङ्खादिप्रयुक्तशब्दस्तुमुलो बहुलं भयं परेषां परिद्योतयन्नासीदित्याह -

तत इति

॥१३ ॥

एवं दुर्योधनपक्षे प्रवृत्तिमालक्ष्य परिसरवर्तिनौ केशवार्जुनौ श्वेतैर्हयैरतिबलपराक्रमैर्युक्ते महति -  अप्रधृष्ये रथे व्यवस्थितौ अप्राकृतौ शङ्खौ पूरितवन्तावित्याह -

ततः श्वेतैर्हयैरिति

॥ १४ ॥

तयोः शङ्खयोर्दिव्यत्वमेवावेदयति -

पाञ्चजन्यमिति ।

केशवार्जुनयोर्युद्धाभिमुख्यं दृष्ट्वा संहृष्टः स्वारस्येन समररसिको भीमसेनोऽपि युद्धाभिमुखोऽभूदित्याह -

पौण्ड्रमिति

॥ १५ ॥

एतेषामीदृशीं प्रवृत्तिं प्रतीत्य परिपालनावकाशमासाद्य राज्ञो युधिष्ठिरस्यापि प्रवृत्तिं दर्शयति -

अनन्तेति ।

ज्यायसां भ्रातॄणामनुसरणमावश्यकमिति मत्वा तयोर्यवीयसोर्भ्रात्रोरपि प्रवृत्तिमाह -

नकुल इति

॥ १६ ॥

अन्येषामपि तत्पक्षीयाणां राज्ञामैकमत्यं विज्ञापयन् धृतराष्ट्रस्य दुराशां सञ्जयो व्युदस्यति -

काश्यश्चेत्यादिना

॥ १७ ॥

द्रुपद इति ।

परमेष्वासादिविशेषणचतुष्टयं प्रत्येकं सम्बध्यते ॥ १८ ॥

तैस्तै राजभिः शङ्खानापूरयद्भिरापादितो महान् घोषः तुमुलः - अतिभैरवो नभश्च - अन्तरिक्षं पृथिवीं च - भुवनं लोकत्रयं सर्वमेव विशेषेणानुक्रमेण नादयन् - नादयुक्तं कुर्वन् धार्तराष्ट्राणां दुर्योधनादीनां हृदयानि अन्तःकरणानि व्यदारयत् - विदारितवान् । युज्यते हि तत्प्रेरितशङ्खघोषश्रवणात् त्रैंलोक्याक्रोशे तमुपश्रृण्वतां तेषां हृदयेषु दोधूयमानत्वम् । तदाह -

स घोष इति

॥ १९ ॥

दुर्योधनादीनां धार्तराष्ट्राणामेवं भयप्राप्तिं प्रदर्श्य पार्थादीनां पाण्डवानां तद्वैपरीत्यमिदानीमुदाहरति -

अथेत्यादिना ।

भीतिप्रत्युपस्थितेरनन्तरं पलायने प्राप्तेऽपि वैपरीत्याद् व्यवस्थितान् अप्रचलितानेव परान् प्रत्यक्षेणोपलभ्य हनुमन्तं वानरवरं ध्वजलक्षणत्वेन आदायावस्थितोऽर्जुनो भगवन्तमाहेति सम्बन्धः ।

किमाहेत्यपेक्षायामिदं - वक्ष्यमाणं हेतुमद्वचनमित्याह -

वाक्यमिदमिति ।

कस्यामवस्थायामिदमुक्तवानिति तत्राह -

प्रवृत्त इति ।

शस्त्राणां - इषुप्रासप्रभृतीनां सम्पातः - समुदायः तस्मिन् प्रवृत्ते - प्रयोगाभिमुखे सतीति यावत् ।

 किं कृत्वा भगवन्तं प्रत्युक्तवानिति तदाह –

धनुरिति ।

महीपतिशब्देन राजा प्रज्ञाचक्षुः सञ्जयेन सम्बोध्यते ॥ २० ॥

तदेव गाण्डीवधन्वनो वाक्यमनुक्रामति -

सेनयोरिति ।

उभयोरपि सेनयोः संनिहितयोर्मध्ये मदीयं रथं स्थापयेत्यर्जुनेन सारथ्ये सर्वेश्वरो नियुज्यते ।  किं हि भक्तानामशक्यं यद्भगवानपि तन्नियोगमनुतिष्ठति ? युक्तं हि भगवतो भक्तपारवश्यम् ।  अच्युतेति सम्बोधनतया भगवतः स्वरूपं न कदाचिदपि प्रच्युतिं प्राप्नोतीत्युच्यते ॥ २१ ॥

मध्ये रथं स्थापयेत्युक्तम् ।  तदेव रथस्थापनस्थानं निर्धारयति -

यावदिति ।

एतान् - प्रतिपक्षे प्रतिष्ठितान् भीष्मद्रोणादीन् अस्माभिः सार्धं योद्धुमपेक्षावतो यावद् - गत्वा निरीक्षितुमहं क्षमः स्याम् , तावति प्रदेशे रथस्य स्थापनम् कर्तव्यमित्यर्थः ।

किञ्च, प्रवृृत्ते युद्धप्रारम्भे बहवो राजानोऽमुष्यां युद्धभूमावुपलभ्यन्ते, तेषां मध्ये कैः सह मया योद्धव्यम् ? न हि क्वचिदपि मम गतिप्रतिहतिरस्तीत्याह -

कैर्मयेति

॥ २२ ॥

प्रतियोगिनामभावे कथं तव युद्धौत्सुक्यं फलवद् भवेदिति तत्राह –

योत्स्यमानानिति ।

ये केचिदेते राजानो नानादेशेभ्योऽत्र कुरुक्षेत्रे समवेतास्तानहं योत्स्यमानान् - परिगृहीतप्रहरणोपायान् अतितरां सङ्ग्रामसमुत्सुकानुपलभे ।  तेन प्रतियोगिनां बाहुल्यमित्यर्थः ।

तेषामस्माभिः सह पूर्ववैराभावे कथं प्रतियोगित्वं प्रकल्पते ? तत्राह -

धार्तराष्ट्रस्येति ।

धृतराष्ट्रपुत्रस्य दुर्योधनस्य दुर्बुद्धेः - स्वरक्षणोपायमप्रतिपद्यमानस्य युद्धाय संरम्भं कुर्वतो युद्धे - युद्धभूमौ स्थित्वा प्रियं कर्तुमिच्छवो राजानः समागता दृश्यन्ते, तेन तेषामौपाधिकमस्मत्प्रतियोगित्वमुपपन्नमित्यर्थः ॥ २३ ॥

एवमर्जुनेन प्रेरितो भगवान् अहिंसारूपं धर्ममाश्रित्य प्रायशो युद्धात् तं निवर्तयिष्यतीति धृतराष्ट्रस्य मनीषां दुदूषयिषुः सञ्जयो राजानं प्रत्युक्तवानित्याह -

सञ्जय इति ।

भगवतोऽपि भूभारापहारार्थं प्रवृत्तस्य अर्जुनाभिप्रायप्रतिपत्तिद्वारेण स्वाभिसन्धिं प्रतिलभमानस्य परोक्तिमनुसृत्य स्वाभिप्रायानुकूलमनुष्ठानमादर्शयति -

एवमिति ।

॥ २४ ॥

भीष्मद्रोणादीनामन्येषां च राज्ञामन्तिके रथं स्थापयित्वा भगवान् किं कृतवानिति तदाह -

उवाचेति ।

एतान् - अभ्याशे वर्तमानान् , कुरून् - कुरुवंशप्रसूतान् भवद्भिः सार्धं युद्धार्थं सङ्गतान् पश्य ।  दृष्ट्वा च यैः सहात्र युयुत्सा तवोपावर्तते तैः साकं युद्धं कुरु ।  नो खल्वेतेषां शस्त्रास्त्रशिक्षावतां महीक्षितामुपेक्षोपपद्यते, सारथ्ये तु न मनः खेदनीयमित्यर्थः ॥ २५ ॥

एवं स्थिते महानधर्मो हिंसेति विपरीतबुद्ध्या युद्धादुपरिरंसा पार्थस्य सम्प्रवृत्तेति कथयति -

तत्रेत्यादिना ।

सप्तम्या भगवदभ्यनुज्ञाने समरसमारम्भाय सम्प्रवृत्ते सतीत्येतदुच्यते ।  सेनयोरुभयोरपि स्थितान् पार्थोऽपश्यदिति सम्बन्धः ।  अथशब्दः तथाशब्दपर्यायः ।  श्वशुराः भार्याणां जनयितारः ।  सुहृदो मित्राणि कृतवर्मप्रभृतयः ॥ २६ ॥

सेनाद्वये व्यवस्थितान् यथोक्तान् पितृपितामहादीन् आलोच्य परमकृपापरवशः सन्नर्जुनो भगवन्तमुक्तवानित्याह -

तानिति ।  

विषीदन् - यथोक्तानां पित्रादीनां हिंसासंरम्भनिबन्धनं विषादमुपतापं कुर्वन्नित्यर्थः ॥ २७ ॥

तदेव इदंशब्दवाच्यं वचनमुदाहरति -

दृष्ट्वेति ।

॥ २८ ॥

आत्मीयं बन्धुवर्गं युद्धेच्छया युद्धभूमावुपस्थितमुपलभ्य शोकप्रवृत्तिं दर्शयति -

सीदन्तीति ।

देवांशस्यैवार्जुनस्यानात्मविदः स्वपरदेहेष्वात्मात्मीयाभिमानवतः तत्प्रियस्य युद्धारम्भे तन्मृत्युप्रसङ्गदर्शिनः शोको महानासीदित्यर्थः ।

अङ्गेषु व्यथा मुखे परिशोषश्चेत्युभयं शोकलिङ्गमुक्तम् ।  सम्प्रति वेपथुप्रभृतीनि भीतिलिङ्गान्युपन्यस्यति -

वेपथुश्चेति ।

रोमहर्षः - रोम्णां गात्रेषु पुलकितत्वम् ॥ २९ ॥

किञ्च अधैर्यमपि संवृत्तमित्याह -

न चेति ।

मोहोऽपि महान् भवतीत्याह -

भ्रमतीवेति ।

॥ ३० ॥

विपरीतनिमित्तप्रतीतेरपि मोहो भवतीत्याह –

निमित्तानीति ।

तानि विपरीतानि निमित्तानि यानि वामनेत्रस्फुरणादीनि ।

युद्धे स्वजनहिंसया फलानुपलम्भादपि तस्मादुपरिरंसा जायते  इत्याह -

न चेति ।

॥ ३१ ॥

प्राप्तानां युयुत्सूनां हिंसया विजयो राज्यं सुखानि च लब्धुं शक्यानीति कुतो युद्धादुपरतिरित्याशङ्क्याह -

न काङ्क्ष इति

किमिति राज्यादिकं सर्वाकाङ्क्षितत्वान्न काङ्क्ष्यते तेन हि पुत्रभ्रात्रादीनां स्वास्थ्यमाधातुं शक्यमित्याशङ्क्याह –

किमिति ।

॥ ३२ ॥

राज्यादीनामाक्षेपे हेतुमाह -

येषामिति

॥३३ ॥

तानेव विशिनष्टि -

आचार्या इति ।

स्यालाः - भार्याणां भ्रातरो धृष्टद्युम्नप्रभृतयः ॥ ३४ ॥

वध्येष्वपि स्वराज्यपरिपन्थिष्वाततायिषु कृपाबुद्ध्या स्वधर्माद्युद्धात् पूर्वोक्तमोहादिवशात् प्रच्युतिं प्रदर्शयति -

एतानिति ।

जिघांसन्तं जिघांसीयात्’ (वसिष्ठधर्मसूत्रम् ३.१७) इति न्यायादेतेषां हिंसा न दोषायेत्याशङ्क्याह –

घ्नतोऽपीति ।

पृथिवीप्राप्त्यर्थं हि हननमेतेषामिष्यते ।

न च तत्प्राप्तिः समीहितेति कैमुतिकन्यायेन दर्शयति -

अपीति ।

न हि महदपि त्रैलोक्यलक्षणं राज्यं लब्धुं स्वजनहिंसायै मनो मदीयं स्पृहयति ।  पृथिवीप्राप्त्यर्थं पुनर्बन्धुवधं न श्रद्दधामीति किं वक्तव्यमित्यर्थः ॥ ३५ ॥

दुर्योधनादीनां शत्रूणां निग्रहे प्रीतिप्राप्तिसम्भवाद्युद्धं कर्तव्यमित्याशङ्क्याह –

निहत्येति ।

यदि पुनरमी दुर्योधनादयो न निगृह्येरन् भवन्तस्तर्हि तैर्निगृहीता दुःखिताः स्युरित्याशङ्क्याह -

पापमेवेति ।

यदीमे दुर्योधनादयो निर्दोषानेवास्मान्  अकस्माद्युद्धभूमौ हन्युः, तदैतान् ‘अग्निदो गरदश्च’ (मनुः ८.३५०) इत्यादिलक्षणोपेतानाततायिनो निर्दोषस्वजनहिंसाप्रयुक्तं पापं पूर्वमेव पापिनः समाश्रयेदित्यर्थः ।  अथवा - यद्यप्येते भवन्त्याततायिनः, तथाप्येतान् अतिशोच्यान् दुर्योधनादीन् हिंसित्वा हिंसाकृतं पापमस्मानेवाश्रयेत् , अतो नास्माभिरेते हन्तव्या इत्यर्थः । अथवा - गुरुभ्रातृसुहृत्प्रभृतीनेतान् हत्वा वयमाततायिनः स्याम, ततश्चैतान् हत्वा हिंसाकृतं पापमाततायिनोऽस्मानेव समाश्रयेत् इति  युद्धात् उपरमणमस्माकं श्रेयस्करमित्यर्थः ॥ ३६ ॥

फलाभावादनर्थसम्भवाच्च परहिंसा न कर्तव्येत्युपसंहरति -

तस्मादिति ।

किञ्च राज्यसुखमुद्दिश्य युद्धमुपक्रम्यते, न च स्वजनपरिक्षये सुखमुपपद्यते, तेन न कर्तव्यं युद्धमित्याह -

स्वजनं हीति

॥ ३७ ॥

कथं तर्हि परेषां कुलक्षये स्वजनहिंसायां च प्रवृत्तिस्तत्राह –

यद्यपीति ।

लोभोपहतबुद्धित्वात् तेषां कुलक्षयादिप्रयुक्तदोषप्रतीत्यभावात् प्रवृत्तिविस्रम्भः सम्भवतीत्यर्थः ॥ ३८ ॥

परेषामिव अस्माकमपि प्रवृत्तिविस्रम्भः सम्भवेदिति चेत् , नेत्याह –

कथमिति ।

कुलक्षये मित्रद्रोहे च दोषं प्रपश्यद्भिरस्माभिः तद्दोषशब्दितं पापं कथं न ज्ञातव्यम् ? तदज्ञाने तत्परिहारासम्भवात् ।  अतोऽस्मात् पापान्निवृत्त्यर्थं तज्ज्ञानमपेक्षितमिति पापपरिहारार्थिनामस्माकं न युक्ता युद्धे प्रवृत्तिरित्यर्थः ॥ ३९ ॥

कोऽसौ कुलक्षये दोषो यद्दर्शनाद्युष्माकं युद्धादुपरतिरपेक्ष्यते ? तत्राह –

कुलेति ।

कुलस्य हि क्षये कुलसम्बन्धिनः चिरन्तना धर्माः तत्तदग्निहोत्रादिक्रियासाध्या नाशमुपयान्ति ।  कर्तुरभावादित्यर्थः ।

धर्मनाशेऽपि किं स्यात् इति चेत् , तत्राह -

धर्म इति ।

कुलप्रयुक्ते धर्मे कुलनाशादेव नष्टे कुलक्षयकरस्य कुलं परिशिष्टमखिलमपि तदीयोऽधर्मोऽभिभवति ।  अधर्मभूयिष्ठं तस्य कुलं भवतीत्यर्थः ॥ ४० ॥

कुलक्षये कृते अवशिष्टकुलस्य अधर्मप्रवणत्वे को दोषः स्यात् ? इति तत्राह –

अधर्मेति ।

पापप्रचुरे कुले प्रसूतानां स्त्रीणां प्रदुष्टत्वे किं दुष्यति ? तत्राह -

स्त्रीष्विति

॥ ४१ ॥

वर्णसङ्करस्य दोषपर्यवसायितामादर्शयति -

सङ्कर इति ।

कुलक्षयकराणां दोषान्तरं समुच्चिनोति -

पतन्तीति ।

कुलक्षयकृतां पितरो निरयगामिनो सम्भवन्तीत्यत्र हेतुमाह –

लुप्तेति ।

पुत्रादीनां कर्तॄणामभावात् लुप्ता पिण्डस्योदकस्य च क्रिया येषां ते तथा ।  ततश्च प्रेतत्वपरावृत्तिकारणाभावात् नरकपतनमेव आवश्यकमापतेदित्यर्थः ॥ ४२ ॥

कुलक्षयकृतामेतैरुदाहृतैर्दोषैर्वर्णसङ्करहेतुभिर्जातिप्रयुक्ता वंशप्रयुक्ताश्च धर्माः सर्वे समुत्साद्यन्ते ।  तेन कुलक्षयकारणाद् युद्धादुपरतिरेव श्रेयसीत्याह -

दोषैरिति

॥ ४३ ॥

किञ्च जातिधर्मेषु कुलधर्मेषु चोत्सन्नेषु तत्तद्धर्मवर्जितानां मनुष्याणामनधिकृतानां नरकपतनध्रौव्यात् अनर्थकरमिदमेव हेयमित्याह –

उत्सन्नेति ।

यथोक्तानां मनुष्याणां नरकपातस्य आवश्यकत्वे प्रमाणमाह -

इत्यनुशुश्रुमेति

॥ ४४ ॥

राज्यप्राप्तिप्रयुक्तसुखोपभोगलुब्धतया स्वजनहिंसायां प्रवृत्तिरस्माकं गुणदोषविभागविज्ञानवतामतिकष्टेति परिभ्रष्टहृदयः सन्नाह -

अहो बतेति

॥ ४५ ॥

यद्येवं युद्धे विमुखः सन् परपरिभवप्रतीकाररहितो वर्तेथाः, तर्हि त्वां शस्त्रपरिग्रहरहितं शत्रुं शस्रपाणयो धार्तराष्ट्रा निगृह्णीयुरित्याशङ्क्याह –

यदीति ।

प्राणत्राणादपि प्रकृष्टो धर्मः प्राणभृतामहिंसेति भावः ॥ ४६ ॥

यथोक्तमर्जुनस्य वृत्तान्तं सञ्जयो धृतराष्ट्रं राजानं प्रति प्रवेदितवान् ।  तमेव प्रवेदनप्रकारं दर्शयति -

एवमिति ।

प्रदर्शितेन प्रकारेण भगवन्तं प्रति विज्ञापनं कृत्वा शोकमोहाभ्यां परिभूतमानसः सन् अर्जुनः सङ्ख्ये - युद्धमध्ये शरेण सहितं गाण्डीवं त्यक्त्वा ‘न योत्स्येऽहम्’ (भ. भ. गी. २-९) इति ब्रुवन् , मध्ये रथस्य, संन्यासमेव श्रेयस्करं मत्वोपविष्टवानित्यर्थः ॥ ४७ ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञानविरचिते श्रीमद्भगवद्गीताशाङ्करभाष्यव्याख्याने प्रथमोऽध्यायः ॥ १ ॥

अतीतसन्दर्भस्येत्थमक्षरोत्थमर्थं विवक्षित्वा तस्मिन्नेव वाक्यविभागमवगमयति -

दृष्ट्वा त्विति ।

‘धर्मक्षेत्रे कुरुक्षेत्रे’ (भ. भ. गी. १-१) इत्यादिराद्यश्लोकस्तावदेकं वाक्यम् । शास्रस्य कथासम्बन्धपरत्वेन पर्यवसानात् । ‘दृष्ट्वा’ (भ. भ. गी. १-२) इत्यारभ्य यावत् ‘तूष्णीं बभूव ह’ (भ. भ. गी. २-९) इति तावच्चैकं वाक्यम् । इत आरभ्य ‘इदं वचः’ (भ. भ. गी. २-१०) इत्येतदन्तो ग्रन्थो भवत्यपरं वाक्यमिति विभागः ।

ननु - आद्यश्लोकस्य युक्तमेकवाक्यत्वम् , प्रकृतशास्रस्य महाभारतेऽवतारावद्योतित्वात् , अन्तिमस्यापि सम्भवत्येकवाक्यत्वमर्जुनाश्वासार्थतया प्रवृत्तत्वात् , तन्मध्यमस्य तु कथमेकवाक्यत्वमित्याशङ्क्यार्थैकत्वादित्याह -

प्राणिनामिति ।

शोकः - मानसस्तापः, मोहः - विवेकाभावः । आदिशब्दस्तदवान्तरभेदार्थः । स एव संसारस्य दुःखात्मनो बीजभूतो दोषः, तस्योद्भवे कारणमहङ्कारो ममकारः तद्धेतुरविद्या च तत्प्रदर्शनार्थत्वेनेति योजना ।

सङ्गृहीतमर्थं विवृणोति -

तथा हीति ।

राज्यं - राज्ञः कर्म परिपालनादि । पूजार्हा गुरवः - भीष्मद्रोणादयः । पुत्राः - स्वयमुत्पादिताः सौभद्रादयः । सम्बन्धान्तरमन्तरेण स्नेहगोचरा गुरुपुत्रप्रभृतयो मित्रशब्देनोच्यन्ते । उपकारनिरपेक्षतया स्वयमुपकारिणो हृदयानुरागभाजो भगवत्प्रमुखाः सुहृदः । स्वजनाः - ज्ञातयो दुर्योधनादयः । सम्बन्धिनः - श्वशुरस्यालप्रभृतयो द्रुपदधृष्टद्युम्नादयः । परम्परया पितृपितामहादिष्वनुरागभाजो राजानो बान्धवाः । तेषु यथोक्तं प्रत्ययं निमित्तीकृत्य यः स्नेहो यश्च तैः सह विच्छेदो, यच्चैतेषामुपघाते पातकं या च लोकगर्हा सर्वं तन्निमित्तं ययोरात्मनः शोकमोहयोस्तावेतौ संसारबीजभूतौ ‘कथम् ? ‘ (भ. गी. २. ४) इत्यादिना दर्शितावित्यर्थः ।

कथं पुनरनयोः संसारबीजयोरर्जुने सम्भावनोपपद्यते ? न हि प्रथितमहामहिम्नो विवेकविज्ञानवतः स्वधर्मे प्रवृत्तस्य तस्य शोकमोहावनर्थहेतू सम्भावितावित्याशङ्क्य, विवेकतिरस्कारेण तयोर्विहिताकरणप्रतिषिद्धाचरणकारणत्वादनर्थाधायकयोरस्ति तस्मिन् सम्भावनेत्याह

शोकमोहाभ्यामिति ।

भिक्षया जीवनं  प्राणधारणम् । आदिशब्दात् अशेषकर्मसंन्यासलक्षणं पारिव्राज्यमात्माभिध्यानमित्यादि गृह्यते ।

किञ्च अर्जुने दृश्यमानौ शोकमोहौ संसारबीजं, शोकमोहत्वात् , अस्मदादिनिष्ठशोकमोहवत् , इति उपलब्धौ शोकमोहौ प्रत्येकं पक्षीकृत्यानुमातव्यमित्याह -

तथा चेति ।

शोकमोहादीत्यादिशब्देन मिथ्याभिमानस्नेहगर्हादयो गृह्यन्ते । स्वभावतः चित्तदोषसामर्थ्यादित्यर्थः ।

अस्मदादीनामपि स्वधर्मे प्रवृत्तानां विहिताकरणाद्यभावात् न शोकादेः संसारबीजतेति दृष्टान्तस्य साध्यविकलतेति चेत् , तत्राह -

स्वधर्म इति

कायादीनामित्यादिशब्दादवशिष्टानीन्द्रियाण्यादीयन्ते । फलाभिसन्धिः - तद्विषयोऽभिलाषः । कर्तृत्वभोक्तृत्वाभिमानः - अहङ्कारः ।

प्रागुक्तप्रकारेण वागादिव्यापारे सति किं सिध्यति ? तत्राह -

तत्रेति ।

शुभकर्मानुष्ठानेन धर्मोपचयादिष्टं देवादिजन्म, ततः सुखप्राप्तिः, अशुभकर्मानुष्ठानेन अधर्मोपचयादनिष्टं तिर्यगादिजन्म, ततो दुःखप्राप्तिः, व्यामिश्रकर्मानुष्ठानादुभाभ्यां धर्माधर्माभ्यां मनुष्यजन्म, ततः सुखदुःखे भवतः । एवमात्मकः संसारः सन्ततो वर्तत इत्यर्थः ।

अर्जुनस्यान्येषां च शोकमोहयोः संसारबीजत्वमुपपादितमुपसंहरति -

इत्यत इति ।

तदेवं प्रथमाध्यायस्य द्वितीयाध्यायैकदेशसहितस्य आत्माज्ञानोत्थनिवर्तनीयशोकमोहाख्यसंसारबीजप्रदर्शनपरत्वं दर्शयित्वा, वक्ष्यमाणसन्दर्भस्य सहेतुकसंसारनिवर्तकसम्यग्ज्ञानोपदेशे तात्पर्यं दर्शयति -

तयोश्चेति ।

तत् - यथोक्तं ज्ञानम् , उपदिदिक्षुः - उपदेष्टुमिच्छन् भगवानाहेति सम्बन्धः ।

सर्वलोकानुग्रहार्थं यथोक्तं ज्ञानं भगवानुपदिदिक्षतीत्ययुक्तम् , अर्जुनं प्रत्येवोपदेशात् , इत्याशङ्क्याह -

अर्जुनमिति ।

न हि तस्यामवस्थायामर्जुनस्य भगवता यथोक्तं ज्ञानमुपदेष्टुमिष्टम् , किन्तु स्वधर्मानुष्ठानाद् - बुद्धिशुद्ध्युत्तरकालमित्यभिप्रेत्योक्तम् -

निमित्तीकृत्येति ।

सर्वकर्मसंन्यासपूर्वकादात्मज्ञानादेव केवलात् कैवल्यप्राप्तिरिति गीताशास्त्रार्थः स्वाभिप्रेतो व्याख्यातः । सम्प्रति वृत्तिकृतामभिप्रेतं निरसितुमनुवदति -

अत्रेति।

निर्धारितः शास्त्रार्थः सतिसप्तम्या परामृश्यते ।

तेषामुक्तिमेव विवृण्वन् आदौ सैद्धान्तिकमभ्युपगमं प्रत्यादिशति -

सर्वकर्मेति ।

वैदिकेन कर्मणा समुच्चयं व्युदसितुं मात्रपदम् । स्मार्तेन कर्मणा समुच्चयं निरसितुमवधारणम् ।

अभ्याससम्बन्धं धुनीते -

केवलादिति ।

नैवेत्येवकारः सम्बध्यते ।

केन तर्हि प्रकारेण ज्ञानं कैवल्यप्राप्तिकारणम् ? इत्याशङ्क्याह -

किं तर्हीति ।

किं तत्र प्रमापकम् ? इत्याशङ्क्य, इदमेव शास्रमित्याह -

इति सर्वास्विति ।

यथा प्रयाजानुयाजाद्युपकृतमेव दर्शपौर्णमासादि स्वर्गसाधनम् , तथा श्रौतस्मार्तकर्मोपकृतमेव ब्रह्मज्ञानं कैवल्यं साधयति । विमतं सेतिकर्तव्यताकमेव स्वफलसाधकं करणत्वाद् दर्शपौर्णमासादिवत् । तदेवं ज्ञानकर्मसमुच्चयपरं शास्त्रमित्यर्थः ।

इतिपदम् - आहुरित्यनेन पूर्वेण सम्बध्यते । पौर्वापर्यालोचनायां शास्त्रस्य समुच्चयपरत्वं न निर्धारितमित्याशङ्क्याह -

ज्ञापकं चेति ।

न केवलं ज्ञानं मुक्तिहेतुः, अपितु समुच्चितमित्यस्यार्थस्य स्वधर्माननुष्ठाने पापप्राप्तिवचनसामर्थ्यलक्षणं लिङ्गं गमकमित्यर्थः ।

शास्त्रस्य समुच्चयपरत्वे लिङ्गवद्वाक्यमपि प्रमाणमित्याह -

कर्मण्येवेति ।

तत्रैव वाक्यान्तरमुदाहरति -

कुरु कर्मेति ।

ननु -  `न हिंस्यात् सर्वा भूतानि’ इत्यादिना प्रतिषिद्धत्वेन हिंसादेरनर्थहेतुत्वावगमात् तदुपेतं वैदिकं कर्म अधर्मायेति नानुष्ठातुं शक्यते । तथा च तस्य मोक्षे ज्ञानेन समुच्चयो न सिध्यतीति साङ्ख्यमतमाशङ्क्य परिहरति -

हिंसादीति ।

आदिशब्दादुच्छिष्टभक्षणं गृह्यते ।

यथोक्ता शङ्का न कर्तव्येत्यत्र आकाङ्क्षापूर्वकं हेतुमाह -

कथमित्यादिना ।

स्वशब्देन क्षत्रियो विवक्ष्यते ।

युद्धाकरणे क्षत्रियस्य प्रत्यवायश्रवणात् तस्य तं प्रति नित्यत्वेन अवश्यकर्तव्यत्वप्रतीतेर्गुर्वादिहिंसायुक्तमतिक्रूरमपि कर्म न अधर्मायेति हेत्वन्तरमाह -

तदकरणे चेति ।

आचार्यादिहिंसायुक्तमतिक्रूरमपि युद्धं न अधर्मायेति ब्रुवता भगवता श्रौतानां हिंसादियुक्तानामपि कर्मणां दूरतो न अधर्मत्वमिति स्पष्टमुपदिष्टं भवति । सामान्यशास्त्रस्य व्यर्थहिंसानिषेधार्थत्वात् क्रतुविषये चोदितहिंसायास्तदविषयत्वात् कुतो वैदिककर्मानुष्ठानानुपपत्तिरित्यर्थः । ज्ञानकर्मसमुच्चयात् कैवल्यसिद्धिरित्युपसंहर्तुं इतिशब्दः ।

यत् तावत् ‘ब्रह्मज्ञानं सेतिकर्तव्यताकं, स्वफलसाधकं, करणत्वात्’ इत्यनुमानं तद्दूषयति -

तदसदिति ।

न हि शुक्तिकादिज्ञानमज्ञाननिवृत्तौ स्वफले सहकारि किञ्चिदपेक्षते, तथा च व्यभिचारादसाधकं करणत्वमित्यर्थः ।

यत्तु - गीताशास्त्रे समुच्चयस्यैव प्रतिपाद्यतेति प्रतिज्ञातम् , तदपि विभागवचनविरुद्धमित्याह -

ज्ञानेति ।

साङ्ख्यबुद्धिर्योगबुद्धिश्चेति बुद्धिद्वयम् । तत्र साङ्ख्यबुद्ध्याश्रयां ज्ञाननिष्ठां व्याख्यातुं साङ्ख्यशब्दार्थमाह -

अशोच्यानित्यादिनेति ।

‘अशोच्यान्’ (भ. भ. गी. २-११) इत्यादि ‘स्वधर्ममपि चावेक्ष्य’ (भ. भ. गी. २-३१) इत्येतदन्तं वाक्यं यावद्भविष्यति तावता ग्रन्थेन यत् परमार्थभूतमात्मतत्त्वं भगवता निरूपितम् , तत् यया सम्यक् ख्यायते - प्रकाश्यते सा वैदिकी सम्यग्बुद्भिः सङ्ख्या । तया प्रकाश्यत्वेन सम्बन्धि प्रकृतं तत्त्वं साङ्ख्यमित्यर्थः ।

साङ्ख्यशब्दार्थमुक्तवा तत्प्रकाशिकां बुद्धिं तद्वतश्च साङ्ख्यान् व्याकरोति -

तद्विषयेति ।

तद्विषया बुद्धिः साङ्ख्यबुद्धिरिति सम्बन्धः ।

तामेव प्रकटयति -

आत्मन इति ।

‘न जायते म्रियते वा’ (भ. भ. गी. २-२०) इत्यादिप्रकरणार्थनिरूपणद्वारेण आत्मनः षड्भावविक्रियाऽसम्भवात् कूटस्थोऽसाविति या बुद्धिरुत्पद्यते सा साङ्ख्यबुद्धिः, तत्पराः संन्यासिनः साङ्ख्या इत्यर्थः ।

सम्प्रति योगबुद्ध्याश्रयां कर्मनिष्ठां व्याख्यातुकामो योगशब्दार्थमाह   -

एतस्या इति ।

यथोक्तबुद्ध्युत्पत्तौ विरोधादेवानुष्ठानायोगात् तस्यास्तन्निवर्तकत्वात् पूर्वमेव तदुत्पत्तेरात्मनो देहादिव्यतिरिक्तत्वाद्यपेक्षया धर्माधर्मौ निष्कृष्य तेन ईश्वराराधनरूपेण कर्मणा पुरुषो मोक्षाय युज्यते - योग्यः सम्पद्यते । तेन मोक्षसिद्धये परम्परया साधनीभूतप्रागुक्तधर्मानुष्ठानात्मको योग इत्यर्थः ।

अथ योगबुद्धिं विभजन् योगिनो विभजते -

तद्विषयेति ।

उक्ते बुद्धिद्वये भगवतोऽभिमतिं दर्शयति -

तथा चेति ।

साङ्ख्यबुद्ध्याश्रया ज्ञाननिष्ठेत्येतदपि भगवतोऽभिमतमित्याह -

तयोश्चेति ।

ज्ञानमेव योगो ज्ञानयोगः । तेन हि ब्रह्मणा युज्यते - तादात्म्यमापद्यते । तेन संन्यासिनां निष्ठा - निश्चयेन स्थितिस्तात्पर्येण परिसमाप्तिः, तां कर्मनिष्ठातो व्यतिरिक्तां निष्ठयोर्मध्ये निष्कृष्य भगवान् वक्ष्यतीति योजना । ‘लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयाऽनघ । ज्ञानयोगेन साङ्ख्यानाम्’ (भ. भ. गी. ३-३) इत्येतद्वाक्यमुक्तार्थविषयमर्थतोऽनुवदति -

पुरेति ।

योगबुद्ध्याश्रया कर्मनिष्ठेत्यत्रापि भगवदनुमतिमादर्शयति -

तथा चेति ।

कर्मैव योगः कर्मयोगः । तेन  हि बुद्धिशुद्धिद्वारा मोक्षहेतुज्ञानाय पुमान् युज्यते । तेन निष्ठां कर्मिणां ज्ञाननिष्ठातो विलक्षणां कर्मयोगेनेत्यादिना वक्ष्यति भगवानिति योजना ।

निष्ठाद्वयं बुद्धिद्वयाश्रयं भगवता विभज्योक्तमुपसंहरति -

एवमिति ।

कया पुनरनुपपत्त्या भगवता निष्ठाद्वयं विभज्योक्तम् ? इत्याशङ्क्याह -

ज्ञानकर्मणोरिति ।

कर्म हि कर्तृत्वानेकत्वबुद्ध्याश्रयम् , ज्ञानं पुनरकर्तृत्वैकत्वबुद्ध्याश्रयम् । तदुभयमित्थं विरुद्धसाधनसाध्यत्वात् न एकावस्थस्यैव पुरुषस्य सम्भवति । अतो युक्तमेव तयोर्विभागवचनमित्यर्थः ।

भगवदुक्तविभागवचनस्य मूलत्वेन श्रुतिमुदाहरति-

यथेति ।

तत्र ज्ञाननिष्ठाविषयं वाक्यं पठति -

एतमेवेति ।

प्रकृतमात्मानं नित्यविज्ञप्तिस्वभावं वेदितुमिच्छन्तः त्रिविधेऽपि कर्मफले वैतृष्ण्यभाजः सर्वाणि कर्माणि परित्यज्य ज्ञाननिष्ठा भवन्तीति पञ्चमलकारस्वीकारेण संन्यासविधिं विवक्षित्वा, तस्यैव विधेः शेषेणार्थवादेन ‘किं प्रजया’ (बृ. उ. ४-४-२२) इत्यादिना मोक्षफलं ज्ञानमुक्तमित्यर्थः ।

ननु - फलाभावात् प्रजाक्षेपो नोपपद्यते, पुत्रेणैतल्लोकजयस्य वाक्यान्तरसिद्धत्वात् , इत्याशङ्क्य, विदुषां प्रजासाध्यमनुष्यलोकस्य आत्मव्यतिरेकेणाभावात् , आत्मनश्चासाध्यत्वादाक्षेपो युक्तिमानिति विवक्षित्वाह -

येषामिति ।

इति ज्ञानं दर्शितमिति शेषः ।

तस्मिन्नेव ब्राह्मणे कर्मनिष्ठाविषयं वाक्यं दर्शयति -

तत्रैवेति ।

प्राकृतत्वम् - अतत्त्वदर्शित्वेनाज्ञत्वम् । स च ब्रह्मचारी सन् गुरुसमीपे यथाविधि वेदमधीत्य अर्थज्ञानार्थं धर्मजिज्ञासां कृत्वा तदुत्तरकालं लोकत्रयप्राप्तिसाधनं पुत्रादित्रयं ‘सोऽकामयत जाया मे स्यात्’ (बृ. उ. १-४-१७) इत्यादिना कामितवानिति श्रुतमित्यर्थः ।

वित्तं विभजते -

द्विप्रकारमिति ।

तदेव प्रकारद्वैरूप्यमाह -

मानुषमिति ।

मानुषं वित्तं व्याचष्टे -

कर्मरूपमिति ।

तस्य फलपर्यवसायित्वमाह -

पितृलोकेति ।

दैवं वित्तं विभजते -

विद्यां चेति ।

तस्यापि फलनिष्ठत्वमाह -

देवेति ।

कर्मनिष्ठाविषयत्वेनोदाहृतश्रुतेस्तात्पर्यमाह -

अविद्येति ।

अज्ञस्य कामनाविशिष्टस्यैव कर्माणि ‘सोऽकामयत’ (बृ. उ. १-४-१७) इत्यादिना दर्शितानीत्यर्थः ।

ज्ञाननिष्ठाविषयत्वेन दर्शितश्रुतेरपि तात्पर्यं दर्शयति -

तेभ्य इति ।

कर्मसु विरक्तस्यैव संन्यास - पूर्विका ज्ञाननिष्ठा प्रागुदाहृतश्रुत्या दर्शितेत्यर्थः ।

अवस्थाभेदेन ज्ञानकर्मणोर्भिन्नाधिकारत्वस्य श्रुतत्वात् तन्मूलेन भगवतो विभागवचनेन शास्त्रस्य समुच्चयपरत्वं प्रतिज्ञातमपबाधितमिति साधितम् । किञ्च समुच्चयो ज्ञानस्य श्रौतेन, स्मार्तेन वा कर्मणा विवक्ष्यते ? यदि प्रथमस्तत्राह -

तदेतदिति ।

समुच्चयेऽभिप्रेते प्रश्नानुपपत्तिं दोषान्तरमाह

न चेति ।

तामेवानुपपत्तिं प्रकटयति-

एकपुरुषेति ।

यदि समुच्चयः शास्त्रार्थो भगवता विवक्षितः तदा ज्ञानकर्मणोरेकेन पुरुषेणानुष्ठेयत्वमेव तेनोक्तमर्जुनेन च श्रुतम् । तत् कथं तदसम्भवमनुक्तमश्रुतं च मिथ्यैव श्रोता भगवत्यारोपयेत् ? न च तदारोपादृते किमिति मां कर्मण्येव अतिक्रूरे युद्धलक्षणे नियोजयसीति प्रश्नोऽवकल्पते । तथा च प्रश्नालोचनया प्रष्टृप्रतिवक्त्रोः शास्त्रार्थतया समुच्चयोऽभिप्रेतो न भवतीति प्रतिभातीत्यर्थः ।

किञ्च समुच्चयपक्षे कर्मापेक्षया बुद्धेर्ज्यायस्त्वं भगवता पूर्वमनुक्तमर्जुनेन चाश्रुतं कथमसौ तस्मिन्नारोपयितुमर्हति ? ततश्चानुवादवचनं श्रोतुरनुचितमित्याह -

बुद्धेश्चेति ।

इतश्च समुच्चयः शास्त्रार्थो न सम्भवति, अन्यथा पञ्चमादावर्जुनस्य प्रश्नानुपपत्तेरित्याह -

किञ्चेति ।

ननु - सर्वान् प्रत्युक्तेऽपि समुच्चये, नार्जुनं प्रत्युक्तोऽसाविति तदीयप्रश्नोपपत्तिरित्याशङ्क्याह -

यदीति ।

एतयोः - कर्मतत्त्यागयोरिति यावत् ।

ननु - कर्मापेक्षया कर्मत्यागपूर्वकस्य ज्ञानस्य प्राधान्यात् तस्य श्रेयस्त्वात् तद्विषयप्रश्नोपपत्तिरिति चेत् , नेत्याह -

न हीति ।

तथैव समुच्चये पुरुषार्थसाधने भगवता दर्शिते सत्यन्यतरगोचरो न प्रश्नो भवतीति शेषः ।

समुच्चये भगवतोक्तेऽपि तदज्ञानादर्जुनस्य प्रश्नोपपत्तिरिति शङ्कते -

अथेति ।

अज्ञाननिमित्तं प्रश्नमङ्गीकृत्यापि प्रत्याचष्टे -

तथापीति ।

भगवतो भ्रान्त्यभावेन पूर्वापरानुसन्धानसम्भवादित्यर्थः ।

प्रश्नानुरूपत्वमेव प्रतिवचनस्य प्रकटयति -

मयेति ।

व्यावर्त्यमंशमादर्शयति -

न त्विति ।

प्रतिवचनस्य प्रश्नाननुरूपत्वमेव स्पष्टयति -

पृष्टादिति ।

.श्रौतेन कर्मणा समुच्चयो ज्ञानस्येति पक्षं प्रतिक्षिप्य पक्षान्तरं प्रतिक्षिपति -

नापीति ।

श्रुतिस्मृत्योर्ज्ञानकर्मणोर्विभागवचनं आदिशब्दगृहीतं बुद्धेर्ज्यायस्त्वं, पञ्चमादौ प्रश्नः, भगवत्प्रतिवचनं, सर्वमिदं श्रौतेनेव स्मार्तेनापि कर्मणा बुद्धेः समुच्चये विरुद्धं स्यादित्यर्थः ।

द्वितीयपक्षासम्भवे हेत्वन्तरमाह -

किञ्चेति ।

समुच्चयपक्षे प्रश्नप्रतिवचनयोरसम्भवात् नेदं गीताशास्त्रं तत्परमित्युपसंहरति -

तस्मादिति ।

विशुद्धब्रह्मात्मज्ञानं स्वफलसिद्धौ न सहकारिसापेक्षम् , अज्ञाननिवृत्तिफलत्वात् , रज्ज्वादितत्त्वज्ञानवत् । अथवा - बन्धः सहायानपेक्षेण ज्ञानेन निवर्त्यते, अज्ञानात्मकत्वात् , रज्जुसर्पादिवदिति भावः ।

ननु - ‘कुर्याद्विद्वांस्तथाऽसक्तश्चिकीर्षुर्लोकसङ्ग्रहम्’ (भ. भ. गी. ३-२५) इति वक्ष्यमाणत्वात् कथं गीताशास्त्रे समुच्चयो नास्ति ? तत्राह -

यस्य त्विति ।

चोदनासूत्रानुसारेण विधितोऽनुष्ठेयस्य कर्मणो धर्मत्वात् , व्यापारमात्रस्य तथात्वाभावात् तत्त्वविदश्च वर्णाश्रमाभिमानशून्यस्य अधिकारप्रतिपत्त्यभावात् , यागादिप्रवृत्तीनामविद्यालेशतो जायमानानां कर्माभासत्वात् , ‘कुर्याद्विद्वान्’ (भ. भ. गी. ३-२५)  इत्यादिवाक्यं न समुच्चयप्रापकमिति भावः । वाशब्दश्चार्थे । द्वितीयस्तु विविदिषावाक्यस्थसाधनान्तरसङ्ग्रहार्थः ।

सांसारिकं ज्ञानं व्यावर्तयति -

परमार्थेति ।

तदेवाभिनयति -

एकमिति ।

प्रवृत्तिरूपमिति रूपग्रहणमाभासत्वप्रदर्शनार्थम् । कर्माभाससमुच्चयस्तु यादृच्छिकत्वात् न मोक्षं फलयतीति शेषः ।

किञ्च, ज्ञानिनो यागादिप्रवृत्तिर्न ज्ञानेन तत्फलेन समुच्चीयते, फलाभिसन्धिविकलप्रवृत्तित्वात् अहङ्कारविधुरप्रवृत्तित्वाद्वा भगवत्प्रवृत्तिवदित्याह -

यथेति ।

हेतुद्वयस्यासिद्धिमाशङ्क्य परिहरति -

तत्त्वविदिति ।

कूटस्थं ब्रह्मैवाहमिति मन्वानो विद्वान् प्रवृत्तिं तत्फलं वा नैव स्वगतत्वेन पश्यति, रूपादिवद् दृश्यस्य द्रष्टृधर्मत्वायोगात् । किन्तु कार्यकरणसङ्घातगतत्वेनैव प्रवृत्त्यादि प्रतिपद्यते । ततस्तत्त्वविदो व्याख्यानभिक्षाटनादावहङ्कारस्य तृप्त्यादिफलाभिसन्धेश्च आभासत्वात् नासिद्धं हेतुद्वयमित्यर्थः ।

ननु - ज्ञानोदयात् प्रागवस्थायामिवोत्तरकालेऽपि प्रतिनियतप्रवृत्त्यादिदर्शनात् न तत्त्वदर्शिनिष्ठप्रवृत्त्यादेराभासत्वमिति, तत्राह -

यथा चेति ।

स्वर्गादिरेव काम्यमानत्वात् कामः, तदर्थिनः - स्वर्गादिकामस्य अग्निहोत्रादेरपेक्षितस्वर्गादिसाधनस्यानुष्ठानार्थमग्निमाधाय व्यवस्थितस्य तस्मिन्नेव काम्ये कर्मणि प्रवृत्तस्य अर्धकृते केनापि हेतुना कामे विनष्टे तदेवाग्निहोत्रादि निर्वर्तयतो न तत् काम्यं भवति, नित्यकाम्यविभागस्य स्वाभाविकत्वाभावात् , कामोपबन्धानुपबन्धकृतत्वात् । तथा विदुषोऽपि विध्यधिकाराभावात् यागादिप्रवृत्तीनां कर्माभासतेत्यर्थः ।

विद्वत्प्रवृत्तीनां कर्माभासत्वमित्यत्र भगवदनुमतिमुपन्यस्यति -

तथा चेति ।

ननु - विद्वद्व्यापारेऽपि कर्मशब्दप्रयोगदर्शनात् तद्व्यापारस्य कर्माभासत्वानुपपत्तेः समुच्चयसिद्धिरिति, तत्राह -

यच्चेति ।

ज्ञानकर्मणोः समुच्चित्यैव संसिद्धिहेतुत्वे प्रतिपन्ने कुतो विभज्य अर्थज्ञानमिति पृच्छति -

तत्कथमिति ।

तत्र, ‘किं जनकादयोऽपि तत्त्वविदः प्रवृत्तकर्माणः स्युः, आहोस्विदतत्त्वविदः ? ‘ इति विक्ल्प्य, प्रथमं प्रत्याह -

यदीति ।

तत्त्ववित्त्वे कथं प्रवृत्तकर्मत्वम् , कर्मणामकिञ्चित्करत्वात् , इत्याशङ्क्याह -

ते लोकेति ।

तेषामुक्तप्रयोजनार्थमपि न प्रवृत्तिर्युक्ता सर्वत्राप्युदासीनत्वात् , इत्याशङ्क्याह -

गुणा इति ।

इन्द्रियाणां विषयेषु प्रवृत्तिद्वारा तत्त्वविदां प्रवृत्तकर्मत्वेऽपि ज्ञानेनैव तेषां मुक्तिरित्याह -

ज्ञानेनेति ।

उक्तमेवार्थं सङ्क्षिप्य दर्शयति -

कर्मेति

कर्मणेत्यादौ बाधितानुवृत्त्या प्रवृत्त्याभासो गृह्यते ।

द्वितीयमनुवदति -

अथेति ।

तत्र वाक्यार्थं कथयति -

ईश्वरेति ।

विभज्य विज्ञेयत्वं वाक्यार्थस्योक्तमुपसंहरति -

इति व्याख्येयमिति ।

कर्मणां चित्तशुद्धिद्वारा ज्ञानहेतुत्वमित्युक्तेऽर्थे वाक्यशेषं  प्रमाणयति -

एतमेवेति ।

‘योगिनः कर्म कुर्वन्ति’ (भ. भ. गी. ५-११) इत्यादिवाक्यमर्थतोऽनुवदति -

सत्त्वेति ।

‘स्वकर्मणा’ (भ. भ. गी. १८-४६) इत्यादौ साक्षादेव  मोक्षहेतुत्वं कर्मणां वक्ष्यतीत्याशङ्क्याह -

स्वकर्मणेति ।

स्वकर्मानुष्ठानादीश्वरप्रसादद्वारा ज्ञाननिष्ठायोग्यता लभ्यते । ततो ज्ञाननिष्ठया मुक्तिः । तेन न साक्षात् कर्मणां मुक्तिहेतुतेत्यग्रे स्फुटीभविष्यतीत्यर्थः ।

तत्त्वज्ञानोत्तरकालं कर्मासम्भवे फलितमुपसंहरति -

तस्मादिति ।

ननु - यद्यपि गीताशास्त्रं तत्त्वज्ञानप्रधानमेकं वाक्यम् , तथापि तन्मध्ये श्रूयमाणं कर्म तदङ्गमङ्गीकर्तव्यम् , प्रकरणप्रामाण्यात् इति समुच्चयसिद्धिः, तत्राह -

यथा चेति ।

अर्थशब्देन आत्मज्ञानमेव केवलं कैवल्यहेतुरिति गृह्यते ।

‘अहिंसा परमो धर्मो भिक्षाशनं च ‘ इत्येवंलक्षणया बुद्ध्या युद्धवैमुख्यमर्जुनस्य श्रुत्वा स्वपुत्राणां राज्यैश्वर्यमप्रचलितमवधार्य स्वस्थहृदयं धृतराष्ट्रं दृष्ट्वा तस्य दुराशामपनेष्यामीति मनीषया सञ्जयस्तं प्रत्युक्तवानित्याह -

सञ्जय इति ।

परमेश्वरेण स्मार्यमाणोऽपि कृत्याकृत्ये सहसा नार्जुनः सस्मार, विपर्ययप्रयुक्तस्य शोकस्य दृढतरमोहहेतुत्वात् ।

तथापि तं भगवान् नोपेक्षितवानित्याह -

तं तथेति ।

तं - प्रकृतं पार्थं, तथा - स्वजनमरणप्रसङ्गदर्शनेन कृपया - करुणया आविष्टं - अधिष्ठितम् , अश्रुभिः पूर्णे समाकुले चेक्षणे यस्य तम् , अश्रुव्याप्ततरलाक्षं विषीदन्तं - शोचन्तं इदं - वक्ष्यमाणं वाक्यं - सोपपत्तिकं वचनं मधुनामानमसुरं सूदितवानिति मधुसूदनो भगवानुक्तवान् , न तु यथोक्तमर्जुनमुपेक्षितवानित्यर्थः ॥ १ ॥

किं तद्वाक्यमित्यपेक्षायामाह –

श्रीभगवानिति ।

कुतो - हेतोस्त्वा - त्वां सर्वक्षत्रियप्रवरं कश्मलं - मलिनं शिष्टगर्हितं युद्धात् पराङ्मुखत्वं विषमे - सभयस्थाने समुपस्थितं - प्राप्तम् ? अनार्यैः - शास्त्रार्थमविद्वद्भिर्जुष्टं - सेवितम् , अस्वर्ग्यं - स्वर्गानर्हं - प्रत्यवायकारणम् , इह च अकीर्तिकरम् - अयशस्करम् ।  अर्जुननाम्ना प्रख्यातस्य तव नैतद्युक्तमित्यर्थः ॥ २ ॥

पुनरपि भगवानर्जुनं प्रत्याह -

क्लैब्यमिति ।

क्लैब्यं - क्लीबभावमधैर्यं, मा स्म गमः - मा गाः । हे पार्थ – पृथातनय ।  न हि त्वयि - महेश्वरेणापि  कृताहवे प्रख्यातपौरुषे महामहिमनि एतदुपपद्यते ।  क्षुद्रं - क्षुद्रत्वकारणं हृदयदौर्बल्यं - मनसो दुर्बलत्वमधैर्यं त्यक्त्वोत्तिष्ठ - युद्धायोपक्रमं कुरु ।  हे परन्तप - परं शत्रुं तापयतीति तथा सम्बोध्यते ॥ ३ ॥

एवं भगवता प्रतिबोध्यमानोऽपि शोकाभिभूतचेतस्त्वात् अप्रतिबुध्यमानः सन् अर्जुनः स्वाभिप्रायमेव प्रकृतं भगवन्तं प्रत्युक्तवान् -

कथमित्यादिना ।

भीष्मं पितामहं द्रोणं चाचार्यं सङ्ख्ये - रणे हे मधुसूदन, इषुभिः, यत्र वाचापि योत्स्यामीति  वक्तुमनुचितं तत्र कथं बाणैर्योत्स्ये इति भावः ।  सायकैस्तौ कथं प्रतियोत्स्यामि - प्रतियोत्स्ये ? तौ हि पूजार्हौ - कुसुमादिभिरर्चनयोग्यौ । हे अरिसूदन - सर्वानेव अरीन् अयत्नेन सूदितवानिति भगवानेवं सम्बोध्यते ॥ ४ ॥

राज्ञां धर्मेऽपि युद्धे गुर्वादिवधे वृत्तिमात्रफलत्वं गृहीत्वा पापमारोप्य ब्रूते -

गुरूनिति ।

गुरून् - भीष्मद्रोणादीन् भ्रात्रादींश्चात्र प्राप्तानहिंसित्वा । महानुभावान् - महामाहात्म्यान् श्रुताध्ययनसम्पन्नान् । श्रेयः - प्रशस्यतरं युक्तं भोक्तुं - अभ्यवहर्तुम् । भैक्षं - भिक्षाणां समूहः । भिक्षाशनं नृपादीनां निषिद्धमपि इह लोके -  व्यवहारभूमौ । न हि गुर्वादिहिंसया राज्यभोगोऽपेक्ष्यते । किञ्च हत्वा गुर्वादीनर्थकामानेव भुञ्जीय, न मोक्षमनुभवेयम् । इहैव भोगः, न स्वर्गे ।

अर्थकामानेव विशिनष्टि -

भोगानिति ।

भुज्यन्ते इति भोगाः, तान् रुधिरप्रदिग्धान् - लोहितलिप्तानिव अत्यन्तगर्हितान् , अतो भोगान् गुरुवधादिसाध्यान् परित्यज्य भिक्षाशनमेव युक्तमित्यर्थः ॥ ५ ॥

क्षत्रियाणां स्वधर्मत्वाद्युद्धमेव श्रेयस्करमित्याशङ्क्याह -

न चैतदिति ।

एतदपि न जानीमो भैक्षयुद्धयोः कतरन्नोऽस्माकं गरीयः - श्रेष्ठम् , किं भैक्षं हिंसाशून्यत्वात् , उत युद्धं स्ववृत्तित्वात् ? इति । सन्दिग्धा च जयस्थितिः । किं साम्यमेवोभयेषां यद्वा वयं जयेम - अतिशयीमहि, यदि वा नोऽस्मान् धार्तराष्ट्राः - दुर्योधनादयो जयेयुः ? जातोऽपि जयो न फलवान् , यतो यान् बन्धून् हत्वा न जिजीविषामः - जीवितुं नेच्छामः, ते एवावस्थिताः, प्रमुखे - सम्मुखे, धार्तराष्ट्राः - धृतराष्ट्रस्यापत्यानि । तस्माद्भैक्षाद्युद्धस्य श्रेष्ठत्वं न सिद्धमित्यर्थः ॥ ६ ॥

समधिगतसंसारदोषजातस्य अतितरां निर्विण्णस्य मुमुक्षोरुपसन्नस्य आत्मोपदेशसङ्ग्रहणेऽधिकारं सूचयति -

कार्पण्येति ।

योऽल्पां -  स्वल्पामपि स्वक्षतिं न क्षमते स कृपणः । तद्विधत्वात् , अखिलोऽनात्मवित् अप्राप्तपरमपुरुषार्थतया कृपणो भवति । ‘यो वा एतदक्षरं गार्ग्यविदित्वाऽस्माल्लोकात् प्रैति स कृपणः’ (बृ. उ. ३-८-१०) इति श्रुतेः । तस्य भावः कार्पण्यं - दैन्यं, तेन दोषेणोपहतः - दूषितः स्वभावः - चित्तमस्येति विग्रहः सोऽहं पृच्छामि - अनुयुञ्जे, त्वा - त्वाम् । धर्मसम्मूढचेताः - धर्मो धारयतीति परं ब्रह्म, तस्मिन् संमूढं - अविवेकतां गतं चेतो यस्य ममेति तथाऽहमुक्तः । किं पृच्छसि ? यन्निश्चितमैकान्तिकमनापेक्षिकं श्रेयः स्यात् , न रोगनिवृत्तिवदनैकान्तिकमनात्यन्तिकम् , स्वर्गवदापेक्षिकं वा, तन्निःश्रेयसं मे - मह्यं ब्रूहि । ‘नापुत्रायाशिष्याय’ (श्वे. उ. ६-२२) इति निषेधान्न प्रवक्तव्यमिति मा मंस्थाः । यतः शिष्यस्तेऽहं भवामि । शाधि - अनुशाधि मां निःश्रेयसम् । त्वामहं प्रपन्नोऽस्मि ॥ ७ ॥

कुतो निःश्रेयसमेवेच्छसि तत्राह -

न हीति ।

यस्मान्न प्रपश्यामि । किं न पश्यसि ? ममापनुद्यात् -  अपनयेत् । यत् शोकमुच्छोषणं - प्रतपनमिन्द्रियाणां तन्न पश्यामि ।

ननु शत्रून् निहत्य राज्ये प्राप्ते शोकनिवृत्तिस्ते भविष्यति, नेत्याह -

अवाप्येति ।

अविद्यमानः सपत्नः शत्रुर्यस्य तद् दृढं राज्यं - राज्ञः कर्म प्रजारक्षणप्रशासनादि । तदिदमस्यां भूमाववाप्यापि शोकापनयकारणं न पश्यामीत्यर्थः ।

तर्हि देवेन्द्रत्वादिप्राप्त्या शोकापनयस्ते भविष्यति, नेत्याह -

सुराणामपीति ।

तेषामाधिपत्यं - अधिपतित्वं स्वाम्यमिन्द्रत्वं ब्रह्मत्वं वा, तदवाप्यापि मम शोको नापगच्छेदित्यर्थः ॥ ८ ॥

एवमर्जुनेन स्वाभिप्रायं भगवन्तं प्रति प्रकाशितं सञ्जयो राजानमावेदितवानित्याह -

सञ्जय इति ।

एवं प्रागुक्तप्रकारेण भगवन्तं प्रत्युक्त्वा परन्तपोऽर्जुनो न योत्स्ये - न सम्प्रहरिष्ये, अत्यन्तासह्यशोकप्रसङ्गात् इति गोविन्दमुक्त्वा तूष्णीं - अब्रुवन् बभूव, ह किलेत्यर्थः ॥ ९ ॥

तमर्जुनं सेनयोर्वाहिन्योरुभयोर्मध्ये विषीदन्तं - विषादं कुर्वन्तमतिदुःखितं शोकमोहाभ्यामभिभूतं स्वधर्मात् प्रच्युतप्रायं प्रतीत्य प्रहसन्निव - उपहासं कुर्वन्निव, तदाश्वासार्थं हे भारत -  भरतान्वय ! इत्येवं सम्बोध्य, भगवानिदं - प्रश्नोत्तरं निःश्रेयसाधिगमसाधनं वचनमूचिवानित्याह -

तमुवाचेति

॥ १० ॥

तदेव वचनमुदाहरति -

श्रीभगवानिति ।

यस्य अज्ञानं तस्य भ्रमः, यस्य भ्रमस्तस्य पदार्थपरिशोधनपूर्वकं सम्यग्ज्ञानं वाक्यादुदेतीति ज्ञानाधिकारिणमभिप्रेत्याह -

अशोच्यानित्यादीति ।

यत्तु - कैश्चित् , ‘आत्मा वा अरे द्रष्टव्यः’ (बृ. उ. २-४-५) इत्याद्यात्मयाथात्म्यदर्शनविधिवाक्यार्थमनेन श्लोकेन व्याचष्टे स्वयं हरिरित्युक्तम् , तदयुक्तम् । कृतियोग्यतैकार्थसमवेतश्रेयःसाधनताया वा पराभिमतनियोगस्य वा विध्यर्थस्य अत्र अप्रतीयमानस्य कल्पनाहेत्वभावात् । न च दर्शने पुरुषतन्त्रत्वरहिते विधेययागादिविलक्षणे विधिरुपपद्यते । कृत्यान्तर्भूतस्यार्हार्थत्वात् । तव्यो न विधिमधिकरोतीत्यभिप्रेत्य व्याचष्टे -

न शोच्या इति ।

कथं तेषामशोच्यत्वमित्युक्ते भीष्मादिशब्दवाच्यानां वा शोच्यत्वम् , तत्पदलक्ष्याणां वेति विकल्प्य, आद्यं दूषयति -

सद्वृत्तत्वादिति ।

ये भीष्मादिशब्दैरुच्यन्ते, ते श्रुतिस्मृत्युदीरिताविगीताचारवत्त्वात् न शोच्यतामश्नुवीरन्नित्यर्थः ।

द्वितीयं प्रत्याह -

परमार्थेति ।

अरजते रजतबुद्धिवत् अशोच्येषु शोच्यबुद्ध्या भ्रान्तोऽसीत्याह -

तानिति ।

अनुशोचनप्रकारमभिनयन् भ्रान्तिमेव प्रकटयति -

ते म्रियन्त इति ।

पुत्रभार्यादिप्रयुक्तं सुखमादिशब्देन गृह्यते । इत्यनुशोचितवानसीति सम्बन्धः ।

विरुद्धार्थाभिधायित्वेनापि भ्रान्तत्वमर्जुनस्य साधयति -

प्रज्ञावतामिति ।

वचनानि - ‘उत्सन्नकुलधर्माणाम्’ (भ. भ. गी. १-४४) इत्यादीनि ।

किमेतावता फलितमिति तदाह -

तदेतदिति ।

तत् मौढ्यं - अशोच्येषु शोच्यदृष्टित्वम् । एतत् पाण्डित्यं - बुद्धिमतां वचनभाषित्वमिति यावत् ।

अर्जुनस्य पूर्वोक्तभ्रान्तिभाक्त्वे निमित्तमात्माज्ञानमित्याह -

यस्मादिति ।

ननु - सूक्ष्मबुद्धिभाक्त्वमेव पाण्डित्यं न त्वात्मज्ञत्वं, हेत्वभावात् , इत्याशङ्क्याह -

ते हीति ।

पाण्डित्यं - पण्डितभावमात्मज्ञानं, निर्विद्य - निश्चयेन लब्ध्वा, ‘बाल्येन तिष्ठासेत्’ (बृ. उ. ३-५-१) इति बृहदारण्यकश्रुतिमुक्तर्थामुदाहरति -

पाण्डित्यमिति ।

यथोक्तपाण्डित्यराहित्यं कथं ममावगतमित्याशङ्क्य, कार्यदर्शनादित्याह -

परमार्थतस्त्विति ।

यस्मादित्यस्यापेक्षितं दर्शयति -

अत इति

॥ ११ ॥

वृत्तिकृतामभिप्रायं प्रत्याख्याय, स्वाभिप्रेतः शास्त्रार्थः समर्थितः । सम्प्रति ‘अशोच्यान्’ (भ. भ. गी. २-११) इत्यस्मात् प्राक्तनग्रन्थसन्दर्भस्य प्रागुक्तं तात्पर्यार्थमनूद्य ‘अशोच्यान्’ इत्यादेः ‘स्वधर्ममपि चावेक्ष्य’ (भ. भ. गी. २-३१) इत्येतदन्तस्य समुदायस्य तात्पर्यमाह -

तत्रेति ।

अत्र हि शास्त्रे त्रीणि काण्डानि । अष्टादशसङ्ख्याकानामध्यायानां षट्कत्रितयमुपादाय त्रैविध्यात् । तत्र पूर्वषट्कात्मकं पूर्वकाण्डं त्वम्पदार्थं विषयीकरोति । मध्यमषट्करूपं मध्यमकाण्डं तत्पदार्थं गोचरयति । अन्तिमषट्कलक्षणमन्तिमं काण्डं पदार्थयोरैक्यं वाक्यार्थमधिकरोति । तज्ज्ञानसाधनानि च तत्र तत्र प्रसङ्गादुपन्यस्यन्ते, तज्ज्ञानस्य तदधीनत्वात् । तत्त्वज्ञानमेव केवलं कैवल्यसाधनमिति च सर्वत्राविगीतम् । एवं पूर्वोक्तरीत्या गीताशास्त्रार्थे परिनिश्चिते सतीति यावत् । धर्मे संमूढं - कर्तव्याकर्तव्यविवेकविकलं चेतो यस्य तस्य, मिथ्याज्ञानवतः अहङ्कारममकारवतः शोकाख्यसागरे दुरुत्तारे प्रविश्य क्लिश्यतो ब्रह्मात्मैक्यलक्षणवाक्यार्थज्ञानं आत्मज्ञानं, तदतिरेकेणोद्धरणासिद्धेः तं अतिभक्तमतिस्निग्धं शोकादुद्धर्तुमिच्छन् भगवान् यथोक्तज्ञानार्थं तमर्जुनमवतारयन् - पदार्थपरिशोधने प्रवर्तयन् , आदौ त्वम्पदार्थं शोधयितुमशोच्यानित्यादिवाक्यमाहेति योजना ।

आत्मा न जायते प्रागभावशून्यत्वात् , नरविषाणवदिति परिहरति -

न त्वेवेति ।

किञ्च आत्मा नित्यः, भावत्वे सत्यजातत्वात् व्यतिरेकेण घटवत् इत्यनुमानान्तरमाह -

न चैवेति ।

यत्तु - कैश्चित् आत्मयाथात्म्यं जिज्ञासितं भगवानुपदिशति न त्वित्यादिना श्लोकचतुष्टयेन इत्यादिष्टम् , तदसत् । विशेषवचने हेत्वभावात् , सर्वत्रैव आत्मयाथात्म्यप्रतिपादनाविशेषात् इत्याशयेन ।

‘पदच्छेदः पदार्थोक्तिर्वाक्ययोजना’ इति त्रितयमपि व्याख्यानाङ्गं सम्पादयति -

न त्वित्यादिना ।

ननु - आत्मनो देहोत्पत्तिविनाशयोरुत्पत्तिविनाशप्रसिद्धेरुक्तमनुमानद्वयं प्रसिद्धिविरुद्धतया कालात्ययापदिष्टमिति, नेत्याह -

अतीतेष्विति ।

‘चराचरव्यपाश्रयस्तु स्यात्’ (ब्र. सू. २-३-१६) इति न्यायेन आत्मनो जन्मविनाशप्रसिद्धेरौपाधिकजन्यविनाशविषयत्वात् निरुपाधिकस्य तस्य जन्मादिराहित्यमिति भावः ।

यद्यपि तवेश्वरस्य जन्मराहित्यं, तथापि कथं मम ? इत्याशङ्क्याह -

तथेति ।

तथापि भीष्मादीनां कथं जन्माभावः ?, तत्राह -

‘तथा नेमे’ इति ।

द्वितीयमनुमानं प्रपञ्चयन्नुत्तरार्धं व्याचष्टे -

तथेत्यादिना ।

ननु - देहोत्पत्तिविनाशयोरात्मनो जन्मनाशाभावेऽपि महासर्गमहाप्रलययोस्तस्याग्निविस्फुलिङ्गदृष्टान्तश्रृत्या जन्मविनाशावेष्टव्यावित्याशङ्क्य, ‘नाऽऽत्माऽश्रुतेः’ (ब्र. सू. २. ३. १७) इति न्यायेन परिहरति -

त्रिष्वपीति ।

‘यावद्विकारं तु विभागो लोकवत्’ (ब्र. सू. २-३-७) इति न्यायेन भिन्नत्वात् विकारित्वमात्मनामनुमीयते । भिन्नत्वं च बहुवचनप्रयोगप्रमितमित्याशङ्क्याह -

देहेति

॥ १२ ॥

नित्यत्वमशोच्यत्वे कारणमिति सूचितं विवेचयितुं प्रश्नपूर्वकं प्रतिजानीते -

कुत इत्यादिना ।

नित्यत्वमसिद्धं प्रमाणाभावात् इति चोदयति -

कथमिति ।

न केवलमागमादेव आत्मनो नित्यत्वम् , किन्तु अवस्थान्तरवत् जन्मान्तरे पूर्वसंस्कारानुवृत्तेश्चेत्याह -

देहिन इति ।

देहवत्त्वं - तस्मिन्नहंममाभिमानभाक्त्वम् । तासामिति निर्धारणे षष्ठी । आत्मनः श्रुतिस्मृत्युपपत्तिभिर्नित्यत्वज्ञानं धीमानित्यत्र धीर्विवक्ष्यते ।

एवं सतीति ।

तत्त्वतो विक्रियाभावात् नित्यत्वे समधिगते सतीत्यर्थः ॥ १३ ॥

ननु - पूर्वं देहं विहाय अपूर्वं देहमुपादानस्य विक्रियावत्त्वेनोत्पत्तिविनाशवत्त्वविभ्रमः समुद्भवेत् इति शङ्कते -

तत्रेति ।

अशोच्यत्वप्रतिज्ञायां नित्यत्वे हेतू कृते सतीति यावत् ।

अवस्थाभेदे सत्यपि वस्तुतो विक्रियाभावादात्मनो नित्यत्वमुपपन्नमित्युत्तरश्लोकेन दृष्टान्तावष्टम्भेन प्रतिपादयतीत्याह -

दृष्टान्तमिति ।

व्याख्येयं पदमुपादाय करणव्युत्पत्त्या तस्येन्द्रियविषयत्वं दर्शयति -

मात्रास्पर्शा इत्यादिना ।

षष्ठीसमासं दर्शयन् भावव्युत्पत्त्या स्पर्शशब्दार्थमाह -

मात्राणामिति ।

तेषामर्थक्रियामादर्शयति -

ते शीतेति ।

सम्प्रति स्पर्प्रा शब्दस्य कर्मव्युत्पत्त्या शब्दादिविषयपरत्वमुपेत्य समासान्तरं दर्शयन् विषयाणां कार्यं कथयति -

अथवेति ।

ननु - शीतोष्णप्रदत्वे सुखदुःखप्रदत्वस्य सिद्धत्वात् किमिति शीतोष्णयोः सुखदुःखाभ्यां पृथग्ग्रहणम् ? इति, तत्राह -

शीतमिति ।

विषयेभ्यस्तु पृथक्कथनं तदन्तर्भूतयोरेव तयोः सुखदुःखहेत्वोरानुकूल्यप्रातिकूल्ययोरुपलक्षणार्थम् । अव्यात्मं हि शीतमुष्णं वा आनुकूलयं प्रातिकूल्यं वा सम्पाद्य बाह्या विषयाः सुखादि जनयन्ति ।

ननु - विषयेन्द्रियसंयोगस्य आत्मनि सदा सत्त्वात् तत्प्रयुक्तशीतादेरपि तथात्वात् तन्निमित्तौ हर्षविषादौ तथैव तस्मिन्नापन्नौ इत्याशङ्क्योत्तरार्धं व्याचष्टे -

यस्मादित्यादिना ।

अत्र च ‘कौन्तेय, भारत’ इति सम्बोधनाभ्यामुभयकुलशुद्धस्यैव विद्याधिकारित्वमित्येतदेव द्योत्यते ॥ १४ ॥

आत्मनः श्रुत्यादिप्रमिते नित्यत्वे तदुत्पत्तिविनाशप्रयुक्तशोकमोहाभावेऽपि, प्रकारान्तरेण शोकमोहौ स्याताम् ,  इत्याशङ्कामनूद्य, उत्तरत्वेन श्लोकमवतारयति -

यद्यपीत्यादिना ।

शीतोष्णयोस्ताभ्यां सुखदुःखयोश्च प्राप्तिं निमित्तीकृत्य यो मोहादिर्दृश्यते, तस्य अन्वयव्यतिरेकाभ्यां दृश्यमानत्वमाश्रित्य लौकिकविशेषणम् । ‘अशोच्यान्’ (भ. भ. गी. २-११) इत्यत्र यो विद्याधिकारी सूचितः, तस्य ‘तितिक्षुः समाहितो भूत्वा’ (बृ. उ. ४-४-२३) इति श्रुतेस्तितिक्षुत्वविशेषणमिहोपदिश्यते।

तितिक्षमाणस्य विवक्षितं लाभमुपलम्भयति -

यं हीति ।

हर्षविषादरहितमित्यत्र शमादिसाधनसम्पन्नत्वमुच्यते । धीमन्तमिति - नित्यानित्याविवेकभागित्वम् । एतच्चोभयं वैराग्यादेरुपलक्षणम् ।

नित्यात्मदर्शनं - त्वमर्थज्ञानम् । साधनचतुष्टयवन्तमधिकारिणमनूद्य त्वम्पदार्थज्ञानवतस्तस्य मोक्षौपयिकवाक्यार्थज्ञानयोग्यतामाह -

स नित्येति

॥ १५ ॥

अधिकारिविशेषणं तितिक्षुत्वं नोपयुक्तम् , केवलस्य तस्य पुमर्थाहेतुत्वात् इति शङ्कते -

शीतेति ।

विवेकवैराग्यादिसहितं तन्मोक्षहेतुज्ञानद्वारा तदर्थमिति परिहरति -

श्रृण्विति ।

यतः शीतादेः शोकादिहेतोः, अनात्मनो नास्ति वस्तुत्वम् , वस्तुनश्च आत्मनो निर्विकारत्वेन एकरूपत्वम् , अतो मुमुक्षोर्विशेषणं तितिक्षुत्वं युक्तमित्याह -

नेत्यादिना ।

कार्यस्यासत्त्वेऽपि कारणस्य सत्त्वेन अत्यन्तासत्त्वासिद्धिरित्याशङ्क्य विशिनष्टि -

सकारणस्येति ।

नासत इत्युपादाय, पुनर्नकारानुकर्षणमन्वयार्थम् । असतः शून्यस्य अस्तित्वप्रसङ्गाभावात् अप्रसक्तप्रतिषेधप्रसक्तिरित्याशङ्क्याह -

न हीति ।

विमतं - अतात्त्विकम् , अप्रामणिकत्वाद् - रज्जुसर्पवत् । न हि धर्मिग्राहकस्य प्रत्यक्षादेस्तत्त्वावेदकं प्रामाण्यं कल्प्यते, विषयस्य दुर्निरूपत्वात् , अतोऽनिर्वाच्यं द्वैतमित्यर्थः ।

कथं पुनरध्यक्षादिविषयस्य शीतोष्णादिद्वैतस्य दुर्निरूपत्वेन अनिर्वाच्यत्वम् ?, तत्राह -

विकारोहीति ।

ततश्च विमतं - मिथ्या आगमापायित्वात् सम्प्रतिपन्नवदिति ।

फलितमाह -

विकारश्चेति ।

वाचारम्भणश्रुतेर्द्वैतमिथ्यात्वे अनुग्राहकत्वं दर्शयितुं चकारः ।

किञ्च कार्यं कारणाद्भिन्नम् , अभिन्नं वा इति विकल्प्य, आद्यं दूषयति -

यथेति ।

निरूप्यमाणम् , अन्तर्बहिश्चेति शेषः । विमतं कारणान्न तत्त्वतो भिद्यते, कार्यत्वाद् - घटवदित्यर्थः ।

इतोऽपि कारणाद्भेदेन नास्ति कार्यम् , ‘आदावन्ते च यन्नास्ति वर्तमानेऽपि तत् तथा’ (मां. का. २-६) इति न्यायादित्याह -

जन्मेति ।

यदि कार्यं कारणादभिन्नम् , तदा तस्य भेदेन असत्त्वे पूर्वस्मादविशेषः । तादात्म्येनावस्थानं तु न युक्तम् , तस्यापि कारणव्यतिरेकेणाभावात् ।

कार्यकारणविभागाविधुरे वस्तुनि कार्यकारणपरम्पराया विभ्रमत्वादित्यभिप्रेत्याह -

मृदादीति ।

कार्यकारणविभागविहीनं वस्त्वेव नास्तीति मन्वानश्चोदयति -

तदसत्त्व इति ।

अनुवृत्तव्यावृत्तबुद्धिद्वयदर्शनादनुवृत्ते  च व्यावृत्तानां कल्पितत्वादकल्पितं सर्वभेदकल्पनाधिष्ठानमकार्यकारणं वस्तु सिध्यतीति परिहरति -

न ; सर्वत्रेति ।

सम्प्रति सतो वस्तुत्वे प्रमाणमनुमानमुपन्यस्यति -

यद्विषयेति ।

यद्व्यावृत्तेष्वनुवृत्तं तत् परमार्थसत् यथा - सर्पधारादिष्वनुगतो रज्ज्वादेरिदमंशः । विमतं सत्यमव्यभिचारित्वात् सम्प्रतिपन्नवदित्यर्थः ।

व्यावृत्तस्य कल्पितत्वे प्रमाणमाह -

यद्विषयेत्यादिना ।

यत् व्यावृत्तं तन्मिथ्या, यथा - सर्पधारादि । विमतं मिथ्या, व्यभिचारित्वात् सम्प्रतिपन्नवदित्यर्थः । इत्यनुमानद्वयमनुसृत्य सतोऽकल्पितत्वम् , असतश्च कल्पितत्वम् , स्थितमिति शेषः ।

ननु - नेदमनुमानद्वयमुपपद्यते, समस्तद्वैतवैतथ्यवादिनो विभागाभावात् , अनुमानादिव्यवहारानुपपत्तेः तत्राह -

सदसदिति ।

उक्ते विभागे बुद्धिद्वयाधीने स्थिते सत्यनुमानादिव्यवहारो निर्वहति प्रातिभसिकविभागेन तद्योगात् परमार्थस्यैव तद्धेतुत्वे केवलव्यतिरेकाभावादित्यर्थः ।

कुतः ? सदसद्विभागस्य बुद्धिद्वयाधीनत्वं बुद्धिविभागस्यापि तवाभावात् , तत्राह -

 सर्वत्रेति ।

व्यवहारभूमिः सप्तम्यर्थः । बुद्धिविभागस्यापि कल्पितस्यैव बोध्यविभागप्रतिभासहेतुतेति भावः ।

बुद्धिद्वयमनुरुध्य सदसद्विभागे, सतः सामान्यरूपतया विशेषाकाङ्क्षायां सामान्यविशेषे द्वे वस्तुनी वस्तुभूते स्याताम् इति चेत् , नेत्याह -

समानाधिकरणे इति ।

पदयोः सामानाधिकरण्यं बुद्ध्योरुपचर्यते । सोऽयमिति सामानाधिकरण्यवद्घटः सन्नित्यादि सामानाधिकरण्यमेकवस्तुनिष्ठं वस्तुभेदे घटपटयोरिव तदयोगादित्यर्थः ।

नीलमुत्पलमितिवद्धर्मधर्मिविषयतया सामानाधिकरण्यस्य सुवचत्वात् न वस्त्वैक्यविषयत्वम् इति चेत् , नेत्याह -

न नीलेति ।

न हि सामान्यविशेषयोर्भेदेऽभेदे च तद्भावः भेदाभेदौ च विरुद्धौ, अतो जातिव्यक्त्योः सामानाधिकरण्यं नीलोत्पलयोरिव न गौणम् , किन्तु व्यावृत्तमनुवृत्ते कल्पितमित्येकनिष्ठमित्यर्थः ।

सामान्यविशेषयोरुक्तन्यायं गुणगुण्यादावतिदिशति -

एवमिति ।

तुल्यौ हि तत्रापि विकल्पदोषाविति भावः ।

सामानाधिकरण्यानुपपत्त्या द्वे वस्तुनी सामान्यविशेषाविति पक्षं प्रतिक्षिप्य, विशेषा एव वस्तूनीति पक्षं प्रतिक्षिपति -

तयोरिति ।

बुद्धिव्यभिचाराद्बोध्यव्यभिचारेपि, कथं व्यावृत्तानां विशेषाणामवस्तुत्वम् ? इत्याशङ्क्याह -

तथा चेति ।

विकारो हि स इत्यादाविति  शेषः ।

न चैकं वस्तु सामान्यविशेषात्मकमेकस्य द्वैरूप्यविरोधादित्यभिप्रेत्य, सामान्यमेकमेव वस्तु तद्बुद्धेरव्यभिचारात् , बोध्यस्यापि सतस्तथात्वादित्याह -

न त्विति ।

व्यभिचरतीति पूर्वेण सम्बन्धः ।

विशेषाणां व्यभिचारित्वे सतश्चाव्यभिचारित्वे फलितमुपसंहरति -

तस्मादिति ।

असत्त्वं कल्पितत्वम् । तच्छब्दार्थमेव स्फोरयति -

व्यभिचारादिति ।

सद्बुद्धिविषयस्य सतोऽकल्पितत्वे तच्छब्दोपात्तमेव हेतुमाह -

अव्यभिचारादिति ।

सद्बुद्धिव्यभिचारद्वारा बोध्यस्यापि व्यभिचारात् तदव्यभिचारित्वहेतोरसिद्धिरिति शङ्कते -

घटे विनष्ट इति ।

सद्बुद्धेर्घटबुद्धिवद्घटमात्रविषयत्वाभावात् , न घटनाशे व्यभिचारोस्तीति परिहरति -

न, पटादाविति ।

सद्बुद्धेरघटवियत्वे निरालम्बनत्वायोगात् विषयान्तरं वक्तव्यमित्याशङ्क्याह -

विशेषणेति ।

सतोऽकल्पितत्वहेतोरव्यभिचारित्वस्यासिद्धिमुद्धृत्य, विशेषाणां कल्पितत्वहेतोर्व्यभिचारित्वस्यासिद्धिं शङ्कते -

सदिति ।

यथा सद्बुद्धिर्घटे नष्टे पटादौ दृष्टत्वादव्यभिचारिणीति अव्यभिचारः सतो दर्शितः, तथा घटबुद्धिरपि घटे नष्टे घटान्तरे दृष्टेत्यव्यभिचारात् घटे व्यभिचारासिद्धौ विशेषान्तरेष्वपि कल्पितत्वहेतुर्व्यभिचारो न सिध्यतीत्यर्थः ।

घटबुद्धेर्घटान्तरे दृष्टत्वेऽपि पटादावदृष्टत्वेन व्यभिचारात् पटादिविशेषेष्वपि व्यभिचारित्वसिद्धिरित्युत्तरमाह -

न, पटादाविति ।

विशेषाणामेवं व्यभिचारित्वे सतोऽपि तदुपपत्तेरव्यभिचारित्वहेत्वसिद्धितादवस्थ्यमिति शङ्कते -

सद्बुद्धिरिति ।

घटादिनाशदेशे तदुपरक्ताकारेण सत्त्वाभानेऽपि नासत्त्वम् , घटाद्यभावाधिष्ठानतया भानादित्याह -

न विशेष्येति ।

यथा सर्वगता जातिरित्यत्र खण्डमुण्डादिव्यक्त्यभावदेशे गोत्वं व्यञ्जकाभावात् न व्यज्यते, न गोत्वाभावात् , तथा सत्त्वमपि घटादिनाशे व्यञ्जकाभावात् न भाति, न स्वरूपाभावात् इत्युक्तमेव प्रपञ्चयति -

सदित्यादिना ।

सप्रतियोगिकविशेषणव्यभिचारेऽपि स्वरूपाव्यभिचाराद्युक्तं सतः सत्यत्वमिति भावः ।

द्वयोः सतोरेव विशेषणविशेष्यत्वदर्शनात् घटसतोरपि विशेषणविशेष्यत्वे द्वयोः सत्त्वध्रौव्यात् घटादिकल्पितत्वानुमानं सामानाधिकरण्यधीबाधितमिति चोदयति -

एकेति ।

अनुभवमनुसृस्य बाधितविषयत्वमुक्तानुमानस्य निरस्यति -

नेत्यादिना ।

घटादेः सति कल्पितत्वानुमानस्य दोषराहित्ये, फलितमुपसंहरति -

तस्मादिति ।

प्रथमपादव्याख्यानपरिसामाप्तावितिशब्दः । ननु - नेदं व्याख्यानं भाष्यकाराभिप्रेतम् , सर्वद्वैतशून्यत्वविवक्षायां शास्त्रतद्भाष्यविरोधात् । केनापि पुनर्दुर्विदग्धेन स्वमनीषिकयोत्प्रेक्षितमेतत् इति चेत् , मैवम् । किमिदं द्वैतप्रपञ्चस्य शून्यत्वम् ? किं तुच्छत्वम् ? किं वा सद्विलक्षणत्वम् ? नाद्यः, अनभ्युपगमात् । द्वितीयानभ्युपगमे तु तवैव शास्त्रविरोधो भाष्यविरोधश्च । सर्वं हि शास्त्रं तद्भाष्यं च द्वैतस्य सत्यत्वानधिकरणत्वसाधनेन अद्वैतसत्यत्वे पर्यवसितमिति त्रैविद्यवृद्धैस्तत्र तत्र प्रतिष्ठापितम् । तथा च प्रक्षेपाशङ्का सम्प्रदायपरिचयाभावात् इति द्रष्टव्यम् ।

अनात्मजातस्य कल्पितत्वेन अवस्तुत्वप्रतिपादनपरतया प्रथमपादं व्याख्याय, द्वितीयपादमात्मनः सर्वकल्पनाधिष्ठानस्याकल्पितत्वेन वस्तुत्वप्रसाधनपरतया व्याकरोति -

तथेति ।

ननु - आत्मनः सदात्मनो विशेषेषु विनाशिषु तदुपरक्तस्य विनाशः स्यात् इत्याशङ्क्य, विशिष्टनाशेऽपि स्वरूपानाशस्योक्तत्वात् , मैवमित्याह -

सर्वत्रेति ।

ननु - कदाचिदसदेव पुनः सत्त्वमापद्यते, प्रागसतो घटस्य जन्मना सत्त्वाभ्युपगमात् । सच्च कदाचिदसत्त्वं प्रतिपद्यते, स्थितिकाले सतो घटस्य पुनर्नाशेन असत्त्वाङ्गीकारात् । एवं सदसतोरव्यवस्थितत्वाविशेषात् उभयोरपि हेयत्वमुपादेयत्वं वा तुल्यं स्यात् इति, तत्राह -

एवमिति ।

तुशब्दो दृष्टशब्देन सम्बध्यमानो दृष्टिमवधारयति । न हि प्रागसतो घटस्य सत्त्वम् , असत्त्वे स्थिते सत्त्वप्राप्तिविरोधात् । असत्त्वनिवृत्तिश्च सत्त्वप्राप्त्या चेत् , प्राप्तमितरेतराश्रयत्वम् , अन्तरेणैव सत्त्वापत्तिमसत्त्वनिवृत्तौ असत्त्वमनवकाशि भवेत् । एतेन - सतोसत्त्वापत्तिरपि प्रतिनीतेति भावः ।

कथं तर्हि सतोऽसत्त्वम् , असतश्च सत्त्वं प्रतिभाति ? इत्याशङ्क्य, तत्त्वदर्शनाभावात् इत्याह -

तत्त्वेति ।

तस्य भावस्तत्त्वम् ।

न च तच्छब्देन परामर्शयोग्यं किञ्चिदस्ति प्रकृतं प्रतिनियतम् इत्याशङ्क्य व्याचष्टे -

तदित्यादिना ।

ननु - सदसतोरन्यथात्वं केचित् प्रतिपद्यन्ते । केचित्तु तयोरुक्तनिर्णयमनुसृत्य तथात्वमेवाधिगच्छन्ति । तत्र केषां मतमेषितव्यम् ? इति, तत्राह -

त्वमपीति

॥ १६ ॥

अधिकारिविशेषणे तितिक्षुत्वे हेत्वन्तरपरत्वेन उत्तरश्लोकमवतारयति -

इतश्चेति ।

इतःशब्दार्थमेवस्फुटयति -

यस्मादिति ।

आत्मनः सदात्मनो विनाशराहित्यविज्ञाने सर्वजगद्व्यापकत्वं हेतुमाह -

 येनेति ।

आत्मनो विनाशाभावे युक्तिमाह -

विनाशमिति ।

आत्मनो विनाश मिच्छता स्वतो वा परतो वा नाशस्तस्येष्यते ? नाद्य इत्याह -

अविनाशीति ।

देहादिद्वैतमसदुच्यते । ततः सतो विशेषणं स्वतो नाशराहित्यम् । तस्य द्योतको निपात इत्याह -

तुशब्द इति ।

आकाङ्क्षापूर्वकं विशेष्यं दर्शयति -

किमित्यादिना ।

विमतं - अविनाशि, व्यापकत्वादाकाशवत् । न हि प्रमितमेवोदाहरणं किन्तु प्रसिद्धमपीति भावः । न द्वितीय इत्याह -

विनाशमिति ।

न खल्वस्य विनाशं कर्तुं कश्चिदर्हतीति सम्बन्धः । विनाशस्य सावशेषत्वनिरवशेषत्वाभ्यां द्वैराश्यमाश्रित्य व्याकरोति -

अदर्शनमिति ।

न कश्चिदस्यभावं कर्तुं शक्नोतीत्यत्र हेतुमाह -

अव्ययस्येति ।

ब्रह्म हि स्वरूपेण व्येति स्वसम्बन्धिना वा ? इति विकल्प्य, आद्यं दूषयति -

नैतदिति ।

न हि निरवयवस्य स्वावयवापचयरूपव्ययः सम्भवतीत्यत्र वैधर्म्यदृष्टान्तमाह -

देहादिवदिति ।

द्वितीयं निरस्यति -

नापीति ।

तदेव व्यतिरेकदृष्टान्तेन स्पष्टयति -

यथेति ।

द्विविधेऽपि व्ययायोगे फलितमाह -

अत इति ।

किञ्च ब्रह्म परतो न नश्यति आत्मत्वात् , घटवदित्याह -

न कश्चिदिति ।

आत्मत्वहेतोरसिद्धिमुद्धरति -

आत्मा हीति ।

तादात्म्यश्रुतिः अत्र हीति हेतूक्रियते ।

अस्तु तर्हि स्वयमेव ब्रह्म, आत्मनो नाशकमुद्बन्धनादिदर्शनात् , नेत्याह -

स्वात्मनीति

॥ १७ ॥

ननु सदिति सामान्यम् , स्वरूपं वा ? प्रथमे, तस्य विशेषसापेक्षतया प्रलयदशायामशेषविशेषविनाशे विनाशः स्यात् । न चात्मादयो विशेषास्तदापि सन्तीति वाच्यम् । आत्मातिरिक्तानां विशेषणां कार्यत्वाङ्गीकारात् , प्रलयावस्थायामनवस्थानात् , आत्मनस्तु सामान्यात्मनो धर्मित्वादुक्तदोषात् । द्वितीये तु, स्वरूपस्य व्यावृत्तत्वे कल्पितत्वाद्विनाशित्वम् , अनुवृत्तत्वे तस्यैव सामान्यतया प्रागुक्तदोषानुषक्तिरिति मन्वानश्चोदयति -

किं पुनरिति ।

सामान्यविशेषभावशून्यमखण्डैकरसं ‘सदेव’ (छा. उ. ६-२-१) इत्यादिश्रुतिप्रमितं सर्वाविक्रियारहितं वस्तु प्रकृतं सद्विवक्षितमित्युत्तरमाह -

उच्यत इति ।

ननु - देहादिषु सद्बुद्धेरनुवृत्तेस्तस्या विच्छेदाभावात् कथमन्तवत्त्वं तेषामिष्यते ? तत्राह -

यथेति ।

तथेमे देहाः, सद्बुभाजोऽपि प्रमाणतो निरूपणायामवसाने विच्छेदादन्तवन्तो भवन्तीति शेषः ।

देहत्वादिना च जाग्रद्देहादेरन्तवत्त्वं सम्प्रतिपन्नवदनुमातुं शक्यमित्याह -

स्वप्नेति ।

तेषां स्वातन्त्र्यं व्युदस्यति -

नित्यस्येति ।

आकाशादिव्यावृत्त्यर्थं विशिनष्टि -

शरीरिण इति ।

परिणामिनित्यत्वं व्यवच्छिनति -

अनाशिन इति ।

तस्य प्रत्यक्षाद्यविषयत्वमाह -

अप्रमेयस्येति ।

प्रवाहस्य प्रवाहिव्यतिरेकेण अनिरूपणात् न तदात्मनः देहाद्यभावे सम्बन्धसिद्धिरित्यभिसन्धायोक्तम् -

विवेकिभिरिति ।

शरीरादेरन्तवत्त्वेऽपि प्रवाहरूपेण आत्मनस्तत्सम्बन्धस्यानन्तवत्त्वमाशङ्क्याह -

नित्यस्येति ।

नित्यत्वस्य द्वैविध्यसिद्ध्यर्थं नाशद्वैविध्यं प्रकटयति -

यथेत्यादिना ।

नाशस्य निरवशेषत्वेन सावशेषत्वेन च सिद्धे द्वैविध्ये फलितमाह -

तत्रेति ।

पदद्वयस्यैकार्थत्वमाशङ्क्य निरस्यति -

नित्यस्येत्यादिना ।

विशेषणाभ्यां कूटस्थानित्यत्वमात्मनो विवक्षितमित्यर्थः ।

अन्यतरविशेषणमात्रोपादाने परिणामिनित्यत्वमात्मनः शङ्क्येत इत्यनिष्टापत्तिमाशङ्क्याह -

अन्यथेति ।

औपनिषदत्वविशेषणमाश्रित्य अप्रमेयत्वमाक्षिपति -

नन्विति ।

इतश्च आत्मनो नाप्रमेयत्वमित्याह -

प्रत्यक्षादिनेति ।

तेन च आगमप्रवृत्त्यपेक्षया पूर्वावस्थायामात्मैव परिच्छिद्यते, तस्मिन्नेव अज्ञातत्वसम्भवात् , ‘अज्ञातज्ञापकं प्रमाणम्’ इति च प्रमाणलक्षणादित्यर्थः ।

‘एतदप्रमेयम्’ (बृ. उ. ४. ४. २०) इत्यादिश्रुतिमनुसृत्य परिहरति -

नेत्यादिना ।

कथं मानमनपेक्ष्य आत्मनः सिद्धत्वमित्याशङ्क्योक्तं विवृणोति -

सिद्धे हीति ।

प्रमित्सोः प्रमेयमिति शेषः ।

तदेव व्यतिरेकमुखेन विशदयति -

न हीति ।

आत्मनः सर्वलोकप्रसिद्धत्वाच्च तस्मिन् न प्रमाणमन्वेषणीयमित्याह -

न ह्यात्मेति ।

प्रत्यक्षादेरनात्मविषयत्वात् तत्र चाज्ञातताया व्यवहारे सम्भवात् तत्प्रामाण्यस्य च व्यावहारिकत्वात् ।

विशिष्टे तत्प्रवृत्तावपि केवले तदप्रवृत्तेः यद्यपि नात्मनि तत्प्रामाण्यम् , तथापि तद्धितश्रुत्या शास्त्रस्य तत्र प्रवृत्तिरवश्यम्भाविनीत्याशङ्क्याह -

शास्त्रं त्विति ।

शास्त्रेण प्रत्यग्भूते ब्रह्मणि प्रतिपादिते प्रमात्रादिविभागस्य व्यावृत्तत्वात् युक्तमस्यान्त्यत्वम् , अपौरुषेयतया निर्दोषत्वाच्चास्य प्रामाण्यमित्यर्थः । तथापि कथमस्य प्रत्यगात्मनि प्रामाण्यम्, तस्य स्वतःसिद्धत्वेन अविषयत्वात् , अज्ञातज्ञापनायोगात् ? इत्याशङ्क्य, स्वतो भानेऽपि प्रतीचो, ‘मनुष्योऽहं कर्ताहम्’ इत्यादिना मनुष्यत्वकर्तृत्वादीनामतद्धर्माणामध्यारोपणेन आत्मनि प्रतीयमानत्वात् तन्मात्रनिवर्तकत्वेन आत्मनो विषयत्वमनापद्यैव शास्त्रं प्रामाण्यं प्रतिपद्यते, ‘सिद्धं तु निवर्तकत्वात्’ इति न्यायादित्याह -

अतद्धर्मेति ।

घटादाविव स्फुरणातिशयजनकत्वेन किमित्यात्मनि शास्त्रप्रामाण्यं नेष्टमित्याशङ्क्य, जडत्वाजडत्वाभ्यां विशेषादिति मत्वाह -

न त्विति ।

ब्रह्मात्मनो मानापेक्षामन्तरेण स्वतः स्फुरणे प्रमाणमाह -

तथा चेति ।

साक्षात् - अन्यापेक्षामन्तरेण अपरोक्षात् - अपरोक्षस्फुरणात्मकं यद्ब्रह्म, न च तस्यात्मनोऽर्थान्तरत्वम् , सर्वाभ्यन्तरत्वेन सर्ववस्तुसारत्वात् तमात्मानं व्याचक्ष्वेति योजना ।

अप्रमेयत्वेन अविनाशित्वं प्रतिपाद्य, फलितं निगमयति -

यस्मादिति ।

देहादेरवस्तुत्वात् आत्मनश्चैकरूपत्वात् युद्धे स्वधर्मे प्रवृत्तस्यापि तव न हिंसादिदोषसम्भावनेत्याह -

तस्मादिति ।

स्वधर्मनिवृत्तिहेतुनिषेधे तात्पर्यं दर्शयति -

युद्धादिति ।

आत्मनो नित्यत्वादिस्वरूपमुपपाद्य युद्धकर्तव्यत्वविधानात् ज्ञानकर्मसमुच्चयोऽत्र भातीत्याशङ्क्याह -

न हीति ।

युध्यस्वेति वचनात् तत्कर्तव्यत्वविधिरस्तीत्याशङ्क्यह -

युद्ध इति ।

कथं तर्हि ‘कथं भीष्ममहं’ (भ. भ. गी. २-४) इत्याद्यर्जुनस्य युद्धोपरमपरं वचनम् ? इति तत्राह -

शोकेति ।

यदि स्वतो युद्धे प्रवृत्तिः, तर्हि भगवद्वचनस्य का गतिरित्याशङ्क्याह -

तस्येति ।

भगवद्वचनस्य प्रतिबन्धनिवर्तकत्वे सति अर्जुनप्रवृत्तेः स्वाभाविकत्वे फलितमाह -

तस्मादिति

‘अविनाशि तु तद् विद्धि’ (भ. भ. गी. २-१७) इत्यत्र पूर्वार्धेन तत्पदार्थसमर्थनम् , उत्तरार्धेन निरीश्वरवादस्य परिणामवादस्य वा निराकरणम् , आत्मनि जन्मादिप्रतिभानस्यौपचारिकत्वप्रदर्शनार्थं ‘अन्तवन्तः’ (भ. गी. २-१८) इत्यादि वचनमिति केचित् । अस्तु नाम अयमपि पन्थाः ॥ १८ ॥

सदसतोरनन्तरप्रकृतयोः स्वरूपाव्यभिचारित्वे परमार्थतया सन्निर्धारितम् । इदानीमसन्निर्दिधारयिषया पृच्छति -

किं पुनरिति ।

असत् असदेवेति निर्धारितत्वात् प्रश्नस्य निरवकाशत्वमाशङ्क्य शून्यं व्यावर्त्य विवक्षितमसत् निर्धारयितुं तस्य सावकाशत्वमाह -

यत् स्वात्मेति ।

देहादेरनात्मवर्गस्य प्रकृतासच्छब्दविषयतेत्याह -

उच्यत इति ।

प्रत्यक्षस्याज्ञानप्रसूतत्वेन आभासत्वात् तत्कृता बुद्धिर्न प्रमेति परिहरति -

य एनमिति ।

‘हन्ता चेन्मन्यते हन्तुम्’ (क. उ. १-२-१९) इत्याद्यामृचमर्थतो दर्शयित्वा व्याचष्टे -

य एनमिति ।

हन्तारं हतं वा आत्मानं मन्यमानस्य कथमज्ञानमित्यशङ्क्याह -

हन्ताहमिति ।

हन्तृत्वादिज्ञानमज्ञानमित्यत्र हेतुमाह -

यस्मादिति ।

आत्मनो हननं प्रति कर्तृत्वकर्मत्वयोरभावे हेतुं दर्शयति -

अविक्रित्यवादिति

॥ १९ ॥

पूर्वोक्तस्य गीताशास्रार्थस्योत्प्रेक्षामात्रमूलत्वं निराकर्तुं मन्त्रद्वयं भगवान् आनीतवानिति श्लोकद्वयस्य सङ्गतिं दर्शयति -

शोकमोहादीति ।

तत्र प्रथममन्त्रस्य सङ्गतिमाह -

यत्त्विति ।

प्रत्यक्षनिबन्धनत्वादमुष्या बुद्धेर्मृषात्वमयुक्तमित्याक्षिपति -

कथमिति ।

सर्वविक्रियाराहित्यप्रदर्शनेन हेतुं विशदयन् मन्त्रमेव पठति -

न जायत इति ।

जन्ममरणविक्रियाद्वयप्रतिषेधं साधयति -

नायमिति ।

अयमात्मा भूत्वा नाभविता, न वा अभूत्वा भूयो भवितेति योजना ।

न केवलं विक्रियाद्वयमेवात्र निषिध्यते, किन्तु सर्वमेव विक्रियाजातमित्याह -

अज इति ।

वाच्यमर्थमुक्त्वा विवक्षितमर्थमाह -

जनिलक्षणेति ।

विकल्पार्थत्वं व्यावर्तयति -

वेति ।

निष्पन्नमर्थं निर्दिशति -

नेत्यादिना ।

सम्बन्धमेवाभिनयति -

न कदाचिदिति ।

अन्त्यविक्रियाभावे हेतुत्वेन नायमित्यादि व्याचष्टे -

यस्मादिति ।

उक्तमेव व्यनक्ति -

यो हीति ।

आत्मनि तु भूत्वा पुनरभवनाभावान्नास्ति मृत्युरित्यर्थः ।

आत्मनो जन्माभावेऽपि हेतुरिहैव विवक्षितः, इत्याह -

वाशब्दादिति ।

अभूत्वेति च्छेदः । देहवदिति व्यतिरेकोदाहरणम् ।

उक्तमेवार्थं साधयति -

यो हीति ।

जन्माभावे तत्पूर्विकास्तित्वविक्रियाऽपि नात्मनोऽस्तीत्याह -

यस्मादिति ।

प्राणवियोगादात्मनो मृतेरभावे सावशेषनाशाभाववन्निरवशेषनाशाभावोऽपि सिध्यति, इत्याह -

यस्मादिति ।

ननु - जन्मनाशयोर्निषेधे तदन्तर्गतानां विक्रियान्तराणामपि निषेधसिद्धेस्तन्निषेधार्थं न पृथक् प्रयतितंव्यमिति, तत्राह -

यद्यपीति ।

स्वशब्दैः - मध्यवर्तिविक्रियानिषेधवाचकैरिति यावत् ।

आर्थिकेऽपि निषेधे, निषेधस्य सिद्धतया शाब्दो निषेधो न पृथगर्थवान् इत्याशङ्क्याह -

अनुक्तानामिति ।

नित्यशब्देन शाश्वतशब्दस्य पौनरुक्त्यं परिहरन् व्याकरोति -

शाश्वत इत्यादिना ।

अपक्षयो हि स्वरूपेण वा स्यात् ? गुणापचयतो वा ? इति विकल्प्य, क्रमेण दूषयति -

नेत्यादिना ।

पुराणपदस्य अगतार्थत्वं कथयति -

अपक्षयेति ।

तदेव स्फुटयति -

यो हीति ।

‘न म्रियते वा’ इत्यनेन चतुर्थपादस्य पौनरुक्त्यमाशङ्क्य, व्याचष्टे -

तथेत्यादिना ।

ननु - हिंसार्थो हन्तिः श्रूयते, तत् कथं विपरिणामो निषिध्यते ? तत्राह -

हन्तिरिति ।

हिंसार्थत्वसम्भवे किमित्यर्थान्तरं हन्तेरिष्यते ? तत्राह -

अपुनरुक्ततायै इति ।

हिंसार्थत्वे मृतिनिषेधेन पौनरुक्त्यं स्यात् , तन्निषेधार्थं विपरिणामार्थत्वमेष्टव्यमित्यर्थः ।

पूर्वावस्थात्यागेन अवस्थान्तराप्रपत्तिर्विपरिणामः । तदर्थश्चेदत्र हन्तिरिष्यते, तदा निष्पन्नमर्थमाह -

नेति ।

‘न जायते’ (क. उ. १-२-१८) इत्यादिमन्त्रार्थमुपसंहरति -

अस्मिन्निति ।

षण्णां विकाराणामात्मनि प्रतिषेधे फलितमाह -

सर्वेति ।

आत्मनः सर्वविक्रियाराहित्येऽपि किमायातमित्याशङ्क्याह -

यस्मादिति

॥ २० ॥

तदेव साधयितुं ‘न जायते म्रियते वा विपश्चित्’ (क. उ. १-२-१८) इत्यादिमन्त्रान्तरमवतारयति -

कथमिति ।

कर्तृत्वाद्यभिमानविरोधात् अद्वैतकूटस्थात्मनिश्चयसामर्थ्यात् प्राप्तं विदुषः संन्यासं विद्यापरिपाकार्थमभ्यनुजानाति -

वेदेति ।

पदद्वयस्य पूर्वमेव पौनरुक्त्यपरिहारेऽपि प्रकारान्तरेणापौनरुक्त्यमाह -

अविनाशिनमित्यादिना ।

प्रश्नेऽपि सम्भवति, किमिति नञुल्लेखेन व्याख्यायते, तत्राह -

उभयत्रेति ।

उत्तरत्र प्रतिवचनादर्शनात् नात्र प्रश्नः सम्भवति इत्यर्थः ।

विवक्षितं प्रकरणार्थं निगमयति -

हेत्वर्थस्येति ।

अविक्रियत्वं हेत्वर्थः, तस्य विदुषः सर्वकर्मनिषेधे समानत्वात् इति यावत् ।

यदि विदुषः सर्वकर्मनिषेधोऽभिमतः, तर्हि किमिति हन्त्यर्थ एव आक्षिप्यते ? तत्राह -

हन्तेरिति ।

उक्तं हेतुमाक्षेप्तुं पृच्छति -

विदुष इति ।

अभिप्रायमप्रतिपद्यमानो हेतुविशेषं पूर्वोक्तं स्मारयति -

नन्विति ।

उक्तमङ्गीकृत्य आक्षिपति -

सत्यमिति ।

विदुषः - विज्ञानात्मनः ब्रह्मणश्च वेद्यस्य विरुद्धधर्मत्वेन दहनतुहिनवत् भिन्नत्वात् विदुषः सर्वकर्मत्यागे, न असो कारणविशेषः स्यात् , इत्याह -

अन्यत्वादिति ।

अविक्रियात् इति च्छेदः । तथापि कूटस्थम् अविक्रियं ब्रह्म प्रतिपद्यमानस्य कुतो विक्रिया सम्भवेत् , ब्रह्मप्रतिपत्तिविरोधात् ? इत्याशङ्क्याह -

न हीति ।

‘अयमात्मा ब्रह्म’ (बृ. उ. २-५-१९) इत्यादिश्रुत्या समाधत्ते -

न, विदुष इति ।

किञ्च - विद्वत्ता विशिष्टस्य वा केवलस्य वा ? नाद्यः । विशिष्टस्य विद्वत्तायां सविशेषणस्यापि तत्प्रसङ्गात् ।

न च विशेषणीभूतसङ्घातस्य अचेतनत्वात् विद्वत्ता युक्ता, इत्याह -

न देहादीति ।

द्वितीये तु, जीवब्रह्मविभागासिद्धिः इत्याह -

असंहत इति ।

किञ्च प्रामाणिकविरुद्धधर्मवत्त्वस्य असिद्धत्वात् प्रातिभासिकस्य च बिम्ब्रप्रतिबिम्बयोरनैकान्त्यात् भेदानुमानायोगात् , जीवब्रह्मणोरमेदसिद्धिरित्यभिप्रेत्य, फलितमाह -

इति तस्येति ।

ननु -  अविक्रियस्य ब्रह्मस्वरूपतया सर्वकर्मासम्भवे विदुषो विद्वत्तापि कथं सम्भवति ? नाहि ब्रह्मणोऽविक्रियस्य विद्यालक्षणा विक्रिया स्वक्रिया भवितुमर्हति, तत्राह -

यथेति ।

अदृष्टेन्द्रियादिसहकृतमन्तः करणं प्रदीपप्रभावद्विषयपर्यन्तं परिणतं बु्द्धिवृत्तिरुच्यते । तत्र प्रतिबिम्बितं चैतन्यमभिव्यञ्जकबुद्धिवृत्त्यविवेकाद्विषयज्ञानमिति व्यवह्नियते । तेन - आत्मा उपलब्धा कल्प्यते । तच्च अविद्याप्रयुक्तमिथ्यासम्बन्धनिबन्धनम् । तथैव आध्यासिकसम्बन्धेन ब्रह्मात्मैक्याभिव्यञ्जकवाक्योत्थबुद्धिवृत्तिद्वारा विद्वानात्मा व्यपदिश्यते । न च मिथ्यासम्बन्धेन पारमार्थिकाविक्रियत्वविहतिरस्तीत्यर्थः ।

‘अहं ब्रह्म’ (बृ. उ. १-४-१०) इति बुद्धिवृत्तेर्मोक्षावस्थायामपि भावात् , आत्मनः सविशेषत्वमाशङ्क्य तस्या यावदुपाधिसत्त्वमेवेत्याह -

असत्येति ।

ननु - कूटस्थस्यात्मनो मिथ्याविद्यावत्त्वेऽपि तस्य कर्माधिकारनिवृत्तौ, कस्य कर्माणि विधीयन्ते ? न हि निरधिकाराणां तेषां विधिः, इत्याशङ्क्याह -

विदुष इति ।

कर्माणि अविदुषो विहितानीति विशेषमाक्षिपति -

नन्विति ।

कर्मविधानमविदुषः, विदुषश्चविद्याविघानमिति विभागे का हानिः ? इत्याशङ्क्याह -

विदितेति ।

विद्याया विदितत्वं लब्धत्वम् ।

कर्मविधिरविदुषः, विदुषो विद्याविधिरिति विभागासम्भवे फलितमाह -

तत्रेति ।

धर्मज्ञानानन्तरम् अनुष्ठेयस्य भावात् ब्रह्मज्ञानोत्तरकालं च तदभावात् ब्रह्मज्ञानहीनस्यैव कर्मविधिरिति समाधत्ते -

न ; अनुष्ठेयस्येति ।

विशेषोपपत्तिमेव प्रपञ्चयति -

अग्निहोत्रादीति ।

ननु - देहादिव्यतिरिक्तात्मज्ञानं विना पारलौकिकेषु कर्मसु प्रवृत्तेरनुपपत्तेः, तथाविधज्ञानवता कर्म अनुष्ठेयम् इति चेत् , तत्राह -

कर्ताहमिति ।

आत्मनि कर्ता भोक्ता इत्येवं विज्ञानवतत्त्वेऽपि ब्रह्मज्ञानविहीनत्वेन अविदुषोऽनुष्ठेयं कर्मेत्यर्थः ।

देहादिव्यतिरेकज्ञानवत् ब्रह्मज्ञानमपि ज्ञानत्वाविशेषात् कर्मप्रवृत्तौ उपकरिष्यतीत्याशङ्क्याह -

न त्विति ।

अनुष्ठेयविरोधित्वात् अविक्रियात्मज्ञानस्येति शेषः ।

ननु - ब्रह्मात्मैकत्वज्ञानात् उत्तरकालमपि कर्ताऽहमित्यादिज्ञानोत्पत्तौ कर्मविधिः सावकाशः स्यात् इति, नेत्याह -

नाहमिति ।

कारणाभावादिति शेषः । कर्तृत्वादिज्ञानमन्यदित्युक्तम् ।

अनुष्ठानाननुष्ठानयोरुक्तविशेषात् अविदुषोऽनुष्ठानं विदुषो नेत्युपसंहरति -

इत्येष इति ।

नन्वात्मविदो न चेदनुष्ठेयं किञ्चिदस्ति, कथं तर्हि ‘विद्वान् यजेत’ इत्यादिशास्त्रात् तं प्रति कर्माणि विधीयन्ते, तत्राह -

यः पुनरिति ।

आत्मनि कर्तृत्वादिज्ञानापेक्षाया कर्मस्वधिकृतत्वज्ञाने, तथाविधं पुरुषं प्रति कर्माणि विधीयन्ते । स च प्राचीनवचनात् अविद्वानेवेति निश्चीयते । न खलु अकर्तुत्वादिज्ञानवतः तद्विपरीतकर्तृत्वादिज्ञानद्वारा कर्मसु प्रवृत्तिरित्यर्थः ।

कर्मासम्भवे ब्रह्मविदो हेत्वन्तरमाह -

विशेषितस्येति ।

'वेदाविनाशिनम्' (भ. भ. गी. २. २३) इत्यादिनेति शेषः ।

यद्यपि विदुषो नास्ति कर्म, तथापि विविदिषोः स्यात् , इत्याशङ्क्याह -

तस्मादिति ।

विद्ययां विरुद्धत्वात् , इष्यमाणमेक्षप्रतिक्षत्वाच्च कर्मणामित्यर्थः ।

यद्यपि मुमुक्षोराश्रमकर्माण्यपेक्षितानि, तथापि विद्यातत्फलाभ्यामविरुद्धान्येव तान्यभ्युपगतानि । अन्यथा विविदिषासंन्यासविधिविरोधात् इत्यभिप्रेत्य, उक्तेऽर्थे भगवतोऽनुमतिमाह -

अत एवेति ।

विदुषो विविदिषोश्च संन्यासेऽधिकारः, अविदुषस्तु कर्मणीति विभागस्येष्टत्वादित्यर्थः ।

अधिकारिभेदेन निष्ठाद्वयं भगवता वेदव्यासेनापि दर्शितमित्याह -

तथा चेति ।

अध्ययनविधिना स्वाध्यायपाठे त्रैवर्णिकस्य प्रवृत्त्यनन्तरं तत्र क्रियामार्गो ज्ञानमर्गश्चेति द्वौमार्गौ अधिकारिभेेदेनावेदितावित्यर्थः । आदिशब्दात् ‘यत्र वेदाः प्रतिष्ठिताः’ (मो. ध. २४१-६) इत्यादि गृह्यते ।

उक्तयोर्मार्गयोस्तुल्यतां परिहर्तुमुदाहरणान्तरमाह -

तथेति ।

बुद्धिशुद्धिद्वारा कर्मतत्फलयोर्वैराग्योदयात् पूर्वं कर्ममार्गो विहितः । विरक्तस्य पुनः संन्यासपूर्वको ज्ञानमार्गो दर्शितः । स चेतरस्मादतिशयशालीति श्रुतमित्यर्थः ।

उक्ते विभागे पुनरपि वाक्यशेषानुकूल्यमादर्शयति -

एतमेवेति ।

‘अहङ्कारविमूढात्मा’ (भ. गी. ३-२७) इत्यस्य व्याख्यानम् -

अतत्त्वविदिति ।

‘तत्ववित् तु’ इति श्लोकमवतार्य तात्पर्यार्थं सङ्गृह्णाति -

नाहमिति ।

पूर्वेण क्रियापदेन इतिशब्दः सम्बध्यते ।

विरक्तमघिकृत्य वाक्यान्तरं पठति -

तथा चेति ।

आदिशब्दस्तस्यैव श्लोकस्य शेषसङ्ग्रहार्थः ।

अविक्रियात्मज्ञानात् कर्मसंन्यासे दर्शिते, मीमांसकमतमुत्थापयति -

तत्रेति ।

आत्मनो ज्ञानक्रियाशक्त्याधारत्वेन अविक्रियत्वाभावात् अविक्रियात्मज्ञानं संन्यासकारणीभूतं न सम्भवतीत्यर्थः ।

‘यथोक्तज्ञानाभावो विषयाभावाद्वा ? मानाभावाद्वा ? ‘ इति विकल्प्य, आद्यं दूषयति -

नेत्यादिना ।

न तावदविक्रियात्माभावः ‘न जायते म्रियते’ (भ. गी. २-२०) इत्यादिशास्रस्याप्तवाक्यतया प्रमणस्यान्तरेण कारणमानर्थक्यायोगादित्यर्थः ।

द्वितीयं प्रत्याह -

यथा चेति ।

पारलौकिककर्मविधिसामर्थ्यसिद्धं विज्ञानमुदाहरति -

कर्तुश्चेति ।

कर्मकाण्डादज्ञाते धर्मादौ विज्ञानोत्पत्तिवत् , ज्ञानकाण्डादज्ञाते ब्रह्मात्मनि विज्ञानोत्पत्तिरविरुद्धा, प्रमाणत्वाविशेषादित्यर्थः ।

ज्ञानस्य मनःसंयोगजन्यत्वात् , आत्मनश्च श्रुत्या मनोगोचरत्वनिरासात् , न आत्मज्ञाने साधनमस्तीति शङ्कते -

करणेति ।

श्रुतिमाश्रित्य परिहरति -

न, मनसेति ।

‘तत्त्वमसि’ (छा. उ. ६-८-७) आदिवाक्योत्थमनोवृत्त्यैव शास्त्राचार्योपदेशमनुसृत्य द्रष्टव्यं तत्त्वमिति श्रूयते । स्वरूपेण स्वप्रकाशमपि ब्रह्मात्मवस्तु वाक्योत्थबुद्धिवृत्त्यभिव्यक्तं सविकल्पकव्यवहारालम्बनं भवतीति मनोगोचरत्वोपचारादसिद्धं करणागोचरत्वमित्यर्थः ।

कथं तर्हि ब्रह्मात्मनो मनोविषयत्वनिषेधश्रुतिः ? इत्याशङ्क्य, असंस्कृतमनोवृत्त्यविषयत्वविषया सेति मन्वानः सन्नाह -

शास्त्रेति ।

सत्यपि श्रुत्यादौ, तदनुग्राहकाभावात् नास्माकमविक्रियात्मकज्ञानमुत्पत्तुमर्हतीत्याशङ्क्याह -

तथेति ।

तस्य अविक्रियस्य आत्मनोऽधिगत्यर्थं, ‘विमतो विकारः, नात्मधर्मः, विकारत्वात् , उभयाभिमतविकारवत्’ इत्यनुमाने, पूर्वोक्तश्रुतिस्मृतिरूपागमे च सत्येव, तस्मिन्नोत्पद्यते ज्ञानम् , इति वचः साहसमात्रं, सत्येव माने मेयं न भातीतिवदित्यर्थः ।

ननु - यथोक्तं ज्ञानमुत्पन्नमपि हानाय उपादानाय वा न भवतीति कुतोऽस्य फलवत्त्वम् ? तत्राह -

ज्ञानं चेति ।

अवश्यमिति ।

प्रकाशप्रवृत्तेः तमोनिवृत्तिव्यतिरेकेण अनुपपत्तिवत् , आत्मज्ञाननिवृत्तमन्तरेण आत्मज्ञानोत्पत्तेरनुपपत्तेरित्यर्थः ।

ननु - अज्ञानस्य ज्ञानप्रागभावत्त्वात् तन्निवृत्तिरेव ज्ञानम् , नतु तन्निवर्तकमिति, तत्राह -

तच्चेति ।

कथं पुनर्भगवतापि ज्ञानाभावातिरिक्तमज्ञानं दर्शितम् ? इत्याशङ्क्याह -

अत्र चेति ।

‘विमतं, ज्ञानाभावो न भवति, उपादानत्वात् , मृदादिवत्’ इति भावः ।

ननु   - हननक्रियायाः ‘न हिंस्यात्’ इति निषिद्धत्वात् , तत्कर्तृत्वादेरज्ञानकृतत्वेऽपि विहितक्रियाकर्तृत्वादेर्न तथात्वमिति, नेत्याह -

तच्चेति ।

न तावदात्मनि कर्तृत्वादि । नित्यम् , अमुक्तिप्रसङ्गात् । न चानित्यमपि निरुपादानम् , भावकार्यस्योपादाननियमात् । न च अनात्मा तदुपादानम् , आत्मनि तत्प्रतिभानात् । न चात्मैव तदुपादानम् , कूटस्थस्य तस्याविद्यां विना तदयोगात् इत्याह -

अविक्रियत्वादिति ।

कर्तृत्वाभावेऽपि कारयितृत्वं स्यात् , इत्याशङ्क्याह -

विक्रियावानिति ।

आत्मनि कर्तृत्वादिप्रतिभानस्य अनाद्यनिर्वाच्यमज्ञानमुपादानम् , तन्निवृत्तिश्च तत्त्वज्ञानादित्युक्तम् ।

इदानीं कर्तृत्वकारयितृत्वयोरविद्याकृतत्वे भगवतोऽनुमतिं दर्शयति -

तदेतदिति ।

विदुषो यदि कर्माधिकाराभावो भगवतोऽभिमतः, तर्हि कुत्र तस्य जीवतोऽधिकारः स्यात् ? इति पृच्छति -

क्व पुनरिति ।

‘ज्ञाननिष्ठायाम्’ इत्युक्तं स्मारयति -

उक्तमिति ।

तदङ्गभूते सर्वकर्मसंन्यासे च तस्याधिकारोऽस्तीत्याह -

तथेति ।

वक्ष्यमाणे वाक्ये सर्वकर्मसंन्यासो न प्रतिभाति, मानसानामेव कर्मणां विशेषणवशात् त्यागावगमात् इति शङ्कते -

नन्विति ।

विशेषणान्तरमाश्रित्य दूषयति -

न ; सर्वेति ।

मनसेति विशेषणात् मानसेष्वेव कर्मसु सर्वशब्दः सङ्कुचितः स्यात् इति शङ्कते -

मानसानामिति ।

सर्वात्मना मनोव्यापारत्यागे व्यापारान्तराणामनुपपत्तेः सर्वकर्मसंन्यासः सिध्यतीति परिहरति -

नेत्यादिना ।

मानसेष्वपि कर्मसु संन्यासे सङ्कोचात् न वागादिव्यापारानुपपत्तिरिति शङ्कते -

शास्त्रीयाणामिति ।

अन्यानीति ।

अशास्त्रीयवाक्कायकर्मकारणानि अशास्त्रीयाणि मानसानि । तानि च सर्वाणि कर्माणीत्यर्थः ।

वाक्यशेषमादाय दूषयति -

न ; नैवेति ।

न हि विवेकबुद्ध्या सर्वाणि कर्माण्यशास्त्रीयाणि संन्यस्य तिष्ठतीति युक्तम् , ‘नैव कुर्वन्’ (भ. गी. ५-१३) इत्यादिविशेषणस्य विवेकबुद्धेश्च त्यागहेतोस्तुल्यत्वादित्यर्थः ।

भगवदभिमतसर्वकर्मसंन्यासस्य अवस्थाविेशेषे सङ्कोचं दर्शयन्नाशङ्कते -

मरिष्यत इति ।

संन्यासो जीवदवस्थायामेव अत्र विवक्षित इत्यत्र लिङ्गं दर्शयन्नुत्तरमाह -

न ; नवेति ।

अनुपपत्तिमेव स्फोरयति -

न हीति ।

अन्वयविशेषान्वाख्यानेन लिङ्गासिद्धिं चोदयति -

अकुर्वत इति ।

विवेकवशात् अशेषाण्यपि कर्माणि देहे यथोक्ते निक्षिप्य अकुर्वन् अकारयंश्च विद्वानवतिष्ठते । तथा च - देहे कर्माणि संन्यस्य अकुर्वतोऽकारयतश्च सुखमासनमिति सम्बन्धसम्भवात् विशेषणस्य सति देहे, कर्मत्यागाविषयत्वाभावात् जीवतः सर्वकर्मत्यागो नास्तीत्यर्थः । अथवा अकुर्वत इत्यादि पूर्वत्रैव सम्बन्धनीयम् । लिङ्गासिद्धिचोद्यं तु देहे संन्यस्येत्यारभ्य उन्नेयम् ।

आत्मनः सर्वत्र अविक्रियत्वनिर्धारणात् देहसम्बन्धमन्तरेण कर्तृत्वकारयितृत्वाप्राप्तेः अप्राप्तप्रतिषेधप्रसङ्गपरिहारार्थम् अस्मदुक्त एव सम्बन्धः साधीयानिति समाधत्ते -

न ; सर्वत्रेति ।

श्रुतिषु स्मृतिषु चेत्यर्थः ।

किञ्च - सम्बन्धस्य आकाङ्क्षासंनिधियोग्यताधीनत्वात् आकाङ्क्षावशात् अस्मदभिमतसम्बन्धसिद्धिरित्याह -

आसनेति ।

भवदिष्टस्तु सम्बन्धो न सिध्यति, आकाङ्क्षाभावात् , इत्याह -

तदनपेक्षत्वाच्चेति ।

संन्यासशब्दस्य निक्षेपार्थत्वात् तस्य च अघिकरणसापेक्षत्वात् अस्मदिष्टसम्बन्धसिद्धिरित्याशङ्क्याह -

सम्पूर्वस्त्विति ।

अन्यथा उपसर्गवैयर्थ्यात् इत्यर्थः ।

मनसा विवेकविज्ञानेन सर्वकर्माणि परित्यज्य आस्ते देहे विद्वान् इत्यस्यैव सम्बन्धस्य साधुत्वं मत्वोपसंहरति -

तस्मादिति ।

सर्वव्यापारोपरमात्मनः संन्यासस्य अविक्रियात्मज्ञानाविरोधित्वात् प्रयोजकज्ञानवतो वैधे संन्यासेऽधिकारः, सम्यग्ज्ञानवतस्तु अवैधे स्वाभाविके फलात्मनि इति विभागमभ्युपेत्य उक्तेऽर्थे वाक्यशेषानुगुण्यं दर्शयति -

इति तत्र तत्रेति

॥ २१ ॥

पूर्वश्लोकार्थस्यैवोत्तरत्रापि प्रतिभानात् पौनरुक्त्यमाशङ्क्य, वृत्तानुवादपूर्वकमुत्तरश्लोकमवतारयति -

य एनमित्यादिना ।

आत्मनः स्वतो विक्रियाभावेऽपि पुरातनदेहत्यागे नूतनदेहोपादाने च विक्रियावत्त्वध्रौव्यात् अविक्रियत्वमसिद्धमिति चेत् , तत्राह -

वासांसीति ।

शरीराणि जीर्णानि - वयोहानिं गतानि, वलीपलितादिसङ्गतानीत्यर्थः ।

वाससां पुरातनानां परित्यागे, नवानां चोपादाने त्यागोपादानकर्तृभूतलौकिकपुरुषस्यापि अविकारित्वेन एकरूपत्ववत् , आत्मनो देहत्यागोपादानयोरविरुद्धं अविक्रियत्वमिति वाक्यार्थमाह -

पुरुषवदिति

॥ २२ ॥

आत्मनोऽविक्रियत्वेन कर्मासम्भवं प्रतिपाद्य अविक्रियत्वहेतुसमर्थनार्थमेव उत्तरग्रन्थमवतारयति -

प्रकृतं त्विति ।

किं तत्प्रकृतम् ? इति शङ्कमानं प्रत्याह -

तत्रेति ।

अविनाशित्वमित्युपलक्षणम् , अविक्रियत्वमित्यर्थः ।

तदेव दृष्टान्तेन स्पष्टयितुमुत्तरश्लोकमुत्थापयति -

तदित्यादिना ।

पृथिव्यादिभूतचतुष्टयप्रयुक्तविक्रियाभाक्त्वात् आत्मनोऽसिद्धं अविक्रियत्वमिति शङ्कते -

कस्मादिति ।

यतो न भूतानि आत्मानं गोचरयितुमर्हन्ति अतो युक्तमाकाशवत् तस्य अविक्रियत्वमिति शङ्कते -

आहेत्यादिना

॥ २३ ॥

पूर्वार्धमु्त्तरार्धे हेतुत्वेन योजयति -

 यस्मादिति ।

नित्यत्वादीनामन्योन्यं हेतुहेतुमद्भावं सूचयति-

नित्यत्वादित्यादिना ।

न च नित्यत्वं परमाणुषु व्यभिचारादसाधकं सर्वगतत्वस्येति वाच्यम् । तेषामेव अप्रामाणिकत्वेन व्यभिचारानवतारात् । न च सर्वगतत्वेऽपि विक्रियाशक्तिमत्त्वमात्मनोऽस्तीति युक्तम् , विभुत्वेनाभिमते नभसि तदनुपलम्भात् । न च विक्रियाशक्तिमत्वे स्थैर्यमास्थातुं शक्यम् , तथाविधस्य मृदादेरस्थिरत्वदर्शनात् , इत्याशयेनाह -

स्थिरत्वादिति ।

स्वतो नित्यत्वेऽपि कारणान्नाशसम्भवादुत्पत्तिरपि सम्भावितेति कुतश्चिरन्तनत्वम् ? इत्याशङ्क्याह -

न कारणादिति ।

आत्मनोऽविक्रियत्वस्य ‘न जायते म्रियते वा’ (भ. गी. २-२०) इत्यादिना साधितत्वात् , तस्यैव पुनःपुनरभिधाने पुनरुक्तिरित्याशङ्क्याह-

नैतेषामिति ।

अनाशङ्कनीयस्य चोद्यस्य प्रसङ्गं दर्शयति -

यत इति ।

अतो ‘वेदाविनाशिनम्’  (भ. गी. २. २१) इत्यादौ शङ्क्यते, पौनरुक्त्यमिति शेषः ।

कथं तत्र पौनरुक्त्याशङ्का समुन्मिषति ? तत्राह -

तत्रेति ।

वेदाविनाशिनम् (भ. गी. २. २१) इत्यादिश्लोकः सप्तम्या परामृश्यते, श्लोकशब्देन ‘न जायते म्रियते वा’ (भ. गी. २-२०) इत्यादिरुच्यते ।

ननु - इह श्लोके जन्ममरणाद्यभावोऽभिलक्ष्यते, ‘वेद’ (भ. गी. २. २१) इत्यादौ पुनरपक्षयाद्यभावो विवक्ष्यते, तत्र कथमर्थातिरेकाभावमादाय पौनरुक्त्यं चोद्यते ? तत्राह -

किञ्चिदिति ।

कथं तर्हि पौनरुक्त्यं न चोदनीयमिति मन्यसे ? तत्राह -

दुर्बोधत्वादिति ।

पुनःपुनर्विधानमेदेन वस्तु निरूपयतो भगवतोऽभिप्रायमाह -

कथं न्विति

॥ २४ ॥

पृथिव्यादिभूतप्रयुक्तच्छेदनाद्यर्थक्रियाभावे योग्यताभावं  कारणमाह -

यत इति ।

आत्मनो नित्यत्वादिलक्षणस्य तथैव प्रथा किमिति न भवति ? तत्राह -

अव्यक्त इति ।

मा तर्हि प्रत्यक्षत्वं भूत् , अनुमेयत्वं तु तस्य किं न स्यात् ? इत्याशङ्क्याह -

अत एवेति ।

तदेव प्रपञ्चयति -

यद्धीति ।

अतीन्द्रियत्वेऽपि सामान्यतो दृष्टविषयत्वं भविष्यतीत्याशङ्क्य कूटस्थेन आत्मना व्याप्तलिङ्गाभावात् , मैवमित्याह -

अविकार्य इति ।

अविकार्यत्वे व्यतिरेकदृष्टान्तमाह -

यथेति ।

किञ्च आत्मा न विक्रियते, निरवयवद्रव्यत्वात् , घटादिवत् - इति व्यतिरेक्यनुमानमाह -

निरवयवत्वाच्चेति ।

निरवयवत्वेऽपि विक्रियावत्त्वे का क्षतिः ? इत्याशङ्क्याह -

नहीति ।

सावयवस्यैव विक्रियावत्त्वदर्शनात् विक्रियावत्त्वे निरवयवत्वानुपपत्तिरित्यर्थः ।

यद्धि सावयवं सक्रियं क्षीरादि, तत् दध्यादिना विकारमापद्यते । न च आत्मनः श्रुतिप्रमितनिरवयवत्वस्य सावयवत्वम् । अतोऽविक्रियत्वान्नायं विकार्यो भवितुमलमिति फलितमाह -

अविक्रियत्वादिति ।

आत्मयाथात्म्योपदेशम् ‘अशोच्यानन्वशोचस्त्वम्’ (भ. गी. २-११) इत्युपक्रम्य व्याख्यातमुपसंहरति -

तस्मादिति ।

अव्यक्तत्वाचिन्त्यत्वाविकार्यत्वनित्यत्वसर्वगतत्वादिरूपो यस्मात् आत्मा निर्धारितः, तस्मात् तथैव ज्ञातुमुचितः, तज्ज्ञानस्य फलवत्त्वादित्यर्थः ।

प्रतिषेध्यमनुशोकमेवाभिनयति -

 हन्ताहमिति ॥ २५ ॥

त्वम्पदार्थपरिशोधनस्य प्रकृतत्वात् तत्रैव हेत्वन्तरमाह -

किञ्चेति ।

श्रोतुरर्जुनस्य पूर्वोक्तमात्मयाथात्म्यं श्रुत्वापि तस्मिन् निर्धारणासिद्धेर्द्वयोर्मतयोरन्यतरमताभ्युपगमः शङ्कितः, तदर्थो निपातद्वयप्रयोग इत्याह -

अथ चेति ।

प्रकृतस्य आत्मनो नित्यत्वादिलक्षणस्य पुनःपुनर्जातत्वाभिमानो मानाभावादसम्भवी इत्याशङ्क्याह -

लोकेति ।

नित्यजातत्वाभिनिवेशे पौनःपुन्येन मृतत्वाभिनेवेशो व्याहतः स्यादित्यशङ्क्याह -

तथेति ।

परकीयमतमनुभाषितमभ्युपेत्य, ‘अहो बत महत् पापं कर्तुं व्यवसिता वयम्’ (भ. गी. १. ४५) इत्यादेस्तदीयशोकस्य  निरवकाशत्वमित्याह -

तथापीति ।

एवमर्जुनस्य दृश्यमानमनुशोकप्रकारं दर्शयित्वा तस्य कर्तुमयोग्यत्वे हेतुमाह -

जन्मवत इति ।

‘जन्मवतो नाशो नाशवतश्च जन्म’ इत्येतौ अवश्यंभाविनौ - मिथो व्याप्ताविति योजना ॥ २६ ॥

आत्मनो नित्यत्वस्य प्रागेव सिद्धत्वात् उत्तरश्लोकानुपपत्तिरित्याशङ्क्यह -

आत्मन इति ।

‘अनित्यत्वं’ इति च्छेदः । शाक्यानां लोकायतानां वा मतम् इदमा परामृश्यते ।

तयोरवश्यम्भावित्वे सति अनुशोकस्य अकर्तव्यत्वे हेत्वन्तरमाह -

तथा चेति

॥ २७ ॥

चाक्षुषदर्शनमात्रवृत्तिं व्यावर्तयति -

अनुपलब्धिरिति ।

नहि यथोक्तसङ्घातरूपाणि भूतानि पूर्वमुत्पत्तेः उपलभ्यन्ते । तेन तानि तथा व्यपदेशभाञ्जि भवन्ति इत्यर्थः ।

किं तत् मध्यम् , यदेषां व्यक्तमिष्यते ? तदाह -

उत्पन्नानीति ।

उत्पत्तेरूर्ध्वं मरणाच्च पूर्वं व्यावहारिकं सत्त्वं मध्यमेषां व्यक्तमिति तथोच्यते ।

जन्मानुसारित्वं विलयस्य युक्तम् इति मत्वा तात्पर्यार्थमाह -

मरणादिति ।

उक्तेऽर्थे पौराणिकसंमतिमाह -

तथा चेति ।

तत्रेत्यस्यार्थमाह -

अदृष्टेति ।

पूर्वम् अदृष्टानि सन्ति, पुनर्दृष्टानि, तान्येव पुनर्नष्टानि, तदेवं भ्रान्तिविषयतया घटिकायन्त्रवत् चक्रीभूतेषु भूतेषु शोकनिमितस्य प्रलापस्य नावकाशोऽस्तीत्यर्थः ॥ २८ ॥

आत्मानमुद्दिश्यानुशोकस्य कर्तुमयोग्यत्वेऽपि भूतसङ्घातात्मकानि भूतान्युद्दिश्य तस्य कर्तव्यत्वमाशङ्क्य, आह -

कार्येति ।

समनन्तरश्लोकः तत्र हेतुरित्याह -

यत इति ।

‘आश्चर्यवत्’ (भ. गी. २-२९) इति आद्येन पादेन आत्मविषयदर्शनस्य दुर्लभत्वं दर्शयता द्रष्टुर्दौर्लभ्यमुच्यते । द्वितीयेन च तद्विषयवदनस्य दुर्लभत्वोक्तेः तदुपदेष्टुस्तथात्वं कथ्यते । तृतीयेन तदीयश्रवणस्य दुर्लभत्वद्वारा श्रोतुर्विरलता विवक्षिता । श्रवणदर्शनोक्तीनां भावेऽपि तद्विषयसाक्षात्कारस्य अत्यन्तायासलभ्यत्वं चतुर्थेनाभिप्रेतम् इति विभागः । आत्मगोचरदर्शनादिदुर्लभत्वद्वारा दुर्बोधत्वम् आत्मनः साधयति -

आश्चर्यवदिति ।

संप्रत्यात्मनि द्रष्टुर्वक्तुः श्रोतुः साक्षात्कर्तुश्च दुर्लभत्वाभिधानेन तदीयं दुर्बोधत्वं कथयति -

अथवेति ।

व्याख्यानद्वयेऽपि फलितमाह -

अत इति

॥ २९ ॥

अर्जुनं प्रति उपालम्भं दर्शयित्वा प्रकृतस्य आत्मनो दुर्विज्ञेयत्वात् तं प्रति उपालम्भो न सम्भवतीति सन्वानः सन् आह -

दुर्विज्ञेय इति ।

तथा च आत्माज्ञाननिमित्तविप्रलम्भस्य साधारणत्वात् असाधारणोपालम्भस्य निरवकाशता, इत्याह -

किं त्वामेवेति ।

अहंप्रत्ययवेद्यत्वादात्मनो दुर्विज्ञेयत्वम् असिद्धमिति शङ्कते -

कथमिति ।

विशिष्टस्य आत्मनः अहंप्रत्ययदृष्टत्वेऽपि केवलस्य तदभावात् अस्ति दुर्विज्ञेयता इति श्लोकमवतारयति -

आहेति ।

हेतुभागं विभजते -

सर्वस्येति ।

देहे वध्यमानेऽपि देहिनो वध्यत्वाभावे फलितमाह -

यस्मात् इति ।

फलितप्रदर्शनपरं श्लोकार्धं व्याचष्टे-

तस्माद्भीष्मादीनीति

॥ ३० ॥

श्लोकान्तरमुत्थापयति -

अथेति ।

आत्मनो दुर्ज्ञानत्वप्रदर्शनानन्तरमिति यावत् । वस्तुवृत्तापेक्षया शोकमोहयोरकर्तव्यत्वं प्रकरणार्थः ।

यद्धि क्षत्रियस्य धर्मादनपेतं श्रेयःसाधनं तदेव मया अनुवर्तितव्यमित्याशङ्क्याह -

धर्म्यादिति ।

जातिप्रयुक्तं स्वाभाविकं स्वधर्ममेव विशिनष्टि -

क्षत्रियस्येति ।

पुनर्नकारोपादानमन्वयार्थम् ।

प्रचलितुमयोग्यत्वे प्रतियोगिनं दर्शयति -

स्वाभाविकादिति ।

स्वाभाविकत्वमशास्रीयत्वमिति शङ्कां वारयितुं तात्पर्यमाह-

आत्मेति ।

आत्मनः - स्वस्यार्जुनस्य स्वाभाव्यं क्षत्रियस्वभावप्रयुक्तं वर्णाश्रमोचितं कर्म, तस्मादित्यर्थः ।

धर्मार्थं प्रजापरिपालनार्थं च प्रयतमानस्य युद्धादुपरिरंसा श्रद्धातव्येत्याशङ्क्याह-

तच्चेति ।

ततोऽपि श्रेयस्करं किञ्चिदनुष्ठातुं युद्धादुपरतिरुचितेत्याशङ्क्याह -

तस्मादिति ।

तस्मात् युद्धात् प्रचलनमनुचितमिति शेषः ॥ ३१ ॥

श्लोकान्तरमवतारयन् वृत्तं कीर्तयति -

इहेति ।

पूर्वश्लोकः सप्तम्यर्थः । यत् पारमार्थिकं तत्त्वं तदपेक्षायामेव केवलं शोकमोहयोरसम्भवो न भवति, किन्तु ‘स्वधर्ममपि चावेक्ष्य’ (भ. गी. २-३१) इति सम्बन्धः स्वकीयं क्षात्रधर्ममनुसन्धाय ततश्चलनं परिहर्तव्यमित्यर्थः ।

तथापि युद्धे प्रवृत्तानामैहिकामुष्मिकस्थायिसुखाभावादुपरतिरेव ततो युक्ता प्रतिभातीत्याशङ्क्याह -

यदृच्छयेति ।

चिरेण चिरतरेण कालेन च यागाद्यनुष्ठायिनः स्वर्गादिभाजो भवन्ति । युध्यमानास्तु क्षत्रिया बहिर्मुखताविहीनाः सहसैव स्वर्गादिसुखभोक्तारः । तेन तव कर्तव्यमेव युद्धमिति व्याख्यानेन स्फुटयति -

यदृच्छयेत्यादिना ।

इहामुत्र च भाविसुखवतामेव क्षत्रियाणां स्वधर्मभूतयुद्धसिद्धेस्तादर्थ्येनोत्थानं शोकमोहौहित्वा कर्तव्यमित्यर्थः ॥ ३२ ॥

युद्धस्य गुर्वाद्यनेकप्राणिहिंसात्मकस्य अहिंसाशास्त्रविरोधात् नास्ति कर्तव्यतेति शङ्कते -

कुतश्चेति ।

अग्नीषोमीयहिंसादिवत् युद्धमपि क्षत्रियस्य विहितत्वादनुष्ठेयम् , सामान्यशास्त्रतो विशेषशास्त्रस्य बलीयस्त्वात् इत्याह-

उच्यत इति ।

स्वधर्मस्य युद्धस्य श्रद्धया करणे स्वर्गादिमहाफलप्राप्तिं प्रदर्श्य, तदकरणे प्रत्यवायप्राप्तिं प्रदर्शयन् उत्तरश्लोकगताथशब्दार्थं कथयति -

एवमिति ।

विहितत्वं फलवत्त्वमित्यनेन प्रकारेणेत्यर्थः । अन्वयार्थः पुनः चेदित्यनूद्यते । महादेवादीत्यादिशब्देन महेन्द्रादयो गृह्यन्ते ॥ ३३ ॥

युद्धे स्वमरणसन्देहात् तत्परिहारार्थमकीर्तिरपि सोढव्या, आत्मसंरक्षणस्य श्रेयस्करत्वात् इत्याशङ्क्याह -

धर्मात्मेति ।

मान्यानामकीर्तिर्भवति  मरणादपि दुःसहेति तात्पर्यार्थमाह -

सम्भावितस्येति

॥ ३४ ॥

युद्धाकरणे क्षत्रियस्य प्रत्यवायमामुष्मिकमापाद्य, शिष्टगर्हालक्षणं दीर्घकालभाविनमैहिकमपि प्रत्यवायं प्रतिलम्भयति -

न केवलमिति ।

प्राणिषु कृपया नाहं युद्धं करिष्यामीत्याशङ्क्याह -

भयादिति ।

महारथानेव विशिनष्टि -

येषां चेति ।

दुर्योधनादिभिस्तव उपहास्यतानिरसनाय सङ्ग्रामे प्रवृत्तिरवश्यम्भाविनीत्यर्थः ॥ ३५ ॥

इतश्च त्वया युद्धं कर्तव्यमित्याह -

किञ्चेति ।

ननु - भीष्मद्रोणादिवधप्रयुक्तं कष्टतरं दुःखमसहमानो युद्धान्निवृत्तः स्वसामर्थ्यनिन्दनादि शत्रुकृतं सोढुं शक्ष्यामीत्याशङ्क्याह-

तत इति

॥ ३६ ॥

इतश्च मा त्वं युद्धादुपरमं कार्षीरित्याह -

किञ्चेति ।

जये पराजये च लाभध्रौव्यात् युद्धार्थमुत्थानमावश्यकमित्याह-

तस्मादिति ।

नहि परिशुद्धकुलस्य क्षत्रियस्य युद्धायोद्युक्तस्य तस्मादुपरमः साधीयानित्याह -

कौन्तेयेति ।

जये पराजये चेत्येतदुभयथेत्युच्यते ।

जयादिनियमाभावोऽपि लाभनियमे फलितमाह -

यत इति ।

कृतनिश्चयत्वमेव विशदयति -

जेष्यामीति

॥ ३७ ॥

तर्हि युद्धे गुर्वादिवधवशात् मध्यस्थनिन्दा, ततो निवृत्तौ शत्रुनिन्दा इत्युभयतः पाशा रज्जुरित्याशङ्क्याह -

युद्धे पुनरिति ।

सुहृञ्जीवनमरणादिनिमित्तयोः सुखदुःखयोः समताकरणं कथम् ? इति, तत्राह -

रागद्वेषाविति ।

लाभः - शत्रुकोषादिप्राप्तिः, अलाभः - तद्विपर्ययः । न्याय्येन युद्धेनापरिभूतेन परस्य परिभवो जयः, तद्विपर्ययस्त्वजयः, तयोर्लाभालाभयोर्जयाजययोश्च समताकरणं समानमेव, रागद्वेषावकृत्वेत्येतद्दर्शयितुं तथेत्युक्तम् ।

यथोक्तोपदेशवशात् परमार्थदर्शनप्रकरणे युद्धकर्तव्यतोक्तेः समुच्चयपरत्वं शास्त्रस्य प्राप्तमित्याशङ्क्याह -

एष इति ।

क्षत्रियस्य तव धर्मभूतयुद्धकर्तव्यतानुवादप्रसङ्गागतत्वात् अस्योपदेशस्य नानेन मिषेण समुच्चयः सिध्यतीत्यर्थः ॥ ३८ ॥

पापभीरुतया युद्धाय निश्चयं कृत्वा नोत्थातुं शक्नोमीत्याशङ्क्याह -

तत्रेति ।

युद्धस्य स्वधर्मतया कर्तव्यत्वे सतीति यावत् ।

परमार्थतत्त्वविषयां ज्ञाननिष्ठामुक्तामुपसंहृत्य वक्ष्यमाणां सङ्गृह्णाति -

योगे त्विति ।

तामेव बुद्धिं विशिष्टफलवत्त्वेनाभिष्टौति -

बुद्ध्येति ।

तत्रोपसंहारभागं विभजते-

एषेत्यादिना ।

बु्द्धिशब्दस्यान्तःकरणविषयत्वं व्यावर्तयति -

ज्ञानमिति ।

तस्य सहकारिनिरपेक्षस्य विशिष्टं फलवत्त्वमाचष्टे -

साक्षादिति ।

शोकमोहौ रागद्वेषौ कर्तृत्वं भोक्तृत्वमित्यादिरनर्थः संसारः, तस्य हेतुर्दोषः स्वाज्ञानम् , तस्य निवृत्तौ निरपेक्षं कारणं ज्ञानम् । अज्ञाननिवृत्तौ ज्ञानस्यान्वयव्यतिरेकसमधिगतसाधनत्वादित्यर्थः ।

‘योगे त्विमां’ (भ. गी. २-३९) इत्यादि व्याकुर्वन् योगशब्दस्य प्रकृते चित्तवृत्तिनिरोधविषयत्वं व्यवच्छिनत्ति -

तत्प्राप्तीति ।

प्रकृतं मुक्त्युपयुक्तं ज्ञानं तत्पदेन परामृश्यते ।

ज्ञानोदयोपायमेव प्रकटयति -

निःसङ्गतयेति ।

फलाभिसन्धिवैधुर्यं निःसङ्गत्वम् ।

बुद्धिस्तुतिप्रयोजनमाह -

प्ररोचनार्थमिति ।

अभिष्टुता हि बुद्धिः श्रद्धातव्या सत्यनुष्ठातारमधिकरोति । तेन स्तुतिरर्थवतीत्यर्थः ।

कर्मानुष्ठानविषयबुद्ध्या कर्मबन्धस्य कुतो निवृत्तिः ? नहि तत्त्वज्ञानमन्तरेण समूलं कर्म हातुं शक्यमित्याशङ्क्यह -

ईश्वरेति

॥ ३९ ॥

ननु - ‘स्वधर्ममपि चावेक्ष्य’ (भ. गी. २-३१ ) इत्यादिश्लोकैर्न्यायावष्टम्भेन शोकमोहापनयनस्य तात्पर्येणोक्तत्वात् तस्मिन्नुपसंहर्तव्ये किमिति परमार्थदर्शनमुपसंह्नियते ? तत्राह -

शोकेति ।

‘स्वधर्ममपि’ (भ. गी. २-३१) इत्यादिभिरतीतैः श्लोकैः शोकमोहयोः स्वजनमरणगुर्वादिवधशङ्कानिमित्तयोः सम्यग्ज्ञानप्रतिबन्धकयोरपनयार्थं वर्णाश्रमकृतं धर्ममनुतिष्ठतः स्वर्गादि सिध्यति, नान्यथा, इत्यन्वयव्यतिरेकात्मको लोकप्रसिद्धो न्यायो यद्यपि दर्शितः, तथापि नासौ तात्पर्येणोक्त इत्यर्थः ।

किं तर्हि तात्पर्येणोक्तम् ? तदाह -

परमार्थेति ।

‘न त्वेवाहं जातु नासं’ (भ. गी. २-१२) इत्यादि सप्तम्या परामृश्यते । उक्तम् - ‘न जायते म्रियते वा कदाचित्' (भ. गी. २. २०) इत्यादिनोपपादितमित्यर्थः ।

उपसंहारप्रयोजनमाह -

शास्त्रेति ।

तस्य वस्तुद्वारा विषयो निष्ठाद्वयम् । तस्य विभक्तस्य तेनैव विभागेन प्रदर्शनार्थं परमार्थदर्शनोपसंहार इत्यर्थः ।

ननु - किमित्यत्र शास्त्रस्य विषयविभागः प्रदर्श्यते ? उत्तरत्रैव तद्विभागप्रवृत्तिप्रतिपत्त्योः सम्भवात् इति, तत्राह -

इह हीति ।

शास्त्रप्रवृत्तेः श्रोतृपतिपत्तेश्च सौकर्यार्थमादौ विषयविभागसूचनमित्यर्थः ।

उपसंहारस्य फलवत्त्वमेवमुक्त्वा तमेवोपसंहारमवतारयति -

अत आहेति ।

कर्मणा सह समाधेरनुष्ठातुमशक्यत्वात् , अनेकान्तरायसम्भवात् , तत्फलस्य च साक्षात्कारस्य दीर्घकालाभ्याससाध्यस्यैकस्मिन् जन्मन्यसम्भावत् अर्थात् योगी भ्रश्येत, अनर्थे च निपतेत् , इत्याशङ्क्याह -

नेहेति ।

प्रतीकत्वेनोपात्तस्य नकारस्य पुनरन्वयानुगुणत्वेन नास्तीत्यनुवादः ।

यत्तु - कर्मानुष्ठानस्य अनैकान्तिकफलत्वेन अकिञ्चित्करत्वमुक्तं तद्दूषयति -

यथेति ।

कृषिवाणिज्यादेरारम्भस्य अनियतं फलम् , सम्भावनामात्रोपनीतत्वात् ,  न तथा कर्मणि वैदिके प्रारम्भस्य फलमनियतं युज्यते, शास्त्रविरोधादित्यर्थः ।

यत्तूक्तम् - अनेकानर्थकलुषितत्वेन दोषवदनुष्ठानमिति, तत्राह -

किञ्चेति ।

इतोऽपि कर्मानुष्ठानमावश्यकमिति प्रतिज्ञाय हेत्वन्तरमपि स्फुटयति -

नापीति ।

चिकित्सायां हि क्रियमाणायां व्याध्यतिरेको वा मरणं वा प्रत्यवायोऽपि सम्भाव्यते, कर्मपरिपाकस्य दुर्विवेकत्वात् । न तथा कर्मानुष्ठाने दोषोऽस्ति, विहितत्वादित्यर्थः ।

सम्प्रति कर्मानुष्ठानस्य फलं पृच्छति -

किं  न्विति ।

उत्तरार्धं व्याकुर्वन् विवक्षितं फलं कथयति -

स्वल्पमपीति ।

सम्यग्ज्ञानोत्पादनद्वारेण रक्षणं विवक्षितम् - `सर्वपापप्रसक्तोऽपि ध्यायन्निमिषमच्युतम् । यतिस्तपस्वी भवति पङ्क्तिपावनपावनः ॥ ‘ इति स्मृतेरित्यर्थः ॥ ४० ॥

ननु - कर्मानुष्ठानस्य अनैकांन्तिकफलत्वेन अकिञ्चित्करत्वात् अनेकानर्थकलुषितत्वेन दोषवत्त्वाच्च योगबुद्धिरपि न श्रद्धेयेति, तत्राह -

किञ्चेति ।

अन्यच्च किञ्चिदुच्यते कर्मानुष्ठानस्यावश्यकत्वे कारणमिति यावत् ।

सैवैका प्रमाणभूता बुद्धिरित्याह -

व्यवसायात्मिकेति ।

बुद्ध्यन्तराणि अविवेकमूलानि, अप्रमाणानि, इत्याह -

बहुशाखा हीति ।

व्यवसायात्मिकाया बुद्धेः श्रेयोमार्गे प्रवृत्ताया विवक्षित फलमाह -

इतरेति ।

प्रकृतबुद्धिद्वयापेक्षया इतराः विपरीताश्च अप्रमाणजनिताः स्वकपोलकल्पिता या बुद्धयः, तासां शाखाभेदो यः संसारहेतुः, तस्य बाधिकेति यावत् ।

तत्र हेतुः -

सम्यगिति ।

निर्दोषवेदवाक्यसमुत्थत्वात् उक्तमुपायोपेयभूतं बुद्धिद्वयं साक्षात् पारम्पर्याभ्यां संसारहेतुबाधकमित्यर्थः ।

उत्तरार्धं व्याचष्टे  -

याः पुनरिति ।

प्रकृतबुद्धिद्वयापेक्षया अर्थान्तरत्वम् - इतरत्वम् ।

तासामनर्थहेतुत्वं दर्शयति -

यासामिति ।

अप्रामाणिकबुद्धीनां प्रसक्तानुप्रसक्त्या जायमानानामतीव बुद्धिपरिणामविशेषाः शाखाभेदाः, तेषां प्रचारः - प्रवृत्तिः, तद्वशादित्येतत् । अनन्तत्वं सम्यग्ज्ञानमन्तरेण निवृत्तिविरहितत्वम् । अपारत्वं - कार्यस्यैव सतो वस्तुभूतकारणविरहितत्वम् ।

अनुपरतत्वं स्फोरयति -

नित्येति ।

कथं तर्हि तन्निवृत्त्या पुरुषार्थपरिसमाप्तिः ? तत्राह -

प्रमाणेति ।

अन्वयव्यतिरेकाख्येन अनुमानेन आगमेन च पदार्थपरिशोधनपरिनिष्पन्ना विवेकात्मिका या बुद्धिः, तां निमीत्तीकृत्य समुत्पन्नसम्यग्बोधानुरोधात् प्रकृता विपरीतबुद्धयो व्यावर्तन्ते । तास्वसङ्ख्यातासु व्यावृत्तासु सतीषु निरालम्बनतया संसारोऽपि स्थातुमशक्नुवन् उपरतो भवतीत्यर्थः ।

याः पुनः इत्युपक्रान्तास्तत्त्वज्ञानापनोद्याः संसारास्पदीभूताः विपरीतबुद्धीरनुक्रामति -

ता बुद्धय इति ।

बुद्धीनां वृक्षस्येव कुतो बहुशाखित्वम् ? तत्राह -

बहुभेदा इत्येतदिति ।

एकैकां बुद्धिम्प्रति शाखाभेदोऽवान्तरविशेषः, तेन बुद्धीनामसङ्ख्यात्वं प्रख्यातमित्याह -

प्रतिशाखेति ।

बुद्धीनामानन्त्यप्रसिद्धिप्रद्योतनार्थो हिशब्दः ।

सम्यग्ज्ञानवतां यथोक्तबुद्धिभेदभाक्त्वमप्रसिद्धमित्याशङ्क्य प्रत्याह -

केषामित्यादिना

॥ ४१ ॥

ननु - बुद्धिद्वयातिरिक्तानि बुद्ध्यन्तराण्यपि काणादादिशास्त्रप्रसिद्धानि विद्यन्ते । तथा च कथं बुद्धिद्वयमेव भगवतोपदिष्टमिति, तत्राह -

येयमिति ।

ते यामिमां पुष्पितां वाचं प्रवदन्ति तया अपहृतचेतसां कामिनां कामवशात् निश्चयात्मिका बुद्धिर्न प्रायः स्थिरा भवतीत्याह -

ते । यामिति ।

‘इमाम्’ इत्यव्ययनविध्युपात्तत्वेन प्रसिद्धत्वं कर्मकाण्डरूपाया वाचो विवक्ष्यते । वक्ष्यमाणत्वं ‘क्रियाविशेषबहुलाम्’ (भ. गी. २-४३) इत्यादौ द्रष्टव्यम् । किंशुको हि पुष्पशाली शोभमानोऽनुभूयते, न पुरुषभोग्यफलभागी लक्ष्यते ।

तथा, इयमपि कर्मकाण्डात्मिका श्रूयमाणदशायां रमणीया वागुपलभ्यते, साध्यसाधनसम्बन्धप्रतिभानात् । न त्वेषा निरतिशयफलभागिनी भवति, कर्मानुष्ठानफलस्य अनित्यत्वात् , इति मत्वाह -

पुष्पितामिति ।

वाक्यत्वेन लक्ष्यतेऽर्थवत्त्वप्रतिभानात् । वस्तुतस्तु न वाक्यम् , अर्थाभासत्वात् , इत्याह -

वाक्यलक्षणामिति ।

प्रवक्तॄणां वेदवाक्यतात्पर्यपरिज्ञानाभावं सूचयति -

अविपश्चित इति ।

वेदवादाः - वेदवाक्यानि, तानि च बहूनामर्थवादानां फलानां साधनानां च विधिशेषाणां प्रकाशकानि, तेषु रतिः - आसक्तिः, तन्निष्ठत्वं - तद्वत्त्वमपि तेषां विशेषणमित्याह -

वेदवादेति ।

कर्मकाण्डनिष्ठत्वफलं कथयति -

नान्यदिति ।

ईश्वरो  वा मोक्षो वा नास्तीत्येवं वदन्तो नास्तिकाः सन्तः सम्यग्ज्ञानवन्तो न भवन्तीत्यर्थः ॥ ४२ ॥

यदि साङ्ख्ययोगरूपा एकैव प्रमाणभूता बुद्धिः, तर्हि सैव सर्वेषां चित्ते किमिति स्थिरा न भवति ? तत्राह -

येषामिति ।

तेषां संसारपरिवर्तनपरिदर्शनार्थं प्रस्तुतां वाचमेव विशिनष्टि -

जन्मेति ।

ननु - पुंसां कामस्वभावत्वमयुक्तम् , चेतनस्येच्छावतस्तदात्मत्वानुपपत्तेः, इति तत्राह -

कामपरा इति ।

तत्परत्वं - तत्तत्फलार्थित्वेन तत्तदुपायेषु कर्मस्वेव प्रवृत्ततया कर्मसंन्यासपूर्वकात् ज्ञानाद्बहिर्मुखत्वम् ।

ननु - कर्मनिष्ठानामपि परमपुरुषार्थापेक्षया मोक्षोपाये ज्ञाने भवत्याभिमुख्यमिति, नेत्याह -

स्वर्गेति ।

तत्परत्वं - तस्मिन्नेवासक्ततया तदतिरिक्तपुरुषार्थराहित्यनिश्चयवत्त्वम् । उच्चावचमध्यमदेहप्रभेदग्रहणं जन्म । वाचो यथोक्तफलप्रदत्वं अप्रामाणिकम् इत्याशङ्क्य, अऩुष्ठानद्वारा तदुपपत्तिरित्याह -

क्रियेति ।

क्रियाणां - अनुष्ठानानां विशेषाः - देशकालाधिकारिप्रयुक्तः सप्ताहानेकाहलक्षणाः, ते खल्वस्यां वाचि प्राचुर्येण प्रतिभान्तीत्यर्थः ।

कथं यथोक्तायां वाचि क्रियाविशेषाणां बाहुल्येन अवस्थानम् ? इत्याशङ्क्य, प्रकाश्यत्वेनेत्येतद्विशदयति -

स्वर्गेति ।

तथापि तेषां मोक्षोपायत्वोपपत्तेः, तन्निष्ठानां मोक्षाभिमुख्यं भविष्यति, नेत्याह -

भोगेति ।

यथोक्तां वाचमभिवदतां पर्यवसानं दर्शयति -

तद्बहुलामिति

॥ ४३ ॥

प्रकृतान् प्रवक्तॄनविवेकिनो व्यवसायात्मकबुद्धिभाक्त्वासम्भवसिद्ध्यर्थं विधान्तरेण विशिनष्टि -

ते चेति ।

तथापि शास्त्रानुसारिण्या विवेकप्रज्ञया व्यवसायात्मिका बुद्धिस्तेषामुदेष्यति, इत्याशङ्क्याह-

तयेति ।

ननु - समाधिः सम्प्रज्ञातासम्प्रज्ञातभेदेन द्विधोच्यते, तत्र बुद्धिद्वयविधिरप्रसक्तः सन् कथं निषिध्यते ? तत्राह -

समाधीयत इति

॥ ४४ ॥

ननु - कर्मकाण्डनिष्ठानां कर्मानुष्ठायिनामपि  बुद्धिशुद्धिद्वारेण अऩ्तःकरणे साध्यसाधनभूतबुद्धिद्वयसमुदयसम्भवात् , अतो मोक्षो भविष्यति, नेत्याह -

तेषां चेति ।

तदात्मभूतानां - तयोरेव भोगैश्वर्ययोरात्मकर्तव्यत्वेन आरोपितयोः, अभिनिविष्टे चेतसि तादात्म्याध्यासवतां बहिर्मुखानामित्यर्थः ।

तर्हि वेदार्थतया कामात्मता प्रशस्तेत्याशङ्क्याह -

निस्त्रैगुण्य इति ।

भवेति पदं निर्द्वन्द्वादिविशेषणेष्वपि प्रत्येकं सम्बध्यते ।

त्रयाणां - सत्त्वादीनां, गुणानां - पुण्यपापव्यामिश्रकर्मतत्फलसम्बन्धलक्षणः समाहारः - त्रैगुण्यम् , इत्यङ्गीकृत्य व्याचष्टे -

संसार इति ।

वेदशब्देनात्र कर्मकाण्डमेव गृह्यते । तदभ्यासवतां तदर्थानुष्ठानद्वारा संसाराध्रौव्यान्न विवेकावसरोऽस्तीत्यर्थः ।

तर्हि संसारपरिवर्जनार्थं विवेकसिद्धये किं कर्तव्यम् ? इत्याशङ्क्याह -

त्वं त्विति ।

कथं निस्त्रैगुण्यो भवेति गुणत्रयराहित्यं विधीयते ? नित्यसत्त्वस्थो भवेति वाक्यशेषविरोधात् , इत्याशङ्क्याह -

निष्काम इति ।

सप्रतिपक्षत्वं - परस्परविरोधित्वम् । पदार्थौ - शीतोष्णादिलक्षणौ । निष्कामत्वे द्वन्द्वान्निर्गतत्वं - शीतोष्णादिसहिष्णुत्वं हेतुमुक्त्वा, तत्रापि हेत्वपेक्षायां सदा सत्त्वगुणाश्रितत्वं हेतुमाह -

नित्येति ।

योगक्षेमव्यापृतचेतसो रजस्तमोभ्यामसंस्पृष्टे सत्त्वमात्रे समाश्रितत्वमशक्यम् इत्याशङ्क्याह -

तथेति ।

योगक्षेमयोर्जीवनहेतुतया पुरुषार्थसाधनत्वात् निर्योगक्षेमो भवेति कुतो विधिः ? इत्याशङ्क्याह -

योगेति ।

योगक्षेमप्रधानत्वं सर्वस्य स्वारसिकमिति ततो निर्गमनमशक्यम् इत्याशङ्क्याह -

आत्मवानिति ।

अप्रमादः - मनसो विषयपारवश्यशून्यत्वम् । अथ यथोक्तोपदेशस्य मुमुक्षुविषयत्वात् अर्जुनस्य मुमुक्षुत्वमिह विवक्षितमिति, नेत्याह -

एष इति

॥ ४५ ॥

अविवेकिनामपि वेदाभ्यासवतां विवेकबुद्धिरुदेष्यति, इत्याशङ्क्याह -

य एवमिति ।

तथा च अपरिच्छिन्नात्मानन्दप्राप्तिपर्यवसायिनो योगमार्गस्य नास्ति वैफल्यमित्याह -

यावानिति ।

उक्तमर्थमक्षरयोजनया प्रकटयति -

यथेति ।

उदकं पीयतेऽस्मिन्निति व्युत्पत्या कूपादिपरिच्छिन्नोदकविषयत्वमुदपानशब्दस्य दर्शयति -

कूपेति ।

कूपादिगतस्याभिधेयस्य समुद्रेऽन्तर्भावासम्भवात् कथमिदम् ? इत्याशङ्क्य, अर्थशब्दस्य प्रयोजनविषयत्वं व्युत्पादयति -

फलमिति ।

यत् फल्गुत्वेन लीयते तत् फलमित्युच्यते, तत् कथं तडागादिकृतं स्नानपानादि तथा ? इत्याशङ्क्य, तस्य अल्पीयसो नाशोपपत्तेः, इत्याह -

प्रयोजनमिति ।

तडागादिप्रयुक्तप्रयोजनस्य समुद्रनिमित्तप्रयोजनमात्रत्वम् अयुक्तम् , अन्यस्य अन्यात्मत्वानुपपत्तेः, इत्याशङ्क्याह -

तत्रेति ।

घटाकाशादेरिव महाकाशे परिच्छिन्नोदककार्यस्य अपरिच्छिन्नोदककार्यान्तर्भावः सम्भवति, तत्प्राप्तावितरापेक्षाभावादित्यर्थः ।

पूर्वार्धं दृष्टान्तभूतमेवं व्याख्याय, दार्ष्टान्तिकमुत्तरार्धं व्याकरोति -

एवमित्यादिना ।

‘कर्मसु योऽर्थः’ इत्युक्तं व्यनक्ति -

यत् कर्मफलमिति ।

सोऽर्थो विजानतो ब्राह्मणस्य योऽर्थः, तावानेव सम्पद्यत इति सम्बन्धः ।

तदेव स्पष्टयति -

विज्ञानेति ।

तस्मिनन्नन्तर्भवतीति शेषः ।

सर्वं कर्मफलं ज्ञानफलेऽन्तर्भवतीत्यत्र प्रमाणमाह -

सर्वमिति ।

यत् किमपि प्रजाः साधु कर्म कुर्वन्ति, तत् सर्वं स पुरुषोऽभिसमेति - प्राप्नोति, यः पुरुषः, तद्वेद - विजानाति, यद्वस्तु सः -  रैक्को वेद तद्वेद्यमिति श्रुतेरर्थः ।

कर्मफलस्य सगुणज्ञानफलेऽन्तर्भावः संवर्गविद्यायां श्रूयते, कथमेतावता निर्गुणज्ञानफले कर्मफलान्तर्भावः सम्भवति ? इत्याशङ्क्याह -

सर्वमिति ।

तर्हि ज्ञाननिष्ठैव कर्तव्या, तावतैव कर्मफलस्य लब्धतया कर्मानुष्ठानानपेक्षणात् , इत्याशङ्क्याह -

तस्मादिति ।

योगमर्गस्य निष्फलत्वाभावस्तच्छब्दार्थः ॥ ४६ ॥

ईश्वरार्पणधिया स्वधर्मानुष्ठानेऽपि फलकामनाभावाद्वैफल्यं योगमार्गस्येति मन्वानः शङ्कते -

सर्वेष्विति ।

कर्ममार्गस्य फलवत्त्वं प्रतिजानीते-

उच्यत इति ।

किं तत्फलम् ? इत्युक्ते तद्विषयं श्लोकमवतारयति -

श्रृण्विति ।

यथा उदपाने - कूपादौ परिच्छिन्नोदके स्नानाचमनादिर्योऽर्थो यावान् उत्पद्यते स तावान् अपरिच्छिन्ने सर्वतःसम्प्लुतोदके समुद्रेऽन्तर्भवति, परिच्छिन्नोदकानाम् अपरिच्छिन्नोदकांशत्वात् । तथा, सर्वेषु वेदोक्तेषु कर्मसु यावान् अर्थो विषयविशेषोपरक्तः सुखविशेषो जायते, स तावान् आत्मविदः स्वरूपभूते सुखेऽन्तर्भवति, परिच्छिन्नानन्दानाम् अपरिच्छिन्नानन्दान्तर्भावाभ्युपगमात् , ‘एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति’ (बृ. उ. ४-३-३२) इति श्रुतेः ।

तर्हि तत्फलाभिलाषोऽपि स्यात् इति, नेत्याह -

माफलेष्विति ।

पूर्वोक्तमेवार्थं प्रपञ्चयति -

मा कर्मेति ।

फलाभिसन्ध्यसम्भवे कर्माकरणमेव श्रद्दधामि, इत्याशङ्क्याह -

मा ते इति ।

ज्ञानानधिकारिणोऽपि कर्मत्यागप्रसक्तिं निवारयति -

कर्मण्येवेति ।

कर्मण्येवेति, एवकारार्थमाह -

न ज्ञानेति ।

नहि तत्र अब्राह्मणस्य अपरिपक्वकषायस्य मुख्योऽधिकारः सिध्यतीत्यर्थः ।

फलैस्तर्हि सम्बन्धो दुर्वारः स्यात् , इत्याशङ्क्याह -

तत्रेति ।

कर्मण्येवाधिकरे सतीति सप्तम्यर्थः ।

फलेष्वधिकाराभावं स्फोरयति -

कर्मेति ।

कर्मानुष्ठानात् प्रागूर्ध्वं तत्काले चेत्येतत् कदाचनेति विवक्षितमित्याह -

कस्याञ्चिदिति ।

फलाभिसंधाने दोषमाह -

यदेति ।

एवं कर्मफलतृष्णाद्वारेणेत्यर्थः ।

कर्मफलहेतुत्वं विवृणोति -

यदा हीति ।

तर्हि विफलं क्लेशात्मकं कर्म न कर्तव्यम् , इति शङ्कामनुभाष्य दूषयति -

यदीत्यादिना ।

अकर्मणि ते सङ्गो मा भूत् , इत्युक्तमेव स्पष्टयति -

अकरण इति

॥ ४७ ॥

तर्हि परम्परया पुरुषार्थसाधनं योगमार्गं परित्यज्य साक्षादेव पुरुषार्थकारणमात्मज्ञानं तदर्थमुपदेष्टव्यम् , तस्मै हि स्पृहयति मनो मदीयम् , इत्याशङ्क्याह -

तव चेति ।

वक्ष्यमाणयोगमुद्दिश्य तन्निष्ठो भूत्वा कर्माणि क्लेशात्मकान्यपि विहितत्वात् अनुष्ठेयानीत्याह -

योगस्थः सन्निति ।

कर्मानुष्ठानस्योद्देश्यं दर्शयति -

केवलमिति ।

फलान्तरापेक्षामन्तरेण ईश्वरार्थं - तत्प्रसादनार्थमनुष्ठानमित्यर्थः ।

तर्हि ईश्वरसन्तोषोऽभिलाषगोचरीभूतो भविष्यति, नेत्याह -

तत्रापीति ।

ईश्वरप्रसादनार्थे कर्मानुष्ठाने स्थितेऽपीत्यर्थः । सङ्गं त्यक्त्वा कुर्विति पूर्वेण सम्बन्धः ।

आकाङ्क्षितं पूरयित्वा, सिद्धिशब्दार्थमाह -

फलेति ।

तद्विपर्ययजा - सत्त्वाशुद्धिजन्या । ज्ञानाप्राप्तिलक्षणेति यावत् ।

कर्म अननुतिष्ठतो योगमुद्दिश्य शेषतया प्रकृतमाकाङ्क्षापूर्वकं प्रकटयति -

कोऽसावित्यादिना

॥ ४८ ॥

आसक्तिरकरणे न युक्ता चेत् , तर्हि क्लेशात्मकं कर्म किमुद्दिश्य कर्तव्यम् ? इत्याशङ्कामनूद्य, श्लोकान्तरमवतारयति -

यदीत्यादिना ।

बुद्धियुक्तस्य बुद्धियोगाधीनं प्रकर्षं सूचयति -

बुद्धीति ।

बुद्धिसम्बन्धासम्बन्धाभ्यां कर्मणि प्रकर्षनिकर्षयोर्भावे करणीयं नियच्छति -

बुद्धाविति ।

यत्तु फलेच्छयापि कर्मानुष्ठानं सुकरमिति, तत्राह -

कृपणेति ।

निकृष्टं कर्मैव विशिनष्टि -

फलार्थिनेति ।

कस्मात् प्रतियोगिनः सकाशादिदं निकृष्टम् ? इत्याशङ्क्य, प्रतीकमुपादाय व्याचष्टे -

बुद्धीत्यादिना ।

फलाभिलाषेण क्रियमाणस्य कर्मणो निकृष्टत्वे हेतुमाह -

जन्मेति ।

समत्वबुद्धियुक्तात् कर्मणः तद्धीनस्य कर्मणो जन्मादिहेतुत्वेन निकृष्टत्वे फलितमाह -

यत इति ।

योगविषया बुद्धिः समत्वबुद्धिः ।

बुद्धिशब्दस्य अर्थान्तरमाह -

तत्परिपाकेति ।

तच्छब्देन समत्वबुद्धिसमन्वितं कर्म गृह्यते । तस्य परिपाकः - तत्फलभूता बुद्धिशुद्धिः ।

शरणशब्दस्य पर्यायं गृहीत्वा विवक्षितमर्थमाह -

अभयेति ।

सप्तमीमविवक्षित्वा द्वितीयं पक्षं गृहीत्वा वाक्यार्थमाह -

परमार्थेति ।

तथाविधज्ञानशरणत्वे हेतुमाह -

यत इति ।

फलहेतुत्वं विवृणोति -

फलेति ।

तेन परमार्थज्ञानशरणतैव युक्तेति शेषः ।

परमार्थज्ञानबहिर्मुखानां कृपणत्वे श्रुतिं प्रमाणयति -

यो वा इति ।

अस्थूलादिविशेषणं एतदित्युच्यते ॥ ४९ ॥

किमिति योगस्थेन तत्त्वज्ञानमुद्दिश्य कर्म कर्तव्यम् , फलाभिलाषेऽपि  तदनुष्ठानस्य सुलभत्वात् ? इत्याशङ्क्य, यथोक्तयोगयुक्तं कर्म स्तुवन् , अनन्तरश्लोकमुत्थापयति -

यत् पुनरिति ।

अवरं कर्म - बुद्धिसम्बन्धविरुद्धमिति शेषः ।

बुद्धियोगस्य फलवत्त्वे फलितमाह -

तस्मादिति ।

पूर्वार्धं व्याचष्टे -

बुद्धीत्यादिना ।

ननु - समत्वबुद्धिमात्रात् न पुण्यपापनिवृत्तिर्युक्ता, परमार्थदर्शनवतस्तन्निवृत्तिप्रसिद्धेः, इति तत्राह -

सत्त्वेति ।

उत्तरार्धं व्याचष्टे -

तस्मादिति ।

स्वधर्ममनुतिष्ठतो यथोक्तयोगार्थं किमर्थं मनो योजनीयम् ? इत्याशङ्क्याह -

योगो हीति ।

तर्हि यथोक्तयोगसामर्थ्यादेव दर्शितफलसिद्धेरनास्था स्वधर्मानुष्ठाने प्राप्ता, इत्याशङ्क्याह -

स्वधर्माख्येष्विति ।

ईश्वरार्पितचेतस्तया कर्मसु वर्तमानस्य - अनुष्ठाननिष्ठस्य या यथोक्ता बुद्धिः, तत् तेषु कौशलम् इति योजना ।

कर्मणां बन्धस्वभावत्वात् तदनुष्ठाने बन्धानुबन्धः स्यात् , इत्याशङ्क्य कौशलमेव विशदयति -

तद्धीति ।

समत्वबुद्धेरेवंफलत्वे स्थिते फलितमुपसंहरति -

तस्मादिति

॥ ५० ॥

पूर्वोक्तसमत्वबुद्धियुक्तस्य स्वधर्मानुष्ठाने प्रवृत्तस्य किं स्यात् ? इत्याशङ्क्याह -

समत्वेति ।

बुद्धियुक्तः स्वधर्माख्यं कर्म अनुतिष्ठन्निति शेषः ।

मनीषिणो हि ज्ञानातिशयवन्तो बुद्धियुक्ताः सन्तः स्वधर्माख्यं कर्मानुतिष्ठन्तः, ततो जातं फलं देहप्रभेदं हित्वा जन्मलक्षणाद्बन्धात् विनिर्मुक्ताः वैष्णवं पदं सर्वसंसारसंस्पर्शशून्यं प्राप्नुवन्तीति श्लोकोक्तमर्थं श्लोकयोजनया दर्शयति -

कर्मजमित्यादिना ।

इष्टो देहो देवादिलक्षणः, अनिष्टो देहः तिर्यगादिलक्षणः । तत्प्राप्तिरेव कर्मणो जातं फलम् । तत् यथोक्तबुद्धियुक्ता ज्ञानिनो भूत्वा तद्बलादेव परित्यज्य बन्धविनिर्मोकपूर्वकं जीवन्मुक्ताः सन्तो विदेहकैवल्यभाजो भवन्तीत्यर्थः ।

बुद्धियोगादित्यादौ बुद्धिशब्दस्य समत्वबुद्धिरर्थो व्याख्यातः, सम्प्रति परम्परां परिहृत्य सुकृतदुष्कृतप्रहाणहेतुत्वस्य समत्वबुद्धावसिद्धेः, बुद्धिशब्दस्य योग्यमर्थान्तरं कथयति -

अथवेति ।

अनवच्छिन्नवस्तुगोचरत्वेन अनवच्छिन्नत्वं तस्याः सूचयन् बुद्ध्यन्तराद्विशेषं दर्शयति -

सर्वत इति ।

असाधारणं निमित्तन्तस्या निर्दिशति - कर्मेति ।

यथोक्तबुद्धेर्बुद्धिशब्दार्थत्वे हेतुमाह -

साक्षादिति ।

जन्मबन्धविनिर्मोकादिः आदिशब्दार्थः । यस्मिन् कर्मणि क्रियमाणे परमार्थदर्शनलक्षणा बुद्धिरुद्देश्यतया युज्यते, तस्मात् कर्मणः, सकाशादितरत् कर्म तथाविधोद्देश्यभूतबुद्धिसम्बन्धविधुरमतिशयेन निष्कृष्यते । ततश्च परमार्थबुद्धिमुद्देश्यत्वेनाश्रित्य कर्म अनुष्ठातव्यम् , परिच्छिन्नफलान्तरमुद्दिश्य तदनुष्ठाने कार्पण्यप्रसङ्गात् । किञ्च - परमार्थबुद्धिमुद्देश्यमाश्रित्य कर्म अनुतिष्ठन् अन्तःकरणशुद्धिद्वारा परमार्थदर्शनसिद्धौ, जीवत्येव देहे सुकृतादि हित्वा मोक्षमधिगच्छति । तथाच - परमार्थदर्शनलक्षणयोगार्थं मनो धारयितव्यम् । योगशब्दितं हि  परमार्थदर्शनमुद्देश्यतया कर्मस्वनुतिष्ठतो नैपुण्यमिष्यते - यदि च परमार्थदर्शनमुद्दिश्य तद्युताः सन्तः समारभेरन् कर्माणि, तदा तदनुष्ठानजनितबुद्धिशुद्ध्या ज्ञानिनो भूत्वा कर्मजं फलं परित्यज्य, निर्मुक्तबन्धनाः मुक्तिभाजो भवन्ति - इत्येवमस्मिन् पक्षे श्लोकत्रयाक्षराणि व्याख्यातव्यानि ॥ ५१ ॥

समत्वबुद्धियुक्तस्य सुकृतदुष्कृततत्फलपरित्यागेऽपि कथं मोक्षः स्यात् ? इत्याशङ्क्याह -

यस्मादिति ।

समत्वबुद्ध्या यस्मात् कर्मानुष्ठीयमानं दुरितादि त्याजयति, तस्मात् परम्परया असौ मुक्तिहेतुरित्यर्थः ।

श्रुतं श्रोतव्यं दृष्ठं द्रष्टव्यमित्यादौ फलाभिलाषप्रतिबन्धात् नोक्ता बुद्धिरुदेष्यति, इत्याशङ्क्याह -

यदेति ।

विेवेकपरिपाकावस्था कालशब्देनोच्यते । कालुष्यस्य दोषपर्यवसायित्वं दर्शयन् विशिनष्टि -

येनेति ।

तत् - अनर्थरूपं कालुष्यम् । तवेत्यन्वयार्थं पुनर्वचनम् ।

बुद्धिशुद्धिफलस्य विवेकस्य प्राप्त्या वैराग्याप्तिं दर्शयति -

तदेति ।

अध्यात्मशास्त्रातिरिक्तं शास्त्रं श्रोतव्यादिशब्देन गृह्यते ।

उक्तं वैराग्यमेव स्फोरयति -

श्रोतव्यमिति ।

यथोक्तविवेकसिद्धौ सर्वस्मिन् अनात्मविषये नैष्फल्यं प्रतिभातीत्यर्थः ॥ ५२ ॥

यथोक्तबुद्धिप्राप्तिकालं प्रश्नपूर्वकं प्रकटयति-

योगेति ।

बुद्धेः श्रृतिविप्रतिपन्नत्वं विशदयति   -

अनेकेति ।

नानाश्रुतिप्रतिपन्नत्वमेव सङ्क्षिपति-

विक्षिप्तेति ।

उक्तं हेतुद्वयमनुरुध्य वैराग्यपरिपाकावस्था कालशब्दार्थः । नैश्चल्यम् - विक्षेपराहित्यम् , अचलत्वम् - विकल्पशून्यत्वम् , विक्षेपः - विपर्ययः, विकल्पः - संशयः - इति विवेकः । विवेकद्वारा जाता प्रज्ञा प्रागुक्ता बुद्धिः । समाधिः - तत्रैव निष्ठा ॥ ५३ ॥

बुद्धिशुद्धिविवेकवैराग्यसिद्धावपि पूर्वोक्तबुद्धिप्राप्तिकालो दर्शितो न भवतीति शङ्कते -

मोहेति ।

प्रागुक्तविवेकादियुक्तबुद्धेरात्मनि स्थैर्यावस्थायां प्रकृतबुद्धिसिद्धिरित्याह -

तत् शृण्विति ।

पृष्टं कालविशेषाख्यं वस्तु तच्छब्देन गृह्यते ।

ननु - तस्य भाषा तत्कार्यानुरोधिनी भविष्यति, किमित्यसौ विजिज्ञास्यते ? तत्राह -

कथमिति ।

ज्ञाननिष्ठस्य लक्षणविवक्षया प्रश्नमवतार्य तन्निष्ठासाधनबुभुत्सया विशिनष्ठि -

समाधिस्थस्येति ।

तस्यैवार्थक्रियां पृच्छति -

स्थितधीरिति

॥ ५४ ॥

संन्यासिनो ज्ञाननिष्ठातत्प्राप्तिवचनं प्रश्नबीजम् । पृच्छतोऽर्जुनस्याभिप्रायमाह -

लब्धेति ।

लब्धा समाधौ - आत्मनि, समाधानेन वा प्रज्ञा परमार्थदर्शनलक्षणा येन तस्येति यावत् ।

स्थितप्रज्ञस्य का भाषा ? इति प्रथमप्रश्नस्योत्तरमाह -

प्रजहातीति ।

कामत्यागस्य प्रकर्षः - वासनाराहित्यम् । कामानामात्मनिष्ठत्वं कैश्विदिष्यते । तदयुक्तम् , तेषां मनोनिष्ठत्वश्रुतेः, इत्याशयवानाह -

मनोगतानिति ।

‘आत्मन्येवात्मना’ (भ. गी. २-५५) इत्याद्युत्तरभागनिरस्यं चोद्यमनुवदति -

सर्वकामेति ।

तर्हि प्रवर्तकाभावाद्विदुषः सर्वप्रवृत्तेरुपशान्तिरिति, नेत्याह -

शरीरेति ।

उन्मादवान् उन्मत्तः - विवेकविरहितबुद्धिभ्रमभागी । प्रकर्षेण मदमनुभवन् विद्यमानमपि विवेकं निरस्यन् भ्रान्तवद्व्यवहरन् प्रमत्तः इति विभागः ।

उत्तरार्धमवतार्य व्याकरोति -

उच्यत इति ।

आत्मन्येव इत्येवकारस्य ‘आत्मना’ इत्यत्रापि सम्बन्धं द्योतयति -

स्वेनैवेति ।

बाह्मलाभनिरपेक्षत्वेन तुष्टिमेव स्पष्टयति -

परमार्थेति ।

स्थितप्रज्ञपदं विभजते -

स्थितेति ।

प्रज्ञाप्रतिबन्घकसर्वकामविगमावस्था तदेति निर्दिश्यते ।

उक्तमेव प्रपञ्चयति -

त्यक्तेति ।

आत्मानं जिज्ञासमानो वैराग्यद्वारा सर्वैषणात्यागात्मकं संन्यासमासाद्य, श्रवणाद्यावृत्त्या तज्ज्ञानं प्राप्य, तस्मिन्नेव आसक्त्या विषयवैमुख्येन तत्फलभूतां परितुष्टिं तत्रैव प्रतिलभमानः स्थितप्रज्ञव्यपदेशभाक् इत्यर्थः ॥ ५५ ॥

प्रतिवचनमवतारयितुं पातनिकां करोति -

यो हीति ।

हिशब्देन कर्मसंन्यासकारणीभूतविरागतासम्पत्तिः सूच्यते । आदितः - ब्रह्मचर्यावस्थायामिति यावत् । ज्ञानमेव योगो ब्रह्मात्मभावप्रापकत्वात् , तस्मिन् निष्ठा - परिसमाप्तिः, तस्यामित्यर्थः । कर्मैव योगस्तेन, कर्माण्यसंन्यस्य तन्निष्ठायामेव प्रवृत्त इति शेषः ।

ननु - तत् कथमेकेन वाक्येन अर्थद्वयमुपदिश्यते ? द्वैयर्थ्ये वाक्यभेदात् । नच लक्षणमेव साधनम् , कृतार्थलक्षणस्य तत्स्वरूपत्वेन फलत्वे साधनत्वानुपपत्तेः, इति तत्राह-

सर्वत्रैवेति ।

यद्यपि कृतार्थस्य - ज्ञानिनो लक्षणं तद्रूपेण फलत्वान्न  साधनत्वमधिगच्छति, तथापि जिज्ञासोस्तदेव प्रयत्नसाध्यतया साधनं सम्पद्यते । लक्षणं चात्र ज्ञानसामर्थ्यलब्धमनूद्यते । न विधीयते, विदुषो विधिनिषेधागोचरत्वात् । तेन जिज्ञासोः साधनानुष्ठानाय लक्षणानुवादात् एकस्मिन्नेव साधनानुष्ठाने तात्पर्यमित्यर्थः ।

उक्तेऽर्थे भगवद्वाक्यमुत्थापयति -

यानीति ।

लक्षणानि च ज्ञानसामर्थ्यलभ्यानि, अयत्नसाध्यानीति शेषः ।

ज्वरशिरोरोगादिकृतानि दुःखानि आध्यात्मिकानि । आदिशब्देन आधिभौतिकानि व्याघ्रसर्पादिप्रयुक्तानि, आधिदैविकानि च अतिवातवर्षादिनिमित्तानि दुःखानि गृह्यन्ते । तेषूपलब्धेष्वपि नोद्विग्नं मनो यस्य स तथेति सम्बन्धः । नोद्विग्नमित्येतद्व्याचष्टे -

न प्रक्षुभितमिति ।

दुःखानामुक्तानां प्राप्तौ परिहाराक्षमस्य तदनुभवपरिभावितं दुःखमुद्वेगः । तेन सहितं मनो यस्य न भवति, स तथेत्याह -

दुःखप्राप्ताविति ।

मनो यस्य नोद्विग्नमिति पूर्वेण सम्बन्धः । सुखान्यपि दुःखवत् त्रिविधानीति मत्वा तथेत्युक्तम् । तेषु प्राप्तेषु सत्सु तेभ्यो विगता स्पृहा तृष्णा यस्य सः विगतस्पृहः - इति योजना ।

अज्ञस्य हि प्राप्तानि सुखान्यनु विवर्धते तृष्णा । विदुषस्तु नैवम् , इत्यत्र वैधर्म्यदृष्टान्तमाह -

नाग्निरिवेति ।

यथा हि दाह्यस्य इन्धनादेः अभ्याधाने वह्निर्विवर्धते, तथा अज्ञस्य सुखानि उपनतानि अनुविवर्घमानापि तृष्णा विदुषो न तान्यनु विवर्धते । नहि वह्निरदाह्यमुपगतमपि दग्धुं विवृद्धिमधिगच्छति । तेन जिज्ञासुना सुखदुःखयोस्तृष्णोद्वेगौ न कर्तव्यावित्यर्थः ।

रागादयश्च तेन कर्तव्या न भवन्तीत्याह -

वीतेति ।

अनुभूताभिनिवेशे विषयेषु रञ्जनात्मकस्तृष्णाभेदो रागः । परेणापकृतस्य गात्रनेत्रादिविकारकारणं भयम् । क्रोधस्तु परवशीकृत्य आत्मानं स्वपरापकारप्रवृत्तिहेतुर्बुद्धिवृत्तिविशेषः ।

मनुते इति मुनिः, आत्मवित् इत्यङ्गीकृत्याह -

संन्यासीति ।

सुखादिविषयतृष्णादेः, रागादेश्च अभावावस्था तदेत्युच्यते ॥ ५६ ॥

लक्षणभेदानुवादद्वारा विविदिषोरेव कर्तव्यान्तरमुपदिशति -

किञ्चेति ।

विवेकवतो विदुषो विवेकजन्या प्रज्ञा कथं प्रतिष्ठां प्रतिपद्यताम् ? इत्याशङ्क्याह -

यः सर्वत्रेति ।

ननु - देहजीवनादौ स्पृहा, शुभाशुभप्राप्तौ हर्षविषादौ विदुषो विविदिषोश्च अवर्जनीयौ ? इति प्रज्ञास्थैर्यासिद्धिः, तत्राह -

यो मुनिरिति ।

तत्तदिति शोभनवत्त्वेन अशोभनवत्त्वेन वा प्रसिद्धत्वं प्रतिनिर्दिश्यते । तदेव विभजते -

शुभमिति ।

विषयेषु अभिषङ्गाभावः शुभादिप्राप्तौ हर्षाद्यभावश्च प्रज्ञास्थैर्ये कारणमित्याह -

तस्येति

॥ ५७ ॥

लक्षणभेदानुवादद्वारा विविदिषोरेव कर्तव्यान्तरमुपदिशति -

किञ्चेति ।

इन्द्रियाणां विषयेभ्यो वैमुख्यस्य प्रज्ञास्थैर्ये कारणत्वात् , आदौ जिज्ञासुना तदनुष्ठेयम् , इत्याह -

यदेति ।

मुमुक्षुणा -  मोक्षहेतुं प्रज्ञां प्रार्थयमानेन सर्वेभ्यो विषयेभ्यः सर्वाणीन्द्रियाणि विमुखानि कर्तव्यानि, इति श्लोकव्याख्यानेन कथयति -

यदेत्यादिना ।

उपसंहारः - स्ववशत्वापादनम् । तस्य च सम्यक्त्वं - अतिदृढत्वम् ।

अयमिति प्रकृतस्थितप्रज्ञग्रहणं व्यावर्तयति -

ज्ञाननिष्ठायामिति ।

इन्द्रियोपसंहारस्य प्रलयरूपत्वं व्यावर्त्य, सङ्कोचात्मकत्वं दृष्टान्तेन दर्शयति -

कूर्म इति ।

दृष्टान्तं व्याकरोति -

यथेति ।

दार्ष्टान्तिके योजयन् ज्ञाननिष्ठापदं तत्र प्रवर्तयति -

एवमिति ।

इन्द्रियाणां विषयेभ्यो वैमुख्यकरणं प्रज्ञास्थैर्यहेतुः, इत्युक्तमुपसंहरति -

तस्येति

॥ ५८ ॥

जिज्ञासोरेव कर्तव्यान्तरं सूचयति -

किञ्चेति ।

विषयोपभोगपराङ्मुखस्य कुतो विषयपरावृत्तिः ? तत्परावृत्तिश्च अप्रस्तुता, इत्याशङ्क्याह -

यद्यपीति ।

निराहारस्येत्यस्य व्याख्याानम् - अनाह्रियमाणविषयस्येति । यो हि विषयप्रवणो न भवति, तस्य आत्यन्तिके तपसि क्लेशात्मके व्यवस्थितस्य विद्याहीनस्यापि इन्द्रियाणि विषयेभ्यः सकाशाद् यद्यपि संह्रियन्ते, तथापि रागोऽवशिष्यते । स च तत्त्वज्ञानादुच्छिद्यत इत्यर्थः ।

रसशब्दस्य माधुर्यादिषङ्विधरसविषत्वं निषेधति-

रसशब्द इति ।

वृद्धप्रयोगमन्तरेण कथं प्रसिद्धिः ? इत्याशङ्क्याह -

स्वरसेनेति ।

स्वेच्छयेति यावत् । रसिकः - स्वेच्छावशवर्ती । रसज्ञः - विवक्षितापेक्षितज्ञातेत्यर्थः ।

कथं तर्हि तस्य निवृत्तिः ? तत्राह-

सोऽपीति ।

दृष्टिमेवोपलब्धिपर्यायां स्पष्टयति -

अहमेवेति ।

रागापगमे सिद्धमर्थमाह -

निर्बीजमिति ।

ननु - सम्यग्ज्ञानमन्तरेण रागो नापगच्छति इति चेत् , तदपगमादृते रागवतः सम्यग्ज्ञानोदयायोगात् इतरेतराश्रयता इति, नेत्याह -

नासतीति ।

इन्द्रियाणां विषयपारवश्ये विवेकद्वारा परिहृते स्थूलो रागो व्यावर्तते । ततश्च सम्यग्ज्ञानोत्पत्त्या सूक्ष्मस्यापि रागस्य सर्वात्मना निवृत्त्युपपत्तेः, न इतरेतराश्रयता - इत्यर्थः ।

प्रज्ञास्थैर्यस्य सफलत्वे स्थिते फलितमाह -

तस्मादिति

॥ ५९ ॥

इन्द्रियाणां विषयेभ्यो वैमुख्येऽपि तद्विषयरागानुवृत्तौ कथं प्रज्ञालाभः स्यात् ? इति शङ्कते -

तत्रेति ।

व्यवहारभूमिः सप्तम्यर्थः । विषयान् अनाहरतः - तदुपभोगविमुखस्येत्यर्थः ।

रागश्चेन्नोपसंह्रियते, न तर्हि प्रज्ञालाभः सम्भवति, रागस्य तत्परिपन्थित्वात् इति मत्वा आह -

स कथमिति ।

रागनिवृत्त्युपायमुपदिशन्नुत्तरमाह -

उच्यत इति ।

ननु   - विवेकवतो विषयदोषदर्शिनो विषयेभ्यः स्वयमेवेन्द्रियाणि व्यावर्तन्ते, किं तत्र प्रज्ञास्थैर्यं चिकीर्षता कर्तव्यम् ? इति, तत्राह -

यततो हीति ।

विषयेषु भूयो भूयो दोषदर्शनमेवप्रयत्नः ।

अपिशब्दस्य प्रयत्नं कुर्वतोऽपीति सम्बन्धं गृहीत्वा, सम्बन्धान्तरमाह -

पुरुषस्येति ।

प्रमथनशीलत्वं प्रकटयति -

विषयेति ।

विक्षोभस्य आकुलीकरणस्य फलमाह -

आकुलीकृत्येति ।

प्रकाशमेवेत्युक्तं विशदयति -

पश्यत इति ।

विपश्चितः - विदुषोऽपि, प्रकाशमेव - प्रकाशशब्दितविवेकाख्यविज्ञानेन युक्तमेव मनो हरन्तीन्द्रियाणीति सम्बन्धः ।

॥ ६० ॥

श्लोकान्तरमवतारयति -

सम्यग्दर्शनेति ।

मनसः स्ववशत्वादेव प्रज्ञास्थैर्यसम्भवे किमर्थमिन्द्रियाणां स्ववशत्वापादनम् ? इत्याशङ्क्याह-

यस्मादिति ।

इन्द्रियाणां स्ववशत्वसम्पादनानन्तरं कर्तव्यमर्थमाह -

तानीति ।

एवमासीनस्य किं स्यात् ? इति तदाह -

वशे हीति ।

समाहितस्य - विक्षेपविकलस्य कथमासनम् ? इत्यपेक्षायामाह -

मत्पर इति ।

परापरभेदशङ्कामपाकृत्य आसनमेव स्फोरयति - नान्योऽहमिति ।

उत्तरार्धं व्याकरोति -

एवमिति ।

हिशब्दार्थं स्फुटयति -

अभ्यासेति ।

परस्मादात्मनो नाहमन्योऽस्मीति प्रागुक्तानुसन्धानस्य आदरेण नैरन्तर्यदीर्घकालानुष्ठानसामर्थ्यादित्यर्थः ।अथवा - विषयेषु दोषदर्शनाभ्याससामर्थ्यात् इन्द्रियाणि संयतानीत्यर्थः ॥ ६१ ॥

समनन्तरश्लोकद्वयतात्पर्यमाह -

अथेति ।

पुरुषार्थोपायोपदेशानन्तर्यमथशब्दार्थः ।

तन्निष्ठत्वराहित्यावस्थां दर्शयति -

इदानीमिति ।

पराभविष्यतः - महान्तमनर्थं गमिष्यतः । विवेकविज्ञानविहीनस्येति यावत् । सर्वानर्थमूलं विषयाभिध्यानं तस्य तथात्वमनुभवसिद्धमिति वक्तुमिदमित्युक्तम् । विषयेषु विशेषत्वमारोपितरमणीयत्वम् । प्रीतिरासक्तिरिति साधारणासक्तिमात्रं गृह्यते । तृष्णेति उद्रिक्ता सक्तिरुक्ता । प्रतिबन्धेन प्रणाशेन वा प्रतिहतिः ॥ ६२ ॥

क्रोधस्य संमोहहेतुत्वमनुभवेन द्रढयति -

क्रुद्धो हीति ।

आक्रोशति - अधिक्षिपति । तदयोग्यत्वमपेरर्थः ।

संमोहकार्यं कथयति -

संमोहादिति ।

स्मृतेर्निमित्तनिवेदनद्वारा स्वरूपं  निरूपयति -

शास्त्रेति ।

क्षणिकत्वादेवतस्याः स्वतो नाशसम्भवात् , न संमोहाधीनत्वं तस्येत्याशङ्क्याह -

स्मृतीति ।

स्मृतिभ्रंशेऽपि कथं बुद्धिनाशः स्वरूपतः सिध्यति ? तत्राह -

कार्येति ।

ननु - पुरुषस्य नित्यसिद्धस्य बुद्धिनाशेऽपि प्रणाशो न कल्पते, तत्राह -

तावदेवेति ।

कार्याकार्यविवेचनयोग्यान्तःकरणाभावे सतोऽपि पुरुषस्य करणाभावात् , अपगततत्त्वविवेकविवक्षया नष्टत्वव्यपदेशः ।

तदेतदाह -

पुरुषार्थेति

॥ ६३ ॥

इन्द्रियाणां विषयेषु प्रवृतिश्चेत् , नियमानुपपत्त्या वर्जनीयेष्वपि सा स्यात् , इत्याशङ्क्याह -

आत्मेति ।

अन्तःकरणाधीनत्वेऽपि इन्द्रियाणां तदनियमात् तेषामपि नियमानुपपत्तिः, इत्याशङ्क्याह -

विधेयात्मेति

॥ ६४ ॥

विषयाणां स्मरणमपि चेदनर्थकारणम् , सुतरां तर्हि भोगः, तेन जीवनार्थं भुञ्जानो विषयान् अनर्थं कथं न प्रतिपद्यते ? इत्याशङ्क्य, वृत्तानुवादपूर्वकमुत्तरश्लोकतात्पर्यमाह -

सर्वानर्थस्येति ।

अनर्थमूलकथनानन्तर्यमथशब्दार्थः ।

परिहर्तव्ये निर्णीते तत्परिहारोपायजिज्ञासां दर्शयति -

इदानीमिति ।

रागद्वेषपूर्विका प्रवृत्तिः, इत्यत्र अनुभवदर्शनार्थो हिशब्दः । शास्त्रीयप्रवृत्तिव्यासेधार्थं स्वाभाविकी इत्युक्तम् । तत्रेत्यधिकृतान् अधिकृत्य प्रयोगः । अवर्जनीयान् अशनपानादीन् , देहस्थितिहेतूनिति यावत् ।

सर्वदुःखहान्या बुद्धिस्वास्थ्येऽपि, प्रकृतं प्रज्ञास्थैर्यं कथं सिद्धम् ? इत्याशङ्क्याह -

प्रसन्नेति ।

बुद्धिप्रसादस्यैव फलान्तरमाह -

किञ्चेति ।

तस्मात् बुद्धिप्रसादार्थं प्रयतितव्यमिति शेषः ।

श्लोकद्वयस्य अक्षरोत्थमर्थमुक्त्वा, तात्पर्यार्थमुपसंहरति -

एवमिति ।

युक्तः -  समाहितः - विषयपारवश्यशून्यः सन्निति यावत् ॥ ६५ ॥

तथापि नानाविधदुःखाभिभूतत्वात् न स्वास्थ्यमास्थातुं शक्यम् , इत्याशयेन पृच्छति -

प्रसाद इति ।

श्लोकार्धेनोत्तरमाह -

उच्यत इति ।

असमाहितस्यापि बुद्धिमात्रमुत्पद्यमानं प्रतिभाति, इत्याशङ्क्य विशिनष्टि -

आत्मस्वरूपेति ।

नहि विक्षिप्तचित्तस्य आत्मस्वरूपविषया बुद्धिरुदेतुमर्हति, इत्यत्र हेतुमाह -

नचेति ।

आत्मज्ञाने शब्दादापाततो जाते, स्मृतिसन्तानकरणं साक्षात्कारार्थमभिनिवेशो भावनेतिचोच्यते । न चासौ विक्षिप्तबुद्धेः सिध्यति, इति हेत्वर्थं विवक्षित्वाह -

आत्मज्ञानेति ।

भावनाद्वारा साक्षात्काराभावेऽपि का क्षतिः ? इत्याशङ्क्याह -

तथेति ।

असमाहितस्य भावनाभाववदिति यावत् ।

आत्मनि आपाततो ज्ञाते श्रवणाद्यावृत्तिरूपां स्मृतिम् अनातन्वानस्य अपरोक्षबुद्ध्यभावे, न अनर्थनिवृत्तिः सिध्यतीत्याह -

उपशम इति ।

अनिवृत्तानर्थस्य परमानन्दसागराद्विभक्तस्य संसारवारिधौ निमग्नस्य सुखाविर्भावो न सम्भवतीत्याह -

अशान्तस्येति ।

तस्यापि विषयसेवातो वैषयिकं सुखं सम्भवति, इत्याशङ्क्याह -

इन्द्रियाणां हीति ।

तृष्णाक्षयस्य शास्त्रप्रसिद्धमानुभविकं च सुखत्वमिति वक्तुं हिशब्दः ।

विषयसेवातृष्णयापि विषयोपभोगद्वारा सुखमुपलब्धम् , इत्याशङ्क्याह -

दुःखमेवेति ।

तत्रापि हिशब्दः अनुभवद्योती ।

तदेव स्पष्टयति -

नेत्यादिना

॥ ६६ ॥

किं पुनः सत्त्वशुद्ध्यैव यथोक्तबुद्धिः सिध्यति ? नेत्याह -

सेयमिति ।

विक्षिप्तचेतसो भावनाभावे साक्षात्कारलक्षणा बुद्धिर्न भवतीति हेत्वन्तरेण साधयति -

इन्द्रियाणामिति ।

यत्पदोपात्तं मनः, तत्पदेनापि गृह्यते । इन्द्रियाणां - श्रोत्रादीनां, विषयाः - शब्दादयः, तेषां विकल्पनं - मिथो विभज्य ग्रहणम् , तेनेति यावत् ।

दृष्टान्तं व्याकरोति -

उदक इति ।

करोति यस्मात् तस्मात् अयुक्तस्य नोत्पद्यते बुद्धिरिति योजना ॥ ६७ ॥

आकाङ्क्षाद्वारा श्लोकान्तरमुत्थापयति -

अयुक्तस्येति ।

तच्छब्दापेक्षितार्थोक्तिद्वारा श्लोकमवतारयति -

इन्द्रियाणामिति ।

असमाहितेन मनसा यस्मात् अनुविधीयमानानि इन्द्रियाणि प्रसह्य प्रज्ञामपहरन्ति, तस्मात् इति योजना ॥ ६८ ॥

‘यततो हि' (भ. गी. २-६०) इत्यादिश्लोकाभ्यामुक्तस्यैवार्थस्य प्रकृतश्लोकाभ्यामपि कथ्यमानत्वात् अस्ति पुनरुक्तिः, इत्याशङ्क्य परिहरति -

यततो हीत्यादीना ।

‘ध्यायतो विषयान्’ (भ. गी. २-६२) इत्यादिना उपपत्तिवचनमुन्नेयम् ।

सर्वप्राणिनां निशा पदार्थाविवेककरी इत्यत्र हेतुमाह -

तमःस्वभावत्वादिति ।

 सर्वप्राणिसाधारणीं प्रसिद्धां निशां दर्शयित्वा, तामेव प्रकृतानुगुणत्वेन प्रश्नपूर्वकं विशदयति -

किं तदित्यादिना ।

स्थितप्रज्ञविषयस्य परमार्थतत्त्वस्य प्रकाशैकस्वभावस्य कथमज्ञानं प्रति निशात्वम् ? इत्याशङ्क्याह -

यथेति ।

तत्र हेतुमाह-

अगोचरत्वादिति ।

अतद्बुद्धीनां परमार्थतत्त्वातिरिक्ते द्वैतप्रपञ्चे प्रवृत्तबुद्धीनाम् अप्रतिपन्नत्वात् परमार्थतत्त्वं निशेव अविदुषामित्यर्थः ।

तस्यामित्यादि व्याचष्टे -

तस्यामिति ।

निशावदुक्तायामवस्थायामिति यावत् । योगीति ज्ञानी कथ्यते ।

द्वितीयार्धं विभजते -

यस्यामिति ।

प्रसुप्तानां जागरणं विरुद्धम् , इत्याशङ्क्याह -

प्रसुप्ता इवेति ।

परमार्थतत्त्वमनुभवतो निवृत्ताविद्यस्य संन्यासिनो द्वैतावस्था निशा इत्यत्र हेतुमाह -

अविद्यारूपत्वादिति ।

परमार्थावस्था निशेव अविदुषाम् , विदुषां तु द्वैतावस्था तथा, इति स्थिते फलितमाह -

अत इति ।

अविद्यावस्थायामेव क्रियाकारकफलभेदप्रतिभानादित्यर्थः ।

विद्योदयेऽपि तत्प्रतिभानाविशेषात् पूर्वमिव कर्माणि विधीयेरन् , इत्याशङ्क्याह -

विद्यायामिति ।

अविद्यानिवृत्तौ बाधितानुवृत्त्या विभागभानेऽपि नास्ति कर्मविधिः, विभागाभिनिवेशाभावादित्यर्थः ।

अविद्यावस्थायामेव कर्मणीत्युक्तं व्यक्तीकरोति -

प्रागिति ।

विद्योदयात् पूर्वं बाधकाभावादबाधिता विद्या क्रियादिभेदमापाद्य प्रमाणरूपया बुद्ध्या ग्राह्यतां प्राप्य कर्महेतुर्भवति, क्रियादिभेदाभिमानस्य तद्धेतुत्वादित्यर्थः ।

न विद्यावस्थायामित्युक्तं प्रपञ्चयति -

न अप्रमाणेति ।

उत्पन्नायां च विद्यायां अविद्याया निवृत्तत्वात् क्रियादिभेदभानमप्रमाणमिति बुद्धिरुत्पद्यते, तया गृह्यमाणा यथोक्तविभागभागिन्यपि अविद्या न कर्महेतुत्वं प्रतिपद्यते, बाधितत्वेन आभासतया तद्धेतुत्वायोगादित्यर्थः ।

विद्याविद्याविभागेनोक्तमेव विशेषं विवृणोति -

प्रमाणभूतेनेति ।

यथोक्तेन वेदेन कामनाजीवनादिमतो मम कर्म विहितम् , तेन मया तत् कर्तव्यम् इति मन्वानः सन् कर्मणि अज्ञोऽधिक्रियते, तं प्रति साधनविशेषवादिनो वेदस्य प्रवर्तकत्वादित्यर्थः ।

सर्वमेवेदमविद्यामात्रं द्वैतं निषेवेत इति मन्वानस्तु न प्रवर्तते कर्मणि, इति व्यावर्त्यमाह -

नाविद्येति ।

विदुषो न कर्मण्यधिकारश्चेत् तस्याधिकारस्तर्हि कुत्र ? इत्याशङ्क्याह -

यस्येति ।

तस्य आत्मज्ञस्य फलभूतसंन्यासाधिकारे वाक्यशेषं प्रमाणयति -

तथा चेति ।

प्रवर्तकं प्रमाणं विधिः, तदभावे कर्मस्विव विदुषो ज्ञाननिष्ठायामपि प्रवृत्तेरनुपपत्तेः, आश्रयणीयो ज्ञानवतोऽपि विधिरिति शङ्कते -

तत्रापीति ।

किमात्मज्ञानं विधिमपेक्षते ? किं वा आत्मा ? नाद्यः । तस्य स्वरूपविषयस्य यथाप्रमाणप्रमेयमुत्पत्तेर्विध्यनपेक्षत्वादित्याह -

न स्वात्मेति ।

न द्वितीय इत्याह-

नहीति ।

प्रवर्तकप्रमाणशब्दितस्य विधेः साध्यविषयत्वात् आत्मनश्चासाध्यत्वादिति हेतुमाह -

आत्मत्वादेवेति ।

आत्मतज्ज्ञानयोर्विघ्यनपेक्षत्वेऽपि ज्ञानिनो मानमेव व्यवहारं प्रति नियमार्थं विध्यपेक्षा स्यात् , इत्याशङ्क्याह -

तदन्तत्वाच्चेति ।

सर्वेषां प्रमाणानां प्रामाण्यस्य आत्मज्ञानोदयावसानत्वात् तस्मिन्नुत्पन्ने व्यवहारस्य निरवकाशत्वात् , न तत्प्रति नियमाय ज्ञानिनो विधिरित्यर्थः ।

उक्तमेव व्यक्तीकरोति -

नहीति ।

धर्माधिगमवदात्माधिगमेऽपि किमिति यथोक्तो व्यवहारो न भवति ? इत्याशङ्क्याह -

प्रमातृत्वं हीति ।

तन्निवृत्तौ कथमद्वैतज्ञानस्य प्रामाण्यम् ? इत्याशङ्क्याह -

निवर्तयदेवेति ।

निवर्तयत् अद्वैतज्ञानं स्वयं निवृत्तेर्न प्रमाणम् , इत्यत्र दृष्टान्तमाह -

स्वप्नेति ।

आत्मज्ञानस्य विध्यनपेक्षत्वे हेत्वन्तरमाह -

लोके चेति ।

व्यवहारभूमौ हि प्रमाणस्य वस्तुनिश्वयफलपर्यन्तत्वे सति प्रवर्तकविधिसापेक्षत्वानुपलम्भात् अद्वैतज्ञानमपि प्रमाणत्वात् न विधिमपेक्षते, रज्ज्वादिज्ञानवदित्यर्थः ।

आत्मज्ञानवतस्तन्निष्ठाविधिमन्तरेण ज्ञानमाहत्म्येनैव सिद्धत्वात् , तस्य कर्मसंन्यासेऽधिकारः, न कर्मणि, इत्युपसंहरति -

तस्मादिति

॥ ६९ ॥

आत्मविदः स्थितप्रज्ञस्य सर्वकर्मपरित्यागेऽधिकारः, तद्विपरीतस्य अज्ञस्य कर्मणि, इत्येतस्मिन्नर्थे समनन्तरश्लोकमवतारयति-

योऽयमिति ।

अविद्यानिवृत्तौ सर्वकर्मनिवृत्तिश्चेत् , तन्निवृत्तिरेव कथम् ? इत्याशङ्क्याह -

अविद्यायाश्चेति ।

स्फुटीकुर्वन् बाह्याभ्यन्तरकरणानां पराक्प्रत्यक्प्रवृत्तिवत् तथाविधे दर्शने च मिथो विरुध्येते, पराग्दर्शनस्य अनाद्यात्मावरणाविद्याकार्यत्वात् , आत्मदर्शनस्य च तन्निवर्तकत्वात् , ततश्च आत्मदर्शनार्थमिन्द्रियाण्यर्थेभ्यो निगृह्णीयात् इत्याहेति योजना

अद्भिः समुद्रस्य समन्तात् पूर्यमाणत्वे वृद्धिह्रासवती तदीया स्थितिरापतेत् , इत्याशङ्क्याह -

अचलेति ।

नहि समुद्रस्योदकात्मकं प्रतिनियतं रूपं कदाचिद्विवर्धते ह्रसते वा । तेन तदीया स्थितिरेकरूपैवेत्यर्थः ।

तत्तन्नादेयाश्चेदापः समुद्रान्तर्गच्छन्ति, तर्हि तस्य विक्रियावत्त्वादप्रतिष्ठा स्यात् , इत्याशङ्क्याह -

स्वात्मस्थमिति ।

इच्छाविशेषा विषयाणामसंनिधौ विदुषि निर्विकारे प्रविशन्तोऽपि संनिधाने तस्मिन् प्रविशन्तो विकारमापादयेयुः, इत्याशङ्क्याह -

विषयेति ।

प्रवेशं विशदयति -

सर्वत इति ।

‘योऽकामः’ (बृ. ४.४.६ ) इत्यादिश्रुतेः, विषयविमुखस्य निष्कामस्य मोक्षः, न कामकामुकस्येत्याह -

स शान्तिमिति

॥ ७० ॥

ननु - असंन्यासिनापि विद्यावतां विद्याफलस्य मोक्षस्य लब्धुं शक्यत्वात् किमिति विदुषः संन्यासो नियम्यते ? तत्राह -

विदुष इति ।

आपातज्ञानवतो विवेकवैराग्यादिविशिष्टस्य एषणाभ्यः सर्वाभ्योऽभ्युत्थितस्य श्रवणादिद्वारा समुत्पन्नसाक्षात्कारवतो मुख्यस्य संन्यासिनो मोक्षः, न अन्यस्य विषयतृष्णापरिभूतस्य, इत्येतत् दृष्टान्तेन प्रतिपादयितुमिच्छन् , 'रागद्वेषवियुक्तैस्तु' (भ. गी. २. ६४) इति श्लोकोक्तमेवार्थं पुनराहेति योजना ।

अशेषविषयत्यागे जीवनमपि कथम् ? इत्याशङ्क्याह -

जीवनेति ।

सम्भवद्रागद्वेषादिके देशे निवासव्यावृत्त्यर्थं चरतीत्येतद् व्याचष्टे-

पर्यटतीति ।

‘विहाय कामान्’ (भ. गी. २-७१) इत्यनेन पुनरुक्तिं परिहरति-

शरीरेति ।

निःस्पृहत्वमुक्त्वा निर्ममत्वं पुनर्वदन् , कथं पुनरुक्तिमार्थिकीं न पश्यसि ? इत्याशङ्क्याह -

शरीरजीवनेति ।

सत्यहङ्कारे ममकारस्य आवश्यकत्वात् निरहङ्कारत्वं व्याकरोति -

विद्यावत्त्वादीति ।

‘स शान्तिमाप्नोति’ इत्युक्तमुपसंहरति -

स एवंभूत इति ।

संन्यासिनो मोक्षमपेक्षमाणस्य सर्वकामपरित्यागादीनि श्लोकोक्तानि विशेषणानि यत्नसाध्यानि, तत्संमतिफलं तु  कैवल्यमित्यर्थः ॥ ७१ ॥

यदि गृहस्थेनापि मनसा समस्ताभिमानं हित्वा कूटस्थं ब्रह्म आत्मानं परिभावयता ब्रह्मनिर्वाणमाप्यते, प्राप्तं तर्हि मौढ्यादिविडम्बनमेव, इत्याशङ्क्याह -

यस्मादिति ।

शब्दादिविषयप्रवणस्य ततदिच्छाभेदमानिनो न मुक्तिः, इति व्यतिरेकस्य सिद्धत्वात् , पूर्वोक्तमन्वयं निगमयितुमनन्तरं वाक्यमित्यर्थः ।

गृहस्थः संन्यासी इत्युभावपि चेन्मुक्तिभोगिनौ, किं तर्हि कष्टेन सर्वथैव संन्यासेन इत्याशङ्क्य, संन्यासिव्यतिरिक्तानामन्तरायसम्भवात् अपेक्षितः संन्यासो मुमुक्षोः, इत्याह -

एषेति ।

स्थितिमेव व्याचष्टे -

सर्वमिति ।

न विमुह्यतीति पुनर्नञोऽनुकर्षणमन्वयार्थम् । संन्यासिनो विमोहाभावेऽपि गृहस्थो धनहान्यादिनिमित्तं प्रायेण विमुह्यति । विक्षिप्तः सन् परमार्थविवेकरहितो भवतीत्यर्थः । यथोक्ता ब्राह्मी स्थितिः - सर्वकर्मसंन्यासपूर्विका ब्रह्मनिष्ठा, तस्यां स्थित्वा तामिमाम् , आयुषश्चतुर्थेऽपि भागे कृत्वेत्यर्थः ।

अपिशब्दसूचितं कैमुतिकन्यायमाह -

किमु वक्तव्यमिति ।

तदेवं तत्त्वम्पदार्थौ, तदैक्यम् , वाक्यार्थः, तज्ज्ञानादेकाकिनो मुक्तिः, तदुपायश्च - इत्येतेषामेकैकत्र श्लोके प्राधान्येन प्रदर्शितमिति निष्ठाद्वयमुपायोपेयभूतमध्यायेन सिद्धम् ॥ ७२ ॥

तत्र तत्र सङ्क्षेपविस्तराभ्यां प्रदर्शितां ज्ञाननिष्ठामधिकारिप्रवृत्त्यर्थत्वेन स्तोतुमुत्तरश्लोकमवतारयति -

सैषेति ।

प्राथमिकेन सम्बन्धग्रन्थेन समस्तशास्त्रार्थसङ्ग्राहकेण तद्विवरणात्मनोऽस्य सन्दर्भस्य नास्ति पौनरुक्त्यामिति मत्वा, प्रतिपदं व्याख्यातुं प्रश्नैकदेशं समुत्थापयति -

ज्यायसी चेदिति ।

वेदाश्चेत् प्रमाणमितिवत् चेदित्यस्य निश्चयार्थत्वं व्यावर्तयति -

यदीति ।

बुद्धिशब्दस्यान्तःकरणविषयत्वं व्यवच्छिनत्ति -

ज्ञानमिति ।

पूर्वार्धस्याक्षरयोजनां कृत्वा समुच्चयाभावे तात्पर्यमाह -

यदीति ।

इष्टे,भगवतेति शेषः । एकं ज्ञानं कर्म च समुच्चितमिति यावत् । ज्ञानकर्मणोरभीष्टे समुच्चये समुच्चितस्य श्रेयःसाधनस्यैकत्वात् कर्मणः सकाशाद् ज्ञानस्य पृथक्करणमयुक्तमित्यर्थः ।

एकमपि साधनं फलतोऽतिरिक्तं किं न स्यादित्याशङ्क्याह -

नहीति ।

नच केवलात् कर्मणो ज्ञानस्य केवलस्य फलतोऽतिरिक्तत्वं विवक्षित्वा पृथक्करणं, समुच्चयपक्षे प्रत्येकं श्रेयः साधनत्वानभ्युपगमादिति भावः ।

पूर्वार्धस्येवोत्तरार्धस्यापि समुच्चयपक्षे तुल्यानुपपत्तिरित्याह -

तथेति ।

‘दूरेण ह्यवरं कर्म ‘ (भ. गी. २-३०) इत्यत्र कर्मणः सकाशाद् बुद्धिः श्रेयस्करी भगवतोक्ता । कर्म च बुद्धेः सकाशादश्रेयस्करमुक्तम् । तथाऽपि तदेव कर्म ‘कर्मण्येवाधिकारस्ते मा फलेषु’ (भ. गी. २-४७) इति स्निग्धं भक्तं च मां प्रति कुर्विति भगवान् प्रतिपादयति, तत्र कारणानुपलम्भादयुक्तम् , अतिक्रूरे कर्मणि भगवतो मन्नियोजनमिति यदर्जुनो ब्रवीति, तच्च समुच्चयपक्षेऽनुपपन्नः स्यादित्यर्थः ।

यत्तु वृत्तिकारैुरुक्तं 'श्रौतेन स्मार्तेन च कर्मणा समुच्चयो गृहस्थानां श्रेयःसाधनम् , इतरेषां स्मार्तेनैवेति भगवतोक्तमर्जुनेन च निर्धारितम्’ इति, तदेतदनुवदति –

अथेति ।

तत्रापि ’तत्किम्’इत्याद्युपालम्भवचनमनुपपन्नं, कर्ममात्रसमुच्चयवादिनो भगवतो नियोजनाभावादिति दूषयति –

तत्किमिति

॥१॥

पूर्वोत्तराध्याययोः सम्बन्धं वक्तुं पूर्वस्मिन्नध्याये वृत्तमर्थं सङ्क्षिप्यानुवदति -

शास्त्रस्येति ।

गीताशास्त्रप्रारम्भापेक्षितं हेतुफलभूतं बुद्धिद्वयं भगवतोपदिष्टमित्यर्थः ।

प्रष्टुरर्जुनस्याभिप्रायं निर्देष्टुं प्रवृत्तमर्थान्तरमनुवदति -

तत्रेति ।

अध्यायो बुद्धिद्वयनिर्धारणं वा सप्तम्यर्थः । पारमार्थिके तत्त्वे यज्ज्ञानं तन्निष्ठानामशेषकामत्यागिनां कामयुक्तानां कर्मिणामपि प्रतिपत्तिकर्मवत् त्यागं कर्तव्यत्वेन भगवानुक्तवानित्यर्थः ।

तथाऽपि मोक्षसाधने विकल्पसमुच्चययोरन्यतरस्य विवक्षितत्वबुद्ध्या समनन्तरप्रश्नप्रवृत्तिरित्याशङ्क्याह -

उक्तेति ।

अर्जुनस्य मनसि व्याकुलत्वं प्रश्नबीजं दर्शयितुमुक्तमर्थान्तरमनुभाषते -

अर्जुनाय चेति ।

साङ्ख्यबुद्धिमाश्रित्य कर्मत्यागमुक्त्वा, पुनस्तस्यैव कर्तव्यत्वं कथं मिथो विरुद्धं ब्रवीति ? इत्याशङ्क्याह -

योगेति ।

यथा साङ्ख्यबुद्धिमाश्रितानां संन्यासद्वारा तन्निष्ठानां कृतार्थतोक्ता, तथा योगबुद्धिमाश्रित्य कर्म कुर्वतोऽपि कृतार्थत्वमुक्तमित्याशङ्क्याह -

न तत एवेति ।

‘दूरेण ह्यवरं कर्म बुद्धियोगात्’ (भ. गी. २-४९) इति दर्शनादिति शेषः ।

बुद्धिव्याकुलत्वं प्रश्नबीजं प्रतिलभ्य प्रश्नं करोतीत्याह -

तदेतदिति ।

साक्षादेव श्रेयःसाधनं ज्ञानमन्येभ्यो दर्शितं - तदित्युच्यते । तद्विपरीतं कर्म स्वस्यानुष्ठेयत्वेनोक्तम् - एतदिति निर्दिश्यते । भगवदुक्तेऽर्थे सन्दिह्यमानस्य निर्णयाकाङ्क्षया प्रश्नप्रवृत्तेरस्ति पूर्वोत्तराध्याययोरुत्थाप्योत्थापकलक्षणा सङ्गतिरित्यर्थः ।

अर्जुनस्य प्रश्ननिमित्तं पर्याकुलत्वं प्रपञ्चयति -

कथमित्यादिना ।

यद्धि साक्षादेव श्रेयःसाधनं साङ्ख्यशब्दितपरमार्थतत्त्वविषयबुद्धौ निष्ठारूपं, तद् अन्यस्मै श्रेयोऽर्थिने भक्ताय श्रावयित्वा, मां पुनरभक्तम् अश्रेयोऽर्थिनमिव कर्मणि पूर्वोक्तविपरीते कथं भगवान् नियोक्तुमर्हतीत्यर्जुनस्य पर्याकुलीभावो युक्त इति सम्बन्धः ।

ज्ञाननिष्ठातो वैपरीत्यं स्फोरयितुं कर्म विशिनष्टि -

दृष्टेति ।

युद्धे हि क्षत्रकर्मणि दृष्टोऽनेकोऽनर्थो गुरुभ्रातृहिंसादिः तेन सम्बद्धे बुद्धिशुद्धिद्वाराऽपि वर्तमाने जन्मन्येव फलमित्यनियते । मम -भक्तस्य श्रेयोऽर्थिनो नियोगो भगवता युक्तो न भवतीति शेषः ।

यथोक्तं निमित्तं प्रश्नस्य युक्तं तदनुगुणत्वात् तस्येति द्योतकमाह -

तदनुरूपश्चेति ।

ज्ञाननिष्ठानां कृतार्थता, कर्मनिष्ठानां तु न तथेत्युक्तम् ।

विभागभागि शास्त्रमित्यत्र ‘लोकेऽस्मिन्’ (भ. गी. ३-३) इत्यादिवाक्यस्यापि द्योतकत्वं दर्शयति -

प्रश्नेति ॥

साक्षादेव श्रेयःसाधनमन्येभ्यो भगवतोक्तम्, न तु मह्यमिति मत्वा व्याकुलीभूतः सन् पृच्छतीति स्वाभिप्रायेण सम्बन्धमुक्त्वा वृत्तिकाराभिप्रायं दूषयति -

केचित्त्विति ।

ज्ञानकर्मणोः समुच्चयमवधारयितुं प्रश्नाङ्गीकारे समुच्चयावधारणेनैव प्रतिवचनमुचितम् । न च तथा भगवता प्रतिवचनमुक्तम् । तथा च प्रश्नस्य समुच्चयविषयत्वोपगमात् प्रत्युक्तेश्चासमुच्चयविषयत्वात् तयोर्मिथो विरोधो वृत्तिकारमते स्यादित्यर्थः ।

किञ्च, केवलं प्रश्नप्रतिवचनयोरेव परमते परस्परविरोधो न भवति, अपि तु परेषां स्वग्रन्थेऽपि पूर्वापरविरोधोऽस्तीत्याह -

यथा चेति ।

आत्मना - वृत्तिकारैरिति यावत् । सम्बन्धग्रन्थः - गीताशास्रारम्भोपोद्घातः । इहेति तृतीयाध्यायारम्भं परामृशति । तदेव विवृण्वन्नाकाङ्क्षामाह -

कथमिति ।

पूर्वापरविरोधं स्फोरयितुं सम्बन्धग्रन्थोक्तमनुवदति -

तत्रेति ।

परकीया वृत्तिः सप्तम्या समुल्लिख्यते । सम्बन्धग्रन्थे तावदयमर्थ उक्त इति सम्बन्धः ।

तमेवार्थं विशदयति -

सर्वेषामिति ।

सर्वकर्मसंन्यासपूर्वकज्ञानादेव केवलात् कैवल्यमित्यस्मिन्नर्थे शास्त्रस्य पर्यवसानान्न समुच्चयो विवक्षितस्तत्रेत्याशङ्क्याह -

पुनरिति ।

उक्तगीतार्थो वृत्तिकारैरेव कर्मत्यागायोगेन विशेषितत्वान्नाविवक्षितोऽलं भवितुमुत्सहते । तथा च श्रौतानि कर्माणि त्यक्त्वा ज्ञानादेव केवलान्मुक्तिर्भवतीत्येतन्मतं नियमेनैव यावज्जीवश्रुतिभिर्विप्रतिषिद्धत्वात् नाभ्युपगन्तुमुचितमित्यर्थः।

तथाऽपि कथं मिथो विरोधधीरित्याशङ्क्याह -

इह त्विति ।

प्रथमतो हि सम्बन्धग्रन्थे समुच्चयो गीतार्थप्रतिपाद्यत्वेन वृत्तिकृता प्रतिज्ञातः । श्रौतकर्मपरित्यागश्च श्रुतिविरोधादेव न सम्भवतीत्युक्तम् । तृतीयाध्यायारम्भे पुनः संन्यासिनां ज्ञाननिष्ठा, कर्मिणां कर्मनिष्ठेत्याश्रमविभागमभिदधता पूर्वप्रतिषिद्धकर्मत्यागाभ्युपगमान्मिथो विरोधो दर्शितः स्यादित्यर्थः ।

ननु यथा भगवता प्रतिपादितं, तथैव वृत्तिकृता व्याख्यातमिति न तस्यापराधोऽस्तीत्याशङ्क्याह -

तत्कथमिति ।

न हीह भगवान् विरुद्धमर्थमभिधत्ते, सर्वज्ञस्य परमाप्तस्य विरुद्धार्थवादित्वायोगात् । किन्तु तदभिप्रायापरिज्ञानादेव व्याख्यातुर्विरुद्धार्थवादितेत्यर्थः ।

भगवतो विरुद्धार्थवादित्वाभावेऽपि श्रोतुर्विरुद्धार्थप्रतिपत्तिं प्रतीत्य व्याचक्षाणो वृत्तिकारो नापराध्यतीत्याशङ्क्याह -

श्रोता वेति ।

अर्जुनो हि श्रोता । सोऽपि बुद्धिपूर्वकारी भगवदुक्तमेवावधारयन् न विरुद्धमर्थमवधारयितुमर्हति । तथा च परस्यैव विरुद्धार्थवादितेत्यर्थः ॥

विरोधं परिहरन् आशङ्कते -

तत्रेति ।

सम्बन्धग्रन्थे हि वृत्तिकारस्यैतदभिप्रेतम् - गृहस्थानामेव सतां परिपक्कज्ञानमन्तरेण यावज्जीवश्रुतिचोदिताग्निहोत्रादित्यागेन केवलादेवापातिकादात्मज्ञानात् मोक्षमपेक्षमाणानां यावज्जीवादिशास्रैरसौ निषिध्यते, न तु स्वरूपेणैव कर्मत्यागो ज्ञानान्मोक्षो वा निषेद्धुमिष्यते । तृतीये पुनरध्याये कर्मत्यागिनां गृहस्थेभ्यो व्यतिरिक्तानामेव केवलादात्मज्ञानान्मोक्षो विवक्ष्यते । अतो भिन्नाविषयत्वान्निषेधाभ्यनुज्ञानयोर्नविरोधाशंकेत्यर्थः।

विरोधान्तरेण विरोधं दर्शयन्नुत्तरमाह -

एतदपीति ।

विरोधमेवाकाङ्क्षाद्वारा साधयति -

कथमित्यादिना ।

श्रौतं कर्म गृहस्थानामवश्यमनुष्ठेयमित्यनेनाभिप्रायेण तेषां केवलादात्मज्ञानान्मोक्षो निषिध्यते । न तु गृहस्थानां ज्ञानमात्रायत्तं मोक्षं प्रतिषिध्य अन्येषां केवलज्ञानाधीनो मोक्षो विवक्ष्यते, आश्रमान्तराणामपि स्मार्तेन कर्मणा समुच्चयाभ्युपगमादिति चोदयति -

अथेति ।

एतत्परामृष्टं वचनमेवाभिनयति -

केवलादिति ।

ननु गृहस्थानां श्रौतकर्मराहित्येऽपि, सति स्मार्ते कर्मणि कुतो ज्ञानस्य केवलत्वं लभ्यते ?  येन निषेधोक्तिरर्थवती, तत्राह -

तत्रेति ।

प्रकृतवचनमेव सप्तम्यर्थः, प्रधानं हि श्रौतं कर्म । तद्राहित्ये सति, स्मार्तस्य कर्मणः सतोऽप्यसद्भावमभिप्रेत्य ज्ञानस्य केवलत्वमुक्तमिति युक्ता निषेधोक्तिरित्यर्थः ।

गृहस्थानामेव श्रौतकर्मसमुच्चयो नान्येषाम् , अन्येषां तु स्मार्तेनेति पक्षपाते हेत्वभावं मन्वानः सन् परिहरति -

एतदपीति ।

तमेव हेतभावं प्रश्नद्वारा विवृणोति -

कथमित्यादिना ।

गृहस्थानां श्रौतस्मार्तकर्मसमुच्चितं ज्ञानं मुक्तिहेतुरित्यभ्युपगमात् केवलस्मार्तकर्मसमुच्चितात् ततो न मुक्तिरिति निषेधो युज्यते । ऊर्ध्वरेतसां तु स्मार्तकर्ममात्रसमुच्चिताज्ज्ञानान्मुक्तिरिति विभागे नास्ति हेतुरित्यर्थः ।

पक्षपाते कारणं नास्तीत्युक्त्वा पक्षपातपरित्यागे कारणमस्तीत्याह -

किञ्चेति ।

गृहस्थानामपि ब्रह्मज्ञानं स्मार्तैरेव कर्मभिः समुच्चितं मोक्षसाधनं, ब्रह्मज्ञानत्वादूर्ध्वरेतःसु व्यवस्थितब्रह्मज्ञानवदिति पक्षपातत्यागे हेतुं स्फुटयति -

यदीत्यादिना ॥

यदि गृहस्थानां ब्रह्मज्ञानं स्मार्तैरेव कर्मभिः समुच्चितं मोक्षहेतुरिति विवक्षितं, तदा तान् प्रति यावज्जीवश्रुतिर्विरुध्येत । यदि स्मार्तैरपि कर्मभिः समुच्चितं तदीयं ज्ञानं मोक्षसाधनं विवक्ष्यते, तदा सिद्धसाध्यतेति प्रागुक्तमभिप्रेत्य चोदयति -

अथेति ।

आश्रमान्तराणां तर्हि केवलादेव ज्ञानान्मुक्तिरिति प्रागुक्तविरोधतादवस्थ्यमित्याशङ्क्याह -

ऊर्ध्वरेतसां त्विति ।

यथोक्ते विभागे, गार्हस्थ्यं क्लेशात्मककर्मबाहुल्यादनुपादेयमापद्येतेति दूषयति -

तत्रेति ।

साधनभूयस्त्वे फलभूयस्त्वमिति न्यायमाश्रित्य शङ्कते -

अथेति ।

क्लेशबाहुल्योपेतं श्रौतं स्मार्तं च बहु कर्म । तस्यानुष्ठानाद् गृहस्थस्य मोक्षः स्यादेवेत्यर्थः ।

एवकारनिरस्यं दर्शयति -

नाश्रमान्तराणामिति ।

तेषां नास्ति मुक्तिरित्यत्र यावज्जीवादिश्रुतिविहितावश्यानुष्ठेयकर्मराहित्यं हेतुं सूचयति -

श्रौतेति ।

शास्त्रविरोधिन्यायस्य निरवकाशत्वमभिप्रेत्य दूषयति -

तदपीति ।

ऐकाश्रम्यस्मृत्या गार्हस्थ्यस्यैव प्राधान्यादनधिकृतान्धादिविषयं कर्मसंन्यासविधानमित्याशङ्क्याह -

ज्ञानाङ्गत्वेनेति ।

न खल्वनधिकृतानामन्धादीनां संन्यासः श्रवणाद्यावृत्तिद्वारा ज्ञानाङ्गं भवितुमलम्, तेषां श्रवणाद्यभ्यासासामर्थ्यात् । अतः श्रुत्यादीनां विरोधे नास्ति गार्हस्थ्यस्य प्राधान्यमित्यर्थः ।

तस्य प्राधान्याभावे हेत्वन्तरमाह -

आश्रमेति ।

‘ब्रह्मचर्यं समाप्य गृही भवेद् , गृहाद्वनी भूत्वा प्रव्रजेद् , यदि वा इतरथा ब्रह्मचर्यादेव प्रव्रजेद् गृहाद् वा वनाद् वा‘ (जा. उ. ४., या. उ. १ ) इति श्रुतौ, ‘तस्याश्रमविकल्पमेके ब्रुवते’ (गौ. ध. ३-१) इति ‘यमिच्छेत् तमावसेत्’ (व. ८-२ ?) इत्यादिस्मृतौ च आश्रमाणां समुच्चयेन विकल्पेन चाश्रमान्तरमिच्छन्तं प्रति विधानान्न गार्हस्थ्यस्य प्रधानत्वमित्यर्थः ॥

यदि सर्वेषामाश्रमाणां श्रुतिस्मृतिमूलत्वं, तर्हि तत्तदाश्रमविहितकर्मणां ज्ञानेन समुच्चयः सिध्यतीति शङ्कते -

सिद्धस्तर्हीति ।

यद्यपि ज्ञानोत्पत्तावाश्रमकर्मणां साधनत्वं, तथाऽपि ज्ञानमुत्पन्नं नैव फले सहकारित्वेन तान्यपेक्षते, अन्यथा संन्यासविध्यनुपपत्तेरिति दूषयति -

न मुमुक्षोरिति ।

संन्यासविधानमेवानुक्रामति -

व्युत्थायेत्यादिना ।

एषणाभ्यो वैमुख्येनोत्थानं - तत्परित्यागः ।

आश्रमसम्पत्त्यनन्तरं तत्र विहितधर्मकलापानुष्ठानमपि कर्तव्यमित्याह -

अथेति ।

प्रागुक्तानां सत्यादीनामल्पफलत्वाद् न्यासस्य च ज्ञानद्वारा मोक्षफलत्वादित्याह -

तस्मादिति ।

अतिरिक्तम् -अतिशयवन्तं, महाफलमिति यावत् ।

प्रकृतकर्मभ्यः सकाशान्न्यास एवातिशयवान् आसीदित्युक्तेऽर्थे वाक्यान्तरं पठति -

न्यास एवेति ।

लोकत्रयहेतुं साधनत्रयं परित्यज्य संसाराद् विरक्ताः संन्यासपूर्वकादात्मज्ञानादेव प्राप्तवन्तो मोक्षमित्याह -

न कर्मणेति ।

सति वैराग्य नास्ति कर्मापेक्षा, सत्यां सामग्र्यां कार्याक्षेपानुपपत्तेरित्याह -

ब्रह्मचर्यादेवेति ।

इत्याद्याः - सर्वकर्मसंन्यासविधायिन्यः, श्रुतयः, भवन्तीति शेषः ।

‘आत्मानमेव लोकमिच्छन्तः प्रव्रजन्ति’ (बृ. उ. ४-४-२२) इत्यादिवाक्यसङ्ग्रहार्थमादिपदम् । तत्रैव स्मृतिमुदाहरति -

त्यजेति ।

धर्माधर्मयोः सत्यानृतयोश्च संसारारम्भ्कत्वाद् मुमुक्षुणा तत्त्यागे प्रयतितव्यमित्यर्थः ।

त्यक्तृत्वाभिमानस्यापि तत्त्वतः स्वरूपसम्बन्धाभावात् त्याज्यत्वमविशिष्टमित्याह -

येनेति ।

अनुभवानुसारेण प्रमातृताप्रमुखरय संसारस्य दुःखफलत्वमालक्ष्य मोक्षहेतुसम्यग्ज्ञानसिद्धये ब्रह्मचर्यादेव पारिव्रज्यमनुष्ठेयमित्युत्पत्तिविधिमुपन्यस्यति -

संसारमिति ।

तत्त्वज्ञानमुद्दिश्य ब्रह्मचर्यादेव कर्मसंन्याससामग्रीमभिदधानो विनियोगविधिं सूचयति -

परमिति ।

ज्ञानकर्मणोरसमुच्चयार्थं फलविभागं कथयति -

कर्मणेति ।

उक्तं फलविभागमनूद्य ज्ञाननिष्ठानां कर्मसंन्यासस्य कर्तव्यत्वमाह -

तस्मादिति ।

वाक्यशेषेऽपि सर्वकर्मसंन्यासो विवक्षितोऽस्तीत्याह -

इहापीति ॥

ज्ञानार्थिनो मुमुक्षोः संन्यासविध्यनुपपत्तिबाधितं समुच्चयविधिवचनमित्युक्तम् ; इदानाीं मोक्षस्वभावालोचनयाऽपि समुच्चयवचनमनुचितमित्याह -

मोक्षस्य चेति ।

`अकुर्वन् विहितं कर्म निन्दितं च समाचरन् ।

प्रसज्जंश्चेन्द्रियार्थेषु नरः पतनमृच्छति ॥ ‘ (मनु ११ - १४)

इति स्मृतेः मुमुक्षुणाऽपि प्रत्यवायनिवृत्तये कर्तव्यं नित्यकर्मेति शङ्कते -

नित्यानीति ।

यो यस्मिन् कर्मण्यधिकृतस्तस्य तदकरणात् प्रत्यवायो भवति, न तु कर्मानधिकारिणः संन्यासिनस्तदकरणात् प्रत्यवायः सम्भवतीति दूषयति -

नासंन्यासीति ।

तदेव स्पष्टयति -

न हीति ।

समिद्धोमाध्ययनाद्यकरणात् प्रत्यवायः संन्यासिनो नास्तीत्यर्थः ।

तत्र व्यतिरेकोदाहरणमाह -

यथेति ।

अकरणात् प्रत्यवायोत्पत्तिमभ्युपेत्योक्तं ; सम्प्रति प्रतिषिद्धकरणादेव प्रत्यवायो न त्वकरणात् अभावाद् भावोत्पत्तेर्लोकवेदविरुद्धत्वादित्याह -

न तावदिति ।

ननु नित्यकर्मविधायी वेदस्तदकरणात् प्रत्यवायो भवतीति ब्रवीति, तत् कथमकरणात् प्रत्यवायो न भवतीति श्रुतिमाश्रित्योच्यते, श्रुत्यन्तरविरोधादिति, तत्राह -

यदीति ।

विहितस्याकरणे सति अनर्थप्राप्तेर्न नित्यकर्मविधायी वेदोऽनर्थकरत्वेनाप्रमाणमित्याशङ्क्याह -

विहितस्येति ।

न विहितस्य करणे पितृलोकप्राप्तिलक्षणं फलं भवतेष्यते, धूमादिना नयनपीडादिदुःखं तु प्रत्यक्षमेव, अकरणे च प्रत्यवायोत्पत्तिः, उभयथाऽपि पुरुषस्यानर्थकरो वेदोऽप्रमाणमेव स्यादित्यर्थः ।

नन्वभावस्यापि भावोत्पादनसामर्थ्यं वेदः सम्पादयिष्यति, तथा च विहिताकरणप्रत्यवायपरिहारो विहितकरणे फलिष्यतीति, नेत्याह -

तथा चेति ।

लोकप्रसिद्धपदार्थशक्त्याश्रयणेन शास्त्रप्रवृत्त्यङ्गीकारात्  अपूर्वशक्त्याधानायोगाद् ज्ञापकमेव शास्त्रमित्यर्थः ।

कारकत्वे च तस्याप्रामाण्यमप्रत्यूहं स्यादित्याह -

कारकमिति ।

भवतु शास्त्रस्याप्रामाण्यमित्याशङ्क्यपौरुषेयतया शेषदोषानागान्धितत्वाद् मैवमित्याह -

न चेति ।

अनिर्वाच्यानुपलम्भस्य संवेदनमभावज्ञाने कारणं, समीहितसाधनज्ञानं तु चरणन्यासादि प्रवृत्तिक्रारणमित्यङ्गीकृत्योपसंहरति -

तस्मादिति ।

अकरणात् प्रत्यवायोत्पत्यसम्भवस्तच्छब्दार्थः ।

संन्यासिनां - ज्ञाननिष्ठानां, कर्मसंन्यासित्वादेव कर्मासम्भवे फलितमाह -

अत इति ।

समुच्चयानुपपत्तौ हेत्वन्तरमाह -

ज्यायसीति ।

प्रश्नानुपपत्तिमेव प्रपञ्चयति -

यदि हीति ।

समुच्चयोपदेशे प्रश्नैकदेशानुपपत्तेश्च न तदुपदेशोपपत्तिरित्याह -

अर्जुनायेति ।

‘कर्मण्येवाधिकारस्ते मा फलेषु कदाचन’ (भ. गी. २-४७) इत्यर्जुनं प्रत्युपदेशात् तं प्रति ज्यायसी बुद्धिर्नोक्तेति युक्तं, ‘तत् किम्’ (भ. गी. ३-१) इत्याद्युपालम्भवचनमित्याशङ्क्याह -

नचेति ।

येन कल्पनेन ‘ज्यायसी चेद्’ (भ. गी. ३-१) इत्यारभ्यं ‘तत्किं कर्मणि’ (भ. गी. ३-१) इत्युपालम्भात्मा प्रश्नः स्यात् तथा न युक्तं कल्पयितुम् ‘एषा तेऽभिहिता साङ्ख्ये बुद्धि’ (भ. गी. २-३९ ) इति वचनविरोधादिति योजना ।

कस्मिन् पक्षे तर्हि प्रश्नस्योपपत्तिरित्याशङ्क्याह -

यदीति ।

भगवदुक्तेऽर्थे प्रष्टुर्विवेकाभावात् प्रश्नः स्यादित्याशङ्क्य पूर्वोक्तमेवाधिकविवक्षया स्मारयति -

अविवेकत इति ।

भगवतोऽपि प्रतिवचनम् अज्ञाननिमित्तं प्रश्नाननुरूपत्वादित्याशङ्क्य अधिकं दर्शयति -

नचेति ।

भगवतः सर्वज्ञत्वप्रसिद्धिविरोधाद् अज्ञानाधीनप्रतिवचनायोगादित्यर्थः ।

इतश्च समुच्चयः शास्त्रार्थो न भवतीत्याह -

अस्माच्चेति ।

कस्तर्हि शास्त्रार्थो विवक्षितः ?  तत्राह -

केवलादिति ।

ज्ञानकर्मणोः समुच्चयानुपपत्तौ कारणान्तरमाह -

ज्ञानेति ।

वाक्यशेषवशादपि समुच्चयस्याशास्त्रार्थतेत्याह -

कुरु कर्मैवेति ।

इतश्च प्रश्नः समुच्चयानुसारी न भवतीत्याह –

किञ्चेति ।

भगवतो विविक्तार्थवादित्वादयुक्तं व्यामिश्रेणेत्यादिवचनमित्याशङ्क्याह –

यद्यपीति ।

यदि भगवद्वचनं सङ्कीर्णमिव ते भाति, तर्हि तेन त्वदीयबुद्धिव्यामोहनमेव तस्य विवक्षितमिति, किमिति मोहयसीवेत्युच्यते ? तत्राह –

ममेति ।

ज्ञानकर्मणि मिथो विरोधाद् युगपदेकपुरुषाननुष्ठेयतया भिन्नकर्तृके कथ्येते, तथा च तयोरन्यतरस्मिन्नेव त्वं नियुक्तः, न तु ते बुद्धिव्यामोहनमभिमतमिति, भगवतो मतमनुवदति –

त्वं त्विति ।

तदेकमित्यादिश्लोकार्धेनोत्तरमाह –

तत्रेति ।

उक्तं भागवतमतं सप्तम्या परामृश्यते । एकमित्युक्तप्रकारोक्तिः ।

एकमित्युक्तमेव स्फुटयति –

बुद्धिमिति ।

निश्चयप्रकारं प्रकटयति –

इदमिति ।

योग्यत्वं स्पष्टयति –

बुद्धीति ।

अस्य क्षत्रियस्य सतोऽन्तःकरणस्य देहशक्तेः समरसमारम्भावस्थायाश्चेदमेव ज्ञानं वा अनुगुणमिति निर्धार्य ब्रूहीत्यर्थः ।

निश्चित्यान्यतरोक्तौ तेन श्रोतुः श्रेयोऽवाप्तिं फलमाह -

येनेति ।

तदेकमित्यादिवाक्यस्याक्षरोत्थमर्थमुक्त्वा, समुच्चयस्य शास्त्रार्थत्वाभावे तात्पर्यमाह -

यदि हीति ।

गुणभूतमपीत्यादिना प्रधानभूतमपि वेति विवक्षितम् ।

ननु उभयप्राप्त्यसम्भवमात्मनो मन्यमानस्यार्जुनस्यान्यतरविषया शुश्रूषा भविष्यति ? नेत्याह -

न हीति ।

यथोक्तभगवद्वचनाभावे द्वयप्राप्त्यसम्भवबुद्ध्या नान्यतरप्रार्थना सम्भवतीत्याह -

येनेति ।

नहि तथाविधं भगवद्वचनं भवतेष्टं, भगवतः समुच्चयवादित्वाङ्गीकारात् । अतस्तदभावादुक्तबुद्ध्या न युक्ताऽन्यतरप्रार्थनेत्यर्थः ॥ २ ॥

येयं व्यवहारभूमिरुपलभ्यते, तत्र त्रैवर्णिकाः ज्ञानं कर्म वा शास्त्रीयमनुष्ठातुमधिक्रियन्ते। तेषां द्विधा स्थितिर्मया प्रोक्तेति पूर्वार्धं योजयति -

लोकेऽस्मिन्निति।

स्थितिमेव व्याकरोति -

अनुष्ठेयेति।

पूर्वं प्रवचनप्रसङ्गं प्रदर्शयन् प्रवक्तारं विशिनष्टि -

सर्गादाविति।

प्रवचनस्यायथार्थत्वशङ्कां वारयति -

सर्वज्ञेनेति।

अर्जुनस्य भगवदुपदेशयोग्यत्वं सूचयति -

अनघेति।

निर्धारणार्थे तत्रेति सप्तमी । ज्ञानं - परमार्थवस्तुविषयं तदेव योगशब्दितं, युज्यतेऽनेन ब्रह्मणेति व्युत्पत्तेस्तेन । निष्ठेत्यनुवर्तते।

उक्तज्ञानोपायमुपदिदिक्षुः साङ्ख्यशब्दार्थमाह -

आत्मेति।

तेषामेव कर्मनिष्ठत्वं व्यावर्तयति -

ब्रह्मचर्येति।

तेषां जपादिपारवश्येन श्रवणादिपराङ्मुखत्वं पराकरोति -

वेदान्तेति।

उक्तविशेषणवतां मुख्यसंन्यासित्वेन फलावस्थत्वं दर्शयति -

परमहंसेति।

कर्म - वर्णाश्रमविहितं धर्माख्यं तदेव युज्यते तेनाभ्युदयेनेति योगस्थेन निष्ठा कर्मिणां प्रोक्तेत्यनुषङ्गं दर्शयन्नाह -

कर्मैवेत्यादिना ।

एवं प्रतिवचनवाक्यस्थान्यक्षराणि व्याख्याय तस्यैव तात्पर्यार्थं कथयति -

यदि चेति।

इष्टस्यापि दुर्बोधत्वमाशङ्क्याह -

उक्तमिति।

ज्ञानस्यापि मूलविकलतया विभ्रमत्चमाशङ्क्याह -

वेदेष्विति।

तस्याशिष्यत्वबुद्ध्या अन्यथाकथनमित्याशङ्क्याह -

उपसन्नायेति।

तथापि तस्मिन् औदासीन्यादन्यथोक्तिरित्याशङ्क्याह -

प्रियायेति।

ब्रवीति च भिन्नपुरुषकर्तृकं निष्ठाद्वयं, तेन समुच्चयो भगवदभीष्टः शास्त्रार्थो न भवतीति शेषः।

नन्वर्जुनस्य प्रेक्षापूर्वकारित्वाद् ज्ञानकर्मश्रवणानन्तरमुभयनिर्देशानुउपपत्त्या समुच्चयानुष्ठानं सम्पत्स्यते, तद्व्यतिरिक्तानां तु ज्ञानकर्मणोर्भिन्नपुरुषानुष्ठेयत्वं श्रुत्वा प्रत्येकं तदनुष्ठानं भविष्यतीति भगवतो मतं कल्प्यते, तस्यार्जुनेऽनुरागातिरेकादितरेषु च तदभावादिति तत्राह -

यदि पुनरिति।

अप्रमाणभूतत्वम् - अनाप्तत्वम् ।न च भगवतो रागादिमत्त्वेनाप्तत्वं युक्तम्, ’समं सर्वेषु भूतेषु तिष्ठन्तम्’ इत्यादिविरोधादित्याह -

तच्चेति।

निष्ठाद्वयस्य भिन्नपुरुषानुष्ठेयत्वनिर्देशफलमुपसंहरति -

तस्मादिति।

॥३॥

किमिति भगवता बुद्धेर्ज्यायस्त्वं ’ज्यायसी चेद्’ इत्यत्रोक्तमुपेक्षितमिति, तत्राह -

यदर्जुनेनेति।

किं च ज्ञाननिष्ठायां संन्यासिनामेवाधिकारो भगवतोऽभिप्रेतः, अन्यथा तदीयविभागवचनविरोधादिति विभागवचनसामर्थ्यसिद्धमर्थमाह -

तस्याश्चेति

॥३॥

सम्मुच्चयविरोधितया प्रश्नं व्याख्याय तद्विरोधित्वेनैव प्रतिवचनमुत्थापयति -

प्रश्नेति।

‘यस्य वा एतत् कर्म’ (कौ. उ. ४. १७) इति श्रुताविव कर्मशब्दस्य क्रियमाणवस्तुविषयत्वमाशङ्क्य व्याचष्टे -

क्रियाणामिति ।

ताश्चनित्यनैमित्तिकत्वेन विभजते -

यज्ञादीनामिति ।

अस्मिन्नेव जन्मनि अनुष्ठितानां कर्मणां बुद्धिशुद्धिद्वारा ज्ञानकारणत्वे, ब्रह्मचारिणां कुतो ज्ञानोत्पत्तिर्जन्मान्तरकृतानां कर्मणां वा तथात्वे, गृहस्थादीनामैहिकानि कर्माणि न ज्ञानहेतवः स्युरित्याशङ्क्य अनियमं दर्शयति -

इहेति ।

नेमानि सत्त्वशुद्धिकारणानि उपात्तदुरितप्रतिबन्धादित्याशङ्क्याह -

उपात्तेति ।

तर्हि तावतैव कृतार्थानां कुतो ज्ञाननिष्ठाहेतुत्वं, तत्राह -

तत्कारणत्वेनेति ।

कर्मणां चित्तशुद्धिद्वारा ज्ञानहेतुत्वे मानमाह -

ज्ञानमिति ।

अनारम्भशब्दस्योपक्रमविपरीतविषयत्वं व्यावर्तयति-

अननुष्ठानादिति ।

निष्कर्मणः संन्यासिनः कर्मज्ञानं नैष्कर्म्यमिति व्याचष्टे -

निष्कर्मेति ।

कर्माभावावस्थां व्यवच्छिनत्ति -

ज्ञानयोगेनेति ।

तस्याः साधनपक्षपातित्वं व्यावर्तयति -

निष्क्रियेति ।

कर्मानुष्ठानोपायलब्धा ज्ञाननिष्ठा स्वतन्त्रा पुमर्थहेतुरिति प्रकृतार्थसमर्थनार्थं व्यतिरेकवचनस्यान्वये पर्यवसानं मत्वा व्याचष्टे -

कर्मणामिति ।

तद्विपर्ययमेव व्याचष्टे -

तेषामिति ।

उक्तेऽर्थे हेतुं पृच्छति -

कस्मादिति ।

जिज्ञासितं हेतुमाह -

उच्यत इति ।

उपायत्वेऽपि तदभावे कुतो नैष्कर्म्यासिद्धिरित्याशङ्क्याह -

नहीति ।

ज्ञानयोगं प्रति कर्मयोगस्योपायत्वे श्रुतिस्मृती प्रमाणयति -

कर्मयोगेति ।

श्रौतमुपायोपेयत्वप्रतिपादनं प्रकटयति -

श्रुताविति ।

यत्तु गीताशास्त्रे कर्मयोगस्य ज्ञानयोगं प्रत्युपायत्वोपपादनं, तदिदानीमुदाहरति -

इहापि चेति ।

न कर्मणामित्यादिना पूर्वार्धं व्याख्याय, उत्तरार्धं व्याख्यातुमाशङ्कयति -

नन्विति ।

आदिशब्देन ‘शान्तो दान्त उपरतस्तितिक्षुः’ (बृ. उ. ४-४-२३), ‘संन्यासयोगाद् यतयः शुद्धसत्त्वाः’ (मु. उ. ३-२-६) इत्यादि गृह्यते ।

तत्रैव लोकप्रसिद्धिमनुकूलयति -

लोके चेति ।

प्रसिद्धतरं, `यतो यतो निवर्तते ततस्ततो विमुच्यते । निवर्तनाद्धि सर्वतो न वेत्ति दुःखमण्वपि ॥ ‘ (सं. शा. ३. ३६४) इत्यादिदर्शनादिति शेषः ।

लौकिकवैदिकप्रसिद्धिभ्यां सिद्धमर्थमाह -

अतश्चेति ।

तत्रोत्तरत्वेनोत्तरार्धमवतार्य, व्याकरोति -

अत आहेत्यादिना ।

एवकारार्थमाह -

केवलादिति ।

तदेव स्पष्टयति -

कर्मेति ।

उक्तमेव नञमनुकृष्य क्रियापदेन सङ्गतिं दर्शयति -

न प्राप्नोतीति

॥ ४ ॥

तर्हि विभागवचनानुरोधादर्जुनस्यापि संन्यासपूर्विकायां ज्ञाननिष्ठायामेवाधिकारो भविष्यति, नेत्याह -

मां चेति ।

बुद्धेर्ज्यायस्त्वमुपेत्यापीति चकारार्थः । अर्जुनमालक्ष्य भगवानाहेति सम्बन्धः ।

अन्तरेणापि कर्माणि, श्रवणादिभिर्ज्ञानावाप्तिर्भविष्यतीति परबुद्धिमनुरुध्य विशिनष्टि -

कर्मेति ।

विभागवचनवशादसमुच्चयश्चेद् उभयोरपि ज्ञानकर्मणोः स्वातन्त्र्येण पुरुषार्थहेतुत्वम् , अन्यथा कर्मवद् ज्ञानमपि न स्वातन्त्र्येण पुरुषार्थं साधयेद् इत्याशङ्क्य सम्बन्धान्तरमाह -

अथवेति ।

तर्हि ज्ञाननिष्ठाऽपि कर्मनिष्ठावन्निष्ठात्वाविशेषान्न स्वातन्त्र्येण पुरुषार्थहेतुरिति । समुच्चयसिद्धिरित्याशङ्क्याह -

ज्ञाननिष्ठा त्विति ।

नहि रज्जुतत्त्वज्ञानमुत्पन्नं फलसिद्धौ सहकारिसापेक्षमालक्ष्यते । तथेदमपि च उत्पन्नं मोक्षाय नान्यदपेक्षते । तदाह -

अन्येति ।

कदाचित् - क्षणमात्रमपि, न कश्चिदकर्मकृत् तिष्ठतीत्यत्र हेतुत्वेनोत्तरार्धं व्याचष्टे -

कस्मादिति ।

सर्वशब्दाद् ज्ञानवानपि गुणैरवशः सन् कर्म कार्यते । ततश्च ज्ञानवतः संन्यासवचनमनवकाशं स्यादित्याशङ्क्याह -

अज्ञ इतीति ।

तमेव वाक्यशेषं वाक्यशेषावष्टम्भेन स्पष्टयति -

यत इति ।

आत्मज्ञानवतो गुणैरविचाल्यतया  गुणातीतत्ववचनादज्ञस्यैव सत्त्वादिगुणैरिच्छाभेदेन कार्यकरणसङ्घातं प्रवर्तयितुमशक्तस्य अजितकार्यकरणसङ्घातस्य क्रियासु प्रवर्तमानत्वमित्यर्थः ।

ज्ञानयोगेनेत्यादिना उक्तन्यायाच्च वाक्यशेषोपपत्तिरित्याह -

साङ्ख्यानामिति ।

ज्ञानिनां गुणप्रयुक्तचलनाभावेऽपि स्वाभाविकचलनबलात् कर्मयोगो भविष्यतीत्याशङ्क्याह -

ज्ञानिनां त्विति ।

प्रत्यगात्मनि स्वारसिकचलनासम्भवे प्रागुक्तं न्यायं स्मारयति -

तथा चेति

॥ ५ ॥

उक्तेऽर्थे बुभुत्सितं हेतुं वक्तुमुत्तरश्लोकमुत्थापयति -

कस्मादिति ।

कस्मान्न कर्मसंन्यासादेव सिद्धिमधिगच्छतीति पूर्वेण सम्बन्धः ।

मिथ्याचारतामेव वर्णयति -

कर्मेन्द्रियाणीति

॥ ६ ॥

आत्मज्ञवदनात्मज्ञस्यापि तर्हि कर्माकुर्वतो न प्रत्यवायः, शरीरेन्द्रियसङ्घातं नियन्तुमसमर्थस्य मूर्खस्यापि संन्याससम्भवादित्याशङ्क्याह -

यस्त्विति ।

तस्य चोदिताकरणं तच्छब्देन परामृश्यते -

तदसदिति ।

मिथ्याचारत्वादिति भावः ।

अनात्मज्ञस्य चोदितमकुर्वतो जाग्रतो विषयान्तरदर्शनध्रौव्यात् मिथ्याचारत्वेन प्रत्यवायित्वमुक्त्वा विहितमनुतिष्ठतस्तस्यैव फलाभिलाषविकलस्य सदाचारत्वेन वैशिष्ट्यमाचष्टे -

यस्त्विन्द्रियाणीति ।

विहितमनुतिष्ठतो, मूर्खात् कर्म त्यजतो वैशिष्ट्यमक्षरयोजनया स्पष्टयति -

यस्तु पुनरिति

॥ ७ ॥

उक्तमेव हेतुं भगवदनुमतिकथनेन स्फुटयति -

कर्मेति ।

इतश्च त्वया कर्तव्यं कर्मेत्याह -

शरीरेति ।

तन्नियत तस्याधिकृतस्येति सम्बन्धः ।

स्वर्गादिफले दर्शपूर्णमासादावधिकृतस्य तस्य तदपि नित्यं स्यादित्याशङ्क्य विशिनष्टि -

फलायेति ।

नित्यं - नियमेन कर्तव्यमित्यत्र हेतुमाह -

यत इति ।

हिशब्दोपात्तमुक्तमेव हेतुमनुवदति -

यस्मादिति ।

करणस्य अकरणाज्ज्यायस्त्वं प्रश्नपूर्वकं प्रकटयति -

कथमित्यादिना ।

सत्येव कर्मणि देहादिचेष्टाद्वारा शरीरं स्थातुं पारयति, तदभावे जीवनमेव दुर्लभं भवेदिति फलितमाह -

अत इति

॥ ८ ॥

कर्मानुष्ठायिनो वैशिष्ट्यमुपदिष्टमनूद्य तदनुष्ठानमधिकृतेन कर्तव्यमिति निगमयति -

यत इति ।

फलाभिसन्धिमन्तरेण यज्ञार्थं कर्म कुर्वाणस्य बन्धाभावात् तादर्थ्येन कर्म कर्तव्यमित्याह -

तदर्थमिति ।

यज्ञार्थं कर्मेत्ययुक्तं, नहि कर्मार्थमेव कर्मेत्याशङ्क्य, व्याचष्टे -

यज्ञो वै विष्णुरिति ।

कथं तर्हि ‘कर्मणा बध्यते जन्तुः’ (म. भा. १२-२४१-७) इति स्मृतिः ? तत्राह -

तस्मादिति ।

ईश्वरार्पणबुद्ध्या कृतस्य कर्मणो बन्धार्थत्वाभावे फलितमाह -

अत इति

॥ ९ ॥

‘कर्मणा बध्यते जन्तुः’ (म. भा. १२-२४१-७) इति स्मृतेर्बन्धार्थं कर्म, तत्र श्रेयोऽर्थिना कर्तव्यमित्याशङ्कामनूद्य दूषयति -

यच्चेत्यादिना ।

कर्माधिकृतस्य तदकरणमयुक्तमिति प्रतिज्ञातं प्रश्नपूर्वकं विवृणोति -

कथमित्यादिना ।

कथं पुनरनेन यज्ञेन वृद्धिरस्माभिः शक्या कर्तुमित्याशङ्क्याह -

एष इति

॥ १० ॥

नित्यस्य कर्मणो नैमित्तिकसहितस्य अधिकृतेन कर्तव्यत्वे हेत्वन्तरपरत्वेनानन्तरश्लोकमवतारयति -

इतश्चेति ।

तत्र श्लोकेनोत्तरमाह -

देवानिति ।

मुमुक्षुत्वबुभुक्षुत्वविभागेन श्रेयसि विकल्पः ॥ ११ ॥

कथं पुनरभीष्टफलविशेषहेतुत्वं यज्ञस्य विज्ञायते ? नहि देवताप्रसादादृते स्वर्गादिरभ्युदयो लभ्यते, नापि सम्यग्दर्शनमन्तरेण निश्श्रेयसं सेद्धुं पारयतीति शङ्कते -

कथमिति ।

कथमस्माभिर्भाविताः सन्तो देवा भावयिष्यन्ति अस्मानिति, तदाह -

इष्टानिति ।

यज्ञानुष्ठानेन पूर्वोक्तरीत्या स्वर्गापवर्गयोर्भावेऽपि, कथं स्त्रीपशुपुत्रादिसिद्धिरित्याशङ्क्य, पूर्वार्धं व्याकरोति -

इष्टान् अभिप्रेतानिति ।

पश्वादिभिश्च यज्ञानुष्ठानद्वारा भोगो निर्वर्तनीयः, अन्यथा प्रत्यवायप्रसङ्गादित्युत्तरार्धं व्याचष्टे -

तैरिति ।

आनृण्यमकृत्वा इत्यस्य अयमर्थः - देवानामृषीणां पितृणां च यज्ञेन ब्रह्मचर्येण प्रजया च सन्तोषमनापाद्य, स्वकीयं कार्यकरणसङ्घातमेव पोष्टुं भुञ्जानस्तस्करो भवतीति ॥ १२ ॥

इतश्चाधिकृतेन कर्म कर्तव्यमित्याह -

किञ्चेति ।

तैर्दत्तानित्यादिनोक्तं निगमयति -

भुञ्जत इति ।

देवयज्ञादीन् इति आदिशब्देन पितृयज्ञो मनुष्ययज्ञो भूतयज्ञो ब्रह्मयज्ञश्चेति चत्वारो यज्ञाः गृह्यन्ते । चुल्लीशब्देन पिठरधारणाद्यर्थक्रियां कुर्वन्तो विन्यासविशेषवन्तस्त्रयो ग्रावाणो विवक्ष्यन्ते । आदिशब्देन कण्डनी पेषणी मार्जनी उदकुम्भश्चेत्येते हिंसाहेतवो गृहीताः । तान्येतानि पञ्च, प्राणिनां सूनास्थानानि - हिंसाकारणानि, तत्प्रयुक्तैः सर्वैरपि बुद्ध्यबुद्धिपूर्वकदुरितैर्मुच्यन्त इति सम्बन्धः ।

प्रमादः -

विचारव्यतिरेकेणाबुद्धिपूर्वकमुपनतं पादपातादिकर्म, तेन प्राणिनां हिंसा सम्भाव्यते । आदिशब्देनाशुचिसंस्पर्शादिगृहीतं, तदुत्थैश्च पापैर्महायज्ञकारिणो मुच्यन्ते । उक्तं हि

`कण्डनं पेषणं चु्ल्ली उदकुम्भश्च मार्जनी ।

पञ्च सूना गृहस्थस्य पञ्चयज्ञात् प्रणश्यति ॥ ‘ (मनुः - ३ -६८) इति ।

`पञ्च सूना गृहस्थस्य चुल्ली पेषण्यवस्करः ।

कण्डनी चैव (चोद) कुम्मश्च वध्यन्ते यांस्तु वाहयन्'

इति च । अस्यायमर्थः - या यथोक्ताः पञ्चसङ्ख्याका गृहस्थस्य सूनास्ता यो वाहयन् - आपादयन् वर्तते, तेन प्राणिनो बुद्धिपूर्वकमबुद्धिपूर्वकं च वध्यन्ते ।

तत्प्रयुक्तं सर्वमपि पापं महायज्ञानुष्ठानात् प्रणश्यतीति महायज्ञानुष्ठानस्तुत्यर्थम् तदनुष्ठानविमुखान् निन्दति -

ये त्विति ।

आत्मम्भरित्वमेव स्फोरयति -

ये पचन्तीति ।

स्वदेहेन्द्रियपोषणार्थमेव पाकं कुर्वतां देवयज्ञादिपराङ्मुखानां पापभूयस्त्वं दर्शयति -

भुञ्जत इति ।

पाठक्रमस्त्वर्थक्रमादपबाधनीयः ॥ १३ ॥

देवादिभ्यः संविभागमकृत्वा भुञ्जानानां प्रत्यवायित्वमुक्त्वा, तदन्येषां सर्वदोषराहित्यं दर्शयति -

ये पुनरिति ।

यज्ञशिष्टाशिनो ये पुनस्ते तादृशाः सन्तः सर्वकिल्बिषैर्मुच्यन्त इति योजना ।

उक्तेऽर्थे स्मृत्यन्तरं संवादयति -

अग्नाविति ।

तत्र हि देवताभिध्यानपूर्वकं तदुद्देशेन प्रहिताहुतिरपूर्वतां गता रश्मिद्वारेणादित्यमारुह्य, वृष्ट्यात्मना पृथिवीं प्राप्य, व्रिहियवाद्यन्नभावमापद्य, संस्कृतोपभुक्ता शुक्रशोणितरूपेण परिणता प्रजाभावं प्राप्नोतीत्यर्थः ।

‘यज्ञः कर्मसमुद्भवः’ (भ. गी. ३-१४) इत्ययुक्तं, स्वस्यैव स्वोद्भवे कारणत्वायोगादित्याशङ्क्याह -

ऋत्विगिति ।

द्रव्यदेवतयोः सङ्ग्राहकश्चकारः ॥ १४ ॥

देवयज्ञादिकं कर्माधिकृतेन कर्तव्यमित्यत्र हेत्वन्तरमितःशब्दोपात्तमेव दर्शयति -

जगदिति ।

ननु भुक्तमन्नं रेतोलोहितपरिणतिक्रमेण प्रजारूपेण जायते, तच्चान्नं वृष्टिसम्भवं प्रत्यक्षदृष्टं, तत् कथं कर्मणो जगच्चक्रप्रवर्तकत्वमिति शङ्कते -

कथमिति ।

पारम्पर्येण कर्मणस्तद्धेतुत्वं साधयति -

उच्यत इति ।

किमिति कर्मणो ब्रह्मोद्भवत्वमुच्यते ? सर्वस्य तदुद्भवत्वाविशेषादित्याशङ्क्याह -

ब्रह्म वेद इति ।

ब्रह्म तर्हि वेदाख्यमनादिनिधनमिति, तत्राह -

ब्रह्म पुनरिति ।

अक्षरात्मनो वेदस्य पुनरक्षरेभ्यः सकाशादेव समुद्भवो न सम्भवतीत्याशङ्क्याह -

अक्षरमिति ।

ब्रह्मेत्यक्षरमेवोक्तं, तत् कथं तस्मादेवोद्भवतीत्याशङ्क्य, ब्रह्मशब्दार्थमुक्तमेव स्मारयति -

ब्रह्म वेद इति ।

ननु ब्रह्मशब्दितस्य वेदस्यापि पौरुषेयत्वात् प्रामाण्यसन्देहात् कथं तदुक्तमग्निहोत्रादिकं कर्म निर्धारयितुं शक्यते ? तत्राह -

यस्मादिति ।

कथं तर्हि तस्य यज्ञे प्रतिष्ठितत्वं ? सर्वगतत्वे विशेषायोगादित्याशङ्क्याह -

सर्वगतमपीति

॥ १५ ॥

यत् अपूर्वहेतुत्वेन कर्मोक्तं, तत् किं चैत्यवन्दनादि ? किं वाऽग्निहोत्रादीति सन्दिहानं प्रत्याह -

कर्मेति ।

अधिकृतेन अध्ययनादिद्वारा जगच्चक्रमनुवर्तनीयम् , अन्यथेश्वराज्ञातिलङ्घिनस्तस्य प्रत्यवायः स्यादित्याह -

एवमिति ।

‘न कर्मणामनारम्भात्’ (भ. गी. ३-४) इत्यादिनोक्तमुपसंहरति -

तस्मादिति ।

जगच्चक्रस्य प्रागुक्तप्रकारेणानुवर्तने वृथा जीवनमघसाधनं यस्मात् तस्माज्जीवता नियतं कर्म कर्तव्यमित्यर्थः ।

यद्यधिकृतेन कर्तव्यमेव कर्म, तर्हि किमिति अज्ञेनेति विशिष्यते ? ज्ञाननिष्टेनापि तत् कर्तव्यमेवाधिकृतत्वाविशेषादित्याश्ङ्क्य, पूर्वोक्तमनुवदति -

प्रागिति ।

नहि ज्ञानकर्मणोर्विरोधाज्ज्ञाननिष्ठेन कर्म कर्तुं शक्यते । तथा चानात्मज्ञेनैव चित्तशुद्ध्यादिपरम्परया ज्ञानार्थं कर्मानु्ष्ठेयमिति प्रतिपादितमित्यर्थः ।

तर्हि ‘यज्ञार्थात्’ (भ. गी. ३-९) इत्यादि किमर्थं, नहि तत्र ज्ञाननिष्ठा प्रतिपाद्यते, कर्मनिष्ठा तु पूर्वमेवोक्तत्वान्नात्र वक्तव्येत्याशङ्क्य, वृत्तमर्थान्तरमनुवदति -

प्रतिपाद्येति ।

प्रासङ्गिकम् - अज्ञस्य कर्मकर्तव्यतोक्तिप्रसङ्गादागतमिति यावत् । बहुकारणम् - ईश्वरप्रसादो देवताप्रीतिश्चेत्यादि । दोषसङ्कीर्तनं - ‘तैर्दत्तान् अप्रदाय’ (भ. गी. ३-१२) इत्यादि ॥ १६ ॥

आत्मनिष्ठस्य विषयसङ्गराहित्यं दृष्टं, तदनात्मज्ञेन जिज्ञासुना कर्तव्यमिति मत्वाऽऽह -

यस्तु साङ्ख्य इति ।

किञ्च, आत्मज्ञस्य ज्ञानेनात्मनैव परितृप्तत्वात् नान्नपानादिना साध्या तृ्प्तिरिष्टा । तेन विद्यार्थिना संन्यासिनाऽपि नान्नरसादौ आसक्तिर्युक्ता कर्तुमित्याह -

आत्मतृप्त इति ।

किञ्चात्मविदः सर्वतो वैतृष्ण्यं दृष्टं, तदनात्मविदा विद्यार्थिना कर्तव्यमित्याह -

आत्मन्येवेति ।

रतितृप्तिसन्तोषाणां मोदप्रमोदानन्दवत् अवान्तरभेदः । अथवा रतिर्विषयासक्तिः, तृप्तिर्विषयविशेषसम्पर्कजं सुखं, सन्तोषोऽभीष्टविषयमात्रलाभाधीनं सुखसामान्यमिति भेदः ।

ननु आत्मरतेरात्मतृप्तस्यात्मन्येव सन्तुष्टस्यापि किञ्चित् कर्तव्यं मुक्तये भविष्यतीति, नेत्याह -

य ईदृश इति

॥ १७ ॥

वृत्तमर्थमेवं विभज्यानूद्य अनन्तरश्लोकमाशङ्कोत्तरत्वेनावतारयति -

एवमिति ।

अर्जुनस्य प्रश्नमित्येवमर्थमाशङ्क्याह भगवानिति सम्बन्धः ।

नन्वेषा आशङ्का नावकाशमासादयति, अनात्मज्ञेन कर्तव्यं कर्मेति बहुशो विशेषितत्वादित्याशङ्क्याह -

स्वयमेवेति ।

किमर्थं श्रुत्यर्थं स्वयमेव भगवानत्र प्रतिपादयतीत्याशङ्क्याह -

शास्त्रार्थस्येति ।

गीताशास्त्रस्य ससंन्यासं ज्ञानमेव मुक्तिसाधनमर्थः, नार्थान्तरमिति विवेकार्थमिह श्रुत्यर्थं कीर्तयतीत्यर्थः ।

तमेव श्रुत्यर्थं सङ्क्षिपति -

एतमिति ।

सिद्धं चेदात्मवेदनम् , अनर्थकं तर्हि व्युत्थानादि, इत्याशङ्क्यापातिकविज्ञानफलमाह -

निवृत्तेति ।

ब्राह्मणग्रहणं तेषामेव व्युत्थाने मुख्यमधिकारित्वमिति ज्ञापनार्थम् ।

क्लेशात्मकत्वात् एषणानां ताभ्यो व्युत्थानं सर्वेषां स्वाभाविकत्वात् अविधित्सितमित्याशङ्क्याह -

मिथ्येति ।

‘भिक्षाचर्यं चरन्ति’ (बृ. उ. ३-५-१) इति वचनं व्युत्थानविरुद्धमित्याशङ्क्याह -

शरीरेति ।

तर्हि तद्वदेव तेषामग्निहोत्रादि अपि कर्तव्यमापद्येत, इत्याशङ्क्य, व्युत्थायिनामाश्रमधर्मवदग्निहोत्रादेरनुष्ठापकाभावाद् मैवमित्याह -

न तेषामिति ।

यथोक्तं श्रुत्यर्थमस्मिन् गीताशास्त्रे पौर्वापर्येण पर्यालोच्यमाने प्रतिपादयितुमिष्टं प्रकटीकुर्वन् कर्तव्यमेव कर्म जीवतेति नियमे ‘ज्ञानयोगेन साङ्ख्यानाम्’ (भ. गी. ३-३) इति कथमुक्तमिति परिचोद्यपरिहारमुदर्शयतीत्याह -

इत्येवमिति ।

अभ्युदयनिःश्रेयसयोरन्यतरत् प्रयोजनं कृतेन -सुकृतेनात्मविदो भविष्यतीत्याशङ्क्याह -

नैवेति ।

प्रत्यवायनिवृत्तये स्वरूपप्रच्युतिप्रत्याख्यानाय वा कर्म स्यादित्याशङ्क्याह -

नेत्यादिना ।

ब्रह्मादिषु स्थावरान्तेषु भूतेषु कञ्चिद् भूतविशेषमाश्रित्य कश्चिदर्थो विदुषः साध्यो भविष्यति, तदर्थं तेन कर्तव्यं कर्मेत्याशङ्क्याह -

नचेति ।

तत्राद्यं पादमादत्ते -

नैवेति ।

तं व्याचष्टे -

तस्येति ।

आत्मविदः स्वर्गाद्यभ्युदयानर्थित्वात् निःश्रेयसस्य च प्राप्तत्वान्न कृतं - कर्मार्थवदित्यर्थः ।

आत्मविदा चेत् कर्म न क्रियते, तर्हि तेनाकृतेन तस्यानर्थो भविष्यतीति तत्प्रत्याख्यानार्थं तस्य कर्तव्यं कर्मेति शङ्कते -

तर्हीति ।

द्वितीयपादेनोत्तरमाह -

नेत्यादिना ।

अतो न तन्निवृत्त्यर्थं कृतमर्थवदिति शेषः ।

द्वितीयं भागं विभजते -

नचास्येति ।

व्यपाश्रयणम् - आलम्बनं, नेति सम्बन्धः ।

पदार्थमुक्त्वा वाक्यार्थमाह -

कञ्चिदिति ।

भूतविशेषस्याश्रितस्यापि क्रियाद्वारा प्रयोजनप्रसवहेतुत्वमिति मत्वाऽऽह -

येनेति ।

तर्हि मयाऽऽपि यथोक्तं तत्त्वमाश्रित्य त्याज्यमेव कर्मेत्यर्जुनस्य मतमाशङ्क्याह -

न त्वमिति

॥ १८ ॥

इतश्चात्मविदो न किञ्चित् कर्तव्यमित्याह -

किञ्चेति ।

मोक्षमेवापेक्षमाणस्य कथं कर्मणि फलन्तरवति नियोगः स्यादित्यशङ्क्याह -

असक्तो हीति

॥ १९ ॥

सम्यग्ज्ञाननिष्ठत्वाभावे कर्मानुष्ठानमावश्यकमित्याह -

यत इति ।

तस्मात्-ज्ञाननिष्ठाराहित्यादिति यावत् ।

इतोऽपि त्वया विहितं कर्म कर्तव्यमित्याह -

लोकेति

॥ २० ॥

यद्यपि जितन्द्रियोऽपि विवेकी श्रवणादिभिरजस्रं ब्रह्मणि निष्ठातुं शक्नोति, तथाऽपि क्षत्रियेण त्वया विहितं कर्म न त्याज्यमित्याह -

यस्माच्चेति ।

तस्मात् त्वमपि कर्म कर्तुमर्हसीति सम्बन्धः ।

श्रेष्ठानुसारित्वमितरेषामाचारे दर्शयित्वा, प्रतिपत्तावपि  दर्शयति -

किञ्चेति

॥ २१ ॥

ज्ञानवता कृतार्थेन लोकसङ्ग्रहार्थमपि न प्रवर्तितव्यमित्याशङ्कामुत्थाप्य, परिहरति -

लोकेत्यादिना ।

श्रुताध्ययनसम्पन्नत्वेनाभिमतो यद्यद् - विहितं प्रतिषिद्धं वा कर्मानुतिष्ठति, तत्तदेव प्राकृतो जनोऽनुवर्तते । तेन विद्यावताऽपि लोकमर्यादास्थापनार्थं विहितं कर्म कर्तव्यमित्यर्थः ।

अप्राप्तस्य प्राप्तये तवापि कर्तृत्वसम्भवाद् न किञ्चिदपि विद्यते कर्तव्यमिति कथमुक्तमित्याशङ्क्याह -

नानवाप्तमिति ।

प्रतीकमुपादाय व्याख्यानद्वारा विद्यावतोऽपि कर्मप्रवृत्तिं सम्भावयति -

नेत्यादिना ।

अन्वयार्थं पुनर्नञोऽनुवादः ।

भगवतो नास्ति कर्तव्यमित्येतदाकाङ्क्षाद्वारा स्फोरयति -

कस्मादित्यादिना ।

प्रयोजनाभावे त्वयाऽपि नानुष्ठेयं कर्मेत्याशङ्क्य लोकसङ्ग्रहार्थं ममापि कर्मानुष्ठानमिति मत्वाऽऽह -

तथापीति ।

॥ २२ ॥

कृतार्थस्यापि लोकसङ्ग्रहार्थं विहितं कर्म कर्तव्यमित्युक्त्वा, तत्रैव भगवन्तमुदाहरणत्वेनोपन्यस्यति -

 यदीत्यादिना ।

लोकसङ्ग्रहोऽपि न ते कर्तव्यो विफलत्वादित्याशङ्क्याह -

यदि हीति

॥ २३ ॥

श्रेष्ठस्य तव मार्गानुवर्तित्वं मनुष्याणामुचितमेवेत्याशङ्क्य, दूषयति -

तथाचेत्यादिना ।

ईश्वरस्य कर्मण्यप्रवृत्तौ तदनुवर्तिनामपि कर्मानुपपत्तेरिति हेतुमाह -

लोकस्थितीति ।

इतश्चेश्वरेण कर्म कर्तव्यमित्याह -

किञ्चेति ।

यदि कर्म न कुर्यामिति शेषः ।

सङ्करकरणस्य कार्यं कथयति -

तेनेति ।

प्रजोपहतिः परिप्राप्यते चेत् , किं तया तव स्यादिति, तत्राह -

प्रजानामिति

॥ २४ ॥

दृष्टान्तदार्ष्टान्तिकरूपं श्लोकं व्याकरोति -

सक्ता इत्यादिना ।

असक्तः सन् कर्तृत्वाभिमानं फलभिसन्धिं वा कुर्वन्निति यावत् ॥ २५ ॥

त्वामनाचरन्तमनुवर्ततां सर्वेषां को दोषः स्यात् ? इत्यपेक्षायामीश्वरस्य कृतार्थतया कर्मानुष्ठानाभावे तदनुवर्तिनामपि तदभावादेव स्थितिहेत्वभावात् , पृथिव्यादिभूतानां विनाशप्रसङ्गाद् वर्णाश्रमधर्मव्यवस्थानुपपत्तेश्चाधिकृतानां प्राणभृतां पापोपहतत्वप्रसङ्गात् परानुग्रहार्थं प्रवृ्त्तिरीश्वरस्येत्युक्तम् । सम्प्रति लोकसङ्ग्रहाय कर्म कुर्वाणस्य कर्तृत्वाभिमानेन ज्ञानाभिभवे प्राप्ते, प्रत्याह -

यदि पुनरिति ।

कृतार्थबुद्धित्वे हेतुमाह -

आत्मविदिति ।

यथावदात्मानमवगच्छन् कर्तृत्वाद्यभिमानाभावात् कृतार्थो भवत्येवेत्यर्थः ।

अर्जुनादन्यत्रापि ज्ञानवति कृतार्थबुद्धित्वं कर्तव्यत्वाद्यभिमानहीने तुल्यमित्याह -

अन्यो वेति ।

तस्य तर्हि कर्मानुष्ठानमफलत्वात् अनवकाशमित्याशङ्क्याह -

तस्यापीति ।

>कर्तव्य इति आत्मविदाऽपि परानुग्रहाय कर्तव्यमेव कर्मेति, आहेति शेषः ।

पूर्वार्धमेवं व्याख्यायोत्तरार्धं प्रश्नपूर्वकमवतार्य व्याचष्टे -

किं नु कुर्यादिति ।

सर्वकर्माणि कारयेत् , तेषु प्रीतिं कुर्वन्निति शेषः ।

कथं कारयेदित्याकाङ्क्षायामाह -

तदेवेति

॥ २६ ॥

वृत्तमनूद्योत्तरश्लोकमवतारयति -

एवमिति ।

कर्तव्यं,कर्मेति शेषः ।

कर्तृत्वमात्मनः अवास्तवम् इत्यभ्युपगमाद् विद्वान् कथं कुर्वन्नेव तस्याभावं पश्यतीत्याशङ्क्याह -

प्रकृतेरिति ।

कर्मसु अविदुषः सक्तिप्रकारं प्रकटयन् व्याकरोति -

प्रकृतेरित्यादिना ।

प्रधान शब्देन मायाशक्तिरुच्यते । अविद्ययेत्युभयतः सम्बध्यते ॥ २७ ॥

‘अज्ञानां कर्मसङ्गिनाम्’ (भ. गी. ३-२६) इत्युक्तं ; तेनोत्तरश्लोकस्य सङ्गतिमाह -

अविद्वानिति ।

तुशब्देनाज्ञाद् विशिष्टे निर्दिष्ठप्रश्नपूर्वकं द्वितीयपादमवतार्य व्याचष्टे -

कस्येत्यादिना ।

गुणानामेव गुणेषु वर्तमानत्वमयुक्तं, निर्गुणत्वात् तेषामित्याशङ्क्य विभजते -

गुणा इति ।

कार्यकरणानामेव विषयेषु प्रवृत्तिः, आत्मनस्तु कूटस्थत्वात् मैवमिति ज्ञात्वा, तत्त्ववित् कर्मसु दृढतरं कर्तव्याभिमानं न करोतीत्यर्थः ॥ २८ ॥

अज्ञस्य कर्मसु सक्तिमुक्त्वा विदुषस्तदभावमभिदधाति -

यः पुनरिति ।

तत्त्वं याथार्थ्यं वेत्तीति व्युत्पत्त्या तत्त्वविदिति ।

गुणानां - तेषामेव देहादीनां कर्मसु -व्यापारेषु, सज्जन्ते - सक्तिं दृढतरामात्मीयबुद्धिं कुर्वन्तीत्याह -

प्रकृतेरित्यादिना ।

तेषामनात्मविदां स्वयमात्मविद् बुद्धिभेदं नापादयेदित्याह -

तानित्यादिना

॥ २९ ॥

विद्वान् अविद्वानित्युभावपि प्रकृत्य, विद्वानविदुषो बुद्धिभेदं न कुर्यादित्युपसंहरति -

ये पुनरिति ।

प्रकृतेरुक्तगुणैर्देहादिभिर्विकारैः संमूढाः - तानेव आत्मत्वेन मन्यमाना ये ते ।

यथोक्ते परस्मिन्नात्मनि सर्वकर्मणां समर्पणे कारणमाह -

अध्यात्मेति ।

विवेकबुद्धिमेव व्याकरोति -

अहमिति ।

दर्शितरीत्या कर्मसु प्रवृत्तस्य कर्तव्यान्तरमाह -

किञ्चेति ।

त्यक्ताशीः फलप्रार्थनाहीनः सन्नित्यर्थः । निर्ममोभूत्वा , पुत्रभ्रात्रादिष्विति शेषः ।

ननु युद्धे नियोगो नोपपद्यते, पुत्रभ्रात्रादिहिंसात्मनस्तस्य सन्तापहेतोर्नियोगविषयत्वायोगादिति, तत्राह -

विगतेति

॥ ३० ॥

यद्यपि कर्मण्यज्ञोऽधिक्रियते, तथाऽपि मोक्षमाणेन तेन कर्म त्यक्तव्यं, मोक्षस्य कर्मासाध्यत्वात् , न तु तेन कर्म कर्तुं शक्या, कर्मणः स्वापेक्षितविरोधित्वादिति शङ्कते -

कथमिति ।

श्लोकेनोत्तरमाह -

उच्यत इति ।

प्रकृतं भगवतो मतमुक्तप्रकारमनुसृत्यैवानुतिष्ठतां क्रममुक्तिफलं कथयति -

यदेतदिति ।

शास्त्राचार्योपदिष्टेऽदृष्ठार्थे विश्वासवत्त्वं - श्रद्दधानत्वम् । गुणेषु दोषाविष्करणम् - असूया । अपिर्यथोक्ताया मुक्तेरमुख्यत्वद्योतनार्थः ॥ ३१ ॥

भगवन्मताननुवर्तिनां प्रत्यवायित्वं प्रत्याययति -

ये त्विति ।

तद्विपरीतत्वं भगवन्मतानुवर्तिभ्यो वैपरीत्यम् । तदेव दर्शयति -

एतदित्यादिना ।

अभ्यसूयन्तः - तत्रासन्तमपि दोषमुद्भावयन्त इत्यर्थः । सर्वज्ञानानि - सगुणनिर्गुणविषयाणि । प्रमाणप्रमेयप्रयोजनविभागतो विविधत्वम् ॥ ३२ ॥

उत्तरत्वेन श्लोकमवतारयति -

सदृशमिति । तत्राहेति ।

सर्वस्य प्राणिवर्गस्य प्रकृतिवशवर्तित्वे कैमुतिकन्यायं सूचयति -

ज्ञानवानपीति ।

सर्वाण्यपि भूतानि अनिच्छन्त्यपि प्रकृतिसदृशीं चेष्टां गच्छन्तीति निगमयति -

प्रकृतिमिति ।

भूतानां प्रकृत्यधीनत्वेऽपि, प्रकृतिर्भगवता निग्राह्येत्याशङ्क्याह -

निग्रह इति ।

का पुनरियं प्रकृतिः ? यदनुसारिणी भूतानां चेष्टेति पृच्छति -

प्रकृतिर्नामेति ।

भगवदभिप्रेतां प्रकृतिं प्रकटयति -

पूर्वेति ।

आदिशब्देन ज्ञानेच्छादि सङ्गृह्यते ।

यथोक्तः संस्कारः स्वसत्तया प्रवर्तकश्वेत् , प्रलयेऽपि प्रवृत्तिः स्यादित्याशङ्क्य, विशिनष्टि -

 वर्तमानेति ।

सर्वो जन्तुरित्ययुक्तं, विवेकिप्रवृत्तेरतथात्वादित्याशङ्क्य, ‘पश्वादिभिश्चाविशेषात्’ इति न्यायमनुसरन्नाह -

ज्ञानवानिति ।

ज्ञानवतामज्ञानवतां च प्रकृत्यधीनत्वाविशेषे फलितमाह -

तस्मादिति ।

प्रकृतिं यान्ति- प्रकृतिसदृशीं चेष्टां गच्छन्ति, अनिच्छन्त्यपि सर्वाणि भूतानीत्यर्थः ।

प्रकृतेर्भगवता तत्तुल्येन वा केनचिन्निग्रहमाशङ्क्य अवतारितचतुर्थपादस्यार्थापेक्षितं पूरयति -

मम वेति

॥ ३३ ॥

भगवन्मतानुवर्तनमन्तरेण परधर्मानुष्ठाने स्वधर्माननुष्ठाने च कारणं पृच्छति -

कस्मादिति ।

भगवत्प्रतिकूलत्वमेव तत्र कारणमित्याशङ्क्याह -

त्वत्प्रतिकूला इति ।

राजानुशासनातिक्रमे दोषदर्शनाद् भगवदनुशासनातिक्रमेऽपि दोषसम्भवात् प्रतिकूलत्वं भयकारणमित्यर्थः ।

वीप्सायाः सर्वकरणागोचरत्वं दर्शयति -

सर्वेति ।

प्रत्यर्थं रागद्वेषयोरव्यवस्थायाः प्राप्तौ प्रत्यादिशति -

इष्ट इति ।

प्रतिविषयं विभागेन तयोरन्यतरस्यावश्यकत्वेऽपि पुरुषकारविषयाभावप्रयुक्त्या प्रागुक्तं दूषणं कथं समाधेयमित्याशङ्क्याह -

तत्रेति ।

तयोरित्याद्यवतारितं भागं विभजते -

शास्त्रार्थ इति ।

प्रकृतिवशत्वात् जन्तोर्नैव नियोज्यत्वमित्याशङ्क्याह -

या हीति ।

रागद्वेषद्वारा प्रकृतिवशवर्तित्वे स्वधर्मत्यागादि दुर्वारमित्युक्तम् , इदानीं विवेकविज्ञानेन रागादिनिवारणे शास्त्रीयदृष्ट्या प्रकृतिपारवश्यं परिहर्तुं शक्यमित्याह -

यदेति ।

मिथ्याज्ञाननिबन्धनौ हि रागद्वेषौ । तत्प्रतिपक्षत्वं विवेकविज्ञानस्य मिथ्याज्ञानविरोधित्वादवधेयम् ।

रागद्वेषयोर्मूलनिवृत्त्या निवृत्तौ प्रतिबन्धध्वंसे कार्यसिद्धिमभिसन्धायोक्तं -

तदेति ।

एवकारस्यान्ययोगव्यवच्छेदकत्वं दर्शयति -

नेति ।

पूर्वोक्तं नियोगमुपसंहरति -

तस्मादिति ।

तत्र हेतुमाह -

यत इति ।

हिशब्दोपात्ताो हेतुर्यत इति प्रकटितः । स च पूर्वेण तच्छब्देन सम्बन्धनीयः ।

पुरुषपरिपन्थित्वमेव तयोः सोदाहरणं स्फोरयति -

श्रेयोमार्गस्येति

॥ ३४ ॥

सर्वस्य भूतवर्गस्य प्रकृतिवशवर्तित्वे लौकिकवैदिकपुरुषकारविषयाभावात् विधिनिषेधानर्थक्यमितिशङ्कते -

यदीति ।

ननु यस्य न प्रकृतिरस्ति, तस्य पुरुषकारसम्भवादर्थवत्त्वं तद्विषये विधिनिषेधयोर्भविष्यति, नेत्याह -

नचेति ।

शङ्कितदोषं श्लोकेन परिहरति -

इदमित्यादिना ।

क्षत्रधर्माद् युद्धाद् दुरनुष्ठानात् परिव्राड्धर्मस्य भिक्षाशनादिलक्षणस्य स्वनुष्ठेयतयाऽपि कर्तव्यत्वं प्राप्तमित्याशङ्क्य, व्याचष्टे -

श्रेयानिति ।

उक्तेऽर्थे प्रश्नपूर्वकं हेतुमाह -

कस्मादित्यादिना ।

स्वधर्ममवधूय परधर्ममनुतिष्ठतः स्वधर्मातिक्रमकृतदोषस्य दुष्परिहरत्वान्न तत्त्यागः साधीयानित्यर्थः ॥ ३५ ॥

रागद्वेषयोः श्रेयोमार्गप्रतिपक्षत्वं प्रकटयितुं परमतोपन्यासद्वारा समनन्तरश्लोकमवतारयति -

तत्रेत्यादिना ।

व्यवहारभूमिः सप्तम्यर्थः ।

शास्त्रार्थस्यान्यथाप्रतिपत्तिमेव प्रत्याययति -

परधर्मोऽपीति ।

स्वधर्मवदित्यप्यर्थः ।

अनुमानं दूषयन्नुत्तरत्वेन श्लोकमुत्थापयति -

तदसदिति ।

वाक्यारम्भार्थत्वमथशब्दस्य गृहीत्वा, प्रश्नवाक्यं व्याकरोति -

अथेत्यादिना ।

अनिच्छतोऽपि बलादेव दुश्चरितप्रेरितत्वे दृष्टान्तमाचष्टे -

राज्ञेवेति ।

विनियोज्यत्वस्येच्छासापेक्षत्वात् तदभावे तदसिद्धिमाशङ्क्य, प्रागुक्तं स्मारयति -

राज्ञेवेत्युक्त इति

॥ ३६ ॥

प्रागेवानर्थमूलस्योक्तत्वात् पुनस्तज्जिज्ञासया प्रश्नानुपपत्तिः - इत्याशङ्क्याह -

यद्यपीति ।

विक्षिप्तं- विविधेषु प्रदेशेषु क्षिप्तं, दर्शितमिति यावत् । अनवधारितम्, अनेकत्रोक्तात्वादनेकधा अविवेककामादिभिर्विकल्पितत्वादित्यर्थः ।

नन्वनर्थमूलं परिहर्तव्यं, तत्किमिति ज्ञातुमिष्यते ? तत्राह -

ज्ञाते हीति । कुर्यामिति ।

तज्ज्ञानमर्थवदिति शेषः ।

भगवच्छब्दार्थं निर्धारयितुं पौराणिकं वचनमुदाहरति -

ऐश्वर्यस्येति ।

समग्रस्येत्येतत् प्रत्येकं विशेषणैः सम्बध्यते । अथ शब्दस्तथाशब्दपर्यायः समुच्चयार्थः । मोक्षशब्देन तदुपायो ज्ञानं विवक्ष्यते ।

उदाहृतवचसस्तात्पर्यमाह -

ऐश्वर्यादीति ।

स वाच्यो भगवानिति सम्बन्धः ।

तत्रैव पौराणिकं वाक्यान्तरं पठति -

उत्पत्तिमिति ।

भृतानामिति प्रत्येकमुत्पत्त्यादिभिः सम्बध्यते । कारणार्थौ च उत्पत्तिप्रलयशब्दौ । क्रियामात्रस्य पुरुषान्तरगोचरत्वसम्भवात् । आगतिर्गतिश्चेत्यागामिन्यौ सम्पदापदौ सूच्येते ।

वाक्यान्तरस्यापि तात्पर्यमाह -

उत्पत्त्यादीति ।

वेत्तीत्युक्तः साक्षात्कारो विज्ञानमित्युच्यते । समग्रैश्वर्यादिसम्पत्तिसमुच्चयार्थश्चकारः ।

उक्तलक्षणो भगवान् किमुक्तवानिति, तदाह -

काम इति ।

कामस्य सर्वलोकशत्रुत्वं विशदयति -

यन्निमित्तेति ।

तथाऽपि कथं तस्यैव कोधत्वं, तदाह -

स एष इति ।

कामक्रोधयोरेव हेयत्वद्योतनार्थं कारणं कथयति -

रजोगुणेति ।

कारणद्वारा कामादेरेव हेयत्वमुक्त्वा, कार्यद्वाराऽपि तस्य हेयत्वं सूचयति -

रजोगुणस्येति ।

कामस्य पुरुषप्रवर्तकत्वमेव, न रजोगुणजनकत्वम् , इत्याशङ्क्याह -

कामो हीति ।

तत्रैवानुभवानुसारिणीं लोकप्रसिद्धि प्रमाणयति -

तृष्णया हीति ।

तस्य योग्यायोग्यविभागमन्तरेण बहुविषयत्वं दर्शयति -

महाशन इति ।

बहुविषयत्वप्रयुक्तं कर्म निर्दिशति -

अत इति ।

सर्वविषयत्वेऽस्य पापत्वमित्याशङ्क्याह -

कामेनेति ।

कामस्योक्तविशेषणवत्त्वे फलितमाह -

अत इति

॥ ३७ ॥

सम्प्रति प्रतिवचनं प्रस्तौति -

श्रृण्विति ।

तस्य वैरित्वं स्फोरयति -

सर्वेति ।

अप्रस्तुतं किमिति प्रस्तूयते ? तत्राह -

यं त्वमिति ।

सहजस्य धूमस्य प्रकाशात्मकवह्निं प्रति आवरकत्वसिद्ध्यर्थं विशिनष्टि -

अप्रकाशात्मकेनेति

॥ ३८ ॥

उत्तरश्लोकमवतास्यति -

कथमिति ।

अनेकदृष्टान्तोपादानं प्रतिपत्तिसौकर्यार्थम् ।

प्रतीकमादाय व्याकरोति -

आवृतमित्यादिना ।

ज्ञानिनां प्रति वैरित्वेऽपि, नित्यवैरित्वं कामस्य कथमित्याशङ्क्याह -

ज्ञानी हीति ।

अनर्थप्राप्तिमन्तरेण कामस्य प्रसङ्गावस्था पूर्वमेवेत्युच्यते । अतः शब्देन कामप्रसक्तिरेव परामृश्यते । नित्यमेवेत्युत्पत्त्यवस्था च कामस्य कथ्यते ।

ननु सर्वस्यापि कामात्मता ऩ प्रशस्तेति कामो नित्यवैरी भवति, ततः कुतो ज्ञानिविशेषणमित्याशङ्क्याह -

न त्विति ।

अज्ञस्य नासौ नित्यवैरीत्येतदुपपादयति -

स हीति ।

कार्यप्राप्तिप्रागवस्था पूर्वमित्युक्ता ।

अज्ञम्प्रति वैरित्वे सत्यपि कामस्य नित्यवैरित्वाभावे फलितमाह -

अत इति ।

स्वरूपतो नित्यवैरित्वाविशेषेऽपि ज्ञानाज्ञानाभ्यामवान्तरभेदसिद्धिरित्यर्थः ।

आकाङ्क्षाद्वारा प्रकृतं वैरिणमेव स्फोरयति -

किंरूपेणेत्यादिना

॥ ३९ ॥

सामान्यतो निर्दिष्टं विशेषतो निर्देष्टुमाकाङ्क्षापूर्वकमनन्तरश्लोकमवतारयति -

किं पुनरिति ।

कामस्य ज्ञानं प्रति आवरणसिद्ध्यर्थं ज्ञानिनो नित्यवैरिणेत्यादिविशेषणम् ।

कामस्य नित्यवैरित्वेन परिजिहीर्षितस्य किमित्यधिष्ठानं ज्ञाप्यते, तत्राह -

इन्द्रियादिभिरिति

॥ ४० ॥

कामस्य निराश्रयस्य कार्यकारकत्वाभावं मत्वा प्रश्नपूर्वकमाश्रयं दर्शयति -

किमधिष्ठान इति ।

पापमूलतया कामस्य तच्छब्दवाच्यत्वमुन्नेयम् । कामस्य परित्याज्यत्वे वैरित्वं हेतुं साधयति -

ज्ञानेति ।

ज्ञानविज्ञानशब्दयोरर्थभेदमावेदयति -

ज्ञानमित्यादिना

॥ ४१ ॥

तेषां कामाश्रयत्वे सिद्धे, साश्रयस्य तस्य परिहर्तव्यत्वमाह -

यत इति ।

तस्मात् - इन्द्रियादीनामाश्रयत्वादिति यावत् । पूर्वं - कामनिरोधात् प्रागवस्थायामित्यर्थः । तेषु नियमितेषु मनोबुद्ध्योर्नियमः सिध्यति, तत्प्रवृत्तेरितरप्रवृत्तिव्यतिरेकेणाफलत्वादिति भावः ।

किमपेक्षया तेषां परत्वं ? तत्राह -

देहमिति ।

तथाऽपि केन प्रकारेण परत्वं ? तदाह -

सौक्ष्म्येति ।

आदिशब्देन कारणत्वादि गृह्यते ।

इन्द्रियापेक्षया सूक्ष्मत्वादिना मनसः स्वरूपोक्तिपूर्वकं परत्वं कथयति -

तथेति ।

मनसि दर्शितं न्यायं बुद्धावतिदिशति -

तथा मनसस्त्विति ।

‘यो बुद्धेः’ (भ. गी. ३-४२) इत्यादि व्याचष्टे -

तथेत्यादिना ।

आत्मनो यथोक्तविशेषणस्याप्रकृतत्वमाशङ्क्याह  -

यं देहिनमिति

॥ ४२ ॥

पूर्वोक्तमनूद्य कामत्यागस्य दुष्करत्वं मन्वानो ‘रसोऽप्यस्य’ (भ. गी. २-५९) इत्यत्रोक्तमेव स्पष्टीकर्तुं प्रश्नपूर्वकं श्लोकान्तरमवतारयति -

इन्द्रियाणीत्यादिना ।

पञ्चेति । ज्ञानेन्द्रियवत् । कर्मेन्द्रियाण्यपि वागादीनि गृह्यन्ते ।

इन्द्रियादिसमाधानपूर्वकमात्मज्ञानात् कामजयो भवतीत्युपसंहरति -

एवमित्यादिना ।

संस्कृतं मनो मनः समाधाने हेतुरिति सूचयति -

संस्तभ्येति ।

प्रकृतं शत्रुमेव विशिनष्टि -

कामरूपमिति ।

तस्य दुरासदत्वे हेतुमाह -

दूर्विज्ञेयेति ।

अनेकविशेषोऽतादृशो महाशनत्वादिः, तदनेनोपायभूता कर्मनिष्ठा प्राधान्येनोक्ता, उपेया तु ज्ञाननिष्ठा गुणत्वेनेति विवेक्तव्यम् ॥ ४३ ॥

तत्सत् इति श्रीमत्परमहंसपरिव्राजकाचार्य - श्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञानकृते श्रीमद्भगवद्गीताशाङ्करभाष्यव्याख्याने तृतीयोऽध्यायः ॥ ३ ॥

गुरुशिष्यपरम्परोपन्यासमेवानुक्रामति -

इममिति ।

इममित्यस्य सन्निहितं विषयं दर्शयति -

अध्यायेति ।

योगं - ज्ञाननिष्ठालक्षणं, कर्मयोगोपायलभ्यमित्यर्थः ।

स्वयम्‌ अकृतार्थानां प्रयोजनव्यग्राणां परार्थप्रवृत्त्यसम्भवाद्‌ भगवतस्तथाविधप्रवृत्तिदर्शनात् कृतार्थता कल्पनीयेत्याह -

विवस्वत इति ।

अव्ययवेदमूलत्वादव्ययत्वं योगस्य गमयितव्यम् ।

किमिति भगवता कृतार्थेनापि योगप्रवचनं कृतमिति, तदाह -

जगदिति ।

कथं यथोक्तेन योगेन क्षत्रियाणां बलाधानं ? तदाह -

तेनेति ।

युक्ताः, क्षत्रिया इति शेषः ।

ब्रह्मशब्देन ब्राह्मणत्वजातिरुच्यते । यद्यपि योगप्रवचनेन क्षत्रं रक्षितं, तेन च ब्राह्मणत्वं, तथाऽपि कथं रक्षणीयं जगदशेषं रक्षितम् ? इत्याशङ्क्याह -

ब्रह्मेति ।

ताभ्यां हि कर्मफलभूतं जगद् अनुष्ठानद्वारा रक्षितुं शक्यमित्यर्थः ।

योगस्याव्ययत्वे हेत्वन्तरमाह -

अव्ययफलत्वादिति ।

ननु कर्मफलवत् उक्तयोगफलस्यापि साध्यत्वेन क्षयिष्णुत्वमनुमीयते, नेत्याह -

नहीति ।

अपुनरावृत्तिश्रुतिप्रतिहतमनुमानं न प्रमाणीभवतीति भावः ।

भगवता विवस्वते प्रोक्तो योगस्तत्रैव पर्यवस्यति, इत्याशङ्क्याह -

स चेति ।

स्वपुत्रायेत्युभयत्र सम्बध्यते । आदिराजायेति इक्ष्वाकोः सूर्यवंशप्रवर्तकत्वेन वैशिष्ट्यमुच्यते ॥ १ ॥

पूर्वाभ्यामध्यायाभ्यां निष्ठाद्वयात्मनो योगस्य गीतत्वाद् वेदार्थस्य च समाप्तत्वाद् वक्तव्यशेषाभावाद् उक्तयोगस्य कृत्रिमत्वशङ्कानिवृत्तये वंशकथनपूर्विकां स्तुतिं भगवान् उक्तवानित्याह -

श्रीभगवानिति ।

तदेतद्भगवद्वचनं वृत्तानुवादद्वारेण प्रस्तौति -

योऽयमिति ।

उक्तमेव योगं विभज्यानुवदति-

ज्ञानेति ।

संन्यासेन इतिकर्तव्यतया सहितस्य ज्ञानात्मनो योगस्य  कर्माख्यो योगो हेतुः, अतश्चोपायोपेयभूतं निष्ठाद्वयं प्रतिष्ठापितमित्यर्थः ।

उक्ते योगद्वये प्रमाणमुपन्यस्यति -

यस्मिन्निति ।

अथवा, ज्ञानयोगस्य कर्मयोगोपायत्वमेव स्फृटयति -

यस्मिन्निति ।

प्रवृत्त्या लक्ष्यते -ज्ञायते कर्मयोगः, निवृत्त्या च लक्ष्यते ज्ञानयोग इति विभागः ।

यद्यपि पूर्वस्मिन् अध्यायद्वये यथोक्तनिष्ठाद्वयं व्याख्यातं, तथाऽपि वक्ष्यमाणाध्यायेषु वक्तव्यान्तरमस्तीत्याशङ्क्याह -

गीतासु चेति ।

कथं तर्हि समनन्तराध्यायस्य प्रवृत्तिः ? अत आह -

अत इति ।

वंशकथनं -सम्प्रदायोपन्यासः । सम्प्रदायोपदेशश्च कृत्रिमत्वशङ्कानिवृत्त्या योगस्तुतौ पर्यवस्यति ।

यथोक्ते योगे परम्परागते विशिष्टजनसम्मतिमुदाहरति -

एवमिति ।

तस्य कथं सम्प्रति वक्तव्यत्वं, तदाह -

स कालेनेति ।

पूर्वार्धं व्याकरोति -

एवमित्यादिना ।

ऐश्वर्यसम्पत्ती राजत्वं येषां, तेषामेव सृक्ष्मार्थनिरीक्षणक्षमत्वमृषित्वम् । इहेति भगवतोऽर्जुनेन सह संव्यवहारकालो गृह्यते ।

परन्तपेति सम्बोधनं विभजते -

आत्मन इति

॥ २ ॥

पूर्वो योगो विच्छिन्नसम्प्रदायः, अधुना तु अन्यो योगो मदर्थमुच्यते भगवता, इत्याशङ्क्याह -

स एवेति ।

कस्मादन्यस्मै यस्मैकस्मैचित् पुरातनो योगो नोक्तो भगवतेत्याशङ्क्याह -

भक्तोऽसीति ।

उक्तमधिकारिणं प्रति योगस्य वक्तव्यत्वे हेतुमाह -

रहस्यं हीति ।

अनादिवेदमूलत्वाद् योगस्य पुरातनत्वम् । भक्तिः - शरणबुद्ध्या प्रीतिः, तया युक्तः । निजरूपमवेक्ष्य भक्तो विवक्षितः । समानवयाः स्निग्धः सहायः सखेत्युच्यते ।

एतदिति कथं योगो विशेष्यते, तत्राह -

ज्ञानमिति

॥ ३ ॥

किमिति वर्तमाने काले प्रकृतो योगः सम्प्रदायरहितोऽभूदित्याशङ्क्य, अधिकार्यभावादित्याह -

दुर्बलानिति ।

तदेव दौर्बल्यं प्रकृतोपयोगित्वेन व्याकरोति -

अजितेन्द्रियानिति ।

यद्यपि कामक्रोधादिप्रधानान् पुरुषान् प्रतिलभ्य कामक्रोधादिभिरभिभूयमानो योगः नष्टः - विच्छिन्नसम्प्रदायः सञ्जातः, तथाऽपि योगादृते पुरुषार्थो लोकस्य लभ्यते चेत् - किमनेन योगोपदेशेनेत्याशङ्क्य, यथोक्तयोगाभाबे परमपुरुषार्थाप्राप्तेर्मैवमित्यह -

लोकं चेति ।

एतच्छब्दार्थमेव स्फुटयति -

यस्त्वमिति

॥ ४ ॥

भगवति लोकस्यानीश्वरत्वशङ्कां निवर्तयितुं चोद्यमुद्भावयति -

भगवतेति ।

परिहारार्थंभगवतो मनुष्यवदवस्थितस्यानीश्वरत्वमुपेत्य तद्वचने शङ्कितविप्रतिषेधस्येति शेषः । भगवतो निजरूपमुपेत्य नेदं चोद्यं, किन्तु लीलाविग्रहं ग्रहीत्वेति वक्तुं चोद्यमिवेत्युक्तम् ।

अतीतानेकजन्मवत्त्वं ममैव नासाधारणं, किन्तु सर्वप्राणिसाधारणमित्याह -

तव चेति ।

तानि प्रमाणाभावान्न प्रतिभान्तीत्याशङ्क्याह -

तानीति ।

ईश्वरस्यानावृतज्ञानत्वादित्यर्थः ।

किमिति तर्हि तानि मम न प्रतीयन्ते ? तवावृतज्ञानत्वादित्याह -

न त्वमिति ।

परान् परिकल्प्य तत्परिभवार्थं प्रवृत्तत्वात् तव ज्ञानावरणं विज्ञेयमित्याह -

परन्तपेति ।

अर्जुनस्य भगवता सहातीतानेकजन्मवत्त्वे तुल्येऽपि, ज्ञानवैषम्ये हेतुमाह -

धर्मेति ।

आदिशब्देन रागलोभादयो गृह्यन्ते ।

ईश्वरस्यातीतानागतवर्तमानसर्वार्थविषयज्ञानवत्त्वे हेतुमाह -

अहमिति

॥ ५ ॥

भगवत्यज्ञानान्मनुष्यत्वशङ्कां वारयितुं प्रतिवचनमवतारयति -

या वासुदेव इति ।

अन्यथाप्रश्ने कथमाशङ्कान्तरं परिहर्तुं भगवद्वचनमित्याशङ्क्य, प्रश्नप्रतिवचनयोरेकार्थत्वमाह -

यदर्थो हीति ।

यस्य शङ्कितस्य विरोधस्य परिहारार्थो यस्य प्रश्नः, तमेव परिहारं वक्तुं भगवद्वचनमित्यर्थः ।

पारमार्थिकजन्मायोगे कारणं पूर्वार्धेनानूद्य, प्रातिभासिकजन्मसम्भवे कारणमाह -

प्रकृतिमिति ।

प्रकृतिशब्दस्य स्वरूपविषयत्वं प्रत्यादेष्टुम् आत्ममायया इत्युक्तम् ।

वस्तुतो जन्माभावे कारणानुवादभागं विवृणोति -

अजोऽपीत्यादिना ।

प्रातिभासिकजन्मसम्भवे कारणकथनपरमुत्तरार्धं विभजते -

प्रकृतिमित्यादिना ।

प्रकृतिशब्दस्य स्वरूपशब्दपर्यायत्वं वारयति -

मायामिति ।

तस्याः स्वातन्त्र्यं निराकृत्य भगवदधीनत्वमाह -

ममेति ।

तस्याश्चाधिकरणद्वारेणावच्छिन्नत्वं सूचयति -

वैष्णवीमिति ।

मायाशब्दस्यापि प्रज्ञानामसु पाठाद् विज्ञानशक्तिविषयत्वमाशङ्क्याह -

त्रिगुणात्मिकामिति ।

तस्याः कार्यलिङ्गकमनुमानं सूचयति -

यस्या इति ।

जगतो मायावशवर्तित्वमेव स्फुटयति -

ययेति ।

यथा लोके कश्चिज्जातो देहवानालक्ष्यते, एवमहमपि मायामाश्रित्यत्या स्ववशया सम्भवामि - जन्मव्यवहारमनुभवामि, तेन मायामयमीश्वरस्य जन्मेत्याह -

तां प्रकृतिमित्यादिना ।

सम्भवामीत्युक्तमेव विभजते -

देहवानिति ।

अस्मदादेरिव तवापि परमार्थत्वाभिमानो जन्मादिविषये स्यादित्याशङ्क्य, प्रागुक्तस्वरूपपरिज्ञानवत्त्वादीश्वरस्य मैवमित्याह –

न परमार्थत इति ।

आवृतज्ञानवतो लोकस्य जन्मादिविषये परमार्थत्वाभिमानः सम्भवतीत्याह -

लोकवदिति

॥ ६ ॥

ईश्वरस्य कारणाभावात्‌ जन्मैवायुक्तम् , अतीतानेकजन्मवत्त्वं तु दूरोत्सारितमिति शङ्कते -

कथमिति ।

वस्तुतो जन्माभावेऽपि मायावशाज्जन्म सम्भवतीत्युत्तरमाह -

उच्यत इति ।

चातुरर्वर्ण्ये चातुराश्रम्ये च यथावदनुष्ठीयमाने नास्ति धर्महानिरिति मन्वानो विशिनष्टि -

वर्णेति ।

वर्णैराश्रमैस्तदाचारैश्च लक्ष्यते - ज्ञायते धर्मः, तस्येति यावत् ।

धर्महानौ समस्तपुरुषार्थभङ्गो भवतीत्यभिप्रेत्याह -

प्राणिनामिति ।

नच यथोक्तस्य धर्मस्य हानिं सोढुं शक्तो भवानित्याह -

भारतेति ।

न केवलं प्राणिनां धर्महानिरेव भगवतो मायाविग्रहस्य परिग्रहे हेतुः, अपि तु तेषामधर्मप्रवृत्तिरपि, इत्याह -

अभ्युत्थानमिति ।

यदा यदेति पूर्वेण सम्बन्धः

॥ ७ ॥

यदीश्वरस्य मायानिबन्धनं जन्मेत्युक्तं, तस्य प्रश्नपूर्वकं कालं कथयति -

तच्चेत्यादिना ।

यथा साधूनां रक्षणम् , असाधूनां निग्रहश्च भगवदवतारफलं, तथा फलान्तरमपि तस्यास्तीत्याह -

किञ्चेति ।

धर्मे हि स्थापिते जगदेव स्थापितं भवति, अन्यथा भिन्नमर्यादं जगदसन्गतमापद्येतेत्यर्थः

॥ ८ ॥

यथोक्ते काले कृतकृत्यस्य भगवतो मायाकृते जन्मनि प्रश्नपूर्वकं प्रयोजनमाह -

किमर्थमित्यादिना ।

मायामयमीश्वरस्य जन्म, न वास्तवं, तस्यैव च जगत्परिपालनं कर्म, नान्यस्य, इति जानतः श्रेयोऽवाप्तिन्दर्शयन् , विपक्षे प्रत्यवायं सूचयति -

तज्जन्मेत्यादिना ।

यथोक्तं - मायामयं, कल्पितमिति यावत् । वेदनस्य यथावत्वं, वेद्यस्य जन्मादेरुक्तरूपानतिवर्तित्वम् । यदि पुनर्भगवतो वास्तवं जन्म, साधुजनपरिपालनादि चान्यस्यैव कर्म क्षत्रियस्येति विवक्ष्यते, तदा तत्त्वापरिज्ञानाप्रयुक्तो जन्मादिः संसारो दुर्वारः स्यादिति भावः

॥ ९ ॥

मन्मयत्वस्य मद्भावगमनेनापौनरुत्तयं दर्शयति -

ब्रह्मविद इति ।

आत्मनो भिन्नत्वेन, भिन्नाभिन्नत्वेन वा ब्रह्मणो वेदनं व्यावर्तयति -

ईश्वरेति ।

अभेददर्शनेन समुच्चित्य कर्मानुष्ठानं प्रत्याचष्टे -

मामेवेति ।

तदुपाश्रयत्वमेव विशदयति -

केवलेति ।

मामुपाश्रिता इति केवलज्ञाननिष्ठत्वमुक्त्वा, ‘ज्ञानतपसा पूताः’ (भ. गी. ४-१०) इति किमर्थं पुनरुच्यते ? तत्राह -

इतरेति

॥ १० ॥

सम्प्रति प्रस्तुतमोक्षमार्गस्य नूतनत्वेनाव्यवस्थितत्वमाशङ्क्य, परिहरति -

नैष इति ।

मुमुक्षूणामीश्वरानुसारित्वेऽपि फलान्तरार्थिनां कुतस्तदनुसारित्वम् ? इत्याशङ्क्य ‘फलमत उपपत्ते’ (ब्र. सू. ३-२-३८) इति न्यायेन तत्फलस्येश्वरायत्तत्वात् तदनुवर्तित्वमावश्यकम् , इत्याह -

ममेति ।

भगवद्भजनभागिनां सर्वेषामेव कैवल्यमेकरूपं किमिति नानुगृह्यते ? तत्राह -

तेषामिति ।

अभ्युदयनिःश्रेयसार्थित्वं प्रार्थनावैचित्र्यादेकस्यैव किं न स्याद् ? इत्याशङ्क्य, पर्यायेण तदनुपपत्तिं साधयति -

नहीति ।

 मुमुक्षूणां फलार्थिनां च विभागे स्थिते सति  अनुग्रहविभागं फलितमाह -

अत इति ।

फलप्रदानेनानुगृह्णामीति सम्बन्धः ।

नित्यनैमित्तिककर्मानुष्ठायिनामेव फलार्थित्वाभावे सति, मुमुक्षुत्वे कथं तेष्वनुग्रहः स्यात् ? इति तत्राह -

ये यथोक्तेति ।

ज्ञानप्रदानेन भजामीत्युत्तरत्र सम्बन्धः ।

सन्ति केचित् त्यक्तसर्वकर्माणो ज्ञानिनो मोक्षमेवापेक्षमाणाः, तेष्वनुग्रहप्रकारं प्रकटयति -

ये ज्ञानिन इति ।

केचिदार्ताः सन्तो ज्ञानादिसाधनान्तररहिता भगवन्तमेवार्तिमपहर्तुमनुवर्तन्ते, तेषु भगवतोऽनुग्रहविशेषं दर्शयति-

तथेति ।

पूर्वार्धव्याख्यानमुपसंहरति -

इत्येवमिति ।

भगवतोऽनुग्रहे निमित्तान्तरं निवारयति -

न पुनरिति ।

फलार्थित्वे मुमुक्षुत्वे च जन्तूनां भगवदनुसरणमावश्यकम् इत्युत्तरार्धं विभजते -

सर्वथाऽपीति ।

सर्वावस्थत्वं - तेन तेनात्मना परस्यैवेश्वरस्यावस्थानम् ।

मार्गः - ज्ञानकर्मलक्षणः । मनुष्यग्रहणाद् इतरेषामीश्वरमार्गानुवर्तित्वपर्युदासः स्याद् , इत्याशङ्क्याह -

यत्फलेति ।

सर्वप्रकारैर्मम मार्गमनुवर्तन्त इति पूर्वेण सम्बन्धः

॥ ११ ॥

ईश्वरः सर्वेभ्यो भूतेभ्यो मोक्षं प्रयच्छति चेत् , प्रागुक्तविशेषणवैयर्थ्यं ; यदि तु केभ्यश्चिदेव मोक्षं प्रयच्छेत् , तर्हि, तस्य रागादिमत्त्वादनीश्वरत्वापत्तिः, इति शङ्कते -

तव तर्हीति ।

ये मुमुक्षवः, तेभ्यो मोक्षमीश्वरो ज्ञानसम्पादनद्वारा प्रयच्छति, फलान्तरार्थिभ्यस्तु तत्तदुपायानुष्ठानेन तत्तदेव ददातीति, नास्य रागद्वेषौ इति परिहरति -

उच्यत इति ।

कर्मफलसिद्धिमिच्छता किमिति मानुषे लोके देवतापूजनमिष्यते ? तत्राह -

क्षिप्रं हीति ।

कर्मफलसम्पत्त्यर्थिनां यष्टृयष्टव्यविभागदर्शिनां तद्दर्शने कारणमात्माज्ञानम् , इत्यत्र बृहदारण्यकश्रुतिमुदाहरति -

अथेति ।

अविद्याप्रकरणोपक्रमार्थमथेत्युक्तम् ।

उपासनं भेददर्शनमित्यनूद्य, कारणमात्माज्ञानं तत्र, इति दर्शयति -

नेति ।

यथा अस्मदादीनां हलवहनादिना पशुरुपकरोति, एवमज्ञो देवादीनां यागादिभिरुपकरोति, इत्याह -

यथेति ।

किमिति ते फलाकाङूक्षिणो भिन्नदेवतायादिनो ज्ञानमार्गं नापेक्षन्ते ? तत्रोत्तरार्धमुत्तरत्वेन योजयति -

तेषामित्यादिना ।

यस्माद् यथोक्तानामधिकारिणां कर्मप्रयुक्तं फलं लोकविशिषे झटिति सिध्यति, तस्मात्  तेषांं मोक्षमार्गादस्ति वैमुख्यमित्यर्थः ।

मानुषलोकविशेषणं किमर्थम् ? इत्याशङ्क्याह -

मनुष्यलोके हीति ।

लोकान्तरेषु तर्हि कर्मफलसिद्धिर्नास्ति, इत्याशङ्क्य, क्षिप्रविशेषणस्य तात्पर्यमाह -

क्षिप्रमिति ।

क्वचित् कर्मफलसिद्धिरविलम्बेन भवति, अन्यत्र तु विलम्बेन इति विभागे को हेतुः ? इत्याशङ्क्य, सामग्राीभावाभावाभ्याम् , इत्याह -

मानुष इति ।

मनुष्यलोके कर्मफलसिद्धेः शैघ्र्यात् तदभिमुखानां ज्ञानमार्गवैमुख्यं प्रायिकमित्युपसंहरति -

तेषामिति

॥ १२ ॥

अनुग्राह्याणां ज्ञानकर्मानुरोधेन भगवता तेष्वनुग्रहविधानात् तस्य रागद्वेषौ यदि न भवतः, तर्हि तस्य रागाद्यभावादेव सर्वेषु प्राणिष्वनुग्रहेच्छा तुल्या प्राप्ता, नच तस्यां सत्यामेव फलस्याल्पीयसः सम्पादने सामर्थ्यं, नतु भगवतो महतो मोक्षाख्यस्य फलस्य प्रदानेऽशक्तिरिति युक्तम् , अप्रतिहतज्ञानेच्छाक्रियाशक्तिमतस्तव सर्वफलप्रदान सामर्थ्यात् । तथाच यथोक्तानुजिघृक्षायां सत्यां, त्वयि च यथोक्तसामर्थ्यवति सति, सर्वे फल्गुफलाद् अभ्युदयाद्विमुखा मोक्षमेवापेक्षमाणा ज्ञानेन त्वामेव किमिति न प्रतिपद्येरन् ? इति चोदयति -

यदीति ।

मोक्षापेक्षाभावात् तदुपायभूतज्ञानादपि वैमुख्याद् भगवत्प्राप्त्यभावे हेतुमभिदधानः समाधत्ते -

श्रृण्विति ।

तर्हि, तव कर्तृत्वभोक्तृत्वसम्भवात् अस्मदादितुल्यत्वेनानीश्वरत्वम् , इत्याशङ्क्याह -

तस्येति ।

ईश्वरस्य विषमसृष्टिं विदधानस्य सृष्टिवैषम्यनिर्वाहकं कथयति -

गुणेति ।

गुणविभागेन कर्मविभागः । तेन चातुर्वर्ण्यस्य सृष्टिमेवोपदिष्टां स्पष्टयति -

तत्रेत्यादिना ।

प्रश्नद्वयप्रतिविधानं प्रकृतमुपसम्हरति -

तच्चेदमिति ।

मनुष्यलोके परं वर्णाश्रमादिपूर्वके कर्मण्यधिकारः, तत्रैव वर्णादेरीश्वरेण सृष्टत्वात् , न लोकान्तरेषु, तत्र वर्णाद्यभावात् , ईश्वरमेव चातुर्वर्ण्याश्रमादिविभागिनोऽधिकारिणोऽनुवर्तन्ते, तेनैव वर्णादेस्तद्व्यापारस्य च सृष्टत्वात् तदनुवर्तनस्य युक्तत्वादित्यर्थः ।

तस्येत्यादि द्वितीयभागापोह्यं चोद्यमनुद्रवति -

हन्तेति ।

यदि चातुर्वर्ण्यादिकर्तृत्वादीश्वरस्य प्रागुक्तो नियमोऽभिमतः, तर्हि, तद्विषयसृष्ट्यादेः तन्निष्ठव्यापारस्य च धर्मादेर्निवर्तकत्वात् तत्फलस्य कर्तृगामित्वात् कर्तृत्वभोक्तृत्वयोस्त्वयि प्रसङ्गात् नित्यमुक्तत्वादि ते न स्यादित्यर्थः ।

मायया कर्तृत्वं, परमार्थतश्चाकर्तृत्वम् , इत्यभ्युपगमात् नित्यमुक्तत्वादि सिध्यति, इत्युत्तरमाह -

उच्यत इति ।

मायावृत्त्यादिसंव्यवहारेण चातुर्वणर्यादेस्तत्कर्मणश्च यद्यपि कर्ताऽहं, तथाऽपि तथाविधं मां परमार्थतोऽकर्तारं विद्धीति योजना ।

अकर्तृत्वादेवाभोक्तृत्वसिद्धिः, इत्याह -

अत एवेति

॥ १३ ॥

मनुष्यलोके ‘चातुर्वर्ण्यं, चातुराश्रम्यम् ‘ इत्यनेन द्वारेण कर्माधिकारनियमे कारणं पृच्छति -

मानुष एवेति ।

आदिशब्देनावस्थाविशेषा विवक्ष्यन्ते ।

प्रकारान्तरेण वृत्तानुवादपूर्वकं चोद्यमुत्थापयति -

अथवेत्यादिना ।

प्रश्नद्वयं परिहरति -

उच्यत इति ।

कर्मतत्फलसंस्पर्शशून्यमीश्वरं पश्यतो दर्शनानुरूपं फलं दर्शयति -

न मामिति ।

तानि कर्माणीति येषां कर्मणामहं कर्ता तवाभिमतः, तानीति यावत् ।

देहेन्द्रियाद्यारम्भकत्वेन तेषां कर्मणामीश्वरे संस्पर्शाभावे, तस्य तत्करणावस्थायामहङ्काराभावं हेतुं करोति -

अहङ्काराभावादिति ।

कर्मफलतृष्णाभावाच्चेश्वरं कर्माणि न लिम्पन्ति, इत्याह-

नचेति ।

उक्तमेव प्रपञ्चयति -

येषां त्विति ।

तदभावात् -कर्मसु ‘अहं कर्ता’ इत्यभिमानस्य, तत्फलेषु स्पृहायाश्चाभावादित्यर्थः ।

ईश्वरस्य कर्मनिर्लेपेऽपि, क्षेत्रज्ञस्य किमायातम् ? इत्याशङ्क्य, उत्तरार्धं व्याचष्टे -

इत्येवमिति ।

अभिज्ञानप्रकारमभिनयति -

नाहमिति ।

ज्ञानफलं कथयति -

स कर्मभिरिति ।

कर्मासम्बन्धं विदुषि विशदयति -

तस्यापीति

॥ १४ ॥

ईश्वरस्य कर्तृत्वभोक्तृत्वयोर्वस्तुतोऽभावे कर्मतत्फलसम्बन्धवैधुर्यं फलति, इत्याह -

येषां त्विति ।

तस्मादित्युक्तमेव स्फुटयति -

पूर्वैरिति ।

यदुक्तं किं मम कर्मणेति, तत्र त्वमज्ञो वा, तत्त्वविद्वा ? । यद्यज्ञः, तदा चित्तशुद्ध्यर्थं कुरु कर्म इत्याह -

यदीति ।

द्वितीयं प्रत्याह -

तत्त्वविदिति ।

कुरु कर्मेति सम्बन्धः ।

पूर्वैर्मूढैराचरितमित्येतावता किमिति विवेकवता मया तत्कर्तव्यम् ? इत्याशङ्क्याह -

जनकादिभिरिति ।

ते तावत् एवं सम्पाद्य कर्म कृतवन्तो, न तदिदानीमप्रामाणिकत्वादनुष्ठेयम् , इत्याशङ्क्याह -

पूर्वतरमिति

॥ १५ ॥

तव कर्मतत्फलसम्बन्धाभावे, तथा ज्ञानवतश्च तदसम्बन्धे, ममापि किं कर्मणा इत्याशङ्क्य, कर्मणि कर्तृत्वाभिमानं, तत्फले स्पृहां चाकृत्वा, मुमुक्षुवत् त्वया कर्म कर्तव्यमेव, इत्याह -

नाहमित्यादिना ।

नाहं कर्तेत्येवमादि एवमा परामृश्यते । तेन - पूर्वैेर्मुमुक्षुभिरनुष्ठितत्वेन हेतुनेत्यर्थः ।

कर्मैवेत्येवकारार्थमाह -

नेत्यादिना ।

त्वं शब्दस्य क्रियापदेन सम्बन्धः ।

विज्ञानवतामपि कर्मादिविषये व्यामोहोपपत्तेः, सुतरामेव तव तद्विषये व्यामोहसम्भवात् , तदपोहार्थमाप्तवाक्यापेक्षणाद् , अस्ति कर्मणि वैषम्यम् , इत्युत्तरमाह -

किं कर्मेति ।

‘तत् ते कर्म’ (भ. गी. ४-१६) इत्यत्र अकारानुबन्धेनापि पदं छेत्तव्यम् ।

कर्मादिप्रवचनस्य प्रयोजनमाह -

यज्ज्ञात्वेति ।

तत् कर्माकर्म चेति सम्बन्धः । अतः मेधाविनामपि यथोक्ते विषये व्यामोहस्य सत्त्वादित्यर्थः ।

॥ १६ ॥

कर्मविशेषणमाक्षिपति -

तत्रेति ।

मनुष्यलोकः सप्तम्यर्थः ।

कर्मणि महतो वैषम्यस्य विद्यमानत्वात् तस्य पूर्वैरनुष्ठितत्वेन पूर्वतरत्वेन च विशेषितत्वे, तस्मिन् प्रवृत्तिस्तव सुकरा, इति युक्तं विशेषणम् , इति परिहरति -

उच्यत इति ।

कर्मणि देहादिचेष्टारूपे लोकप्रसिद्धे नास्ति वैषम्यम् , इति शङ्कते -

कथमिति ।

बोद्धव्यसद्भावे हेतुमाह -

यस्मादिति ।

त्रितयं प्रकृत्य अन्यतमस्य गहनत्ववचनमयुक्तमित्याशङ्क्य, अन्यतमग्रहणस्योपलक्षणार्थत्वमुपेत्य, विवक्षितमर्थमाह -

कर्मादीनामिति

॥ १७ ॥

कर्मणोऽकर्मणश्च प्रसिद्धत्वात् तद्विषये न किञ्चिद् बोद्धव्यम् , इति चोद्यमनूद्य निरस्यति -

नचेति

तत्र हेत्वाकाङूक्षापूर्वकमनन्तरं श्लोकमवतारयति -

कस्मादिति ।

त्रिष्वपि कर्माकर्मविकर्मसु बोद्धव्यमस्तीति यस्मात् अध्याहारः, तस्माद् मदीयं प्रवचनमर्थवदिति योजना ।

प्रथमपादस्याक्षरोत्थमर्थं कथयति -

कर्मणीत्यादिना ।

द्वितीयपादस्यापि  शब्दप्रकाशितमर्थं निर्दिशति -

अकर्मणि चेति ।

कर्माभावे यः कर्म पश्यतीति सम्बन्धः ।

प्रवृत्तेरेव कर्मत्वात् निवृत्तेस्तदभावत्वात् तत्र कथं कर्मदर्शनमित्याशङ्क्य, द्वयोरपि कारकाधीनत्वेनाविशेषमभिप्रोयाह -

कर्तृतन्त्रत्वादिति ।

प्रवृत्ताविव निवृत्तावपि, कर्मदर्शनमविरुद्धमिति शेषः ।

ननु निवृत्तेर्वस्त्वधीनत्वात् कारकनिबन्धनाभावान्न तत्र कर्मदर्शनं युज्यते, तत्राह -

वस्त्विति ।

क्रियाकारकफलव्यवहारस्य सर्वस्याविद्यावस्थायामेव प्रवृत्तत्वाद् वस्तुसंस्पर्शशून्यत्वात् प्रवृत्तिवन्निवृत्तावपि यः कर्म पश्यति, स मनुष्येषु बुद्धिमानिति सम्बन्धः ।

कर्मण्यकर्म अकर्मणि च कर्म पश्यतो बुद्धिमत्त्वं, युक्तत्वं समस्तकर्मकृत्त्वं च कथमित्याशङ्क्याह  -

इति स्तूयत इति ।

श्लोकस्य शब्दोत्थेऽर्थे दर्शिते, तात्पर्यार्थापरिज्ञानान्मिथो विरोधं शङ्क्तते -

नन्विति ।

कथमिदं विरुद्धम् ? इत्याशङ्क्य, कर्मणीति विषयसप्तमी वा स्यात् ? अधिकरणसप्तमी वा ? इति विकल्प्य, आद्ये - अन्याकारं ज्ञानमन्यावलम्बनमिति स्पष्टो विरोधः स्याद् , इत्याह -

नहीति ।

अन्यस्यान्यात्मतायोगात् कर्माकर्मणोरभेदासम्भवादकर्माकारं कर्मावलम्बनं ज्ञानम् अयुक्तमित्यर्थः ।

द्वितीयं दूषयति -

तत्रेति ।

कर्मण्यधिकरणे ततो विरुद्धमकर्म कथमाधेयं द्रष्टा द्रष्टुमीष्टे । नहि कर्माकर्मणोर्मिथो विरुद्धयोराधाराधेयभावः सम्भवतीत्यर्थः ।

विषयसप्तमीमभ्युपेत्य सिद्धान्ती परिहरति -

नन्वकर्मैवेति ।

लोकस्य मूढदृष्टेर्विवेकवर्जितस्य परमार्थतो ब्रह्म अकर्म अक्रियमेव सद् , भ्रान्त्या, कर्मसहितं क्रियावदिव प्रतिभातीत्यक्षरार्थः ।

परस्पराध्यसमभ्युपेत्योक्तम् -

तथेति ।

यथा खल्वकर्म ब्रह्म कर्मवदुपलभ्यते तथा कर्म सक्रियमेव द्वैतमक्रिये ब्रह्मण्यधिष्ठाने संसृष्टं तद्वद् भातीत्यक्षरयोजना ।

कर्माकर्मणोरितरेतराध्यासे सिद्धे, सम्यग्दर्शनसिद्ध्यर्थं भगवतो वचनमुचितम् , इत्याह -

तत्रेति ।

यथा, यत् , इन्दं रजतमिति प्रतिपन्नं, तत् , इदानीं शुक्तिशकलं पश्येति भ्रमसिद्धरजतरूपविषयानुवादेन तदधिष्ठानं शुक्तिमात्रमुपदिश्यते, तथा भ्रमसिद्धकर्माद्यात्मकविषयानुवादेन तदधिष्ठानं कर्मादिरहितं कूटस्थं ब्रह्म भगवता व्यपदिश्यते । तथाच भगवद्वचनमविरुद्धमित्यह -

अत इति ।

इतश्चाध्यारोपितकर्माद्यनुवादपूर्वकं तदधिष्ठानस्य कर्मादिरहितस्य निर्विशोषस्य ब्रह्मणो भगवता बोध्यमानत्वान्न तत्र विरोधाशङ्कावकाशो भवतीत्याह -

बुद्धिमत्त्वादीति ।

कूटस्थाद् ब्रह्मणोऽन्यस्य सर्वस्य मायामात्रत्वात् अन्यज्ञानाद् बुद्धिमत्त्वयुक्तत्वसर्वकर्मकृत्त्वानामनुपपत्तेः, अत्र च ‘स बुद्धिमान् ‘ इत्यादिना बुद्धिमत्त्वादिनिर्देशाद् ब्रह्मज्ञानादेव तदुपपत्तेः, सर्वविक्रियारहितब्रह्मज्ञानमेव विवक्षितमित्यर्थः ।

बोधशब्दस्य सम्यग्ज्ञाने प्रसिद्धत्वात् कर्माकर्मविकर्मणां स्वरूपं बोद्धव्यस्तीति वदता सम्यग्ज्ञानोपदेशस्य विवक्षितत्वादपि कूटस्थं ब्रह्मत्राभिप्रेतम् इत्याह -

बोद्धव्यमिति चेति ।

फलवचनपर्यालोचनायामपि कूटस्थं ब्रह्मात्राभिप्रेतं प्रतिभाति इत्याह -

नचेति ।

सम्यग्ज्ञानाधीनफलमत्र न श्रुतम् , इत्याशङ्क्याह -

यज्ज्ञात्वेति ।

अध्यारोपापवादार्थं भागवद्वचनमविरुद्धम् , इत्युपपादितमुपसंहरति -

तस्मादिति ।

‘तद्विपर्यय’ इत्यत्र तच्छब्देन प्राणिनो गृह्यन्ते ।

विषयमप्तमीपरिग्रहेण परिहारमभिवाय, अधिकरणसप्तमीपक्षे दर्शित्ं दूषणमनङ्गीकारेण परिहरति -

नचेति ।

व्यवहारभूमिरत्रेत्युच्यते । योग्यत्वे सत्यनुपलब्धेरित्यर्थः ।

अकर्माधिकरणं कर्म न सम्भवति इत्यत्र हेत्वन्तरमाह -

कर्माभावत्वादिति ।

नहि तुच्छस्याधिकरणं क्कचिद् दृष्टमिष्टं चेत्यर्थः ।

निरूप्यमाणे कर्माकर्मणोरधिकरणाधिकर्तव्यभावासम्भवे फलितमाह -

अत इति ।

शास्त्रपरिचयविरहिणामध्यारोपमुदाहरति -

यथेति ।

कर्माकर्मणोरारोपितत्वमुक्तममृष्यमाणाः सन्नाशङ्कते -

नन्विति ।

कर्म कर्मैवेत्यत्र अकर्म चाकर्मैवेति द्रष्टव्यम् । विमतं सत्यमव्यभिचारित्वाद् ब्रह्मवदित्यर्थः ।

तत्र कर्म तत्त्वतो नाव्यभिचारि, कर्मत्वात् , नौस्थस्य तटस्थवृक्षगमनवत् ,इत्यव्यभिचारित्वं कर्मण्यसिद्धमिति परिहरति -

तन्नेति ।

अकर्म च तत्त्वतो नाव्यभिचारि, कर्माभावत्वाद्, दूरप्रदेशे चैत्रमैत्रादिषु गच्छत्स्वेव चक्षुषा सन्निधानविधुरेषु दृश्यमानगत्यभाववत् , इत्याह -

दूरेष्विति ।

दूरत्वादेव विशेषतः सन्निकर्षविरहितेषु तेषु स्वरूपेण चक्षुः संनिकृष्टेषु चक्षुषा गत्यभावदर्शनादिति योजना ।

गातिरहितेषु तरुषु गतिदर्शनवत् प्रकृते ब्रह्मण्यविक्रिये कर्मदर्शनं, सक्रिये च द्वैतप्रपञ्चे गतिमत्सु चैत्रादिषु गत्यभावदर्शनवत् कर्माभावस्य विपरीतस्य दर्शनं येन हेतुना सम्भवति, तेन तस्य विपरीतदर्शनस्य निरसनार्थं भगवद्वचनमिति दार्ष्टान्तिकं निगमयति -

एवमित्यादिना ।

ननु कर्मतदभावयोरारोपितत्वात् अविक्रियस्य ब्रह्मणो ज्ञानमत्राभिप्रेतं चेत् ‘अव्यक्तोऽयमचिन्त्योऽयं’(भ. गी. २-२५) ‘न जायते म्रियते’ (भ. गी. २ -१८) इत्यादिना पौनरुक्त्यं प्राप्तं, तत्रैव ब्रह्मात्मनो निर्विकारत्वस्योक्तत्वादिति, तत्राह -

तदेतदिति ।

तदेतत् -आत्मनि शङ्कितं सक्रियत्वम् असकृदुक्तप्रतिवचनमपि निर्विकारात्मवस्त्वपेक्षया अत्यन्तविपरीतदर्शनं - मिथ्याज्ञानं, तेन भावितत्वं -तत्संस्कारप्रचयवत्त्वं, ततोऽतिशयेन मोहमापद्यमानो लोकः श्रुतमपि तत्त्वं विस्मृत्य पुनर्यत्किंचित्प्रसङ्गमापाद्य, सक्रियत्वमेव आत्मन श्चोदयतीति, पुनः पुनस्तत्त्वभूतमुत्तरं भगवानभिधत्ते । वस्तुनश्च दुर्विज्ञेयत्वात् पुनःपुनः प्रतिपादनं तत्तद्भ्रमनिराकरणार्थमुपयुज्यते । तथाच नास्ति पुनरुक्तिरित्यर्थः ।

असकृदुक्तप्रतिवचनमेवानुवदति -

अव्यक्तोऽयमिति ।

कर्माभाव उक्त इति सम्बन्धः ।

उक्तस्य ‘न जायते म्रियते वा विपश्चित् ‘ (कठ. २. १८) इत्यादिश्रुतौ प्रकृतस्मृतावसङ्गत्वादिन्यायेन च प्रसिद्धत्वमस्ति, इत्याह -

श्रुतीति ।

न केवलमुक्तः कर्माभावः, किन्तु, ‘सर्वकर्माणि मनसा संन्यस्य’ (भ. गी. ५-१३) इत्यादौ वक्ष्यमाणश्चेत्याह -

वक्ष्यमाणश्चेति ।

ननु कर्मणो देहादिनिर्वर्त्यत्वेन त्रैविध्यात् कूटस्थस्वभावस्यात्मनोऽसङ्गत्वात् तद्व्यापाररूपस्य कर्मणोऽप्रसिद्धत्वान्न तस्मिन्नकर्मणि विपरीतस्य कर्मणो दर्शनं सिध्यति, इत्याशङ्क्याह -

तस्मिन्निति ।

कर्मैव विपरीतं, तस्य दर्शनमिति यावत् । अहं कर्तेत्यात्मसमानाधिकरणस्य व्यापारस्यानुभवात् कर्मभ्रमस्तावत् आत्मन्यत्यन्तरूढोऽस्तीत्यर्थः ।

आत्मनि कर्मविभ्रमोऽस्तीत्यत्र हेतुमाह -

यत इति ।

आत्मनो निष्क्रियत्वे कुतस्तस्मिन् यथोक्तो विभ्रमः सम्भवेत ? इत्याशङ्क्याह -

देहेति ।

इदानीमात्मनि अकर्मभ्रममुदाहरति -

तथेत्यादिना ।

यथा शुक्तौ स्वाभाविकमरूप्यत्वं, रूप्यत्वमारोपितं, तदभावोऽप्यारोप्याभावत्वात् आरोपपक्षपाती । तथा आत्मनोऽपि स्वाभाविकमविक्रियत्वं, सक्रियत्वं पुनरध्यस्तं, तदभावत्वात् , कर्मभावोऽप्यध्यस्त एवेति मन्वानः सन्नुपसंहरति -

तत्रेदमिति ।

आत्मनि कर्मादिविभ्रमे लौकिके सिद्धे सति इदं - ‘कर्माणि’ इत्यादिवचनंं, तत्परिहारार्थं भगवानुक्तवानित्यर्थः ।

संप्रत्युक्तेऽर्थे श्लोकाक्षरसमन्वयं दर्शयितुं ‘कर्मणि’ इत्यादि व्याचिख्यासुर्भूमिकां करोति -

अत्र चेति ।

व्यवहारभूमौ कार्यकरणाधिकरणं कर्म स्वेनैव रूपेण व्यवस्थितं सत् , आत्मन्यविक्रिये कार्यकरणारोपणद्वारेण सर्वैरारोपितमित्यत्र हेतुमाह -

यत इति ।

अविवेकिनां तु कर्तुत्वाभिमानः सुतरामिति वक्तुमपिशब्दः । एवमात्मनि कर्मारोपमुपपाद्य प्रथमपादं व्याटष्टे -

अत इति ।

आत्मानि कर्मरहिते कर्मारोपे दृष्टान्तमाह -

नदीति ।

आरोपवशादात्मनिष्ठत्वेन कर्मणि सर्वलोकप्रसिद्धे कर्माभावं यः पश्येत् , स बुद्धिमानिति सम्बन्धः । अकर्मदर्शनस्य यथाभूतत्वं सम्यक्त्वम् । तत्र दृष्टान्तमाह -

गत्यभावमिवेति ।

द्वितीयपादं व्याकरोति -

अकर्मणि चेति ।

अध्यरोपमभिनयति -

तूष्णीमिति ।

अकर्मणि कर्मदर्शने युक्तिमाह -

अहङ्कारेति ।

पूर्वार्धेनोक्तमनूद्य, उत्तरार्धं विभजते -

य एवमिति ।

आत्मनि कार्यकरणसङ्घातसमारोपद्वारेण तद्व्यापारमात्रे कर्मणि, शुक्तिकायामिव रजतसमारोपितविषये तदभावम् - अकर्म, वस्तुतो यो रजताभाववदनुभवति, अकर्मणि च सङ्घातव्यापारोपरमे तद्द्वारा स्वात्मनि ‘अहं तूष्णीमासे सुखम्’ इत्यारोपित गोचरे कर्म - अहङ्कारहेतुकं यस्तत्त्वतो मन्यते, स रूप्यतदभावविभागहीनशुक्तिमात्रवत् आत्ममात्रं कर्मतदभावविभागशून्यं कूटस्थं परमार्थतोऽवगच्छन् बुद्धिमान् इत्यादिस्तुतियोग्यतां गच्छति, इत्येवं स्वाभिप्रायेण श्लोकं व्याख्याय, अत्र वृत्तिकारव्याख्यानमुत्थापयति -

अयमिति ।

अन्यथाव्याख्यानमेव प्रश्नद्वारा प्रकटयति -

कथमित्यादिना ।

ईश्वरार्थेनानुष्ठाने फलाभववचनं व्याहतम् , इति मत्वाऽऽह -

किलेति ।

नित्यानामकर्मत्वमप्रसिद्धम् इ्त्याशङ्क्य, फलराहित्यगुणयोगात् तेष्वकर्मत्वव्यवहारः सिध्यतीत्याह -

गौण्येति ।

नित्यानामकारणं मुख्यवृत्त्यैवाकर्म वाच्यम् , इत्याह -

तेषां चेति ।

तत्र कर्मशब्दस्य प्रत्यवायाख्यफलहेतुत्वगुणयोगाद् गौण्यैव वृत्त्या प्रवृत्तिरित्याह -

तच्चेति ।

पातनिकामेवं कृत्वा श्लोकाक्षराणि व्याचष्टे -

तत्रेत्यादिना

अकर्मणि चेत्यादि व्याकरोति -

तथेति ।

स बुद्धिमानित्यादि पूर्ववत् ।

परकीयं व्याख्यानं व्युदस्यति -

नैतदिति ।

नित्यं कर्माकर्म, नित्याकरणं कर्मेति ज्ञानाद् दुरितनिवृत्त्यनुपपत्तेर्भगवद्वचनं वृत्तिकारमते बाधितं स्यादित्यर्थः ।

‘धर्मेण पापमपनुदति’ (म. ना. उ. २-१) इति श्रूतेर्नित्यानुष्ठानाद् दुरितनिबर्हणप्रसिद्धेस्तदनुष्ठानस्य फलान्तराभावात् तदकर्मेति ज्ञात्वा अनुष्ठाने क्रियमाणे कथमशुभक्षयो नेति शङ्कते -

कथमिति ।

‘क्षेत्रज्ञस्येश्वरज्ञानाद्विशुद्धिः परमा मता’ (या. स्मृ. ३-३४) इति स्मरणात् कर्मणात्यन्तिकाशुभक्षयाभावेऽप्यङ्गीकृत्य परिहरति -

नित्यानामिति ।

नित्यानुष्ठानादशुभक्षयेऽपि नास्मिन् प्रकरणे तद्विवक्षितं ; ‘यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ‘ (भ. गी. ४-१६) इति ज्ञानादशुभक्षयस्य प्रतिज्ञातत्वात् , नच तज्ज्ञानं फलाभावविषयमेषितव्यमित्याह -

नत्विति ।

अशुभस्य फलाभावज्ञानकार्यत्वाभावान्न फलाभावज्ञानात् क्षयः सिध्यतीत्यर्थः । किञ्चातीन्द्रियोऽर्थः शास्त्रान्निश्चीयते ।

नच नित्यकर्मणां फलाभावज्ञानादशुभनिवृत्तिरित्यत्र शास्त्रमस्तीत्याह -

नहीति ।

नित्याकरणं कर्मेति ज्ञानमपि, नाशुभनिवृत्तिफलत्वेन चोदितमस्तीत्याह -

नित्यकर्मेति ।

भगवद्वचनमेवात्र प्रमाणमित्याशङ्क्याह -

नचेति ।

साधारणमेव ‘यज्ज्ञात्वा’ इत्यादि भगवतो वचनं, नतु नित्यानां फलाभावं ज्ञात्वेति विशेषविषयमित्यर्थः ।

अशुभमोक्षणासम्भवप्रदर्शनेन कर्मण्यकर्मदर्शननिराकरणन्यायेन अकर्मणि कर्मदर्शनं निराकरोति -

एतेनेति ।

नामादिषु फलाय ब्रह्मदृष्टिवत् अकर्मण्यपि फलार्थं कर्मदृष्टिविधानान्नाशुभमोक्षणानुपपत्तिरित्याशङ्क्य, आह -

नहीति ।

अत्र हि श्लोके नित्यस्य कर्तव्यतामात्रं परमते विवक्षितम् । अतश्चाकर्मणि कर्मदर्शनं विधीयते तत्त्फलायेति कल्पना परस्य सिद्धान्तविरुद्धेत्याह -

नित्यस्य त्विति ।

परमतेऽपि नित्यस्य कर्तव्यतामात्रमत्र श्लोके न विवक्षितं, किन्तु नित्यानुष्ठाने प्रवृत्तिसिद्ध्यर्थं नित्याकरणात् प्रत्यवायो भवतीति ज्ञानमपि कर्तव्यत्वेनात्र विवक्षितमेवेत्याशङ्य अह -

नचेति ।

न तावत् प्रवृत्तिरस्य विज्ञानस्य फल, नियोगादेव तदुपपत्तेः । नापि फलान्तरम् अनुपलम्भात् ; अतोऽफलत्वादकरणात् प्रत्यवायो भवतीति ज्ञानं नात्र कर्तव्यत्वेन विवक्षितमित्यर्थः ।

किञ्चाकरणे कर्मदृष्टिविधावकरणस्यालम्बनत्वेन प्रधानत्वात् ज्ञेयत्वं वक्तव्यं, तच्च तुच्छत्वादनुपपन्नमित्याह-

नापीति ।

अकरणस्यासतो नामादिवदाश्रयत्वेन दर्शनासम्भवेऽपि, सामानाधिकरण्येन इदं रजतमितिवद् दर्शनं भविष्यतीत्याशङ्क्याह -

नापि कर्मेति ।

आदिशब्देन सर्वोत्कर्षादि गृह्यते । फलवत्त्वं स्तुतिर्वा सम्यग्ज्ञानस्य युक्तं, न मिथ्याज्ञानस्य, अनुपपत्तेरित्यर्थः ।

स्वप्ने मिथ्याज्ञानमपि फलवदुपलब्धमित्याशङ्क्य, मिथ्याज्ञानस्याशुभाविरोधित्वान्न तस्मात् तन्निवृत्तिरित्याह -

मिथ्याज्ञानमेवेति ।

अशुभादेवाशुभानिवृत्तौ दृष्टान्तमाह -

नहीति ।

अविवेकपूर्वकम् , इदं रजतमिति, सदसतोः सामानाधिकरण्यान्मिथ्याज्ञानं युक्तं, कर्माकर्मणोस्तु विवेकेन भासमानयोः सामानाधिकरण्याधीनं ज्ञानं -सिंहदेवदत्तयोरिव गौणं, न मिथ्याज्ञानमिति शङ्कते -

नन्विति ।

कर्माकर्मेति दर्शने फलाभावो गुणः, अकर्म कर्मेति दर्शने तु फलाभावो  गुणः, तन्निमित्तमिदं ज्ञानं गौणमित्याह -

फलेति ।

यथोक्तज्ञानस्य गौपत्वेऽपि प्रामाणिकफलाभावान्न तद्नौणतोचितेति दूषयति -

नेत्यादिना ।

कर्माकर्मेत्यादिगौणविज्ञानोपन्यासव्याजेन नित्याकर्मणः कर्तव्यतायाः विवक्षितत्वाद्नौणज्ञानस्याफलत्वमदूषणमित्याशङ्क्याह -

नापीति ।

ज्ञानादशुभमोक्षणस्य श्रुतस्य हानिः, अश्रुतस्य नित्यानुष्ठानस्य कल्पनेत्यनेन व्यापारगौरवेण न कश्चिद्विशेषः सिध्यतीत्यर्थः ।

उक्तमेव प्रपञ्चयति -

स्वशब्देनेति ।

नरकपातः स्यादतो विधेरेवानुष्ठेयानि तानीति शेषः ।

यथोक्तवाचकशब्दप्रयोगादेव अपेक्षितार्थसिद्धिसम्भवे भगवतो व्याजवचनकल्पनमनुचितमित्याह -

तत्रेति ।

प्रकृते श्लोके वृत्तिकृतां व्याख्यानेन परमाप्तस्यैव भगवतो विप्रलम्भकत्वमापादितमिति तदीयं व्याख्यानमुपेक्षितव्यमिति फलितमाह -

तत्रैवमिति ।

नित्यकर्मानुष्ठानसिद्ध्यर्थं व्याजरूपमिति भगवद्वचनमुचितमित्याशङ्क्य, स्वशब्देनापीत्यादिप्रागुक्तपरिपाट्या तदनुष्ठानबोधनसम्भवाद् मैवमित्याह -

नचैतदिति ।

वस्तुशब्देन नित्यकर्मानुष्ठानमुच्यते । यथात्मप्रतिपादनं सुबोधत्वसिद्ध्यर्थं पौनःपुन्येन क्रियते, तथा नित्यानामपि कर्मणामनुष्ठानं ‘कर्मण्यकर्म’ (भ. गी. ४-१८) इत्यादिशब्दान्तरेणोच्यमानं सुबोधं स्यादिति भगवतः शब्दान्तरं युक्तमित्याशङ्क्य, तस्य नित्यानुष्ठानवाचकत्वाभावान्मैवमित्याह -

नापीति ।

किञ्च, पूर्वमेव नित्यानुष्ठानस्य स्पष्टमुपदिष्टत्वान्न तस्य सुबोधनार्थं शब्दान्तरमपेक्षितमित्यह –

कर्मण्येवेति ।

कर्माकर्मादिविज्ञानव्याजेन नित्याकर्मानुष्ठानकर्तव्यतायां तात्पर्यमित्येतन्निराकृत्य, कर्माकर्मादिदर्शनं गौणमिति पक्षे दूषणान्तरमाह -

सर्वत्र चेति ।

लोके वेदे च यथा प्रशस्तं देवतादितत्त्वं, यच्च कर्तव्यमनुष्ठानार्हमग्निहोत्रादि, तदेव बोद्धव्यमित्युच्यते ; न निष्फलं काकदन्तादि । कर्मणि अकर्मदर्शनमकर्मणि च कर्मदर्शनं गौणत्वादेवाप्रशस्तमकर्तव्यं च । नातः तद् बोद्धव्यमिति वचनमर्हतीत्यर्थः ।

किञ्च, कर्मादेर्मायामात्रत्वाद्  गौणमपि तद्विषयं ज्ञानं मिथ्याज्ञानमिति, न तस्य बोद्धव्यत्वसिद्धिरित्याह -

नचेति ।

मिथ्याज्ञानस्य बोद्धव्यत्वाभावेऽपि तद्विषयस्य बोद्धव्यता सिध्येदित्याशङ्क्याह वस्त्वाभासत्वात् मैवमित्याह -

तत्प्रत्युपस्थापितं वेति ।

यत्पुनरकरणस्य प्रत्यवायहेतुत्वम् , अकरणे गौण्या वृत्त्या कर्मशब्दप्रयोगे निमित्तमिति, तद् दूषयति  -

नापीति ।

अकरणात् प्रत्यवायो भवतीत्यत्र श्रृतिस्मृतिविरोधमभिदधाय, युक्तिविरोधमभिधाति -

असत इति ।

असतः सद्रूपेण भवनमभवनं च निःस्वरूपत्वादनुपपन्नम् - निरस्तसमस्ततत्त्वस्य किञ्चित् तत्त्वाभ्युपगमे सर्वप्रमाणानामप्रामाण्यसद्रूपेण भवनमभवनं च निः स्वरूपत्वादनुपपन्नम् - निरस्तसमस्ततत्त्वस्य किञ्चित् तत्त्वाभ्युपगमे सर्वप्रमाणानामप्रामाण्य प्रसङ्गादित्याह -

तच्चेति ।

यत्तु नित्यानां फलराहित्यं तत्राकर्मशब्दप्रयोगे निमित्तमिति, तन्निरस्यति -

नचेति ।

न केवलं विध्युद्देशे स्वफलाभावान्नित्यानां विध्यनुपपत्तिः, अपितु धात्वर्थस्य क्लेशात्मकत्वात् तत्र श्रुतफलाभावे नैव विधिरवकाशमासादयेदित्याह -

दुःखेति ।

दुःखरूपस्यापि धात्वर्थस्य साध्यत्वेन कार्यत्वात् तद्विषयो विधिः स्यादिति चेन्नेत्याह -

दुःखस्य चेति ।

स्वर्गादिफलाभावेऽपि नित्यानामकरणनिमित्तनिरयनिरासार्थं दुःखरूपाणामपि स्यादनुष्ठेयत्वमित्याशङ्क्य आह -

तदकरणे चेति ।

फलान्तराभावेऽपि मोक्षसाधनत्वाद् मुमुक्षुणा नित्यानि कर्माण्यनुष्ठेयानीत्याशङ्क्याह -

स्वाभ्युपगमेति ।

वृत्तिकारव्याख्यानासद्भावे फलितमुपसंहरति -

तस्मादिति ।

कोऽसौ यथाश्रुतोऽर्थः श्लोकस्येत्याशङ्क्य आह -

तथाचेति

॥ १८ ॥

उत्तरश्लोकमाकाङ्क्षापूर्वकमुपादत्ते -

किं पुनरिति ।

समारम्भशब्दस्य कर्मविषयत्वं न रूढ्या, किन्तु व्युत्पत्त्येत्याह -

समारभ्यन्त इतीति ।

कामसङ्कल्पवर्जितत्वे कथं कर्मणामनुष्ठानमित्याशङ्क्याह -

मुधैवेति ।

उद्देश्यफलाभावे तेषामनुष्ठानं यादृच्छिकं स्यादित्याशङ्क्य, प्रवृत्तेन निवृत्तेन वा तेषामनुष्ठानं यादृच्छिकं स्यादिति विकल्प्य, क्रमेण निरस्यति -

प्रवृत्तेनेत्यादिना ।

ज्ञानग्नीत्यादि विभजते -

कर्मादाविति ।

यथोक्तज्ञानं योग्यमेव दहति, नायोग्यमिति विवक्षितत्वात् तस्मिन्नग्निपदम् ।

यथोक्तविज्ञानविरहिणामपि वैशेषिकादीनां पण्डितत्वप्रसिद्धिमाशङ्क्य, तेषां पण्डिताभासत्वं विवक्षित्वा विशिनष्टि -

परमार्थत इति

॥ १९ ॥

कर्मण्यकर्मदर्शनं पूर्वोक्तं स्तोतुमुत्तरश्लोकं प्रस्तौति -

तदेतदिति ।

यथोक्तदर्शित्वं - पूर्वोक्तदर्शनसम्पन्नत्वम् ।

यथोक्तं ज्ञानं कूटस्थात्मदर्शनं, तेन स्वरूपभूतं सुखं साक्षादनुभूय, कर्मणि तत्फले च सङ्गमपास्य, विषयेषु निरपेक्षश्चेष्टते विद्वानित्याह -

त्यक्त्वेत्यादिना ।

इष्टसाधनसापेक्षस्य कुतो निरपेक्षत्वमित्याशङ्क्य, विशिनष्टि -

निराश्रय इति ।

यदाश्रित्येति यच्छब्देन फलसाधनमुच्यते ।

आश्रयरहितमित्यस्यार्थं स्पष्टयति -

दृष्टेति ।

तेन ज्ञानवता पुरुषेण एवंभूतेन - त्यकत्वा कर्मफलासङ्गमित्यादिना विशेषितेनेत्यर्थः । ततः - ससाधनात् कर्मणः सकाशादिति यावत् ।

निर्गमासम्भवे हेतुमाह -

लोकेत्यादिना ।

पूर्ववत् -ज्ञानोदयात् - प्रागवस्थायामिवेत्यर्थः । अभिप्रवृत्तोऽपि लोकदृष्ट्येति शेषः । नैव करोति किञ्चिदिति स्वदृष्ट्येति द्रष्टव्यम् ॥ २० ॥

विवेकात् पूर्वं कर्मणि प्रवृत्तावपि, सति विवेके तत्र न प्रवृत्तिरित्याशङ्क्याङ्गीकरोति -

यस्त्विति ।

विवेकात् पूर्वमभिनिवेशेन प्रवृत्तस्य विवेकानन्तरमभिनिवेशाभावात् प्रवृत्त्यसम्भवेऽपि जीवनमात्रमुद्दिश्य प्रवृत्त्याभास सम्भवतीत्यर्थः ।

सत्यपि  विवेके तत्त्वसाक्षात्कारानुदयात् कर्मणि प्रवृत्तस्य कथं तत्त्यागः स्यादित्याशङ्क्याह -

यस्तु प्रारब्धेति ।

त्यक्त्वा इत्यादि समनन्तरश्लोकमवतारयितुं भूमिकां कृत्वा, तदवतारणप्रकारं दर्शयति -

स कुतश्चिदिति ।

लोकसङ्ग्रहादि, निमित्तं विवक्षितम् । कर्मपरित्यागासम्भवे सति तस्मिन् प्रवृत्तोऽपि नैव करोति किञ्चिदिति सम्बन्धः ।

कर्मणि प्रवृत्तो न करोति कर्मेति कथमुच्यते ? तत्राह -

स्वप्रयोजनाभावादिति ।

कथं तहि कर्मणि प्रवर्तते ? तत्राह-

लोकेति ।

प्रवृत्तेरर्थक्रियाकारित्वाभावं ‘पश्वादिभिश्चाविशेषात्’ इति न्यायेन व्यावर्तयति -

पूर्ववदिति ।

कथं तर्हि विवेकिनामविवेकिनां च विशेषः स्यादित्याशङ्क्य, कर्मादौ सङ्गासङ्गाभ्यामित्याह -

कर्मणीति ।

उक्तेऽर्थे समनन्तरश्लोकमवतारयति -

ज्ञानाग्नीति ।

एतमर्थं दर्शयिष्यन्निमं श्लोकमाहेति योजना ।

आशिषां विदुषो निर्गतत्वे हेतुमाह -

यतेति ।

चित्तवत् आत्मनः सन्यमनं कथम् ? इत्याशङ्क्याह -

आत्मा बाह्य इति ।

द्वयोः संयमने सति अर्थसिद्धमर्थमाह -

त्यक्तेति ।

सर्वपरिग्रहपरित्यागे देहस्थितिरपि दुःस्था स्यात् , इत्याशङ्र्याह -

शरीरमिति ।

मात्रशब्देन पौनरुक्त्यादनर्थकं केवलपदम् , इत्याशङ्क्याह-

तत्रापीति ।

शारीरं केवलमित्यादौ शारीरपदार्थं स्फुटीकर्तुमुभयथा सम्भावनया विकल्पयति -

शारीरमिति ।

शरीरनिर्वर्त्यं शारीरमित्यस्मिन् पक्षे किं दूषणं ? शरीरस्थितिमात्रप्रयोजनं शारीरमित्यस्मिन् वा पक्षे किं फलम् ? इति पूर्ववादी पृच्छति -

किञ्चात इति ।

शरीरनिर्वर्त्यं शारीरमित्यस्मिन् पक्षे सिद्धान्ती दूषणमाह -

उच्यत इति ।

शरीरेण यन्निर्वर्त्यं, तत्किं प्रतिषिद्ध ? विहितं वा ? प्रथमे, विरोधः स्यादित्याह -

यदेति ।

प्रतिषिद्धाचरणेऽपि नानिष्टप्राप्तिरित्युक्ते प्रतिषेधशास्रविरोधः स्यादित्यर्थः ।

द्वितीये, विहितकरणे सति अनिष्टप्राप्त्यभावादप्राप्ततिषेधः स्यादित्याह -

शास्त्रीयं चेति ।

दृष्टप्रयोजनं कारीर्यादिकं कर्म, अदृष्टप्रयोजनं स्वर्गसाधनं ज्योतिष्टोमादिकं कर्मेति विभागः ।

शरीरनिर्वर्त्यं कर्म शारीरमभिमतम् , इति पक्षे दूषणान्तरमाह -

शारीरमिति ।

वाचा मनसा चाकर्मणोऽनुष्ठाने संन्यासिनो भवत्येव किल्बिषप्राप्तिः, इत्याशङ्क्याह -

तत्रापीति ।

वाङूमनसाभ्यां विहितानुष्ठाने वा, प्रतिषिद्धकरणे वा किल्बिषप्राप्तिः संन्यासिनः स्यात् , इति विकल्प्य, आद्ये जपध्यानविधिरोधः स्यादित्युक्त्वा, द्वितीयं दूषयति -

प्रतिषिद्धेति ।

शरीरनिर्वर्त्यं कर्म शारीरमिति पक्षमेवं प्रतिक्षिप्य, द्वितीयपक्षे लाभं दर्शयति -

यदा त्विति ।

अन्यत् देहस्थितिप्रयोजनात् कर्मणः सकाशाद् इति शेषः ।

तत्रापि विदुषः स्वदृष्ट्या न प्रवृत्तिरिति सूचयति -

लोकेति ।

विद्वान् उक्तया रीत्या वर्तमानो नाप्नोति किल्बिषमित्यत्र विवक्षितमर्थमाह -

एवंभूतस्येति ।

विधिनिषेधगम्यं कर्म देहस्थितिहेतुव्यतिरिक्तमकुर्वत इत्यर्थः ।

‘शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम्‘ (भ. गी. ४-२१) इत्यस्योक्तेन प्रकारेण परिग्रहे ‘शारीरं केवल’ मिति विशेषणद्वयं निर्दोषं सिध्यतीति फलितमाह -

एवमिति

॥ २१ ॥

सत्यपि विक्षेपके कर्मणि, कूटस्थात्मानुसन्धानस्य सिद्धे कैवल्यहेतुत्वे, विक्षेपाभावे सुतरां तस्य तद्देतुत्वसिद्धिरित्यभिप्रेत्याह -

यः पुनरिति ।

पूर्वोक्तविपरीतत्वं लोकसङ्ग्रहादिनिरपेक्षत्वम् । तदेव वैपरीत्यं स्फोरयति -

प्रागेवेति ।

ससाधनसर्वकर्मसंन्यासे शरीरस्थितिरपि कथम् ? इत्याशङ्क्याह -

शरीरेति ।

तर्हि तथाविधचेष्टानिविष्टचेतस्तया सम्यग्ज्ञानबहिर्मुखस्य कुतो मुक्तिः ? इत्याशङ्क्य यथोपदिष्टचेष्टायामनादरात् नैवमित्याह -

ज्ञाननिष्ठ इति ।

इति दर्शयितुमिमं श्लोकं प्राहेति पूर्ववत् । आशिषः प्रार्थनाभेदास्तृष्णाविशेषाः ।

परोत्कर्षामर्षपूर्विका स्वस्योत्कर्षाभिवाञ्छा विगता यस्मादिति व्युत्पत्तिमाश्रित्य विवक्षितमर्थमाह -

निर्वैरेति ।

सङ्क्षेपतो दर्शितमर्थं विशदयति -

य एवंभूत इति ।

तथाऽपि प्रकृतस्य यतेर्भिक्षाटनादौ कर्तृत्वं प्रतिभाति, तदभावे भिक्षाटनाद्यभावेन जीवनाभावप्रसङ्गादित्याशङ्क्याह -

लोकेति ।

लौकिकैरविवेकिभिः सह व्यवहारस्य स्नानाचमनभोजनादिलक्षणस्य विदुषाऽपि सामान्येन दर्शनात् तदनुसारेण लौकिकैरध्यारोपितकर्तृत्वभोक्तृत्वाद् विद्वानपि लोकदृष्ट्या भिक्षाटनादौ कर्तृत्वमनुभवतीत्यर्थः ।

कथं तर्हि तस्याकर्तृत्वं ? तत्राह -

स्वानुभवेनेति ।

यदृच्छेत्यादिपादत्रयं व्याख्याय, कृत्वाऽपीत्यादिचतुर्थपादं व्याचष्टे -

स एवमिति ।

भिक्षाटनादिना प्रातिभासिकेन कर्मणा विदुषो बद्धत्वाभावेऽपि कर्मान्तरेण निबद्धत्वं भविष्यतीत्याशङ्क्याह -

बन्धेति ।

ज्ञानाग्निदग्धत्वादित्येवं ‘शारीरं केवलम्’ (भ. गी. ४-२१) इत्यादावुक्तस्यायमनुवाद इति योजना । यथोक्तस्य कर्मणो युत्तया महाविरोधाभ्युपगमसूचनार्थः अपिशब्दः ॥ २२ ॥

पूर्वश्लोकेन सङ्गतिं दर्शयन् उत्तरश्लोकमुत्थापयति -

त्यक्तेति ।

अन्नादेरित्यादिशब्देन पादुकाच्छादनादि गृह्यते । याचनादिनेत्यादिपदेन सेवाकृष्याद्युपादीयते । भिक्षाटनार्थमुद्योगात् प्राक्काले केनापि योग्येन निवेदितं भैक्ष्यमयाचितम् । अभिशस्तं पतितं च वर्जयित्वा सङ्कल्पमन्तरेण पञ्चभ्यः सप्तभ्यो वा गृहेभ्यः समानीतं भैक्ष्यम् असङ्क्लृप्तम् । सिद्धमन्नं भक्तजनैः स्वसमीपमुपानीतमुपपन्नम् । यदृच्छया - स्वकीयप्रयत्नव्यतिरेकेणेति यावत् । आदिशब्देन `माधूकरमसङ्क्लृप्तं प्राक्प्रणीतमयाचितम् ।
तत्तत्कालोपपन्नं च भैक्ष्यं पञ्चविधं स्मृतम् ॥ ‘ (सं. उ. ६५)
इत्यादि गृृह्यते । आविष्कुर्वन्निदं वाक्यमाहेति योजनीयम् ।

यथोक्तस्यापि विद्यावतो मुक्तस्य भगवत्प्रीत्यर्थं कर्मानुष्ठानोपलम्भात् ततो बन्धारम्भः सम्भाव्येत, इत्याशङ्क्याह -

यज्ञायेति ।

धर्माधर्मादीत्यादिशब्देन रागद्वेषादिसङ्ग्रहः । तस्य बन्धनत्वं करणव्युत्पत्त्या प्रतिपत्तव्यम् । यज्ञनिर्वृत्त्यर्थं - यज्ञशब्दितस्य भगवतो विष्णोर्नारायणस्य प्रीतिसम्पत्त्यर्थमिति यावत् ।

ज्ञानमेव वाञ्छतो ज्ञानस्य प्रतिबन्धकं कर्म परिशङ्कितं परिहरति -

कर्मेति ।

समग्रेणेत्यङ्गीकृत्य व्याचष्टे -

सहेत्यादिना

॥ २३ ॥

गतसङ्गस्येत्यादिश्लोकस्य व्यवहितेन सम्बन्धं वक्तुं वृत्तं कीर्तयति -

त्यक्त्वेति ।

अनेन श्लोकेन ‘नैव किञ्चित् करोति सः’ (भ. गी. ४-२०) इत्यत्र कर्माभावः प्रदर्शितः इति सबन्धः ।

कस्य कर्माभावप्रदर्शनम् ? इत्याशङ्क्याह -

यः प्रारब्धेति ।

प्रारब्धकर्मा सन् योऽवतिष्ठते, तस्य कर्माभावः प्रदर्शितश्चेत् विरोधः स्यात् इत्याशङ्क्य, अवस्थाविशेषे तत्प्रदर्शनान्मैवमित्याह -

यदेति ।

ननु ज्ञानवतः क्रियाकारकफलाभावदर्शिनः कर्मपरित्यागध्रौव्यात् कर्माभाववचनमप्राप्तप्रतिषेधः स्यात् , इत्याशङ्क्याह -

आत्मन इति ।

लोकसङ्ग्रहादि निमित्तं प्रागेवोक्तम् । अविद्यावस्थायामिवेति पूर्ववदित्युक्तम् । एवं वृत्तमनूद्योत्तरश्लोकमवतारयति -

यस्येति ।

अर्पणशब्दस्य करणविषयत्वं दर्शयन्नर्पणं ब्रह्मेति पदद्वयपक्षे सामानाधिकरण्यं साधयति -

येनेति ।

यद्रजतं सा शुक्तिरितिवद् बाधायामिदं सामानाधिकरण्यमित्याह -

तस्येति ।

तत्र दृष्टान्तमाह -

यथेति ।

उक्तेऽर्थे पदद्वयमवतारयति -

तद्वदुच्यत इति ।

उक्तमेवार्थं स्पष्टयति -

यथा यदिति ।

समासशङ्कां व्यावर्तयति -

ब्रह्मेति ।

पदद्वयपक्षे विवक्षितमर्थं कथयति -

यदर्पणेति ।

ब्रह्म हविरिति पदद्वयमवतार्य व्याचष्टे -

ब्रह्मेत्यादिना ।

यदर्पणबुद्ध्या गृह्यते तद्ब्रह्मविदो ब्रह्मैवेति यथोक्तं, तथेहापीत्याह -

तथेति ।

अस्येति षष्ठी ब्रह्मविदमधिकरोति ।

पूर्ववदसमासमाशङ्क्य व्यावर्तयन् पदान्तरमवतार्य व्याकरोति -

तथेति ।

प्रागुक्तासमासवदिति व्यतिरेकः ।

तत्र विवक्षितमर्थमाह -

अग्निरपीति ।

ब्रह्मणेति पदस्याभिमतमर्थमाह -

ब्रह्मणेति ।

कर्त्रा हूयत इति सम्बन्धः ।

कर्ता ब्रह्मणः सकाशाद् व्यतिरिक्तो नास्तीत्येतदभिमतम् , इत्याह -

ब्रह्मैवेति ।

हुतमित्यस्य विवक्षितमर्थमाह -

यत्तेनेति ।

ब्रह्मैव तेनेत्यादि भागं विभजते -

ब्रह्मैवेत्यादिना ।

‘ब्रह्म कर्म’ इत्याद्यवतार्य व्याकरोति -

ब्रह्मेति ।

कर्मत्वं ब्रह्मणो ज्ञेयत्वात् प्राप्यत्वाच्च प्रतिपत्तव्यम् ।

एवं ब्रह्मार्पणमन्त्रस्याक्षरार्थमुक्त्वा तात्पर्यार्थमाह -

एवमिति ।

निवृत्तकर्माणं संन्यासिनं प्रति कथमस्य मन्त्रस्य प्रवृत्तिः ? इत्याशङ्क्याह -

निवृत्तेति ।

यथा बाह्ययज्ञानुष्ठानासमर्थस्याज्ञस्य सङ्कल्पात्मकयज्ञो दृष्टः, तथा ज्ञानस्य यज्ञत्वसम्पादनं स्तुत्यर्थं सुतरामुपपद्यते, तेन स्तुतिलाभात् कल्पनायाः स्वाधीनत्वाच्चेत्यर्थः ।

ज्ञानस्य यज्ञत्वसम्पादनमभिनयति  -

यदर्पणादीति ।

केन प्रमाणेनात्र यज्ञत्वसम्पादनमवगतम् ? इत्याशङ्क्य, अर्पणादीनां विशेषतो ब्रह्मत्वाभिधानानुपपत्त्या, इत्वाह -

अन्यथेति ।

ज्ञानस्य यज्ञत्वे सम्पादिते फलितमाह -

तस्मादिति ।

‘आत्मैवेदं सर्वम्’ (छा. उ. ७-२५-२) इत्यात्मव्यतिरेकेण सर्वस्यावस्तुत्व प्रतिपाद्यमानस्य कर्माभावे हेत्वन्तरमाह -

कारकेति ।

कारकबुद्धेस्तेष्वभिमानस्याभावेऽपि किमिति कर्म न स्याद् ? इत्याशङ्क्याह -

नहीति ।

उक्तमेवान्वयव्यतिरेकाभ्यां द्राढयति -

सर्वमेवेति ।

‘इन्द्राय’ इत्यादिना शब्देन समर्पितो देवताविशेषः सम्प्रदानं  कारकम् , आदि शब्दाद् व्रीह्यादिकरणकारकं तद्विषयबुद्धिमत् , कर्ताऽ स्मीत्यभिमानपूर्वकं भोक्ष्ये फलमस्येति फलभिसन्धिमच्च कर्म दृष्टमिति योजना ।

अन्वयमुक्त्वा व्यतिरेकमाह -

नेत्यादिना ।

उपमृदिता क्रियादिभेदविषया बुद्धिर्यस्य तत्कर्म । तथा कर्तृत्वाभिमानपूर्वको भोक्ष्ये फलमस्येति योऽभिसन्धिस्तेन रहितं च न कर्म दृष्टमित्यन्वयः ।

तथाऽपि  ब्रह्मविदो भासमानकर्माभावे किमायातम् ? इत्याशङ्क्याह -

इदमिति ।

यदिदं ब्रह्मविदो दृश्यमानम् कर्म, तदहमस्मि ब्रह्मेति बुद्ध्या निराकृतकारकादिभेदविषयबुद्धिमत् । अतश्च कर्मैव न भवति । तत्त्वज्ञाने सति व्यापकं कारकादि, व्यावर्तमानं व्याप्यं कर्मापि व्यावर्तयति । तत्त्वविदः शरीरादिचेष्टा, कर्माभावः कर्मव्यापकरहितत्वात् सुषुप्तचेष्टावदित्यर्थः ।

ज्ञानवतो दृश्यमानं कर्म अकर्मैवेत्यत्र भगवदनुमतिमाह -

तथाचेति ।

ब्रह्मविदो दृष्टं कर्म नास्तीत्युक्तेऽपि तत्कारणानुपमर्दात् पुनर्भविष्यति इत्याशङ्क्याह -

तथाच दर्शयन्निति ।

अविद्वानिव विद्वानपि कर्मणि प्रवर्तमानो दृश्यते । तथाऽपि तस्य कर्म अकर्मैव इत्यत्र दृष्टान्तमाह -

दृष्टा चेति ।

विद्वत्कर्मापि कर्मत्वाविशेषादितरकर्मवत् फलारम्भकमित्यपि शङ्का न युक्तेत्याह -

तथेति ।

इदं कर्म एवं कर्तव्यम् , अस्य च फलं भोक्तव्यमितिमतिः, तत्पूर्वकाणि अतत्पूर्वकाणि च कर्माणि । तेषामवान्तरभेदसङ्ग्रसन्ग्रहार्थमादिपदम् । दार्ष्टान्तिकमाह -

तथेति ।

सप्तम्या विद्वत्प्रकरणं परामृष्टम् । षष्ठ्यौ समानाधिकरणे । उक्तेऽर्थे पूर्ववाक्यमनुकूलयति -

अत इति ।

ब्रह्मार्पणमन्त्रस्य स्वव्याख्यानमुक्त्वा, स्वयूथ्यव्याख्यानमनुवदति -

अत्रेति ।

प्रसिद्धोद्देशेनाप्रसिद्धविधानस्य न्याय्यत्वादप्रसिद्धोद्देशेन प्रसिद्धविधानं कथम् ? इत्याशङ्क्याह -

ब्रह्मैवेति ।

किलेत्यस्मिन् व्याख्याने सिद्धान्तिनोऽसम्प्रतिपत्तिं सूचयति । कर्तृकर्मकरणसम्प्रदानाधिकरणरूपेण पञ्चविेधेन ब्रह्मैव व्यवस्थितं कर्म करोतीत्यङ्गीकारात् तदप्रसिद्ध्यभावात् तदनुवादेनार्पणादिष्वविरुद्धः तद्दृष्टिविधिरित्यर्थः ।

दृष्टिविधिपक्षे सिद्धान्ताद्विशेषं दर्शयति -

तत्रेति ।

अर्पणादिषु कर्तव्यां ब्रह्मबुद्धिं दृष्टान्ताभ्यां स्पष्टयति -

यथेत्यादिना ।

दृष्टिविधाने विधेयदृष्टेर्मानसक्रियात्वेन सम्यग्ज्ञानत्वाभावात् प्रकरणभङ्गः स्यात् , इत्यभिप्रेत्य परिहरति -

सत्यमेवमिति ।

विधित्सितदृष्टिस्तुतिपरमेव प्रकरणं, न ज्ञानस्तुतिपरम् , इत्याशङ्क्य, प्रकरणपर्यालोचनया ज्ञानस्तुतिरेवात्र प्रतिभातीति प्रतिपादयति -

अत्र त्विति ।

किञ्च ब्रह्मार्पणमन्त्रस्यापि सम्यग्ज्ञानस्तुतौ सामर्थ्यं प्रतिभतीत्याह -

अत्र चेति ।

ननु अर्पणादिषु ब्रह्मदृष्टिं कुर्वतामपि ब्रह्मविद्यैवात्र विवक्षितेति पक्षभेदासिद्धिरिति चेत् , तत्राह -

ये त्विति ।

यथा ब्रह्मदृष्ट्या नामादिकमुपास्यं, तथाऽर्पणादिषु ब्रह्मदृष्टिकरणे सति अर्पणादिकमेव प्राधान्येन ज्ञेयमिति, ब्रह्मविद्या यथोक्तेन वाक्येन विवक्षिता न स्यादित्यर्थः ।

किञ्च ‘ब्रह्मैव तेन गन्तव्यम् ‘इति ब्रह्मप्राप्तिफलाभिधानादपि दृष्टिविधानमश्लिष्टमित्याह -

नचेति ।

 नचार्पणाद्यालम्बना दृष्टिर्ब्रह्म प्रापयति, ‘अप्रतीकालम्बनान् नयति’ (ब्र. सू. ४-३-१५) इति न्यायविरोधादितिभावः ।

दृष्टिविधानेऽपि नियोगबलादेन स्वर्गवददृष्टो मोक्षो भविष्यति, इत्याशङ्क्याह -

विरुद्धं चेति ।

ज्ञानादेव कैवल्यमुक्त्वा मार्गान्तरापवादिन्या श्रुत्या विरुद्धं मोक्षस्याविद्यानिवृत्तिलक्षणस्य दृष्टस्य नैयोगिकत्ववचनमित्यर्थः ।

दृष्टिनियोगान्मोक्षो भवतीत्येतत् प्रकरणविरुद्धं च इत्याह-

प्रकृतेति ।

तदेव प्रपञ्चयति -

सम्यग्दर्शनं चेति ।

अन्ते च सम्यग्दर्शनं प्रकृतमिति सम्बन्धः । तत्र हेतुः -

तस्यैवेति ।

सम्यग्ज्ञानेनोपक्रम्य तेनैवोपसंहारेऽपि मध्ये किञ्चिदन्यदुक्तमिति प्रकरणस्यातद्विषयत्वम् , इत्याशङ्क्याह -

श्रेयानिति ।

प्रकरणे सम्यग्ज्ञानविषये सति अनुपपन्नो दर्शनविधिरिति फलितमाह -

तत्रेति ।

ब्रह्मार्पणमन्त्रे परकीयव्याख्यानासम्भवे स्वकीयव्याख्यानं व्यवस्थितम् , इत्युपसंहरति -

तस्मादिति

॥ २४ ॥

‘नाभुक्तं क्षीयते कर्म’ (ब्रह्मवैवर्तपुराणे ? ) इति स्मृतिमाश्रित्य शङ्कते -

कस्मादिति ।

समस्तस्य - क्रियाकारकफलात्मकस्य द्वैतस्य ब्रह्ममात्रत्वेन बाधितत्वाद् ब्रह्मविदो ब्रह्ममात्रस्य कर्म प्रविलीयते सर्वम् , इति युक्तमित्याह-

उच्यत इति ।

ब्रह्मविदो ब्रह्मैव सर्वक्रियाकारकफलजातं द्वैतमित्यत्र हेतुत्वेनानन्तरश्लोकमवतारयति -

यत इति ।

सर्वस्य श्रेयःसाधनस्य मुख्यगौणवृत्तिभ्यां यज्ञत्वं दर्शयन्नादौ यज्ञद्वयमादर्शयति -

दैवमेवेत्यादिना ।

प्रतीकमादाय दैवयज्ञं व्याचष्टे -

देवा इति ।

सम्यग्ज्ञानाख्यं यज्ञं विभजते -

ब्रह्माग्नाविति ।

तत्र ब्रह्मशब्दार्थं श्रृत्यवष्टम्भेन स्पष्टयति -

सत्यमिति ।

यदजडम् अनृतविपरीतम् अपरिच्छिन्नं ब्रह्म, तस्य परमानन्दत्वेन परमपुरुषार्थत्वमाह -

विज्ञानमिति ।

तस्य ज्ञानाधिकरणत्वेन ज्ञानत्वमौपचारिकम् , इत्याशङ्क्याह -

यत्साक्षादिति ।

जीवब्रह्मविभागे कथमपरिच्छिन्नत्वम् ? इत्याशङ्क्य विशिनष्टि -

य आत्मेति ।

परस्यैवात्मत्वं सर्वस्माद् देहादेरव्याकृतान्तात् आन्तरत्वेन साधयति -

सर्वान्तर इति ।

विधिमुखं सर्वमेवोपनिषद्वाक्यं ब्रह्मविषयमादिशब्दार्थः ।

निषेधमुखं ब्रह्मविषयमुपनिषद्वाक्यमशेषमेवार्थतो निबध्नाति -

अशनायेति ।

ब्रह्मण्यग्निशब्दप्रयोगे निमित्तमाह -

स होमेति ।

बुद्ध्यारूढतया सर्वस्य दाहकत्वात् विलयस्य वा हेतुत्वादिति द्रष्टव्यम् ।

यज्ञशब्दस्यात्मनि त्वम्पदार्थे प्रयोगे हेतुमाह -

आत्मनामस्विति ।

आधाराधेयभावेन वास्तवभेदं ब्रह्मात्मनोर्व्यावर्तयतिं -

परमार्थत इति ।

कथं तर्हि होमः ? नहि तस्यैव तत्र होमः सम्भवति, इत्याशङ्क्याह -

बुद्ध्यादीति ।

उपाधिसम्योगफलं कथयति -

अध्यस्तेति ।

उपाध्यध्यासद्वारा तद्धर्माध्यासे प्राप्तमर्थं निर्दिशति -

आहुतीति ।

इत्थम्भूतलक्षणां तृतीयामेव व्याकरोति -

उक्तेति ।

अशनायादिसर्वसंसारधर्मवर्जितेन निर्विशेषेण स्वरूपेणेति यावत् ।

आत्मनो ब्रह्मणि होममेव प्रकटयति -

सोपाधिकस्येति ।

अपर इत्यस्यार्थं स्फोरयति -

ब्रह्मेति ।

उक्तस्य ज्ञानयज्ञस्य दैवयज्ञादिषु ‘ब्रह्मार्पणम्’ इत्यादिश्लोकैरूपक्षिप्यमाणत्वं दर्शयति -

सोऽयमिति ।

उपक्षेपप्रयोजनमाह -

श्रेयानिति

॥ २५ ॥

ज्ञानस्य यज्ञत्वं सम्पाद्य पूर्वश्लोके स्थिते सति, अधुना तस्यैव ज्ञानस्य स्तुत्यर्थं यज्ञान्तरनिर्देशार्थमुत्तरग्रन्थप्रवृत्तिः, इत्याह -

तत्रेति ।

सम्प्रति यज्ञद्वयमुपन्यस्यति -

श्रोत्रादीनीति ।

बाह्यानां करणानां मनसि संयमस्यैकत्वात् कथं संयमाग्निष्विति बहुवचनम् ? इत्याशङ्क्याह -

प्रतीन्द्रियमिति ।

सम्यमानां प्रत्याहाराधिकरणत्वेन व्यवस्थितानां मनोरूपाणां होमाधारत्वादग्नित्वं व्यपदिशति -

संयमा इति ।

विषयेभ्योऽन्तर्बाह्यानीन्द्रियाणि प्रत्याहरन्तीति सम्यमयज्ञं सन्क्षिप्य दर्शयति -

इन्द्रियेति ।

श्रोत्रादीन्द्रियाग्निषु शब्दादिविषयहोमस्य तत्तदिन्द्रियैस्तत्तद्विषयोपभोगलक्षणस्य सर्वसाधारणत्वमाशङ्क्य, प्रतिषिद्धान् वर्जयित्वा रागद्वेषरहितो भूत्वा प्राप्तान् विषयानुपभुञ्जते तैस्तैरिन्द्रियैः इति विवक्षितं होमं विशदयति-

श्रोत्रादिभिरिति

॥ २६ ॥

इन्द्रियाणां कर्माणि -श्रवणवदनादीनि, आत्मनि संयमो धारणाध्यानसमाधिलक्षणः । सर्वमपि व्यापारं निरुध्य आत्मनि चित्तसमाधानं कुर्वन्ति, इत्याह -

विवेकेति

॥ २७ ॥

यज्ञान्तरं कथयति -

किञ्चेति ।

यज्ञषट्कमवतारयति -

द्रव्येति ।

तत्र द्रव्ययज्ञान् पुरुषानुपादाय विभजते -

तीर्थेष्विति ।

तपस्विनां यज्ञबुद्ध्या तपोऽनुतिष्ठन्तो नियमवन्त इत्यर्थः । प्रत्याहारादीत्यादिशब्देन यमनियमासनध्यानधारणासमाधयो गृह्यन्ते । यथाविधि प्रामुखत्वपवित्रपाणित्वाद्यङ्गविधिमनतिक्रम्येति यावत् । व्रतानां तीक्ष्णीकरणमतिदृढत्वम् ॥ २८ ॥

प्राणायामपरायणाः सन्तो रेचकं पूरकं च कृत्वा कुम्भकं कुर्वन्तीत्याह -

प्राणेति

॥ २९ ॥

प्राणायामाख्यं यज्ञमुदाहरति -

किञ्चेति ।

प्राणानां प्राणेषु होममेव विभजते -

यस्येति ।

जितेषु वायुभेदेष्वजितानां तेषां होमप्रकारं प्रकटयति -

ते तत्रेति ।

प्रकृतान् यज्ञानुपसंहरति -

सर्वेऽपीति

॥ ३० ॥

प्राणापानयोर्गती - श्वासप्रश्वासौ निरुध्य किं कुर्वन्ति ? इत्यपेक्षायामाह -

किञ्चेति ।

प्राणापानगतिनिरोधरूपं कुम्भकं कृत्वा पुनःपुनर्वायुजयं कुर्वन्तीत्यर्थः । आहारस्य परिमितत्वं हितत्वमेध्यत्वोपलक्षणार्थम् ।

यथोक्तानां यज्ञानां मध्ये केनचिदपि यज्ञेन अविशेषितस्य पुरुषस्य प्रत्यवायं दर्शयति -

नायमिति ।

कथं यथोक्तयज्ञानुष्ठायिनाम् अवशिष्टेन कालेन विहितान्नभुजां ब्रह्मप्राप्तिः ? इत्याशङ्क्य, मुमुक्षुत्वे सति चित्तशुद्धिद्वारा, इत्याह - मुमुक्षवश्चेदिति । तत्किमिदानीं साक्षादेव मोक्षो विविक्षितः ? तथाच गतिश्रुतिविरोधः स्याद् , इत्याशङ्क्य, गतिनिर्देशसामर्थ्यात् क्रममुक्तिः अत्राभिप्रेता, इत्याह -

कालातीति ।

तृतीयं पादं व्याचष्टे -

नायमिति ।

विवक्षितं कैमुतिकन्यायमाह - कुत इति । साधारणलोकाभावे पुनरसाधारणलोकप्राप्तिः दूरनिरस्ता इत्यर्थः । यथोक्तेऽर्थे बुद्धिसमाधानं कुरुकुलप्रधानस्य अर्जुनस्य अनायासलभ्यमिति वक्तुं कुरुसत्तम इत्युक्तम् ॥ ३१ ॥

यथोक्तयज्ञनिर्वर्तनानन्तरं क्षीणे कल्मषे किं स्यात् ? इत्याशङ्क्य आह -

एवमिति ।

उक्तानां यज्ञानां वेदमूलकत्वेन उत्प्रेक्षानिबन्धनत्वं निरस्यति -

एवमिति ।

आत्मव्यापारसाध्यत्वम् उक्तकर्मणामाशङ्क्य, दूषयति -

कर्मजानिति ।

आत्मनो निर्व्यापारत्वज्ञाने फलमाह-

एवमिति ।

कथं यथोक्तानां यज्ञानां वेदस्य मुखे विस्तीर्णत्वम् ? इत्याशङ्क्य आह -

वेदद्वारेणेति ।

तेन अवगम्यमानत्वमेव उदाहरति - तद्यथेति । ‘एतद्ध स्म वै तत्पूर्वे विद्वांस आहुः’ (बृ. उ. ४-४-२२) इत्युपक्रम्य अध्ययनाद्याक्षिप्य, हेत्वाकाङ्क्षायामुक्तं -

वाचि हीति ।

ज्ञानशक्तिमद्विषये क्रियाशक्तिमदुपंसहारः अत्र विवक्षितः, ‘प्राणे वा वाचं यो ह्येव प्रभवः स एवाप्ययः’ (एे. आ. ३-२-६) इति वाक्यम् आदिशब्दार्थः ।

ज्ञानशक्तिमतां क्रियाशक्तिमतां च अन्योन्योत्पत्तिप्रलयत्वात् तदभावे नाध्ययनादिसिद्धिः इत्यर्थः कर्मणाम् आत्मजन्यत्वाभावे हेतुमाह -

निर्व्यापारोहीति ।

तस्य च निर्व्यापारत्वं फलवत्त्वात् ज्ञातव्यम् , इत्याह -

अत इति ।

एवं ज्ञानमेव ज्ञापयन् उक्तं व्यनक्ति -

नेत्यादिना

॥ ३२ ॥

ज्ञानयज्ञस्य द्रव्यज्ञात् प्रशस्यतरत्वे हेतुमाह -

सर्वमिति ।

द्रव्यसाधनसाध्याद् इत्युपलक्षणं स्वाध्यायादेरपि । ततोऽपि ज्ञानयज्ञस्य श्रेयस्त्वाविशेषात् , द्रव्यमयादियज्ञेभ्यो ज्ञानयज्ञस्य प्रशस्यतरत्वं प्रपञ्चयति -

द्रव्यमयो हिति ।

फलस्य -अभ्युदयस्येत्यर्थः । न फलारम्भकः -न कस्यचित्फलस्योत्पादकः । किन्तु नित्यसिद्धस्य मोक्षस्याभिव्यञ्जक इत्यर्थः ।

तस्य प्रशस्यतरत्वे हेत्वन्तरमाह -

यत इति ।

सपस्तं कर्मेति अग्निहोत्रादिकमुच्यते । अखिलम् - अविद्यमानं खिलं - शेषः अस्येति, अनल्पम् । महत्तरमिति यावत् ।

सर्वम् अखिलम् - इति पदद्वयोपादानमसङ्कोचार्थम् । सर्वं कर्म ज्ञानेऽन्तर्भवति इत्यत्र छान्दोग्यश्रुतिं प्रमाणयति -

 यथेति ।

चतुरायके हि द्यूते कश्चिदायः चतुरङ्कस्सन् कृतशब्देनोच्यते - तस्मै विजिताय कृताय तादर्थ्येन अधरेयाः तस्मात् अधस्ताद्भाविनः त्रिद्व्येकाङ्काः त्रेताद्वापरकलिनामानः, संयन्ति - आयाः सङ्गच्छन्ते । चतुरङ्के खलु आये त्रिद् व्यकाङ्कानामायानाम् अन्तर्मावो भवति । महासंख्यायामवान्तरसङ्ख्यान्तर्भावावश्यम्भावात् । एवम् एनं विद्यावन्तं पुरुषं, सर्वं तदाभिमुख्येन समेति - सङ्गच्छते । किं तत्सर्वं ? यद्विदुषि पुरुषेऽन्तर्भवति, तदाह -

यत्किञ्चिदिति ।

प्रजाः सर्वाः यत्किंचिदपि साधु कर्म कुर्वन्ति, तत्सर्वमित्यर्थः ।

एनमभिसमेतीत्युक्तं, तमेव विद्यावन्तं पुरुषं विशिनष्टि -

यस्तदिति ।

किं तदित्युक्तं, तदेव विशदयति -यत्स इति । स रैक्को यत् तत्त्वं वेद, तत् तत्त्वं योऽन्योऽपि जानाति, तमेनं सर्वं साधु कर्म अभिसमेतीति योजना ॥ ३३ ॥

कर्मयोगेऽनेकधा अभिहिते, सर्वस्व श्रेयःसाधनस्य कर्मात्मकत्वप्रतिपत्त्या केवलं ज्ञानम् अनाद्रियमाणम् अर्जुनमालक्ष्य, वृत्तानुवादपूर्वकम् उत्तरश्लोकस्य तात्पर्यमाह -

ब्रह्मेत्यादिना ।

सिद्धेति ।

सिद्धं पुरुषार्थभूतम्पुरुषापेक्षित लक्षणं प्रयोजनं येषां यज्ञानां, तैः । अनन्तरोपदिष्टैरिति यावत् ।

प्रश्नपूर्वकं स्तुतिप्रकारं प्रकटयति -

कथमित्यादिना ।

तद्विज्ञानं गुरुभ्यो विद्धि, गुरवश्व प्रणिपातादिभिरुपायैः आवर्जितचेतसोवदिष्यन्ति, इत्याह -

तद्विद्धीति ।

उपदेष्टृत्वम् - उपदेशकर्तुत्वम् । परोक्षज्ञानमात्रेण न भवति, इत्याह -

उपदेक्ष्यन्तीति ।

तदिति प्रेप्सितं ज्ञानसाधनं गृह्यते । येन विधिना इति शेषदर्शनात् । यद्वा, येन आचार्यावर्जनप्रकारेण तदुपदेशवशात् अपेक्षितं ज्ञानं लभ्यते, तथा तज्ज्ञानमाचार्येभ्यो लभस्व इत्यर्थः ।

तदेव स्फुटयति -

आचार्या इति ।

एवमादिना इति आदिशब्देन शमादयो गृह्यन्ते, एवमादिना विद्धीति पूर्वेण सम्बन्धः ।

उत्तरार्धं व्याचष्टे-

प्रश्रयेणेति ।

प्रश्रयः - भक्तिश्रद्धापूर्वको निरतिशयो नातिविशेषः । यथोक्तविशेषणं पूर्वोक्तेन प्रकारेण प्रशस्यतममित्यर्थः ।

विशेषणस्य पौनरुक्त्यपरिहारार्थम् अर्थभेदं कथयति -

ज्ञानवन्तोऽपीति ।

ज्ञनिन इत्युक्त्वा पुनस्तत्त्वदर्शिन इति ब्रुवतो भगवतोऽभिप्रायमाह -

ये सम्यगिति ।

बहुवचनं चैतत् आचार्यविषयं, बहुभ्यः श्रोतव्यं बहुधा चेतिसामान्यान्यायाभ्यनुज्ञानार्थम् । न त्वात्मज्ञानमधिकृत्य आचार्यवहुत्वं विवक्षितम् । तस्य तत्त्वसाक्षात्कारवदाचार्यमात्रोपदेशादेव उदयसम्भवात् ॥ ३४ ॥

यद्येवं प्रशस्यतरमिदं ज्ञानं, तर्हि केनोपायेन तत्प्राप्तिः, इति पृच्छति -

तदेतदिति ।

ज्ञानप्राप्तौ प्रत्यासन्नमुपायम् उपदिशति -

उच्यत इति ।

तत्र निष्ठाप्रतिष्ठायै तदेव ज्ञानं पुनर्विशिनष्टि -

येनेति ।

‘यज्ज्ञात्वा’ इत्ययुक्तं, ज्ञाने ज्ञानायोगात् , इत्याशङ्क्य, प्राप्त्यर्थत्वमधिपूर्वस्य गमेरङ्गीकृत्य व्याकरोति -

अधिगम्येति ।

इतश्च आचार्योपदेशलभ्ये ज्ञाने फलवति प्रतिष्ठावता भवितव्यम् , इत्याह -

किञ्चेति ।

जीवे चेश्वरे चोभयत्र भूतानां प्रतिष्ठितत्वप्रतिनिर्देशे मेदवादानुमतिः स्याद् ? इत्याशङ्क्याह -

क्षेत्रज्ञेति ।

मूलप्रमाणाभावे कथं तदेत्वदर्शनं स्याद् ? इत्याशङ्क्य आह -

सर्वेति

॥ ३५ ॥

विशिष्टैराचार्यैः उपदिष्टे ज्ञाने कार्यक्षमे प्राप्ते सति, समनन्तरवचनमपि योग्यविषयम् अर्थवद्भवति इत्याह -

तथाचेति ।

अतः, तस्मिन्विशिष्टे ज्ञाने कार्यक्षमे त्वदीयमोहापोहहेतौ निष्ठावता भवितव्यम् , इति शेषः ।

पापकारिभ्यः सर्वेभ्यः सकाशात् अतिशयेन पापकारित्वम् एकस्मिन् असम्भावितमपि ज्ञानमाहात्म्यप्रसिद्यर्थमङ्गीकृत्य, ब्रवीति -

अपिचेदिति ।

ब्रह्मात्मैक्यज्ञानस्य सर्वपापनिवर्तकत्वेन माहात्म्यम् इदानीं प्रकटयति -

सर्वमिति ।

अधर्मे निवृत्तेऽपि धर्मप्रतिबन्धात् ज्ञानवतोऽपि न मोक्षः सम्भवति इत्याशङ्क्य आह –

धर्मोऽपीति ।

इहेति अध्यात्मशास्त्रं गृह्यते ॥ ३६ ॥

ज्ञानस्य प्रकारान्तरेण प्रशम्सां प्रस्तौति -

किञ्चेति ।

योग्यायोग्यविभागेन निवर्तकत्वानिवर्तकत्वविभागमुदाहरति -

यथेति ।

दृष्टान्तानुरूपं दार्ष्टान्तिकमाचष्टे -

ज्ञानाग्निरिति ।

योग्यविषयेऽपि दाहकत्वम् अग्नेः अप्रतिबन्धापेक्षया, इति विवक्षित्वा विशिनष्टि -

सम्यक् इति ।

दार्ष्टन्तिकं व्याचष्टे -

ज्ञानमेवेति ।

ननु ज्ञानं साक्षादेव कर्मदाहकं किमिति नोच्यते, नीर्बीजीकरोति कर्म इति किमिति व्याख्यानम् ? इत्याशङ्क्य, आह -

नहीति ।

ज्ञानस्य स्वप्रमेयावरणाज्ञानापाकरणे सामर्थ्यस्य लोके दृष्टत्वात् अविक्रियब्रह्मात्मज्ञानमपि तदज्ञानं निवर्तयत् तज्जन्यकर्तृत्वभ्रमं कर्मबीजभूतं निवर्तयति । तन्निवृत्तौ च कर्माणि न स्थातुं पारयन्ति । नतु साक्षात्कर्मणां निवर्तकम् । ज्ञनमज्ञानस्यैव निवर्तकमिति व्याप्तेः तदनिवृत्तौ तु पुनरपि कर्मोद्भवसम्भवात् इत्यर्थंः ।

ज्ञानस्य साक्षात्कर्मनिवर्तकत्वाभावे फलितमाह -

तस्मादिति ।

सम्यग्ज्ञानं मूलभूताज्ञाननिवर्तनेन कर्मनिवर्तकम् इष्टं चेत् , आरब्वफलस्यापि कर्मणो निवृत्तिप्रसङ्गात् ज्ञानोदयसमकालमेव शरीरपातः स्यात् इत्याशङ्क्य, आह -

सामर्थ्यादिति ।

ज्ञानोदयसमसमयमेव देहापोहे तत्त्वदर्शिभिः उपदिष्टं ज्ञानं फलवत् इति भगवदभिप्रायस्य बाधितत्वप्रसङ्गात् आचार्यलाभान्याथानुपपत्त्या प्रवृत्तफलकर्मसम्पादकमज्ञानलेशं न नाशयति ज्ञानमित्यर्थः ।

कथं तर्हि प्रारब्धफलं कर्म नश्यति ? इत्याशङ्क्य, आह -

येनेति ।

तर्हि कथं ज्ञानाग्निः सर्वकर्माणि भस्मसात् करोतीत्युक्तम् ? तत्राह -

अत इति ।

ज्ञानादारब्धफलानां कर्मणां निवृत्त्यनुपपत्तेः अनारब्धफलानि यानि कर्माणि पूर्वं ज्ञानोदयात् अस्मिन्नेव जन्मनि कृतानि ज्ञानेन च सह वर्तमानानि, प्रचीनेषु चानेकेषु जन्मसु अर्जितानि, तानि सर्वाणि ज्ञानं कारणनिवर्तनेन निवर्तयतीत्यर्थः ॥ ३७ ॥

ज्ञाने सत्यपि धर्माधर्मयोरुपलम्भात् कुतस्ततो निवृत्तिः ? इत्याशङ्क्य, ज्ञानस्य धर्माधर्मनिवर्तकत्वं दृष्टान्तेन दर्शयितुम् अनन्तरश्लोकमवतारयति -

ज्ञानमिति ।

तत्पुनरात्मविषयं ज्ञानं सर्वेषां किमिति झटिति नोत्पद्यते ? तत्राह -

तत्स्वयमिति ।

महता कालेन यथोक्तेन साधनेन योग्यतामापन्नः तदधिकृतः स्वयं तत् आत्मनि ज्ञानं विन्दतीति योजना । सर्वेषां झटिति ज्ञानानुदयो योग्यतावैधुर्यादिति भावः ॥ ३८ ॥

ननु अन्येनैव परिशुद्धिकरेण केनचिदश्वमेधादिना परमपुरुषार्थसिद्धेः अलम् आत्मज्ञानेन, इत्याशङ्क्य, आह -

यत इति ।

पृर्वोक्तेन प्रकारेण ज्ञानमाहात्म्यं यतः सिद्धम् , अतः तेन ज्ञानेन तुल्यं परिशुद्धिकरं परमपुरुषार्थौपयिकम् , इह - व्यवहारभूमौ, नास्तीत्यर्थः ।

ज्ञानलाभप्रयोजनमाह -

ज्ञानमिति ।

न केवलं श्रद्धालुत्वमेवासहायं ज्ञानलाभे हेतुः, अपि तु तात्पर्यमपि, इत्याह -

श्रद्धालुत्वेऽपीति ।

मन्दप्रस्थानत्वं - तात्पर्यविधुरत्वम् । नच तस्योपदिष्टमपि ज्ञानमुत्पत्तुमीष्टे । तेन तात्पर्यमपि तत्र कारणं भवति इत्याह -

अत आहेति ।

अभियुक्तः - निष्ठावान् । उपासनादौ - इत्यादिशब्देन श्रवणादि गृह्यते । नच श्रद्धा तात्पर्यं च इत्युभयमेव ज्ञानकारणं, किन्तु संयतेन्द्रियत्वमपि । तदभावे श्रद्धादेः अकिञ्चित्करत्वात् इत्याशयेनाह -

श्रद्धावानिति ।

उक्तसाधनानां ज्ञानेन सह ऐकान्तिकत्वमाह -

य एवंभूत इति ।

‘तद्विद्धि प्रणिपातेन’ (भ. गी. ४-३४) इत्यादौ प्रागेव प्रणिपातादेर्ज्ञानहेतोरुक्तत्वात् किमितीदानीं हेत्वन्तरमुच्यते ? तत्राह -

प्रणिपातादिस्त्विति ।

तद्धि बहिरङ्गम् , इदं पुनरन्तरङ्गं, न च तत्र ज्ञाने प्रतिनियमः, मनसि अन्यथा कृत्वा बहिः अन्यथाप्रदर्शनात्मनो मायावित्वस्य सम्भवात् । विप्रलम्भकत्वादेरपि सम्भावनोपनीतत्वात् इत्यर्थः ।

मायावित्वादेः श्रद्धावत्त्वतात्पर्यादावपि सम्भवात् अनैकान्तिकत्वमविशिष्टम् , इत्याशङ्क्य, आह -

नत्विति ।

नहि मायया विप्रलम्भेन वा श्रद्धातात्पर्यसंयमाभियोगतोऽनुष्टातुमर्हन्ति इत्यर्थः ।

उत्तरार्धं प्रश्नपूर्वकम् अवतार्य व्याकरोति -

किम्पुनरित्यादिना ।

सम्यग्ज्ञानात् अभ्यासादिसाघनानपेक्षात् मेक्षो भवति इत्यत्र प्रमाणमाह -

सम्यग्दर्शनादिति ।

शास्त्रशब्देन तमेव विदित्वा (श्वे.उ. ३ - ८), ‘ज्ञानादेव तु कैवल्यम्’ इत्यादि विवक्षितम् । न्यायस्तु ज्ञानादज्ञाननिवृत्तेः रज्ज्वादौ प्रसिद्धत्वात् आप्तज्ञानादपि निरपेक्षात् अज्ञानतत्कार्यप्रक्षयलक्षणो मोक्षः स्यात् , इत्येवं लक्षणः ॥ ३९ ॥

कर्मयोगेन समाधियोगेन च सम्पन्नस्य ज्ञानोत्पत्तौ अन्तरङ्गं साधनमुपदिशति -

येनेति ।

अज्ञात् अश्रद्दधानाच्च संशयचित्तस्य विशेषमादर्शयति -

नायमिति ।

द्वितीयविभागविभजनार्थं भूमिकां करोति -

अज्ञेति ।

अज्ञादीनां मध्ये संशयात्मानः यत् पापिष्ठत्वं, तत् प्रश्नद्वारा प्रकटयति -

कथमिति ।

लोकद्वयस्य तत्प्रयुक्तसुखस्य च अभावे हेतुमाह -

तत्रापीति ।

संशयचित्तस्य सर्वत्र संशयप्रवृत्तेर्दुर्निवारत्वादित्यर्थः ।

संशयस्यानर्थमूलत्वे स्थिते फलितमाह -

तस्मादिति

॥ ४० ॥

उतरश्लोकस्य पातनिकां करोति -

अत्रेति ।

यथोक्तसाधनवान् उपदेशमपेक्ष्य अचिरेण ब्रह्म साक्षात्करोति । साक्षात्कृतब्रह्मत्वे अचिरेणैव मोक्षं प्राप्नोति इत्येषोऽर्थः सप्तम्या परामृश्यते ।

संशयस्याकर्तव्यत्वे हेतुमाह -

पापिष्ठो हीति ।

उक्तं हेतुं प्रश्नपूर्वकमुत्तरश्लोकेन साधयति-

कथमिति ।

श्रुतियुक्तिप्रयुक्तमैक्यज्ञानं तन्निवर्तकं इत्युत्तरमाह -

ज्ञानेति ।

संशयरहितस्यापि कर्माणि अनर्थहेतवो भवन्तीत्याशङ्क्य, आह-

योगेति ।

विषयपरवशस्य पुंसो योगायोगात् कुतो योगसंन्यस्तकर्मत्वम् ? इत्याशङ्क्य, आह -

आत्मवन्तमिति ।

परमार्थदर्शनतः संशयोच्छित्तौ तदुच्छेदकज्ञानमाहात्म्यादेव कर्मणां च निवृत्तौ, अप्रमत्तस्य प्रातिभासिकानि कर्माणि बन्धहेतवो न भवन्ति इत्याह -

न कर्माणीति ।

कर्मयोगादेव कर्मसंन्यासस्यानुपपत्तिम् आशङ्क्य आद्यं पादं विभजते -

परमार्थेति ।

तच्च वैधसंन्यासपक्षे परोक्षम् , फलसंन्यासपक्षे तु अपरोक्षमिति विवेकः ।

यथोक्तज्ञानेन संन्यस्तकर्मत्वमेव, सति संशये न सिध्यति, संशयवतस्तदयोगात् , इति शङ्कते -

कथमिति ।

द्वितीय पादं व्याकुर्वन् परिहरति -

आहेत्यादिना ।

पाठक्रमादर्थक्रमस्य बलीयस्त्वात् आदौ द्वितीयं पादं व्याख्याय पश्चादाद्यं पादं व्याचक्षीत इत्याह -

य एवमिति ।

सर्वमिदं प्रमादवतो विषयपरवशस्य न सिध्यति, इत्यभिसन्धाय, आत्मवन्तं व्याकरोति -

अप्रमत्तमिति ।

‘न कर्माणि’ इत्यादिफलोक्तिं व्याचष्टे -

गुणचेष्टेति ।

‘अनिष्टादि’ इत्यादिशब्देन इष्टं मिश्रं च गृह्यते ॥ ४१ ॥

यद्यपि संशयः सर्वानर्थहेतुत्वात् कर्तव्यो न भवति, तथाऽपि निवर्तकाभावे तदकरणमस्वाधीनमिति शङ्कते -

कस्मादिति ।

श्लोकाक्षराणि व्याचष्टे -

तस्मादित्यादिना ।

पापिष्ठमिति संशयस्य सर्वानर्थमूलत्वेन त्याज्यत्वं सूच्यते । विवेकाग्रहप्रसूतत्वादपि तस्यावहेयत्वम् , अविवेकस्यानर्थकरत्वप्रसिद्धेः, इत्याह -

अविवेकादिति ।

नच तस्य चैतन्यवदात्मनिष्ठत्वात् अत्याज्यत्वं शङ्कितव्यम् , इत्याह -

हृदीति ।

शोकमोहाभ्यामभिभृतस्य पुंसो मनसि प्रादुर्भवतः संशयस्य प्रबलप्रतिबन्धकाभावे नैव प्रध्वंसः सिध्येत् , इत्याशङ्क्याह -

ज्ञानासिनेति ।

स्वाश्रयस्य संशयस्य स्वाश्रयेणैव ज्ञानेन समुच्छेदसम्भवात् किमिति स्वस्येति विशेषणम् ? इत्याशङ्क्य, आह -

आत्मविषयत्वादिति ।

स्थाण्वादिविषयः संशयः, तद्विषयेण ज्ञानेन देवदत्तनिष्ठेन तन्निष्ठः व्यावर्त्यते । प्रकृते तु आत्मविषयः तदाश्रयश्च संशयः तथाविधेन ज्ञानेन अपनीयते । तेन विशेषणमर्थवदित्यर्थः । तदेव प्रपञ्चयति -

न हीति ।

आत्माश्रयत्वस्य प्रकृते संशये सिद्धत्वेनाविवक्षितत्वात् , तद्विषयस्य तद्विषयेणैव तस्य तेन निवृत्तिर्विवक्षिता, इत्युपसंहरति -

अत इति ।

संशयसमुच्छित्त्यनन्तरं कर्तव्यमुपदिशति -

छित्त्वैनमिति ।

अग्निहोत्रादिकं कर्म भगवदाज्ञया क्रमेण करिष्यामि, युद्धात्पुनः उपरिरंस इव, इत्याशङ्क्याह-

उत्तिष्ठेति ।

भरतान्वये महति क्षत्रियवंशे प्रसूतस्य समुपस्थितसमरविमुखत्वमनुचितमिति मन्वानः सन् आह -

भारतेति ।

तत् अनेन योगस्य कृत्रिमत्वं भगवतोऽनीश्वरत्वं च निराकृत्य कर्मादौ अकर्मादिदर्शनाद् आत्मनः सम्यग्ज्ञानात् प्रणिपातादेर्बहिरङ्गात् अन्तरङ्गाच्च श्रद्धादेरुद्भूतात् , अशेषानर्थनिवृत्त्या ब्रह्मभावमभिदधता, सर्वस्मादुत्कृष्टे तस्मिन् असंशयानस्याधिकारादशेषदोषवन्तम् । संशयं हित्वा उत्तमस्य ज्ञाननिष्ठा, अपरस्य कर्मनिष्ठा, इति स्थापितम् ॥ ४२ ॥

इत्यानन्दगिरिकृतगीताभाष्यटीकायां चतुर्थोऽध्यायः ॥ ४ ॥

तस्मादित्यादिसमनन्तरश्लोकगततत्पदापेक्षितमर्थमाह -

यस्मादिति ।

सतां कर्मणामस्मदादिषु फलारम्भकत्वोपलम्भाद् विदुष्यपि तेषां तद्भाव्यमनपवाधम् , इत्याशङ्क्य आह -

ज्ञानाग्नीति ।

ननु सन्दिहानस्य तत्प्रतिबन्धात् न कर्मयोगानुष्ठानं, नापि तद्धेतुकज्ञानं, तत्रापि संशयावतारात् , इत्याशङ्क्य, आह -

यस्माच्चेति ।

प्रष्टुरभिप्रायम् एवं प्रदर्श्य प्रश्नोपपत्तिमुक्त्वा प्रश्नमुत्थापयति -

संन्यासमिति ।

तर्हि द्वयं त्वयानुष्ठेयमित्याशङ्क्य, तदशक्तेरुक्तत्वात् प्रशस्यतरस्यानुष्ठानार्थं तदिदम् इति निश्चित्य वक्तव्यम् , इत्याह -

यच्छ्रेय इति ।

काम्यानां प्रतिषिद्धानां च कर्मणां परित्यागो मयोच्यते, न सर्वेषाम् , इत्याशङ्क्य, कर्मण्यकर्म (४ - १८) इत्यादौ विशेषदर्शनात् , मैवम् इत्याह -

शास्त्रीयाणामिति ।

अस्तु तर्हि शास्त्रीयाशास्त्रीययोरशेषयोरपि कर्मणोः त्यागः, नेत्याह -

पुनरिति ।

तर्हि कर्मत्यागः तद्योगश्च, इत्युभयमाहर्तव्यमित्याशङ्क्य, विरोधात् मैवम् इत्यभिप्रेत्य  आह -

अत इति ।

द्वयोः एकेन अनुष्ठानायोगस्योक्तत्वात् कर्तव्यत्वोक्तेश्च संशयो जायते । तमेव संशयं विशदयति -

किं कर्मेति ।

प्रशस्यतरबुभुत्सा किमर्था ? इत्याशङ्क्य आह -

प्रशस्यतरं चेति ।

तस्यैवानुष्ठेयत्वे प्रश्नस्य सावकाशत्वमाह - अतश्चेति । तदेव प्रशस्यतरं विशिनष्टि -

यदनुष्ठानादिति ।

तदेकम् - अन्यतरत् , मेब्रूहीति । सबन्धः ।

उभयोरुक्तत्वे सति किमित्येकं वक्तव्यमिति नियुज्यते ? तत्राह -

सहेति ।

कर्मतत्त्यागयोर्मिथो विरोधादित्यर्थः ॥ १ ॥

पूर्वोत्तराध्याययोः सम्बन्धमभिदधानो वृत्तानुवादपूर्वकम् अर्जुनप्रश्नस्याभिप्रायं प्रदर्शयितुं प्रक्रमते - कर्मणीत्यादिना इत्यारभ्य कर्मण्यकर्मदर्शनमुक्त्वा तत्प्रशंसा प्रसारिता, इत्याह -

स युक्त इति ।

ज्ञानवन्तं सर्वाणि कर्माणि लोकसङ्ग्रहार्थं कुर्वन्तं ज्ञानलक्षणेनाग्निना दग्धसर्वकर्माणं - कर्मप्रयुक्तबन्धविधुरं, विवेकवन्तो वदन्तीति, ज्ञानवतो ज्ञानफलभूतं संन्यासं विवक्षन् विविदिषोः साधनरूपमपि संन्यासं भगवान्विवक्षितवान् , इत्याह -

ज्ञानाग्नीति ।

निराशीरित्यारभ्य शरीरस्थितिमात्रकारणं कर्म, शरीरस्थितावपि सङ्गरहितः सन् आचरन् , धर्माधर्मफलभागी न भवतीत्यपि पूर्वोत्तराभ्यामध्यायाभ्यां द्विविधं संन्यासं सूचितवान् , इत्याह -

शारीरमिति ।

यदृच्छेत्यादावपि संन्यासः सूचितः तद्धर्मफलायोपदेशात् , इत्याह -

यदृच्छेति ।

ज्ञानस्य यज्ञत्वसम्पादनपूर्वकं प्रशंसावचनादपि कर्मसंन्यासो दर्शितो ज्ञाननिष्ठस्य, इत्याह -

ब्रह्मार्पणमिति ।

ज्ञानयज्ञस्तुत्यर्थं नानाविधान् यज्ञान् अनूद्य तेषां देहादिव्यापारजन्यत्ववचनेन आत्मनो निर्व्यापारत्वविज्ञनफलाभिलाषादपि यथोक्तमात्मानं विविदिषोः सर्वकर्मंसन्यासेऽधिकारो ध्वनित, इत्याह -

कर्मजानिति ।

समस्तस्यैव अवशेषवर्जितस्य कर्मणो ज्ञाने पर्यवसानाभिधानाच्च जिज्ञासोः सर्वकर्मसन्यासः सूचितः, इत्याह –

सर्वमिति ।

`तद्विद्धी'त्यादिना ज्ञानप्राप्त्युपायं प्रणिपातादि प्रदर्श्य, प्राप्तेन ज्ञानेनातिशयप्राहात्म्यवता सर्वकर्मणां निवृत्तिरेव, इति वदता च, ज्ञानार्थिनः संन्यासेऽधिकारो दर्शितो भगवता, इत्याह -

ज्ञानाग्निरिति ।

ज्ञानेन समुच्छिन्नसंशयं तस्मादेव ज्ञानात्कर्माणि संन्यस्य व्यवस्थितमप्रमत्तं - वशीकृतकार्यकरणसङ्घातवन्तं प्रातिभासिकानि कर्माणि न निबध्नन्ति, इत्यपि द्विविधः संन्यासो भगवतोक्तः, इत्याह -

योगेति ।

`कर्मणी'त्यारभ्य ‘योगसंन्यस्तकर्माण'मित्यन्तैरुदाहृतैर्वचनैः उक्तं संन्यासमुपसंहरति -

इत्यन्तैरिति ।

तर्हि कर्मसंन्यासस्यैव जिज्ञासुना ज्ञानवता च आदरणीयत्वात् कर्मानुष्ठानम् अनादेयमापन्नमित्याशङ्क्य, उक्तमर्थान्तरमनुवदति -

छित्त्वैनमिति ।

कर्मतत्त्यागयोरुक्तयोः एकेनैव पुुरुषेणानुष्ठेयत्वसम्भवात् न विरोधोऽस्ति इत्याशङ्क्य, युगपद्वा क्रमेण वा अनुष्ठानम् , इति विकल्प्य, आद्यं दूषयति

उभयोश्चेति ।

द्वितीयं प्रत्याह -

कालभेदेनेति ।

उक्तयोर्द्वयोरेकेन पुरुषेणानुष्ठेयत्वासम्भवे, कथं कर्तव्यत्वसिद्धिः ? इत्याशङ्क्याह -

अर्थादिति ।

द्वयोरुक्तयोरेकेन युगपत्क्रमाभ्याम् अनुष्ठानानुपपत्तेरित्यर्थः ।

अन्यतरस्य कर्तव्यत्वे, कतरस्येति कुतो निर्णय ? द्वयोः संनिधानाविशेषात् इत्याशङ्क्य, आह -

यत्प्रशस्यतरमिति ।

भगवता कर्मणां संन्यासो योगश्चोक्तः, नच तयो समुच्चित्यानुष्ठानम् । तेन अन्यतरस्य श्रेष्ठस्य अनुष्ठेयत्वे, तद्बुभुत्सया प्रश्नोपपत्तिः, इत्युपसंहरति -

इत्येवमिति ।

नायं प्रष्टुरभिप्रायः, कर्मसंन्यासकर्मयोगयोर्भिन्नपुरुषानुष्ठेयत्वस्योक्तत्वात् , एकस्मिन्पुरुषे प्राप्त्यभावात् इति शङ्कते -

नन्विति ।

चोद्यमङ्गीकृत्य परिहरति -

सत्यमेवेति ।

कीदृशस्तर्हि प्रष्ठुरभिप्रायः ? येन प्रश्नप्रवृत्तिः इति पृच्छति -

कथमिति ।

एकस्मिन्पुरुषे कर्मतत्त्यागयोः अस्ति प्राप्तिः, इति प्रष्टुरभिप्रायं प्रतिनिर्देष्टं प्रारभते -

पूर्वोदाहृतैरिति ।

यथा ‘स्वर्गकामो यजेत’ इति स्वर्गकामोद्देशेन यागो विधीयते, नतु तस्यैवाधिकारो नान्यस्य इत्यपि प्रतिपाद्यते, वाक्यभेदप्रसङ्गात् ; तथा अनात्मवित् कर्ता संन्यासे पक्षे प्राप्तोऽनूद्यते, नचात्मवित्कर्तृकत्वमेव संन्यासस्य नियम्यते, वैराग्यमात्रेणाज्ञस्यापि संन्यासविधिदर्शनात् । तस्मात् कर्म तत्त्यागयोः अविद्वत्कर्तृकत्वमस्ति, इति मन्वानस्यार्जुनस्य प्रश्नः सम्भवतीति भावः ।

भवतु संन्यसस्य कर्तव्यत्वविवक्षा, तथापि कथं प्रशस्यतरबुभुत्सया प्रश्नप्रवृत्तिः ? इत्याशङ्क्य, आह -

प्राधान्यमिति ।

तथापि कथमेकस्मिन्पुरुषे तयोरप्राप्तौ उक्ताभिप्रायेण प्रश्नवचनं प्रकल्प्यते ? तत्राह -

अनात्मविदपीति ।

आत्मविदो विद्यासामर्थ्यात् कर्मत्यागध्रौव्यवत् इतरस्यापि सति वैराग्ये, तत्त्यागस्यावश्यकत्वात् तत्र कर्ताऽसौ  प्राप्तः अत्रानूद्यते । तथाच कर्मतत्त्यागयोः एकस्मिन् अविदुषि प्राप्तेर्व्यक्तत्वात् उक्ताभिप्रायेण प्रश्नपवृत्तिरविरुद्धा इत्यर्थः ।

संन्यासस्य आत्मवित्कर्तृकत्वमेवात्र विवक्षित किं न स्यात् ? इत्याशङ्क्य, कर्त्रन्तरपर्युदासः संन्यासविधिश्च इत्यर्थभेदे वाक्यभेदप्रसङ्गात् मैवमित्याह -

न पुनरिति ।

इतिशब्दः वाक्यभेदप्रसङ्गहेतुद्योतनार्थः ।

ततः किम् ? इत्याशङ्क्य, फलितमाह -

एवमिति ।

कर्मानुष्ठानकर्मसंन्यासयोः अविद्वत्कर्तृकत्वमप्यस्ति, इत्येवंमन्वानस्यार्जुनस्य प्रशस्यतरविविदिषया प्रश्नो नानुपपन्न इति सम्बन्धः ।

तयोः समुच्चित्य अनुष्ठानसम्भवे कथं प्रशस्यतरविविदिषा ? इत्याशङ्क्य आह -

पूर्वोक्तेनेति ।

उभयोश्चेत्यादौ उक्चप्रकारेण कर्मतत्त्यागयोर्मिथ