श्रीमच्छङ्करभगवत्पूज्यपादशिष्यश्रीपद्मपादाचार्यविरचिता

पञ्चपादिका

पदच्छेदः पदार्थोक्तिर्विग्रहो वाक्ययोजना ।
आक्षेपोऽथ समाधानं व्याख्यानं षड्विधं मतम् ॥

अथ प्रथमं वर्णकम्

अनाद्यानन्दकूटस्थज्ञानानन्तसदात्मने
अभूतद्वैतजालाय साक्षिणे ब्रह्मणे नमः ॥ १ ॥

नमः श्रुतिशिरःपद्मषण्डमार्तण्डमूर्तये ।
बादरायणसंज्ञाय मुनये शमवेश्मने ॥ २ ॥

नमाम्यभोगिपरिवारसम्पदं निरस्तभूतिमनुमार्धविग्रहम् ।
अनुग्रमुन्मृदितकाललाञ्छनं विना विनायकमपूर्वशङ्करम् ॥ ३ ॥

यद्वक्त्र - मानससरःप्रतिलब्धजन्म - भाष्यारविन्दमकरन्दरसं पिबन्ति ।
प्रत्याशमुन्मुखविनीतविनेयभृङ्गाः तान् भाष्यवित्तकगुरून् प्रणमामि मूर्ध्ना ॥ ४ ॥

पदादिवृन्तभारेण गरिमाणं बिभर्ति यत् ।
भाष्यं प्रसन्नगम्भीरं तद्व्याख्यां श्रद्धयाऽऽरभे ॥ ५ ॥

युष्मदस्मत्प्रत्ययगोचरयोःइत्यादिअहमिदं ममेदमिति नैसर्गिकोऽयं लोकव्यवहारःइत्यन्तं भाष्यम्अस्यानर्थहेतोः प्रहाणायात्मैकत्वविद्याप्रतिपत्तये सर्वे वेदान्ता आरभ्यन्तेइत्यनेन भाष्येण पर्यवस्यत् शास्त्रस्य विषयः प्रयोजनं चार्थात् प्रथमसूत्रेण सूत्रिते इति प्रतिपादयति । एतच्चतस्मात् ब्रह्म जिज्ञासितव्यम्इत्यादिभाष्ये स्पष्टतरं प्रदर्शयिष्यामः

अत्राह यद्येवम् , एतावदेवास्तु भाष्यम्अस्यानर्थहेतोः प्रहाणायात्मैकत्वविद्याप्रतिपत्तये सर्वे वेदान्ता आरभ्यन्तेइति ; तत्रअनर्थहेतोः प्रहाणायइति प्रयोजननिर्देशः, ‘आत्मैकत्वविद्याप्रतिपत्तयेइति विषयप्रदर्शनं, किमनेनयुष्मदस्मद्इत्यादिनाअहं मनुष्यःइति देहेन्द्रियादिषु अहं ममेदमित्यभिमानात्मकस्य लोकव्यवहारस्य अविद्यानिर्मितत्वप्रदर्शनपरेण भाष्येण ? उच्यतेब्रह्मज्ञानं हि सूत्रितं अनर्थहेतुनिबर्हणम् । अनर्थश्च प्रमातृताप्रमुखं कर्तृत्वभोक्तृत्वम् । तत् यदि वस्तुकृतं, ज्ञानेन निबर्हणीयम् ; यतः ज्ञानं अज्ञानस्यैव निवर्तकम् । तत् यदि कर्तृत्वभोक्तृत्वम् अज्ञानहेतुकं स्यात् , ततो ब्रह्मज्ञानं अनर्थहेतुनिबर्हणमुच्यमानमुपपद्येत । तेन सूत्रकारेणैव ब्रह्मज्ञानमनर्थहेतुनिबर्हणं सूचयता अविद्याहेतुकं कर्तृत्वभोक्तृत्वं प्रदर्शितं भवति । अतः तत्प्रदर्शनद्वारेण सूत्रार्थोपपत्त्युपयोगितया सकलतन्त्रोपोद्घातः प्रयोजनमस्य भाष्यस्य । तथा चास्य शास्त्रस्य ऐदम्पर्यं सुखैकतानसदात्मककूटस्थचैतन्यैकरसता संसारित्वाभिमतस्यात्मनः पारमार्थिकं स्वरूपमिति वेदान्ताः पर्यवस्यन्तीति प्रतिपादितम् । तच्च अहं कर्ता सुखी दुःखी इति प्रत्यक्षाभिमतेन अबाधितकल्पेन अवभासेन विरुध्यते । अतः तद्विरोधपरिहारार्थं ब्रह्मस्वरूपविपरीतरूपं अविद्यानिर्मितं आत्मन इति यावत् प्रतिपाद्यते, तावत् जरद्गवादिवाक्यवदनर्थकं प्रतिभाति ; अतः तन्निवृत्त्यर्थम् अविद्याविलसितम् अब्रह्मस्वरूपत्वम् आत्मन इति प्रतिपादयितव्यम् । वक्ष्यति एतत् अविरोधलक्षणे जीवप्रक्रियायां सूत्रकारः तद्गुणसारत्वात्’ (ब्र. सू. २-३-२९) इत्यादिना

यद्येवमेतदेव प्रथममस्तु, मैवम् ; अर्थविशेषोपपत्तेः । अर्थविशेषे हि समन्वये प्रदर्शिते तद्विरेधाशङ्कायां तन्निराकरणमुपपद्यते । अप्रदर्शिते पुनः समन्वयविशेषे, तद्विरोधाशङ्का तन्निराकरणं निर्विषयं स्यात् । भाष्यकारस्तु तत्सिद्धमेव आदिसूत्रेण सामर्थ्यबलेन सूचितं सुखप्रतिपत्त्यर्थं वर्णयतीति दोषः

ननु ग्रन्थकरणादिकार्यारम्भे कार्यानुरूपं इष्टदेवतापूजानमस्कारेण बुद्धिसन्निधापिताथवृद्ध्यादिशब्दैः दध्यादिदर्शनेन वा कृतमङ्गलाः शिष्टाः प्रवर्तन्ते । शिष्टाचारश्च नः प्रमाणम् । प्रसिद्धं मङ्गलाचरणस्य विघ्नोपशमनं प्रयोजनम् । महति निःश्रेयसप्रयोजने ग्रन्थमारभमाणस्य विघ्नबाहुल्यं सम्भाव्यते । प्रसिद्धं `श्रेयांसि बहुविघ्नानि' इति । विज्ञायते च-'तस्मादेषां तन्न प्रियं यदेतन्मनुष्या विद्युः' इति, येषां यन्न प्रियं ते तद्विघ्नन्तीति प्रसिद्धं लोके । तत् कथमुल्लङ्घ्य शिष्टाचारं अकृतमङ्गल एव विस्रब्धं भाष्यकारः प्रववृते? अत्रोच्यते —'युष्मदस्मद्' इत्यादि `तद्धर्माणामपि सुतरामितरेतरभावानुपपत्तिः' इत्यन्तमेव भाष्यम् । अस्य अयमर्थः—सर्वोपप्लवरहितो विज्ञानघनः प्रत्यगर्थः इति । तत् कथञ्चन परमार्थतः एवम्भूते वस्तुनि रूपान्तरवदवभासो मिथ्येति कथयितुम् तदन्यपरादेव भाष्यवाक्यात् निरस्तसमस्तोपप्लवं चैतन्यैकतानमात्मानं प्रतिपद्यमानस्य कुतो विघ्नोपप्लवसम्भवः? तस्मात् अग्रणीः शिष्टाचारपरिपालने भगवान् भाष्यकारः ।

विषयविषयिणोः तमःप्रकाशवत् विरुद्धस्वभावयोरितरेतरभावानुपपत्तौ सिद्धायाम् इति ।

कोऽयं विरोधः? कीदृशो वा इतरेतरभावः अभिप्रेतः? यस्य अनुपपत्तेः—'तमःप्रकाशवत्' इति निदर्शनम् । यदि तावत् सहानवस्थानलक्षणो विरोधः, ततः प्रकाशभावे तमसो भावानुपपत्तिः, तदसत् ; दृश्यते हि मन्दप्रदीपे वेश्मनि अस्पष्टं रूपदर्शनं, इतरत्र स्पष्टम् । तेन ज्ञायते मन्दप्रदीपे वेश्मनि तमसोऽपि ईषदनुवृत्तिरिति ; तथा छायायामपि औष्ण्यं तारतम्येन उपलभ्यमानं आतपस्यापि तत्र अवस्थानं सूचयति । एतेन शीतोष्णयोरपि युगपदुपलब्धेः सहावस्थानमुक्तं वेदितव्यम् । उच्यते परस्परानात्मतालक्षणो विरोधः, जातिव्यक्त्योरिव परमार्थतः परस्परसम्भेदः सम्भवतीत्यर्थः ; तेन इतरेतरभावस्य-इतरेतरसम्भेदात्मकत्वस्य अनुपपत्तिः । कथम्? स्वतस्तावत् विषयिणः चिदेकरसत्वात् युष्मदंशसम्भवः । अपरिणामित्वात् निरञ्जनत्वाच्च परतः । विषयस्यापि स्वतः चित्सम्भवः, समत्वात् विषयत्वहानेः ; परतः ; चितेः अप्रतिसङ्क्रमत्वात् ।

तद्धर्माणामपि सुतराम् इति ।

एवं स्थिते स्वाश्रयमतिरिच्य धर्माणाम् अन्यत्र भावानुपपत्तिः सुप्रसिद्धा इति दर्शयति । इति शब्दो हेत्वर्थः । यस्मात् एवम् उक्तेन न्यायेन इतरेतरभावासम्भवः,

अतः अस्मत्प्रत्ययगोचरे विषयिणि चिदात्मके इति

अस्मत्प्रत्यये यः अनिदमंशः चिदेकरसः तस्मिन् तद्बलनिर्भासिततया लक्षणतो युष्मदर्थस्य मनुष्याभिमानस्य सम्भेद इव अवभासः एव अध्यासः ।

तद्धर्माणां इति

यद्यपि विषयाध्यासे तद्धर्माणामप्यर्थसिद्धः अध्यासः ; तथापि विनापि विषयाध्यासेन तद्धर्माध्यासो बाधिर्यादिषु श्रोत्रादिधर्मेषु विद्यते इति पृथक् धर्मग्रहणम् ।

तद्विपर्ययेण विषयिणस्तद्धर्माणां इति

चैतन्यस्य तद्धर्माणां इत्यर्थः । ननु विषयिणः चिदेकरसस्य कुतो धर्माः ? ये विषये अध्यस्येरन् , उच्यते ; आनन्दो विषयानुभवो नित्यत्वमिति सन्ति धर्माः, अपृथक्त्वेऽपि चैतन्यात् पृथगिव अवभासन्ते इति दोषः । अध्यासो नाम अतद्रूपे तद्रूपावभासः ।

सः मिथ्येति भवितुं युक्तम् इति ।

मिथ्याशब्दो द्व्यर्थः अपह्नववचनोऽनिर्वचनीयतावचनश्च । अत्र अयमपह्नववचनः । मिथ्येति भवितुं युक्तम् अभाव एवाध्यासस्य युक्तः इत्यर्थः । यद्यप्येवं ;

तथापि नैसर्गिकः

प्रत्यक्चैतन्यसत्तात्रामानुबन्धी ।

अयं

युष्मदस्मदोः इतरेतराध्यासात्मकः ।

अहमिदं ममेदमितिलोकव्यवहारः ।

तेन यथा अस्मदर्थस्य सद्भावो उपालम्भमर्हति, एवमध्यासस्यापि इत्यभिप्रायः । लोक इति मनुष्योऽहमित्यभिमन्यमानः प्राणिनिकायः उच्यते । व्यवहरणं व्यवहारः ; लोक इति व्यवहारो लोकव्यवहारः ; मनुष्योऽहमित्यभिमानः इत्यर्थः ।

सत्यानृते मिथुनीकृत्य इति ।

सत्यम् अनिदं, चैतन्यम् । अनृतं युष्मदर्थः ; स्वरूपतोऽपि अध्यस्तस्वरूपत्वात् । ‘अध्यस्य’ ‘मिथुनीकृत्यइति क्त्वाप्रत्ययः, पूर्वकालत्वमन्यत्वं लोकव्यवहारादङ्गीकृत्य प्रयुक्तः ; भुक्त्वा व्रजतीतिवत् क्रियान्तरानुपादानात् । ‘अध्यस्य नैसर्गिकोऽयं लोकव्यवहारःइति स्वरूपमात्रपर्यवसानात् । उपसंहारे एवमयमनादिरनन्तो नैसर्गिकोऽध्यासःइति तावन्मात्रोपसंहारात्

अतः चैतन्यं पुरुषस्य स्वरूपम् इतिवत् व्यपदेशमात्रं द्रष्टव्यम् ।

मिथ्याज्ञाननिमित्तः इति ।

मिथ्या तदज्ञानं मिथ्याज्ञानम् । मिथ्येति अनिर्वचनीयता उच्यते । अज्ञानमिति जडात्मिका अविद्याशक्तिः ज्ञानपर्युदासेन उच्यते । तन्निमित्तः तदुपादानः इत्यर्थः

कथं पुनः नैमित्तकव्यवहारस्य नैसर्गिकत्वम् ? अत्रोच्यते ; अवश्यं एषा अविद्याशक्तिः बाह्याध्यात्मिकेषु वस्तुषु तत्स्वरूपसत्तामात्रानुबन्धिनी अभ्युपगन्तव्या ; अन्यथा मिथ्यार्थावभासानुपपत्तेः । सा जडेषु वस्तुषु तत्स्वरूपावभासं प्रतिबध्नाति ; प्रमाणवैकल्यादेव तदग्रहणसिद्धेः, रजतप्रतिभासात् प्राक् ऊर्ध्वं सत्यामपि तस्यां स्वरूपग्रहणदर्शनात् , अतः तत्र रूपान्तरावभासहेतुरेव केवलम् । प्रत्यगात्मनि तु चितिस्वभावत्वात् स्वयम्प्रकाशमाने ब्रह्मस्वरूपानवभासस्य अनन्यनिमित्तत्वात् तद्गतनिसर्गसिद्धाविद्याशक्तिप्रतिबन्धादेव तस्य अनवभासः । अतः सा प्रत्यक्चिति ब्रह्मस्वरूपावभासं प्रतिबध्नाति, अहङ्काराद्यतद्रूपप्रतिभासनिमित्तं भवति, सुषुप्त्यादौ अहङ्कारादिविक्षेप संस्कारमात्रशेषं स्थित्वा पुनरुद्भवति, इत्यतः नैसर्गिकोऽपि अहङ्कारममकारात्मको मनुष्याद्यभिमानो लोकव्यवहारः मिथ्याज्ञाननिमित्तः उच्यते, पुनः आगन्तुकत्वेन ; तेन नैसर्गिकत्वं नैमित्तिकत्वेन विरुध्यते

अन्योन्यधर्मांश्चइति

पृथक् धर्मग्रहणं धर्ममात्रस्यापि कस्यचिदध्यास इति दर्शयितुम् ।

इतरेतराविवेकेन इति

एकतापत्त्यैव इत्यर्थः ।

कस्य धर्मिणः कथं कुत्र अध्यासः ? धर्ममात्रस्य वा क्व अध्यासः ? इति भाष्यकारः स्वयमेव वक्ष्यति ।

अहमिदं ममेदम् इति

अध्यासस्य स्वरूपं दर्शयति । अहमिति तावत् प्रथमोऽध्यासः । ननु अहमिति निरंशं चैतन्यमात्रं प्रतिभासते, अंशान्तरम् अध्यस्तं वा । यथा अध्यस्तांशान्तर्भावः, तथा दर्शयिष्यामः । ननु इदमिति अहङ्कर्तुः भोगसाधनं कार्यकरणसङ्घातः अवभासते, ममेदमिति अहङ्कर्त्रा स्वत्वेन तस्य सम्बन्धः । तत्र किञ्चित् अध्यस्तमिव दृश्यते । उच्यते ; यदैव अहङ्कर्ता अध्यासात्मकः, तदैव तदुपकरणस्यापि तदात्मकत्वसिद्धिः । हि स्वप्नावाप्तराज्याभिषेकस्य माहेन्द्रजालनिर्मितस्य वा राज्ञः राज्योपकरणं परमार्थसत् भवति, एवम् अहङ्कर्तृत्वप्रमुखः क्रियाकारकफलात्मको लोकव्यवहारः अध्यस्तः नित्यशुद्धबुद्धमुक्तस्वभावे आत्मनि । अतः तादृग्ब्रह्मात्मानुभवपर्यन्तात् ज्ञानात् अनर्थहेतोः अध्यासस्य निवृत्तिरुपपद्यते, इति तदर्थविषयवेदान्तमीमांसारम्भः उपपद्यते

आहकोऽयमध्यासो नाम

इत्याद्यारभ्य अध्याससिद्धिपरं भाष्यम् । तत्रापि

'कथं पुनरविद्यावद्विषयाणिइत्यतः

प्राक् अध्यासस्वरूपतत्सम्भावनाय, तदादि तत्सद्भावनिर्णयार्थम् इति विभागः । यद्येवं तत्स्वरूपतत्सम्भावनोपन्यासः पृथक् कर्तव्यः ; हि अनिर्ज्ञातरूपम् असम्भाव्यमानं निर्णीयते इति, दुःसम्पादं विशेषतः अध्यक्षानुभवनिर्णये, उच्यते देहेन्द्रियादिषु अहंममाभिमानवत एव प्रमातृत्वप्रदर्शनमात्रेण तस्य अध्यासात्मकता सिध्यति ; तत् कस्य हेतोः ? लोके शुक्तिरजतद्विचन्द्रादिवत् अध्यासानुभवाभावात् । बाधे हि सति भवति, नेह विद्यते । तस्मात् अध्यासस्य लक्षणमभिधाय तल्लक्षणव्याप्तस्य सद्भावः कथनीयः

ननु एवमपि तल्लक्षणस्य वस्तुनः सद्भावमात्रम् इह कथनीयम् ; हि यत्र यस्य सद्भावः प्रमाणतः प्रतिपन्नः, तत्रैव तस्य असम्भावनाशङ्का, येन तद्विनिवृत्तये तत्सम्भावना अपरा कथ्येत ; सत्यमेवं, विषयविशेषस्तु प्रयत्नेन अन्विच्छद्भिरपि अनुपलभ्यमानकारणदोषे विज्ञाने अवभासमानोऽपि पूर्वप्रवृत्तेन सकललोकव्यापिना निश्चितेन प्रमाणेन असम्भाव्यमानतया अपोद्यमानो दृश्यते । तद्यथाऔत्पातिकः सवितरि सुषिः, यथा वा माहेन्द्रजालकुशलेन प्रासादादेः निगरणम् । एवम् अविषये असङ्गे केनचिदपि गुणादिना अध्यासहेतुना रहिते निष्कलङ्कचैतन्यतया अन्यगतस्यापि अध्यासस्य अपनोदनसमर्थे अध्यासावगमः अविभाव्यमानकारणदोषः विभ्रमः इति आशङ्क्येत, तत् मा शङ्कि इति, सद्भावातिरेकेण सम्भवोऽपि पृथक् कथनीयः ; तदुच्यते ;

आह कोऽयमध्यासो नामइति

किंवृत्तस्य प्रश्ने आक्षेपे प्रयोगदर्शनात् उभयस्य इह सम्भवात् तन्त्रेण वाक्यमुच्चरितम् । तत्रापि प्रथमं प्रश्नस्य प्रतिवचनं स्वरूपम् आख्याय पुनः तस्यैव सम्भवम् आक्षिप्य प्रतिविधत्ते । तत्र एवंभूते विषये श्रोतॄणां सुखप्रबोधार्थं व्याचक्षाणाः प्रतिवादिनं तत्रस्थमिव समुत्थाप्य तेन आक्षिप्तम् अनेन पृष्टमिति मत्वा प्रत्युक्तं, पुनरसौ स्वाभिप्रायं विवृणोति इति आक्षेपमवतार्य प्रतिविधानं प्रतिपद्यन्ते । सर्वत्र एवंविधे ग्रन्थसन्निवेशे एष एव व्याख्याप्रकारः ।

स्मृतिरूपः परत्र पूर्वदृष्टावभासःइति

प्रश्नवाक्यस्थितम् अध्यासम् उद्दिश्य लक्षणम् अभिधीयते । तत्र परत्र इत्युक्ते अर्थात् परस्य अवभासमानता सिद्धा । तस्य विशेषणं स्मृतिरूपत्वम् । स्मर्यते इति स्मृतिः ; असंज्ञायामपि अकर्तरि कारके घञादीनां प्रयोगदर्शनात् । स्मर्यमाणरूपमिव रूपम् अस्य, पुनः स्मर्यते एव ; स्पष्टं पुरोऽवस्थितत्वावभासनात् । पूर्वदृष्टावभासः इति उपपत्तिः स्मृतिरूपत्वे । हि पूर्वम् अदृष्टरजतस्य शुक्तिसम्प्रयोगे रजतम् अवभासते । यतोऽर्थात् तद्विषयस्य अवभासस्यापि इदमेव लक्षणम् उक्तं भवति । कथम् ? तदुच्यतेस्मृतेः रूपमिव रूपमस्य, पुनः स्मृतिरेव ; पूर्वप्रमाणविषयविशेषस्य तथा अनवभासकत्वात् । कथं पुनः स्मृतिरूपत्वम् ? पूर्वप्रमाणद्वारसमुत्थत्वात् । हि असम्प्रयुक्तावभासिनः पूर्वप्रवृत्ततद्विषयप्रमाणद्वारसमुत्थत्वमन्तरेण समुद्भवः सम्भवति

अपर आहननु अन्यसम्प्रयुक्ते चक्षुषि अन्यविषयज्ञानं स्मृतिरेव, प्रमोषस्तु स्मरणाभिमानस्य । इन्द्रियादीनां ज्ञानकारणानां केनचिदेव दोषविशेषेण कस्यचिदेव अर्थविशेषस्य स्मृतिसमुद्बोधः क्रियते । सम्प्रयुक्तस्य दोषेण विशेषप्रतिभासहेतुत्वं करणस्य विहन्यते । तेन दर्शनस्मरणयोः निरन्तरोत्पन्नयोः करणदोषादेव विवेकानवधारणाद् दूरस्थयोरिव वनस्पत्योः अनुत्पन्ने एव एकत्वावभासे उत्पन्नभ्रमः । ननु अनास्वादिततिक्तरसस्यापि बालकस्य पित्तदोषात् मधुरे तिक्तावभासः कथं स्मरणं स्यात् ? उच्यतेजन्मान्तरानुभूतत्वात् , अन्यथा अननुभूतत्वाविशेषे अत्यन्तम् असन्नेव कश्चित् सप्तमो रसः किमिति नावभासेत । तस्मात् पित्तमेव मधुराग्रहणे तिक्तस्मृतौ तत्प्रमोषे हेतुः ; कार्यगम्यत्वात् हेतुभावस्य । एतेन अन्यसम्प्रयोगे अन्यविषयस्य ज्ञानस्य स्मृतित्वतत्प्रमोषौ सर्वत्र व्याख्यातौ द्रष्टव्यौउच्यतेकोऽयं स्मरणाभिमानो नाम ? तावत् ज्ञानानुविद्धतया ग्रहणम् । हि अतिवृत्तस्य ज्ञानस्य ग्राह्यविशेषणतया विषयभावः । तस्मात् शुद्धमेव अर्थं स्मृतिरवभासयति, ज्ञानानुविद्धम् । तथा पदात् पदार्थस्मृतौ दृष्टो ज्ञानसम्भेदः ; ज्ञानस्यापि शब्दार्थत्वप्रसङ्गात् । तथा इष्टभूभागविषयास्मृतिः सेव्यःइति ग्राह्यमात्रस्था, ज्ञानपरामर्शिनी । अपि भूयस्यः ज्ञानपरामर्शशून्या एव स्मृतयः । नापि स्वगतो ज्ञानस्य स्मरणाभिमानो नाम रूपभेदः अवभासते । हि नित्यानुमेयं ज्ञानम् अन्यद्वा वस्तु स्वत एव रूपसम्भिन्नं गृह्यते । अत एवोक्तम्अनाकारामेव बुद्धिं अनुमिमीमहेइति । अनाकाराम् अनिरूपिताकारविशेषाम् ; अनिर्दिष्टस्वलक्षणाम् इत्यर्थः । अतो स्वतः स्मरणाभिमानात्मकता । नापि ग्राह्यविशेषनिमित्तः स्मरणाभिमानः ; प्रमाणग्राह्यस्यैव अविकलानधिकस्य गृह्यमाणत्वात् , नापि फलविशेषनिमित्तः ; प्रमाणफलविषयमात्रावच्छिन्नफलत्वात् । यः पुनः क्वचित् कदाचित् अनुभूतचरेस्मरामिइत्यनुवेधः, सः वाचकशब्दसंयोजनानिमित्तः, यथा सास्नादिमदाकृतौ गौः इत्यभिमानः । तस्मात् पूर्वप्रमाणसंस्कारसमुत्थतया तद्विषयावभासित्वमात्रं स्मृतेः, पुनः प्रतीतितः अर्थतो वा अधिकोंशः अस्ति, यस्य दोषनिमित्तः प्रमोषः परिकल्प्येत । चेह पूर्वप्रमाणविषयावभासित्वमस्ति ; पुरोऽवस्थितार्थप्रतिभासनात् , इत्युक्तम् । अतः अन्यसम्प्रयोगे अन्यविषयज्ञानं स्मृतिः, किन्तु अध्यासः

ननु एवं सति वैपरीत्यमापद्यते, रजतमवभासते शुक्तिरालम्बनम् इति, नैतत् संविदनुसारिणाम् अनुरूपम् । ननु शुक्तेः स्वरूपेणापि अवभासने संवित्प्रयुक्तव्यवहारयोग्यत्वमेव आलम्बनार्थः, सैव इदानीं रजतव्यवहारयोग्या प्रतिभासते, तत्र किमिति आलम्बनं स्यात् ? अथ तथारूपावभासनं शुक्तेः पारमार्थिकं ? उताहो ? यदि पारमार्थिकं, नेदं रजतमिति बाधो स्यात् नेयं शुक्तिः इति यथा । भवति बाधः । तस्मात् एष पक्षः प्रमाणवान् । अथ शुक्तेरेव दोषनिमित्तो रजतरूपः परिणाम उच्यते, एतदप्यसारम् ; हि क्षीरपरिणामे दधनिनेदं दधिइति बाधो दृष्टः ; नापि क्षीरमिदम् इति प्रतीतिः, इह तु तदुभयं दृश्यते । किञ्च रजतरूपेण चेत् परिणता शुक्तिः, क्षीरमिव दधिरूपेण, तदा दोषापगमेऽपि तथैव अवतिष्ठेत । ननु कमलमुकुलविकासपरिणामहेतोः सावित्रस्य तेजसः स्थितिहेतुत्वमपि दृष्टं, तदपगमे पुनः मुकुलीभावदर्शनात् , तथा इहापि स्यात् , ; तथा सति तद्वदेव पूर्वावस्थापरिणामबुद्धिः स्यात् , बाधप्रतीतिः स्यात् । अथ पुनः दुष्टकारणजन्यायाः प्रतीतेरेव रजतोत्पादः इति मन्येत, एतदपि सम्यगिव ; कथम् ? यस्याः प्रतीतेः तदुत्पादः तस्यास्तावत् तत् आलम्बनम् ; पूर्वोत्तरभावेन भिन्नकालत्वात् , प्रतीत्यन्तरस्य ; पुरुषान्तरप्रतीतेरपि तत्प्रसङ्गात् । ननु किमिति पुरुषान्तरप्रतीतेरपि तत्प्रसङ्गः ? दुष्टसामग्रीजन्मनो हि प्रतीतेः तत् आलम्बनम् , मैवम् ; प्रतीत्यन्तरस्यापि तद्विधस्य रजतान्तरोत्पादनेनैव उपयुक्तत्वात् प्रथमप्रत्ययवत् । अतः अनुत्पन्नसममेव स्यात् । तदेवं पारिशेष्यात् स्मृतिप्रमोष एव अवतिष्ठेत

ननु स्मृतेः प्रमोषो सम्भवति इत्युक्तं, तथा तन्त्रान्तरीया आहुः — ‘अनुभूतविषयासम्प्रमोषा स्मृतिःइति । का तर्हि गतिः शुक्तिसम्प्रयोगे रजतावभासस्य ? उच्यते इन्द्रियजज्ञानात् संस्कारजं स्मरणं पृथगेव स्मरणाभिमानशून्यं समुत्पन्नं, किन्तु एकमेव संस्कारसहितात् इन्द्रियात् । कथमेतत् ? उच्यतेकारणदोषः कार्यविशेषे तस्य शक्तिं निरुन्धन्नेव संस्कारविशेषमपि उद्बोधयति ; कार्यगम्यत्वात् कारणदोषशक्तेः । अतः संस्कारदुष्टकारणसंवलिता एका सामग्री । सा एकमेव ज्ञानम् एकफलं जनयति । तस्य दोषोत्थापितसंस्कारविशेषसहितसामग्रीसमुत्पन्नज्ञानस्य उचितमेव शुक्तिगतमिथ्यारजतमालम्बनमवभासते । तेन मिथ्यालम्बनं ज्ञानं मिथ्याज्ञानम् , स्वतो ज्ञानस्य मिथ्यात्वमस्ति, बाधाभावात् । भिन्नजातीयज्ञानहेतुसामग्र्योः कथमेकज्ञानोत्पादनमिति चेत् , नैष दोषः ; दृश्यते हि लिङ्गज्ञानसंस्कारयोः सम्भूय लिङ्गिज्ञानोत्पादनं, प्रत्यभिज्ञानोत्पादनञ्च अक्षसंस्कारयोः । उभयत्रापि स्मृतिगर्भमेकमेव प्रमाणज्ञानम् ; संस्कारानुद्बोधे तदभावात् । तस्मात् लिङ्गदर्शनमेव सम्बन्धज्ञानसंस्कारमुद्बोध्य तत्सहितं लिङ्गिज्ञानं जनयतीति वक्तव्यम् । अयमेव न्यायः प्रत्यभिज्ञानेऽपि । पुनः ज्ञानद्वये प्रमाणमस्ति । तथा भिन्नजातीयज्ञानहेतुभ्यो नीलादिभ्य एकं चित्रज्ञानं निदर्शनीयम् । तत्र लैङ्गिकज्ञानप्रत्यभिज्ञाचित्रज्ञानानामदुष्टकारणारब्धत्वाद् यथार्थमेवावभासः, इह तु कारणदोषादतथाभूतार्थावभासः इति विशेषः । एवंच सति नानुभवविरोधः ; प्रतिभासमानस्य रजतस्यैवावलम्बनत्वात् , अतो मायामयं रजतम् । अथ पुनः पारमार्थिकं स्यात् , सर्वैरेव गृह्येत ; यतो हि पारमार्थिकं रजतं कारणदोषं स्वज्ञानोत्पत्तावपेक्षते । यद्यपेक्षेत, तदा तदभावे तत्र ज्ञानोत्पत्तिः ; आलोकाभावे इव रूपे । मायामात्रत्वे तु मन्त्राद्युपहतचक्षुष इव दोषोपहतज्ञानकरणा एव पश्यन्तीति युक्तम् । किञ्च नेदं रजतम् इति बाधोऽपि मायामयत्वमेव सूचयति । कथम् ? तेन हि तस्य निरुपाख्यतापादनपूर्वकं मिथ्यात्वं ज्ञाप्यते । ‘नेदं रजतं मिथ्यैवाभासिष्टइति । तत् केनचिद्रूपेण रूपवत्त्वेऽवकल्पते ; सम्प्रयुक्तशुक्तिवत् निरस्यमानविषयज्ञानवच्चननु व्यापकमिदं लक्षणम् ; स्वप्नशोकादावसम्भवात् , हि स्वप्नशोकादौ केनचित् सम्प्रयोगोऽस्ति, येन परत्र परावभासः स्यात् । अत एव वासनातिरिक्तकारणाभावात् स्मृतिरेव, स्मृतिरूपता, अत्रोच्यते तावत् स्मृतित्वमस्ति ; अपरोक्षार्थावभासनात् । ननु स्मृतिरूपत्वमपि नास्ति ; पूर्वप्रमाणसंस्कारमात्रजन्यत्वात् , अत्रोच्यते ; उक्तमेतत् पूर्वप्रमाणविषयावभासित्वमात्रं स्मृतेः स्वरूपमिति । तदिह निद्रादिदोषोपप्लुतं मनः अदृष्टादिसमुद्बोधितसंस्कारविशेषसहकार्यानुरूपं मिथ्यार्थविषयं ज्ञानमुत्पादयति । तस्य तदवच्छिन्नापरोक्षचैतन्यस्थाविद्याशक्तिरालम्बनतया विवर्तते । ननु एवं सति अन्तरेव स्वप्नार्थप्रतिभासः स्यात् ? को वा ब्रूते नान्तरिति ? ननु विच्छिन्नदेशोऽनुभूयते स्वप्नेऽपि जागरण इव, तदन्तरनुभवाश्रयत्वे स्वप्नार्थस्योपपद्यते, ननु देशोऽपि तादृश एव, कुतस्तत्सम्बन्धात् विच्छेदोऽवभासते ? अयमपि तर्ह्यपरो दोषः, नैष दोषः ; जागरणेऽपि प्रमाणज्ञानादन्तरपरोक्षानुभवात् विषयस्था अपरोक्षता भिद्यते ; एकरूपप्रकाशनात् । अतोऽन्तरपरोक्षानुभवावगुण्ठित एव जागरणेऽप्यर्थोऽनुभूयते ; अन्यथा जडस्य प्रकाशानुपपत्तेः । यथा तमसाऽवगुण्ठितो घटः प्रदीपप्रभावगुण्ठनमन्तरेण प्रकाशीभवति, एवम् । यः पुनर्विच्छेदावभासः, जागरेऽपि मायाविजृम्भितः ; सर्वस्य प्रपञ्चजातस्य चैतन्यैकाश्रयत्वात् , तस्य निरंशस्य प्रदेशभेदाभावात् । प्रपञ्चभेदेनैव हि तत् कल्पितावच्छेदं सदवच्छिन्नमिव बहिरिव अन्तरिव प्रकाशते । अथवा दिगाकाशौ मनोमात्रगोचरौ सर्वत्राध्यासाधारौ विद्येते इति परत्रेति विरुध्यते

कथं तर्हि नामादिषु ब्रह्माध्यासः ? किमत्र कथम् ? तत्र कारणदोषः, नापि मिथ्यार्थावभासः, सत्यम् ; अत एव चोदनावशात् इच्छातोऽनुष्ठेयत्वात् मानसी क्रियैषा, ज्ञानं ; ज्ञानस्य हि दुष्टकारणजन्यस्य विषयो मिथ्यार्थः । हि ज्ञानमिच्छातो जनयितुं निवर्तयितुं वा शक्यं ; कारणैकायत्तत्वादिच्छानुप्रवेशानुपपत्तेः । ननु स्मृतिज्ञानमाभोगेन जन्यमानं मनोनिरोधेन निरुध्यमानं दृश्यते । सत्यं ; स्मृत्युत्पत्तिनिरोधयोस्तयोर्व्यापारः, किन्तु कारणव्यापारे तत्प्रतिबन्धे चक्षुष इवोन्मीलननिमीलने, पुनर्ज्ञानोत्पत्तौ व्यापार इच्छायाः । तस्मात् ब्रह्मदृष्टिः केवला अध्यस्यते चोदनावशात् फलायैव, मातृबुद्धिरिव रागनिवृत्तये परयोषिति । तदेवम् अनवद्यमध्यासस्य लक्षणं

स्मृतिरूपः परत्र पूर्वदृष्टावभासः इति

तं केचित्

इत्यादिना अध्यासस्वरूपे मतान्तरमुपन्यस्यति स्वमतपरिशुद्धये ।

कथम् ?

अन्यत्र

शुक्तिकादौ,

अन्यधर्मस्य

अर्थान्तरस्य, रजतादेः ज्ञानाकारस्य बहिष्ठस्यैव वा ;

अध्यासः इति

वदन्ति ।

केचित्तु यत्र यदध्यासः तद्विवेकाग्रहणनिबन्धनो भ्रमः इति

यत्र यस्याध्यासः, तयोर्विवेकस्याग्रहणात् तन्निबन्धनोऽयमेकत्वभ्रमः इति वदन्तीत्यनुषङ्गः ।

अन्ये तु यत्र यदध्यासः तस्यैव विपरीतधर्मत्वकल्पनामाचक्षते इति ।

यत्र शुक्तिकादौ, यस्य रजतादेरध्यासः, तस्यैव शुक्तिशकलादेः, विपरीतधर्मत्वस्य रजतादिरूपत्वस्य, कल्पनाम् अविद्यमानस्यैवावभासमानताम् , आचक्षते ।

सर्वथापि तु इति ।

स्वमतानुसारित्वं सर्वेषां कल्पनाप्रकाराणां दर्शयति । अन्यस्यान्यधर्मावभासत्वं नाम लक्षणं, परत्रेत्युक्ते अर्थात् परावभासः सिद्धः इति यदवादिष्यम् , तत् व्यभिचरति । कथम् ? पूर्वस्मिन् कल्पे ज्ञानाकारस्य बहिष्ठस्य वा शुक्तिधर्मत्वावभासनात् व्यभिचारः, द्वितीयेऽपि शुक्तिरजतयोः पृथक् सतोरपृथगवभासः अभिमानात् , तृतीयेऽपि शुक्तिशकलस्य रजतरूपप्रतिभासनात्पूर्वदृष्टत्वस्मृतिरूपत्वयोः सर्वत्राव्यभिचारात् विवादः इत्यभिप्रायः । तत्रस्मृतिरूपः पूर्वदृष्टावभासःइत्येतावति लक्षणे निरधिष्ठानाध्यासवादिपक्षेऽपि निरुपपत्तिके लक्षणव्याप्तिः स्यादिति तन्निवृत्तयेपरत्रइत्युच्यतेकथं ? निरुपपत्तिकोऽयं पक्षः । हि निरधिष्ठानोऽध्यासो दृष्टपूर्वः, सम्भवी वा । ननु केशाण्ड्रकाद्यवभासो निरधिष्ठानो दृष्टः, ; तस्यापि तेजोऽवयवाधिष्ठानत्वात्

ननु रजते संवित् , संविदि रजतमिति परस्पराधिष्ठानो भविष्यति, बीजाङ्कुरादिवत् , नैतत् सारं ; तत्र यतो बीजात् योऽङ्कुरः तत एव तद्बीजम् , अपि तु अङ्कुरान्तरात् , इह पुनः यस्यां संविदि यत् रजतमवभासते, तयोरेवेतरेतराध्यासः, ततो दुर्घटमेतत् । बीजाङ्कुरादिष्वपि बीजाङ्कुरान्तरपरम्परामात्रेण अभिमतवस्तुसिद्धिः ; प्रतीतितो वस्तुतश्चानिवृत्ताकाङ्क्षत्वात् , तथा कुत इदमेवंइति पर्यनुयोगेदृष्टत्वादेवंइति तत्र एव दूरं वा परिधाव्य स्थातव्यम् ; अन्यथा हेतुपरम्परामेवावलम्ब्य क्वचिदप्यनवतिष्ठमानो नानवस्थादोषमतिवर्तेत । अपि क्वचिन्निरवधिकोइत्येव बाधावगमो दृष्टः, यत्राप्यनुमानादाप्तवचनाद्वा सर्पः इत्येवावगमः, तत्रापिकिं पुनरिदम् ? ’ इत्यपेक्षादर्शनात् पुरोऽवस्थितं वस्तुमात्रमवधिर्विद्यते । प्रधानादिष्वपि जगत्कारणे त्रिगुणत्वादिबाधः अधिगतावधिरेव । अथवा सर्वलोकसाक्षिकमेतत् केशोण्ड्रकादावपि तद्बाधे तदनुषङ्ग एव बोधे बाध्यते, बोधः । अतः तदवधिः सर्वस्य बाधः ; तेन तन्मात्रस्य बाधाभावात् , स्वतश्च विशेषानुपलब्धेः कूटस्थापरोक्षैकरसचैतन्यावधिः सर्वस्य बाधः । नाप्यध्यस्तमप्यसदेव ; तथात्वे प्रतिभासायोगात्

ननु सर्वमेवेदमसदिति भवतो मतम् । एवमाह ? अनिर्वचनीयानाद्यविद्यात्मकमित्युद्घोषितमस्माभिः । अथ पुनर्विद्योदये अविद्याया निरुपाख्यतामङ्गीकृत्यासत्त्वमुच्येत, काममभिधीयताम् । तथा बाधकज्ञानंनेदं रजतम्इति विशिष्टदेशकालसम्बद्धं रजतं विलोपयदेवोदेति, देशान्तरसम्बन्धमापादयति ; तथाऽनवगमात् । तथा दूरवर्तिनीं रज्जुं सर्पं मन्यमानस्य निकटवर्तिनाऽऽप्तेननायं सर्पःइत्युक्ते सर्पाभावमात्रं प्रतिपद्यते, तस्य देशान्तरवर्तित्वं ; तत्प्रतिपत्तावसामर्थ्यात् वाक्यस्य । नार्थापत्त्या ; इह भग्नघटाभाववत् तावन्मात्रेणापि तत्सिद्धेः । यत्रापि सर्पबाधपूर्वको रज्जुविधिरक्षजन्यः तादृशवाक्यजन्यो वा, तत्रापि एव न्यायः ; तथाऽनवगमात् , तदेवं क्वचिन्निरधिष्ठानोऽध्यासः ? तस्मात् साधूक्तं परत्र इतियद्येवंपरत्र पूर्वदृष्टावभासःइत्येतावदस्तु लक्षणम्, तथाविधस्य स्मृतिरूपत्वाव्यभिचारात् , सत्यम् ; अर्थलभ्यस्य स्मृतित्वमेव स्यात् , स्मृतिरूपत्वम् । स्मृतिविषयस्याध्यासत्वमित्युक्तम् । यद्येवमेतावदस्तु लक्षणं परत्र स्मृति रूपावभासः इति, तत्र परत्रेत्युक्ते अर्थलभ्यस्य परावभासस्य स्मृतिरूपत्वं विशेषणं, हि परस्यासम्प्रयुक्तस्य पूर्वदृष्टत्वाभावे स्मृतिरूपत्वसम्भवः, सत्यम् ; विस्पष्टार्थं पूर्वदृष्टग्रहणमिति यथान्यासमेव लक्षणमस्तु ।

तथा लोके अनुभवः

इत्युदाहरणद्वयेन लौकिकसिद्धमेवेदमध्यासस्य स्वरूपं लक्षितं, किमत्र युक्त्या ? इति कथयति

शुक्तिका हि रजतवदवभासते इति

ननु शुक्तिका प्रतिभासते, रजतमेव प्रतिभासते, तेन शुक्तिकेति, रजतवदिति चोभयं नोपपद्यते, उच्यतेशुक्तिकाग्रहणमुपरितनसम्यग्ज्ञानसिद्धं परमार्थतः शुक्तिकात्वमपेक्ष्य, वतिग्रहणं तु सम्प्रयुक्तस्यारजतस्वरूपस्य मिथ्यारजतसम्भेद इवावभासनमङ्गीकृत्य । मिथ्यात्वमपि रजतस्य आगन्तुकदोषनिमित्तत्वादनन्तरबाधदर्शनाच्च कथ्यते, पुनः परमार्थाभिमतात् रजतादन्यत्वमाश्रित्य । तत्र असम्प्रयुक्तत्वाद्रजतस्य नेदन्तावभासस्तद्गतः, किन्तु सम्प्रयुक्तगत एव । अपरोक्षावभासस्तु संस्कारजन्मनोऽपि रजतोल्लेखस्य दोषबलादिन्द्रियजज्ञानान्तर्भावाच्चेतिद्रष्टव्यम् । तत्र शुक्तिकोदाहरणेन सम्प्रयुक्तस्यानात्मा रजतमिति दर्शितम् । निरञ्जनस्य चैतन्यस्य अस्मदर्थे अनिदमंशस्य अनात्मा तदवभास्यत्वेन युष्मदर्थलक्षणापन्नः अहङ्कारः अध्यस्तः इति प्रदर्शनार्थं द्विचन्द्रोदाहरणेन जीवेश्वरयोः जीवानां चानात्मरूपो भेदावभासः इति दर्शितम् । ननु बहिरर्थे कारणदोषोऽर्थगतः सादृश्यादिः इन्द्रियगतश्च तिमिरादिरुपलभ्यते, तन्निमित्तश्चार्थस्य सांशत्वादंशान्तरावग्रहेऽपि अंशान्तरप्रतिबन्धो युज्येत, त्विह कारणान्तरायत्ता सिद्धिः, येन तद्दोषादनवभासोऽपि स्यात् , निरंशस्य चैतन्यस्य स्वयञ्ज्योतिषस्तदयोगात् । ननु ब्रह्मस्वरूपमनवभासमानमस्त्येव, तदनवभासनाज्जीवेऽनवभासविपर्यासौ भवतः । हि शुक्तेरग्रहणात् स्थाणावग्रहणं विपर्यासो वा । ननु ब्रह्मणोऽन्यो जीवः, अनेन जीवेनात्मना’ (छा. उ. ६-३-२) इति श्रुतेः, अतः तदग्रहणमात्मन एव तत् , एवं तर्हि सुतरामविद्यायास्तत्रासम्भवः ; तस्य विद्यात्मकत्वात् , तस्य भासा सर्वमिदं विभाति’ (क. उ. २-२-१५) इति तच्चैतन्येनैव सर्वस्य भासमानत्वात् , उच्यतेविद्यत एव अत्राप्यग्रहणाविद्यात्मको दोषः प्रकाशस्याच्छादकः । कथं गम्यते ? श्रुतेः तदर्थापत्तेश्च । श्रुतिस्तावत् — ‘अनृतेन हि प्रत्यूढाः’ ‘अनीशया शोचति मुह्यमानःइत्येवमाद्या । तदर्थापत्तिरपि विद्यैव सर्वत्र श्रुतिषु ब्रह्मविषया मोक्षाय निवेद्यते, तेनार्थादिदमवगम्यते जीवस्य ब्रह्मस्वरूपतानवगमोऽविद्यात्मको बन्धो निसर्गत एवास्तीति

ननु जीवो ब्रह्मणोऽन्यः इत्युक्तम्बाढम् ; अत एवाऽर्थाज्जीवे ब्रह्मस्वरूपप्रकाशाच्छादिका अविद्या कल्प्यते ; अन्यथा परमार्थतस्तत्स्वरूपत्वे तदवबोधोऽपि यदि नित्यसिद्धः स्यात् , तदा तादात्म्योपदेशो व्यर्थः स्यात् । अतः अनादिसिद्धाविद्यावच्छिन्नानन्तजीवनिर्भासास्पदमेकरसं ब्रह्मेति श्रुतिस्मृतिन्यायकोविदैरभ्युपगन्तव्यम् । तथा स्मृतिःप्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि’ (भ . गी १३ - १९) इति क्षेत्रक्षेत्रज्ञत्वनिमित्तामनादिसिद्धामविद्यां प्रकृतिशब्देनाह ; मायां तु प्रकृतिं विद्यात्’ (श्वे. उ. ४-१०) इति श्रुतेः । अतो मायावच्छिन्नरूपत्वादनन्यदपि ब्रह्मरूपमात्मनो वेत्ति । तथा चोक्तम्अनादिमायया सुप्तो यदा जीवः प्रबुद्ध्यते । अजमनिद्रमस्वप्नमद्वैतं बुध्यते तदा’ (गौ.का.१/१६) इति

ननु प्रमाणान्तरविरोधे सति श्रुतिः तदर्थापत्तिर्वा नाविद्यां निवेदयितुमलम् ? किं तत् प्रमाणं ? येन सह विरोधः, निरंशस्य स्वयञ्ज्योतिषः स्वरूपानवभासानुपपत्तिः । ननु भोक्तुः कार्यकारणसङ्घातात् व्यावृत्तता स्वयञ्ज्योतिषोऽपि प्रकाशते, ननु भोक्ता स्वयञ्ज्योतिः, किं त्वहंप्रत्ययेनावभास्यते । यथा स्वयम्प्रकाशमानता, अहङ्कारो प्रत्ययस्तथा वक्ष्यते

कथं पुनः भोक्ता स्वयञ्ज्योतिः कार्यकरणसङ्घातात् व्यावृत्तो प्रकाशते ? ‘मनुष्योऽहमि’ति मिथ्यैव एकताभिमानात् । ननु गौणोऽयं, मिथ्या ? यथा गौणः, तथा भाष्यकार एव वक्ष्यति

ननुअहमि’ति यदि देहसमानाधिकरणः प्रत्ययः, तर्हि तद्व्यतिरिक्त आत्मा सिध्यति ; अन्यस्य तथाग्राहिणः प्रत्ययस्याभावात् , आगमानुमानयोरपि तद्विरोधे प्रमाणत्वायोगात् । मिथ्यात्वात् तस्य विरोधः इति चेत् , कुतस्तर्हि मिथ्यात्वम् ? आगमादनुमानाद्वा अन्यथाऽवगमादिति चेत् , नैतत् ; अन्योऽन्याश्रयता तथा स्यात् आगमानुमानयोः प्रवृत्तौ तन्मिथ्यात्वं तन्मिथ्यात्वे तयोः प्रवृत्तिरिति । तस्मात् देहादिव्यतिरिक्तविषय एवायमहङ्कारः इत्यात्मवादिभिरभ्युपेयम् ; अन्यथा आत्मसिद्धिरप्रामाणिकी स्यात् , अतो गौणो मनुष्यत्वाभिमानः । उच्यतेयद्यपि देहादिव्यतिरिक्तभोक्तृविषय एवायमहङ्कारः ; तथापि तथा अनध्यवसायात् तद्धर्मानात्मन्यध्यस्यति । दृश्यते हि स्वरूपेणावभासमानेऽपि वस्त्वन्तरभेदानध्यवसायात् तत्सम्भेदेनावभासः, यथा एकस्मिन्नप्यकारे हृस्वादिसम्भेदः

अथ पुनरेकान्ततो भिन्न एव देहादेरहङ्कर्ता अवभासेत, रसादिव गन्धः, ततः तत्सद्भावे विप्रतिपत्तिरिति, तत्सिद्धये जिज्ञासा नावकल्पेत । जिज्ञासोत्तरकालं तर्हि गौण एव युक्तः, कथम् ? जिज्ञासा नाम युक्त्यनुसन्धानम् । हि युक्तिः पृथक् ज्ञानान्तरजननी, किन्तु सिद्धस्यैवाहंप्रत्ययस्य विषयविवेचिनी । तस्मात् विविक्तविषयत्वात् व्यतिरिक्तात्मानुभवपर्यन्त एवाहङ्कारो जिज्ञासोत्तरकालं युक्तः, युक्तः ; अकार इव हृस्वत्वाभिमानः । ननु तत्रापि कथम् ? अनुभव एव । एवमहङ्कारेऽपि समानश्चर्चः । ननु अनुभवः तर्कबलाद्यथावभासिन्यप्यकारे सम्भवति ; हृस्वादेः पृथक्सतस्तथानवगमात् , तन्न ; एकस्य पृथक्त्वेऽपि अर्थादितरस्यापि पृथक्त्वात्

ननु महदेतदिन्द्रजालं यत् तर्कानुगृहीतात् प्रमाणात् यथायथमसाधारणरूपयोरेवावभासमानयोरेकत्वावगमो गौण इति, बाढम् ; इन्द्रजालमेवैतत् , अविद्याकृतत्वात् । तथाहिअहंप्रत्ययस्य स्वविषयप्रतिष्ठितस्यैव सतः तदेकप्रतिष्ठितता प्रतिबन्धकृदनाद्यविद्याकृतं देहादिप्रतिष्ठितत्वमपि दृष्टम् ; अतो देहादिविषयत्वाविरोधिस्वविषयप्रतिष्ठत्वमहंप्रत्ययस्य । अतो युक्त्या विषयविवेचनेऽपि स्वविषयोपदर्शनेन तत्प्रतिष्ठत्वमात्रं कृतं नाधिकमादर्शितम् । स्वविषयप्रतिष्ठत्वं देहादिषु अहंममाभिमानेन विरुध्यते इत्युक्तम् । अतः न्यायतो विषयविवेचनादूर्ध्वमपि प्रागवस्थातो विशिष्यते अहंप्रत्ययः । तेन कदाचिदपिमनुष्योऽहमि’ति प्रत्ययो गौणः । तदेवं स्वयञ्ज्योतिष एव सतो जीवस्य कार्यकरणसङ्घातव्यतिरिक्ततायाः तथा अनवभासदर्शनात्मनुष्योऽहमि’ति चाध्यासोपलब्धेः ब्रह्मात्मैकत्वस्यापि तत्स्वरूपस्यानवभासनं पूर्वकालकोटिरहितप्रकाशाच्छादिततमोनिमित्तं श्रुति तदर्थापत्तिसमर्पितं, तन्निमित्ताहङ्काराध्यासश्च सम्भाव्यते । अनादित्वाच्च पूर्वदृष्टत्वं स्मृतिरूपत्वं  । पृथग्भोक्तृविषयानुभवफलाभावात् भोक्तृचैतन्यसंवलितैकानुभवफलत्वाच्च परत्र परावभासस्यान्योन्यसम्भेदस्य विद्यमानत्वादध्यासलक्षणव्याप्तिरिहाप्युपपद्यते

कोऽयमध्यासो नामे’ति किंवृत्तस्य प्रश्न आक्षेपे समानवर्तिनो विशेषानुपलब्धेःपृष्टमनेने’ति मत्वा अध्यासस्वरूपे अभिहिते पुनःआक्षिप्तं मये’त्यभिप्रायं विवृणोति

कथं पुनः प्रत्यगात्मन्यविषये अध्यासो विषयतद्धर्माणामिति

बाढमेवंलक्षणोऽध्यासः, चेह सम्भवति । कथम् ? यतः

सर्वो हि पुरोऽवस्थिते विषये विषयान्तरमध्यस्यति ; युष्मत्प्रत्ययापेतस्य प्रत्यगात्मनोऽविषयत्वं ब्रवीषि

ह्यविषये अध्यासो दृष्टपूर्वः सम्भवी वा, उच्यते

तावदयमेकान्तेनाविषयः ; अस्मत्प्रत्ययविषयत्वात्

ननु विषयिणश्चिदात्मनः कथं विषयभावः ? पराग्भावेन इदन्तासमुल्लेख्यो हि विषयो नाम, भवति तद्वैपरीत्येन प्रत्यग्रूपेणानिदम्प्रकाशो विषयी ; तत् कथमेकस्य निरंशस्य विरुद्धांशद्वयसन्निवेशः ? अत्रोच्यतेअस्मत्प्रत्ययत्वाभिमतोऽहङ्कारः । चेदमनिदंरूपवस्तुगर्भः सर्वलोकसाक्षिकः । तमवहितचेतस्तया निपुणतरमभिवीक्ष्य रूपकपरीक्षकवत् स्वानुभवमप्रच्छादयन्तो वदन्तु भवन्तः परीक्षकाःकिमुक्तलक्षणः ? वा ? इति

ननु किमत्र वदितव्यम् , असम्भिन्नेदंरूप एव अहमित्यनुभवः, कथम् ? प्रमातृ - प्रमेय - प्रमितयस्तावदपरोक्षाः, प्रमेयं कर्मत्वेनापरोक्षम् , प्रमातृप्रमिती पुनरपरोक्षे एव केवलम् , कर्मतया ; प्रमितिरनुभवः स्वयम्प्रकाशः प्रमाणफलम् , तद्बलेन इतरत् प्रकाशते, प्रमाणं तु प्रमातृव्यापारः फललिङ्गो नित्यानुमेयः । तत्रअहमिदं जानामी’ति प्रमातुर्ज्ञानव्यापारः कर्मविषयः, नात्मविषयः, आत्मा तु विषयानुभवादेव निमित्तादहमिति फले विषये चानुसन्धीयते

ननु नायं विषयानुभवनिमित्तोऽहमुल्लेखः, किं तु अन्य एव आत्ममात्रविषयःअहमि’ति प्रत्ययः । तस्मिंश्च द्रव्यरूपत्वेनात्मनः प्रमेयत्वं, ज्ञातृत्वेन प्रमातृत्वमिति, प्रमातृप्रमेयनिर्भासरूपत्वादहंप्रत्ययस्य ग्राह्यग्राहकरूप आत्मा । तस्मादिदमनिदंरूपः ; प्रमेयांशस्येदंरूपत्वात् , अनिदंरूपत्वात् प्रमात्रंशस्य चैतद्युक्तम् ; अनंशत्वात् , अपरिणामित्वाच्चात्मनः, प्रमेयस्य चेदंरूपतया पराग्रूपत्वादनात्मत्वात् । तस्मान्नीलादिज्ञानफलमनुभवः स्वयम्प्रकाशमानो ग्राह्यमिदन्तया, ग्राहकं चानिदन्तयाऽवभासयति, ग्रहणं चानुमापयतीति युक्तम् , अतो नेदमंशोऽहङ्कारो युज्यते, उच्यतेतत्रेदं भवान् प्रष्टव्यः, किमात्मा चैतन्यप्रकाशोऽनुभवो जडप्रकाशः ? उत सोऽपि चैतन्यप्रकाशः ? अथवा एव चैतन्यप्रकाशः, आत्मा जडस्वरूपः ? इति । तत्र तावत्प्रथमः कल्पः ; जडस्वरूपे प्रमाणफले विश्वस्यानवभासप्रसङ्गात् , मैवम् ; प्रमाता चेतनस्तद्बलेन प्रदीपेनेव विषयमिदन्तया, आत्मानं चानिदन्तया चेतयते, इति विश्वस्यानवभासप्रसङ्गः, तन्न ; स्वयञ्चैतन्यस्वभावोऽपि सन् विषयप्रमाणेनाचेतनेनानुगृहीतः प्रकाशत इति, नैतत् साधु लक्ष्यते । किं प्रमाणफलेन चेत् प्रदीपेनेव विषयमात्मानं चेतयते, तदा चेतयति क्रियानवस्थाप्रसङ्गः

द्वितीये कल्पे आत्मापि स्वयमेव प्रकाशेत, किमिति विषयानुभवमपेक्षेत ? अथ चैतन्यस्वभावत्वेऽपि नात्मा स्वयम्प्रकाशः, विशेषे हेतुर्वाच्यः । हि चैतन्यस्वभावः सन् स्वयं परोक्षोऽन्यतोऽपरोक्ष इति युज्यते । किं समत्वान्नेतरेतरापेक्षत्वं प्रकाशने प्रदीपयोरिव । तृतीयेऽपि कल्पे अनिच्छतोऽप्यात्मैव चिति प्रकाश आपद्यते, तदतिरिक्ततथाविधफलसद्भावे प्रमाणमस्ति । कथम् ? प्रमाणजन्यश्चेदनुभवः, तथा सति स्वगतेन विशेषेण प्रतिविषयं पृथक् पृथगवभासेत, सर्वानुभवानुगतं गोत्ववदनुभवत्वमपरमीक्ष्येत । नीलानुभवः पीतानुभवः’, इति विषयविशेषपरामर्शशून्यः स्वगतो विशेषो लक्ष्यते

ननु विनष्टाविनष्टत्वेन विशेषः सिध्यति । सिध्येत् , यदि विनष्टाविनष्टता सिध्येत् ; सा जन्यत्वे सति, तस्यां सिद्धायां जन्यत्वम् इति परस्परायत्तस्थितित्वेन एकमपि सिध्येत् । एतेन अतिसादृश्यादनुभवभेदो विभाव्यत इति प्रत्युक्तं भेदासिद्धेः । हि चित्प्रकाशस्य स्वगतो भेदो प्रकाशते इति युक्तिमत् ; येन तदप्रकाशनात् सादृश्यनिबन्धनो विभ्रमः स्यात् । यथा जीवस्य स्वयञ्ज्योतिषोऽपि स्वरूपमेव सत् ब्रह्मरूपत्वं प्रकाशते तद्वत् स्यादिति युक्तम् ; अभिहितं तत्राप्रकाशने प्रमाणम् , इह तन्नास्ति । हि सामान्यतोदृष्टमनुभवविरोधे युक्तिविरोधे समुत्तिष्ठति ; दर्शिते चानुभवयुक्ती । तस्मात् चित्स्वभाव एवात्मा तेन तेन प्रमेयभेदेनोपधीयमानोऽनुभवाभिधानीयकं लभते, अविवक्षितोपाधिरात्मादिशब्दैरभिधीयते ; अवधीरितवनाभिधाननिमित्तैकदेशावस्थाना इव वृक्षा वृक्षादिशब्दैः इत्यभ्युपगन्तव्यम् , बाढम् ; अत एव विषयानुभवनिमित्तोऽनिदमात्मकोऽहङ्कारो वर्ण्यते, सत्यमेवं ; किन्तु तथा सति सुषुप्तेपिअहमि’त्युल्लेखः स्यात् । कथम् ? नीलानुषङ्गो यश्चैतन्यस्य, नीलभोगः, नासावहमुल्लेखार्हः । ’अहमि’ति आत्मा अवभासते । तत्र यदि नाम सुषुप्ते विषयानुषङ्गाभावादिदं जानामी’ति विषयतदनुभवपरामर्शो नास्ति, मा भूत् ; अहमित्यात्ममात्रपरामर्शः किमिति भवेत् ?

ननु अहमिति भोक्तृत्वं प्रतिभासते, तदभावे कथं तथा प्रतिभासः ? नैतत् सारम् ; समुत्कालितोपाधिविशेषं चैतन्यमात्रमस्मदर्थः, ततः सर्वदा अहमिति स्यात् , नैतच्छक्यम् ; उपाधिपरामर्शेन चैतन्यमहमित्युल्लिख्यत इति वक्तुम् ; तत्परामर्शो हि तत्सिद्धिनिमित्तः, स्वरूपसिद्धिहेतुः स्वमाहात्म्येनैव तु स्वरूपसिद्धिः । ततश्च विषयोपरागानुभवात्मत्वशून्यः स्वरूपतः अहमिति सुषुप्तेऽप्यवभासेत ; दृशिरूपत्वाविशेषात् । भवत्येवेति चेत् , ; तथा सति स्मर्येत ह्यस्तन इवाहङ्कारः । अविनाशिनः संस्काराभावात् स्मर्यते इति चेत् , ह्यस्तनोऽपि स्मर्येत

ननु अस्त्येव सुषुप्ते अहमनुभवःसुखमहमस्वाप्समि’ति ; सुषुप्तोत्थितस्य स्वापसुखानुभवपरामर्शदर्शनात् , नात्मनोऽन्यस्य तत्रानुभवः सम्भवति, सत्यमस्ति ; तत् स्वापे सुखानुभवसंस्कारजं स्मरणम् , किं तर्हि ? सुखावमर्शो दुःखाभावनिमित्तः, कथम् ? स्वप्ने तावदस्त्येव दुःखानुभवः, सुषुप्ते तु तदभावात् सुखव्यपदेशः । तदभावश्च करणव्यापारोपरमात् । यदि पुनः‘सुप्तः सुखम्इति तद्विषयं स्मरणं स्यात् , तदा विशेषतः स्मर्येत, तदस्ति । व्यपदेशोऽपिसुखं सुप्ते किञ्चिन्मया चेतितम्इति हि दृश्यते । यत् पुनः सुप्तोत्थितस्य अङ्गलाघवेन्द्रियप्रसादादिना सुखानुभवोन्नयनमिति, तदसत् ; अनुभूतं चेत् सुखं स्मर्येत, तत्र लिङ्गेन प्रयोजनम् । यद्येवं, सुप्तोत्थितस्य कथं कस्यचिदङ्गलाघवं कस्य चिन्न ? इति ; उच्यतेजागरणे कार्यकरणानि श्राम्यन्ति ; तदपनुत्तये व्यापारोपरमः स्वापः । तत्र यदि सम्यक् व्यापारोपरमः, तदा अङ्गानि लघूनि, इतरथा गुरूणीति । तदेवं नायं नीलादिप्रत्ययादन्य एवात्मविषयोऽहंप्रत्ययः, नापि विषयानुभवादेवाहमुल्लेखः । तस्मात् ब्रह्मविदामेकपुण्डरीकस्य लोकानुग्रहैकरसतया सम्यग्ज्ञानप्रवर्तनप्रयोजनकृतशरीरपरिग्रहस्य भगवतो भाष्यकारस्य मतमागमयितव्यम्

तदुच्यतेयेयं श्रुतिस्मृतीतिहासपुराणेषु नामरूपम् , अव्याकृतम् , अविद्या, माया, प्रकृतिः, अग्रहणम् , अव्यक्तं, तमः, कारणं, लयः, शक्तिः, महासुप्तिः, निद्रा, अक्षरम् , आकाशम् इति तत्र तत्र बहुधा गीयते, चैतन्यस्य स्वत एवावस्थितलक्षणब्रह्मस्वरूपतावभासं प्रतिबध्य जीवत्वापादिका अविद्याकर्मपूर्वप्रज्ञासंस्कारचित्रभित्तिः सुषुप्ते प्रकाशाच्छादनविक्षेपसंस्कारमात्ररूपस्थितिरनादिरविद्या, तस्याः परमेश्वराधिष्ठितत्वलब्धपरिणामविशेषो विज्ञानक्रियाशक्तिद्वयाश्रयः कर्तृत्वभोक्तृत्वैकाधारः कूटस्थचैतन्यसंवलनसञ्जातज्योतिः स्वयम्प्रकाशमानोऽपरोक्षोऽहङ्कारः, यत्सम्भेदात् कूटस्थचैतन्योऽनिदमंश आत्मधातुरपि मिथ्यैव’भोक्ते’ति प्रसिद्धिमुपगतः । सुषुप्ते समुत्खातनिखिलपरिणामायामविद्यायां कुतस्त्यः ? चैवं मन्तव्यम् , आश्रितपरिणतिभेदतयैवाहङ्कारनिर्भासेऽनन्तर्भूतैव तन्निमित्तमिति ; तथा सति अपाकृताहङ्कृतिसंसर्गो भोक्तृत्वादिस्तद्विशेषः केवलमिदन्तयैवावभासेत, तथा समस्ति परिणामविशेषः, अनिदञ्चिदात्मनो बुद्ध्या निष्कृष्य वेदान्तवादिभिः अन्तःकरणं, मनः, बुद्धिरहंप्रत्ययी इति विज्ञानशक्तिविशेषमाश्रित्य व्यपदिश्यते, परिस्पन्दशक्त्या प्राणः इति । तेन अन्तःकरणोपरागनिमित्तं मिथ्यैवाहङ्कर्तृत्वमात्मनः, स्फटिकमणेरिवोपधाननिमित्तो लोहितिमा

कथं पुनः स्फटिके लोहितिम्नो मिथ्यात्वम् ? उच्यतेयदि स्फटिकप्रतिस्फालिता नयनरश्मयो जपाकुसुममुपसर्पेयुः, तदा विशिष्टसंनिवेशं तदेव लोहितं ग्राहयेयुः । हि रूपमात्रनिष्ठश्चाक्षुषः प्रत्ययो दृष्टपूर्वः ; नापि स्वाश्रयमनाकर्षद्रूपमात्रं प्रतिबिम्बितं क्वचिदुपलब्धपूर्वम् । ननु अभिजातस्येव पद्मरागादिमणेः जपाकुसुमादेरपि प्रभा विद्यते, तया व्याप्तत्वात् स्फटिकोऽपि लोहित इवावभासते ; तथापि स्वयमलोहितो मिथ्यैव लोहित इत्यापद्येत । अथ प्रभैव लोहितोऽवभासते, स्फटिक इति ; शौक्ल्यमपि तर्हि स्फटिके प्रकाशेत । अथ प्रभया अपसारितं तदिति चेत् , तर्हि नीरूपः कथं चाक्षुषः स्यात् ? रूपिद्रव्यसंयोगात् ; वायोरपि तथात्वप्रसङ्गात् । प्रभानिमित्तं लौहित्यं तत्रोत्पन्नम् ; उत्तरकालमपि तथा रूपप्रसङ्गात् । अभ्युपगम्य प्रभामिदमुक्तम् । यथा पद्मरागादिप्रभा निराश्रयापि उन्मुखोपलभ्यते, तथा जपाकुसुमादेःतदेवं स्फटिकमणावुपधानोपराग इव चिदात्मन्यप्यहङ्कारोपरागः । ततः सम्भिन्नोभयरूपत्वात् ग्रन्थिरिव भवतीति अहङ्कारो ग्रन्थिरिति गीयते ।

तत्र जडरूपत्वादुपरक्तस्य तद्बलादुपरागस्य साक्षाद्भावः, चिद्रूपस्य पुनरुपरागः तद्विषयव्यापारविरहिणोऽपि तद्बलात् प्रकाशतेतेन लक्षणत इदमंशः कथ्यते, व्यवहारतः । व्यवहारतः पुनः यदुपरागादनिदमात्मनोऽहङ्कर्तृत्वं मिथ्या, तदात्मनः तद्व्यापारेण व्याप्रियमाणस्यैव व्यापारपूर्वको यस्य परिच्छेदः, एवेदमात्मको विषयः । अत एव 'अहमि’त्यसम्भिन्नेदमात्मकोऽवभासः इति विभ्रमः केषाञ्चित् । दृष्टश्च लक्षणतः तद्व्यवहारार्होऽपि तमननुपतन् । तद्यथा अङ्कुरादिफलपर्यन्तो वृक्षविकारो मृत्परिणामपरम्परापरिनिष्पन्नोऽपि घटवल्मीकवत् मृण्मयव्यवहारमनुपतति, व्युत्पन्नमतयस्तु तद्व्यवहारमपि नातीवोल्बणं मन्यन्ते । अत एव निपुणतरमभिवीक्ष्य रूपकपरीक्षकवदहङ्कारं निरूपयतां सम्भिन्नेदंरूपः सः इत्यभिहितम् । यत् पुनः दर्पणजलादिषु मुखचन्द्रादिप्रतिबिम्बोदाहरणम् , तत् अहङ्कर्तुरनिदमंशो बिम्बादिव प्रतिबिम्बं ब्रह्मणो वस्त्वन्तरम् , किं तु तदेव तत्पृथगवभासविपर्ययस्वरूपतामात्रं मिथ्या इति दर्शयितुम् । कथं पुनस्तदेव तत् ? एकस्वलक्षणत्वावगमात् ।

तथा यथा बहिःस्थितो देवदत्तो यत्स्वलक्षणः प्रतिपन्नः, तत्स्वलक्षण एव वेश्मान्तःप्रविष्टोऽपि प्रतीयते, तथा दर्पणतलस्थितोऽपि ; तत् वस्त्वन्तरत्वे युज्यते । अपि अर्थात् वस्त्वन्तरत्वे सति आदर्श एव बिम्बसन्निधावेव तदाकारगर्भितः परिणतः इति वाच्यम् ; विरुद्धपरिमाणत्वात् संश्लेषाभावाच्च प्रतिमुद्रेव बिम्बलाञ्छितत्वानुपपत्तेः, तथा सति बिम्बसन्निधिलब्धपरिणतिरादर्शः तदपायेऽपि तथैवावतिष्ठेत । खलु संवेष्टितः कटो निमित्तलब्धप्रसारणपरिणतिः निमित्तापगमे तत्क्षणमेव संवेष्टते यथा, तथा स्यादिति मन्तव्यम् ; यतश्चिरकालसंवेष्टनाहितसंस्कारः तत्र पुनःसंवेष्टननिमित्तम् । तथा यावत्संस्कारक्षयं प्रसारणनिमित्तानुवृत्तौ पुनःसंवेष्टनोपजनः, एवं चिरकालसन्निहितबिम्बनिमित्ततदाकारपरिणतिरादर्शः तथैव तदपायेऽपि यावदायुरवतिष्ठेत, तथोपलभ्यते ; यः पुनः कमलमुकुलस्य विकासपरिणतिहेतोः सावित्रस्य तेजसो दीर्घकालानुवृत्तस्यापि विगमे तत्समकालं पुनर्मुकुलीभावः, प्रथमतरमुकुलहेतुपार्थिवाप्यावयवव्यापारनिमित्तः ; तदुपरमे जीर्णस्य पुनर्मुकुलतानुपलब्धेः, नादर्शे पुनस्तथा पूर्वरूपपरिणामहेतुरस्ति । अत्राहभवतु वस्त्वन्तरं, तदेव तदिति तु क्षम्यते ; शुक्तिकारजतस्य मिथ्यारूपस्यापि सत्यरजतैकरूपावभासित्वदर्शनात् , मैवम् ; तत्र हि बाधदर्शनात् मिथ्याभावः, नेह बाधो दृश्यते । यः पुनः दर्पणापगमे तदपगमः, बाधः ; दर्पणेऽपि तत्प्रसङ्गात्

ननु तत्त्वमसिवाक्यात् बाधो दृश्यते, मैवम् ; तत्र’तत्त्वमि’ति बिम्बस्थानीयब्रह्मस्वरूपताप्रतिबिम्बस्थानीयस्य जीवस्योपदिश्यते ; अन्यथा न’तत्त्वमसी’ति स्यात् , किन्तु‘न त्वमसी’ति भवेत् , ‘ रजतमस्ती’तिवत् । किं शास्त्रीयोऽपि व्यवहारः प्रतिबिम्बस्य पारमार्थिकमिव बिम्बैकरूपत्वं दर्शयतिनेक्षेतोद्यन्तमादित्यं नास्तं यन्तं कदाचन । नोपरक्तं वारिस्थं मध्यं नभसो गतम्इतियस्तु मन्यते पराक्प्रवणप्रवृत्तनयनरश्मिभिः बिम्बमेव भिन्नदेशस्थं गृह्यते, किन्तु दर्पणप्रतिस्फालितैः परावृत्त्य प्रत्यङ्मुखैः स्वदेशस्थमेव बिम्बं गृह्यते इति, तमनुभव एव निराकरोतीति, पराक्रम्यते । कथं पुनः परिच्छिन्नमेकमेकस्वभावं विच्छिन्नदेशद्वये सर्वात्मना अवभासमानमुभयत्र पारमार्थिकं भवति ? वयं विच्छेदावभासं पारमार्थिकं ब्रूमः, किं तु एकत्वं विच्छेदस्तु मायाविजृम्भितः । हि मायायामसम्भावनीयं नाम ; असम्भावनीयावभासचतुरा हि सा

ननु सत्येव बिम्बैकतावगमे प्रतिबिम्बस्य तद्गतो विच्छेदादिमिथ्यावभासः, तथा ब्रह्मैकतावगमेऽपि जीवस्य विच्छेदादिमिथ्यावभासो निवर्तितुमर्हति, उच्यतेदेवदत्तस्याचेतनांशस्यैव प्रतिबिम्बत्वात् , सचेतनांशस्यैव वा प्रतिबिम्बत्वे प्रतिबिम्बहेतोः श्यामादिधर्मेणेव जाड्येनाप्यास्कन्दितत्वात् तत् प्रतिबिम्बं बिम्बैकरूपतामात्मनो जानाति ; अचेतनत्वात् , तथा चानुभवः बिम्बचेष्टया विना प्रतिबिम्बं चेष्टतेइति । यस्य हि भ्रान्तिरात्मनि परत्र वा समुत्पन्ना, तद्गतेनैव सम्यग्ज्ञानेन सा निवर्तते, यस्तु जानीते देवदत्तः प्रतिबिम्बस्यात्मनोऽभिन्नत्वं, तद्गतेन दोषेण संस्पृश्यते, नापि ज्ञानमात्रात् प्रतिबिम्बस्य निवृत्तिः ; तद्धेतोः दर्पणादेः पारमार्थिकत्वात् । जीवः पुनः प्रतिबिम्बकल्पः सर्वेषां प्रत्यक्षश्चिद्रूपः नान्तःकरणजाड्येनास्कन्दितः । चाहङ्कर्तृत्वमात्मनो रूपं मन्यते, बिम्बकल्पब्रह्मैकरूपताम् ; अतो युक्तस्तद्रूपावगमे मिथ्यात्वापगमः

ननु तत्र विभ्राम्यतो विभ्रमहेतुर्दर्पणालक्तकादिपरमार्थवस्तु सन्निहितमस्ति, तथेह किञ्चित् सर्वत्रैव चिद्विलक्षणे विभ्रमविलासाभिमानिन इति मा भूदाशङ्केति रज्जुसर्पमुदाहरन्ति

ननु तत्रापि यदि नामेदानीमसन्निहितः सर्पः, तथापि पूर्वनिर्वृत्ततदनुभवसंस्कारः समस्त्येव, बाढम् ; इहाप्यहङ्कर्तृतातत्संस्कारयोर्बीजाङ्कुरयोरिवानादेः कार्यकारणभावस्य वक्ष्यमाणत्वात् तत्संस्कारो विभ्रमहेतुः विद्यते । तत्र यद्यपि अनिर्वचनीयतयैव अरुणादिना स्फटिकादेः सावयवत्वेन सम्भेदयोग्यस्यापि असम्भेदावभासः सिद्धः ; तथापि तदासङ्गीव स्फटिकप्रतिबिम्बमुत्प्रेक्षते, रज्ज्वां पुनः सर्पबुद्धिरेव, तत्सम्भिन्नत्वमसम्भिन्नत्वं वा तस्याम् । तेन असङ्गो हि सज्जते’ (बृ. उ. ३-९-२६) असङ्गो ह्ययं पुरुषः’ (बृ. उ. ४-३-१५) इत्यादिश्रुतिसमर्पितासङ्गता आत्मनो स्पष्टं दर्शितेति तदर्थं घटाकाशोदाहरणम् । तत्र हि तत्परामर्शादृते भेदरूपकार्यसमाख्याः स्वगता दृश्यन्ते । एतच्च सर्वमुदाहरणजातं श्रुतितन्न्यायानुभवसिद्धस्य तदसम्भावनापरिहाराय बुद्धिसाम्यार्थं , वस्तुन एव साक्षात् सिद्धये । तदेवं यद्यपि चैतन्यैकरसोऽनिदमात्मकत्वादविषयः ; तथाप्यहङ्कारे व्यवहारयोग्यो भवतीति गौण्यावृत्त्या अस्मत्प्रत्ययविषयतोच्यते ; प्रमेयस्य व्यवहारयोग्यत्वाव्यभिचारात्

ननु व्यवहारयोग्यत्वे अध्यासः, अध्यासपरिनिष्पन्नाहंप्रत्ययबलात् व्यवहारयोग्यत्वम् इति प्राप्तमितरेतराश्रयत्वम् , ; अनादित्वेन प्रत्युक्तत्वात् । तत्र एवंभूतस्य अहङ्कर्तुरिदमंशस्य ज्ञानसंशब्दितो व्यापारविशेषः सकर्मत्वात् कर्मकारकाभिमुखं स्वाश्रये कञ्चिदवस्थाविशेषमादधाति ; स्वाश्रयविकारहेतुत्वात् क्रियायाः । प्राप्नोतिक्रियाहितकर्तृस्थविशेषवत् कर्मसम्बन्धो ज्ञातुः ज्ञेयसम्बन्धः इति गीयते । तेन विषयविशेषसम्बद्धमेवान्तःकरणे चैतन्यस्यावच्छेदकम् । कर्मकारकमपि प्रधानक्रियासिद्धौ स्वव्यापाराविष्टं चैतन्यविवर्त्तत्वात् प्रधानक्रियाहितप्रमात्रवस्थाविशेषावच्छिन्नापरोक्षतैकरूपामपरोक्षतामभिव्यनक्ति । ततश्चात्मनोऽन्तःकरणावस्थाविशेषोपाधिजनितो विशेषः विषयानुभवसंशब्दितो विषयस्थापरोक्षैकरसः फलमिति क्रियैकविषयता फलस्य युज्यते । एवं चाहङ्कर्ता स्वांशचैतन्यबलेन व्यापाराविष्टतया प्रमाता, इति बुद्धिस्थमर्थं पुरुषश्चेतयत इत्युच्यते । तत्र प्रमातुः स्वयञ्ज्योतिषो विषयसम्बन्धसञ्जातविशेषोऽनुभवोऽपरोक्षतया सर्वान् प्रत्यविशिष्टोऽपि कारकाणां सम्भूय प्रधानक्रियासाधनत्वात् , येन सह साधनं, तन्निष्ठ एव, नान्यत्र । कर्मकारकमपि येन सह साधनं, तस्यैवापरोक्षं ; गन्तृसम्बन्ध इव ग्रामस्य

ननु नीलादिविषयोऽपि चेदपरोक्षस्वभावः, नीलात्मिका संविदित्युक्तं स्यात् ; अतः एव माहायानिकपक्षः समर्थितः, मैवम्परस्परव्यावृत्तौ नीलपीताववभासेते, अपरोक्षता तु तथा, एकरूपावगमाद्विच्छेदावभासेऽपि, अतः तत्स्वभावता । यदि स्यात् , तद्वदेव व्यावृत्तस्वभावताऽप्यवभासेत, तथा । किं तैरपि नीलात्मकसंविदोऽन्य एव पराग्व्यावृत्तोऽपरोक्षः प्रत्यगवभासः स्वरूपमात्रे पर्यवसितो विकल्प उपेयते, प्रतीयते नीलसंवित् प्रत्यग्व्यावृत्तेदन्तया ग्राह्यरूपा ; ततश्च वस्तुद्वयं ग्राह्यग्राहकरूपमितरेतरव्यावृत्तं सिद्धम्

नैतत्द्वयोरपि स्वरूपमात्रनिष्ठयोः कुतो विषयविषयिभावः ? कथं पुनःइदमहं जानामी’ति तयोर्ग्राह्यग्राहकतावभासः ? नायं तदवभासः, किन्तुअहमि’तिइदमि’तिजानामी’ति परस्परव्यावृत्ता विकल्पा एते । कथं पुनः तेषु कटाक्षेणाप्यन्योन्यमनीक्षमाणेष्वयं सम्बन्धावगमः ? तद्वासनासमेतसमनन्तरप्रत्ययसमुत्थं सङ्कलनात्मकं प्रत्ययान्तरमेतत् ; नेह सम्बन्धावगमः ? किं पुनः एवमनुभवानारूढामेव प्रक्रियां विरचयति भवान् ! क्षणविध्वंसिनः क्रियानुपपत्तेः ; स्थायित्वे हि सत्यहमुल्लेख्यस्य स्थायिनैव नीलादिना क्रियानिमित्तः सम्बन्धः, ततश्च क्रियानिमित्तैव नीलादेरप्यपरोक्षता स्यात् , स्थायित्वमस्ति । यद्येवं, ’अहमि’ति संविदः प्रतिक्षणं स्वलक्षणभेदेन भाव्यं, किं विद्यते ? वेति ? स्वसंविदमगूहमानैरेवाभिधीयताम् ! अथ अत्यन्तसादृश्यात् भेदोऽवभासते इति, संविदोऽपि चेत् स्वरूपं नावभासते, आयातमान्ध्यमशेषस्य जगतः ! अपि तद्रूपप्रतिभासे सादृश्यकल्पना प्रमाणविरुद्धा, निष्प्रमाणिका ! तद्रूपप्रतीतेः व्यामोहत्वात् प्रमाणविरुद्धता, नाप्यप्रामाणिकता ; निर्बीजभ्रान्त्ययोगादिति चेत् , इतरेतराश्रयत्वात् । सिद्धे व्यामोहे सादृश्यसिद्धिः ; प्रमाणविरोधाभावात् , प्रमाणसद्भावाच्च, सिद्धे सादृश्ये तन्निमित्ता व्यामोहसिद्धिः

स्यादेतत् , अव्यामोहेऽपि तुल्यमेतत् , सिद्धे हि सादृश्यकल्पनाया अप्रामाणिकत्वे प्रमाणविरोधे तद्रूपप्रतीतेरव्यामोहत्वम् , अव्यामोहत्वे चास्याः सादृश्यकल्पनायाः निष्प्रमाणकत्वं प्रमाणविरोधश्च, नैतत् ; स्वारसिकं हि प्रामाण्यं प्रतीतेरनपेक्षम् । तथा तत्प्रामाण्यात् सादृश्यकल्पना निष्प्रामाणिकी प्रमाणविरुद्धा , तु सादृश्यकल्पना स्वतःसिद्धा, येन प्रामाण्यमावहेत् , अप्रामाण्यपूर्विकैव सा । अथ अन्ते क्षयदर्शनादौ क्षयानुमानम् ; अतो भिन्नत्वात् सादृश्यकल्पनेति ? आदौ सत्तादर्शनादन्तेऽपि सा किं नानुमीयते ? क्षयानुभवविरोधादिति चेत् , इहापि तद्रूपसत्त्वादनुभवविरोधः ; ह्युभयोरनुभवयोः कश्चिद्विशेषः ! अथ मन्येत योऽसौ स्थिरत्वेनाभिमतोऽहमुल्लेखः, किं काञ्चिदर्थक्रियां कुर्याद्वा ? वा ? यदि कुर्यात् असल्लक्षणप्राप्तेर्न परमार्थवस्तु ; अथ कुर्यात् , तर्हि स्थायी ; स्थायिनोऽर्थक्रियाऽयोगात् । कथमयोगः ? इत्थमयोगः तां कुर्वन् क्रमेण कुर्याद्यौगपद्येन वा ? तावत् क्रमेण ; पूर्वोत्तरकालयोः तस्य विशेषाभावेऽपि, किमिति पूर्वस्मिन्नेव काल उत्तरकालभाविनीमपि कुर्यात् ? नापि यौगपद्येन ; यावज्जीवकृत्यमेकस्मिन्नेव क्षणे कृतमित्युत्तरकाले तद्विरहादसल्लक्षणत्वप्राप्तेः । अतोऽर्थक्रियाकारित्वादेव स्थायी । तेन प्रतिक्षणं भिन्नेष्वहमुल्लेखेषु तद्बुद्धिः सादृश्यनिबन्धनेति, उच्यतेअथ केयमर्थक्रिया ? यदभावादसल्लक्षणत्वप्राप्तिः । स्वविषयज्ञानजननम् ? प्राप्तं तर्हि सर्वासामेव संविदां स्वसंविदितरूपत्वेन स्वविषयज्ञानाजननादसल्लक्षणत्वम् । सन्तानान्तरेऽपि तज्जननम् ; अनैन्द्रियकत्वात् , अनुमानेऽपि अर्थजन्यत्वाभावात् । सार्वज्ञ्येऽपि साक्षात् स्वसंविदं जनयति ; संसारसंविदेकरूपत्वप्रसङ्गात् , अतद्रूपत्वे तद्विषयत्वायोगात्अथ क्षणान्तरोत्पादोऽर्थक्रिया ? चरमक्षणस्यासल्लक्षणत्वप्रसङ्गः, सर्वज्ञज्ञानजननेनार्थवत्त्वम् ; चरमत्वानुपपत्तेः मुक्त्यभावप्रसङ्गात् । संवित्संविदो विषयः ; संविदात्मना भेदाभावात् प्रदीपस्येव प्रदीपान्तरम् । किञ्च नार्थक्रियातः सत्त्वं भवति ; स्वकारणनिष्पन्नस्य कार्यजननात् । अतः प्रतीतिः वक्तव्या । तत्र तस्या अन्यतः सत्त्वप्रतीतिः तस्या अप्यन्यतः इत्यनवस्थानात् क्वचित् सत्तानवगमः, इति शून्यं जगदभविष्यत् । ननु स्वज्ञानार्थक्रियायाः स्वयंसिद्धत्वात् अनवस्था ? तर्ह्यर्थक्रियातः सत्तावगमः ; हि स्वरूपमेव स्वस्यार्थक्रियायत् पुनः क्रमेणार्थक्रिया युज्यते ; पूर्वोत्तरकालयोः तस्य विशेषाभावादिति, नैष दोषः ; स्थायिनोऽपि कारणस्य सहकारिसव्यपेक्षस्य जनकत्वात् विशेषाभावादित्ययुक्तम् । अथ कारणस्यान्यापेक्षा युक्ता, अकारणस्यापि नतरामित्यसहकारि विश्वं स्यात् । अथाकारणं कारणोत्पत्तयेऽपेक्षत इति चेत् , अथ तत् कारणस्य कारणम् ? अकारणं वा ? कारणं चेत् , नापेक्षितुमर्हति । अकारणं चेत् नतराम् । अथ नापेक्षा हेतूनां सहकारिणीति ब्रूयात् , दर्शनेन बाध्येत ; दृष्टं हि सहकार्यपेक्षत्वं हेतूनाम् । तस्मात् यथैव हेतोः हेतुत्वं सति कार्ये केनाप्यतर्कणीयेन क्रमेण ज्ञायते ; सत्येव हेतौ कार्यस्य दर्शनात् , तथा समेतसहकारिण्येव दर्शनात् सहकार्यपेक्षस्य तद्विज्ञेयम्

यस्तु मन्यतेसहकारिजनितविशेषो हेतुः कार्यं जनयति ; अन्यथाऽनुपकारिणोऽपेक्षायोगादिति ; वक्तव्यःविशेषस्य हेतुरहेतुर्वा ? अहेतुश्चेत् , विशेषोत्पत्तौ नापेक्ष्येत ; तत्र केवला एव सहकारिणो विशेषमुत्पादयेयुः, ततश्च कार्यं स्यात् । अथ हेतुः ? सहकारिभिरजनितविशेषस्तमेव कथं कुर्यात् ? विशेषस्य वा जनने अनवस्था । अथ मतं सर्वं कार्यं सहकारिजनितात्मभेदहेतुजन्यम् , समग्रेषु हेतुषु तावत्येवाभवदङ्कुरादि ; तथा किञ्चित्सन्निहितसहकारिहेतुजन्यं, यथा अक्षेपकारीन्द्रियादिज्ञानम् ; तत्र आद्यो विशेषः सहकारिसन्निधानमात्रलभ्यः ; अक्षेपकारीन्द्रियादिज्ञानवदिति नानवस्था ? अनुपकुर्वन्नपि तर्हि सहकारी अपेक्ष्येत । हि तत्र हेतोः सहकारिभ्य आत्मभेदः । नानुपकुर्वन्नपेक्ष्यते ; अतिप्रसङ्गात् । स्वरूपे तु नोपकरोति, किन्तु कार्ये ; तत्सिद्धेस्तन्नान्तरीयकत्वात् ? नित्योपि तर्ह्यनाधेयातिशयो भावः कार्यसिद्धये क्षणिक इव सहकारिणमपेक्षत इति किं नाभ्युपेयते ? यथैव क्षणिको भावः सहकारिसमवधाने एव कार्यं जनयति ; सामग्रीसाध्यत्वात् , तथा नित्योऽपि स्वरूपानुपयोगित्वेऽपि सहकारिसमवधानं कार्योपयोगादपेक्षेतअथ मतम्क्षणिकोऽपि नैवापेक्षते, जन्यजनकस्य स्वयमन्यापेक्षानुपपत्तेः, कार्यं तु यदन्यसन्निधौ भवति तत् ; तस्यान्यसन्निधावेव भावात् अन्यथा चाभावात् , नित्यस्य तु जनकस्य सर्वदा जननप्रसङ्गः । को हेतुरन्यापेक्षायाः ? क्षणिकस्तु यो जनको भावः पुरस्तात् , पश्चादिति पूर्वोत्तरकालयोः कार्योत्पादः

इदमयुक्तं वर्तते ! किमत्रायुक्तम् ? सति नियमेऽपि निरपेक्षत्वम् । तथा हियः कश्चित् कस्यचित् क्वचिन्नियमः, दपेक्षाप्रभावितः ; अनपेक्षत्वे नियमानुपपत्तेः । एवं हि कार्यकारणभावसिद्धिः । कार्यार्थिभिश्च विशिष्टानां हेतूनामुपादानम् । तत्र यदि क्षणिकं कारणं सहकारिणमपेक्षते, नापि तत् कार्यम् , कथं नियमः ? तथा हिहेतुपरम्पराप्रतिबन्धात् हेतुः स्वरूपे सहकारिणमपेक्षते, कार्ये ; स्वयञ्जननशक्तेः । नापि कार्यम् ; एकस्यापि शक्तिमत्त्वेन प्रसह्यजननात् तत्र सहकारिसन्निधिनियमोऽनर्थकः स्यात् । काकतालीयमुच्यते ? तथा कार्यकारणव्यवहाराः सर्व एवोत्सीदेयुः । तस्मात् क्षणिकस्यापि भावस्य स्वयं जनकस्य स्वरूपानुपयोगिन्यपि सहकारिणि कार्यसिद्धये अपेक्षा वाच्या ; कार्यस्यैव वा सामग्रीसाध्यत्वात् , तत्र नियमात् ; तथा नित्येऽपीति विशेषं पश्यामःतदेवमहङ्कर्तुः सदा एकरूपावगमात् स्थायित्वेऽप्यर्थक्रियासम्भवात् नीलस्य स्वगतापरोक्षत्वमात्रेण माहायानिकपक्षः समर्थ्यते, किन्तु ग्राहकस्याहङ्कर्तुरात्मनः स्थायिनोऽभावे । चैकरूपः अनुभवात् युक्तिबलाच्च प्रसाधितः । ननु नानुमेयादिष्वपरोक्षता दृश्यते ? उच्यतेनानुमेयादिष्वपरोक्षत्वम् ; स्वज्ञानोत्पत्तावव्यापृतत्वात् , लिङ्गादीनामेव कुतश्चित् सम्बन्धविशेषाद्विशिष्टैकार्थज्ञानहेतुत्वात् , प्रमेयस्य स्वज्ञानोत्पत्तिहेतुत्वे प्रमाणाभावात् । अलं प्रसङ्गागतप्रपञ्चेन । स्वावसर एवैतत् सुगतमतपरीक्षायां निपुणतरं प्रपञ्चयिष्यामः

तदेवमहङ्कारग्रन्थिरस्मच्छब्दसंशब्दितः । प्रत्ययश्चासौ ; आदर्श इव प्रतिबिम्बस्य अनिदञ्चित्सम्वलितत्वेन तस्याभिव्यक्तिहेतुत्वात् । अतः तस्य विषयवत् भवतीत्युपचारेण अनिदञ्चिदात्मधातुरस्मत्प्रत्ययविषय उच्यते । पुनरेवंभूतो जाग्रत्स्वप्नयोरहमुल्लेखरूपेण, सुषुप्ते तत्संस्काररञ्जिताग्रहणाविद्याप्रतिबद्धप्रकाशत्वेन गतागतमाचरन् संसारी, जीवः विज्ञानघनः, विज्ञानात्मा, प्राज्ञः, शरीरी, शारीरः, आत्मा, सम्प्रसादः, पुरुषः, प्रत्यगात्मा, कर्ता, भोक्ता, क्षेत्रज्ञः इति श्रुतिस्मृतिप्रवादेषु गीयते ।

किञ्च केवलमस्मत्प्रत्ययविषयत्वादध्यासार्हः -

अपरोक्षत्वाच्च ।

तत्साधनार्थमाह

प्रत्यगात्मप्रसिद्धेरिति

ह्यात्मन्यप्रसिद्धे स्वपरसंवेद्ययोः विशेषः । संवेद्यज्ञानेनैव तत्सिद्धिः ; अकर्मकारकत्वादतिप्रसङ्गात् । ज्ञानान्तरेण ; भिन्नकालत्वे संवेद्यसम्बन्धानवगमात् , स्वपरसंवेद्याविशेषात् । ह्येककालं विरुद्धविषयद्वयग्राहिज्ञानद्वयोत्पादः । हि देवदत्तस्याग्रपृष्ठदेशस्थितार्थव्यापिगमनक्रियाद्वयावेशो युगपत् दृश्यते । आहमा भूत् चलनात्मकं क्रियाद्वयं युगपत् , परिणामात्मकं तु भवत्येव ; मैवं ; परिस्पन्दात्मकमपि भवत्यविरुद्धम् , यथा गायन् गच्छतीति, परिणात्मकमपि भवति विरुद्धं, यथा यौवनस्थाविरहेतुः । तस्मात् प्रत्यगात्मा स्वयम्प्रसिद्धः सर्वस्य हानोपादानावधिः स्वयमहेयोऽनुपादेयः स्वमहिम्नैवापरोक्षत्वादध्यासयोग्यः

ननु क्वचिदपरोक्षमात्रेऽध्यासो दृष्टपूर्वः, सर्वत्राक्षिसम्प्रयोगितया पुरोवस्थितापरोक्ष एव दृश्यते, इत्याशङ्क्याह

चायमस्ति नियमः इति

अप्रत्यक्षेऽपि ह्याकाशे इति

परोक्षे इत्यर्थः ;

अथवाअक्षव्यापारमन्तरेणाप्यपरोक्ष

आकाशे ।

बालाः

अयथार्थदर्शिनः ।

तलम्

इन्द्रनीलतमालपत्रसदृशम् ,

मलिनतां

धूमादिकमन्यच्च नीलोत्पलसमानवर्णतादि

अध्यस्यन्ति ।

एवमविरुद्धः

इति सम्भावनां निगमयति । यथा आकाशस्याक्षव्यापारमन्तराप्यपरोक्षता, तथा दर्शयिष्यामः

ननु ब्रह्मविद्यामनर्थहेतुनिबर्हणीं प्रतिजानता अविद्या अनर्थहेतुः सूचिता, ततः सैव कर्तृत्वाद्यनर्थबीजमुपदर्शनीया, किमिदमध्यासः प्रपञ्च्यते ? इत्याशङ्क्य आह

तमेतमेवंलक्षणमध्यासं पण्डिताः

प्रमाणकुशलाः

अविद्ये’ति मन्यन्ते । तद्विवेकेन वस्तुस्वरूपावधारणं विद्यामाहुः

अध्यस्तातद्रूपसर्पविलयनं कुर्वत् वस्तुस्वरूपं रज्जुरेवेत्यवधारयत् विज्ञानं विद्येति प्रसिद्धमेव लोके ब्रह्मविदो वदन्ति । यद्येवं अध्यास इति प्रक्रम्य पुनस्तस्याविद्याभिधानव्याख्याने यत्नगौरवात् वरमविद्येत्येवोपक्रमः कृतः ? नैतत् सारम् ; अविद्येत्येवोच्यमान आच्छादकत्वं नाम यत् तस्यास्तत्त्वं, तदेवाभिहितं स्यात् , अतद्रूपावभासितया अनर्थहेतुत्वम् । अतोऽतद्रूपावभासित्वमध्यासशब्देन प्रकृतोपयोगितया उपक्षिप्य पुनस्तयाविद्याशब्दतया विद्यामात्रापनोदनार्हत्वं दर्शनीयम् ।

तदेतदाह

यत्र यदध्यासः, तत्कृतेन दोषेण गुणेन वा अणुमात्रेणापि सम्बध्यते

इत्यवास्तवमनर्थं दर्शयति । वास्तवत्वे हिज्ञानमात्रात् तद्विगमःइति प्रतिज्ञा हीयेत

एवं तावत्युष्मदस्मदि’त्यादिनामिथ्याज्ञाननिमित्तः सत्यानृते मिथुनीकृत्याहमिदं ममेदमिति नैसर्गिकोऽयं लोकव्यवहारःइत्यन्तेन भाष्येण सिद्धवदुपन्यस्तमात्मानात्मनोरितरेतरविषयमविद्याख्यमध्यासं सिषाधयिषुः, तस्य लक्षणमभिधाय तत्सम्भवं चात्मनि दर्शयित्वा पुनस्तत्र सद्भावनिश्चयमुपपत्तित उपपादयितुमिच्छन्नाह

तमेतमविद्याख्यमात्मानात्मनोरितरेतराध्यासं पुरस्कृत्य सर्वे प्रमाणप्रमेयव्यवहारा लौकिका वैदिकाश्चप्रवृत्ताः, सर्वाणि शास्त्राणि विधिप्रतिषेधमोक्षपराणीति

मोक्षपरत्वं शास्त्रस्य विधिप्रतिषेधविरहिततया उपादानपरित्यागशून्यत्वात् स्वरूपमात्रनिष्ठत्वमङ्गीकृत्य पृथक् क्रियते ।

कथं पुनरविद्यावद्विषयाणि प्रत्यक्षादीनि प्रमाणानि शास्त्राणि चेति

बाढमुक्तलक्षणा अविद्या प्रत्यग्दृश्यपि सम्भवेत् , एतावता तत्सम्भवः सिध्यति । तेन निदर्शनीयः सः । प्रमातारमाश्रयन्ति प्रमाणानि, तेन प्रमाता प्रमाणानामाश्रयः, नाविद्यावान् ; अनुपयोगादित्यभिप्रायः ।

अथवा

कथमविद्यावद्विषयाणि प्रत्यक्षादीनि शास्त्राणि प्रमाणानीति

सम्बन्धः । अविद्यावद्विषयत्वे सति आश्रयदोषानुगमादप्रमाणान्येव स्युरित्याक्षेपः

उच्यतेदेहेन्द्रियादिष्वहंममाभिमानहीनस्य प्रमातृत्वानुपपत्तौ प्रमाणप्रवृत्त्यनुपपत्तेरिति

भाष्यकारस्य वस्तुसङ्ग्रहवाक्यम्

अस्यैव प्रपञ्चः

नहीन्द्रियाण्यनुपादाये’त्यादिः ।

हि देहेन्द्रियादिष्वहं ममाभिमानहीनस्य सुषुप्तस्य प्रमातृत्वं दृश्यते । यतो देहे अहमभिमानः इन्द्रियादिषु ममाभिमानः । आदिशब्देन बाह्वाद्यवयवग्रहणम् । देहशब्देन सशिरस्को मनुष्यत्वादिजातिसम्भिन्नोऽवयव्यभिमतः, शरीरमात्रम् ; देहोऽहमिति प्रतीत्यभावात् । सर्वो हिमनुष्योऽहम्’ ‘देवोऽहमि’ति जातिविशेषैकाधिकरणचैतन्य एव प्रवर्तत इति स्वसाक्षिकमेतत् । स्वत्वेन सम्बन्धिना मनुष्यावयविना तदनुस्यूतेन वा चक्षुरादिना प्रमात्रादिव्यवहारः सिध्यति ; भृत्यादिमनुष्यावयविनापि प्रसङ्गात्

अपर आहआत्मेच्छानुविधायित्वं कार्यकरणसङ्घातस्यात्मना सम्बन्धः, तस्यापि तस्य यथेष्टविनियोजकत्वं तेन सम्बन्धः, तत आत्मनः प्रमात्रादिकः सर्वः क्रियाकारकफलव्यवहारः । तथा उत्तिष्ठामीति इच्छयोत्तिष्ठत्युपविशति  । भृत्यादिषु तदस्ति । तेन तत्र प्रमात्रादिव्यवहाराभावो मिथ्यामुख्याभिमानाभावादिति । नैतत् संविदि बहुमानवतो युक्तम् । तथाहि — ‘मनुष्योऽहमि’ति स्वसाक्षिका संवित् , ‘ मे मनुष्यःइति गौणीति चेत् , भवानेवात्र प्रमाणम् । अपि इच्छापि परिणामविशेषः, कथमपरिणामिन आत्मनः स्यात् परिणाम्यन्तःकरणसम्वलिताहङ्कर्तृत्वमन्तरेण । तथा चानुभवःअहमुत्तिष्ठामी’ति ; इच्छयोत्तिष्ठत्युपविशति  । तस्मात् यत्किञ्चिदेतत् । अतः स्वयमसङ्गस्याविकारिणोऽविद्याध्यासमन्तरेण प्रमातृत्वमुपपद्यते । तेन यद्यपि प्रमातृत्वशक्तिसन्मात्रं प्रमाणप्रवृत्तौ निमित्तम् , तदेव तु अविद्याध्यासविलसितमित्यविद्यावद्विषयता प्रमाणानामुच्यते । तथा निरपेक्षाणां स्वसामर्थ्येनार्थसिद्धिं विदधतां बाधानुपलब्धेः प्रामाण्यम् अविद्यावद्विषयत्वं विधिमुखोपदर्शितं ने’ति शक्यमपह्नोतुम् । दोषस्तु आगन्तुक एव मिथ्यात्वे हेतुः, नैसर्गिकः ; तथोपलब्धेः । सर्वसाधारणे नैसर्गिके दोषबुद्धिः । तथाहिक्षुत्पिपासोपजनिते सन्तापे शश्वदनुवर्तमाने जाठराग्निकृतविकारे अन्नपाननिष्यन्दे वा रोगबुद्धिर्जनस्य, मुहूर्तमात्रपरिवर्तिनि मन्दे ज्वरे प्रतिश्याये वा अल्पकफप्रसूतावपि रोगबुद्धिः ; अनैसर्गिकत्वात् । अनैसर्गिकं दोषमभिप्रेत्योक्तंयस्य दुष्टं करणं यत्र मिथ्येति प्रत्ययः एवासमीचीनः प्रत्ययो नान्यःइति

इतश्चैतदेवं

पश्वादिभिश्चाविशेषात् ।

तथा पश्वादयः प्रमातृत्वादिव्यवहारकाले प्रवृत्तिनिवृत्त्यौदासीन्यं भजमानाः कार्यकारणसङ्घात एवाहंमानं कुर्वन्तीति प्रसिद्धं लोके । तदेकरूपयोगक्षेमा हि मनुष्या जन्मत एव पश्वादिभ्योऽधिकतरविवेकमतयः शास्त्राधेयसाम्परायिकमतिसामर्थ्या अपि ; अतः तदेकरूपकार्यदर्शनात् कार्यकारणसङ्घातेऽप्यात्माभिमानः समानो युक्तः । ननु पश्वादीनामपि कार्यकारणसङ्घाते अहङ्कारानुबन्ध इति कुतोऽवसीयते ? येन सिद्धवदभिधीयते, उच्यतेप्रौढमतिभ्य एव प्रत्यक्षादिवृत्तकुशलैरात्मा व्युत्पाद्यते ; अन्यथा तदनर्थकत्वप्रसङ्गात् । एवमेव प्रमाणविचारविरहं सर्वः सम्प्रतिपद्येत

ननु गोपालाङ्गनादयः प्रमाणविरहमेव वर्तमानदेहपातेऽपि स्थायिनं भोक्तारं मन्यमानाः तदर्थमाचरन्ति तदभिज्ञव्यवहारमात्रप्रमाणकत्वात् । तथा ते पृष्टाः कः परलोकसम्बन्धीति ? ‘ विद्मो विशेषतः, प्रसिद्धो लोकेइति प्रतिब्रुवन्ति । तस्मात् युक्तमुक्तं, पश्वादीनां प्रसिद्धोऽविवेकपूर्वकः प्रत्यक्षादिव्यवहारः, तत्सामान्यदर्शनात् व्युत्पत्तिमतामपि पुरुषाणां प्रत्यक्षादिव्यवहारस्तत्कालः समानः इति ।

एवं तावत् प्रत्यक्षादीनि प्रमाणानि चक्षुरादिसाधनानि । तानि नाधिष्ठानशून्यानि व्याप्रियन्ते । अधिष्ठानं देहः । तेनानध्यस्तात्मभावेनासङ्गस्याविकारिणः चैतन्यैकरसस्यात्मनः प्रमातृत्वमुपपद्यते, त्यनुभवारूढमविद्यावद्विषयत्वं प्रत्यक्षादीनामुपदिश्य, पश्वादिव्यवहारसाम्येन कार्यतोऽप्यापाद्य, शास्त्रं पुनः प्रतिपन्नात्मविषयमेव, तेन तत्राध्यासपूर्विका प्रवृत्तिः इति विशेषमाशङ्क्य, तस्याप्यविद्यावद्विषयत्वप्रदर्शनायाह

शास्त्रीये तु व्यवहारे यद्यपि बुद्धिपूर्वकारी नाविदित्वा आत्मनः परलोकसम्बन्धमधिक्रियते इति

ननु फलनैयमिकनैमित्तिकप्रायश्चित्तचोदना वर्तमानशरीरपातादूर्ध्वकालस्थायिनं भोक्तारमन्तरेणापि प्रमाणतामश्नुवत एव । यथा चैतदेवं, तथाएक आत्मनः शरीरे भावात्’ (ब्र. सू. ३-३-५३) इत्यधिकरणारम्भे दर्शयिष्यामः, सत्यमेवम् ; तथापि सकलशास्त्रपर्यालोचनापरिनिष्पन्नं प्रामाणिकमर्थमङ्गीकृत्याह भाष्यकारः । तथा विधिवृत्तमीमांसाभाष्यकारोऽप्युत्सूत्रमेवात्मसिद्धौ पराक्रान्तवान् । तत् कस्य हेतोः ? ‘धर्मजिज्ञासे’ति कार्यार्थविचारं प्रतिज्ञाय तदवगमस्य प्रामाण्ये अनपेक्षत्वं कारणमनुसरता सूत्रकारेण विशेषाभावात् स्वरूपनिष्ठानामपि वाक्यानां प्रामाण्यमनुसृतं मन्यते, तथाचोदना हि भूतं भवन्तं भविष्यन्तं सूक्ष्मं व्यवहितं विप्रकृष्टमित्येवंजातीयकमर्थं शक्नोत्यवगमयितुम्इति वदन् चोदनाशेषत्वेनापि स्वरूपावगमेऽनपेक्षत्वमविशिष्टमवगच्छतीत्यवगम्यते । स्वरूपावगमः कस्मिन् कथं वेति धर्ममात्रविचारं प्रतिज्ञाय, तत्रैव प्रयतमानेन भगवता जैमिनिना मीमांसितम् ; उपयोगाभावात् , भगवांस्तु पुनर्बादरायणः पृथक् विचारं प्रतिज्ञाय व्यचीचरत् समन्वयलक्षणेन । तत्र देहान्तरोपभोग्यः स्वर्गः स्थास्यति । तच्च सर्वं कार्यकरणसङ्घातादन्येन भोक्त्रा विना सिध्यति । तत्सिद्धिश्च आगममात्रायत्ता ; प्रमाणान्तरगोचरस्य तदभावे तद्विरोधे वा शिलाप्लवनवाक्यवदप्रामाण्यप्रसङ्गात् । अतस्तत्सिद्धौ पराक्रान्तवान् । तेन सत्यं विनापि तेन सिध्येत् प्रामाण्यम् , अस्ति तु तत् । तस्मिन् विद्यमाने तेन विना प्रमाण्यं सिध्यति फलादिचोदनानाम् इति मत्वा आह

शास्त्रीये तु व्यवहारे यद्यपि विद्यमाने बुद्धिपूर्वकारी नाविदित्वात्मनः परलोकसम्बन्धमधिक्रियते इति

तथापि वेदान्तवेद्यमिति

किं तदिति ? अत आह

असंसार्यात्मतत्वं,

तत्

अधिकारेऽपेक्ष्यते अनुपयोगादधिकारविरोधाच्च ।

अशनायाद्यतीतमित्यसंसार्यात्मतत्त्वं दर्शयति । अशनायाद्युपप्लुतो हि सर्वो जन्तुः स्वास्थ्यमलभमानः प्रवर्तते, तदपाये स्वास्थ्ये स्थितो किञ्चिदुपादेयं हेयं वा पश्यति ।

अपेतब्रह्मक्षत्रादिभेदम्

इति प्रपञ्चशून्यमेकरसं दर्शयति ।

प्राक् तथाभूतात्मविज्ञानात् प्रवर्तमानं शास्त्रमविद्यावद्विषयत्वं नातिवर्तते इति

तत्त्वमसी’तिवाक्यार्थावगमादर्वागविद्याकृतं संसारमहमुल्लेखमाश्रित्य प्रवर्तमानं शास्त्रं नाविद्यावद्विषयत्वमतिवर्तते । तस्मात् युक्तमुक्तं प्रत्यक्षादीनां प्रमाणानां शास्त्रस्य अविद्यावद्विषयत्वम्

तदेव दर्शयति

तथाहि — ‘ब्राह्मणो यजेते’त्यादीनि शास्त्राण्यात्मन्यतदध्यासमाश्रित्य प्रवर्तन्ते । वर्णवयोऽध्यासः

अष्टवर्षं ब्राह्मणमुपनयनीते’त्यादिः । आश्रमाध्यासः — ‘ वै स्नात्वा भिक्षेते’ति । अवस्थाध्यासः — ‘यो ज्योगामयावी स्यात् एतामिष्टिं निर्वपेदि’ति । आदिशब्देन‘यावज्जीवं जुहुयादि’ति जीवनाध्यासः ।

एवमध्याससद्भावं प्रसाध्य, ‘स्मृतिरूपःइत्यादिनासर्वथाऽपि त्वन्यस्यान्यधर्मावभासतां व्यभिचरतिइत्यन्तेन सर्वथाऽपि लक्षितं निरुपचरितमतदारोपम्

अध्यासो नाम अतस्मिंस्तद्बुद्धिरित्यवोचाम्

इति परामृशति, कस्य युष्मदर्थस्य कस्मिन्नस्मदर्थे तद्विपर्ययेण चाध्यासः इति विवेकतः प्रदर्शयितुम् ।

अतस्मिन्

अयुष्मदर्थे अनिदञ्चिति

तद्बुद्धिः

युष्मदर्थावभासः इत्यर्थः ।

तदाह

तद्यथा पुत्रभार्यादिष्वित्यादि

ननु प्रणव एव विस्वरः ; हि पुत्रादीनां वैकल्यं साकल्यं वा आत्मनि मुख्यमध्यस्यति, मुख्यो ह्यतदारोपो दर्शयितुं प्रारब्धः, सत्यं ; एव निदर्श्यते । कथम् ? तद्यथा बालके प्रातिवेश्यमात्रसम्बन्धिना केनचित् वस्त्रालङ्कारादिना पूजिते निरुपचरितमात्मानमेव पूजितं मन्यते पिता । पूजयितापि पितरमेवापूपुजमिति मन्यते । यतो बालकस्य पूजितत्वाभिमानः ; अव्यक्तत्वात् , तथैव राजानमुपहन्तुकामोऽनन्तरो विजिगीषुः तद्राष्ट्रे ग्राममात्रमप्युपहत्य तमेवोपघ्नन्तमात्मानं मन्यते, सोऽप्युपहतोऽस्मीति सन्तप्यते । तदेवं प्रसिद्धव्यतिरेकस्यात्मनि मुख्य एवाध्यासो दृष्टः, किमु वक्तव्यं, कृशस्थूलाद्यभिमानस्य मुख्यत्वमिति कथयितुमाह

अहमेव विकलः सकलो वेति बाह्यधर्मानात्मन्यध्यस्यतीति

बाह्येषु पुत्रादिषु पूजादेः धर्ममात्रस्यैव युष्मदर्थस्याध्यासःअस्मदर्थश्चाहंप्रत्ययिसम्भिन्न एवानिदञ्चिदंशो विषयः, पुनः शुद्ध एवाहंप्रत्ययिन इवाध्यासे अध्यासान्तरानास्कन्दितः ।

तथा देहधर्मान् कृशत्वादीनिति

धर्मिणोऽपि ; धर्मशब्दस्तु मनुष्यत्वादिधर्मसमवायिन एवाध्यासः, देहोऽहमि’ति कथयितुम् । तन्निमित्तश्च शास्त्रेणेतश्चेतश्च नियमः क्रियते ।

तथेन्द्रियधर्मान् मूकत्वादीनिति

धर्ममात्रम् ।

तथा अन्तःकरणधर्मान् कामादीनिति

धर्मग्रहणम् । अन्तःकरणमित्यहंप्रत्ययिनो विज्ञानशक्तिभागोऽभिधीयते । तस्य धर्माः कामादयः ।

एवमहंप्रत्ययिनमिति

धर्मिग्रहणम् । प्रत्ययाः कामादयोऽस्येति प्रत्ययी, अहं चासौ प्रत्ययी चेत्यहंप्रत्ययी

तं

अशेषस्वप्रचारसाक्षिणि प्रत्यगात्मन्यध्यस्येति

स्वशब्देन अहङ्कारग्रन्थिः संसारनृत्यशालामूलस्तम्भोऽभिधीयते । तस्य प्रचारः कामस्सङ्कल्पकर्तृत्वादिरनेकविधः परिणामः, यन्निमित्तं ब्रह्मादिस्थावरान्तेषु प्रदीप्तशिरा इव परवशो जन्तुर्बम्भ्रमीति । तं प्रचारमशेषमसङ्गितया अविकारित्वेन हानोपादानशून्यः साक्षादव्यवधानमवभासयति चितिधातुः । एव देहादिष्विदन्तया बहिर्भावमापद्यमानेषु प्रातिलोम्येनाञ्चतीवोपलक्ष्यते, इति प्रत्यगुच्यते, आत्मा ; निरुपचरितस्वरूपत्वात् तत्राध्यस्य ।

तं प्रत्यगात्मानमिति

यदि युष्मदर्थस्यैव प्रत्यगात्मनि अध्यासः स्यात् , प्रत्यगात्मा प्रकाशेत ; हि शुक्तौ रजताध्यासे शुक्तिः प्रकाशते । प्रकाशते चेह चैतन्यमहङ्कारादौ । तथा यदि चैतन्यस्यैवाहङ्कारादावध्यासो भवेत्तदा नाहङ्कारप्रमुखः प्रपञ्चः प्रकाशेत ; तदुभयं मा भूदित्यनुभवमेवानुसरन्ना

तं प्रत्यगात्मानं सर्वसाक्षिणं तद्विपर्ययेणान्तःकरणादिष्वध्यस्यतीति

नात्र विवदितव्यम् , इतरेतराध्यासे पृथगवभासनात् मिथ्या गौणोऽयमिति ; तथा अनुभवाभावात् मुख्याभिमानः । हि दृष्टेऽनुपपन्नं नाम

ननु अन्तःकरणे एव प्रत्यगात्मनः शुद्धस्याध्यासः, अन्यत्र पुनः चैतन्याध्यासपरिनिष्पन्नापरोक्ष्यमन्तःकरणमेवाध्यस्यते, अत एवतद्विपर्ययेण विषयिणस्तद्धर्माणां विषयेऽध्यासो मिथ्येति भवितुं युक्तम्इत्युक्तम् ; अन्यथा चैतन्यमात्रैकरसस्य कुतो धर्माः ? येऽध्यस्येरन् , सत्यमाह भवान् ; अपि तु अन्यत्रान्तःकरणं सचित्कमेवाध्यस्यमानं यत्राध्यस्यते, तस्यैवात्मनः कार्यकरणत्वमापाद्य स्वयमविद्यमानमिव तिरस्कृतं तिष्ठति, चिद्रूपमेव सर्वत्राध्यासे, स्वतः परतो वा विशिष्यते, तेनोच्यते

तं प्रत्यगात्मानं सर्वसाक्षिणं तद्विपर्ययेणान्तःकरणादिष्वध्यस्यतीति

अत एव बुद्ध्यादिष्वेव चिद्रूपमनुस्यूतमुत्प्रेक्षमाणा बुद्धिमनःप्राणेन्द्रियशरीरेष्वेकैकस्मिन् चेतनत्वेनाहङ्कर्तृत्वं योजयन्तो भ्राम्यन्ति

एवमयमनादिरनन्तो नैसर्गिकोऽध्यास

इति निगमयतिननु उपन्यासकाले नैसर्गिकोऽयं लोकव्यवहार इति लोकव्यवहारो नैसर्गिक उक्तः, कथमिहाध्यासो निगम्यते ? अनादिरिति चाधिकावापः, अत्रोच्यतेतत्रापि प्रत्यगात्मन्यहङ्काराध्यास एव नैसर्गिको लोकव्यवहारोऽभिप्रेतः ; प्रत्यगात्मा अनादिसिद्धः ; तस्मिन् नैसर्गिकस्यानादित्वमर्थसिद्धम् । अतः प्रक्रमानुरूपमेव निगमनम् , चाधिकावापः

ननु भवेदनादिः, अनन्तः कथम् ? यदि स्यात्तत्प्रहाणाय कथं वेदान्ता आरभ्यन्ते ? अन्तवत्त्वेऽपि तर्हि कथम् ? स्वतोऽन्यतो वा तत्सिद्धेः । तस्मात् अनन्तस्य प्रहाणाय वेदान्ता आरभ्यन्ते इत्युक्ते, अर्थादेष एव प्रहाणहेतुः, असत्यस्मिन् अनन्तः इति निश्चीयते ।

मिथ्याप्रत्ययरूप

इति रूपग्रहणं लक्षणतस्तथा रूप्यते, व्यवहारतः इति दर्शयितुम् ।

कर्तृत्वभोक्तृत्वप्रवर्तकः

इति अनर्थहेतुत्वं दर्शयति हेयतासिद्धये । तेन कर्तृर्भोक्तुश्च सतो मिथ्याज्ञानं दोषप्रवर्तनमिति येषां मतं, तन्निराकृतं भवति ।

सर्वलोकप्रत्यक्षः इति

देहेन्द्रियादिष्वहंममाभिमानहीनस्ये’त्युपन्यस्य‘नहीन्द्रियाण्यनुपादाये’त्यादिना योऽनुभवो मिथ्यात्वसिद्धये अनुसृतः तं निगमयति

एवं तावत् सूत्रेणार्थादुपात्तयोः विषयप्रयोजनयोः सिद्धये जीवस्याब्रह्मस्वरूपत्वमध्यासात्मकमुपदर्श्य, अस्यानर्थहेतोः प्रहाणायेति प्रयोजनं निर्दिशति । हेतोः प्रहाण्या हि हेतुमतः प्रहाणिरात्यन्तिकी यतः । ननु अनर्थहेतुरध्यासोऽनादिः, कथं प्रहीयते ? तथा हिमनुष्यादिजातिविशेषमात्राध्यासः ततो विविक्तेऽपि न्यायतः अहंप्रत्यये अनादित्वात् पूर्ववदविकलो वर्तते । नायं दोषः

तत्त्वमसीत्यादिवाक्याद्ब्रह्मरूपावगाहिज्ञानान्तरोत्पत्तेरिष्टत्वात् । तद्धि ब्रह्मणोऽवच्छिद्यैव चैतन्यस्य ब्रह्मरूपत्वप्रच्छादनेन जीवरूपत्वापादिकामनादिसिद्धामविद्यामहङ्कारादिविक्षेपहेतुं निराकुर्वदेवोत्पद्यते । ततः कारणनिवृत्तौ तत्कार्यम्अहमि’ति जीवे भोक्तृत्वरूपता सपरिकरा निवर्तत इति युज्यते । अहंप्रत्ययः पुनरनादिसिद्धोऽनादिसिद्धेनैव कार्यकरणमात्रेण सहभावादविरोधात् स्वरूपविवेकमात्रेण निवर्तते । नापि ज्ञानान्तरमुत्पन्नमिति विशेषः

ननु निरतिशयानन्दं ब्रह्म श्रूयते, ब्रह्मावाप्तिसाधनं ब्रह्मविद्या यो वै तत् परमं ब्रह्म वेद ब्रह्मैव भवती’त्यादिश्रुतिभ्यः ; तस्मान्निरतिशयसुखावाप्तय इति वक्तव्यम् , किमिदमुच्यते — ‘अनर्थहेतोः प्रहाणाये’ति ? ननु चानर्थस्यापि समूलस्य प्रहाणं श्रूयते ब्रह्मविद्याफलं तरति शोकमात्मवित्’ (छा. उ. ७-१-३) जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकः’ (मु. उ. ३-१-२) इति उभयं तर्हि वक्तव्यं ; श्रूयमाणत्वात् पुरुषार्थत्वाच्च ? वक्तव्यम्कथम् ? ‘आत्मैकत्वविद्याप्रतिपत्तयेइत्यात्मनो जीवस्य ब्रह्मात्मकता शास्त्रस्य विषयः, तेनानन्दात्मकब्रह्मस्वरूपताप्राप्तिः जीवस्य विषयतयैव संवृत्ता । सा विषयाद्बहिः, येन पृथङ्निदेशार्हा स्यात् , समूलानर्थहानिस्तु बहिः शास्त्रविषयाद्ब्रह्मात्मरूपात् । अनर्थहेतुप्रहाणमपि तर्हि पृथङ्निर्देष्टव्यम् ? यतः सर्वेषु वेदान्तेष्वलौकिकत्वाद्ब्रह्मणस्तत्प्रतिपादनपूर्वकमेव जीवस्य तद्रूपता प्रतिपाद्यते । तद्यथा — ‘सदेव सोम्येदमग्र आसीदि’त्युपक्रम्यऐतदात्म्यमिदं सर्वं तत् सत्यं आत्मे’त्यवसानं निरस्तसमस्तप्रपञ्चं वस्तु तत्पदाभिधेयं समर्पयदेकं वाक्यम् ; तथा सति तादृशेन तत्पदार्थेन संसृज्यमानः त्वम्पदार्थः पराकृत्यैव निर्लेपमनर्थहेतुमग्रहणमन्यथाग्रहणं तथा निश्चीयत इति । यद्येवं ब्रह्मात्मावगतिनान्तरीयकम् अनर्थहेतोरविद्यायाः प्रहाणं, शब्दस्य तत्र व्यापारः, तेन पृथङिनर्दिश्यते । युक्तं चैतत् हि विपर्यासगृहीतं वस्तु तन्निरासादृते तत्त्वतो निर्णेतुं शक्यम् । तस्मात् पूर्वावसितमतद्धर्मं निरस्यदेव तत्त्वावद्योति वाक्यं तत्त्वमवसाययति

ननु नञादेः निरासकृतो निरस्यमानवाचिनश्च पदस्याश्रवणात् कथं तन्निरस्यदेवेति ? उच्यतेनेदं रजतमिति यत्र विपर्यासमात्रं निरस्यते, वस्तुतत्त्वमवबोध्यते ; तत्र तथा भवतु ; इह पुनः विज्ञानमेव तादृशमुत्पन्नं, यद् विरोधिनिराकरणमन्तरेण स्वार्थं साधयितुमलम् , तुलोन्नमनव्यापार इव आनमननान्तरीयकः । तथा हिउन्नमनव्यापारः स्वविषयस्य तुलाद्रव्यस्योर्ध्वदेशसम्बन्धं साधयितुमलं, तत्कालमेव तस्याधोदेशसम्बन्धमनापाद्य । चोन्नमनकारकस्य हस्तप्रयत्नादेरानमनेऽपि कारकत्वं ; प्रसिद्ध्यभावादनुभवविरोधाच्च । तदेवं विपर्यासगृहीते वस्तुनि तत्त्वावद्योतिशब्दनिमित्त आत्मनो ज्ञानव्यापारोनाहं कर्ता ब्रह्माहमि’ति ग्राहयति ; ‘नेदं रजतं शुक्तिकेयमि’ति यथा । तस्मात्शुक्तिकेयमि’त्येव निराकाङ्क्षं वाक्यम् , ‘नेदं रजतमि’त्यनुवादः । अत एवाख्यातपदस्य वाक्यत्वे क्रियाज्ञानादेव तत्साधनमात्रेऽपि प्रतीतिसिद्धेः पदान्तराणि नियमायानुवादाय वेति न्यायविदः । तथा चाहुः — ‘यजतिचोदना द्रव्यदेवताक्रियं समुदाये कृतार्थत्वादि’ति ।

अपरे तुयज्ञं व्याख्यास्यामो द्रव्यं देवता त्यागःइति । कथं ? क्रियामात्रवाचिनो द्रव्यदेवताभिधानं नान्तरीयकं तद्विषयज्ञाननिमित्तत्वं विहाय । प्रत्यक्षबाधस्याप्ययमेव प्रकारः, असम्प्रयुक्तविषयत्वाद्बाधस्य । तदेवमशाब्दमविद्याविलयं मन्वानः श्रुतिन्यायकोविदो भगवान् भाष्यकारो विषयात् पृथक् निर्दिशति

अस्यानर्थहेतोः प्रहाणायेति

चतुर्थीप्रयोगोऽपि विद्यासामर्थ्यसिद्धिमभिप्रेत्य, तदर्थमुपादानम् । प्रयोजनत्वं पुरुषाकाङ्क्षाया एवास्तु । हि विद्या गवादिवत् तटस्था सिध्यति, येनाप्तिः पृथगुपादीयेत । सा हि वेदित्राश्रया वेद्यं तस्मै प्रकाशयन्त्येवोदेति । सत्यमेवमन्यत्र ; प्रकृते पुनर्विषये विद्या उदिताऽपि प्रतिष्ठां लभते ; असम्भावनाभिभूतविषयत्वात् । तथा लोके अस्मिन् देशे काले चेदं वस्तु स्वरूपत एव सम्भवतीति दृढभावितं, यदि तत् कथं चित् दैववशादुपलभ्येत, तदा स्वयमीक्षमाणोऽपि तावन्नाध्यवस्यति, यावत् तत्सम्भवं नानुसरति । तेन सम्यग्ज्ञानमपि स्वविषयेऽप्रतिष्ठितमनवाप्तमिव भवति । तेन तत्स्वरूपप्रतिष्ठायै तर्कं सहायीकरोति । अत एव प्रमाणानामनुग्राहकस्तर्कः इति तर्कविदः

अथ कोऽयं तर्को नाम ? युक्तिः । ननु पर्याय एषः ? स्वरूपमभिधीयताम् । इदमुच्यतेप्रमाणशक्तिविषयतत्सम्भवपरिच्छेदात्मा प्रत्ययः । ननु एवं तर्कसापेक्षं स्वमर्थं साधयतोऽनपेक्षत्वहानेरप्रामाण्यं स्यात् , स्यात् ; स्वमहिम्नैव विषयाध्यवसायहेतुत्वात् , क्व तर्हि तर्कस्योपयोगः ? विषयासम्भवाशङ्कायां तथा अनुभवफलानुत्पत्तौ तत्सम्भवप्रदर्शनमुखेन फलप्रतिबन्धविगमे । तथा तत्त्वमसिवाक्ये त्वम्पदार्थो जीवः तत्पदार्थब्रह्मस्वरूपतामात्मनोऽसम्भावयन् विपरीतं रूपं मन्वानः समुत्पन्नेऽपि ज्ञाने तावत् नाध्यवस्यति, यावत्तर्केण विरोधमपनीय तद्रूपतामात्मनो सम्भावयति । अतः प्राक् विद्या उदितापि वाक्यात् अनवाप्तेव भवति । अवाप्तिप्रकारश्च वेदान्तेष्वेव निर्दिष्टः साक्षादनुभवफलोद्देशेन । तेनोच्यते

विद्याप्रतिपत्तये इति

ननु आत्मैकत्वविद्याप्रतिपत्तिः नानर्थहेतुप्रहाणाय प्रभवति ; तथाहिजीवस्य कार्यकारणसङ्घातादन्यत्वप्रतिपत्तेः ब्रह्मस्वरूपताप्रतिपत्तिः विशिष्यते ; उभयत्राप्यहङ्कारग्रन्थेः मनुष्याभिमानपर्यन्तस्याविकलमनुवर्तमानत्वात् , उच्यतेभवतु तत्राविद्याया अनिवर्तितत्वात् तत् , इह पुनरपसारिताविद्यादोषं ब्रह्मात्मज्ञानमुदयमासादयत् कथं तन्निमित्तं भोक्त्रादिग्रन्थिप्रवाहं नापनयति ? हि जीवस्य ब्रह्मात्मावगमः तद्विषयानवगममबाधमानः उदेति

ननु ब्रह्मज्ञानादग्रहणापाये तन्निमित्तस्याहङ्कारग्रन्थेः तत्कालमेवाभावः प्रसज्येत ? ; संस्कारादप्यग्रहणानुवृत्तेः सम्भवात् ; भयानुवृत्तिवत् । तथाहिसम्यग्ज्ञानात् निवृत्तमपि भयं स्वसंस्कारादनुवर्तते, कम्पादिनिमित्तं भवति । तथा ग्रहणमपि स्वसंस्कारादनुवर्तते अहङ्कारग्रन्थेश्च निमित्तं भवतीति किञ्चिदनुपपन्नमस्ति

ननु सर्वे वेदान्ता विद्यार्थमेवारभ्यन्ते, तदेकदेशः क्रममुक्तिफलाय ऐश्वर्याय अभ्युदयार्थं कर्मसमृद्धये चोपासनानि विविधान्युपदिशन् उपलभ्यते । सत्यम् ; उपासनाकर्म तु ब्रह्म, तच्च अपाकृताशेषप्रपञ्चं जीवस्य निजं रूपमिति निरूपयितुम् अखिलप्रपञ्चजन्मादिहेतुतया प्रथमं सर्वात्मकं सर्वज्ञं सर्वशक्ति ब्रह्म लक्षितम् । अस्यां चावस्थायामनपाकृत्यैव ब्रह्मणि प्रपञ्चं तेन तेन प्रपञ्चेनोपधीयमानं ब्रह्म तस्मै तस्मै फलायोपास्यत्वेन विधीयते, दर्शपूर्णमासार्थाप्प्रणयनमिव गोदोहनोपरक्तं पशुभ्यः ; तस्मात् तदर्थोपजीवित्वादितरस्य

आत्मैकत्वविद्याप्रतिपत्तये सर्वे वेदान्ता आरभ्यन्त

इति विरुध्यते

ननु अब्रह्मोपासनान्यपि वेदान्तेषु दृश्यन्ते प्राणादिविषयाणि, सत्यं, तान्यपि कार्यब्रह्मावाप्तिक्रमेण मुक्तिफलान्येव । वक्ष्यत्येतत् सूत्रकारः — ‘कार्यात्यये तदध्यक्षेण सहातः परमभिधानात्इति ।

यथा चायमर्थः सर्वेषां वेदान्तानां, तथा वयमस्यां शारीरकमीमांसायां प्रदर्शयिष्यामः इति

प्रतिज्ञातेऽर्थे वेदान्तानां तात्पर्यमुपदर्शयितुं समन्वयसूत्रप्रमुखैः सूत्रवाक्यैः ग्रथितो न्यायः इति दर्शयति । शरीरमेव शरीरकं, शरीरके भवः शारीरको जीवः । तमधिकृत्य कृतो ग्रन्थः शारीरकः । तदिह वेदान्तानां जीवस्य तत्त्वमधिकृत्य प्रवृत्तानां ब्रह्मरूपतायां पर्यवसानमिति कथयितुं प्रणीतानां शारीरकं जीवतत्त्वमधिकृत्य कृतत्वमस्तीति शारीरकाभिधानम् ।

मुमुक्षुत्वे सति अनन्तरं ब्रह्मज्ञानं कर्तव्यमिति यद्यप्येतावान् सूत्रस्य श्रौतोऽर्थः ; तथापि अर्थात् ब्रह्मज्ञानस्य मोक्षः प्रयोजनं निर्दिष्टं भवति । तथा हिपुरुषार्थवस्तुकामनानन्तरं यत्र प्रवृत्तिरुपदिश्यते, तस्य तत्साधनत्वमप्यर्थान्निर्दिष्टं प्रतीयते । तथा सति कुतः तत् मोक्षसाधनं ब्रह्मज्ञानं भवतीत्यपेक्षायां अर्थात् अस्माच्छास्त्राद्भवतीति शास्त्रस्य ब्रह्मज्ञानं विषयो निर्दिष्टः । तदेवं मुमुक्षुत्वानन्तरं ब्रह्मज्ञानकर्तव्यतोपदेशमुखेन वेदान्तानां विषयप्रयोजननिर्देशेऽप्यार्थं सूत्रस्य व्यापारं दर्शयित्वा तदपेक्षितमप्यर्थात् सूत्रितमविद्यात्मकबन्धमुपर्वण्य प्रतिज्ञातार्थसिद्धये हेत्वाकाङ्क्षायामस्मिन्नेव तं प्रदर्शयिष्याम इति व्याख्येयत्वमुपक्षिप्य व्याख्यातुकामः प्रथमं तावत् प्रयोजनविषययोरुपादाने निमित्तमाह

वेदान्तमीमांसाशास्त्रस्य व्याचिख्यासितस्येदमादिमं सूत्रम्अथातो ब्रह्मजिज्ञासेति

अयमस्यार्थःशास्त्रस्यादिरयम् । आदौ प्रवृत्त्यङ्गतया प्रयोजनं विषयश्च दर्शनीयः । सूत्रं चैतत् । अतो यः कश्चिदर्थः शब्दसामर्थ्येनार्थबलाद्वा उत्प्रेक्षितः सर्वः तदर्थमेवेति भवत्ययमर्थकलापः तन्महिमाधिगतः । एवं सूत्रस्यादित्वेन कारणेन सूत्रतया विषयप्रयोजनं तत्सिद्धिकरं चाविद्याख्यं बन्धं तत्सामर्थ्यावगतमापाद्य तत्र सूत्रसामर्थ्यं दर्शयितुं प्रतिपदं व्याख्यामारभ्यते ।

इति परमहंसपरिव्राजकादिश्रीशङ्करभगवद्पादान्तेवासिवरश्रीपद्मपादाचार्यकृतौ पञ्चपादिकायामध्यासभाष्यं नाम प्रथमवर्णकं समाप्तम् ॥

अथ द्वितीयवर्णकम्

सिद्धैव ननु ब्रह्मजिज्ञासा ? ‘अथातो धर्माजिज्ञासे’ति सकलवेदार्थविचारस्योदितत्वात् । ब्रह्मज्ञानस्य चोदनालक्षणत्वेन धर्मस्वरूपत्वात् , अतः सिद्धैव ब्रह्मजिज्ञासापिअभ्यधिकाशङ्काभावादिति ।

अत्र केचिदभ्यधिकाशङ्कां दर्शयन्तो ब्रह्मजिज्ञासां पृथक् आरभन्ते । केयमत्राभ्यधिकाशङ्का चोदनालक्षणोऽर्थो धर्मः इति ब्रुवता विधेः प्रामाण्यं दर्शितम् । अत्र केषुचिद्वाक्येषु विधिरेव श्रूयते, सदेव सोम्येदमग्र आसीत्’ (छा. उ. ६-२-१) इत्येवमादिषु ; यत्रापि विधिः श्रूयते आत्मा वा अरे द्रष्टव्यः’ (बृ. उ. २-४-५) तस्मिन् यदन्तस्तदन्वेष्टव्यं तद्वाव विजिज्ञासितव्यम्’ (छा.उ.५-१०-५) इति तत्र यद्यपि कृत्या अविशेषेण विधौ स्मर्यन्ते ; तथापि, यो भावाभिधायी तव्यप्रत्ययः, क्रियायां पुरुषं नियोक्तुं शक्नोति । यत्र पुनः कर्म प्राधान्येनोच्यते, तत्र द्रव्ये गुणभूतां क्रियां कार्यान्तरसम्बन्धित्वेन विधातुं शक्नोति । द्रव्यपरत्वे चानुत्पाद्यत्वात् , अविकार्यत्वात् , अनाप्यत्वात् , असंस्कार्यत्वात् , संस्कृतस्य कार्यान्तरे उपयोगाभावादसंस्कार्यत्वम् । अतःआत्मानमुपासीते’त्यात्मन ईप्सिततमत्वं सम्भवतिअथ पुनर्विपरीतो गुणप्रधानभावः सक्तुन्यायेन कल्प्येत, तत्रापि ज्ञायते किं तदुपासनम् ? कथं चात्मना तत् क्रियत इति ? अथ ज्ञायते ज्ञानमुपासनम् , आत्मा विषयभावेन तन्निर्वर्तयतीति, एवं तर्हि तदेवायातं ज्ञानेनात्माऽऽप्यत इति, तच्च कृतकरणमनर्थकम् ; नित्याप्तत्वादात्मनः । संस्कार्यत्वे चोपयोगाभाव उक्तः । अतो विध्यभावादविवक्षितार्था वेदान्ताः, इति धर्मजिज्ञासानन्तरं स्नाने प्राप्त इदमारभ्यतेअथातो ब्रह्मजिज्ञासेतिअनन्तरं ब्रह्म जिज्ञासितव्यं, स्नातव्यमित्यभिप्रायः । कर्माभिधायिनोऽपि कृत्यप्रत्ययान्नियोगसंप्रत्ययान्न नियोक्तृत्वं निराकर्तुं शक्यते ; ‘कटस्त्वया कर्तव्यः’ ‘ग्रामस्त्वया गन्तव्यःइतिवत् । यत्तूक्तंद्रव्यपरत्वे प्रयोजनाभावादानर्थक्यं नियोगस्येति, तदसत् ; अविद्योच्छेदस्योपलभ्यमानत्वात् । अविद्या संसारहेतुभूता

अपरे पुनरेवमारभन्तेब्रह्मणि प्रत्यक्षादिप्रत्ययान्तराणामसम्भवात् परिनिष्पन्ने वस्तुनि प्रतिपत्तिहेतुतया सम्भावितसामर्थ्यानामपि आम्नायस्य पुनः कार्यविषयतया सुतरामसम्भवं मन्वानस्य भवति सङ्कर्षपर्यन्ते एव वेदार्थविचारावसानामिति बुद्धिः, तन्निरासार्थं पुनः प्रतिज्ञातम् । इहापि सर्वेष्वेवात्मज्ञानविधानेषु कार्यनिष्ठतां वर्णयन्ति समाम् । तत्त्वावबोधश्च कार्यम् ; अधिकारिनियोगविषयतया अवगमात् इति ; ततः तद्विचारार्थं शास्त्रमारब्धव्यमिति

अत्रोच्यतेनारब्धव्यम् ; गतार्थत्वात् । कथम् ? यस्तावत् प्रथम आरम्भप्रकारः कर्मणि कृत्यप्रत्यये नियोगसंप्रत्यय इति, तत् स्वयमेव विधायकत्वं दर्शितम् । प्रसिद्धं चैतत्स्वाध्यायोऽध्येतव्यःइत्येवमादीनां विधायकत्वम् । नात्राधिकाशङ्काकारणं किञ्चित् । ननु चतुर्विधस्यापि क्रियाफलस्यात्मन्यसम्भव उक्तः । यद्येवं सक्तुन्यायो भविष्यति ? तदपि ; आत्मविषयज्ञानस्य नित्यसिद्धत्वादित्युक्तम् । सिद्धस्यैव पुनरभ्यासो विधिनिमित्त उपासनाख्यो भविष्यति ; अभ्युदयफले हिरण्यधारणवत् । ननु विधानतोऽप्यात्मविषयज्ञानसन्तानः कर्तव्यः, तु नित्यमात्मनि जाग्रतः सिद्धः ? एवं तर्ह्यर्थाविरुद्धेषु कालेष्वात्मन्येव चेतस्समाधानं भविष्यति

यत् पुनरात्मज्ञानादविद्योच्छेदः तदुच्छेदात् संसारनिवृत्तिः फलमित्युपन्यस्तम् , तदसत् ; अहमित्यात्मानं नित्यमेव जानाति सर्वो लोकः । संसारो निवृत्तः । अथ पुनरहंप्रत्ययावसेयादन्यदेवात्मरूपं पराकृतभोक्तृभोक्तव्यभोगग्रन्थिज्ञेयत्वेनात्मज्ञानविधिना ज्ञाप्यत इति, तदसत् ; विधिर्हि सामान्यतः सिद्धस्य क्रियात्मनो विशेषसिद्धौ प्रभवति, नात्यन्तमसिद्धसद्भावे । तद्यदि नाम ज्ञानं लोके सिद्धं, तथापि निरस्तप्रपञ्चात्मविषयमसिद्धं आकाशमुष्टिहननवत् विधातुं शक्यम् । अथ तादृगात्मज्ञानं सिद्धम् ? किं विधिना ? यदपि मतान्तरं प्रत्यक्षादेरगोचरत्वात् शास्त्रस्य कार्यार्थत्वात् सङ्कर्षपर्यन्त एव विचारे वेदार्थपरिसमाप्तौ प्राप्तायां वेदान्तेष्वपि कार्यनिष्ठता समाना, ब्रह्मतत्त्वावबोधश्च कार्यम् ; अधिकारिनियोगविषयतया अवगमात् ; अतः तद्विचाराय शारीरकारम्भः इति, तदप्युक्तेन न्यायेन ब्रह्मावगमस्य सिद्धत्वे असिद्धत्वे कार्यत्वासम्भवेन प्रत्युक्तम्

अपरं मतम्सत्यं कार्यविषयो वेदः, तु तावन्मात्रे ; तस्मिन् सति यो योऽर्थोऽवगम्यते वेदार्थः, यथा रूपे सति चक्षुषः प्रवृत्तिः, रूपमात्रं चक्षुषो विषयः, किं तु तस्मिन् सति द्रव्यमपि ; एवमिहापि वस्तुतत्त्वमपि विषयः । कथम् तत् ? उच्यतेइदं सर्वं यदयमात्मा’ (बृ. उ. २-४-६) इति तावत् सर्वात्मरूपता आत्मन उपदिश्यते । यदि सर्वरूपता आत्मन उपदिश्येत, ततः सर्वस्य अचेतनत्वात् तद्रूपत्वे बोद्धृत्वहानौ बोधकत्वं शब्दस्य हीयेत ; अतः सर्वस्य आत्मस्वभावता विधीयते । अनात्मस्वरूपविलयेन हि वस्तुनोऽवगतिर्दृष्टा । ननु अत्र विधिः श्रूयते ; कल्प्यतां तर्हि विधिः । किं प्रतीते विध्यर्थे विधिः कल्प्यते ? उत अप्रतीते ? यदि प्रतीते कल्प्यते, कल्पनावैर्यथ्यम् । अर्थप्रतीत्यर्थं हि शब्दो मृग्यते । प्रतीतेऽर्थे शब्दं कल्पयता किं कृतं स्यात् ? अथाप्रतीत एव विध्यर्थे विधिं कल्पयित्वा ततोऽर्थः प्रतिपत्तव्य इति, अपूर्वं प्रमाणकौशलम् । ननु अश्रूयमाणविधिष्वपितस्मात् पूषा प्रपिष्टभागोऽदन्तको हिइत्यादिषु विधिः कल्पितः । सत्यम् ; युक्तं तत्र पूष्णः पिष्टद्रव्यसम्बन्धः समासाभिहितो सिद्धो वर्तते, नापि कुतश्चिद्भविष्यतीति ; प्रमाणाभावात् । नापि विधिना केनचित् पदैकवाक्यता, येन वपोत्खननादिवत् कथञ्चिदालम्बनं कल्प्येत ; अतो निरालम्बनत्वपरिहाराय कार्यपरता कल्प्यत इतिननु इहाप्यात्मपदं चेतनस्य भोक्तुर्वाचकम् ; नियोज्यत्वान्नियोगमाक्षिपति, नैतत् सारम् ; नियोगो हि पुरुषविशेषमनाश्रित्य अनुपलब्धो लोके तमाक्षिपेत् विश्वजिदादिषु । पुरुषः पुनः किं नियोगमन्तरेण नोपलब्धो लोके ? येन विधिकल्पना भवेत् । अथापि भवतु नाम विधिः, नासौ धातुना विना केवलो लभ्यते, धातुनैव सह कल्प्यते । कोऽसौ धातुः ? यदि तावत् कर्तव्यमिति, तत्र अनात्मस्वभावता निवृत्ता प्रपञ्चस्य । यथा — ‘अमी पिष्टपिण्डाः सिंहाः क्रियन्तामि’ति पिष्टस्वभावता निवृत्ता । इतिकर्तव्यता चानिर्दिष्टा ; तत्र साकाङ्क्षं वचनमनर्थकं स्यात् । अथ ज्ञातव्य इत्यध्याह्रियेत ? एवमपि एव दोषः ; अनात्मस्वभावता निवृत्तेति, अशक्यार्थोपदेशश्च । हि वस्तु वस्त्वन्तरात्मना ज्ञातुं शक्यते । एवं तर्हि ज्ञातव्य इत्यध्याह्रियेत, तत्र धात्वर्थोनुवादः, प्रत्ययो विधायकः । कुतः प्राप्तेरनुवादः ? अभिधानत इति ब्रूमः । एवं तर्हि विधानमनर्थकं, स्वाध्यायकाले एव निष्पन्नत्वात्ज्ञानस्य । पुनः कर्तव्यतया चोद्यते, यथा मन्त्रेषु । प्रयोगवचनः तत्र विधायकः इति । इहापि प्रयोगवचनो विधायकः ? ननु मन्त्रेषु स्वार्थस्यान्यतः सिद्धत्वात् प्रत्ययपरत्वं युज्यते, इह तु स्वार्थविधिपराणां शब्दानां प्रत्ययपरत्वं विरुध्यते, नैष दोषः ; अन्यार्थमपि कृतमन्यार्थं भवति, तद्यथाशाल्यर्थं कुल्याः प्रणीयन्ते, ताभ्यश्च पानीयं पीयत उपस्पृश्यते ; एवमिहापि । यथा पदार्थानां विधायकः शब्दः क्रमस्यापि विधायकः, एवं स्वार्थस्य विधायकः शब्दः प्रत्ययस्यापि विधायको भविष्यति

तदेतदनिरूपितमिव दृश्यते । कथम् ? मन्त्राः स्वाध्यायविधिनोपादापिताः स्वार्थस्यान्यतः सिद्धत्वात् तं प्रमातुमशक्नुवन्तः प्रमाणत्वात् प्रच्युताः व्रीह्यादिवत् प्रमेयतामापन्नाः श्रुत्यादिप्रमाणैः, युक्तं यद्विनियुज्येरन् , विनियुक्ताश्चानुष्ठेयस्यानुष्ठानकाले स्मृत्यपेक्षस्य स्मारकतया गृह्येरन्निति, इह तुइदं सर्वं यदयमात्मेति यत् पदसमन्वयनिमित्तं सर्वस्यात्मस्वभावताग्राहिविज्ञानं, तत् स्वविषयस्य अन्यतोऽसिद्धत्वात् प्रमेयपरत्वात् विधेर्विषयः । अथ विधेर्विषयो प्रमेयमवगमयितुमलम् । युगपदुभयं सम्भवति ; वैरूप्यप्रसङ्गात्

ननु एवं सति गुणकर्मणां सर्वत्र विधानं निराकृतं स्यात् । निराकृतं स्यात् ; यत्र प्रमाणान्तरसिद्धं गुणकर्मणः कर्मकारकं, तत्र तस्योत्पत्त्याद्यन्यतमं फलं, तद्विधीयते ; यत्र पुनः प्रमाणान्तरादसिद्धो ज्ञानस्य कर्मभूतो विषयः, तेनैव प्रमीयमाणो सिद्धवदुद्देश्यः, येन तदुद्देशेन तत्रातिशयाधानाय ज्ञानं विधीयतेतस्मादत्र युगपदुभयासम्भवात् भवत्येव वैरूप्यप्रसङ्गः । एव समन्वयः स्वावयवाद्विधेर्विभक्तः कार्यक्षमः ; अवान्तरवाक्यस्य प्रमाणत्वायोगात् । अथ अर्थवादपदानामिव परस्परतः संसृज्य कञ्चिदर्थमवबोध्य विधिसम्बन्धमनुभवेदित्यभिप्रायः ? तदसत् ; युक्तमर्थवादपदानि स्वार्थफलरहितानि तत्र पर्यवसानाभावात् फलवदङ्गतामश्नुवीरन्निति, इह पुनरपरामृष्टविधिः पदसमन्वयः स्वार्थमवगमयन् निरस्तनिखिलप्रपञ्चावग्रहमपास्तातिशयानन्दनित्यानुभवैकरसं शिवमद्वैतमात्मतत्त्वमवगमयेत् , तत्र कुतो विधिशेषता कृतं कृत्यं प्राप्तं प्रापणीयम् ? ‘आत्मलाभान्न परं विद्ययतेइति स्मृतेः

अथ पुनः शाब्दज्ञानान्न तथा अनुभवः, तेन साक्षात्करणाय विधिरिति, किं तत् ज्ञानमनुभवाय विधीयते ? प्रत्यक्षादीनां तावदगोचरः ; चक्षुषा गृह्यते’ (मु. उ. ३-१-८) इत्यादिमन्त्रवर्णात् । शाब्दं नेष्यते भवता, सत्यम् शाब्दज्ञानं विधिविकलमनुभवायालं, विहितं तु अनुभवहेतुरिति, तदयुक्तम् ; यत्तावत् स्वाध्यायाध्ययनविधिग्राहितात् पदसमन्वयात् स्वभावतः समुत्पन्नं, तत् तावन्न विधीयते ; प्रमेयपरतया विधिविषयत्वानुपपत्तेरित्युक्तम् । अथ पुनस्तदेव ज्ञानं सन्तनुयादिति विधीयते, तत् कथं लभ्यत उपास्तिध्यायत्योः ज्ञानसन्तानवाचिनोरन्यतरस्याप्युपादानमन्तरेण ? नापि ज्ञानेनैव स्वसन्तानो लक्ष्यते ; साहचर्याद्यव्यभिचरितसम्बन्धाभावात् । नाप्यभ्यासात् साक्षाद्भावः सिद्धः । नापि श्रूयते, येन तदुद्देशेन ज्ञानसन्तानो विधीयेत । ननु किमत्र श्रवणेन ? स्वयमेव साक्षात्कारकरणाय पुरुषार्थत्वादभिमुखः पुरुषः ; सिद्धश्च ज्ञानाभ्यासः शास्त्रश्रवणादौ साक्षात्करणे हेतुः, यद्येवं किं विधिना ? स्वयमेव पुरुषार्थे निर्ज्ञाते हेतौ प्रवर्तते । यत् पुनः निदर्शनं शाल्यर्थं कुल्याः प्रणीयन्ते इति, युक्तं तत्र ; प्रत्यक्षत उभयार्थताया उपलभ्यमानत्वात् , इह पुनः निदर्शनं न्यायतः प्रतिपत्तव्यम् । न्यायो युगपत् सम्भवतीत्युक्तम् । यदपीदमुक्तंपदार्थानां विधायकः शब्दः क्रमस्यापि विधायकः, एवमैकात्म्यस्य प्रतिपादकः समन्वयो विधिविषयमपि ज्ञापयिष्यतीति, तदप्यपेशलम् । यत् तावत् प्रत्येकं प्रयाजादिविधयः, तैः पुनः तेषामेव विधानम् । नापि ते क्रमशब्दाभिधेयाः । प्रयोगवचनोऽपि प्रयुञ्जानः तानेव प्रयुङ्क्ते । ते क्रम इत्युक्तम् क्रमो नाम एकान्ततो नास्त्येव ; तद्बुद्धिशब्दयोः निरालम्बनत्वप्रसङ्गात् । तत्र क्रमो नाम वस्तुभूतो धर्मो विद्यत एव । एव केनचिदुपाधिना वनवत् क्रमबुद्धिशब्दालम्बनं भवेयुः । स्मृतिविज्ञानमेव वा अनुष्ठानकाले यथोपलब्धिपदार्थान् परामृशेत् । सर्वथा अस्ति तावत् एकैकपदार्थालम्बनज्ञानातिरिक्तं ज्ञानान्तरम्तच्च एकत्वात् कर्तुः अनेकत्वाच्च पदार्थानां, युगपदनुष्ठानासम्भवादपेक्षितं सन्निहितं प्रयोगवचनेन गृह्यत इति युक्तम् । तथेह ज्ञानद्वयमस्ति ; यदैकात्म्ये विधिविषयत्वे वर्तेत । तस्मादिह विधेयाभावाद्विधानाश्रवणादध्याहारे प्रमाणाभावात् प्रयोगवचनोऽस्ति, यो मन्त्राणामिव ज्ञानस्यापि पुनः प्रयोगं विधास्यते । तस्मादसदेतत् कार्यविषयोऽपि वेदो वस्तुतत्त्वं अवबोधयति इतियत् पुनः निदर्शनंचक्षू रूपे सति द्रव्यमपि बोधयति एवं कार्ये सति तत्त्वमपि वेदोऽवगमयतीति । युक्तं तत्र यद्यदवबोधयति चक्षुः, तत्र स्वतन्त्रमेव प्रमाणम् , इह पुनः यत्र तात्पर्यं, तस्य प्रमेयता, यद्यत् प्रतीयते, तस्य तस्य इति वैषम्यम् । आहमा भूद्ज्ञानद्वयं, योऽयमाभिधानिकः प्रत्ययः, विधिविषय एव भवतु । तस्मिन् विहिते अर्थात् सर्वस्यात्मस्वभावता सिध्यति ; सविषयत्वादवगमस्य । एवमपि अविवक्षितोऽर्थः शब्दात् , विवक्षितस्त्वर्थादिति शोभतेतरां वाक्यार्थवित्ता ? नियोगतः प्रतिपत्तिविधिः वास्तवं संसर्गं गमयति । भवन्ति हि परिकल्पितविषया अपि प्रतिपत्तयश्चोदनालक्षणाः फलवत्यःवाचं धेनुमुपासीते’त्येवमाद्याः । एतदेवात्र युक्तम् ; अतत्परस्य प्रत्यक्षादिविरोधे तथाध्यवसायहेतुत्वायोगात् । तस्मात् कार्यनिष्ठे वेदे वस्तुतत्त्वसिद्धिः मनोरथ एव । अतो अहंप्रत्ययावसेय एवात्मा । तस्य शब्दावसेयमतीन्द्रियं रूपान्तरमस्ति ; शब्दस्य तत्र सामर्थ्याभावात् । एवं सति अयमात्मा ब्रह्म’ (बृ. उ. २-५-१९) एष आत्मान्तर्याम्यमृतः’ (बृ. उ. ३-७-३) इति ब्रह्मान्तर्याम्यादिशब्दा अहंप्रत्ययावसेय एवात्मनि कथञ्चिद्वर्तन्ते । तेन आत्मा तत्त्वमसि’ (छा. उ. ६-८-७) इति विद्यमानैरारोपितैश्च गुणैरात्मोपासनं मोक्षफलं विधीयते इति, युक्तम् । अतः कार्यानुरक्तस्य वेदार्थस्य सम्भवात् तस्य सर्वात्मना विचारितत्वात् किमपरमवशिष्टम् ? यत् ब्रह्मजिज्ञासारम्भं प्रयुञ्जीत, उच्यतेस्यादेतदेवम् , यदि सर्व एव वेदार्थो विचार्यत्वेनअथातो धर्मजिज्ञासे’ति उपक्रान्तो विचारितश्च स्यात् , यावता कार्यनिष्ठ एव वेदभागो विचारितो, वस्तुतत्त्वनिष्ठः

तथा हिशास्त्रारम्भो व्याख्यातृभिरेवं निरूपितः । कथम् ? धर्मो नाम कश्चित् साधयितुः कालान्तरे श्रेयस्साधनो लोकाख्यप्रमाणाभासोत्थेन ज्ञानेन सामान्यतो विषयीकृतः । तद्विशेषं प्रति विप्रतिपन्नाः परीक्षकाः केचिदग्निहोत्रादिकं धर्ममाचक्षते ; केचिच्चैत्यवन्दनादिकम् । तत्र अग्निहोत्रादिलक्षण एव धर्मोऽभिप्रेतः । तत्प्रतिपादकानां वेदवाक्यानां विचारावसरो नापि विवक्षितार्थत्वम् । अतः चैत्यवन्दनादीनामेवान्यतमो धर्मः । तत्प्रतिपादकानां बुद्धादिवाक्यानामेवान्यतमं विचार्यम् ; वा तदपि । हि पौरुषेये वाक्ये शब्दशक्त्यनुसारेणार्थः, अपि तु तेन विवक्षितः इत्येवमाशङ्किते धर्माय वेदवाक्यानि विचारयिष्यन् तदर्थविवक्षाविचारावसरप्रदर्शनार्थम्अथातो धर्मजिज्ञासाइति सूत्रयामास जैमिनिः । वेदमधीत्य अनन्तरं धर्मजिज्ञासा कर्तव्या, स्नानं गुरुकुलनिवृत्तिरूपमिति दर्शयितुमिति । एवं स्थिते शास्त्रारम्भे, सर्ववेदार्थविषयं शास्त्रमिति प्रतीतिः, किन्तु धर्मातिरिक्तोऽपि सिद्धरूपो वेदार्थोऽस्ति, पर्युदस्तो जैमिनिना ; न्यायान्तरविषयत्वादिति, गम्यते

तत् कथम् ? यत् तावदिदम् उच्यते ; धर्मो नाम लोकप्रवादात् सामान्यतः सिद्धः । तस्य स्वरूपप्रमाणयोः विप्रतिपत्तावग्निहोत्रादिरपि वेदार्थो धर्मतया विचारपदवीमुपारोहति ; यतः तस्यापि विचारावसरो विद्यते, तेन विवक्षितोऽसौ । चाध्ययनमात्रात् कृतकृत्यता । अतोऽध्ययनानन्तरं गुरुकुलान्निवर्त्तितव्यं, किन्तु वेदार्थो धर्मः, किं वा अन्य एवेति जिज्ञासामर्हतीति वदितुं धर्मग्रहणं युक्तम् अथातो धर्मजिज्ञासेति, वेदार्थजिज्ञासेति ; यतो वेदार्थतया ज्ञाने प्रवृत्तिः । यत् पुनः धर्मस्य स्वरूपप्रमाणकथनाय द्वितीयं सूत्रं, तत् वेदप्रमाणको धर्म इति स्यात् किमिदंचोदनालक्षणःइति ? तत् नूनं सर्वो वेदो धर्म एव कार्यात्मके पर्यवस्यति, कश्चिदस्य भागः कार्यताशून्ये वस्तुतत्त्वेऽपि वर्तते इति मन्यतेननु चोदनाग्रहणस्यान्यदेव प्रयोजनं, ‘चुद प्रेरणेइति प्रेरणकर्मणश्चोदनेति रूपम् ; ततः प्रेरणात्मको विधिरपुरुषार्थे प्रेरयितुमशक्नुवन् पदान्तराभिहितमपि स्वर्गादिकं भावनाकर्मतामापादयति एकपदोपादानात् संनिहिततरं धात्वर्थं विहायेति कथयितुमिति, नैतत् सारम् , अध्ययनविधिरध्ययने माणवकं प्रेरयन् अध्ययनस्य पुरुषार्थरूपार्थावबोधकत्वमनापाद्य शक्नोति प्रेरयितुम् ; पारम्पर्येणाप्यपुरुषार्थे विधेरपर्यवसानात् , अतः तदर्थं चोदनाग्रहणम् ; वेदग्रहणेनापि तत्सिद्धेः । अपि वेदग्रहणमेव युक्तम् ; असन्देहात् , चोदनाग्रहणे हि सन्देहः स्यात् ; लोकेऽपि विद्यमानत्वात् । अथ वेदाधिकरणेवेदांश्चैके सन्निकर्षमि’ति विशेषाभिधानात् वैदिकत्वसिद्धिरिति, सोऽयमाभाणको लोकेपिण्डमुत्सृज्य करं लेढी’ति, सूत्रकारस्याप्यकौशलं प्रदर्शितं स्यात् । ततश्चोदनाग्रहणादचोदनात्मकोऽपि वेदभागोऽभिप्रेत इति गम्यते, येन वेदार्थमात्रस्य धर्मत्वं मा भूदिति चोदनेत्यवोचत् । तदेवं सूत्रकार एव स्वशास्त्रविषयातिरिक्तं वेदभागमविचारितमसूसुचत्ननुदृष्टो हि तस्यार्थः कर्मावबोधनम्’ ‘तद्भूतानां क्रियार्थेन समाम्नायः’ ‘आम्नायस्य क्रियार्थत्वात्इति सर्वस्य कार्यार्थत्वं दर्शितं, सत्यम् ; तत् प्रक्रमबलात् तन्निष्ठो वेदभाग इति गम्यते, सर्वत्र । अपि दृष्टो हि तस्यार्थः कर्मावबोधनमि’ति सर्वस्य कर्मावबोधनमर्थ उच्यते, कथम् ? वेदाध्ययनानन्तरं स्नानविधायकमाम्नायमुपलभ्य वेदस्यानर्थकत्व आशङ्कितेअतिक्रमिष्याम इममाम्नायम् , अनतिक्रामन्तो वेदमर्थवन्तं सन्तमनर्थकमवकल्पयेम ; दृष्टो हि तस्यार्थः कर्मावबोधनम्इत्यर्थसद्भावः प्रदर्शितो नार्थान्तरासद्भावः । सोऽयमयोगव्यवच्छेदो नान्ययोगव्यवच्छेदः । कर्मशब्देन धर्म एव कार्यत्वादभिहितः ; यतः तदवबोधप्रवृत्तो वेदस्यार्थवत्त्वं मृगयते, किं वेदस्यार्थो विद्यते ? वा ? धर्मत्वेनावगन्तुं शक्यते ? वा इति ? तस्मात् कर्मावबोधनमेव वेदार्थोऽभिप्रेतो भाष्यकृतः । यत् पुनःआम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थानामि’ति, तत्र यद्यानर्थक्यमर्थाभावः, तदसत् ; यतः एवमेवभूतार्थमनुवदन्तीति दर्शितोऽर्थः । अथ निष्प्रयोजनत्वम् ; स्वाध्यायाध्ययनविधिर्निष्प्रयोजनमक्षरमात्रमपि ग्राहयतीति, भवतुसोऽरोदीतित्यादीनाम् ; अपुरुषार्थप्रतिपादकत्वात् एकवाक्यत्वात् पृथक्कार्यकल्पनानुपपत्तेः, कल्पयितुं चाशक्यत्वात् । यानि पुनः अपास्ताशेषाशिवमात्मानमनुभवपर्यन्तम् अवबोधयन्ति वाक्यानि, तान्यनवद्यप्रयोजनत्वाद्भवन्तितरामेव प्रयोजनवन्ति । अतः स्वयमपुरुषार्थत्वात् तदर्थोपकारितया कथञ्चित् पुरुषार्थस्तावकत्वेन प्रयोजनवत्त्वमुक्तं, सर्वस्यैवाक्रियार्थत्वेन आनर्थक्यमाशङ्क्य क्रियार्थत्वेनार्थवत्वमुक्तम् । तथा तद्विधान्येव तत्र वाक्यान्युदाहृतानि

यदपि केचित्शास्त्रप्रस्थानमन्यथा वर्णयन्ति । हि किलैवं शास्त्रं प्रस्थितं, किं वेदलक्षणो धर्मः ? उत बुद्धवाक्यादिलक्षणः ? इति । किं तर्हि ? अधीतवेदस्य योऽर्थोऽवगतः, तत्रैव विप्रतिपत्तयः सन्ति, किमयमसौ ? उतायम् इति ? तन्निराकरणार्थः शास्त्रारम्भः इतितत्रापि निखिलवेदार्थविचारप्रतीतिः । तत् कथम् ? तथा सतिअथातो वेदार्थजिज्ञासाइति स्यात् ; यतो धर्म इति कृत्वा विचारः, किन्तु वेदार्थ इति, सत्यं, तथापि शास्त्रकाराणां पुरुषार्थसिद्ध्यर्थं शास्त्रप्रणयनं, ततश्च पुरुषार्थकथनार्थं धर्मग्रहणमिति । एवं तर्हि धर्म इत्येव कृत्वा विचारो भवतु ; तस्य पुरुषार्थत्वात् सन्दिग्धत्वाच्च । तथा उत्तरमपि सूत्रमनुगुणं भवतिचोदनालक्षणोऽर्थो धर्मःइति धर्मस्वरूपविप्रतिपत्तिनिरासपरं ; इतरथा वेदार्थविप्रतिपत्तौ तन्निरासार्थंचोदनालक्षणो वेदार्थःइति स्यात् , यतो धर्मग्रहणे सति वेदार्थविप्रतिपत्तिः शक्या निराकर्तुम् । कथम् ? यत् तावत् चोदनालक्षणो योऽर्थः, धर्म इति धर्मत्वं ज्ञाप्येत, तदा एव वेदार्थो नान्य इति लभ्यते । अथ पुनः धर्म इति नामनामिसम्बन्धो विधीयते, तदप्रक्रान्तम् ; निष्प्रयोजनम् , अतिप्रसङ्गश्च आपद्येतअथापि कथञ्चित् धर्मशब्देन वेदार्थ एवोच्यते इति कल्प्येत, तथा सति चोदनालक्षणो वेदार्थो नार्थवादादिलक्षणः, इति सिद्धप्रामाण्यवेदार्थविचारोऽयं स्यात् , उत्तरलक्षणवत् । तत्रानन्तरं प्रामाण्यप्रतिपादनं युज्येत ॥ ‘वृत्तं प्रमालक्षण’मिति मन्त्रार्थवादेषु कार्यार्थत्वे विप्रतिपत्तिः स्यात् । सा चोत्तरत्रैव निरस्यते । अतः पूर्वोक्तेन न्यायेन कार्यनिष्ठ एव वेदभागो विचार्यतया प्रक्रान्तो विचारितश्च, वस्तुनिष्ठः ; इत्यतो वस्तुतत्त्वनिष्ठं वेदभागं विचारयितुमिदमारभ्यते -

अथातो ब्रह्मजिज्ञासा इति

इति परमहंसपरिव्राजकादिश्रीशङ्करभगवद्पादान्तेवासिवरश्रीपद्मपादाचार्यकृतौ पञ्चपादिकायां जिज्ञासासूत्रावतरणं नाम द्वितीयवर्णकं समाप्तम् ॥

अथ तृतीयं वर्णकम्

तत्राथशब्द आनन्तर्यार्थः परिगृह्यते, नाधिकारार्थः । बह्मजिज्ञासाया अनधिकार्यत्वात्

इत्यादि भाष्यम् । तत् जिज्ञासाशब्दस्यावयवार्थेनार्थवत्त्वे युज्यते ? अधिक्रियायोग्यस्य ब्रह्मणस्तज्ज्ञानस्य वा प्राधान्येनानिर्देशात् , प्रधानस्य चेच्छाया अनधिकार्यत्वात्

अयं तु जिज्ञासाशब्दो विचारवचनो मीमांसापरपर्यायः प्रयुक्तोऽभियुक्तैः — ‘इदमतो जिज्ञासन्ते, किं क्रतुगुणकमुपासनं स्वामिकर्म ? उतर्त्विक्कर्मे’ति । इदन्तु जिज्ञास्यम् , किं नु खल्विमौ तप्यतापकावेकस्यात्मनो भेदौ ? उत जात्यन्तरम् ? इति । धर्ममीमांसाभाष्यकारोऽपि सङ्घातमेव प्रायुङ्क्तधर्मं जिज्ञासितुमिच्छेदि’ति, सङ्घातवाच्यत्वाद्विचारस्य ; अन्यथैवमवक्ष्यत् — ‘धर्मं ज्ञातुमिच्छेदि’ति । अत एवं धर्माय जिज्ञासाधर्मजिज्ञासे’ति सङ्घातस्यार्थवत्त्वमङ्गीकृत्य चतुर्थीसमासो दर्शितः । तदनुसारेण चैतानि भाष्याणि — ‘एवं वेदवाक्यान्येवैभिर्विचार्यन्ते’ ‘वेदवाक्यानि विचारयितव्यानि’ ‘कथं वेदवाक्यानि विचारयेदि’ति ; पुनश्चक्रत्वर्थपुरुषार्थयोर्जिज्ञासा’ ‘क्रत्वर्थपुरुषार्थौ जिज्ञास्येतेइति । इहापि भाष्यकारो वक्ष्यति — ‘तस्माद् ब्रह्म जिज्ञासितव्यमि’ति । पुनश्चवेदान्तवाक्यमीमांसा तदविरोधितर्कोपकरणा निःश्रेयसप्रयोजना प्रस्तूयतेइति । अतः सङ्घातस्यार्थवत्त्वादधिकारार्थता युज्यते । शास्त्रवचनो हि जिज्ञासाशब्दः ; तेन ब्रह्मजिज्ञासाऽधिकृता वेदितव्येतिउच्यतेनायं जिज्ञासाशब्दः परित्यक्तावयवार्थः केवलमीमांसापर्यायः प्रयुज्यमानो दृश्यते । नापि स्मरणमस्ति । चावयवार्थेनार्थवत्त्वे सम्भवति समुदायस्यार्थान्तरकल्पना युक्ता । ननु वयं कल्पयामः ; दर्शितः शिष्टप्रयोगः, ; तस्यान्यथासिद्धत्वात् । कथमन्यथासिद्धत्वम् ? अन्तर्णीतविचारार्थत्वाज्जिज्ञासाशब्दस्य । तथाहिविचारपूर्वकसाध्यज्ञानविषयेच्छा जिज्ञासाशब्दात् प्रतीयते, नोपदेशमात्रसाध्यज्ञानविषया ; एवं प्रयोगप्रत्यययोर्दर्शनात् , तेन जिज्ञासाशब्दस्यावयवार्थेनार्थवत्त्वाद् युक्तमुक्तम्ब्रह्मजिज्ञासाया अनधिकार्यत्वादिति

ननु एवमपि कुत एतत् ? अन्तर्णीतं विचारमाश्रित्य शब्दतो गुणत्वेऽप्यर्थलक्षणेन प्राधान्येन ब्रह्मतज्ज्ञानयोरधिकारयोग्यत्वाच्चाधिक्रियमाणत्वमङ्गीकृत्याधिकारार्थत्वं किमिति गृह्यते ? येन शब्दलक्षणेन प्राधान्येनेच्छाया अनधिकार्यत्वादानन्तर्यार्थत्वमेव परिगृह्यत इति, उच्यतेशास्त्रस्यानारम्भप्रसङ्गादधिकारार्थत्वानुपपत्तेः । अधिकारार्थत्वे ह्यप्रयोजनं शास्त्रं काकदन्तपरीक्षावदनारभ्यं स्यात् , तत्र कस्याधिकार उच्येत ?

ननु ब्रह्मज्ञानं प्रयोजनम् ; तदर्थः शास्त्रारम्भः, ; ब्रह्मज्ञानेऽर्थित्वानुपपत्तेः, ब्रह्मज्ञानाद्धि मनसोऽपि वियोगान्निखिलविषयानुषङ्गनिवृत्तिः श्रूयते । सा सार्वभौमोपक्रमं ब्रह्मलोकावसानमुत्कृष्टोत्कृष्टसुखं श्रूयमाणं सोपायं निवर्तयति । अतो ब्रह्मज्ञानादुद्विजते लोकः ; कुतस्तत्र प्रवृत्तिः ? ननु आनन्दरूपताऽपि ब्रह्मज्ञानादाप्यते, अतस्तदर्थं प्रवर्तते तत्र, मैवम् ; हि ब्रह्मानन्दोऽननुभूतपूर्वोऽनुभूतभोग्यसुखाभिलाषं मन्दीकर्तुमुत्सहते, येन तदुज्झित्वा ब्रह्मज्ञाने प्रवर्तेत । ननु परितृप्तरूपताऽपि ब्रह्मज्ञानात् , अतः परितृप्तः किं कामयते ? अतृप्तिनिमित्तकत्वात् कामस्य ; तथा श्रुतिः — ‘आप्तकामः आत्मकामइति । स्मृतिरपिआत्मलाभान्न परं विद्यते’ ‘एतद्बुद्ध्वा बुद्धिमान् स्यात् कृतकृत्यश्च भारते’ति । ; तृप्तेरेवोद्वेगदर्शनाद्विषयविच्छेदात्मिकायाः । तथा वक्तारो भवन्ति, अहो कष्टं किमिति सृष्टिरेवं बभूव ? यत् सर्वमेव भोक्तुं सामर्थ्यमतृप्तिर्भोग्यानां चाक्षयःइति । रागिगीतं श्लोकमप्युदाहरन्ति — ‘अपि वृन्दावने शून्ये श्रृगालत्वं इच्छति । तु निर्विषयं मोक्षं कदाचिदपि गौतम ॥ ’ इति ।

मा भूद् ब्रह्मज्ञानार्थिता, वेदार्थत्वादेव ब्रह्मज्ञानं कर्तव्यम् ; स्वाध्यायाध्ययनस्यार्थावबोधफलकत्वात् । स्यादेतदेवम् ; यद्यर्थावबोधफलाध्ययनक्रिया स्यात् , सा ह्यधीयमानावाप्तिफलत्वादक्षरग्रहणान्ता । अथाक्षरग्रहणं निष्प्रयोजनमिति तत्र पर्यवसानं विधेः, भवतु तर्हि सक्तूनां गतिः । तदपि ; अक्षरेभ्यः प्रयोजनवदर्थावबोधदर्शनात् । तर्हि निष्प्रयोजनान्यक्षराणि ; अतस्तत्पर्यन्तमध्ययनं निष्फलम् ; अतोऽक्षरग्रहणादेव नियोगसिद्धेः फलप्रयुक्त एवार्थावबोधः । अपि अक्षरग्रहणान्तो विधिर्निष्प्रयोजनः, इति सर्वत्र, प्रयोजनवदर्थावबोधपर्यन्तता कल्पयितुमपि शक्यते । तत्रावश्यं कल्पनीयाऽक्षरग्रहणान्तता । तद्यथा राजन्यस्य सत्रवैश्यस्तोमबृहस्पतिसवानामाम्नानं वैश्यस्य चाश्वमेधराजसूयसत्राणां पाठः । तेषामनध्ययनमेव ; स्वाध्यायशब्देन सकलवेदवाचिनाऽध्ययनस्य विहितत्वात् । ननु चाश्रूयमाणाधिकारोऽध्ययनविधिः, दृष्टश्चाक्षरग्रहणेऽर्थावबोधः, कल्पनामधिकारस्य निरुन्धन् स्वयमधिकारस्य हेतुः सम्पद्यते । दृष्टाधिकारेषु प्रत्यक्षतस्तदुपलब्धावधिकारसिद्धिः । अतोऽर्थावबोधपर्यन्तः स्वाध्यायाध्ययननियोगः ; तेन नियोगसिध्यर्थमेव सकलवेदार्थविचारः, अत्रोच्यतेभवेदध्ययनविधेरर्थावबोधः प्रयोजनम् , नाधिकारहेतुता, अध्ययनात्प्रागसिद्धत्वात् । प्राक् चाधिकारज्ञानेन प्रयोजनम् ; अतो विधेर्दृष्टाधिकारत्वेनार्थावबोधसिद्धिः ।

यद्येवमधिकारश्रवणादर्थावबोधे प्रतिपक्षकल्पनानुपपत्तेस्तस्य चाधिकारहेतुत्वानभ्युपगमादप्रवृत्तिरेवाध्ययने प्राप्ता । अत्र केचिदाहुःआचार्यकरणविधिप्रयुक्तस्याध्ययनस्यानुष्ठानम् आधानस्येव कामश्रुतिप्रयुक्तस्य इति । तदयुक्तमित्यपरे । कथम् ? ‘अष्टवर्षं ब्राह्मणमुपनयीते’ति यद्ययमाचार्यस्य नियोगः ? माणवको नियुक्तो भवति । अनियुक्तस्य स्वाध्यायाध्ययने प्रवृत्तिर्न सम्भवति । किञ्चान्यत्आचार्यकरणविधिरनित्यः, ‘ब्राह्मणस्याधिकाः प्रवचन याजनप्रतिग्रहाःइति वृत्त्यर्थोऽधिकारः ; अतः स्वेच्छातः प्रवृत्तिः । उपनयनाख्यस्तु संस्कारो नित्यः ; अकरणे दोषश्रवणात् — ‘अत ऊर्ध्वं त्रयोऽप्येते यथाकालमसंस्कृताः । सावित्रीपतिता व्रात्या भवन्त्यार्यविगर्हिताःनैतैरपूतैर्विधिवदापद्यपि हि कर्हिचित् । ब्राह्मान् यौनांश्च सम्बन्धानाचरेद् ब्राह्मणः क्वचिदि’तिसंस्कारश्च स्वाध्यायाध्ययनार्थः । एवं स्वाध्यायाध्ययनमपि नित्यम् । तथा निन्दाश्रवणम् — ‘अश्रोत्रिया अननुवाक्या अनग्नयः शूद्रसधर्माणो भवन्ती’ति । एवं चेत् कथं नित्यमनित्येन प्रयुज्यते ? इति वाच्यम् । ननु कथमाचार्यकरणविधिरनित्यः ? यावता वृत्त्यर्थो हि सः । हि कश्चिद्विना धनेन जीविष्यति । तथा चोक्तं — ‘जीविष्यति विना धनेनेत्यनुपपन्नमि’ति । अतः सर्वेषां सर्वदा समीहितफलः सन् कथमनित्यः स्यात् ? भवेदेवं नित्यता फलवशेन, शब्दात् । तथाहिफलस्य नित्यसमीहितत्वादवश्यकर्तव्यता वास्तवी । तत्रासति शब्दव्यापार इच्छातः कर्तव्यताप्रतिपत्तिः स्यात् , कर्तव्यताप्रतिपत्तेरिच्छा । शाब्द्यां हि नित्यकर्तव्यताप्रतिपत्तौ शब्दस्य सर्वदा सर्वान् प्रत्येकरूपत्वादिच्छाऽपि तद्वशवर्तिनी तथैव स्यात् ; औचित्यादिभावेऽपि कस्यचित् कथञ्चित् क्वचित् कदाचिदिच्छायाः । प्रमाणतस्तावान्नित्यः । तेन नित्येन तथाविधमेव प्रयुज्यते, इति नित्यानित्यसंयोगविरोधः फलवशात्तु तत्कर्तव्यताप्रतिपत्तौ यद्यपि नित्याभिलषितं फलम् ; तथाऽप्युपायान्तरादपि तत्सिद्धेः, तदेकोपायत्वेऽप्यालस्यादायासासहिष्णुतया वा कामस्य कुण्ठीभावे कर्तव्यतायाः प्रतिपत्तिः, इत्यनित्यत्वे सति तेन नित्यस्य प्रयोज्यत्वमुपपद्यते

ननु पितुः पुत्रोत्पादनविधिरनुशासनपर्यन्तः श्रूयते — ‘तस्मात्पुत्रमनुशिष्टं लोक्यमाहुस्तस्मादेनमनुशासती’ति । अतः पुत्रोत्पादनस्य नित्यत्वात् तस्य चानुशासनपर्यन्तत्वात् तदाक्षिप्तत्वाच्चोपनयनाध्ययनयोः कथमाचार्यकरणविधिरनित्यः स्यात् ? कथं वाऽध्ययनस्यार्थावबोधपर्यन्तता भवेत् ? उच्यतेनानेन पुत्रानुशासनं विधीयते, पुत्रोत्पादनविधिशेषत्वेन स्वतन्त्रमेव वा, किन्तु सम्पत्तिकर्मविधिशेषोऽयमर्थवादः ; तेनैकवाक्यत्वात् । अतो यथाप्राप्तमनुशासनमनुवदति । किं तदनुशासनम् ? कथं वा तत् प्राप्तवदनूद्यते ? उच्यतेनित्यस्य पुत्रोत्पादनविधेः प्रयोजनं यत् पितॄणां लुप्तपिण्डोदकक्रियाणां नरकपातश्रवणात् पितृपिण्डोदकक्रियाद्यनुष्ठानेन नरकपातत्राणम् । शास्त्रीयेण परिज्ञानेन विना तदनुष्ठानं सम्भवति । तेन पित्रा नित्यमात्मनः पुत्रोत्पादनाधिकारं परिसमापयितुं पुत्रस्यावश्यकर्तव्यार्थविषयं गर्भाष्टवर्षेण ब्राह्मणेन त्वयोपनयनाख्यः संस्कारः कारयितव्यः, यः स्वाध्यायाध्ययनार्थो विहित इति यदनुशासनम् , तदिहानूद्यते — ‘तस्मादेनमनुशासतीति’ ॥ तथाच लिङ्गं — ‘श्वेतकेतुर्हाऽऽरुणेय आस । तं पितोवाच श्वेतकेतो वस ब्रह्मचर्यम् । वै सोम्यस्मत्कुलीनोऽननूच्य ब्रह्मबन्धुरिव भवती’ति । तदेवमनित्येनाचार्यकरणविधिना कथं नित्यं प्रयुज्यत इति वाच्यम् । किं आचार्ये प्रेत आचार्यान्तरकरणं प्राप्नोति ; नह्यधिकारी प्रतिनिधीयते, नाप्यधिकारः । अधिकारी स्वाधिकारसिध्यर्थं साधनान्तरभ्रेषे साधनान्तरं प्रतिनिधाय स्वाधिकारं निर्वर्तयतीति युक्तम् ; एवमेषा बहुदोषा कल्पना दृश्यते । तस्माद् माणवकस्यैवैष नियोगः । कथं गुणकर्तृव्यापारसम्बद्धो विधिः प्रधानकर्तृस्थो भवति ? यथा — ‘एतया ग्रामकामं याजयेदि’ति ग्रामकामस्य यागो विधीयते, गुणकर्तृव्यापारः प्राप्तोऽनूद्यते ; तस्य याजनस्य वृत्त्यर्थत्वात् , एवमिहापि गुणकर्तृव्यापारो वृत्त्यर्थत्वेन प्राप्तोऽनूद्यते

अत्रैके प्रत्यवतिष्ठन्तेयुक्तंयाजयेदि’ति प्रधानकर्तृव्यापाराभिधायिनो यजतेः परस्य गुणकर्तृव्यापाराभिधायिनः शब्दान्तरस्य णिच उपादानात् तस्य चाविधेयत्वात् प्रधानकर्तृव्यापारस्याभिधानम् , इह पुनरेको नयतिर्माणवकस्य व्यापारं ब्रूयात् ? आचार्यस्य वा ? तावद् माणवकस्य नयत्यर्थकर्तृत्वम् ; कर्मकारकत्वात् तस्य । अतोऽनभिधेयव्यापारः कथं नियुज्येत ? हि परव्यापारे परो नियोक्तुं शक्यते । स्वव्यापारे हि पुरुषस्य नियोगः । तस्मान्नैष माणवकस्य नियोगः । तदेवमाचार्यकरणविधिप्रयुक्तत्वादध्ययनस्य नात्राधिकारचिन्तया मनः खेदयितव्यम् इति । उच्यतेमाणवकस्यैवायं नियोगः, नाचार्यस्येह किञ्चिद्विधेयमस्ति । कथम् ? यत्तावत्उपनयीते’त्यस्याभिधानतो न्यायतश्च निरूप्यमाणोऽर्थ एतावान् प्रतीयते, आत्मानमाचार्यं कर्तुं कञ्चिदात्मसमीपमानीयाध्यापयेत् ? इति । एतच्च सर्वं वृत्त्यर्थत्वेन ब्राह्मणस्यान्यत एव प्राप्तम् , नात्र विधातव्यम् । तत्र कमध्यापयेत् ? इति विशेषाकाङ्क्षायांब्राह्मणमष्टवर्षमि’ति विशेषस्य विधायकमेतत् स्यात् । तत्र प्राप्ते व्यापारेऽर्थद्वयविधानमेकस्मिन् वाक्ये शक्यते वक्तुम् ; वाक्यभेदप्रसङ्गात् । अतो नाचार्यस्य किञ्चिद् विधेयमिहास्ति । ननु माणवकस्यापि किञ्चिद् विधेयमस्ति, अस्तीति ब्रूमः । कथम् ? यदैवउपनयीते’ति शब्दतो न्यायतश्चात्मानमाचार्यं कर्तुमुपनयनेन संस्कृत्य कञ्चिदध्यापयेदिति प्रतीयते, तदैव यागश्रुतौ द्रव्यदेवतामात्रप्रतीतिवदध्ययनार्थोपनयनसंस्कार्योऽपि सामान्यतः प्रतीयते । तस्य प्रेक्षावतो निष्प्रयोजने प्रवर्तयितुमशक्यत्वात् , विद्यमानस्याप्यध्ययनेऽर्थावबोधस्य प्रागसिद्धेः प्रवृत्तिहेतुत्वासिद्धेः, विधितोऽवश्यकर्तव्यतां प्रतिपद्य स्वयमेव प्रवर्तते । तेनअष्टवर्षं ब्राह्मणमुपनयीते’त्यष्टवर्षो ब्राह्मण उपसर्पेदाचार्यमित्यर्थः ; ग्रामकामं याजयेद् ग्रामकामो यजेतेति यथा । ननु एवमप्यधिकारो लभ्यते, अस्त्यत्राधिकारहेतुर्नित्यं निमित्तं वयोविशिष्टा जातिः, जातिविशिष्टं वयो वा । ननु जातिवयसी विशेषणमुपादेयस्य, अनुपादेयविशेषणमधिकारहेतुरिति स्थितिः, सत्यमस्तीयं स्थितिः

किन्तु कर्तुरधिकार इत्यपि स्थिता न्यायविदः । किं चे माणवको जातिवयोविशिष्ट उपादेय उपनयने, किं तूपनयनमेव तदर्थं विधीयते ; संस्कारस्य संस्कार्योद्देशेन विधानात् । अतः संस्कार्यस्यावच्छेदकत्वं वयोजात्यवच्छिन्नं सद् भवति नित्यनिमित्तं माणवकस्य संस्कार्यत्व इति । तदेवमुपनयनस्याध्ययनार्थत्वात् तस्य साधिकारत्वात् तेन चाधिकारेण साधिकारोऽध्ययनविधिः । अक्षरग्रहणमात्रेण चाधिकारसिद्धिः, अर्थावबोधस्तु कारणान्तरादिति

ननु चैवमधीतो वेदो धर्मजिज्ञासाया हेतुर्ज्ञातः, अनन्तरं धर्मो जिज्ञासितव्यः, इति वेद एवाधीतोन्यनिरपेक्षो धर्मजिज्ञासाया हेतुरिति वदन्ति, सत्यम् ; तथैव तत् , को वाऽन्यथा वदति ? अधीतवेदो ह्यवश्यकरणीयानि नित्यनैमित्तिकान्यकरणे प्रत्यवायजनकानि कर्माणि प्रतिपद्यते, तान्यनन्तरमेवावश्यविचारणीयानि, कथमेतान्यनुष्ठेयानीति । अतः प्रागध्ययनादप्रतिपत्तेरयोग्यत्वादधीतवेदत्वमेवान्यनिरपेक्षमर्थावबोधहेतुरिति गीयते । तथा ब्रह्मज्ञानमवश्यकर्तव्यम् , अकरणे प्रत्यवायहेतुरिति प्रमाणमस्ति । तस्मादधीतवेदेनावश्यकर्तव्या धर्मजिज्ञासा, नैवं ब्रह्मजिज्ञासा । तदेव ब्रह्मजिज्ञासाया अधिकारानर्हत्वादर्हयोश्च ब्रह्मतज्ज्ञानयोरनर्थ्यमानत्वाद् जिज्ञासाऽनुपपन्ना

मङ्गलस्यापि वाक्यार्थे समन्वयाभावात् श्रुतिमात्रोपयोगाच्च साधूक्तम्

अथ शब्द आनन्तर्यार्थः परिगृह्यते नाधिकारार्थ इति

ननु प्रक्रियमाणात् पूर्वप्रकृतमपि किञ्चिद् नियमेन प्रतीयतेऽथशब्दात् , ततस्तत्प्रतिपत्त्यर्थं किमिति गृह्यते ? उच्यतेनैतदानन्तर्याद् व्यतिरिच्यते । कथम् ? एवम्तत् प्रक्रियमाणस्य नियमेन पूर्ववृत्तं भवति, यदि तस्यानन्तरं तन्मात्रापेक्षं तत्प्रक्रियेत, एवं सति प्रक्रियमाणस्य हेतुभूतोऽर्थः पूर्वनिर्वृत्तो भवति ; अन्यथा यस्मिन् कस्मिंश्चित् पूर्ववृत्तापेक्षायामनुवादादृष्टार्थत्वयोरन्यतरत्वप्रसङ्गात् , अतो हेतुभूतोऽर्थोऽपेक्षितव्यः, तदेतदाह

पूर्वप्रकृतापेक्षायाश्च फलत आनन्तर्याव्यतिरेकादिति । सति चानन्तर्यार्थत्वे यथा धर्मजिज्ञासा पूर्ववृत्तं वेदाध्ययनं नियमेनापेक्षते, एवं ब्रह्मजिज्ञासाऽपि यत् पूर्ववृत्तं नियमेनापेक्षते, तद् वक्तव्यम् । स्वाध्यायानन्तर्यन्तु समानमिति

येन विना नियमेनानन्तरस्य प्रक्रिया तादृशो हेतुः पूर्वनिर्वृत्तो वक्तव्यः ; यस्यानन्तर ब्रह्मजिज्ञासा प्रक्रियते । स्वाध्यायाध्ययनन्तु समानम् साधारणो हेतुर्धर्मब्रह्मजिज्ञासयोः । अतश्चअथातो ब्रह्मजिज्ञासे’ति पुनरथशब्देन तन्मात्रापेक्षणं व्यर्थं स्यात् । अथवा समानं नात्यन्तमपेक्षितं, स्वयमेव सामर्थ्यं जनयितुं प्रयोक्तुं शक्तम् । अतः समानो हेतुः, नावश्यं निष्पादक इत्यर्थः

नन्विह कर्मावबोधानन्तर्यं विशेषःतथाच वृत्त्यन्तरे वर्णितम्-'कर्मणामधिकारपरम्परया शब्दतो वा संस्कारतया वा यथाविभागं तार्दथ्यावगमाद् निःश्रेयसप्रयोजनत्वाच्चानन्तर्यवचनोऽथशब्दोऽधिगतानन्तरमि'ति । अन्यैरपि स्ववृत्तौ वर्णितम्—'तत्राथातःशब्दौ प्रथम एवाध्याये प्रथमसूत्रे वर्णितौ । अथेति पूर्वप्रकृतां धर्मजिज्ञासामपेक्ष्यानन्तरं ब्रह्मजिज्ञासाप्रारम्भार्थः । अत इति पूर्वनिर्दिष्टस्यैवार्थस्य हेतुतामाचष्टे ब्रह्मजिज्ञासां प्रती'ति । अत्राह-

; धर्मजिज्ञासायाः प्रागप्यधीतवेदान्तस्य ब्रह्मजिज्ञासोपपत्तेरिति

वेदान्ताध्ययनं यद्यपि केवलं पुष्कलं कारणम् ; तथाऽपि तेन विनोत्पद्यते ब्रह्मजिज्ञासा, उपपद्यते तु धर्मावबोधनं विनाऽपीत्यभिप्रायः । कथम्? तत्र तावद् धर्मजिज्ञासायां त्रयं वृत्तम्-द्वादशलक्षणे प्रतिपादितन्यायसहस्रम् , तदनुग्रहोपजा-तश्च वाक्यार्थनिर्णयः, वाक्यार्थश्चाग्निहोत्रादिकं कर्म । तत्र यः प्रथमसूत्रेऽथशब्दोपादानसूचितो न्यायः स्वाध्यायस्यार्थावबोधोपयोगप्रतिपत्तिहेतुः, यदप्यौत्पत्तिकसूत्रे शब्दार्थयोः सम्बन्ध-नित्यत्त्वेन वेदान्तानां चापौरुषेयत्वेन कारणेनानपेक्षत्वं नाम प्रामाण्यकारणमुक्तम् , तदुभयमि-हाप्युपयुज्यते ; अपेक्षितत्वात् , इतरस्य पुर्नन्यायकलापस्य ब्रह्मजिज्ञासायामुपयोगोस्ति, यतो निरस्ताशेषप्रपञ्चं ब्रह्मात्मैकत्वं प्रतिज्ञातं तत्र । तत्प्रतिपादने तत्प्रतिपादनसामर्थ्ये वा शब्दानां कश्चित् न्यायोऽभिहितः । यत्पुनः प्रथमतन्त्रसिद्धन्यायोपजीवनमस्मिन्नपि तन्त्रे , तत् सगुणविद्याविषयम् । तत्र मानसी क्रियोपासना विधेयाऽनित्यफला धर्मविशेष एव । तदेवं न्यायकलापस्य ब्रह्मजिज्ञासायामुपयोगः । अतो तदपेक्षोऽथशब्दः । यत्पुनः स्वाध्याय-स्यार्थावबोधोपयोगेऽनपेक्षत्वेन स्वतःप्रामाण्यसिद्धौ न्यायद्वयम् , तत् अपेक्षितमपि केवलं ब्रह्मजिज्ञासाकारणम् ; स्वाध्यायवदेव, तेन तदपेक्षोऽथशब्दः । यः पुनर्वाक्यार्थनिर्णयः, कथमपि ब्रह्मजिज्ञासायामुपयुज्यते । ह्यन्यविषयं ज्ञानमन्यत्र प्रवृत्तौ हेतुः । प्रतिपत्तौ कदाचित् स्यादपि यथाऽनुमानादौ, तदपीह नास्ति ; धर्मब्रह्मणोः सम्बन्धानिरूपणात् , अतः कर्मणामुप-योगः परिशिष्यते । तथा तैरप्युक्तम्—कर्मणामधिकारपरम्परया शब्दतो वा संस्कारतया वा यथाविभागं तार्दथ्यावगमात्' इति । अत्रेदं निरूप्यते- केयमधिकारपरम्परा? कथं वा तार्दथ्य-मिति? यथा तावत् प्रासादमारुरुक्षोः सोपानपरम्परा क्रमशः प्राप्यमाणा प्रासादारोहणहेतुः, तथेह ब्रह्मजिज्ञासां चिकीर्षोः कर्माणि सहस्रसंवत्सरपर्यन्तानि तत्क्रियाहेतुतया स्थितानि ; प्रमाणाभावात् । अथ कामोपहतमनास्तदभिमुखो ब्रह्मजिज्ञासायां नावतरति, कर्मभिस्तु कामा-वाप्तौ तदुपशमाद् ब्रह्वजिज्ञासायामवतरति । तथाच सार्वभौमत्वाद्युत्तरोत्तरशतगुणोत्कर्षावस्थितान् ब्रह्मलोकावाप्तिपर्यन्तान् कामानवापयन्त्यधिकारपरम्परया कर्माणि ; ब्रह्मलोकात् परं कामयितव्याभावात् , निर्विषयस्य कामस्यानुपपत्तेर्दग्धेन्धनाग्निवत् कामोपशमे ब्रह्मजिज्ञासां करोति ; कर्मानुष्ठानानन्तर्यं तर्हि वक्तव्यम् धर्मावबोधानन्तर्यम्

कथं वा कामाप्तिः कामोपशमहेतुः? दृष्टान्तसामर्थ्यात् , यथा हविषा कृष्णवर्त्मा वर्धमानोऽपि सर्वहविःप्रक्षेपे सर्वं दग्ध्वा स्वयं शाम्यति, एवं विषयेन्धनः कामो यावद्विषयं वर्धमानोऽपि तत्क्षये क्षीणेन्धनाग्निवत् स्वयं शाम्यतीति युक्तम् , सत्यं युक्तम् ; यदि हैरण्यगर्भो भोगो क्षीयेत, क्षीयते तु कृतकत्वात् परिच्छिन्नविषयत्वाच्च ; तत्क्षये पूर्ववदनवाप्तोऽवाप्तव्यः, इति कामः समुल्लसत्येव । अतो विषयस्य क्षयादिदोषदर्शनात् कामोपशमो हिरण्यगर्भस्यापि । तथाचोक्तम्-'ज्ञानमप्रतिघं यस्य वैराग्यं जगत्पतेः । ऐश्वर्यं चैव धर्मश्च सह सिद्धं चतुष्टयम्' ॥ इति । तस्मात् सर्वत्र कामस्य विषयदोषदर्शनमेवोच्छेदकारणम् , नित्यवस्तुदर्शनं ; रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते' इति स्मृतेः । नचैवंलक्षण आगमोऽस्ति—हिरण्यगर्भोपभोगाद् निखिलविषयावाप्तौ कामोच्छेदो भवतीति । ननु कामावाप्तौ स्वस्थहृदयः कार्यान्तरक्षमो भवतीति सर्वेषां स्वसंवेद्यमेतत् , सत्यम् ; तदुत्कलिकोपशमात् , तदुत्कलिकोपशमश्च तदा सामर्थ्यहानेः ; सति सामर्थ्ये स्वच्छन्दोपभोगसम्भवात् । यदि पुनरेकान्ततो निवृत्तकामो भवेत् , तं विषयं पुनः सङ्गोपायेत् । तस्माद् कर्मणां कामनिर्बहणद्वारेण ब्रह्मजिज्ञासायोग्यतापादनम् ; अतो कर्मावबोधापेक्षोऽप्यथशब्दः ।

भवतु तर्हि संस्कारद्वारेण कर्मणां पूर्ववृत्तत्वम्? `यस्यैतेऽष्टाचत्वारिंशत्संस्काराः, अष्टौ चात्मगुणाः ब्रह्मणः सायुज्यं गच्छती'ति `महायज्ञैश्च यज्ञैश्च ब्राह्मीयं क्रियते तनुरि'ति `ज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मणः । यथाऽऽदर्शतलप्रख्ये पश्यन्त्यात्मानमात्मनी'ति स्मृतेः ; `विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेने'ति `येन केनचन यजेतापि दर्विहोमेनानुप-हतमना एव भवती'ति श्रुतेः । वक्ष्यति सूत्रकारः—'अत एवाश्रमकर्मापेक्षा' `सर्वापेक्षा यज्ञादिश्रुतेरश्ववदि'ति  । सत्यमेवम् ; यदि समानजन्मानुष्ठितमेव कर्म संस्कुर्वद् ब्रह्मजिज्ञासा-योग्यत्वहेतुः स्यात् । नैयोगिके फले कालनियमोऽस्ति । तेव पूर्वजन्मानुष्ठितकर्मसंस्कृतो धर्मजिज्ञासां तदनुष्ठानं चाप्रतिपद्यमान एव ब्रह्मजिज्ञासायां प्रवर्तते, इति नियमेव तदपेक्षोऽथशब्दो युज्यते । एतेनऋणापाकरणद्वारेणापि नियमेन पूर्ववृत्तत्वम्प्रत्युक्तम्तथाच श्रुति-स्मृती `यदि वेतरथा ब्रह्मचर्यादेव प्रव्रजेत्' `तस्याश्रमविकल्पमेके ब्रुवते' इतितस्मात् साधूक्तम्धर्मजिज्ञासायाः प्रागप्यधीतवेदान्तस्य ब्रह्मजिज्ञासोपपत्तेरितिअथापि स्यात् हेतुत्वेनानन्तरवृत्तकर्मावबोधापेक्षमथशब्दं ब्रूमः, अपितु क्रमप्रतिपत्त्यर्थम् ; यथा `हृदयस्याग्रेऽवद्यत्यथ जिह्वाया अथ वक्षसः' इति, तदेतदयुक्तम् ; न्यायसूत्रेऽपि चैककर्तृकाणां बहूनां युगपदनुष्ठानासम्भवादवश्यम्भाविनि क्रमे ब्रूयादपि तन्नियममथशब्दः । एककर्तृकत्वं शेष-शेषिणोः शेषाणां बहूनामेकशेषिसम्बद्धानामधिकारान्तरप्रयुक्त्त्युप-जीविनां भवति, नेतरथा । हि धर्मब्रह्मजिज्ञासयोरेतेषामन्यतमत्वे प्रमाणमस्ति, तदिदिमाह- - यथा हृदयाद्यवदानानामानन्तर्यनियमः ; क्रमस्य विवक्षितत्वात् , तथेह क्रमो विवक्षितः ; शेषशेषित्वे(१)ऽधिकृताधिकारे वा प्रमाणाभावाद् धर्म-ब्रह्मजिज्ञासयोरिति

अथापि स्यात् हेतुत्वेनानन्तरवृत्तकर्मावबोधापेक्षमथशब्दं ब्रूमः, अपि तु क्रमप्रतिपत्त्यर्थम् ; यथाहृदयस्याग्रेऽवद्यत्यथ जिह्वाया अथ वक्षसःइति, तदेतदयुक्तम् ; न्यायसूत्रेऽपि चैककर्तृकाणां बहूनां युगपदनुष्ठानासम्भवादवश्यम्भाविनि क्रमे ब्रूयादपि तन्नियममथशब्दः । एककर्तृकत्वं शेषशेषिणोः शेषाणां बहूनामेकशेषिसम्बद्धानामधिकारान्तरप्रयुक्त्त्युपजीविनां भवति, नेतरथा । हि धर्मब्रह्मजिज्ञासयोरेतेषामन्यतमत्वे प्रमाणमस्ति, तदिदमाह

यथा हृदयाद्यवदानानामानन्तर्यनियमः ; क्रमस्य विवक्षितत्वात् , तथेह क्रमो विवक्षितः ; शेषशेषित्वेऽधिकृताधिकारे वा प्रमाणाभावाद् धर्मब्रह्मजिज्ञासयोरिति

अथापि स्यात् , यथाऽऽग्नेयादीनां षण्णां यागानामेकं फलं स्वर्गविशेषः, एवं धर्मब्रह्मजिज्ञासयोरप्येकं फलं स्वर्गः, ततः क्रमापेक्षायां तन्नियमार्थोऽथशब्द इति, यथावा द्वादशभिरपि लक्षणैर्धर्म एको जिज्ञास्यः, प्रतिलक्षणमंशान्तरपरिशोधनया, यथावाऽस्मिन्नपि तन्त्रे चतुर्भिरपि लक्षणैरेकं ब्रह्म जिज्ञास्यम् , तत्र चांशान्तरपरिशोधनेन लक्षणानां क्रम नियमः । एवं तन्त्रद्वयेनैकं ब्रह्म जिज्ञास्यं, तत्र क्रमनियमार्थोऽथशब्द इत्याशङ्क्याह

फलजिज्ञास्यभेदाच्च

धर्मब्रह्मजिज्ञासयोरिति सम्बन्धःतमेव भेदं कथयति

अभ्युदयफलं धर्मज्ञानम् । तच्चानुष्ठानापेक्षम् ।

अभ्युदयः फलं धर्मज्ञानस्येति प्रसिद्धमेव, कस्यचिद् विसंवादः । तदपि ज्ञानस्य फलम् , अपितु ज्ञेयस्य, तस्यापि ज्ञेयत्वादेव फलम् ; किन्त्वनुष्ठीयमानत्वात् ।

निःश्रेयसफलं तु ब्रह्मज्ञानं, , चानुष्ठानान्तरापेक्षमिति

ब्रह्मज्ञानस्य फलमपवर्गः । नित्यसिद्धोऽव्यवहितः स्वसंवेद्यः, यतोऽविद्या संसारहेतुः । चाविद्यामनिवर्तयन्ती विद्योदेति । तदेवमत्यन्तविलक्षणत्वात् प्रस्थानभेदाच्च फलद्वारेणाप्येकोपनिपातः ; तेन क्रमाकाङ्क्षा तन्त्रद्वयस्य । जिज्ञास्यं पुनरत्यन्तविलक्षणं, यतः कार्यो धर्मः पुरुषव्यापारतन्त्रः स्वज्ञानकालेऽसिद्धसत्ताकः प्रथमे तन्त्रे जिज्ञास्यः, इह तु नित्यनिर्वृत्तं पुरुषव्यापारानपेक्षं ब्रह्म जिज्ञास्यम् ।

किं

चोदनाप्रवृत्तिभेदाच्च ।

इदमपरं प्रमाणोपाधि प्रमेयवैलक्षण्यम् । धर्मचोदना हि प्रेरयन्ती पुरुषमसति विषये प्रेरयितुमसमर्था सती विषयमप्यवबोधयति । ब्रह्मप्रमाणं पुनर्बोधयत्ये केवलं नावबोधे पुरुषः प्रेर्यते । अवबोधो हि यथावस्तु यथाप्रमाणं चोदेति, पुरुषस्येच्छामप्यनुवर्तते ।

तत्र कुतः प्रेर्येत ? यथाऽक्षार्थयोः सन्निकर्षे सति तेन सन्निकर्षेणाक्षावगम्यार्थज्ञाने पुरुषो नियुज्यते, तद्वत् ; अनिच्छतोऽपि स्वयमुत्पत्तेः, ब्रह्मणि तु नित्यसिद्धत्वान्न प्रेरणा सम्भवति । ‘ब्रह्मचोदने’ति चोदनाशब्दो भाष्ये प्रमाणविवक्षया प्रयुक्तः, प्रेरणाविवक्षया, तदाह

या हि चोदना धर्मस्य लक्षणं, सा स्वविषये विनियुञ्जानैव पुरुषमवबोधयति, ब्रह्मचोदना पुनः पुरुषमवबोधयत्येव केवलम् ; अवबोधस्य चोदनाजन्यत्वान्न पुरुषोऽवबोधे नियुज्यते ; यथाऽक्षार्थसन्निकर्षेणार्थावबोधे, तद्वत्

तदेवं जिज्ञास्यैक्यनिबन्धनाऽपि क्रमापेक्षा तन्त्रद्वयस्य ; येन तदपेक्षोऽथशब्दो व्याख्यायेत, अत उपसंहरति

तस्मात् किमपि वक्तव्यं, यदनन्तरं ब्रह्मजिज्ञासोपदिश्यत इतिउच्यतेनित्यानित्यवस्तुविवेकः, इहामुत्रार्थफलभोगविरागः, शमदमादिसाधनसम्पत् , मुमुक्षुत्वं चेति

उक्तं पुरस्ताद् अधिकारार्थत्वेऽथशब्दस्य शास्त्रारम्भवैयर्थ्यम् ; प्रवृत्त्यभावादिति, प्रवृत्त्यभावे कारणमुक्तम् , अखिलसुखभोगाद्धिरण्यगर्भावाप्तिपर्यन्तान्निवर्तयति ब्रह्मजिज्ञासा क्रियमाणा, तेन तत उद्वेगो लोकस्य, कुतस्तत्र प्रवृत्तिरिति ? तस्माद् यावदस्य हिरण्यगर्भावाप्तिपर्यन्तस्य भोगस्योत्पादपरिच्छेदाभ्यां विनाशित्वादनित्यत्वं नावैति । विनश्यदपीदं कूटस्थनित्यवस्तुपर्यन्तमेव विनश्यति ; अन्यथा निरुपादानस्य पुनरुत्पत्त्यसम्भवः, इति वर्तमानस्याप्यसम्भवादभावोऽभविष्यदिति निरूपणाद् नित्यानित्यवस्तुविवेको यावन्न जायते । यावच्चाभिमुखविनाशदर्शनाद् भुञ्जानस्यापि भोगान् स्रक् - चन्दन - वस्त्रालङ्कार - भोगानिवाग्निप्रवेशार्थं भोगार्थव्यापारजनितदुःखानुभवाच्च तन्निमित्तां निर्वृतिमप्यलभमानो भोगाद् विरक्तः । ततो मुमुक्षुत्वं तत्साधनशमदमोपरमतितिक्षासमाधानसम्पन्नो भूत्वा यावन्नालम्बते, तावद् ब्रह्मजिज्ञासां कः प्रतिपद्येत ? कथञ्चिद् वा दैववशात् कुतूहलाद्वा बहुश्रुतत्वबुद्ध्या वा प्रवृत्तोऽपि निर्विचिकित्सं ब्रह्म आत्मत्वेनावगन्तुं शक्नोति ; यथोक्तसाधनसम्पत्तिविरहात् , अनन्तर्मुखचेता बहिरेवाभिनिविशमानः । तस्माद् वर्णितवस्तुकलापानन्तर्यमभिप्रेत्याथशब्दं प्रयुक्तवानाचार्यः । तदाह भाष्यकारः

तेषु हि सत्सु प्रागपि धर्मजिज्ञासाया ऊर्ध्वं शक्यते ब्रह्म जिज्ञासितुं ज्ञातुं , विपर्यये । तस्मादथशब्देन यथोक्तसाधनसम्पत्त्यानन्तर्यमुपदिश्यत इति

अतःशब्दो हेत्वर्थ इति

स्यादेतत् , कृतकत्वपरिच्छेदौ नैकान्ततः क्षयिष्णुतां गमयतः ; परमाणुषु पाकजलोहितस्य कृतकस्य, तेषां परिच्छिन्नानां नित्यत्वाभ्युगमात् , वेदेऽपिअक्षय्यं वै चातुर्मास्ययाजिनः सुकृतं भवति’ ‘अपाम सोमममृता अभूमे’त्यादिपुण्यफलस्याक्षयित्वश्रवणात् , अतो विषयभोगाद् नियमेन विरागो विवेकिनामपि । नापि कूटस्थनित्यवस्त्ववष्टम्भेन मुमुक्षुत्वम् । ततश्च शमदमादिपरिग्रहः, यतो तादात्म्यं भोक्तुः सम्भाव्यते । नापि तदवाप्तिः ; दुःखाभावेऽपि सुखभोगाभावान्नानवद्यः पुरुषार्थः । अतोऽजीर्णभयान्नाहारपरित्यागः, भिक्षुभयान्न स्थाल्या अनधिश्रयणं दोषेषु प्रतिविधातव्यमिति न्यायः । अतो तस्य ब्रह्मजिज्ञासायां हेतुत्वमित्यतस्तस्य हेतुत्वप्रदर्शनार्थोऽतःशब्दः । कथम् ?

यस्माद्वेद एवाग्निहोत्रादीनां श्रेयःसाधनानामनित्यफलतां दर्शयतितद्यथेह कर्मचितो लोकः क्षीयते, एवमेवामुत्र पुण्यचितो लोकः क्षीयते’ (छा. उ. ८-१-६) इत्यादिना

ननु पुण्यस्याप्यक्षय्यफलत्वं वेद एवाहेत्युक्तं, ; तस्य वस्तुबलप्रवृत्तानुमानविरोधेऽर्थवादस्य नित्यत्वप्रतिपादनासामर्थ्यात् , परमाणूनां पाकजस्य तद्गुणस्य अनित्यत्वात् । अतो भवत्यनित्यत्वदर्शनं विषयभोगानां मुमुक्षुत्वे हेतुः । यत्पुनर्मुमुक्षुत्वाभावे निमित्तमुक्तं, तत्राह

तथा ब्रह्मज्ञानादपि परं पुरुषार्थं दर्शयतिब्रह्मविदाप्नोति परमित्यादि

अत उपसंहरति

तस्माद्यथोक्तसाधनसम्पत्त्यनन्तरं ब्रह्मजिज्ञासा कर्तव्येति

यतः परिपूर्णो हेतुरनन्तरमवश्यं कार्यमारभते, अतः कर्तव्येत्यावश्यकतामाह भाष्यकारः । यतो द्वैतानुषङ्गादतितरामुद्विजमानेन ब्रह्मात्मत्वं हस्तप्राप्तमिव मन्यमानेन प्रवर्तितव्यमेव ब्रह्मजिज्ञासायाम् ; प्रदीप्तशिरसेव जलराशौ, स्पृशतेव सुस्वादु फलमङ्गुल्यग्रेणाग्रपादस्थेन । एवं सत्यर्थाद् धर्मजिज्ञासाया नियमेन पूर्ववृत्तत्वमथशब्देन पूर्वोक्तेन न्यायेन निराक्रियते

ब्रह्मणो जिज्ञासा ब्रह्मजिज्ञासेति

अन्तर्णीतविचारार्थान्वये हि चतुर्थीसमासः स्यात् , शब्दाभिधेय इत्यवयवार्थमङ्गीकृत्य षष्ठीसमासो दर्शितः

ब्रह्मशब्दस्यार्थनिर्देशावसरे प्राप्ते सूत्रकार एव निर्देक्ष्यतीति कथयति

ब्रह्म वक्ष्यमाणलक्षणं जन्माद्यस्य यत इति

तत्र यदन्यैर्वृत्तिकारैर्ब्रह्मशब्दस्यार्थान्तरमाशङ्क्य निरस्यते । खलु ब्राह्मणजातिरिह गृह्यते ; प्रत्यक्षसिद्धत्वाद् जिज्ञास्यत्वाभावात् , नापि तत्कर्तृका जिज्ञासा ; त्रैवर्णिकाधिकारात् , नापि जीवपरिग्रहः ; तत्कर्तृत्वे विशेषणानर्थक्यात् , कर्मत्वे नित्यसिद्धत्वात् , शब्दराशेर्ग्रहणम् ; तस्य धर्मजिज्ञासौत्पत्तिकसूत्राभ्यामर्थवत्त्वप्रमाणत्वयोर्निरूपितत्वात् , नापि हिरण्यगर्भस्य ; तदवाप्तेरपि विरक्तस्य ब्रह्मजिज्ञासोपदेशात् , नापि तत्कर्तृकता ; ज्ञानवैराग्ययोः सह सिद्धत्वात् इति, तदपि कर्तव्यमित्याह

अत एव ब्रह्मशब्दस्य जात्याद्यर्थान्तरमाशङ्कितव्यमिति

ब्रह्मण इति कर्मणि षष्ठी

वृत्त्यन्तरे तु शेषलक्षणा व्याख्याता, तां निरस्यति

शेष इति

तत्र हेतुमाह

जिज्ञास्यापेक्षत्वाज्जिज्ञासाया इति

अथापि स्यात् अन्यत् जिज्ञास्यमिति, तदर्थमाह

जिज्ञास्यान्तरानिर्देशाच्चेति

पुनः शेषषष्ठीवाद्याह

ननु शेषषष्ठीपरिग्रहेऽपि ब्रह्मणो जिज्ञासाकर्मत्वं विरुध्यते ; सम्बन्धसामान्यस्य विशेषनिष्ठत्वादिति

यद्यपिशेषे षष्ठी’ति सम्बन्धमात्रे षष्ठी विहिता ; तथाऽपि व्यवहारो विशेषमवलम्बते, बहवश्च सम्बन्धविशेषाः, तत्रावश्यमन्यतमः प्रतिपत्तव्यः ; अन्यथा व्यवहारानुपपत्तेः । तत्र प्रकरणोपपदयोर्विशेषहेत्वोरभावादर्थाद्विशेषक्रियोपादानात् कारकत्वेनैव सम्बन्धः । तत्रापि सकर्मिकायाः कर्मकारकमभ्यर्हितम् , इति कर्मत्वं ब्रह्मणो विरुध्यते । एवमपि साधारणे शब्देऽभिप्रेतमर्थं विहायार्थान्तरं परिगृह्य, पुनस्तद्द्वारेणाभिप्रेतमर्थं प्रतिपद्यमानस्य व्यर्थः प्रयासः स्यात् , तदाह

एवमपि प्रत्यक्षं ब्रह्मणः कर्मत्वमुत्सृज्य सामान्यद्वारेण परोक्षं कर्मत्वं कल्पयतो व्यर्थः प्रयासः स्यादिति

ननु किमिति व्यर्थः ? शेषषष्ठीपरिग्रहे सामान्येन यत् किञ्चिद् ब्रह्मसम्बन्धि येन येन जिज्ञासितेन विना ब्रह्म जिज्ञासितं भवति तत्सर्वं जिज्ञास्यत्वेन प्रतिज्ञातं स्यात् ; अतो विशिष्टसम्बन्धो विवक्ष्यते ; सामान्ये तस्याप्यन्तर्भवादिति यद्युच्यते, तदाह

व्यर्थः ; ब्रह्माश्रिताशेषविचारप्रतिज्ञानार्थत्वादिति चेति

स्वयमेव परोक्तमाशङ्क्योत्तरमाह

; प्रधानपरिग्रहे तदपेक्षितानामर्थाक्षिप्तत्वादिति ।

सङ्क्षेपतो वस्तुसङ्ग्रहवाक्यम् । एतदेव प्रपञ्चयति

ब्रह्म हि ज्ञानेनाप्तुमिष्टतमत्वात् प्रधानम् । तस्मिन् प्रधाने जिज्ञासाकर्मणि परिगृहीते यैर्जिज्ञासितैर्विना ब्रह्म जिज्ञासितं भवति, तान्यर्थाक्षिप्तान्येव, इति पृथक् सूत्रयितव्यानि । यथाराजाऽसौ गच्छती’त्युक्ते सपरिवारस्य राज्ञो गमनमुक्तं भवति, तद्वदिति

यस्माद् ब्रह्मावाप्तिः पुरुषार्थः, तेन तद् ज्ञानेनाप्तुमिष्टतमम् , अतस्तदर्थत्वात् प्रवृत्तेः प्रधानं तत् । तस्मिन् प्रधाने जिज्ञास्यमाने, येन जिज्ञासितेन विना सम्पूर्णा जिज्ञासा, तत् सामर्थ्यादेव तादर्थ्येन जिज्ञास्यते, पृथगभिधानेन कृत्यमस्ति । यथाराजाऽसौ गच्छती’त्युक्ते यावता परिवारेण विना राज्ञो गमनं सम्पद्यते, तावतो गमनमाक्षिप्तमिति पृथगभिधीयते लोके, तद्वदिहापि स्वरूप - प्रमाण - युक्ति - साधन - प्रयोजनानि ब्रह्मज्ञानपरिपूर्णतार्थमर्थादेव जिज्ञास्यत्वान्न पृथक् सूत्रयितव्यानि । किञ्च शास्त्रप्रवृत्तिरेव कर्मणि षष्ठीं गमयति । कथम् ? एवं हि शास्त्रमारब्धव्यम् । पुण्यचितो लोकः क्षीयते’ (छा. उ. ८-१-६) इत्यादिश्रुतेर्न्यायतश्च पुण्यस्य क्षयदर्शनाद् विरक्तस्यब्रह्मविदाप्नोति परमि’त्यादिश्रुतेर्ब्रह्मज्ञानात्पुरुषार्थसिद्धिः परेति । अतस्तज्ज्ञातुमिच्छतः श्रुत्या यतो वा इमानि भूतानि जायन्ते’ (तै. उ. ३-१-१) इत्येवमाद्यया तत्प्रतिपादनपूर्वकं तद्विजिज्ञासस्व’ (तै. उ. ३-१-१) इति साक्षादेव कर्मतया ज्ञेयत्वेनानुशासनं यत् , तदिदम् — ‘अथातो ब्रह्मजिज्ञासे’ति सूचितम् । तेन कर्मषष्ठीपरिग्रहे श्रुतिन्यायसूचनपरं सूत्रं तदनुगतं भवति ; अन्यथा लक्ष्याननुगतमसम्बद्धं स्यात् । तदाहश्रुत्यनुगमाच्चेति वस्तुसङ्ग्रहवाक्यम् । तत्प्रपञ्चः

यतो वा इमानि भूतानि जायन्ते’ (तै. उ. ३-१-१) इत्याद्याश्च श्रुतयः तद्विजिज्ञासस्व तद् ब्रह्मेति’ (तै. उ. ३-१-१) प्रत्यक्षमेव ब्रह्मणो जिज्ञासाकर्मत्वं दर्शयन्ति । तच्च कर्मणि षष्ठीपरिग्रहे सूत्रेणानुगतं भवति । तस्माद् ब्रह्मण इति कर्मणि षष्ठी

ज्ञातुमिच्छा जिज्ञासेति जिज्ञासापदस्यावयवार्थं कथयतीच्छाप्रदर्शनार्थम् । ततश्चेच्छायाः फलविषयत्वात् तज्ज्ञानस्यापवर्गपर्यन्तता सूचिता भवति । तदाह

अवगतिपर्यन्तं ज्ञानं सन्वाच्याया इच्छायाः कर्म ; फलविषयत्वादिच्छाया इति

अवगतिरिति साक्षादनुभव उच्यते । ज्ञानन्तु परोक्षेऽनुभवानारूढेऽपि सम्भवति । सन्निहितेऽप्यसम्भावितविषयेऽनवसितरूपमित्युक्तं पुरस्तात् ; तदाह

ज्ञानेन हि प्रमाणेनावगन्तुमिष्टं ब्रह्म, ब्रह्मावगतिर्हि पुरुषार्थः

ब्रह्मरूपतासाक्षात्करणमित्यर्थः ।

तदेतच्छास्त्रान्तर्भूतं सूत्रम् । अनेन प्रयोज्यसम्बन्धिनोर्जिज्ञासामुमुक्षाक्रिययोरेकस्याः कारणान्तरसिद्धायाः पूर्ववृत्ततया हेतुत्वमर्थादुपात्तमितरस्यास्तदनन्तरं तत्प्रयुक्तायाः कर्तव्यता श्रुत्याऽभिहिता । तत्र जानात्येवासौ मयैतत् कर्तव्यमिति, उपायन्तु वेद । ततस्तस्योपायः कथनीयः । शास्त्रस्य सम्बन्धाभिधेयप्रयोजनानि वक्तव्यानि ; इतरथा प्रेक्षारहितमिव सर्वमापद्येत । अतोऽनेनैव सूत्रेणेदमपि सर्वं सूचितमिति कथयितुमाह

तस्माद् ब्रह्म जिज्ञासितव्यमिति

अन्तर्णीत विचारार्थविधेयत्वाङ्गीकारेण मीमांसितव्यमित्यर्थः । एतदुक्तं भवतिब्रह्मज्ञानकामेनेदं शास्त्रं श्रोतव्यम् ; यस्माद् ब्रह्मज्ञानमनेन शास्त्रेण निरूप्यते । तेन प्रयोज्यस्याभिमतोपायः शास्त्रम् , इत्यर्थात् शास्त्रस्य सम्बन्धाभिधेयप्रयोजनं कथितं भवति

इति परमहंसपरिव्राजकादि - श्रीशङ्करभगवत्पादान्तेवासिवर - श्रीपद्मपादाचार्यकृतौ पञ्चपादिकायां प्रथमसूत्रार्थवर्णनं नाम तृतीयवर्णकं समाप्तम् ॥

अथ तुरीयं वर्णकम्

तत् पुनर्ब्रह्म प्रसिद्धं वा स्यात् ? अप्रसिद्धं वा ? यदि प्रसिद्धं, जिज्ञासितव्यम् ; अथाप्रसिद्धं, नैव शक्यं जिज्ञासितुम् इति

प्रयोजनविषयसम्बन्धानाक्षिपति । कथम् ? प्रसिद्धशब्देन प्रतिपन्नमुच्यते । तद् यदि प्रतिपन्नमन्येन केनचित् , तदाऽस्य शास्त्रस्य विषयः ; कस्मात् ? प्रतिपाद्यत्वेन हि विषयता, प्रतिपन्ने तस्मिन्नकिञ्चित्करं शास्त्रम् , इति नास्य विषयः स्यात् । ततश्चानेनानवगमान्नास्य प्रयोजनं ब्रह्मावगतिः स्यात् । अतः प्रयोजनमप्याक्षिप्तम् । अथाप्रसिद्धं शक्यं जिज्ञासितुम्कथम् ? यत् कदाचिदपि बुद्धौ समारूढविशेषं, कथं तत् प्रतिपाद्येत ? अतः प्रतिपादनाशक्तेर्न तत् स्पृशत्यपि शास्त्रम् । प्रसिद्धं पुनर्यदि नामानेन प्रतिपाद्यते प्रसिद्धत्वादेव ; तथाऽपि तेनार्थेन निरालम्बनम् , अप्रसिद्धं पुनरालम्बनमपि स्यात् । अतो केनचिदर्थेन सम्बद्धं शास्त्रम् , इति सम्बन्ध आक्षिप्तः ।

अस्ति तावद् ब्रह्म इत्यादिना

त्रितयमपि समाधत्ते श्रोतृप्रवृत्त्यर्थम् । ननु प्रेक्षावताऽविसंवादकेन प्रणीतं शास्त्रम् । नेदृशो निष्प्रयोजनं निर्विषयमसम्बद्धं चारभते, इति तद्गौरवादेव प्रवर्तन्ते श्रोतारः ; किमनेन प्रयासेन ? सत्यं भवति सामान्येन प्रयोजनवत्त्वप्रतीतिः प्रणेतृगौरवात् , तु तावन्मात्रेण प्रवृत्तिः । अभिप्रेतप्रयोजनाय हि प्रवर्तन्ते, तत् निर्देशादृते शक्यतेऽवगन्तुम् । एवमपि प्रयोजनविशेष एव निर्दिश्यताम् । विषयभावमनापन्नमशक्यप्रतिपादनं प्रयोजनं भवति, छिदिक्रियाविषय एव वृक्षश्छिन्नः प्रयोजनमित्युच्यते, दण्डादेरपि मृद्विषयस्य मृदेव घटावस्था प्रयोजनं, सत्यमेवम् ; तथाऽपि यथा चिकित्साज्ञानस्य चरकसुश्रुतात्रेयप्रभृतीनि बहूनि, यथा वा तण्डुलनिष्पत्तिप्रयोजना अवघातनखनिर्भेददलनक्रिया बह्व्यः, तत्र नावश्यमेकत्रैव प्रवृत्तिः, तथेहाप्यन्यस्मादपि कथञ्चिद् ब्रह्मावगतिसिद्धौ नावश्यमत्रैव प्रवृत्तिः ; अतोऽनन्यसाधारणो विषयो वक्तव्यः, यथाऽर्जुनस्यायं विषय इत्यनन्यसाधारणता प्रतीयते । तेनानन्यसाधारणत्वाय विषयो निर्देश्यः प्रवृत्त्यङ्गत्वेन । सम्बन्धोऽपि वक्तव्यः प्रवृत्त्यङ्गत्वेनैव । यथा साधुशब्दपरिज्ञानं व्याकरणारम्भात् प्राक् केनचित्साध्यते, तेन केनचित् सम्बद्धम् ; अतस्तदर्थी क्वचित् प्रवर्तते, यथा वौदननिष्पत्तिरेकक्रिया नियताऽपि गमनाद्येकक्रियासाध्या, तेन तया सम्बन्धः । ततश्च गमनादिक्रियायामोदनार्थी प्रवर्तते, तेन पुरुषार्थरूपताऽनन्यसिद्धता तत्प्रतिपाद्यता चेति भिद्यन्ते विषयसम्बन्धप्रयोजनानि । तानि त्रीण्यपि प्रवृत्त्यङ्गम् ; नापुरुषार्थे काकदन्तपरीक्षायां तुषकण्डने वा प्रवर्तते प्रेक्षावान् । नापि पुरुषार्थे चिकित्साज्ञाने सुश्रुतादिसिद्धे, चरके नियमेन प्रवर्तते । नापि तण्डुलेषु दलनसिद्धेष्ववघाते । नाप्यनन्यसिद्धेऽपि साधुशब्दपरिज्ञाने पुरुषार्थे, अतत्साधने वैद्यकादौ कश्चित् प्रवर्तते, गमने वाऽनोदनसाधने । तत्र विप्रतिपत्त्यैकान्ततः प्रसिद्धतामप्रसिद्धतां निरस्य शक्यप्रतिपाद्यमानतामनन्यसिद्धतां दर्शयन् विषयसम्बन्धौ समर्थितवान् ,

निःश्रेयसप्रयोजना प्रस्तूयते

इति प्रयोजनम्

ननु ब्रह्म वेदान्तानां विषयः, शास्त्रं तेषां ब्रह्मप्रतिपादनानुसरणोपायन्यायविषयं, तत् कथं शास्त्रस्य विषयसम्बन्धौ भवतः ? प्रयोजनन्तु कदाचित् स्यादपि प्रणाड्या धर्मार्थविषययोरिव शास्त्रयोः कामावाप्तिः । ननु आग्नेयादीनां स्वर्गफलानां प्रयाजादीतिकर्तव्यतावत् वेदान्तानामप्यर्थमवबोधयतामितिकर्तव्यता मीमांसा, तेनार्थावबोधे वेदान्तानामुपकारकत्वाद् भवति शास्त्रमपि तद्विषयम् । हि शालिबीजस्याङ्कुरं जनयतः सहकारिणो जलादेरङ्कुरो कार्यम् । तेन यद्यपि वेदान्ता एव ब्रह्मावबोधे कारणं, मीमांसा चेतिकर्तव्यताभागं पूरयति ; तथाऽपि ब्रह्मविषयैव । हि छेत्तुरुद्यमननिपातनलक्षणो व्यापारः परशुविषयो वृक्षविषयः ; तदर्थत्वात् , करणस्य द्वारत्वात् ; अन्यथाऽन्यत्र कर्तृव्यापारोऽन्यत्र फलमिति वैयधिकरण्यं स्यात् , उच्यतेविषय उपन्यासः ; युक्तं यत्र यदुपकारमन्तरेण फलोत्पत्तिरेव सिध्यति, तस्यापि तद्विषयत्वम् , इह पुनर्विनाऽपि मीमांसया सम्बन्धग्रहणतदनुस्मरणबुद्धिसन्निधानमात्रोपकृतं वाक्यमर्थमवगमयति, नापरमपेक्षते । ननु संशयविपर्यासनिरासद्वारेण निर्णयहेतुत्वान्निर्णयस्य निर्णेयप्रधानत्वाद्भवति निर्णेयं वस्तु निर्णयहेतोर्विषयः, नैतत्सारम् ; यत्र ह्यनेकं विज्ञानं वाक्यश्रवणे सति जायते मीमांसानिरपेक्षमेव, तत्रैकं वाक्यजन्यम् ; एकार्थनियतत्वादेकस्मिन् प्रयोगे वाक्यस्य, इतराणि पुनः सामान्यतोदृष्टनिबन्धनानि । तत्र मीमांसया लोकप्रसिद्धशब्दशक्त्यनुसारिण्येदं शब्दजनितं ज्ञानमिति तदालम्बनं वेदार्थ इति ज्ञात्वाऽन्यदुपेक्षते, पुनर्निर्णयज्ञानोत्पत्तौ व्यापारः शास्त्रस्य । यथा चक्षुः कुतश्चिन्निमित्तात्सम्प्रयुक्तेऽपि स्थाणुः पुरुषो वेति संशयात्मकं पुरुष एवेति वा विपर्ययस्वरूपं ज्ञानमुत्पाद्य पुनर्निमित्तान्तरानुगृहीतं सन्निर्णयात्मकं सम्यग्रूपं ज्ञानमुत्पादयति, नैवं शब्दो मीमांसायाः प्राक् संशयितं विपर्यस्तं वा ज्ञानमुत्पाद्य पुनस्तदनुमहान्निर्णयात्मकं सम्यग्ज्ञानं वा जनयति ; किन्तु प्रागेव मीमांसानुग्रहात् स्वसामर्थ्यजन्यं ज्ञानमजीजनदेव । तस्मान्न ब्रह्मविषयं शास्त्रम् , अत्रोच्यतेयद्यपि वाक्यार्थज्ञानं शास्त्रानुग्रहात्प्रागेवोदेति ; तथाऽपि स्वोत्पत्तिसमकालसमुत्थेन तत्र सामान्यतोदृष्टनिबन्धनेनार्थान्तरनिवेशिना समकक्षाभिमतेन ज्ञानेन विरोधादुन्मज्जननिमज्जनमिवानुभवदस्यामवस्थायां संशयज्ञानकोटिनिक्षिप्तं सत् मीमांसया शब्दशक्त्यनुसरणे सति प्रतिपक्षज्ञानस्यानुत्पत्तौ निमज्जनाभावान्निश्चलं निर्णयज्ञानमिव जातमिति लक्षणया मीमांसया निर्णयः क्रियत इत्युच्यते, पुनः साक्षान्निर्णयज्ञानहेतुत्वात् । तदेवं लक्षणया वेदान्तानां ब्रह्मविषयाणां सहकारिकारणं मीमांसा इति ब्रह्मज्ञानविषयं शास्त्रमभिधीयते । तच्चेदं त्रयमप्यवश्यं वक्तव्यं प्रयोजनं विषयः सम्बन्धश्च शास्त्रादौ श्रोतुः प्रवृत्त्यङ्गत्वेन । यद्यपि प्रणेतृगौरवादेव सप्रयोजनत्वं शास्त्रस्य ; तथाऽपि प्रयोजनविशेषसिद्धिस्तत्प्रत्ययमात्रेण निर्देशादृते । तस्मात्तन्निर्देश्यम् । निर्दिष्टेऽपि तस्मिंस्तस्याशक्यप्रतिपादनतां मन्वानो विहतश्रद्धत्वान्न प्रवर्तेतेति साध्यो निर्देश्यः । शक्यप्रतिपादनप्रतिपत्तावप्यन्यतः सिद्धेऽर्थे निर्दिष्टे नैव प्रवृत्तिरित्यनन्यसाध्योऽपि निर्देश्यः । तदेतत् त्रयमेकत्र समवेतं विभक्तं चोपलभ्यत इत्यलमतिविस्तरेण

अस्ति तावद् ब्रह्मे’त्यादिना प्रसिद्धत्वप्रदर्शनेनाप्रसिद्धतां निराकुर्वञ्छक्यप्रतिपाद्यतया सम्बन्धं समर्थितवान् । कथम् ? ब्रह्मशब्दस्तावज्जातिजीवकमलासनशब्दराशीनां नान्यतमाभिप्रायेण सूत्रे प्रयुक्तः ; अनुपपत्तेरित्युक्तम् ; अतो नूनमन्यदेव किञ्चिदभिधेयमभिप्रेत्यायं प्रयुक्त इति गम्यते । तेन स्वर्गापूर्वदेवताद्यर्थवत्पदप्रयोगादेव कश्चिदर्थोऽस्तीत्यवसीयते । नैतत्सारम् ; हि पदं चक्षुरादिवदप्रतीतपूर्व एवार्थे झटिति विज्ञानं जनयति, येनापूर्वमन्यतोऽसिद्धमर्थं पदप्रयोगादेव प्रतीमः ; स्वर्गाद्यर्थोऽपि नैव पदप्रयोगादेव सिद्धः, अत्रोच्यतेयस्मिन् वाक्य एकं पदं मुक्त्वेतरेषां पदानामर्थः प्रसिद्धः, किमेकपदार्थानवगमापराधेन त्यज्यताम् ? उत बहुपदार्थप्रसिद्धिबलेनाप्रसिद्धोऽपि कथञ्चिदगम्येतेति ? तत्र निगमनिरुक्तव्याकरणानामेवंरूपपदार्थानुगमहेतूनां विद्यमानत्वात् तद्बलेनार्थमनुगम्य वाक्यार्थावगतिर्युक्ता, पुनरेकाप्रसिध्या प्रसिद्धपदार्थसंसर्गस्त्यक्तुं युक्तः । हि प्रसिद्धिरप्रसिध्या त्यज्यते ; प्रसिद्धिबलेनाप्रसिद्धमपि कल्प्यत इति न्यायात् । ननु निगमादिवशेनार्थानुगमे सर्वत्रैव कथञ्चिदर्थान्वयस्यानुगन्तुं शक्यत्वादव्यवस्थितः पदार्थः स्यात् ; ततश्च वाक्यार्थो नावधार्येत, तर्हि निगमादीनामर्थवत्ता । भवत्यर्थवत्ता, यत्र स्वार्थादन्यत्रापि विनियोगात् प्रयोगस्तत्र कथमभिदध्यात् ? इत्यपेक्षायां तद्गतस्यैवावयवार्थान्वयलेशस्यानुगमात् । एवं तर्हि, एकार्थनियमाय प्रयोगपरतन्त्रता मृग्यते, तदन्तरेणापि प्रयोगमेकार्थनियम एव कथञ्चिन्निगमादिव्याप्रियेतेति कश्चिद् दोषः । तदत्र ब्रह्मशब्दे व्युत्पाद्यमाने बृंहतेर्धातोर्वृद्धिकर्मणोऽर्थानुगमात् , प्रयोगानुगमे चासति विशिष्टार्थविषयस्यापेक्षिकमहत्त्वस्यापरिग्रहात् सर्वतो निरवग्रहमहत्त्वसम्पन्नं वस्तु वाक्यार्थान्वयि ब्रह्मपदादनुगम्यते । ततश्च कालकृतावच्छेदनिमित्तस्याल्पत्वस्याभावात् सदा सत्त्वान्नित्यं किञ्चिद्वस्तु ब्रह्मपदात् प्रतीयते । तथा रूपान्तरसद्भावे तद्रूपविकलत्वात् तदवच्छेदकृतमल्पत्वं स्यात् , तच्च ब्रह्मपदादेवापास्यते । तस्मादेकरसमद्वैतं वस्तु ब्रह्मपदात् प्रतीयते । एतेन देशकृतोऽपि परिच्छेदो निराकृतोवेदितव्यःवस्त्वन्तरसद्भावे हि तदपेक्षयैतावति सद्भावः, नातः परमस्ति, इति स्यात् एतस्माद् व्यावृत्त इति, तदभावे परिच्छिन्नबुद्धिर्भवति । बुद्धत्वं बृहत्यर्थान्वयादेव कथम् ? अबोधात्मकं हि वस्तु भोग्यम् , अतो भोक्तारं प्रति शेषत्वान्निकृष्टम् । चेतनः पुनर्न कस्यचिद्गुणभावमेति । तेनोत्कृष्टं सर्वस्माद् बुद्धस्वरूपं किञ्चित् , इति बृहत्त्यर्थान्वयमेवानुसृत्य गम्यते । ’मुक्तमितिचाविद्याकामकर्मपरतन्त्रस्तैरितश्चामुतश्च पशुवन्नीयमानो निकृष्टो भवति । ब्रह्मशब्दस्तु स्वार्थप्रक्षेपेण वाच्यं किञ्चिद्गमयन् सदैवाविद्यादिसंसारबीजानाकलिततया तस्योत्कृष्टमहत्त्वमावेदयति । ‘सर्वज्ञं सर्वशक्तिसमन्वितं तदि’ति ब्रह्मशब्दादेवावगम्यते । कथम् ? यदि किञ्चिदविदितं तेन, कुतश्चिद्वा कार्याद् व्यावर्तते शक्तिः, आपेक्षिकस्तदोत्कर्षः स्यात् । तद्युक्तमन्यतोऽसिद्धस्य वस्तुनः पदप्रयोगादेव प्रतिपत्तौ । सिद्धे हि वस्तुनि प्रयोगे तस्य यथासिद्धमेव महत्त्वं निरुच्यते ।

शब्दादेव तदर्थान्वयप्रतीतौ निरङ्कुश एवार्थोऽभ्युपेतव्यः । एवं बृंहतेरर्थः परिपूर्णो भवति, यदि सर्वमस्य साक्षादेव संविद्गोचरे वशे वर्तेत, तदेतदाह

अस्ति तावद् ब्रह्म नित्यशुद्धमुक्तस्वभावं सर्वज्ञं सर्वशक्तिसमन्वितम् । ब्रह्मशब्दस्य हि व्युत्पाद्यमानस्य नित्यशुद्धत्वादयोऽर्थाः प्रतीयन्ते ; बृंहतेर्धातोरर्थानुगमादिति

ननु एवमपि व्युत्पत्त्यनुसरणेन भवत्येवमात्मके वस्तुनि प्रतीतिः, पुनरेतावता तस्य सिद्धिः, पदमात्रस्याप्रमाणत्वात् , सत्यमेवम् ; अत एव जिज्ञासा धर्मस्येव लोकाख्यप्रमाणाभाससिद्धस्य । इदमपरं ब्रह्मशब्दार्थस्य सिद्धत्वे कारणमुच्यते साध्यत्वसिध्यर्थम्

सर्वस्यात्मत्वाच्च ब्रह्मास्तित्वप्रसिद्धिरिति

तदेव दर्शयति

सर्वो ह्यात्मास्तित्वं प्रत्येति, नाहमस्मीति

यदि नात्मास्तित्वप्रसिद्धिः स्यात् सर्वो लोको नाहमस्मीति प्रतीयात् । आत्मा ब्रह्मेति

कथं पुनरात्मा ब्रह्म ? वेदान्तेष्वात्मनि ब्रह्मशब्दप्रयोगात् । आत्मानमेव लोकः अहमिति व्यपदिशति । तदेवमहंप्रत्यय एव ब्रह्मणः प्रसिद्धत्वाद् नाप्रसिद्धिशङ्का

यदि तर्हि लोके ब्रह्मात्मत्वेन प्रसिद्धमस्ति, ततो ज्ञातमेवेत्यजिज्ञास्यत्वं पुनरापन्नमिति

विषयमाक्षिपति । असिद्धं हि वस्तु साध्यमानं विषयः, सिद्धं तु पुनः साध्यते, इति शास्त्रस्य विषयः

तद्विशेषं प्रति विप्रतिपत्तेः इति

विषयसम्बन्धौ समर्थ्येते ।

सत्यमहमित्यात्मनि प्रत्ययः, आत्मा ब्रह्म, किन्तु तस्मिन्नेव विप्रतिपत्तयः अयमसौ, अयमसाविति । ताश्च वस्तुतो ब्रह्मपदार्थविषया एव ; तदेकार्थत्वाद् ब्रह्मशब्दस्य । ततः सामान्यतः प्रसिद्धमपि विशेषतोऽसिद्धेरसिद्धकल्पमेव, इति भवत्यस्य विशेषसिद्धिहेतोर्विषयः ; सामान्यतः सिद्धत्वाच्च शक्यते विशेषतः प्रतिपादयितुम् , इति भवति तस्य शास्त्रं साधनम् , इति सम्बन्धोऽपि समर्थितः । विप्रतिपत्तिं दर्शयति

देहमात्रमित्यादि

तद्यथा गोशब्दस्य व्यक्त्याकृतिजातिक्रियागुणसास्नाद्यनेकार्थसन्निधौ प्रयुज्यमानस्य कैश्चिज्जातिः, अन्यैर्व्यक्तिः, इत्याद्यभिधेयं प्रतिपन्नम् , एवं सचैतन्यकार्यकारणसङ्घातसन्निधावहंप्रत्ययस्योत्पद्यमानस्य कैश्चित् किञ्चिदालम्बनं प्रतिपन्नं, तदाह

देहमात्रं चैतन्यविशिष्टमात्मेति प्राकृता जना लोकायतिकाश्च प्रतिपन्ना इति ।

तथाहि — ‘मनुष्योऽहमि’त्यात्मनि मनुष्यत्वाभिमानोगच्छामी’ति गन्तृत्वाभिमानो देहविषयत्व उपपद्यते । ‘देहमात्रमि’ति सशिरस्कपिण्डाभिप्रायं द्रष्टव्यम् । मात्रशब्देन देहातिरिक्तं स्वतन्त्रं चैतन्यमन्यविशेषणं वा, किन्तु देहाकारपरिणतभूतचतुष्टयान्तर्भूतमेवेति दर्शयति । आत्मेति अहंप्रत्ययालम्बनमित्यर्थः । प्राकृता इतिशास्त्रोपदेशासंस्कृतमतयो दृष्टमात्राविकल्पितव्यवहारिण इत्यर्थः । लोकायतिका इति भूतचतुष्टयतत्त्ववादिनः प्रसिद्धाः

एवम् इन्द्रियाण्येव चेतनान्यात्मेत्यपरे

इन्द्रियाणां चक्षुरादिमनःपर्यन्तानामेकैकस्मिन्नसत्यपि शरीरे रूपादिज्ञानानामभावात् तेषामेव व्यस्तानां चेतनत्वमहंप्रत्ययविषयत्वं मन्यन्ते, क्रमेण वरगोष्ठीवदितरेतरगुणभावम् । तथा चेन्द्रियधर्मसामानाधिकरण्यमहंप्रत्ययस्य दृश्यतेकाणोऽहं मूकोऽहमि’त्यादि

मनः

एव चेतनमहंप्रत्ययस्य विषयमन्ये मन्यन्ते । दृश्यते हि स्वप्न इन्द्रियदशकोपरमेऽपि मनस एवअहमि’ति सर्वव्यवहारास्पदत्वमिति वदन्तः

विज्ञानमात्रं क्षणिकमित्येक इति

मात्रग्रहणेन नाहमित्याकारादिवर्णत्रयातिरिक्तं किञ्चिदवभासते, यदहंप्रत्ययस्य विषयः कल्प्येत । तेन विज्ञानमेव स्वरसभङ्गुरमविरतोदयमखिललोकयात्रानिलयमनुभवभग्नपक्षान्तरमहमित्युत्पद्यत इत्यन्ये मन्यन्ते

शून्यमित्यपर इति

सुषुप्ते विज्ञानलेशस्याप्यभावादकस्मादेवाहमिति समुदयदर्शनादकारणस्य कादाचित्कस्य परमार्थवस्तुत्वाभावादसदवभास एवाहङ्कार इत्यपरे सङ्गिरन्ते

अस्ति देहादिव्यतिरिक्तः संसारी कर्ता भोक्तेत्यपर इति

अहमुल्लेखशून्यस्य भोक्तृत्वस्यादर्शनात् , तस्य प्रत्यभिज्ञानात् स्थिरत्वसिद्धेः, स्थिरस्य चावधिहेत्वनुपलब्धेर्नित्यत्वम् । निर्विकारस्य भोगासम्भवात् , विकारस्य क्रियाफलत्वात् , क्रियावेशात्मकत्वाच्च कर्तृत्वस्य, एवमात्मकत्वाच्च संसारित्वस्य, देहादेश्च बुद्धिपर्यन्तस्य भोक्तृत्वानुपपत्तेः, तद्व्यतिरिक्तः संसारी कर्ता भोक्ताऽहंप्रत्ययविषय इत्यपरे प्रतिजानते । कथं पुनस्तद्व्यतिरिक्तत्वं मन्यन्ते । तस्य भोक्तृत्वानुपपत्तेरित्युक्तम्

कथं तस्य भोक्तृत्वानुपपत्तिरिति ? उच्यतेभूतसङ्घातस्तावत् शरीरम् । तत्र व्यस्तानां समस्तानां वा युगपत् क्रमेण वा भोगः परिकल्प्येत, सर्वथाप्यसम्भवः । यदि तावत् व्यस्तानां युगपत् परिकल्प्येत, ततः स्वार्थप्रयुक्तत्वात् प्रवृत्तेरङ्गाङ्गिभावो नावकल्पेत । चाङ्गाङ्गिभावमन्तरेण सङ्घात उपपद्यते । तस्मान्न व्यस्तेषु युगपद् भोगः । अस्ति तर्हि क्रमेण विरोधाद्वरगोष्ठीवदिति, नैतदेवं युक्तम् ; तत्र भोग्यस्यासाधारणत्वात् , असाधारणत्वञ्च प्रतिपुरुषनियमात् , इह पुनर्विपरीतम् ; बहूनां सन्निधौ साधारणे भोग्ये प्रतिनियतभोगव्यवस्थाहेत्वसम्भवात् । अस्तु तर्हि समूहस्य ; तिलज्वालावच्चेतनासमन्वयोपपत्तेः, मा भूत् प्रत्येकं युगपत् क्रमेण वा, नैतदेवम् ; भोगेषु समूहासम्भवात् । कथमसम्भवः ? भोक्तुर्भोगं प्रति प्राधान्यात् । ननु भोगेऽपि समूहो दृष्टः, यथा स्त्रीपुंसयोः, नैतत् सारम् ; सन्दिग्धत्वात् , समूहस्य ? उत तद्व्यतिरिक्तस्येति । तिलज्वालायान्तु विपरीतम् ; समूहकार्ये समूहिनां गुणभावोपपत्तेः । अस्त्वेकस्य तर्हि नियतो भोगः, ; तत्रापि कस्यैकस्येत्यनवधारणात् । किमवधारणेन ? विनाऽपि तेन विवक्षितार्थोपपत्तेः ? यद्येवं, समेषु केषाञ्चिद्गुणभावानुपपत्तेरयुक्तः कार्यात्मकेषु । एवं कारणात्मकेष्वपि समानश्चर्चः ; भूतस्वाभाव्याविशेषात् । तथोभयात्मके समूहे । तस्माद् देहादिव्यतिरिक्तमहंप्रत्ययविषयं मन्यन्ते

भोक्तैव केवलं कर्तेत्येक इति

पूर्वोक्तस्यैव देहादिव्यतिरिक्तस्य कर्तृत्वमतत्स्वभावं मन्वाना भोक्तैव केवलोऽहंप्रत्ययविषय त्येके प्रस्थिताः । करोमि, जानामि, भुञ्जे चेति सर्वदाऽहंप्रत्ययेनानुषङ्गः, तेन नायं तद्विषयः । यदि स्यात् , तदुल्लेखविकल उदियात् । ननु भोक्तापि तर्हि नासौ ; तदुल्लेखाभावात् , नैतदेवम् ; अहमिति चेतनत्वसमुल्लेखात् , तदर्थत्वात्सर्वस्य, तदात्मकमेव भोक्तृत्वम् , इति भोक्तैव केवलमिति युक्तं मन्यन्ते ।

अस्ति तद्व्यतिरिक्त ईश्वरः सर्वज्ञः सर्वशक्तिरिति केचिदिति

तस्मादपि देहादिव्यतिरिक्तादहंप्रत्ययविषयादन्यः सर्वस्येशिता, ततश्चेशितव्यस्य सर्वात्मना वेत्ता, नियमनशक्तिसम्पन्नश्च शरीरिणां मनसाप्यचिन्त्यरूपात् तनुभुवनविरचनकार्यात् प्रेक्षावत्कर्तृकत्वमन्तरेणासम्भाव्यमानात् , कुलालादिरिव घटादिकार्यात्प्रतिपन्नः सातिशयानां काष्ठाप्राप्तिः परिणामानामुपलब्धा । सातिशयञ्च ज्ञानम् , अतः क्वचित् काष्ठां प्राप्तं सर्वविषयमिति सर्ववित् , सर्वदा सिद्धः, ईश्वरः प्रतिपन्नो ब्रह्मशब्दार्थ इति केचित् प्रतिपेदिरे । ननुअहमिति सर्वो लोक आत्मानं प्रत्येति । आत्मा ब्रह्मे’त्यहंप्रत्ययविषयस्यात्मनो ब्रह्मत्वेन तद्विप्रतिपत्तौ ब्रह्मविप्रतिपत्तिं दर्शयितुं प्रक्रान्तं, तत् कथमनहंप्रत्ययविषयेऽनात्मनीश्वरे ब्रह्मत्वविप्रतिपत्तिः प्रदर्श्यते ? उच्यतेब्रह्मणि विप्रतिपत्तिप्रदर्शनस्य प्रक्रान्तत्वादहंप्रत्ययविषयविप्रतपत्त्यापि प्रणाड्या ब्रह्मविप्रतिपत्तिरेव निर्दिश्यते । यतो नाहंविषयविप्रतिपत्तिप्रदर्शनेन किञ्चित् कृत्यमस्ति । तस्मात् साध्वेतत्

आत्मा भोक्तुरित्यपर इति

योऽयमहमित्युल्लिख्यमानश्चेतनो भोक्ता, ब्रह्मेति कैश्चित्प्रतिपन्नः, तस्याहंप्रत्ययसिद्धो भोक्तृत्वावभासः । मिथ्यैवानिर्वचनीयानाद्यविद्याविलसितः । परमार्थतस्तु यः सर्वज्ञ ईश्वरोऽहंप्रत्ययेऽनन्तर्भूतः प्रमाणान्तरानवसितः, सोऽस्यात्मा स्वरूपम् । एवमसौ बृंहत्यर्थान्वयाद् ब्रह्मशब्दाभिधानीयतां लभते ; इतरथा तद्रूपविकलस्य निरङ्कुशं बृहत्त्वम् , इति ब्रह्मशब्दाभिधेयः स्यात् ।

एवं बहवो विप्रतिपन्ना युक्तिवाक्यतदाभाससमाश्रयाः सन्तः इत्युपसंहरति ।

एवम् उक्तेन प्रकारेण केचित् किञ्चिद् ब्रह्मेति प्रतिपन्नाः । किमेवमेव मनोरथमात्रेण ? नेत्याह

युक्तिं

प्रमाणानां स्वविषयनिश्चयेऽनुग्राहिकां तर्कशब्दपर्यायां,

वाक्यञ्च

प्रतिवेदान्तं यथावद् ब्रह्मस्वरूपप्रतिपादनपरमालोचयन्तः । ‘आत्मा भोक्तुरि’ति युक्तिवाक्याभ्यामन्त्यं पक्षं निश्चितवन्तः सम्यग्दर्शिनः । इतरे तुयुक्तय इवावभासन्त इति युक्त्याभासाः, परमार्थतो युक्तयः, ताः समाश्रित्य, वाक्यानीवावभासन्ते, तानि वाक्यानि ; अतत्परत्वात् ; तानि वाक्याभासानि परिगृह्य, पक्षान्तरेषु विप्रतिपन्नाः । युक्त्याभासत्वं लेशतो दर्शितमेव देहादिव्यतिरिक्तात्मपक्षं दर्शयद्भिः । इतरेषां युक्त्याभाससिद्धत्वं स्वावसरे दर्शयिष्यामः । दर्शितं लेशत उत्तरोत्तरपक्षग्रहणकारणप्रदर्शनेन, वाक्याभासतां तु तत्र तत्राधिकरणे सिद्धान्तयिष्यन्तः प्रदर्शयिष्यामः ।

तत्राविचार्य यत् किञ्चित् प्रतिपद्यमानो निःश्रेयसात् प्रतिहन्येतानर्थञ्चेयादिति

तत्रैवं स्थिते मुमुक्षुर्ब्रह्मज्ञानेन परं निःश्रेयसमाप्तुकामोऽविचार्य एतच्छास्त्रमश्रुत्वा प्रवर्तमानोऽन्त्यपक्षादर्वाचीनं कञ्चित् पक्षं परिगृह्णीयात् , तदा मोक्षस्य सम्यग् ज्ञानफलत्वात् , तस्य चातथाभावान्निःश्रेयसात् प्रतिहन्येत मोक्षफलं प्राप्नुयात् । अनर्थञ्च प्रतिपद्येत ; ‘अन्धं तमः प्रविशन्ति ये के चात्महनो जनाःइति श्रुतेः । अनात्मदर्शनेनात्मनोऽसत्कल्पत्वापादनमात्महननम् । एवंरूपस्यात्महननस्य कृतत्वात् , अन्यथाऽऽत्मनो हननासम्भवात् , प्राणत्यागस्य प्रकृतानुपयोगादिति

तस्माद् ब्रह्मजिज्ञासोपन्यासमुखेन वेदान्तवाक्यमीमांसा तदविरोधितर्कोपकरणा निःश्रेयसप्रयोजना प्रस्तूयत इति

ब्रह्मजिज्ञासोपन्यासव्याजेन जिज्ञासापदेनान्तर्णीतमीमांसावेदान्तवाक्यानामारभ्यते । अथवा ब्रह्मज्ञाने कर्तव्यतयोपदिष्टे तज्ज्ञानाय प्रवृत्तेभ्योऽर्थादेव तत्प्रतिपादनं प्रतिज्ञातम् , इति तदर्थं वेदान्तमीमांसाऽऽरभ्यते ।

किम्प्रयोजना ? किमुपकरणा चेति ? उच्यते

तदविरोधितर्कोपकरणा निःश्रेयसप्रयोजना चेति

तैः वेदान्तैः, अविरोधी तर्कः ; युक्तिः, उपकरणम् इतिकर्तव्यता, सहकारिकारणमिति यावत् । अथवा तर्कः अनुमानं, वेदान्तैरविरुद्धम् ; तदर्थप्रतीतेरेव दृढत्वहेतुतयोपकरणमस्या इत्यर्थः ॥ १ ॥

इति परमहंसपरिव्राजकादि - श्रीशङ्करभगवत्पादान्तेवासिवर - श्रीपद्मपादाचार्यकृतौ पञ्चपादिकायां विषय - प्रयोजनाक्षेपपरिहारवर्णनं नाम तुरीयवर्णकं समाप्तम् ॥

अथ पञ्चमं वर्णकम्

ब्रह्म जिज्ञासितव्यमि’त्युक्तमिति

ब्रह्मज्ञानकामेनेदं शास्त्रं श्रोतव्यमित्युक्तमित्यर्थः ।

यदैवेदमित्युक्तं तदैव ब्रह्मणो लक्षणं प्रमाणं युक्तिः साधनं प्रयोजनमिति सर्वं व्याख्येयत्वेन प्रतिज्ञातम् । तत्र स्वरूपस्याभ्यर्हितत्वात् तत् प्रथमं वक्तव्यम् ।

किं लक्षणं पुनस्तद् ब्रह्मेति ?

अत आह भगवान् सूत्रकारः

जन्माद्यस्य यत इति

युक्तिरपि लक्षणनिर्णयेऽर्थात् सूत्रितैव ।

जन्म उत्पत्तिः आदिरस्येति तद्गुणसंविज्ञानो बहुव्रीहिरिति

पदच्छेदः पदार्थः पदविग्रह इत्येतत् त्रितयमपि व्याख्यानाङ्गं सम्पादयति । तद्गुणसंविज्ञाने प्रयोजनमाह

जन्मस्थितिभङ्गं समासार्थ इति

तृतीयलिङ्गनिर्देशात् संहतिप्रधानं समासार्थः ।

ननु आदिः पूर्वकालकोटिमतो भवति, तदभावे प्रपञ्चस्य को नामाऽऽदिः ? इत्याशङ्क्याह

जन्मनश्चादित्वं श्रुतिनिर्देशापेक्षं वस्तुवृत्तापेक्षं चेति

यदनेन सूत्रेण लक्षितं ब्रह्म, तत्स्वरूपकथनपरं वाक्यम् । तत्रादौ जन्म निर्दिष्टमिति तस्यादित्वम् । वस्तुस्वभावापेक्षमपि । हि वस्तु प्रलीय तिष्ठति । स्थित्वा वा जायते । नापि जनित्वैव प्रलीयते ; क्षणिकत्वनिराकरणात् । अतो जनित्वा स्थित्वा प्रलीयते । एवमनादिरयं प्रपञ्चः ।

अस्यइति भाष्येण पदभागस्येदमः प्रकृतिमात्रस्यार्थनिर्देशः । तथाहि सर्वत्र सर्वनामप्रक्रमादिकारणान्तरबलेन कतिपयाभिधेयपरं, तदभावे स्वमहिम्ना प्रमाणविषयमात्राभिधायकं, तेनाह

प्रत्यक्षादिसन्निधापितस्य धर्मिण इदमा निर्देश इति

षष्ठी जन्मादिधर्मसम्बन्धार्थेति ।

सर्व वेह सम्बन्धः सम्भवति, तद्विशेष आदरणीय इति कथयति । यत इति कारणनिर्देश इति प्रकृतित्वनिबन्धना हि पञ्चमी, नान्यनिबन्धनेति दर्शयति

अस्य जगतः

इत्यादिना भाष्येण लक्ष्यस्य ब्रह्मणः स्वरूपलक्षणं कथयितुमुपक्रमते ।

द्विविधं हि लक्षणम् उपलक्षणं विशेषलक्षणं  । तत्रेदं लक्षणं प्रपञ्चधर्मत्वात् पृथग्भूतमेव कारणमुपलक्षयति विशेषणत्वेन । अतः पृथक् स्वलक्षणकथनम् ।

नामरूपाभ्यां व्याकृतस्येति

कार्यप्रपञ्चं केचित् स्वप्रक्रियानुसारेण विभजन्ति, तद्व्युदासाय प्रसिद्धार्थानुवादश्रुतिबलेन द्वैराश्यं कृत्वाऽऽह

नामरूपाभ्यामिति

इत्थम्भावे तृतीया

व्याक्रियमाणं हि वस्त्वभिधेयरूपं स्वनामगर्भं विकल्पपूर्वमेव व्याक्रियत इति स्वसंवेद्यमेतत् ।

अनेककर्तृभोक्तृसंयुक्तस्येति

कर्तृत्वभोक्तृत्वमपि नामरूपात्मकत्वात्प्रपञ्चानुयायीति दर्शयति

प्रतिनियतदेशकालनिमित्तक्रियाफलाश्रयस्येति

प्रतिकर्मफलोपभोगे नियतो देशः स्वर्गफलस्य मेरुपृष्ठं, ग्रामादिफलस्य भूमण्डलम् । कालोऽपि स्वर्गफलस्य देहपातादूर्ध्वं, पुत्रफलस्य बालभावात् । निमित्तमपि उत्तरायणादिमरणस्य ।

मनसाऽप्यचिन्त्यरचनारूपस्येति

ह्यर्वाग्दर्शी क्वचिद्बहिर्लोकसन्निवेशप्रकारमध्यात्मं प्रतिनियतार्थक्रियासमर्थावयवशिराजालसन्निवेशं निरूपयितुमपि समर्थः, किं पुनर्विरचयितुम्

जन्मस्थितिभङ्गं यतः सर्वज्ञात् सर्वशक्तेः कारणाद् भवति, तद् ब्रह्मेति वाक्यशेष इति

साकाङ्क्षस्य सूत्रवाक्यस्याकाङ्क्षितपदपूरणम् , उपलक्षितब्रह्मस्वरूपं लक्षणं दर्शयति

ननु अन्येऽपि परिणामादयो भावविकाराः सन्ति, ते किमिति सङ्गृह्यन्ते ? इत्याशङ्क्याह

अन्येषामपीति

क्वचिद्वस्तुनो ह्यवस्थाविशेषो विनाशरहितः, नाप्यनिर्वृत्तजन्मनोऽस्थित स्वभावस्य विनाशः । अतस्त्रिष्वेवान्तर्भावान्न पृथगुपन्यासस्तेषाम् ।

ननु षड् भावविकारा इति नैरुक्ताः । तेषां ग्रहणेऽन्तर्भावोक्तिप्रयासोऽपि परिहृतः स्यादित्याशङ्क्याह

यास्कपरिपठितानां तु जायतेऽस्तीत्यादीनामिति

पृथिव्यप्तेजःसु जगद्रचनारूपस्थितेषु तन्मयानामेव ते सम्भाव्यन्ते । ततस्तद्ग्रहणे तेषामेव ब्रह्मत्वेन लक्षितत्वाशङ्का स्यात् , तद्युक्तम् ; अतः सूत्रार्थवत्त्वाय श्रुतिनिर्दिष्टा एवोत्पत्त्यादयो गृह्यन्ते ; तदर्थनिर्णयार्थत्वात्सूत्राणाम् । अतो यदवष्टम्भो विश्वो विवर्तते प्रपञ्चः, तदेव मूलकारणं ब्रह्मेति सूत्रार्थः

ननु श्रुतिनिर्दिष्टग्रहणे सूत्रमर्थशून्यं स्यात् ; हीमां पृथिवीं जायमानां पश्यामः, नापो तेजः, कथं सिद्धवल्लक्षणत्वोनोपादीयेतेति ? उच्यते, तेजसस्तावदरणिनिर्मथनादिषु दृश्यते जन्म, इन्धनापाये विनाशः । अपामपि चन्द्रकान्तादिषु जन्म, क्रमेण शोषः । पृथिव्या अप्यवयवसंयोगविभागदर्शनात् तन्निमित्तौ जन्मविनाशावनुमीयेते । दृश्येत चाद्याऽप्यवयवसंयोगविभागकृतौ पृथिव्येकदेशस्य जन्मविनाशौ । वाय्वाकाशकालदिशामपियावद्विकारं तु विभागो लोकवदि’ति वक्ष्यमाणेन न्यायेन स्त एव जन्मविनाशौ ।

यथोक्तविशेषणस्येत्यादिना

भाष्येण युक्तिरपि ब्रह्मस्वरूपनिर्णयायानेनैव सूत्रेण तन्त्रेणावृत्त्या वा जन्माद्यस्य यतः सम्भवतीति सूत्रितेति दर्शयति ।

अस्य जगतो नामरूपाभ्यां व्याकृतस्येत्याद्यभिहितविशेषणचतुष्टयस्य,

यथोक्तविशेषणमीश्वरं मुक्त्वेति

सर्वज्ञं सर्वशक्तिं विहाय

नान्यतः

परपरिकल्पितात्

प्रधानादेरचेतनात् ,

चेतनादपि परिच्छिन्नज्ञानक्रियाशक्तेः

संसारिणो

हिरण्यगर्भात्

उत्पत्त्यादि सम्भावयितुमपि शक्यम्

अचेतनात्तावदचेतनत्वादेवानुपपन्नम् । चेतनादपि ; परिच्छिन्नज्ञानक्रियाशक्तित्वात् । अभावात् पुनर्नाचेतनत्वादेव केवलादनुपपत्तिः, अपि तु निरुपाख्यत्वादतीतकल्पसंस्काराभावात् , पूर्वकल्पैकरूपो वर्तमानोऽपि कल्प इति प्रमाणाभावात् , सर्व एव व्यवहारो यादृच्छिक इति क्वचित् कश्चिन्नियमोऽभविष्यत् ।

स्वभावतः विशिष्टदेशकालनिमित्तोपादानादिति

स्वभावो नामान्यानपेक्षः । तेनापेक्षैवानुपपन्ना, कुतो नियमसम्भवः ? अतो युक्त्याऽपि वस्त्वन्तरस्य कारणत्वसम्भावनानिराकरणेन पारिशेष्यात्पूर्वोक्तविशेषण ईश्वर एव कारणमिति सिद्धम्

एतदेवानुमानमिति

येयं युक्तिरभिहिता यथोक्तविशेषणमीश्वरं मुक्त्वा नान्यतो जगतो जन्मादि सम्भवतीति, एतदेव स्वतन्त्रमनुमानमीश्वरसिद्धौ सर्वज्ञत्वसर्वशक्तित्वसिद्धौ तस्य प्रमाणम् , किं वेदवाक्यैः ? इतीश्वरकारणिनः कणादप्रभृतयो मन्यन्ते ।

जन्मादिसूत्रलक्षितान्यपि वाक्यानि यतो वा इमानि भूतानि जायन्ते’ (तै. उ. ३-१-१) इत्यादीनि परार्थानुमानवाक्यसमानि दृश्यन्त इति वदन्तः ।

नन्विहापि तदेवोपन्यस्तमिति

यथा धूमविशेषस्यागरुसम्भवत्वं, तथा प्रपञ्चसन्निवेशविशेषस्य सर्वज्ञत्वादिगुणकारणकत्वमिति ।

वेदान्तवाक्यकुसुमग्रथनार्थत्वात् सूत्राणामिति

सत्यं तदेवोपन्यस्तमुपकरणत्वेन, तत्र तात्पर्यं, तात्पर्यन्तु वेदवाक्यग्रथने ।

तदेव प्रपञ्चयति

वेदान्तवाक्यानीति

समन्वयसूत्रप्रमुखोपात्तैः शब्दशक्त्यनुसारिभिर्न्यायैर्वाक्यानां ब्रह्मणि तात्पर्याध्यवसाननिर्वृत्ता ब्रह्मावगतिः ।

नानुमानादिप्रमाणान्तरनिर्वृत्ता । सत्सु तु वेदान्तवाक्येषु तदविरोध्यनुमानमपि प्रमाणं भवन्न निवार्यते ; श्रुत्यैव सहायत्वेन तर्कस्याप्यभ्युपेतत्वात्तथा हिश्रोतव्यो मन्तव्यःइति ।

श्रुत्या यथा श्रवणं ब्रह्मावगतिहेतुरनूद्यते, तथा मननस्यापि सिद्धवदनूद्यमानत्वात् । तथाऽपरा श्रुतिःपण्डितो मेधावी’त्यादिःआचार्यवान् पुरुषो वेदे’ति पुरुषबुद्धिसाहाय्यमात्मनो दर्शयति । यदाचार्येण श्रुत्यनुसारिणा स्फटिकादिनिदर्शनेन शिष्येभ्यः प्रत्ययदार्ढ्यापादनं, तदाचार्यवान् पुरुषो वेदेत्यनूद्यते ।

धर्मजिज्ञासायामिवेत्यादिना

युक्तिसाहाय्यापेक्षणे कारणमाह ।

श्रुत्यादय इति

श्रुतिः पदान्तरनिरपेक्षः शब्दः । आदिशब्देन लिङ्गवाक्यादयः शब्दप्रकारा गृह्यन्ते ।

एव ब्रह्मणि प्रमाणं, किन्त्वनुभवादयोऽपि । तत्र हेतुमाह

अनुभवावसानत्वाद् भूतवस्तुविषयत्वाच्च ब्रह्मज्ञानस्येति

सिद्धे वस्तुनि सम्भवत्यनुभवः, तदवसाना आकाङ्क्षा निवृत्तिर्यतः ।

ननु धर्मजिज्ञासायां विनाऽप्यनुभवेन शब्दशक्त्यनुसरणमात्रेणैव निराकाङ्क्षं फलपर्यन्तं ज्ञानं भवति, तर्कगन्धमप्यपेक्षते, तथेहापि स्यात् ; प्रमाणत्वाविशेषाद्वेदान्तवाक्यानाम् , इत्याशङ्क्य विशेषमाह

कर्तव्ये हि विषय इत्यादिना ब्रह्मज्ञानमपि वस्तुतन्त्रमेव भूतवस्तुविषयत्वादित्यन्तेन भाष्येण

कथम् ? कर्तव्यं हि कर्तव्यत्वादेवासिद्धस्वभावं नानुभवितुं शक्यमिति तदाकाङ्क्षा, इह तु सिद्धस्य साक्षाद्रूपेण विपर्यासगृहीतस्य सम्यग्ज्ञानेन साक्षात्करणमन्तरेण मिथ्याज्ञानोदयनिवृत्तिः ; द्विचन्द्रादिषु तथा दर्शनात् । हि कर्तव्यसिद्धार्थनिष्ठयोः प्रमाणत्वसाम्यादवबोधनप्रकारेऽपि साम्यम् । यदि स्यात् , पुरुषेच्छावशनिष्पाद्यमपि स्यात् । ततो विधिप्रतिषेधविकल्पसमुच्चयोत्सर्गापवादबाधाभ्युच्चयव्यवस्थितविकल्पादयोऽपि प्रसज्येरन् । वस्तुनि युक्तमेतत् ; निःस्वभावत्वप्रसङ्गात् । तथा चैकस्मिन् वस्तुनि स्थाणुः पुरुषो वेति विकल्पः, वैकल्पिकद्रव्यत्यागवद् सम्यग्ज्ञानं भवति स्थाणुरेवेति निश्चितैकार्थता परमार्थे । यतो वस्तुस्वभावपरतन्त्रं सिद्धवस्तुज्ञानं, ज्ञानपरतन्त्रं वस्तु । यदि स्यात् , शुक्तिरजतमपि तथा स्यात् । कर्तव्यज्ञानं पुनर्वैपरीत्येऽपि सम्यगेव ; ‘योषा वाव गौतम अग्निरि’त्यादिषु दर्शनात् ।

तत्रेवं सति ब्रह्मज्ञानमपि वस्तुतन्त्रमेव भूतवस्तुविषयत्वात् ।

अतो युक्तो युक्तेरनुप्रवेशः, अनुभवापेक्षा नेतरत्र

अपरः परिचोदयति

ननु भूतवस्तुविषयत्व इत्यादिना

अयमभिप्रायःभूतत्वात् युक्तेरपि चेदनुप्रवेशः, तथा सति किं वेदवाक्यैर्विचारितैः ? यथाहुरीश्वरकारणिनः, तथा भवतु पूर्वसूत्रेण प्रतिज्ञानिर्देशोऽनेन हेत्वभिधानमिति ।

उत्तरमाह

नेन्द्रियादिविषयत्वेन सम्बन्धग्रहणादित्यादिना

इन्द्रियाणि प्रपञ्चमात्रं गृह्णन्ति, तत्कारणम् । यदि तद्ग्रहणमपि स्यात् , नानुमानोपन्यासेन कृत्यमस्ति । सामान्यतोदृष्टमपि प्रमाणमतीन्द्रिये ब्रह्मणि,

अत उपसंहरति

तस्माज्जन्मादिसूत्रं नानुमानोपन्यासार्थं, किं तर्हि ? वेदान्तवाक्यप्रदर्शनार्थमिति

युक्तिमपि तदुपकरणां तदर्थानुभवप्रयोजनां सूचयतीत्युक्तम्

नन्वेवं सति कथं युक्तिरब्रह्मविषया सती तद्विषयाणां वाक्यानामुपकरणं भवति ? उच्यते, ब्रह्मपरेषु मृदादिदृष्टान्तेर्युक्तस्य उपन्यस्यन्ते । ताश्च विधिप्रतिषेधवाक्ययोः प्रवर्तकत्वनिवर्तकत्वाकाङ्क्षितस्तुतिनिन्दार्थवादवत् स्वरूपवाक्यस्य फलपर्यन्तापेक्षितसम्भावनार्थवादतां प्रतिपद्यमानास्तत्र श्रुतिसाहाय्ये वर्तन्त इत्युच्यते ।

किम्पुनस्तद् वेदवाक्यं यत् सूत्रेणेह लिलक्षयिषितमिति

सर्वत्र वेदान्तवाक्ये ब्रह्मपदस्याप्रसिद्धत्वान्न स्वार्थं विशेष्यत्वेन विशेषणत्वेन वा वाक्यार्थे समर्पयितुमलमित्याक्षिपति । येषां वेदान्तवाक्यानां येन सन्निवेशक्रमेण ब्रह्मप्रतिपादने समन्वयः स्वाध्यायपदे स्थितः, तल्लक्षणार्थं सूत्रद्वयमिति ।

तथैवोदाहणमाह

भृगुर्वै वारुणिरिति ।

अथशब्दोपात्तन्यायेन प्रथमसूत्रस्योदाहरणं — ‘यतो वा इमानि भूतानी’ति जन्मादिसूत्रस्य । कथम् ? पूर्वोक्तेन न्यायेन पृथिव्यादीनां जन्मादिदर्शनात् तत्कारण एकत्वनानात्वयोरन्यतरावगमे प्रमाणाभावाद् बुद्धिमत्कारणपूर्वतामात्रे प्रतिपन्नेयतो वा इमानी’ति कारणस्यैकवचननिर्देशात्तदर्थमात्रस्यैव विधित्सितत्वादर्थात्सर्वज्ञं सर्वशक्तिजगत्कारणमिति कारणविशेषो वाक्यादवगम्यते । पुनस्तद्विजिज्ञासस्वेत्यनूद्य तद् ब्रह्मेति तत्र ब्रह्मशब्दप्रयोगाद् बृहत्यर्थान्वयेन सर्वतोऽनवच्छिन्नस्वभावं जगत्कारणं ब्रह्मपदार्थ इति गम्यते । तस्य निर्णयवाक्यमानन्दाद्ध्येव खल्विति

प्रसिद्धावद्योतकेन हिशब्देन संयुक्तमानन्दावद्योतकमुपपद्यते । अनानन्दात्मके हि जगत्कारणे ब्रह्मशब्दप्रयोगो युज्यते । हि तस्योपेक्षणीये विषये स्वार्थप्रक्षेपेण वृत्तिः समञ्जसा । तस्माद् ब्रह्मपरे वाक्ये जन्मादिधर्मजातस्योपलक्षणत्वाद् ब्रह्मसंस्पर्शाभावात् सर्वज्ञं सर्वशक्तिसमन्वितं परमानन्दं ब्रह्मेति जन्मादिसूत्रेण ब्रह्मस्वरूपं लक्षितमिति सिद्धम्

इति परमहंसपरिव्राजकादि - श्रीशङ्करभगवत्पादान्तेवासिवर - श्रीपद्मपादाचार्यकृतौ पञ्चपादिकायां जन्माद्यधिकरणं नाम पञ्चमवर्णकं समाप्तम् ॥

अथ षष्ठं वर्णकम्

शास्त्रयोनित्वात्

अयमपरः प्रपञ्चकारणस्य ब्रह्मणः सर्वज्ञत्वे हेतुः । अनेकनानाविधविषयविद्यास्थानोपबृंहितस्य वेदाख्यस्यापि शास्त्रस्य प्रपञ्चान्तःपातित्वात् तत एव जन्म । तेनाविषयीकृतस्य सद्भावे प्रमाणमस्ति । अतः सर्वविषयत्वात्सर्वज्ञं तत् । कल्पप्रत्ययप्रयोगो भाष्ये बोद्धृत्वाभावादीषदपरिसमाप्त्या । ततश्च कारणं तद्विषयादप्यधिकतरग्रहणसमर्थं गम्यते । दृश्यते ह्यद्यापि शास्त्रकाराणां तथाभावः । ननु एवं सति बुद्धिपूर्वत्वात्सापेक्षं स्यात् । स्यात् ; ब्रह्मवदनादित्वात् । कूटस्थनित्यत्वाच्चकथं पुनस्ततो जन्म ? तत्परतन्त्रत्वात् , रज्जुसर्पवत् । तथा श्रुतिःनिःश्वसितमेतदि’ति । यथाऽपेक्षारहितैव लोके निःश्वासप्रवृत्तिः, तथाऽस्यापीति सापेक्षतादोषःननु एवं सति कथं सर्वज्ञता ? तस्यैव ज्ञानशक्तिविवर्तात्मकत्वाद् नामप्रपञ्चस्य । रूपप्रपञ्चस्यापि तदाश्रित्य विवर्तनात् तज्जन्मता ; नासतः प्रादुर्भावात्

इति परमहंसपरिव्राजकादि - श्रीशङ्करभगवत्पादान्तेवासिवर - श्रीपद्मपादाचार्यकृतौ पञ्चपादिकायां ब्रह्मणः सर्वज्ञत्वनिरूपणं नाम षष्ठं वर्णकं समाप्तम् ॥

अथ सप्तमं वर्णकम्

अथ वा यथोक्तमृग्वेदादीत्यादिना

सूत्रस्य प्रमाणप्रतिज्ञामर्थान्तरमाह - अपेक्षितत्वात्कथं पुनरेकस्य सूत्रस्यार्थद्वयम् ? सूत्रत्वादेव । तथा पौराणिकाः — ‘अल्पाक्षरमसन्दिग्धं सारवद्विश्वतोमुखम् । अस्तोभमनवद्यं सूत्रं सूत्रविदो विदुः’ ॥ इतिविश्वतोमुखमिति नानार्थतामाह - अतोऽलङ्कार एव सूत्राणां यदनेकार्थता नामननु पूर्वसूत्रे शास्त्रमुदाहरता ब्रह्मावगमे शास्त्रं प्रमाणं प्रतिज्ञातमेव । सत्यमेतत्सूत्रबलेन तदुदाहृतम् ; अन्यथा सूत्रे शास्त्रोपादानाभावादनुमानाशङ्कायांयतः सर्वज्ञात्सर्वशक्तेः कारणाज्जगतो जन्मादि भवति, तद् ब्रह्मेति वाक्यशेषःइत्यस्योपस्कारस्याप्रमाणत्वप्रसङ्गः । प्रतिप्रपञ्चं पृथक्कारणजन्मताया अपि सम्भवात् सर्वज्ञत्वसर्वशक्तित्वासिद्धेः, लोके जगत्कारणे ब्रह्मशब्दप्रयोगादर्शनात् । अतोजन्माद्यस्य यतः’ ‘शास्त्रप्रमाणकमि’त्येतावदिदं सूत्रं सदसन्दिग्धमनुमानशङ्कानिवृत्तेः पृथक्करणं प्रपञ्चान्तःपातिनः शास्त्रस्यापि हेतुत्वेन सर्वज्ञत्वं सुसम्पादमिति व्याख्यानान्तरेण कथयितुम्

इति परमहंसपरिव्राजकादि - श्रीशङ्करभगवत्पादान्तेवासिवर - श्रीपद्मपादाचार्यकृतौ पञ्चपादिकायां ब्रह्मणः शास्त्रप्रमाणकत्वं नाम सप्तमं वर्णकं समाप्तम् ॥

अथाष्टमं वर्णकम्

कथं पुनर्ब्रह्मणः शास्त्रप्रमाणकत्वमुच्यते ? यावताऽऽम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थानामिति क्रियापरत्वं शास्त्रस्य प्रदर्शितम् । अतो वेदान्तानामानर्थक्यमक्रियार्थत्वात्

यद्यपि प्रदर्शितानि वाक्यानि सर्वज्ञत्वादिगुणकं ब्रह्म जगत्कारणं प्रतिपादयन्ति ; तथाऽपि तत्र परिनिष्ठिते वस्तुनि प्रत्यक्षादीनामपि प्रवृत्तिसम्भवात् तैरसंवादे प्रामाण्यं प्रतिलभन्ते

ननु अपौरुषेयत्वात् तज्जन्यं स्वार्थपरिच्छेदेऽनपेक्षं कथमप्रमाणम् ? सत्यम् ; तथाऽपि यथा चाक्षुषं स्पर्शनगोचरचित्रनिम्नोन्नतज्ञानं तेनासंवादादप्रमाणं, तथेहापि स्यात् । किं पुरुषार्थशून्यत्वादप्यप्रामाण्यम् । पुरुषार्थो हि नाम सुखावाप्तिर्दुःखपरिहारश्च । तौ सिद्धत्वाद् हानोपादानविषयौ सिद्धवस्तुन्यक्रियाशेषे सम्भवतः । ततो

क्वचिद् वेदवाक्यानां विधिसंस्पर्शमन्तरेणार्थवत्ता दृष्टोपपन्ना वा

किं प्रत्यक्षाद्यविषये शब्दमात्रस्य प्रामाण्यम् । शास्त्रस्यैष स्वभावो यदनवगतार्थावबोधकत्वम् । शब्दमात्रस्य पुनः प्रमाणान्तरगृहीतार्थप्रकाशन एव सामर्थ्यं दृष्टं, नानवगतार्थप्रकाशने । तस्मादनर्थका वेदान्ताः ; तेषां ब्रह्मणि प्रामाण्यमिति । अत एववेदाषरा वेदान्ताःइति केषाञ्चिदुद्गारःयत्पुनर्भाष्यकारेण कर्तृदेवतास्वरूपप्रकाशनेन क्रियाविधिशेषत्वं वेदान्तानां प्रकरणान्तरभयादनभ्युपगम्य स्ववाक्यगतोपासनाकर्मपरत्वमुक्तं, तदयुक्तम् ; उपासनाविधिशेषत्वेऽपि संवादाभावाद् जगत्कारणे सर्वज्ञत्वादिसिद्धिः । सत्यम् ; अनुमानतोऽनिर्दिष्टविशेषे तस्मिन्नवगते समारोपितैर्धर्मैरुपासनानियोगः सेत्स्यति । एवं चाध्ययनविधिग्राहितानां वेदान्तानामेकान्ततो नानर्थक्यं भविष्यतीत्यभिप्रायः । फलं तत्र कल्प्यमार्थवादिकम् ।

तत्तु समन्वयात्

तत् ब्रह्म सर्वज्ञत्वादिगुणकं वेदान्तशास्त्रात्प्रतीयत इति प्रतिजानीते ।

हेतुं चाचष्टे

समन्वयादिति ।

तत्र तात्पर्येण वेदान्तवाक्यानां समन्वयादित्यर्थःसम्यगन्वयः समन्वयः । अथ केयं सम्यक्ताऽन्वयस्य ? पदानां परस्परानवच्छिन्नार्थानामनन्याकाङ्क्षाणामव्यतिरिक्तैकरसप्रातिपदिकार्थमात्रान्वयः ; ‘सोऽयमि’त्यादि वाक्यस्थपदानामिव । प्रकृष्टप्रकाशशब्दयोरिव चन्द्रपदाभिधेयार्थकथनेन । तथा व्यक्तिविशेषः, कश्चिच्चन्द्रप्रातिपदिकाभिधेयः केनचित् पृष्टःअस्मिन् ज्योतिर्मण्डले कश्चन्द्रो नाम ? ’ इति तस्य प्रतिवचनंप्रकृष्टप्रकाशश्चन्द्रःइति । तदेवं प्रतिवचनं भवति यदि यथा चन्द्रपदेनोक्तं, तथाऽऽभ्यामपि पदाभ्यामुच्येत । एवं सति नीलोत्पलवदयुतसिद्धपरस्परावच्छिन्नविशेषणविशेष्यभावेनाप्यन्वयो दुर्लभः ।

कुतः पृथक्सिद्धः क्रियाकारकलक्षणः सम्बन्धः ? तथाविधान्युदाहरति

सदेव सोम्येदमग्र इत्यादीनि

ननु जन्मादिसूत्रोदाहरणेष्वेव प्रामाण्यं दर्शनीयं, किमुदाहरणान्तरेण ? बाढम् ; अस्त्यत्राभिप्रायो भाष्यकारस्य । तत्र ब्रह्मणो लक्षणं वक्तव्यमिति तटस्थस्यैव ब्रह्मणो निरूपकाणि वाक्यान्युदाहृतानि, इह तुतत्त्वमसी’ति जीवस्य ब्रह्मात्मतावगतिपर्यन्तानि वेदान्तवाक्यानि तटस्थमेव जगत्कारणं प्रतिपाद्य पर्यवस्यन्ति, इत्यतस्तथाभूतान्येव वाक्यान्युदाहृतानि — ‘सदेव सोम्येदमग्र आसीदि’त्येवमादीनि । यत्पुनः सिद्धे वस्तुनि प्रत्यक्षादिसम्भवात् तदभावे मिथ्यात्वाशङ्कायामप्रामाण्यमिति, तत् रूपाद्यभावाद् नेन्द्रियगोचर इति प्रत्युक्तम्

ननु इन्द्रियागोचरत्वादेव प्रत्यक्षाद्यविषयत्वान्न शब्दमात्रस्य तत्र प्रामाण्यमित्युक्तम् , उच्यते ; यद्यपि शब्दमात्रस्य प्रत्यक्षादिविषय एव प्रयोगो दृष्टः, व्युत्पत्ता तु कथं व्युत्पद्यते ? इति वाच्यम् । श्रोतृव्यवहारो हि मूलं बालानां व्युत्पत्तेः । श्रोतुर्ज्ञानान्तरानिमित्ततापरिशुद्धः शब्दसामर्थ्यावगमहेतुः । अतो प्रतिपत्तुर्ज्ञानान्तरासिद्धार्थावबोधकत्वं सामर्थ्यावगमकालेऽवगतम् । तेनानवगम्यैव तद्विषयं ज्ञानं सामर्थ्यावगमः, यथाऽवगमं विज्ञानोत्पत्तिः । यदा पुनर्व्युत्पन्नः स्वयं प्रयुयुक्षते परप्रतिपत्तये, तदा ज्ञानान्तरसन्निधापितं स्वसाक्षिकं विवक्षन् सामर्थ्यावगमकालेऽपि तयोः सत्तां प्रतिपद्यते केवलं, ज्ञानोत्पत्तौ तयोरुपयोगम् । तस्मान्न शब्दस्य प्रमाणान्तरगृहीतार्थप्रकाशने सामर्थ्यं व्युत्पत्तिकालेऽवगतं, किन्तु चक्षुरादिवदन्यनिरपेक्षो यथावगतसामर्थ्यश्च शब्दो विज्ञानं जनयति । तस्मान्न प्रमेयस्य प्रत्यक्षादिविषयत्वं शब्दस्य विज्ञानजनन उपयुज्यते । अपि चापौरुषेये शब्दे चक्षुषीव विज्ञानोत्पत्तावनपेक्षे कथमप्रामाण्यमाशङ्क्येत ? ननु उक्तमाशङ्काकारणं स्पर्शनगोचरचित्रनिम्नोन्नतविषयस्य चाक्षुषस्य प्रत्ययस्य तत्संवादाभावादप्रमाणत्वं, तत्साधूक्तम् ; अदुष्टकरणत्वादस्य, तस्य तदभावात् । तथाहि शब्दस्तावदपौरुषेयत्वाददुष्टः । प्रमेयस्य पुनर्ज्ञानहेतुत्वे प्रमाणमस्ति ; शब्दस्यैव तदेकनिष्ठत्वेन तन्नियमात् , चित्रस्य तु चाक्षुषज्ञाने सामग्र्यन्तःपातिनः श्यामादिरेखासन्निवेशविशेषो दोषः ; तदभावे तिमिराभाव इव सम्यग्दर्शनोत्पत्तेः । अतः प्रवर्तमानमपि प्रमाणं संवादकमेव, इति नाप्रामाण्यमावहति । संवादलक्षणं प्रामाण्यम् , अपि तु बोधलक्षणमिति प्रमाणविदां स्थितिः । अतो यथैव विधिवाक्यानां स्वार्थमात्रे प्रामाण्यम् , एवं स्वरूपवाक्यानामपि ; अनवगतार्थपरिच्छेदसामान्यात्

ननु विधिवाक्यानामेव प्रामाण्यं युक्तम् ; क्रियार्थत्वादाम्नायस्य, ; इतरेतराश्रयत्वात् । विधिवाक्यानामेव हि प्रामाण्ये सिद्धे क्रियार्थत्वमाम्नायस्य सिद्ध्येत् , क्रियार्थत्वे सिद्धे तेषामेव प्रामाण्यमितीतरेतराश्रयत्वं स्यात् , ह्येकमप्यन्यतः सिद्धम् ; अतो यदवगमयत्याम्नायस्तदर्थः सः । तस्माद् यथाकार्यमवगमयन्स्तदर्थः, एवमैकात्म्यमप्यवगमयंस्तदर्थो भवितुमर्हति । प्रतीतिकृतत्वात्प्रामाण्यस्य, प्रतीतिस्तु कार्यैकात्म्ययोस्तुल्या । प्रत्यक्षादिष्वप्येतदेव प्रमाणवृत्तं, यदनवगतमवगम्यते

आहयुक्तं प्रत्यक्षादीनां तावत् प्रामाण्यम् ; अपेक्षान्तराभावात् , आम्नायस्य त्वध्ययनविधिनोपादापितस्य पुनः पुरुषार्थमप्राप्य पर्यवसानं लभ्यते ; विधानानर्थक्यप्रसङ्गात् । तस्मादैकात्म्यवाक्यानां स्वार्थमात्रनिष्ठता युक्ता ; उच्यते, पुरुषो ह्येतावदपेक्षते, इष्टं मे स्यादनिष्टं मे मा भूदिति, त्वित्थमन्यथा वेति । चास्य स्वयमीष्टे । द्विविधं चेष्टं प्रेप्सति, किञ्चित्प्राप्यम् ; यथा ग्रामादि । किञ्चित्प्राप्तमपि ; यथा भ्रान्त्या हस्तगतमेव विस्मृतसुवर्णादि । अनिष्टमपि द्विविधं परिजिहीर्षति किञ्चित् परिहार्यंयथागर्तादि किञ्चित्परिहृतमपि ; भ्रान्त्या यथा रज्ज्वादि सर्पादिबुद्धिगृहीतम् । तत्र प्राप्यपरिहार्ययोः साधनज्ञानायत्तत्वात्पुरुषार्थस्य विधिप्रतिषेधावर्थवन्तौ । इतरयोस्तावद् भ्रान्तिमात्रव्यवहितत्वान्न तदपनयादन्यत् पुरुषार्थत्वेनापेक्षते । तदपनयश्च तत्त्वज्ञानाद् भवति नान्यथा । एवमपि लभ्यमानं पुरुषार्थमनुमन्यत एव पुरुषः, सुतरां चाभिनन्दति । सधनायत्तो ह्यायासाल्लभ्येत, ज्ञानायत्ते त्वायासोऽपि परिह्रियते । तेनानेकानर्थकलुषितमिवात्मानं मन्यमानस्य भ्रान्तस्य सर्वानर्थशून्यात्मतत्त्वप्रतिपादनादेव पुरुषार्थसिद्धेरैकात्म्यवाक्यानां स्वार्थमात्रनिष्ठत्वेऽपि विध्यानर्थक्यप्रसङ्गः । तस्मात् सिद्धं ब्रह्मणः शास्त्रप्रमाणत्वम्

इति परमहंसपरिव्राजकादि - श्रीशङ्करभगवत्पादान्तेवासिवर - श्रीपद्मपादाचार्यकृतौ पञ्चपादिकायां वेदान्तानां ब्रह्मणि समन्वयनिरूपणं नामाष्टमं वर्णकं समाप्तम् ॥

अथ नवमं वर्णकम्

अत्रापरे प्रत्यवतिष्ठन्ते

यद्यपि शास्त्रेण प्रमीयते ब्रह्म ; तथाऽपि विधिसंस्पर्शिना, तद्रहितेन । कस्मादेवम् ? अन्यथा शब्दप्रयोगानुपपत्तेः । पुरुषेच्छासमुत्थापितो हि शब्दप्रयोगः । सा चेष्टानिष्टप्राप्तिपरिहारविषया । पारम्पर्येणापि सुखदुःखे विहायेष्टानिष्टे सम्भवतः । विस्मृतसुवर्णारोपितसर्परशनाप्रतिपत्ताविव तदनन्तरं शास्त्रादपि ब्रह्मात्मप्रतिपत्तौ सुखावाप्तिर्दुःखपरिहारश्च दृश्यते ; पूर्ववत् संसारित्वोपलब्धेः, प्रतीत्युत्तरकालं ध्यानोपदेशात् । तस्मात् सन्तु नाम लोके विधिरहितान्यपि पुरुषार्थपर्यन्तानि वाक्यानि, वेदे तु तद्रहितानां तत्पर्यन्तता । तस्माद् यद्यपि जिज्ञास्यवैलक्षण्यं धर्मब्रह्मजिज्ञासयोः सिद्धसाध्यविषयत्वेन ; तथाऽपि सोऽन्वेष्टव्यः’ (छा. उ. ८-७-१) विजिज्ञासितव्यः’ (छा. उ. ८-७-१) इत्यादि विधिषु कोऽसावात्मेत्याकाङ्क्षायां सर्व एव ब्रह्मस्वरूपपरः पदसमन्वयस्तत्समर्पकत्वेनोपयुक्तः, स्वतन्त्रमेव ब्रह्म प्रतिपादयितुमलम् । अतो विधीयमानज्ञानकर्मकारकत्वेनैव ब्रह्म प्रतिपाद्यत इतियः पुनःतस्मात् प्रतिपत्तिविधिविषयतयैव शास्त्रप्रमाणकं ब्रह्माभ्युपगन्तव्यमि’ति भाष्ये पूर्वपक्षोपसंहारः, तत्र प्रतिपत्तिशब्दः सर्व एव मनोव्यापारः प्रमाणात्मक इतरो वा ब्रह्मसंस्पर्शित्वेन विधेयः कैश्चित् कथञ्चित् कल्पितः, तस्य सर्वस्य सङ्ग्रहार्थो द्रष्टव्यः

अत्रोच्यते, किमिदं ज्ञानं ब्रह्मकर्मकं विधीयते ? तावच्छब्दजन्यम् । स्वाध्यायपाठादेव तत्सिद्धेः, अथ शब्दजन्यस्यैव ज्ञानस्याभ्यासो विधीयत इति, तस्य प्रयोजनं पश्यामःननु इष्टविषयस्य ज्ञानसन्तानस्य सुखसन्तानहेतुत्वं दृश्यते, यद्येवं तद्वदेव विध्यानर्थक्यम् । अथ पुनः साक्षात्करणाय ज्ञानसन्तानविधिरुच्यते, नैतद्युक्तम् ; हि दृष्टाधिकारो विधिरसम्भावितदृष्टफलो भवति । हि लैङ्गिकोऽर्थो लिङ्गजन्मनैव ज्ञानेन सहस्रशोऽप्यभ्यस्यमानेन साक्षात्क्रियते । मा भूत् शाब्दज्ञानादेवाभ्यस्यमानात्साक्षाद्भावः, तज्जन्मनो ज्ञानान्तराद्भविष्यति, नेत्थम्भावे प्रमाणमस्ति

अस्तु तर्हि शब्दात् प्रतिपन्नस्य यथाप्रतिपत्ति ध्यानं नाम मनोव्यापारो विधीयत इति, किमर्थं तस्य विधानम् ? ध्येयसाक्षात्काराय चेत् , तस्य सम्भवः । हि परोक्षं ध्यायमानं साक्षाद्भावमापद्यमानं दृष्टम् । ननु दृष्टं परोक्षमपि ध्यायमानं साक्षाद्भावमापन्नं कामाद्युपप्लवे, मैवम् ; तद् ध्यायमानम् , अपित्वविद्यात्मकम् , अन्यथा बाधो भवेत्

ननुद्रष्टव्यःइति दर्शनमनूद्यनिदिध्यासितव्यःइति ध्यानं दर्शनफलं विधीयते, उक्तमेतद् दृष्टाधिकारो विधिरसम्भावितदृष्टफलो भवतीति । हि ध्यानं ध्येयसाक्षाद्भावहेतुः क्वचिद् दृष्टम् । अथापि भवतु नाम ध्यानाद् ध्येयसाक्षाद्भावो ध्येयस्य तथात्वे किं प्रमाणम् ? शब्दस्तावत्साक्षात्करणोपायोपासनविधाने पर्यवसितो तत्सद्भावे, सत्यम् ; तथाऽपि तत्त्वं सिध्यति वक्ष्यमाणेन देवताविग्रहवत्त्वन्यायेन । विषम उपन्यासः तत्र हि तथात्वे साधकं बाधकं वेति प्रतीतिशरणैस्तथाऽभ्युपेयते ; तथेह सर्वस्यात्मत्वे ; प्रत्यक्षादिविरोधात् , आरोपितरूपेणापि ध्यानोपपत्तेः । पूर्वोक्तेष्वपि ज्ञानविधिपक्षेष्वनयैव दिशा वस्तुतथात्वसिद्धिर्निराकार्या

यत्पुनः कैश्चिदुच्यतेशाब्दज्ञानादन्यदेव ज्ञानान्तरमलौकिकं वेदान्तेषु कर्तव्यत्वेन विधीयत इति, तत्र वदामः, तत्पुनः किंसाधनं किङ्कर्म चेति वक्तव्यम् । ह्यनवगतकर्मकारकं ज्ञानं विधातुं शक्यम् ; अवगते तस्मिन् विधानानर्थक्यम् । साधनमपि विहितम् ; तेन विना साकाङ्क्षं वचनमनर्थकं भवेत् । ‘तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ती’त्यादिना वचनेन साधनं वेदानुवचनादि विहितमेवेति चेत् , प्रमाणान्तरस्य तर्हि प्रमाणं शब्दो नात्मतत्त्वस्य, नैतदुपपद्यते ; कार्यगम्यं हि प्रामाण्यं विधिगम्यम् । तदुक्तम् — ‘गुणाद्वाऽप्यभिधानं स्यात्सम्बन्धस्याशास्त्रहेतुत्वादि’ति । तदेवमयुक्तमेतत् , विधिसमन्वये शास्त्रप्रमाणत्वं ब्रह्मणः

अथापिअथ यदतः परो दिवो ज्योतिरि’ति प्रपञ्चातिरिक्तब्रह्माभ्युपगमे देवताविग्रहवत्त्वन्यायसम्भवात् मोक्षकामस्य ब्रह्मोपासनं विधीयते, तथा श्रुतिःविद्यया तदारोहन्ती’ति, साध्यत्वेऽप्यन्तवत्त्वम् ; शब्दगम्यत्वादनावृत्तेः पुनरावर्तते’ (छा. उ. ८-५-१) इति । ह्येष तर्कगम्यः, येन तर्केणास्य तत्त्वं व्यवस्थाप्येत, शब्दगम्यस्य तु शब्दादेव तत्त्वव्यवस्थेति मन्वानस्योत्तरमाह भाष्यकारः

कर्मब्रह्मविद्याफलयोर्वैलक्षण्यादिति

वस्तुसङ्ग्रहवाक्यमेतत् ।

अस्यैव प्रपञ्चः

अतो कर्तव्यशेषत्वेन ब्रह्मोपदेशो युक्त इत्येतदन्तं भाष्यम्

अस्याममर्थःसङ्क्षेपतः श्रुतितो न्यायतश्च मोक्षस्य नित्यसिद्धत्वप्रतीतेर्न क्रियासाध्यो मोक्ष इति । कथम् ? यदि सन्ध्योपासनवन्मानसं ब्रह्मकर्मकमुपासनं नाम धर्मो मोक्षफलः स्वर्गादिफलयागवद्विधीयते, तथा सति शरीरवतैव तत्फलं भोक्तव्यम् इति अशरीरं वाव सन्तं प्रियाप्रिये स्पृशतः’ (छा. उ. ८-१२-१) इत्यशरीरमोक्षानुवादो योग्यप्रियाप्रियस्पर्शनाभावानुवादश्च निरालम्बनौ स्याताम् । चाशरीरत्वमेव धर्मकार्यम् ; स्वाभाविकत्वात्तस्य । तेनानुष्ठेयविलक्षणं मोक्षाख्यमशरीरत्वं स्वभावसिद्धं नित्यमिति सिद्धम्

तथापि कथञ्चित्परिणामि नित्यं स्यात् , स्यादपि कदाचिद्धर्मकार्यम् । इदन्तु कूटस्थनित्यं ब्रह्म जिज्ञास्यत्वेन प्रक्रान्तं, यत्स्वरूपावगमो जीवस्य मोक्षोऽभिप्रेयते । तत्र यदि हस्तगतविस्मृतसुवर्णादिवद् भ्रान्तिमात्रव्यवहितं मोक्षं प्रत्याख्याय, ब्रह्मविषयध्यानक्रियातो देवताविषययागादिवत्प्रीतिविशेषो भोग्यो मोक्षः कल्प्येत, ततस्तेष्वेव तारतम्यावस्थितेषु यागफलेष्वयमपि तथाभूतः स्यात् । ततः तद्यथेह कर्मचितो लोकः क्षीयते, एवमेवामुत्र पुण्यचितो लोकः क्षीयते’ (छा. उ. ८-१-६) इति लिङ्गदर्शनोपबृंहितन्यायावगतानित्यत्वो मोक्षः प्रसज्येत ।

तथाभ्युपगमो मोक्षवादिनाम् ।

अतो कर्तव्यशेषत्वेन ब्रह्मोपदेशो युक्त इत्युपसंहारः

यत्पुनः पुनरावर्तते’ (छा. उ. ८-५-१) इति शास्त्रावगतं नित्यत्वं तर्केणापनेतुं युक्तमिति, तदयुक्तम् ; वर्तमानापदेशत्वेन तथाभावे प्रमाणापेक्षणात् । कार्यस्य नित्यत्वे प्रमाणमस्ति ; परमाणूनां पाकजो गुणो नित्यत्वे नोदाहरणम् ; प्रक्रियामात्रसिद्धत्वात् । किं तेषामिह पुनरावृत्तिः ; ‘इमं मानवमावर्तं नावर्तन्तेइति श्रुतिरिहेममिति विशेषणादस्मिन् कल्पेऽनावृत्तिं दर्शयति, नानवधिकामनावृत्तिम् । अपि अभ्युपेत्य ब्रह्मणः क्रियानुप्रवेशं मोक्षस्यानित्यत्वदोष उक्तः, तु क्रियानुप्रवेशं क्षमते वेदान्तवाक्यगतः पदसमन्वयः । तथा ब्रह्म वेद ब्रह्मैव भवती’त्याद्याः श्रुतयो ब्रह्मविद्यानन्तरं मोक्षं दर्शयन्त्यो मध्ये कार्यान्तरं वारयन्ति ; वेदनब्रह्मभवनयोरेककालत्वनिर्देशात् । अतो विदितस्य क्रियायां विनियोगः । तथा तद्धैतत्पश्यन्नृषिर्वामदेवः प्रतिपेदे’ (बृ. उ. १-४-१०) इति ब्रह्मदर्शन सर्वात्मभावयोरेककालत्वनिर्देशाद् मध्ये क्रियान्तरं वारयति पश्यन्निति शतृप्रत्ययः ; ‘लक्षणहेत्वोः क्रियायाःइति क्रियाया हेतुभूताद्धातोः शतृप्रत्ययस्मरणात् , क्रियायाश्चाव्यवहिते हेतुमति हेतुत्वात् । यथातिष्ठन् गायती’ति तिष्ठतिगायत्योर्मध्ये क्रियान्तराभावः प्रतीयते, तद्वत् । अत्र स्थितिक्रियासामर्थ्यादेव गीतिक्रियानिर्वृत्तिः, अपि तु प्रयत्नान्तरात् । शब्दतो तयोर्मध्ये क्रियान्तरप्रतीतिरित्येतावतोदाहरणम् । इह पुनर्न सर्वात्मभावस्य ब्रह्मदर्शनातिरेकेण प्रयत्नान्तरापेक्षा विद्यते

किं तस्मै मृदितकषायाय तमसः पारं दर्शयती’त्याद्याः श्रुतयस्तमसो मिथ्याज्ञानस्य मोक्षव्यवधायिनोऽपनयनमात्रं दर्शयन्ति, मोक्षं क्रियासाध्यम् । इतश्चैतदेवम् , अन्येऽपि न्यायविदो मिथ्याज्ञानापाये तदनन्तरं दुःखाभावं निर्वाणं दर्शयन्ति मिथ्याज्ञानापायश्च ब्रह्मात्मैकत्वविज्ञानाद्भवति, क्रियातः । कथं गम्यते ? इन्द्रो मायाभिः पुरुरूप ईयते’ (बृ. उ. २-५-१९) इति मिथ्यैव भेदावभासः, तस्य प्रतिपक्षादभेदावभासादपनय इति गम्यते

अथापि स्यान्नैकत्वविज्ञानं यथावस्थितवस्तुविषयं, येन मिथ्यारूपं भेदावभासं निवर्तयेत् , अपि तु सम्पदादिरूपम् ; विधितः पुरुषेच्छया कर्तव्यमिति । सम्पन्नामाल्पमपि वस्त्वालम्बनीकृत्य केनचित्सामान्येन दर्शनमात्रान्महद्वस्तुसम्पादनम् । ततश्च तत्फलावाप्तिः, फलस्यैव वा सम्पादनं ; यथा मनसो वृत्त्यनन्तत्वसामान्येनानन्तविश्वदेवसम्पादनं कृत्वाऽनन्तलोकजयः । एवं जीवस्य चिद्रूपसामान्येन ब्रह्मरूपसम्पादनं कृत्वा ब्रह्मफलमवाप्यत इति । अध्यासस्वब्रह्मणि मन आदित्यादौ ब्रह्मदृष्ट्योपासनं, जीवस्यापि ब्रह्मदृष्ट्योपासनम् । सम्पाद्य आलम्बनमविद्यमानसमं कृत्वा सम्पाद्यमानस्यैव प्राधान्येन मनसाऽनुचिन्तनम् , अध्यासे त्वालम्बनस्यैव प्राधान्येनानुचिन्तनं, क्रियायोगो वायोरग्न्यादीनां सम्हरणात्संवर्गगुणत्वेनोपासनम् । एवं जीवस्य स्वगतेन बृंहत्यर्थयोगेन ब्रह्मेत्युपासनम् । कार्यान्तरेण गुणभूतस्य ब्रह्मदृष्टिः संस्कार आज्यस्येवावेक्षणम्अत्रोत्तरम्

सम्पदादिरूपे हीत्यादि

तथा सति तत्त्वमस्यादिवाक्यानां निरुपचरितब्रह्मात्मैकत्वावगमपरः पदसमन्वयो विना कारणेन स्वेच्छामात्रेण सम्पदादिपरः परिकल्प्येत । तदवगमनिमित्तं मिथ्याज्ञानापायपूर्विका विस्मृतहस्तगतसुवर्णावाप्तिवद्ब्रह्मावाप्तिः फलमनुभवारूढमपह्नूयेत । ‘नेह नानास्ति किञ्चने’ति भेदाभावश्रुतिरुपरुद्ध्येत । तस्मान्न सम्पदादिवत्पुरुषव्यापारतन्त्रा ब्रह्मविद्या, किन्तु प्रत्यक्षादिजनितज्ञानवदपरामृष्टहानोपादानवस्तुस्वरूपमात्रनिष्ठेत्यभ्युपगन्तव्यम्तत्रेवं सति कथं ब्रह्म प्रतिपत्युत्तरकालं कर्मकारकतां नीयेत ? तत्तज्ज्ञानं वा तदधिगमफलपर्यन्तं सद् विधिविषयो भवेत् ? अतो मिथ्यैव भेदावभासः । तस्य प्रतिपक्षादभेदावभासादपनयः । तस्माद् मिथ्याज्ञाननिवृत्तिमात्रं मोक्ष इति श्रुतिन्यायाभ्यां सिद्धम्

ननु विधिक्रियाकर्म तावद्भवति ब्रह्म, ततः क्रियासम्बन्धे सम्भाविते भवति विधेरवसर इत्याशङ्क्याह

विधिक्रियाकर्मत्वेनेत्यादि