साहाय्यम्

अद्वैतशारदानामकस्य अस्य अन्तर्जालपुटकस्य आविष्करणसन्दर्भे प्रस्थानत्रयभाष्यमात्रं उपलभ्यमानमासीत् । संप्रति अद्वैतशारदायाः भाष्यव्याख्याप्रकरणादिवाङ्मयसंवर्धितायाः तृतीया परिष्कृता आवृत्तिः विदुषां पुरस्तात् समर्प्यते । अस्य अंतर्जालपुटकस्य उपयोगसौलभ्यार्थं अनुसरणीयाः अंशाः प्रदर्श्यन्ते-

  • मुखपुटे उपरि 'मुख्यपृष्ठं', 'अनुग्रहसन्देशः', 'ग्रन्थाः', 'अन्वेषणम्' इति विभागचतुष्टयं दृश्यते । द्वितीये गुरुणां अनुग्रहः तेषां ध्वनिश्च श्रूयते ।
  • मुखपुटे 'ग्रन्थाः' इति विभागे सम्प्रति योजितानां ग्रन्थानां द्राग्दर्शनं (Quick view) उपलभ्यते ।
  • 'अन्वेषणम्' इति विभागे वाक्यानां टङ्कनेन अपेक्षितग्रन्थेषु ते़षां सन्दर्भम् अन्वेषितुं शक्नुमः ।
  • अत्र संयोजितानां सर्वेषां ग्रन्थानां अध्याय-अधिकरणादयो विभाग-प्रविभागाः पृष्ठस्य दक्षिणपार्श्वे परिदृश्यन्ते । तद्द्वारा अपेक्षितग्रन्थभागाः द्रष्टुं शक्याः । ते च विभागाः एकस्मिन् ग्रन्थे नैकविधाः अपि भवितुमर्हन्ति, यथा - सूत्रभाष्ये अध्यायक्रमः,अधिकरणक्रमः, सूत्रक्रमः इत्यादिः ।
  • ग्रन्थभागे उदाहृतानि ग्रन्थान्तरवाक्यानि 'उल्लेखः' इति विभागे संगृहीतानि । तत्र उपलभ्यमानवाक्यद्वारा ग्रन्थे तेषां ससंदर्भम् उपयोगं द्रष्टुं शक्नुमः ।
  • ग्रन्थे उदाहृतानि वर्णान्तरे परिदृश्यमानानि सूत्र-श्रुतिवाक्यादीनि स्वमूलग्रन्थं स्वद्द्वारा प्रापयितुमर्हन्ति ।
  • स्वमूलग्रन्थानुरोधेन विरचिताः भाष्यवार्तिकादयः ग्रन्थभागाः उत्सर्गतः संकुचिताः, अपेक्षानुरोधेन (निर्दिष्टचिह्नद्वारा) विकसनशीलाश्च भवन्ति ।
  • ग्रन्थस्य व्याख्याभागं मूलानुसारेण मूलस्य अधस्तात् अथवा पार्श्वे द्रष्टुं व्यवस्थाविकल्पः कल्पितः ।
  • ग्रन्थस्य शीर्षिकायाः पृष्ठभूमिकायां विद्यमानेन वर्णेन भाष्यव्याख्यादिरूपेण ग्रन्थविभागः सुलभतया ज्ञातुं शक्यः । उदाहरणं प्रस्थानत्रयभाष्यस्य पृष्ठभूमिका रक्तवर्णेन रञ्जिता, तद्व्याख्यासु नीलवर्णेन ।

विद्वांसः इमान् अंशान् मनसि निधाय सौकर्यातिशयं प्राप्नुवन्तु इति आशास्महे ।

संकेताक्षरसूची

  • आ. ध. सू. : आपस्तम्बधर्मसूत्रम्
  • आप.श्रौ.सू. : आपस्तम्बश्रौतसूत्रम्
  • ई. उ. : ईशावास्योपनिषत्
  • ई. मा. : ईशावास्योपनिषत् (माध्यन्दिनशाखा)
  • उद्यो. : उद्योगपर्व (महाभारतम्)
  • ऋ. : ऋग्वेदः
  • ऐ. उ. : ऐतरेयोपनिषत्
  • ऐ. आ. : ऐतरेयारण्यकम्
  • ऐ. ब्रा. : ऐतरेयब्राह्मणम्
  • क. उ. : कठोपनिषत्
  • के. उ. : केनोपनिषत्
  • कौ. ब्रा. : कौशीतकिब्राह्मणम्
  • गौ. ध. : गौतमधर्मसूत्रम्
  • छा. उ. : छान्दोग्योपनिषत्
  • जा. उ. : जाबालोपनिषत्
  • जै. सू. : जैमिनिसूत्रम्
  • तै. उ. : तैत्तिरीयोपनिषत्
  • तै. आ. : तैत्तिरीयारण्यकम्
  • तै. ना. : तैत्तिरीय
  • तै. ब्रा. : तैत्तिरीयब्राह्मणम्
  • तै. स. : तैत्तिरीयसंहिता
  • नि. : निरुक्तम्
  • पा. सू. : पाणिनिसूत्रम्
  • प्र. उ. : प्रश्नोपनिषत्
  • बृ. उ. : बृहदारण्यकोपनिषत्
  • बृ. मा. : बृहदारण्यकोपनिषत् (माध्यन्दिनशाखा)
  • भ. गी. : भगवद्गीता
  • भीष्म. : भीष्मपर्व (महाभारतम्)
  • मनु. : मनुस्मृतिः
  • महाभा. आ. : आदिपर्व (महाभारतम्)
  • मा. उ. : माण्डूक्योपनिषत्
  • मा. का. : माण्डूक्यकारिका
  • मु. उ. : मुण्डकोपनिषत्
  • मो. ध. : मोक्षधर्मपर्व (महाभारतम्)
  • यास्क. नि. : यास्कनिरुक्तम्
  • यो. सू. : योगसूत्रम्
  • व. : वसिष्ठस्मृतिः
  • वि. पु. : विष्णुपुराणम्
  • श. ब्रा. : शतपथब्राह्मणम्
  • शा. भा. : शाबरभाष्यम्
  • श्वे. उ. : श्वेताश्वतरोपनिषत्
  • सां. का. : सांख्यकारिका
© 2023 – 2027. All Rights Reserved by Dakshinamnaya Sri Sharada Peetham, Sringeri