परिसमाप्तं कर्म सहापरब्रह्मविषयविज्ञानेन । सैषा कर्मणो ज्ञानसहितस्य परा गतिरुक्थविज्ञानद्वारेणोपसंहृता । एतत्सत्यं ब्रह्म प्राणाख्यम् । एष एको देवः । एतस्यैव प्राणस्य सर्वे देवा विभूतयः । एतस्य प्राणस्यात्मभावं गच्छन् देवता अप्येति इत्युक्तम् । सोऽयं देवताप्ययलक्षणः परः पुरुषार्थः । एष मोक्षः । स चायं यथोक्तेन ज्ञानकर्मसमुच्चयेन साधनेन प्राप्तव्यो नातः परमस्तीत्येके प्रतिपन्नाः । तान्निराचिकीर्षुरुत्तरं केवलात्मज्ञानविधानार्थम् ‘आत्मा वा इदम्’ इत्याद्याह । कथं पुनरकर्मसम्बन्धिकेवलात्मविज्ञानविधानार्थ उत्तरो ग्रन्थ इति गम्यते ? अन्यार्थानवगमात् । तथा च पूर्वोक्तानां देवतानामग्न्यादीनां संसारित्वं दर्शयिष्यत्यशनायादिदोषवत्त्वेन
‘तमशनायापिपासाभ्यामन्ववार्जत्’ (ऐ. उ. १ । २ । १) इत्यादिना । अशनायादिमत्सर्वं संसार एव परस्य तु ब्रह्मणोऽशनायाद्यत्ययश्रुतेः । भवत्वेवं केवलात्मज्ञानं मोक्षसाधनम् , न त्वत्राकर्म्येवाधिक्रियते ; विशेषाश्रवणात् । अकर्मिण आश्रम्यन्तरस्येहाश्रवणात् । कर्म च बृहतीसहस्रलक्षणं प्रस्तुत्य अनन्तरमेवात्मज्ञानं प्रारभ्यते । तस्मात्कर्म्येवाधिक्रियते । न च कर्मासम्बन्ध्यात्मविज्ञानम् , पूर्ववदन्ते उपसंहारात् । यथा कर्मसम्बन्धिनः पुरुषस्य सूर्यात्मनः स्थावरजङ्गमादिसर्वप्राण्यात्मत्वमुक्तं ब्राह्मणेन मन्त्रेण च
‘सूर्य आत्मा’ (ऋ. सं. १ । ११५ । १) इत्यादिना, तथैव
‘एष ब्रह्मैष इन्द्रः’ (बृ. उ. ३ । १ । ३) इत्याद्युपक्रम्य सर्वप्राण्यात्मत्वम् ।
‘यच्च स्थावरम् , सर्वं तत्प्रज्ञानेत्रम्’ (बृ. उ. ३ । १ । ३) इत्युपसंहरिष्यति । तथा च संहितोपनिषत् —
‘एतं ह्येव बह्वृचा महत्युक्थे मीमांसन्ते’ (ऐ. आ. ३ । २ । ३ । १२) इत्यादिना कर्मसम्बन्धित्वमुक्त्वा ‘सर्वेषु भूतेष्वेतमेव ब्रह्मेत्याचक्षते’ इत्युपसंहरति । तथा तस्यैव ‘योऽयमशरीरः प्रज्ञात्मा’ इत्युक्तस्य ‘यश्चासावादित्य एकमेव तदिति विद्यात्’ इत्येकत्वमुक्तम् । इहापि
‘कोऽयमात्मा’ (ऐ. उ. ३ । १ । १) इत्युपक्रम्य प्रज्ञात्मत्वमेव
‘प्रज्ञानं ब्रह्म’ (ऐ. उ. ३ । १ । ३) इति दर्शयिष्यति । तस्मान्नाकर्मसम्बन्ध्यात्मज्ञानम् । पुनरुक्त्यानर्थक्यमिति चेत् — ‘प्राणो वा अहमस्म्यृषे’ इत्यादिब्राह्मणेन ‘सूर्य आत्मा’ इति च मन्त्रेण निर्धारितस्यात्मनः ‘आत्मा वा इदम्’ इत्यादिब्राह्मणेन
‘कोऽयमात्मा’ (ऐ. उ. ३ । १ । १) इति प्रश्नपूर्वकं पुनर्निर्धारणं पुनरुक्तमनर्थकमिति चेत् , न ; तस्यैव धर्मान्तरविशेषनिर्धारणार्थत्वान्न पुनरुक्ततादोषः । कथम् ? तस्यैव कर्मसम्बन्धिनो जगत्सृष्टिस्थितिसंहारादिधर्मविशेषनिर्धारणार्थत्वात् केवलोपास्त्यर्थत्वाद्वा ; अथवा, आत्मेत्यादिः परो ग्रन्थसन्दर्भः आत्मनः कर्मिणः कर्मणोऽन्यत्रोपासनाप्राप्तौ कर्मप्रस्तावेऽविहितत्वाद्वा केवलोऽप्यात्मोपास्य इत्येवमर्थः । भेदाभेदोपास्यत्वाच्च ‘एक एवात्मा’ कर्मविषये भेददृष्टिभाक् । स एवाकर्मकाले अभेदेनाप्युपास्य इत्येवमपुनरुक्तता ॥
‘विद्यां चाविद्यां च यस्तद्वेदोभयं सह । अविद्यया मृत्युं तीर्त्वा विद्ययामृतमश्नुते’ (ई. उ. ११) इति
‘कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः’ (ई. उ. २) इति च वाजिनाम् । न च वर्षशतात्परमायुर्मर्त्यानाम् , येन कर्मपरित्यागेन आत्मानमुपासीत । दर्शितं च ‘तावन्ति पुरुषायुषोऽह्नां सहस्राणि भवन्ति’ इति । वर्षशतं चायुः कर्मणैव व्याप्तम् । दर्शितश्च मन्त्रः ‘कुर्वन्नेवेह कर्माणि’ इत्यादिः ; तथा ‘यावज्जीवमग्निहोत्रं जुहोति’ ‘यावज्जीवं दर्शपूर्णमासाभ्यां यजेत’ इत्याद्याश्च ; ‘तं यज्ञपात्रैर्दहन्ति’ इति च । ऋणत्रयश्रुतेश्च । तत्र हि पारिव्राज्यादिशास्त्रम्
‘व्युत्थायाथ भिक्षाचर्यं चरन्ति’ (बृ. उ. ३ । ५ । १)(बृ. उ. ४ । ४ । २२) इत्यात्मज्ञानस्तुति - परोऽर्थवादोऽनधिकृतार्थो वा । न, परमार्थात्मविज्ञाने फलादर्शने क्रियानुपपत्तेः — यदुक्तं कर्मिण एव चात्मज्ञानं कर्मसम्बन्धि चेत्यादि, तन्न ; परं ह्याप्तकामं सर्वसंसारदोषवर्जितं ब्रह्माहमस्मीत्यात्मत्वेन विज्ञाने, कृतेन कर्तव्येन वा प्रयोजनमात्मनोऽपश्यतः फलादर्शने क्रिया नोपपद्यते । फलादर्शनेऽपि नियुक्तत्वात्करोतीति चेत् , न ; नियोगाविषयात्मदर्शनात् । इष्टयोगमनिष्टवियोगं वात्मनः प्रयोजनं पश्यंस्तदुपायार्थी यो भवति, स नियोगस्य विषयो दृष्टो लोके, न तु तद्विपरीतनियोगाविषयब्रह्मात्मत्वदर्शी । ब्रह्मात्मत्वदर्श्यपि संश्चेन्नियुज्येत, नियोगाविषयोऽपि सन्न कश्चिन्न नियुक्त इति सर्वं कर्म सर्वेण सर्वदा कर्तव्यं प्राप्नोति । तच्चानिष्टम् । न च स नियोक्तुं शक्यते केनचित् । आम्नायस्यापि तत्प्रभवत्वात् । न हि स्वविज्ञानोत्थेन वचसा स्वयं नियुज्यते । नापि बहुवित्स्वामी अविवेकिना भृत्येन । आम्नायस्य नित्यत्वे सति स्वातन्त्र्यात्सर्वान्प्रति नियोक्तृत्वसामर्थ्यमिति चेत् , न ; उक्तदोषात् । तथापि सर्वेण सर्वदा सर्वमविशिष्टं कर्म कर्तव्यमित्युक्तो दोषोऽप्यपरिहार्य एव । तदपि शास्त्रेणैव विधीयत इति चेत् — यथा कर्मकर्तव्यता शास्त्रेण कृता, तथा तदप्यात्मज्ञानं तस्यैव कर्मिणः शास्त्रेण विधीयत इति चेत् , न ; विरुद्धार्थबोधकत्वानुपपत्तेः । न ह्येकस्मिन्कृताकृतसम्बन्धित्वं तद्विपरीतत्वं च बोधयितुं शक्यम् । शीतोष्णत्वमिवाग्नेः । न चेष्टयोगचिकीर्षा आत्मनोऽनिष्टवियोगचिकीर्षा च शास्त्रकृता, सर्वप्राणिनां तद्दर्शनात् । शास्त्रकृतं चेत् , तदुभयं गोपालादीनां न दृश्येत, अशास्त्रज्ञत्वात्तेषाम् । यद्धि स्वतोऽप्राप्तम् , तच्छास्त्रेण बोधयितव्यम् । तच्चेत्कृतकर्तव्यताविरोध्यात्मज्ञानं शास्त्रेण कृतम् , कथं तद्विरुद्धां कर्तव्यतां पुनरुत्पादयेत् शीततामिवाग्नौ, तम इव च भानौ ? न बोधयत्येवेति चेत् , न ;
‘स म आत्मेति विद्यात्’ (कौ. उ. ३ । ९) ‘प्रज्ञानं ब्रह्म’ (ऐ. उ. ३ । १ । ३) इति चोपसंहारात् ।
‘तदात्मानमेवावेत्’ (बृ. उ. १ । ४ । ९) ‘तत्त्वमसि’ (छा. उ. ६ । ८ । ७) इत्येवमादिवाक्यानां तत्परत्वात् । उत्पन्नस्य च ब्रह्मात्मविज्ञानस्याबाध्यमानत्वान्नानुत्पन्नं भ्रान्तं वा इति शक्यं वक्तुम् । त्यागेऽपि प्रयोजनाभावस्य तुल्यत्वमिति चेत्
‘नाकृतेनेह कश्चन’ (भ. गी. ३ । १८) इति स्मृतेः — य आहुर्विदित्वा ब्रह्म व्युत्थानमेव कुर्यादिति, तेषामप्येष समानो दोषः प्रयोजनाभाव इति चेत् , न ; अक्रियामात्रत्वाद्व्युत्थानस्य । अविद्यानिमित्तो हि प्रयोजनस्य भावः, न वस्तुधर्मः, सर्वप्राणिनां तद्दर्शनात् , प्रयोजनतृष्णया च प्रेर्यमाणस्य वाङ्मनःकायैः प्रवृत्तिदर्शनात् ,
‘सोऽकामयत जाया मे स्यात्’ (बृ. उ. १ । ४ । १७) इत्यादिना पुत्रवित्तादि पाङ्क्तलक्षणं काम्यमेवेति
‘उभे ह्येते साध्यसाधनलक्षणे एषणे एव’ (बृ. उ. ३ । ५ । १) इति वाजसनेयिब्राह्मणेऽवधारणात् । अविद्याकामदोषनिमित्ताया वाङ्मनःकायप्रवृत्तेः पाङ्क्तलक्षणाया विदुषोऽविद्यादिदोषाभावादनुपपत्तेः क्रियाभावमात्रं व्युत्थानम् , न तु यागादिवदनुष्ठेयरूपं भावात्मकम् । तच्च विद्यावत्पुरुषधर्म इति न प्रयोजनमन्वेष्टव्यम् । न हि तमसि प्रवृत्तस्य उदित आलोके यद्गर्तपङ्ककण्टकाद्यपतनम् , तत्किम्प्रयोजनमिति प्रश्नार्हम् । व्युत्थानं तर्ह्यर्थप्राप्तत्वान्न चोदनार्थ इति । गार्हस्थ्ये चेत्परं ब्रह्मविज्ञानं जातम् , तत्रैवास्त्वकुर्वत आसनं न ततोऽन्यत्र गमनमिति चेत् , न ; कामप्रयुक्तत्वाद्गार्हस्थ्यस्य ।
‘एतावान्वै कामः’ (बृ. उ. १ । ४ । १७) ‘उभे ह्येते एषणे एव’ (बृ. उ. ३ । ५ । १)(बृ. उ. ४ । ४ । २२) इत्यवधारणात् कामनिमित्तपुत्रवित्तादिसम्बन्धनियमाभावमात्रम् ; न हि ततोऽन्यत्र गमनं व्युत्थानमुच्यते । अतो न गार्हस्थ्य एवाकुर्वत आसनमुत्पन्नविद्यस्य । एतेन गुरुशुश्रूषातपसोरप्यप्रतिपत्तिर्विदुषः सिद्धा । अत्र केचिद्गृहस्था भिक्षाटनादिभयात्परिभवाच्च त्रस्यमानाः सूक्ष्मदृष्टितां दर्शयन्त उत्तरमाहुः । भिक्षोरपि भिक्षाटनादिनियमदर्शनाद्देहधारणमात्रार्थिनो गृहस्थस्यापि साध्यसाधनैषणोभयविनिर्मुक्तस्य देहमात्रधारणार्थमशनाच्छादनमात्रमुपजीवतो गृह एवास्त्वासनमिति ; न, स्वगृहविशेषपरिग्रहनियमस्य कामप्रयुक्तत्वादित्युक्तोत्तरमेतत् । स्वगृहविशेषपरिग्रहाभावे च शरीरधारणमात्रप्रयुक्ताशनाच्छादनार्थिनः स्वपरिग्रहविशेषभावेऽर्थाद्भिक्षुकत्वमेव । शरीरधारणार्थायां भिक्षाटनादिप्रवृत्तौ यथा नियमो भिक्षोः शौचादौ च, तथा गृहिणोऽपि विदुषोऽकामिनोऽस्तु नित्यकर्मसु नियमेन प्रवृत्तिर्यावज्जीवादिश्रुतिनियुक्तत्वात्प्रत्यवायपरिहारायेति । एतन्नियोगाविषयत्वेन विदुषः प्रत्युक्तमशक्यनियोज्यत्वाच्चेति । यावज्जीवादिनित्यचोदनानर्थक्यमिति चेत् , न ; अविद्वद्विषयत्वेनार्थवत्त्वात् । यत्तु भिक्षोः शरीरधारणमात्रप्रवृत्तस्य प्रवृत्तेर्नियतत्वम् , तत्प्रवृत्तेर्न प्रयोजकम् । आचमनप्रवृत्तस्य पिपासापगमवन्नान्यप्रयोजनार्थत्वमवगम्यते । न चाग्निहोत्रादीनां तद्वदर्थप्राप्तप्रवृत्तिनियतत्वोपपत्तिः । अर्थप्राप्तप्रवृत्तिनियमोऽपि प्रयोजनाभावेऽनुपपन्न एवेति चेत् , न ; तन्नियमस्य पूर्वप्रवृत्तिसिद्धत्वात्तदतिक्रमे यत्नगौरवादर्थप्राप्तस्य व्युत्थानस्य पुनर्वचनाद्विदुषो मुमुक्षोः कर्तव्यत्वोपपत्तिः । अविदुषापि मुमुक्षुणा पारिव्राज्यं कर्तव्यमेव ; तथा च
‘शान्तो दान्तः’ (बृ. उ. ४ । ४ । २३) इत्यादिवचनं प्रमाणम् । शमदमादीनां चात्मदर्शनसाधनानामन्याश्रमेष्वनुपपत्तेः ।
‘अत्याश्रमिभ्यः परमं पवित्रं प्रोवाच सम्यगृषिसङ्घजुष्टम्’ (श्वे. उ. ६ । २१) इति च श्वेताश्वतरे विज्ञायते ।
‘न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः’ (कैवल्य २) इति च कैवल्यश्रुतिः । ‘ज्ञात्वा नैष्कर्म्यमाचरेत्’ इति च स्मृतेः । ‘ब्रह्माश्रमपदे वसेत्’ इति च ब्रह्मचर्यादिविद्यासाधनानां च साकल्येनात्याश्रमिषूपपत्तेर्गार्हस्थ्येऽसम्भवात् । न च असम्पन्नं साधनं कस्यचिदर्थस्य साधनायालम् । यद्विज्ञानोपयोगीनि च गार्हस्थ्याश्रमकर्माणि, तेषां परमफलमुपसंहृतं देवताप्ययलक्षणं संसारविषयमेव । यदि कर्मिण एव परमात्मविज्ञानमभविष्यत् , संसारविषयस्यैव फलस्योपसंहारो नोपापत्स्यत । अङ्गफलं तदिति चेत् ; न, तद्विरोध्यात्मवस्तुविषयत्वादात्मविद्यायाः । निराकृतसर्वनामरूपकर्मपरमार्थात्मवस्तुविषयमात्मज्ञानममृतत्वसाधनम् । गुणफलसम्बन्धे हि निराकृतसर्वविशेषात्मवस्तुविषयत्वं ज्ञानस्य न प्राप्नोति ; तच्चानिष्टम् ,
‘यत्र त्वस्य सर्वमात्मैवाभूत्’ (बृ. उ. २ । ४ । १४) इत्यधिकृत्य क्रियाकारकफलादिसर्वव्यवहारनिराकरणाद्विदुषः ; तद्विपरीतस्याविदुषः
‘यत्र हि द्वैतमिव भवति’ (बृ. उ. २ । ४ । १४) इत्युक्त्वा क्रियाकारकफलरूपस्य संसारस्य दर्शितत्वाच्च वाजसनेयिब्राह्मणे । तथेहापि देवताप्ययं संसारविषयं यत्फलमशनायादिमद्वस्त्वात्मकं तदुपसंहृत्य केवलं सर्वात्मकवस्तुविषयं ज्ञानममृतत्वाय वक्ष्यामीति प्रवर्तते । ऋणप्रतिबन्धश्चाविदुष एव मनुष्यपितृदेवलोकप्राप्तिं प्रति, न विदुषः ;
‘सोऽयं मनुष्यलोकः पुत्रेणैव’ (बृ. उ. १ । ५ । १६) इत्यादिलोकत्रयसाधननियमश्रुतेः । विदुषश्च ऋणप्रतिबन्धाभावो दर्शित आत्मलोकार्थिनः
‘किं प्रजया करिष्यामः’ (बृ. उ. ४ । ४ । २२) इत्यादिना । तथा ‘एतद्ध स्म वै तद्विद्वांस आहुर्ऋषयः कावषेयाः’ इत्यादि
‘एतद्ध स्म वै तत्पूर्वे विद्वांसोऽग्निहोत्रं न जुहवाञ्चक्रुः’ (कौ. उ. २ । ५) इति च कौषीतकिनाम् । अविदुषस्तर्हि ऋणानपाकरणे पारिव्राज्यानुपपत्तिरिति चेत् ; न, प्राग्गार्हस्थ्यप्रतिपत्तेर्ऋणित्वासम्भवादधिकारानारूढोऽपि ऋणी चेत्स्यात् , सर्वस्य ऋणित्वमित्यनिष्टं प्रसज्येत । प्रतिपन्नगार्हस्थ्यस्यापि
‘गृहाद्वनी भूत्वा प्रव्रजेद्यदि वेतरथा ब्रह्मचर्यादेव प्रव्रर्जेद्गृहाद्वा वनाद्वा’ (जा. उ. ४) इत्यात्मदर्शनसाधनोपायत्वेनेष्यत एव पारिव्राज्यम् । यावज्जीवादिश्रुतीनामविद्वदमुमुक्षुविषये कृतार्थता । छान्दोग्ये च केषाञ्चिद्द्वादशरात्रमग्निहोत्रं हुत्वा तत ऊर्ध्वं परित्यागः श्रूयते । यत्त्वनधिकृतानां पारिव्राज्यमिति, तन्न ; तेषां पृथगेव ‘उत्सन्नाग्निरनग्निको वा’ इत्यादिश्रवणात् ; सर्वस्मृतिषु च अविशेषेण आश्रमविकल्पः प्रसिद्धः, समुच्चयश्च । यत्तु विदुषोऽर्थप्राप्तं व्युत्थानमित्यशास्त्रार्थत्वे, गृहे वने वा तिष्ठतो न विशेष इति, तदसत् । व्युत्थानस्यैवार्थप्राप्तत्वान्नान्यत्रावस्थानं स्यात् । अन्यत्रावस्थानस्य कामकर्मप्रयुक्तत्वं ह्यवोचाम ; तदभावमात्रं व्युत्थानमिति च । यथाकामित्वं तु विदुषोऽत्यन्तमप्राप्तम् , अत्यन्तमूढविषयत्वेनावगमात् । तथा शास्त्रचोदितमपि कर्मात्मविदोऽप्राप्तं गुरुभारतयावगम्यते ; किमुत अत्यन्ताविवेकनिमित्तं यथाकामित्वम् ? न ह्युन्मादतिमिरदृष्ट्युपलब्धं वस्तु तदपगमेऽपि तथैव स्यात् , उन्मादतिमिरदृष्टिनिमित्तत्वादेव तस्य । तस्मादात्मविदो व्युत्थानव्यतिरेकेण न यथाकामित्वम् , न चान्यत्कर्तव्यमित्येतत्सिद्धम् । यत्तु
‘विद्यां चाविद्यां च यस्तद्वेदोभयं सह’ (ई. उ. ११) इति न विद्यावतो विद्यया सहाविद्यापि वर्तत इत्ययमर्थः ; कस्तर्हि ? एकस्मिन्पुरुषे एते न सह सम्बध्येयातामित्यर्थः ; यथा शुक्तिकायां रजतशुक्तिकाज्ञाने एकस्य पुरुषस्य ।
‘दूरमेते विपरीते विषूची अविद्या या च विद्येति ज्ञाता’ (क. उ. १ । २ । ४) इति हि काठके । तस्मान्न विद्यायां सत्यामविद्यायाः सम्भवोऽस्ति ।
‘तपसा ब्रह्म विजिज्ञासस्व’ (तै. उ. ३ । २ । २) इत्यादिश्रुतेः । तपआदि विद्योत्पत्तिसाधनं गुरूपासनादि च कर्म अविद्यात्मकत्वादविद्योच्यते । तेन विद्यामुत्पाद्य मृत्युं काममतितरति । ततो निष्कामस्त्यक्तैषणो ब्रह्मविद्यया अमृतत्वमश्नुत इत्येतमर्थं दर्शनयन्नाह —
‘अविद्यया मृत्युं तीर्त्वा विद्ययामृतमश्नुते’ (ई. उ. ११) इति । यत्तु पुरुषायुः सर्वं कर्मणैव व्याप्तम् ,
‘कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः’ (ई. उ. २) इति, तदविद्वद्विषयत्वेन परिहृतम् , इतरथा असम्भवात् । यत्तु वक्ष्यमाणमपि पूर्वोक्ततुल्यत्वात्कर्मणा अविरुद्धमात्मज्ञानमिति, तत्सविशेषनिर्विशेषात्मविषयतया प्रत्युक्तम् ; उत्तरत्र व्याख्याने च दर्शयिष्यामः । अतः केवलनिष्क्रियब्रह्मात्मैकत्वविद्याप्रदर्शनार्थमुत्तरो ग्रन्थ आरभ्यते ॥
स इमांल्लोकानसृजत । अम्भो मरीचीर्मरमापोऽदोऽम्भः परेण दिवं द्यौः प्रतिष्ठान्तरिक्षं मरीचयः । पृथिवी मरो या अधस्तात्ता आपः ॥ २ ॥
एवमीक्षित्वा आलोच्य सः आत्मा इमान् लोकान् असृजत सृष्टवान् । यथेह बुद्धिमांस्तक्षादिः एवंप्रकारान्प्रासादादीन्सृजे इतीक्षित्वा ईक्षानन्तरं प्रासादादीन्सृजति, तद्वत् । ननु सोपादानस्तक्षादिः प्रासादादीन्सृजतीति युक्तम् ; निरुपादानस्त्वात्मा कथं लोकान्सृजतीति ? नैष दोषः । सलिलफेनस्थानीये आत्मभूते नामरूपे अव्याकृते आत्मैकशब्दवाच्ये व्याकृतफेनस्थानीयस्य जगतः उपादानभूते सम्भवतः । तस्मादात्मभूतनामरूपोपादानभूतः सन् सर्वज्ञो जगन्निर्मिमीते इत्यविरुद्धम् । अथवा, विज्ञानवान्यथा मायावी निरुपादानः आत्मानमेव आत्मान्तरत्वेन आकाशेन गच्छन्तमिव निर्मिमीते, तथा सर्वज्ञो देवः सर्वशक्तिर्महामायः आत्मानमेव आत्मान्तरत्वेन जगद्रूपेण निर्मिमीते इति युक्ततरम् । एवं च सति कार्यकारणोभयासद्वाद्यादिपक्षाश्च न प्रसज्जन्ते, सुनिराकृताश्च भवन्ति । कान् लोकानसृजतेत्याह — अम्भो मरीचीर्मरमापः इति । आकाशादिक्रमेण अण्डमुत्पाद्य अम्भःप्रभृतीन् लोकानसृजत । तत्र अम्भःप्रभृतीन्स्वयमेव व्याचष्टे श्रुतिः । अदः तत् अम्भःशब्दवाच्यो लोकः, परेण दिवं द्युलोकात्परेण परस्तात् , सोऽम्भःशब्दवाच्यः, अम्भोभरणात् । द्यौः प्रतिष्ठा आश्रयः तस्याम्भसो लोकस्य । द्युलोकादधस्तात् अन्तरिक्षं यत् , तत् मरीचयः । एकोऽपि अनेकस्थानभेदत्वाद्बहुवचनभाक् — मरीचय इति ; मरीचिभिर्वा रश्मिभिः सम्बन्धात् । पृथिवी मरः — म्रियन्ते अस्मिन् भूतानीति । याः अधस्तात् पृथिव्याः, ताः आपः उच्यन्ते, आप्नोतेः, लोकाः । यद्यपि पञ्चभूतात्मकत्वं लोकानाम् , तथापि अब्बाहुल्यात् अब्नामभिरेव अम्भो मरीचीर्मरमापः इत्युच्यन्ते ॥