श्रीमच्छङ्करभगवत्पूज्यपादविरचितम्

ऐतरेयोपनिषद्भाष्यम्

करतलकलिताद्वयात्मतत्त्वं क्षपितदुरन्तचिरन्तनप्रमोहम् ।
उपचितमुदितोदितैर्गुणौघैः उपनिषदामयमुज्जहार भाष्यम् ।।

change script to

अस्मिन्नध्याये एष वाक्यार्थः — जगदुत्पत्तिस्थितिप्रलयकृदसंसारी सर्वज्ञः सर्वशक्तिः सर्ववित्सर्वमिदं जगत्स्वतोऽन्यद्वस्त्वन्तरमनुपादायैव आकाशादिक्रमेण सृष्ट्वा स्वात्मप्रबोधनार्थं सर्वाणि च प्राणादिमच्छरीराणि स्वयं प्रविवेश ; प्रविश्य च स्वमात्मानं यथाभूतमिदं ब्रह्मास्मीति साक्षात्प्रत्यबुध्यत ; तस्मात्स एव सर्वशरीरेष्वेक एवात्मा, नान्य इति । अन्योऽपि ‘स म आत्मा ब्रह्मास्मीत्येवं विद्यात्’ इति ‘आत्मा वा इदमेक एवाग्र आसीत्’ (ऐ. उ. १ । १ । १) ‘ब्रह्म ततमम्’ (ऐ. उ. १ । ३ । १३) इति चोक्तम् । अन्यत्र च सर्वगतस्य सर्वात्मनो वालाग्रमात्रमप्यप्रविष्टं नास्तीति कथं सीमानं विदार्य प्रापद्यत पिपीलिकेव सुषिरम् ? नन्वत्यल्पमिदं चोद्यम् । बहु चात्र चोदयितव्यम् । अकरणः सन्नीक्षत । अनुपादाय किञ्चिल्लोकानसृजत । अद्भ्यः पुरुषं समुद्धृत्यामूर्छयत् । तस्याभिध्यानान्मुखादि निर्भिन्नं मुखादिभ्यश्चाग्न्यादयो लोकपालाः । तेषां चाशनायादिसंयोजनं तदायतनप्रार्थनं तदर्थं गवादिप्रदर्शनं तेषां च यथायतनप्रवेशनं सृष्टस्यान्नस्य पलायनं वागादिभिस्तज्जिघृक्षेति । एतत्सर्वं सीमाविदारणप्रवेशसममेव ॥
अस्तु तर्हि सर्वमेवेदमनुपपन्नम् । न, अत्रात्माववोधमात्रस्य विवक्षितत्वात्सर्वोऽयमर्थवाद इत्यदोषः । मायाविवद्वा ; महामायावी देवः सर्वज्ञः सर्वशक्तिः सर्वमेतच्चकार सुखावबोधप्रतिपत्त्यर्थं लोकवदाख्यायिकादिप्रपञ्च इति युक्ततरः पक्षः । न हि सृष्ट्याख्यायिकादिपरिज्ञानात्किञ्चित्फलमिष्यते । ऐकात्म्यस्वरूपपरिज्ञानात्तु अमृतत्वं फलं सर्वोपनिषत्प्रसिद्धम् । स्मृतिषु च गीताद्यासु ‘समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम्’ (भ. गी. १३ । २७) इत्यादिना । ननु त्रय आत्मानो भोक्ता कर्ता संसारी जीव एकः सर्वलोकशास्त्रप्रसिद्धः । अनेकप्राणिकर्मफलोपभोगयोग्यानेकाधिष्ठानवल्लोकदेहनिर्माणेन लिङ्गेन यथाशास्त्रप्रदर्शितेन पुरप्रासादादिनिर्माणलिङ्गेन तद्विषयकौशलज्ञानवांस्तत्कर्ता तक्षादिरिव ईश्वरः सर्वज्ञो जगतः कर्ता द्वितीयश्चेतन आत्मा अवगम्यते । ‘यतो वाचो निवर्तन्ते’ (तै. उ. २ । ४ । १) ‘नेति नेति’ (बृ. उ. ३ । ९ । २६) इत्यादिशास्त्रप्रसिद्ध औपनिषदः पुरुषस्तृतीयः । एवमेते त्रय आत्मानोऽन्योन्यविलक्षणाः । तत्र कथमेक एवात्मा अद्वितीयः असंसारीति ज्ञातुं शक्यते ? तत्र जीव एव तावत्कथं ज्ञायते ? नन्वेवं ज्ञायते श्रोता मन्ता द्रष्टा आदेष्टाघोष्टा विज्ञाता प्रज्ञातेति । ननु विप्रतिषिद्धं ज्ञायते यः श्रवणादिकर्तृत्वेन अमतो मन्ता अविज्ञातो विज्ञाता इति च । तथा ‘न मतेर्मन्तारं मन्वीथा न विज्ञातेर्विज्ञातारं विजानीयाः’ (बृ. उ. ३ । ४ । २) इत्यादि च । सत्यं विप्रतिषिद्धम् , यदि प्रत्यक्षेण ज्ञायेत सुखादिवत् । प्रत्यक्षज्ञानं च निवार्यते ‘न मतेर्मन्तारम्’ (बृ. उ. ३ । ४ । २) इत्यादिना । ज्ञायते तु श्रवणादिलिङ्गेन ; तत्र कुतो विप्रतिषेधः ? ननु श्रवणादिलिङ्गेनापि कथं ज्ञायते, यावता यदा शृणोत्यात्मा श्रोतव्यं शब्दम् , तदा तस्य श्रवणक्रिययैव वर्तमानत्वान्मननविज्ञानक्रिये न सम्भवत आत्मनि परत्र वा । तथा अन्यत्रापि मननादिक्रियासु । श्रवणादिक्रियाश्च स्वविषयेष्वेव । न हि मन्तव्यादन्यत्र मन्तुः मननक्रिया सम्भवति । ननु मनसः सर्वमेव मन्तव्यम् । सत्यमेवम् ; तथापि सर्वमपि मन्तव्यं मन्तारमन्तरेण न मन्तुं शक्यम् । यद्येवं किं स्यात् ? इदमत्र स्यात् — सर्वस्य योऽयं मन्ता, स मन्तैवेति न स मन्तव्यः स्यात् । न च द्वितीयो मन्तुर्मन्तास्ति । यदा स आत्मनैव मन्तव्यः, तदा येन च मन्तव्य आत्मा आत्मना, यश्च मन्तव्य आत्मा, तौ द्वौ प्रसज्येयाताम् । एक एव आत्मा द्विधा मन्तृमन्तव्यत्वेन द्विशकलीभवेद्वंशादिवत् , उभयथाप्यनुपपत्तिरेव । यथा प्रदीपयोः प्रकाश्यप्रकाशकत्वानुपपत्तिः, समत्वात् , तद्वत् । न च मन्तुर्मन्तव्ये मननव्यापारशून्यः कालेऽस्त्यात्ममननाय । यदापि लिङ्गेनात्मानं मनुते मन्ता, तदापि पूर्ववदेव लिङ्गेन मन्तव्य आत्मा, यश्च तस्य मन्ता, तौ द्वौ प्रसज्येयाताम् ; एक एव वा द्विधेति पूर्वोक्तो दोषः । न प्रत्यक्षेण, नाप्यनुमानेन ज्ञायते चेत् , कथमुच्यते ‘स म आत्मेति विद्यात्’ (कौ. उ. ३ । ९) इति, कथं वा श्रोता मन्तेत्यादि ? ननु श्रोतृत्वादिधर्मवानात्मा, अश्रोतृत्वादि च प्रसिद्धमात्मनः ; किमत्र विषमं पश्यसि ? यद्यपि तव न विषमम् ; तथापि मम तु विषमं प्रतिभाति । कथम् ? यदासौ श्रोता, तदा न मन्ता ; यदा मन्ता, तदा न श्रोता । तत्रैवं सति, पक्षे श्रोता मन्ता, पक्षे न श्रोता नापि मन्ता । तथा अन्यत्रापि च । यदैवम् , तदा श्रोतृत्वादिधर्मवानात्मा अश्रोतृत्वादिधर्मवान्वेति संशयस्थाने कथं तव न वैषम्यम् ? यदा देवदत्तो गच्छति, तदा न स्थाता, गन्तैव । यदा तिष्ठति, न गन्ता, स्थातैव ; तदास्य पक्ष एव गन्तृत्वं स्थातृत्वं च, न नित्यं गन्तृत्वं स्थातृत्वं वा, तद्वत् । तथैवात्र काणादादयः पश्यन्ति । पक्षप्राप्तेनैव श्रोतृत्वादिना आत्मोच्यते श्रोता मन्तेत्यादिवचनात् । संयोगजत्वमयौगपद्यं च ज्ञानस्य ह्याचक्षते । दर्शयन्ति च अन्यत्रमना अभूवं नादर्शम् इत्यादि युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गमिति च न्याय्यम् । भवत्वेवं किं तव नष्टं यद्येवं स्यात् ? अस्त्वेवं तवेष्टं चेत् ; श्रुत्यर्थस्तु न सम्भवति । किं न श्रोता मन्तेत्यादिश्रुत्यर्थः ? न, न श्रोता न मन्तेत्यादिवचनात् । ननु पाक्षिकत्वेन प्रत्युक्तं त्वया ; न, नित्यमेव श्रोतृत्वाद्यभ्युपगमात् , ‘न हि श्रोतुः श्रुतेर्विपरिलोपो विद्यते’ (बृ. उ. ४ । ३ । २७) इत्यादिश्रुतेः । एवं तर्हि नित्यमेव श्रोतृत्वाद्यभ्युपगमे, प्रत्यक्षविरुद्धा युगपज्ज्ञानोत्पत्तिः अज्ञानाभावश्चात्मनः कल्पितः स्यात् । तच्चानिष्टमिति । नोभयदोषोपपत्तिः, आत्मनः श्रुत्यादिश्रोतृत्वादिधर्मवत्त्वश्रुतेः । अनित्यानां मूर्तानां च चक्षुरादीनां दृष्ट्याद्यनित्यमेव संयोगवियोगधर्मिणाम् । यथा अग्नेर्ज्वलनं तृणादिसंयोगजत्वात् , तद्वत् । न तु नित्यस्यामूर्तस्यासंयोगविभागधर्मिणः संयोगजदृष्ट्याद्यनित्यधर्मवत्त्वं सम्भवति । तथा च श्रुतिः ‘न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यते’ (बृ. उ. ४ । ३ । २३) इत्याद्या । एवं तर्हि द्वे दृष्टी चक्षुषोऽनित्या दृष्टिः, नित्या चात्मनः । तथा च द्वे श्रुती श्रोत्रस्यानित्या, नित्या चात्मस्वरूपस्य । तथा द्वे मती विज्ञाती बाह्याबाह्ये । एवं ह्येव चेयं श्रुतिरुपपन्ना भवति — ‘दृष्टेर्द्रष्टा श्रुतेः श्रोता’ इत्याद्या । लोकेऽपि प्रसिद्धं चक्षुषस्तिमिरागमापाययोः नष्टा दृष्टिः जाता दृष्टिः इति चक्षुर्दृष्टेरनित्यत्वम् । तथा च श्रुतिमत्यादीनामात्मदृष्ट्यादीनां च नित्यत्वं प्रसिद्धमेव लोके । वदति ह्युद्धृतचक्षुः स्वप्नेऽद्य मया भ्राता दृष्ट इति । तथा अवगतबाधिर्यः स्वप्ने श्रुतो मन्त्रोऽद्येत्यादि । यदि चक्षुःसंयोगजैवात्मनो नित्या दृष्टिस्तन्नाशे नश्येत् , तदा उद्धृतचक्षुः स्वप्ने नीलपीतादि न पश्येत् । ‘न हि द्रष्टुर्दृष्टेः’ (बृ. उ. ४ । ३ । २३) इत्याद्या च श्रुतिः अनुपपन्ना स्यात् । ‘तच्चक्षुः पुरुषे येन स्वप्नं पश्यति’ इत्याद्या च श्रुतिः । नित्या आत्मनो दृष्टिर्बाह्यानित्यदृष्टेर्ग्राहिका । बाह्यदृष्टेश्च उपजनापायाद्यनित्यधर्मवत्त्वात् ग्राहिकाया आत्मदृष्टेस्तद्वदवभासत्वमनित्यत्वादि भ्रान्तिनिमित्तं लोकस्येति युक्तम् । यथा भ्रमणादिधर्मवदलातादिवस्तुविषयदृष्टिरपि भ्रमतीव, तद्वत् । तथा च श्रुतिः ‘ध्यायतीव लेलायतीव’ (बृ. उ. ४ । ३ । ७) इति । तस्मादात्मदृष्टेर्नित्यत्वान्न यौगपद्यमयौगपद्यं वा अस्ति । बाह्यानित्यदृष्ट्युपाधिवशात्तु लोकस्य तार्किकाणां च आगमसम्प्रदायवर्जितत्वात् अनित्या आत्मनो दृष्टिरिति भ्रान्तिरुपपन्नैव । जीवेश्वरपरमात्मभेदकल्पना च एतन्निमित्तैव । तथा अस्ति, नास्ति, इत्याद्याश्च यावन्तो वाङ्मनसयोर्भेदा यत्रैकं भवन्ति, तद्विषयाया नित्याया दृष्टेर्निर्विशेषायाः । अस्ति नास्ति, एकं नाना, गुणवदगुणम् , जानाति न जानाति, क्रियावदक्रियम् , फलवदफलम् , सबीजं निर्बीजम् , सुखं दुःखम् , मध्यममध्यम् , शून्यमशून्यम् , परोऽहमन्यः, इति वा सर्ववाक्प्रत्ययागोचरे स्वरूपे यो विकल्पयितुमिच्छति, स नूनं खमपि चर्मवद्वेष्टयितुमिच्छति, सोपानमिव च पद्भ्यामारोढुम् ; जले खे च मीनानां वयसां च पदं दिदृक्षते ; ‘नेति नेति’ (बृ. उ. ३ । ९ । २६) ‘यतो वाचो निवर्तन्ते’ (तै. उ. २ । ४ । १) इत्यादिश्रुतिभ्यः, ‘को अद्धा वेद’ (ऋ. सं. १ । ३० । ६) इत्यादिमन्त्रवर्णात् ॥
कथं तर्हि तस्य स म आत्मेति वेदनम् ; ब्रूहि केन प्रकारेण तमहं स म आत्मेति विद्याम् । अत्राख्यायिकामाचक्षते — कश्चित्किल मनुष्यो मुग्धः कैश्चिदुक्तः कस्मिंश्चिदपराधे सति धिक्त्वां नासि मनुष्य इति । स मुग्धतया आत्मनो मनुष्यत्वं प्रत्याययितुं कञ्चिदुपेत्याह — ब्रवीतु भवान्कोऽहमस्मीति । स तस्य मुग्धतां ज्ञात्वा आह — क्रमेण बोधयिष्यामीति । स्थावराद्यात्मभावमपोह्य न त्वममनुष्य इत्युक्त्वोपरराम । स तं मुग्धः प्रत्याह — भवान्मां बोधयितुं प्रवृत्तस्तूष्णीं बभूव, किं न बोधयतीति । तादृगेव तद्भवतो वचनम् । नास्यमनुष्य इत्युक्तेऽपि मनुष्यत्वमात्मनो न प्रतिपद्यते यः, स कथं मनुष्योऽसीत्युक्तोऽपि मनुष्यत्वमात्मनः प्रतिपद्येत ? तस्माद्यथाशास्त्रोपदेश एवात्मावबोधविधिः, नान्यः । न ह्यग्नेर्दाह्यं तृणादि अन्येन केनचिद्दग्धुं शक्यम् । अत एव शास्त्रमात्मस्वरूपं बोधयितुं प्रवृत्तं सत् अमनुष्यत्वप्रतिषेधेनेव ‘नेति नेति’ (बृ. उ. ३ । ९ । २६) इत्युक्त्वोपरराम । तथा ‘अनन्तरमबाह्यम्’ (बृ. उ. २ । ५ । १९)(बृ. उ. ३ । ८ । ८) ‘अयमात्मा ब्रह्म सर्वानुभूः’ (बृ. उ. २ । ५ । १९) इत्यनुशासनम् ; ‘तत्त्वमसि’ (छा. उ. ६ । ८ । ७) ‘यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्’ (बृ. उ. २ । ४ । १४)(बृ. उ. ४ । ५ । १५) इत्येवमाद्यपि च । यावदयमेव यथोक्तमिममात्मानं न वेत्ति, तावदयं ब्राह्मानित्यदृष्टिलक्षणमुपाधिमात्मत्वेनोपेत्य अविद्यया उपाधिधर्मानात्मनो मन्यमानो ब्रह्मादिस्तम्बपर्यन्तेषु स्थानेषु पुनः पुनरावर्तमानः अविद्याकामकर्मवशात्संसरति । स एवं संसरन् उपात्तदेहेन्द्रियसङ्घातं त्यजति । त्यक्त्वा अन्यमुपादत्ते । पुनः पुनरेवमेव नदीस्रोतोवज्जन्ममरणप्रबन्धाविच्छेदेन वर्तमानः काभिरवस्थाभिर्वर्तते इत्येतमर्थं दर्शयन्त्याह श्रुतिः वैराग्यहेतोः —
पुरुषे ह वा अयमादितो गर्भो भवति । यदेतद्रेतस्तदेतत्सर्वेभ्योऽङ्गेभ्यस्तेजः सम्भूतमात्मन्येवात्मानं बिभर्ति तद्यथा स्त्रियां सिञ्चत्यथैनज्जनयति तदस्य प्रथमं जन्म ॥ १ ॥
अयमेवाविद्याकामकर्माभिमानवान् यज्ञादिकर्म कृत्वा अस्माल्लोकाद्धूमादिक्रमेण चन्द्रमसं प्राप्य क्षीणकर्मा वृष्ट्यादिक्रमेण इमं लोकं प्राप्य अन्नभूतः पुरुषाग्नौ हुतः । तस्मिन्पुरुषे ह वै अयं संसारी रसादिक्रमेण आदितः प्रथमतः रेतोरूपेण गर्भो भवतीति एतदाह — यदेतत्पुरुषे रेतः, तेन रूपेणेति । तच्च एतत् रेतः अन्नमयस्य पिण्डस्य सर्वेभ्यः अङ्गेभ्यः अवयवेभ्यो रसादिलक्षणेभ्यः तेजः साररूपं शरीरस्य सम्भूतं परिनिष्पन्नं तत् पुरुषस्य आत्मभूतत्वादात्मा, तमात्मानं रेतोरूपेण गर्भीभूतम् आत्मन्येव स्वशरीर एव आत्मानं बिभर्ति धारयति । तत् रेतः स्त्रियां सिञ्चति यदा, यदा यस्मिन्काले भार्या ऋतुमती तस्यां योषाग्नौ स्त्रियां सिञ्चति उपगच्छन् , अथ तदा एनत् एतद्रेतः आत्मनो गर्भरूपं जनयति पिता । तत् अस्य पुरुषस्य स्थानान्निर्गमनं रेतःसेककाले रेतोरूपेण अस्य संसारिणः प्रथमं जन्म प्रथमावस्थाभिव्यक्तिः । तदेतदुक्तं पुरस्तात् ‘असावात्मा अमुमात्मानम्’ इत्यादिना ॥
तत्स्त्रिया आत्मभूयं गच्छति यथा स्वमङ्गं तथा । तस्मादेनां न हिनस्ति सास्यैतमात्मानमत्र गतं भावयति ॥ २ ॥
तत् रेतः यस्यां स्त्रियां सिक्तं सत्तस्याः स्त्रियाः आत्मभूयम् आत्माव्यतिरेकतां यथा पितुः एवं गच्छति प्राप्नोति यथा स्वमङ्गं स्तनादि, तथा तद्वदेव । तस्माद्धेतोः एनां मातरं स गर्भो न हिनस्ति पिटकादिवत् । यस्मात्स्तनादि स्वाङ्गवदात्मभूयं गतम् , तस्मान्न हिनस्ति न बाधत इत्यर्थः । सा अन्तर्वत्नी एतम् अस्य भर्तुरात्मानम् अत्र आत्मन उदरे गतं प्रविष्टं बुद्ध्वा भावयति वर्धयति परिपालयति गर्भविरुद्धाशनादिपरिहारम् अनुकूलाशनाद्युपयोगं च कुर्वती ॥
सा भावयित्री भावयितव्या भवति तं स्त्री गर्भं बिभर्ति सोऽग्र एव कुमारं जन्मनोऽग्रेऽधि भावयति । स यत्कुमारं जन्मनोऽग्रेऽधि भावयत्यात्मानमेव तद्भावयत्येषां लोकानां सन्तत्या एवं सन्तता हीमे लोकास्तदस्य द्वितीयं जन्म ॥ ३ ॥
सा भावयित्री वर्धयित्री भर्तुरात्मनो गर्भभूतस्य भावयितव्या वर्धयितव्या च भर्त्रा भवति । न ह्युपकारप्रत्युपकारमन्तरेण लोके कस्यचित्केनचित्सम्बन्ध उपपद्यते । तं गर्भं स्त्री यथोक्तेन गर्भधारणविधानेन बिभर्ति धारयति अग्रे प्राग्जन्मनः । सः पिता अग्रे एव पूर्वमेव जातमात्रं कुमारं जन्मनः अधि ऊर्ध्वं जन्मनः जातं कुमारं जातकर्मादिना पिता भावयति । सः पिता यत् यस्मात् कुमारं जन्मनः अधि ऊर्ध्वं अग्रे जातमात्रमेव जातकर्मादिना यद्भावयति, तत् आत्मानमेव भावयति ; पितुरात्मैव हि पुत्ररूपेण जायते । तथा ह्युक्तम् ‘पतिर्जायां प्रविशति’ (हरि. ३ । ७३ । ७१) इत्यादि । तत्किमर्थमात्मानं पुत्ररूपेण जनयित्वा भावयतीति ? उच्यते — एषां लोकानां सन्तत्यै अविच्छेदायेत्यर्थः । विच्छिद्येरन्हीमे लोकाः पुत्रोत्पादनादि यदि न कुर्युः । एवं पुत्रोत्पादनादिकर्माविच्छेदेनैव सन्तताः प्रबन्धरूपेण वर्तन्ते हि यस्मात् इमे लोकाः, तस्मात्तदविच्छेदाय तत्कर्तव्यम् ; न मोक्षायेत्यर्थः । तत् अस्य संसारिणः कुमाररूपेण मातुरुदराद्यन्निर्गमनम् , तत् रेतोरूपापेक्षया द्वितीयं जन्म द्वितीयावस्थाभिव्यक्तिः ॥
सोऽस्यायमात्मा पुण्येभ्यः कर्मभ्यः प्रतिधीयते । अथास्यायमितर आत्मा कृतकृत्यो वयोगतः प्रैति स इतः प्रयन्नेव पुनर्जायते तदस्य तृतीयं जन्म ॥ ४ ॥
अस्य पितुः सोऽयं पुत्रात्मा पुण्येभ्यः शास्त्रोक्तेभ्यः कर्मभ्यः कर्मनिष्पादनार्थं प्रतिधीयते पितुः स्थाने पित्रा यत्कर्तव्यं तत्करणाय प्रतिनिधीयत इत्यर्थः । तथा च सम्प्रत्तिविद्यायां वाजसनेयके — ‘पित्रानुशिष्टोऽहं ब्रह्माहं यज्ञ इत्यादि प्रतिपद्यते’ (बृ. उ. १ । ५ । १७) इति । अथ अनन्तरं पुत्रे निवेश्यात्मनो भारम् अस्य पुत्रस्य इतरः अयं यः पित्रात्मा कृतकृत्यः, कर्तव्यात् ऋणत्रयात् विमुक्तः कृतकर्तव्य इत्यर्थः, वयोगतः गतवयाः जीर्णः सन् प्रैति म्रियते । सः इतः अस्मात् प्रयन्नेव शरीरं परित्यजन्नेव, तृणजलूकादिवत् , देहान्तरमुपाददानः कर्मचितम् , पुनर्जायते । तदस्य मृत्वा प्रतिपत्तव्यं यत् , तत् तृतीयं जन्म । ननु संसरतः पितुः सकाशाद्रेतोरूपेण प्रथमं जन्म ; तस्यैव कुमाररूपेण मातुर्द्वितीयं जन्मोक्तम् ; तस्यैव तृतीये जन्मनि वक्तव्ये, प्रयतस्तस्य पितुर्यज्जन्म, तत्तृतीयमिति कथमुच्यते ? नैष दोषः, पितापुत्रयोरेकात्मत्वस्य विवक्षितत्वात् । सोऽपि पुत्रः स्वपुत्रे भारं निधाय इतः प्रयन्नेव पुनर्जायते यथा पिता । तदन्यत्रोक्तमितरत्राप्युक्तमेव भवतीति मन्यते श्रुतिः । पितापुत्रयोरेकात्मत्वात् ॥
तदुक्तमृषिणा । गर्भे नु सन्नन्वेषामवेदमहं देवानां जनिमानि विश्वा । शतं मा पुर आयसीररक्षन्नधः श्येनो जवसा निरदीयमिति गर्भ एवैतच्छयानो वामदेव एवमुवाच ॥ ५ ॥
एवं संसरन्नवस्थाभिव्यक्तित्रयेण जन्ममरणप्रबन्धारूढः सर्वो लोकः संसारसमुद्रे निपतितः कथञ्चिद्यदा श्रुत्युक्तमात्मानं विजानाति यस्यां कस्याञ्चिदवस्थायाम् , तदैव मुक्तसर्वसंसारबन्धनः कृतकृत्यो भवतीत्येतद्वस्तु, तत् ऋषिणा मन्त्रेणापि उक्तमित्याह — गर्भे नु मातुर्गर्भाशय एव सन् , नु इति वितर्के । अनेकजन्मान्तरभावनापरिपाकवशात् एषां देवानां वागग्न्यादीनां जनिमानि जन्मानि विश्वा विश्वानि सर्वाणि अन्ववेदम् अहम् अहो अनुबुद्धवानस्मीत्यर्थः । शतम् अनेकाः बह्व्यः मा मां पुरः आयसीः आयस्यो लोहमय्य इवाभेद्यानि शरीराणीत्यभिप्रायः । अरक्षन् रक्षितवत्यः संसारपाशनिर्गमनात् अधः । अथ श्येन इव जालं भित्त्वा जवसा आत्मज्ञानकृतसामर्थ्येन निरदीयं निर्गतोऽस्मि । अहो गर्भ एव शयानो वामदेवः ऋषिः एवमुवाच एतत् ॥
स एवं विद्वानस्माच्छरीरभेदादूर्ध्व उत्क्रम्यामुष्मिन्स्वर्गे लोके सर्वान्कामानाप्त्वामृतः समभवत्समभवत् ॥ ६ ॥ इति चतुर्थः खण्डः ॥
सः वामदेव ऋषिः यथोक्तमात्मानम् एवं विद्वान् अस्मात् शरीरभेदात् शरीरस्य अविद्यापरिकल्पितस्य आयसवदनिर्भेद्यस्य जननमरणाद्यनेकानर्थशताविष्टशरीरप्रबन्धस्य परमात्मज्ञानामृतोपयोगजनितवीर्यकृतभेदात् शरीरोत्पत्तिबीजाविद्यादिनिमित्तोपमर्दहेतोः शरीरविनाशादित्यर्थः । ऊर्ध्वः परमात्मभूतः सन् अधोभवात्संसारात् उत्क्रम्य ज्ञानावद्योतितामलसर्वात्मभावमापन्नः सन् अमुष्मिन् यथोक्ते अजरेऽमरेऽमृतेऽभये सर्वज्ञेऽपूर्वेऽनपरेऽनन्तरेऽबाह्ये प्रज्ञानामृतैकरसे स्वर्गे लोके स्वस्मिन्नात्मनि स्वे स्वरूपे अमृतः समभवत् आत्मज्ञानेन पूर्वमाप्तकामतया जीवन्नेव सर्वान्कामानाप्त्वा इत्यर्थः । द्विर्वचनं सफलस्य सोदाहरणस्य आत्मज्ञानस्य परिसमाप्तिप्रदर्शनार्थम् ॥
इति चतुर्थखण्डभाष्यम् ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ ऐतरेयोपनिषद्भाष्ये द्वितीयोऽध्यायः ॥