अस्तु तर्हि सर्वमेवेदमनुपपन्नम् । न, अत्रात्माववोधमात्रस्य विवक्षितत्वात्सर्वोऽयमर्थवाद इत्यदोषः । मायाविवद्वा ; महामायावी देवः सर्वज्ञः सर्वशक्तिः सर्वमेतच्चकार सुखावबोधप्रतिपत्त्यर्थं लोकवदाख्यायिकादिप्रपञ्च इति युक्ततरः पक्षः । न हि सृष्ट्याख्यायिकादिपरिज्ञानात्किञ्चित्फलमिष्यते । ऐकात्म्यस्वरूपपरिज्ञानात्तु अमृतत्वं फलं सर्वोपनिषत्प्रसिद्धम् । स्मृतिषु च गीताद्यासु
‘समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम्’ (भ. गी. १३ । २७) इत्यादिना । ननु त्रय आत्मानो भोक्ता कर्ता संसारी जीव एकः सर्वलोकशास्त्रप्रसिद्धः । अनेकप्राणिकर्मफलोपभोगयोग्यानेकाधिष्ठानवल्लोकदेहनिर्माणेन लिङ्गेन यथाशास्त्रप्रदर्शितेन पुरप्रासादादिनिर्माणलिङ्गेन तद्विषयकौशलज्ञानवांस्तत्कर्ता तक्षादिरिव ईश्वरः सर्वज्ञो जगतः कर्ता द्वितीयश्चेतन आत्मा अवगम्यते ।
‘यतो वाचो निवर्तन्ते’ (तै. उ. २ । ४ । १) ‘नेति नेति’ (बृ. उ. ३ । ९ । २६) इत्यादिशास्त्रप्रसिद्ध औपनिषदः पुरुषस्तृतीयः । एवमेते त्रय आत्मानोऽन्योन्यविलक्षणाः । तत्र कथमेक एवात्मा अद्वितीयः असंसारीति ज्ञातुं शक्यते ? तत्र जीव एव तावत्कथं ज्ञायते ? नन्वेवं ज्ञायते श्रोता मन्ता द्रष्टा आदेष्टाघोष्टा विज्ञाता प्रज्ञातेति । ननु विप्रतिषिद्धं ज्ञायते यः श्रवणादिकर्तृत्वेन अमतो मन्ता अविज्ञातो विज्ञाता इति च । तथा
‘न मतेर्मन्तारं मन्वीथा न विज्ञातेर्विज्ञातारं विजानीयाः’ (बृ. उ. ३ । ४ । २) इत्यादि च । सत्यं विप्रतिषिद्धम् , यदि प्रत्यक्षेण ज्ञायेत सुखादिवत् । प्रत्यक्षज्ञानं च निवार्यते
‘न मतेर्मन्तारम्’ (बृ. उ. ३ । ४ । २) इत्यादिना । ज्ञायते तु श्रवणादिलिङ्गेन ; तत्र कुतो विप्रतिषेधः ? ननु श्रवणादिलिङ्गेनापि कथं ज्ञायते, यावता यदा शृणोत्यात्मा श्रोतव्यं शब्दम् , तदा तस्य श्रवणक्रिययैव वर्तमानत्वान्मननविज्ञानक्रिये न सम्भवत आत्मनि परत्र वा । तथा अन्यत्रापि मननादिक्रियासु । श्रवणादिक्रियाश्च स्वविषयेष्वेव । न हि मन्तव्यादन्यत्र मन्तुः मननक्रिया सम्भवति । ननु मनसः सर्वमेव मन्तव्यम् । सत्यमेवम् ; तथापि सर्वमपि मन्तव्यं मन्तारमन्तरेण न मन्तुं शक्यम् । यद्येवं किं स्यात् ? इदमत्र स्यात् — सर्वस्य योऽयं मन्ता, स मन्तैवेति न स मन्तव्यः स्यात् । न च द्वितीयो मन्तुर्मन्तास्ति । यदा स आत्मनैव मन्तव्यः, तदा येन च मन्तव्य आत्मा आत्मना, यश्च मन्तव्य आत्मा, तौ द्वौ प्रसज्येयाताम् । एक एव आत्मा द्विधा मन्तृमन्तव्यत्वेन द्विशकलीभवेद्वंशादिवत् , उभयथाप्यनुपपत्तिरेव । यथा प्रदीपयोः प्रकाश्यप्रकाशकत्वानुपपत्तिः, समत्वात् , तद्वत् । न च मन्तुर्मन्तव्ये मननव्यापारशून्यः कालेऽस्त्यात्ममननाय । यदापि लिङ्गेनात्मानं मनुते मन्ता, तदापि पूर्ववदेव लिङ्गेन मन्तव्य आत्मा, यश्च तस्य मन्ता, तौ द्वौ प्रसज्येयाताम् ; एक एव वा द्विधेति पूर्वोक्तो दोषः । न प्रत्यक्षेण, नाप्यनुमानेन ज्ञायते चेत् , कथमुच्यते
‘स म आत्मेति विद्यात्’ (कौ. उ. ३ । ९) इति, कथं वा श्रोता मन्तेत्यादि ? ननु श्रोतृत्वादिधर्मवानात्मा, अश्रोतृत्वादि च प्रसिद्धमात्मनः ; किमत्र विषमं पश्यसि ? यद्यपि तव न विषमम् ; तथापि मम तु विषमं प्रतिभाति । कथम् ? यदासौ श्रोता, तदा न मन्ता ; यदा मन्ता, तदा न श्रोता । तत्रैवं सति, पक्षे श्रोता मन्ता, पक्षे न श्रोता नापि मन्ता । तथा अन्यत्रापि च । यदैवम् , तदा श्रोतृत्वादिधर्मवानात्मा अश्रोतृत्वादिधर्मवान्वेति संशयस्थाने कथं तव न वैषम्यम् ? यदा देवदत्तो गच्छति, तदा न स्थाता, गन्तैव । यदा तिष्ठति, न गन्ता, स्थातैव ; तदास्य पक्ष एव गन्तृत्वं स्थातृत्वं च, न नित्यं गन्तृत्वं स्थातृत्वं वा, तद्वत् । तथैवात्र काणादादयः पश्यन्ति । पक्षप्राप्तेनैव श्रोतृत्वादिना आत्मोच्यते श्रोता मन्तेत्यादिवचनात् । संयोगजत्वमयौगपद्यं च ज्ञानस्य ह्याचक्षते । दर्शयन्ति च अन्यत्रमना अभूवं नादर्शम् इत्यादि युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गमिति च न्याय्यम् । भवत्वेवं किं तव नष्टं यद्येवं स्यात् ? अस्त्वेवं तवेष्टं चेत् ; श्रुत्यर्थस्तु न सम्भवति । किं न श्रोता मन्तेत्यादिश्रुत्यर्थः ? न, न श्रोता न मन्तेत्यादिवचनात् । ननु पाक्षिकत्वेन प्रत्युक्तं त्वया ; न, नित्यमेव श्रोतृत्वाद्यभ्युपगमात् ,
‘न हि श्रोतुः श्रुतेर्विपरिलोपो विद्यते’ (बृ. उ. ४ । ३ । २७) इत्यादिश्रुतेः । एवं तर्हि नित्यमेव श्रोतृत्वाद्यभ्युपगमे, प्रत्यक्षविरुद्धा युगपज्ज्ञानोत्पत्तिः अज्ञानाभावश्चात्मनः कल्पितः स्यात् । तच्चानिष्टमिति । नोभयदोषोपपत्तिः, आत्मनः श्रुत्यादिश्रोतृत्वादिधर्मवत्त्वश्रुतेः । अनित्यानां मूर्तानां च चक्षुरादीनां दृष्ट्याद्यनित्यमेव संयोगवियोगधर्मिणाम् । यथा अग्नेर्ज्वलनं तृणादिसंयोगजत्वात् , तद्वत् । न तु नित्यस्यामूर्तस्यासंयोगविभागधर्मिणः संयोगजदृष्ट्याद्यनित्यधर्मवत्त्वं सम्भवति । तथा च श्रुतिः
‘न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यते’ (बृ. उ. ४ । ३ । २३) इत्याद्या । एवं तर्हि द्वे दृष्टी चक्षुषोऽनित्या दृष्टिः, नित्या चात्मनः । तथा च द्वे श्रुती श्रोत्रस्यानित्या, नित्या चात्मस्वरूपस्य । तथा द्वे मती विज्ञाती बाह्याबाह्ये । एवं ह्येव चेयं श्रुतिरुपपन्ना भवति — ‘दृष्टेर्द्रष्टा श्रुतेः श्रोता’ इत्याद्या । लोकेऽपि प्रसिद्धं चक्षुषस्तिमिरागमापाययोः नष्टा दृष्टिः जाता दृष्टिः इति चक्षुर्दृष्टेरनित्यत्वम् । तथा च श्रुतिमत्यादीनामात्मदृष्ट्यादीनां च नित्यत्वं प्रसिद्धमेव लोके । वदति ह्युद्धृतचक्षुः स्वप्नेऽद्य मया भ्राता दृष्ट इति । तथा अवगतबाधिर्यः स्वप्ने श्रुतो मन्त्रोऽद्येत्यादि । यदि चक्षुःसंयोगजैवात्मनो नित्या दृष्टिस्तन्नाशे नश्येत् , तदा उद्धृतचक्षुः स्वप्ने नीलपीतादि न पश्येत् ।
‘न हि द्रष्टुर्दृष्टेः’ (बृ. उ. ४ । ३ । २३) इत्याद्या च श्रुतिः अनुपपन्ना स्यात् । ‘तच्चक्षुः पुरुषे येन स्वप्नं पश्यति’ इत्याद्या च श्रुतिः । नित्या आत्मनो दृष्टिर्बाह्यानित्यदृष्टेर्ग्राहिका । बाह्यदृष्टेश्च उपजनापायाद्यनित्यधर्मवत्त्वात् ग्राहिकाया आत्मदृष्टेस्तद्वदवभासत्वमनित्यत्वादि भ्रान्तिनिमित्तं लोकस्येति युक्तम् । यथा भ्रमणादिधर्मवदलातादिवस्तुविषयदृष्टिरपि भ्रमतीव, तद्वत् । तथा च श्रुतिः
‘ध्यायतीव लेलायतीव’ (बृ. उ. ४ । ३ । ७) इति । तस्मादात्मदृष्टेर्नित्यत्वान्न यौगपद्यमयौगपद्यं वा अस्ति । बाह्यानित्यदृष्ट्युपाधिवशात्तु लोकस्य तार्किकाणां च आगमसम्प्रदायवर्जितत्वात् अनित्या आत्मनो दृष्टिरिति भ्रान्तिरुपपन्नैव । जीवेश्वरपरमात्मभेदकल्पना च एतन्निमित्तैव । तथा अस्ति, नास्ति, इत्याद्याश्च यावन्तो वाङ्मनसयोर्भेदा यत्रैकं भवन्ति, तद्विषयाया नित्याया दृष्टेर्निर्विशेषायाः । अस्ति नास्ति, एकं नाना, गुणवदगुणम् , जानाति न जानाति, क्रियावदक्रियम् , फलवदफलम् , सबीजं निर्बीजम् , सुखं दुःखम् , मध्यममध्यम् , शून्यमशून्यम् , परोऽहमन्यः, इति वा सर्ववाक्प्रत्ययागोचरे स्वरूपे यो विकल्पयितुमिच्छति, स नूनं खमपि चर्मवद्वेष्टयितुमिच्छति, सोपानमिव च पद्भ्यामारोढुम् ; जले खे च मीनानां वयसां च पदं दिदृक्षते ;
‘नेति नेति’ (बृ. उ. ३ । ९ । २६) ‘यतो वाचो निवर्तन्ते’ (तै. उ. २ । ४ । १) इत्यादिश्रुतिभ्यः,
‘को अद्धा वेद’ (ऋ. सं. १ । ३० । ६) इत्यादिमन्त्रवर्णात् ॥