श्रीमच्छङ्करभगवत्पूज्यपादविरचितम्

ऐतरेयोपनिषद्भाष्यम्

करतलकलिताद्वयात्मतत्त्वं क्षपितदुरन्तचिरन्तनप्रमोहम् ।
उपचितमुदितोदितैर्गुणौघैः उपनिषदामयमुज्जहार भाष्यम् ।।

ब्रह्मविद्यासाधनकृतसर्वात्मभावफलावाप्तिं वामदेवाद्याचार्यपरम्परया पारम्पर्यश्रुत्यावद्योत्यमानां ब्रह्मवित्परिषद्यत्यन्तप्रसिद्धाम् उपलभमाना मुमुक्षवो ब्राह्मणा अधुनातनाः ब्रह्म जिज्ञासवः अनित्यात्साध्यसाधनलक्षणात्संसारात् आ जीवभावाद्व्याविवृत्सवो विचारयन्तः अन्योन्यं पृच्छन्ति । कथम् ? —
कोऽयमात्मेति वयमुपास्महे कतरः स आत्मा येन वा पश्यति येन वा शृणोति येन वा गन्धानाजिघ्रति येन वा वाचं व्याकरोति येन वा स्वादु चास्वादु च विजानाति ॥ १ ॥
यमात्मानम् अयमात्मा इति साक्षात् वयमुपास्महे कः स आत्मेति ; यं चात्मानमयमात्मेति साक्षादुपासीनो वामदेवः अमृतः समभवत् ; तमेव वयमप्युपास्महे को नु खलु स आत्मेति एवं जिज्ञासापूर्वमन्योन्यं पृच्छताम् अतिक्रान्तविशेषविषयश्रुतिसंस्कारजनिता स्मृतिरजायत — तम् ‘प्रपदाभ्यां प्रापद्यत ब्रह्मेमं पुरुषम्’ ‘स एतमेव सीमानं विदार्य एतया द्वारा प्रापद्यत’ एतमेव पुरुषं द्वे ब्रह्मणी इतरेतरप्रातिकूल्येन प्रतिपन्ने — इति । ते चास्य पिण्डस्यात्मभूते । तयोरन्यतर आत्मोपास्यो भवितुमर्हति । योऽत्रोपास्यः, कतरः स आत्मा इति विशेषनिर्धारणार्थं पुनरन्योन्यं पप्रच्छुर्विचारयन्तः । पुनस्तेषां विचारयतां विशेषविचारणास्पदविषया मतिरभूत् । कथम् ? द्वे वस्तुनी अस्मिन्पिण्डे उपलभ्येते — अनेकभेदभिन्नेन करणेन येनोपलभते, यश्चैक उपलभते, करणान्तरोपलब्धिविषयस्मृतिप्रतिसन्धानात् । तत्र न तावत् येनोपलभते, स आत्मा भवितुमर्हति । केन पुनरुपलभत इति, उच्यते — येन वा चक्षुर्भूतेन रूपं पश्यति, येन वा शृणोति श्रोत्रभूतेन शब्दम् , येन वा घ्राणभूतेन गन्धानाजिघ्रति, येन वा वाक्करणभूतेन वाचं नामात्मिकां व्याकरोति गौरश्व इत्येवमाद्याम् , साध्वसाध्विति च, येन वा जिह्वाभूतेन स्वादु च अस्वादु च विजानातीति ॥
यदेतद्धृदयं मनश्चैतत् । संज्ञानमाज्ञानं विज्ञानं प्रज्ञानं मेधा दृष्टिर्धृतिर्मतिर्मनीषा जूतिः स्मृतिः सङ्कल्पः क्रतुरसुः कामो वश इति । सर्वाण्येवैतानि प्रज्ञानस्य नामधेयानि भवन्ति ॥ २ ॥
किं पुनस्तदेकमनेकधा भिन्नं करणमिति, उच्यते । यदुक्तं पुरस्तात् प्रजानां रेतो हृदयं हृदयस्य रेतो मनः मनसा सृष्टा आपश्च वरुणश्च हृदयान्मनो मनसश्चन्द्रमाः, तदेवैतद्धृदयं मनश्च, एकमेव तदनेकधा । एतेनान्तःकरणेनैकेन चक्षुर्भूतेन रूपं पश्यति, श्रोत्रभूतेन शृणोति, घ्राणभूतेन जिघ्रति, वाग्भूतेन वदति, जिह्वाभूतेन रसयति, स्वेनैव विकल्पनारूपेण मनसा सङ्कल्पयति, हृदयरूपेणाध्यवस्यति । तस्मात्सर्वकरणविषयव्यापारकमेकमिदं करणं सर्वोपलब्ध्यर्थमुपलब्धुः । तथा च कौषीतकिनाम् ‘प्रज्ञया वाचं समारुह्य वाचा सर्वाणि नामान्याप्नोति प्रज्ञया चक्षुः समारुह्य चक्षुषा सर्वाणि रूपाण्याप्नोति’ (कौ. उ. ३ । ६) इत्यादि । वाजसनेयके च — ‘मनसा ह्येव पश्यति मनसा शृणोति हृदयेन हि रूपाणि विजानाति’ (बृ. उ. १ । ५ । ३) इत्यादि । तस्माद्धृदयमनोवाच्यस्य सर्वोपलब्धिकरणत्वं प्रसिद्धम् । तदात्मकश्च प्राणः ‘यो वै प्राणः, सा प्रज्ञा या वै प्रज्ञा स प्राणः’ (कौ. उ. ३ । ३) इति हि ब्राह्मणम् । करणसंहतिरूपश्च प्राण इत्यवोचाम प्राणसंवादादौ । तस्माद्यत्पद्भ्यां प्रापद्यत, तद्ब्रह्म तदुपलब्धुरुपलब्धिकरणत्वेन गुणभूतत्वान्नैव तद्वस्तु ब्रह्म उपास्य आत्मा भवितुमर्हति । पारिशेष्याद्यस्योपलब्धुरुपलब्ध्यर्था एतस्य हृदयमनोरूपस्य करणस्य वृत्तयो वक्ष्यमाणाः, स उपलब्धा उपास्य आत्मा नोऽस्माकं भवितुमर्हतीति निश्चयं कृतवन्तः । तदन्तःकरणोपाधिस्थस्योपलब्धुः प्रज्ञानरूपस्य ब्रह्मण उपलब्ध्यर्था या अन्तःकरणवृत्तयो बाह्यान्तर्वर्तिविषयविषयाः, ता इमा उच्यन्ते — संज्ञानं संज्ञप्तिः चेतनभावः ; आज्ञानम् आज्ञप्तिः ईश्वरभावः ; विज्ञानं कलादिपरिज्ञानम् ; प्रज्ञानं प्रज्ञप्तिः प्रज्ञता ; मेधा ग्रन्थधारणसामर्थ्यम् ; दृष्टिः इन्द्रियद्वारा सर्वविषयोपलब्धिः ; धृतिः धारणम् अवसन्नानां शरीरेन्द्रियाणां ययोत्तम्भनं भवति ; ‘धृत्या शरीरमुद्वहन्ति’ इति हि वदन्ति ; मतिः मननम् ; मनीषा तत्र स्वातन्त्र्यम् ; जूतिः चेतसो रुजादिदुःखित्वभावः ; स्मृतिः स्मरणम् ; सङ्कल्पः शुक्लकृष्णादिभावेन सङ्कल्पनं रूपादीनाम् ; क्रतुः अध्यवसायः ; असुः प्राणनादिजीवनक्रियानिमित्ता वृत्तिः ; कामः असंनिहितविषयाकाङ्क्षा तृष्णा ; वशः स्त्रीव्यतिकराद्यभिलाषः ; इत्येवमाद्या अन्तःकरणवृत्तयः उपलब्धुरुपलब्ध्यर्थत्वाच्छुद्धप्रज्ञानरूपस्य ब्रह्मण उपाधिभूतास्तदुपाधिजनितगुणनामधेयानि संज्ञानादीनि सर्वाण्येवैतानि प्रज्ञप्तिमात्रस्य प्रज्ञानस्य नामधेयानि भवन्ति, न स्वतः साक्षात् । तथा चोक्तम् ‘प्राणन्नेव प्राणो नाम भवति’ (बृ. उ. १ । ४ । ७) इत्यादि ॥
एष ब्रह्मैष इन्द्र एष प्रजापतिरेते सर्वे देवा इमानि च पञ्च महाभूतानि पृथिवी वायुराकाश आपो ज्योतींषीत्येतानीमानि च क्षुद्रमिश्राणीव । बीजानीतराणि चेतराणि चाण्डजानि च जारुजानि च स्वेदजानि चोद्भिज्जानि चाश्वा गावः पुरुषा हस्तिनो यत्किञ्चेदं प्राणि जङ्गमं च पतत्रि च यच्च स्थावरम् । सर्वं तत्प्रज्ञानेत्रं प्रज्ञाने प्रतिष्ठितं प्रज्ञानेत्रो लोकः प्रज्ञा प्रतिष्ठा प्रज्ञानं ब्रह्म ॥ ३ ॥
स एषः प्रज्ञानरूप आत्मा ब्रह्म अपरं सर्वशरीरस्थः प्राणः प्रज्ञात्मा अन्तःकरणोपाधिष्वनुप्रविष्टो जलभेदगतसूर्यप्रतिबिम्बवत् हिरण्यगर्भः प्राणः प्रज्ञात्मा । एष एव इन्द्रः गुणात् , देवराजो वा । एष प्रजापतिः यः प्रथमजः शरीरी ; यतो मुखादिनिर्भेदद्वारेणाग्न्यादयो लोकपाला जाताः, स प्रजापतिरेष एव । येऽपि एते अग्न्यादयः सर्वे देवा एष एव । इमानि च सर्वशरीरोपादानभूतानि पञ्च पृथिव्यादीनि महाभूतानि अन्नान्नादत्वलक्षणानि एतानि । किञ्च, इमानि च क्षुद्रमिश्राणि क्षुद्रैरल्पकैर्मिश्राणि, इवशब्दः अनर्थकः, सर्पादीनि । बीजानि कारणानि इतराणि चेतराणि च द्वैराश्येन निर्दिश्यमानानि । कानि तानि ? उच्यन्ते — अण्डजानि पक्ष्यादीनि, जारुजानि जरायुजानि मनुष्यादीनि, स्वेदजानि यूकादीनि, उद्भिज्जानि च वृक्षादीनि । अश्वाः गावः पुरुषाः हस्तिनः अन्यच्च यत्किञ्चेदं प्राणि । किं तत् ? जङ्गमं यच्चलति पद्भ्यां गच्छति ; यच्च पतत्रि आकाशेन पतनशीलम् ; यच्च स्थावरम् अचलम् ; सर्वं तत् अशेषतः प्रज्ञानेत्रम् , प्रज्ञप्तिः प्रज्ञा, तच्च ब्रह्मैव, नीयतेऽनेनेति नेत्रम् , प्रज्ञा नेत्रं यस्य तदिदं प्रज्ञानेत्रम् ; प्रज्ञाने ब्रह्मण्युत्पत्तिस्थितिलयकालेषु प्रतिष्ठितम् , प्रज्ञाश्रयमित्यर्थः । प्रज्ञानेत्रो लोकः पूर्ववत् ; प्रज्ञाचक्षुर्वा सर्व एव लोकः । प्रज्ञा प्रतिष्ठा सर्वस्य जगतः । तस्मात् प्रज्ञानं ब्रह्म । तदेतत्प्रत्यस्तमितसर्वोपाधिविशेषं सत् निरञ्जनं निर्मलं निष्क्रियं शान्तम् एकम् अद्वयं ‘नेति नेति’ (बृ. उ. ३ । ९ । २६) इति सर्वविशेषापोहसंवेद्यं सर्वशब्दप्रत्ययागोचरं तदत्यन्तविशुद्धप्रज्ञोपाधिसम्बन्धेन सर्वज्ञमीश्वरं सर्वसाधारणाव्याकृतजगद्बीजप्रवर्तकं नियन्तृत्वादन्तर्यामिसंज्ञं भवति । तदेव व्याकृतजगद्बीजभूतबुद्ध्यात्माभिमानलक्षणं हिरण्यगर्भसंज्ञं भवति । तदेव अन्तरण्डोद्भूतप्रथमशरीरोपाधिमत् विराट्प्रजापतिसंज्ञं भवति । तदुद्भूताग्न्याद्युपाधिमत् देवतासंज्ञं भवति । तथा विशेषशरीरोपाधिष्वपि ब्रह्मादिस्तम्बपर्यन्तेषु तत्तन्नामरूपलाभो ब्रह्मणः । तदेवैकं सर्वोपाधिभेदभिन्नं सर्वैः प्राणिभिस्तार्किकैश्च सर्वप्रकारेण ज्ञायते विकल्प्यते च अनेकधा । ‘एतमेके वदन्त्यग्निं मनुमन्ये प्रजापतिम् । इन्द्रमेकेऽपरे प्राणमपरे ब्रह्म शाश्वतम्’ (मनु. १२ । १२३) इत्याद्या स्मृतिः ॥
स एतेन प्रज्ञेनात्मनास्माल्लोकादुत्क्रम्यामुष्मिन्स्वर्गे लोके सर्वान्कामानाप्त्वामृतः समभवत्समभवत् ॥ ४ ॥ इति पञ्चमः खण्डः ॥
स वामदेवोऽन्यो वा एवं यथोक्तं ब्रह्म वेद प्रज्ञेनात्मना, येनैव प्रज्ञेन आत्मना पूर्वे विद्वांसोऽमृता अभूवन् तथा अयमपि विद्वान् एतेनैव प्रज्ञेन आत्मना अस्मात् लोकात् उत्क्रम्येत्यादि व्याख्यातम् । अस्माल्लोकादुत्क्रम्य अमुष्मिन् स्वर्गे लोके सर्वान्कामान् आप्त्वा अमृतः समभवत्समभवदित्योमिति ॥
इति पञ्चमखण्डभाष्यम् ॥