तृतीयोऽध्यायः
प्रथमः पादः
तदन्तरप्रतिपत्त्यधिकरणम्
तदन्तरप्रतिपत्तौ रंहति सम्परिष्वक्तः प्रश्ननिरूपणाभ्याम् ॥ १ ॥
त्र्यात्मकत्वात्तु भूयस्त्वात् ॥ २ ॥
प्राणगतेश्च ॥ ३ ॥
अग्न्यादिगतिश्रुतेरिति चेन्न भाक्तत्वात् ॥ ४ ॥
प्रथमेऽश्रवणादिति चेन्न ता एव ह्युपपत्तेः ॥ ५ ॥
अश्रुतत्वादिति चेन्नेष्टादिकारिणां प्रतीतेः ॥ ६ ॥
भाक्तं वानात्मवित्त्वात्तथाहि दर्शयति ॥ ७ ॥
कृतात्ययाधिकरणम्
कृतात्ययेऽनुशयवान्दृष्टस्मृतिभ्यां यथेतमनेवं च ॥ ८ ॥
चरणादिति चेन्नोपलक्षणार्थेति कार्ष्णाजिनिः ॥ ९ ॥
आनर्थक्यमिति चेन्न तदपेक्षत्वात् ॥ १० ॥
सुकृतदुष्कृते एवेति तु बादरिः ॥ ११ ॥
अनिष्टादिकार्यधिकरणम्
अनिष्टादिकारिणामपि च श्रुतम् ॥ १२ ॥
संयमने त्वनुभूयेतरेषामारोहावरोहौ तद्गतिदर्शनात् ॥ १३ ॥
स्मरन्ति च ॥ १४ ॥
अपि च सप्त ॥ १५ ॥
तत्रापि च तद्व्यापारादविरोधः ॥ १६ ॥
विद्याकर्मणोरिति तु प्रकृतत्वात् ॥ १७ ॥
न तृतीये तथोपलब्धेः ॥ १८ ॥
स्मर्यतेऽपि च लोके ॥ १९ ॥
दर्शनाच्च ॥ २० ॥
तृतीयशब्दावरोधः संशोकजस्य ॥ २१ ॥
साभाव्यापत्त्यधिकरणम्
साभाव्यापत्तिरुपपत्तेः ॥ २२ ॥
नातिचिराधिकरणम्
नातिचिरेण विशेषात् ॥ २३ ॥
अन्याधिष्ठिताधिकरणम्
अन्याधिष्ठितेषु पूर्ववदभिलापात् ॥ २४ ॥
अशुद्धमिति चेन्न शब्दात् ॥ २५ ॥
रेतःसिग्योगोऽथ ॥ २६ ॥
योनेः शरीरम् ॥ २७ ॥
द्वितीयः पादः
सन्ध्याधिकरणम्
सन्ध्ये सृष्टिराह हि ॥ १ ॥
निर्मातारं चैके पुत्रादयश्च ॥ २ ॥
मायामात्रं तु कार्त्स्न्येनानभिव्यक्तस्वरूपत्वात् ॥ ३ ॥
सूचकश्च हि श्रुतेराचक्षते च तद्विदः ॥ ४ ॥
पराभिध्यानात्तु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ ॥ ५ ॥
देहयोगाद्वा सोऽपि ॥ ६ ॥
तदभावाधिकरणम्
तदभावो नाडीषु तच्छ्रुतेरात्मनि च ॥ ७ ॥
अतः प्रबोधोऽस्मात् ॥ ८ ॥
कर्मानुस्मृतिशब्दविध्यधिकरणम्
स एव तु कर्मानुस्मृतिशब्दविधिभ्यः ॥ ९ ॥
मुग्धाधिकरणम्
मुग्धेऽर्धसम्पत्तिः परिशेषात् ॥ १० ॥
उभयलिङ्गाधिकरणम्
न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि ॥ ११ ॥
न भेदादिति चेन्न प्रत्येकमतद्वचनात् ॥ १२ ॥
अपि चैवमेके ॥ १३ ॥
अरूपवदेव हि तत्प्रधानत्वात् ॥ १४ ॥
प्रकाशवच्चावैयर्थ्यात् ॥ १५ ॥
आह च तन्मात्रम् ॥ १६ ॥
दर्शयति चाथो अपि स्मर्यते ॥ १७ ॥
अत एव चोपमा सूर्यकादिवत् ॥ १८ ॥
अम्बुवदग्रहणात्तु न तथात्वम् ॥ १९ ॥
वृद्धिह्रासभाक्त्वमन्तर्भावादुभयसामञ्जस्यादेवम् ॥ २० ॥
दर्शनाच्च ॥ २१ ॥
प्रकृतैतावत्त्वाधिकरणम्
प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूयः ॥ २२ ॥
तदव्यक्तमाह हि ॥ २३ ॥
अपि च संराधने प्रत्यक्षानुमानाभ्याम् ॥ २४ ॥
प्रकाशादिवच्चावैशेष्यं प्रकाशश्च कर्मण्यभ्यासात् ॥ २५ ॥
अतोऽनन्तेन तथा हि लिङ्गम् ॥ २६ ॥
उभयव्यपदेशात्त्वहिकुण्डलवत् ॥ २७ ॥
प्रकाशाश्रयवद्वा तेजस्त्वात् ॥ २८ ॥
पूर्ववद्वा ॥ २९ ॥
प्रतिषेधाच्च ॥ ३० ॥
पराधिकरणम्
परमतः सेतून्मानसम्बन्धभेदव्यपदेशेभ्यः ॥ ३१ ॥
सामान्यात्तु ॥ ३२ ॥
बुद्ध्यर्थः पादवत् ॥ ३३ ॥
स्थानविशेषात्प्रकाशादिवत् ॥ ३४ ॥
उपपत्तेश्च ॥ ३५ ॥
तथाऽन्यप्रतिषेधात् ॥ ३६ ॥
अनेन सर्वगतत्वमायामशब्दादिभ्यः ॥ ३७ ॥
फलाधिकरणम्
फलमत उपपत्तेः ॥ ३८ ॥
श्रुतत्वाच्च ॥ ३९ ॥
धर्मं जैमिनिरत एव ॥ ४० ॥
पूर्वं तु बादरायणो हेतुव्यपदेशात् ॥ ४१ ॥
तृतीयः पादः
सर्ववेदान्तप्रत्ययाधिकरणम्
सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात् ॥ १ ॥
भेदान्नेति चेन्नैकस्यामपि ॥ २ ॥
स्वाध्यायस्य तथात्वेन हि समाचारेऽधिकाराच्च सववच्च तन्नियमः ॥ ३ ॥
दर्शयति च ॥ ४ ॥
उपसंहाराधिकरणम्
उपसंहारोऽर्थाभेदाद्विधिशेषवत्समाने च ॥ ५ ॥
अन्यथात्वाधिकरणम्
अन्यथात्वं शब्दादिति चेन्नाविशेषात् ॥ ६ ॥
न वा प्रकरणभेदात्परोवरीयस्त्वादिवत् ॥ ७ ॥
संज्ञातश्चेत्तदुक्तमस्ति तु तदपि ॥ ८ ॥
व्याप्त्यधिकरणम्
व्याप्तेश्च समञ्जसम् ॥ ९ ॥
सर्वाभेदाधिकरणम्
सर्वाभेदादन्यत्रेमे ॥ १० ॥
आनन्दाद्यधिकरणम्
आनन्दादयः प्रधानस्य ॥ ११ ॥
प्रियशिरस्त्वाद्यप्राप्तिरुपचयापचयौ हि भेदे ॥ १२ ॥
इतरे त्वर्थसामान्यात् ॥ १३ ॥
आध्यानाधिकरणम्
आध्यानाय प्रयोजनाभावात् ॥ १४ ॥
आत्मशब्दाच्च ॥ १५ ॥
आत्मगृहीत्यधिकरणम्
आत्मगृहीतिरितरवदुत्तरात् ॥ १६ ॥
अन्वयादिति चेत्स्यादवधारणात् ॥ १७ ॥
कार्याख्यानाधिकरणम्
कार्याख्यानादपूर्वम् ॥ १८ ॥
समानाधिकरणम्
समान एवं चाभेदात् ॥ १९ ॥
सम्बन्धाधिकरणम्
सम्बन्धादेवमन्यत्रापि ॥ २० ॥
न वा विशेषात् ॥ २१ ॥
दर्शयति च ॥ २२ ॥
सम्भृत्यधिकरणम्
सम्भृतिद्युव्याप्त्यपि चातः ॥ २३ ॥
पुरुषविद्याधिकरणम्
पुरुषविद्यायामिव चेतरेषामनाम्नानात् ॥ २४ ॥
वेधाद्यधिकरणम्
वेधाद्यर्थभेदात् ॥ २५ ॥
हान्यधिकरणम्
हानौ तूपायनशब्दशेषत्वात्कुशाच्छन्दस्तुत्युपगानवत्तदुक्तम् ॥ २६ ॥
साम्परायाधिकरणम्
साम्पराये तर्तव्याभावात्तथा ह्यन्ये ॥ २७ ॥
छन्दत उभयाविरोधात् ॥ २८ ॥
गतेरर्थवत्त्वाधिकरणम्
गतेरर्थवत्त्वमुभयथाऽन्यथा हि विरोधः ॥ २९ ॥
उपपन्नस्तल्लक्षणार्थोपलब्धेर्लोकवत् ॥ ३० ॥
अनियमाधिकरणम्
अनियमः सर्वासामविरोधः शब्दानुमानाभ्याम् ॥ ३१ ॥
यावदधिकाराधिकरणम्
यावदधिकारमवस्थितिराधिकारिकाणाम् ॥ ३२ ॥
अक्षरध्यधिकरणम्
अक्षरधियां त्ववरोधः सामान्यतद्भावाभ्यामौपसदवत्तदुक्तम् ॥ ३३ ॥
इयदधिकरणम्
इयदामननात् ॥ ३४ ॥
अन्तरत्वाधिकरणम्
अन्तरा भूतग्रामवत्स्वात्मनः ॥ ३५ ॥
अन्यथा भेदानुपपत्तिरिति चेन्नोपदेशान्तरवत् ॥ ३६ ॥
व्यतिहाराधिकरणम्
व्यतिहारो विशिंषन्ति हीतरवत् ॥ ३७ ॥
सत्याद्यधिकरणम्
सैव हि सत्यादयः ॥ ३८ ॥
कामाद्यधिकरणम्
कामादीतरत्र तत्र चायतनादिभ्यः ॥ ३९ ॥
आदराधिकरणम्
आदरादलोपः ॥ ४० ॥
उपस्थितेऽतस्तद्वचनात् ॥ ४१ ॥
तन्निर्धारणाधिकरणम्
तन्निर्धारणानियमस्तद्दृष्टेः पृथग्घ्यप्रतिबन्धः फलम् ॥ ४२ ॥
प्रदानाधिकरणम्
प्रदानवदेव तदुक्तम् ॥ ४३ ॥
लिङ्गभूयस्त्वाधिकरणम्
लिङ्गभूयस्त्वात्तद्धि बलीयस्तदपि ॥ ४४ ॥
पूर्वविकल्पः प्रकरणात्स्यात्क्रिया मानसवत् ॥ ४५ ॥
अतिदेशाच्च ॥ ४६ ॥
विद्यैव तु निर्धारणात् ॥ ४७ ॥
दर्शनाच्च ॥ ४८ ॥
श्रुत्यादिबलीयस्त्वाच्च न बाधः ॥ ४९ ॥
अनुबन्धादिभ्यः प्रज्ञान्तरपृथक्त्ववद्दृष्टश्च तदुक्तम् ॥ ५० ॥
न सामान्यादप्युपलब्धेर्मृत्युवन्न हि लोकापत्तिः ॥ ५१ ॥
परेण च शब्दस्य ताद्विध्यं भूयस्त्वात्त्वनुबन्धः ॥ ५२ ॥
ऐकात्म्याधिकरणम्
एक आत्मनः शरीरे भावात् ॥ ५३ ॥
व्यतिरेकस्तद्भावाभावित्वान्न तूपलब्धिवत् ॥ ५४ ॥
अङ्गावबद्धाधिकरणम्
अङ्गावबद्धास्तु न शाखासु हि प्रतिवेदम् ॥ ५५ ॥
मन्त्रादिवद्वाऽविरोधः ॥ ५६ ॥
भूमज्यायस्त्वाधिकरणम्
भूम्नः क्रतुवज्ज्यायस्त्वं तथा हि दर्शयति ॥ ५७ ॥
शब्दादिभेदाधिकरणम्
नाना शब्दादिभेदात् ॥ ५८ ॥
विकल्पाधिकरणम्
विकल्पोऽविशिष्टफलत्वात् ॥ ५९ ॥
काम्याधिकरणम्
काम्यास्तु यथाकामं समुच्चीयेरन्न वा पूर्वहेत्वभावात् ॥ ६० ॥
यथाश्रयभावाधिकरणम्
अङ्गेषु यथाश्रयभावः ॥ ६१ ॥
शिष्टेश्च ॥ ६२ ॥
समाहारात् ॥ ६३ ॥
गुणसाधारण्यश्रुतेश्च ॥ ६४ ॥
न वा तत्सहभावाश्रुतेः ॥ ६५ ॥
दर्शनाच्च ॥ ६६ ॥
चतुर्थः पादः
पुरुषार्थाधिकरणम्
पुरुषार्थोऽतः शब्दादिति बादरायणः ॥ १ ॥
शेषत्वात्पुरुषार्थवादो यथान्येष्विति जैमिनिः ॥ २ ॥
आचारदर्शनात् ॥ ३ ॥
तच्छ्रुतेः ॥ ४ ॥
समन्वारम्भणात् ॥ ५ ॥
तद्वतो विधानात् ॥ ६ ॥
नियमाच्च ॥ ७ ॥
अधिकोपदेशात्तु बादरायणस्यैवं तद्दर्शनात् ॥ ८ ॥
तुल्यं तु दर्शनम् ॥ ९ ॥
असार्वत्रिकी ॥ १० ॥
विभागः शतवत् ॥ ११ ॥
अध्ययनमात्रवतः ॥ १२ ॥
नाविशेषात् ॥ १३ ॥
स्तुतयेऽनुमतिर्वा ॥ १४ ॥
कामकारेण चैके ॥ १५ ॥
उपमर्दं च ॥ १६ ॥
ऊर्ध्वरेतःसु च शब्दे हि ॥ १७ ॥
परामर्शाधिकरणम्
परामर्शं जैमिनिरचोदना चापवदति हि ॥ १८ ॥
अनुष्ठेयं बादरायणः साम्यश्रुतेः ॥ १९ ॥
विधिर्वा धारणवत् ॥ २० ॥
स्तुतिमात्राधिकरणम्
स्तुतिमात्रमुपादानादिति चेन्नापूर्वत्वात् ॥ २१ ॥
भावशब्दाच्च ॥ २२ ॥
पारिप्लवाधिकरणम्
पारिप्लवार्था इति चेन्न विशेषितत्वात् ॥ २३ ॥
तथा चैकवाक्यतोपबन्धात् ॥ २४ ॥
अग्नीन्धनाद्यधिकरणम्
अत एव चाग्नीन्धनाद्यनपेक्षा ॥ २५ ॥
सर्वापेक्षाधिकरणम्
सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत् ॥ २६ ॥
शमदमाद्युपेतः स्यात्तथापि तु तद्विधेस्तदङ्गतया तेषामवश्यानुष्ठेयत्वात् ॥ २७ ॥
सर्वान्नानुमत्यधिकरणम्
सर्वान्नानुमतिश्च प्राणात्यये तद्दर्शनात् ॥ २८ ॥
अबाधाच्च ॥ २९ ॥
अपि च स्मर्यते ॥ ३० ॥
शब्दश्चातोऽकामकारे ॥ ३१ ॥
आश्रमकर्माधिकरणम्
विहितत्वाच्चाश्रमकर्मापि ॥ ३२ ॥
सहकारित्वेन च ॥ ३३ ॥
सर्वथापि त एवोभयलिङ्गात् ॥ ३४ ॥
अनभिभवं च दर्शयति ॥ ३५ ॥
विधुराधिकरणम्
अन्तरा चापि तु तद्दृष्टेः ॥ ३६ ॥
अपि च स्मर्यते ॥ ३७ ॥
विशेषानुग्रहश्च ॥ ३८ ॥
अतस्त्वितरज्ज्यायो लिङ्गाच्च ॥ ३९ ॥
तद्भूताधिकरणम्
तद्भूतस्य तु नातद्भावो जैमिनेरपि नियमातद्रूपाभावेभ्यः ॥ ४० ॥
आधिकारिकाधिकरणम्
न चाधिकारिकमपि पतनानुमानात्तदयोगात् ॥ ४१ ॥
उपपूर्वमपि त्वेके भावमशनवत्तदुक्तम् ॥ ४२ ॥
बहिरधिकरणम्
बहिस्तूभयथापि स्मृतेराचाराच्च ॥ ४३ ॥
स्वाम्यधिकरणम्
स्वामिनः फलश्रुतेरित्यात्रेयः ॥ ४४ ॥
आर्त्विज्यमित्यौडुलोमिस्तस्मै हि परिक्रीयते ॥ ४५ ॥
श्रुतेश्च ॥ ४६ ॥
सहकार्यन्तरविध्यधिकरणम्
सहकार्यन्तरविधिः पक्षेण तृतीयं तद्वतो विध्यादिवत् ॥ ४७ ॥
कृत्स्नभावात्तु गृहिणोपसंहारः ॥ ४८ ॥
मौनवदितरेषामप्युपदेशात् ॥ ४९ ॥
अनाविष्काराधिकरणम्
अनाविष्कुर्वन्नन्वयात् ॥ ५० ॥
ऐहिकाधिकरणम्
ऐहिकमप्यप्रस्तुतप्रतिबन्धे तद्दर्शनात् ॥ ५१ ॥
मुक्तिफलाधिकरणम्
एवं मुक्तिफलानियमस्तदवस्थावधृतेस्तदवस्थावधृतेः ॥ ५२ ॥