श्रीमच्छङ्करभगवत्पूज्यपादविरचितम्

ब्रह्मसूत्रभाष्यम्

गुरुः समस्तोपनिषत्स्वतन्त्रः ।
अनेन दूरीकृतभेदवादम् अकारि शारीरकसूत्रभाष्यम् ॥

चतुर्थोऽध्यायः

प्रथमः पादः

तृतीयेऽध्याये परापरासु विद्यासु साधनाश्रयो विचारः प्रायेण अत्यगात् । अथेह चतुर्थे फलाश्रय आगमिष्यति । प्रसङ्गागतं अन्यदपि किञ्चिच्चिन्तयिष्यते । प्रथमं तावत् कतिभिश्चिदधिकरणैः साधनाश्रयविचारशेषमेवानुसरामः

आवृत्त्यधिकरणम्

आवृत्तिरसकृदुपदेशात् ॥ १ ॥

आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः’ (बृ. उ. ४ । ५ । ६) तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत’ (बृ. उ. ४ । ४ । २१) सोऽन्वेष्टव्यः विजिज्ञासितव्यः’ (छा. उ. ८ । ७ । १) इति एवमादिश्रवणेषु संशयःकिं सकृत्प्रत्ययः कर्तव्यः, आहोस्वित् आवृत्त्येति । किं तावत्प्राप्तम् ? सकृत्प्रत्ययः स्यात् , प्रयाजादिवत् , तावता शास्त्रस्य कृतार्थत्वात् । अश्रूयमाणायां हि आवृत्तौ क्रियमाणायाम् अशास्त्रार्थः कृतो भवेत् । ननु असकृदुपदेशा उदाहृताः — ‘श्रोतव्यो मन्तव्यो निदिध्यासितव्यःइत्येवमादयःएवमपि यावच्छब्दमावर्तयेत्सकृच्छ्रवणं सकृन्मननं सकृन्निदिध्यासनं चेति, नातिरिक्तम् । सकृदुपदेशेषु तुवेद’ ‘उपासीतइत्येवमादिषु अनावृत्तिरित्येवं प्राप्ते, ब्रूमःप्रत्ययावृत्तिः कर्तव्या । कुतः ? असकृदुपदेशात् — ‘श्रोतव्यो मन्तव्यो निदिध्यासितव्यःइत्येवंजातीयको हि असकृदुपदेशः प्रत्ययावृत्तिं सूचयति । ननु उक्तम्यावच्छब्दमेव आवर्तयेत् , नाधिकमिति, दर्शनपर्यवसानत्वादेषाम् । दर्शनपर्यवसानानि हि श्रवणादीन्यावर्त्यमानानि दृष्टार्थानि भवन्तियथा अवघातादीनि तण्डुलादिनिष्पत्तिपर्यवसानानि, तद्वत् । अपि उपासनं निदिध्यासनं इत्यन्तर्णीतावृत्तिगुणैव क्रिया अभिधीयते । तथा हि लोकेगुरुमुपास्ते’ ‘राजानमुपास्तेइति यस्तात्पर्येण गुर्वादीननुवर्तते, एवमुच्यते । तथाध्यायति प्रोषितनाथा पतिम्इतिया निरन्तरस्मरणा पतिं प्रति सोत्कण्ठा, सा एवमभिधीयते । विद्युपास्त्योश्च वेदान्तेषु अव्यतिरेकेण प्रयोगो दृश्यते; क्वचित् विदिनोपक्रम्य उपासिनोपसंहरति, यथायस्तद्वेद यत्स वेद मयैतदुक्तः’ (छा. उ. ४ । १ । ४) इत्यत्र अनु एतां भगवो देवतां शाधि यां देवतामुपास्से’ (छा. उ. ४ । २ । २) इति । क्वचिच्च उपासिनोपक्रम्य विदिनोपसंहरति, यथामनो ब्रह्मेत्युपासीत’ (छा. उ. ३ । १८ । १) इत्यत्र भाति तपति कीर्त्या यशसा ब्रह्मवर्चसेन एवं वेद’ (छा. उ. ३ । १८ । ३) इति । तस्मात्सकृदुपदेशेष्वपि आवृत्तिसिद्धिः । असकृदुपदेशस्तु आवृत्तेः सूचकः ॥ १ ॥

लिङ्गाच्च ॥ २ ॥

लिङ्गमपि प्रत्ययावृत्तिं प्रत्याययति । तथा हिउद्गीथविज्ञानं प्रस्तुत्य, आदित्य उद्गीथः’ (छा. उ. १ । ५ । १) इत्येतत् एकपुत्रतादोषेणापोद्य, रश्मींस्त्वं पर्यावर्तयात्’ (छा. उ. १ । ५ । २) इति रश्मिबहुत्वविज्ञानं बहुपुत्रतायै विदधत् सिद्धवत्प्रत्ययावृत्तिं दर्शयति । तत्सामान्यात् सर्वप्रत्ययेष्वावृत्तिसिद्धिः
अत्राहभवतु नाम साध्यफलेषु प्रत्ययेष्वावृत्तिः, तेष्वावृत्तिसाध्यस्यातिशयस्य सम्भवात् । यस्तु परब्रह्मविषयः प्रत्ययो नित्यशुद्धबुद्धमुक्तस्वभावमेव आत्मभूतं परं ब्रह्म समर्पयति, तत्र किमर्था आवृत्तिरिति । सकृच्छ्रुतौ ब्रह्मात्मत्वप्रतीत्यनुपपत्तेरावृत्त्यभ्युपगम इति चेत् , , आवृत्तावपि तदनुपपत्तेः । यदि हितत्त्वमसिइत्येवंजातीयकं वाक्यं सकृच्छ्रूयमाणं ब्रह्मात्मत्वप्रतीतिं नोत्पादयेत् ततस्तदेव आवर्त्यमानमुत्पादयिष्यतीति का प्रत्याशा स्यात् । अथोच्येत केवलं वाक्यं कञ्चिदर्थं साक्षात्कर्तुं शक्नोति; अतो युक्त्यपेक्षं वाक्यमनुभावयिष्यति ब्रह्मात्मत्वमितितथाप्यावृत्त्यानर्थक्यमेव । सापि हि युक्तिः सकृत्प्रवृत्तैव स्वमर्थमनुभावयिष्यति । अथापि स्यात्युक्त्या वाक्येन सामान्यविषयमेव विज्ञानं क्रियते, विशेषविषयम्; यथाअस्ति मे हृदये शूलम्इत्यतो वाक्यात् गात्रकम्पादिलिङ्गाच्च शूलसद्भावसामान्यमेव परः प्रतिपद्यते, विशेषमनुभवतियथा एव शूली । विशेषानुभवश्च अविद्याया निवर्तकः; तदर्था आवृत्तिरिति चेत् । असकृदपि तावन्मात्रे क्रियमाणे विशेषविज्ञानोत्पत्त्यसम्भवात् । हि सकृत्प्रयुक्ताभ्यां शास्त्रयुक्तिभ्यामनवगतो विशेषः शतकृत्वोऽपि प्रयुज्यमानाभ्यामवगन्तुं शक्यते । तस्मात् यदि शास्त्रयुक्तिभ्यां विशेषः प्रतिपाद्येत, यदि वा सामान्यमेव उभयथापि सकृत्प्रवृत्ते एव ते स्वकार्यं कुरुत इति आवृत्त्यनुपयोगः । सकृत्प्रयुक्ते शास्त्रयुक्ती कस्यचिदप्यनुभवं नोत्पादयत इति शक्यते नियन्तुम् , विचित्रप्रज्ञत्वात्प्रतिपत्तॄणाम् । अपि अनेकांशोपेते लौकिके पदार्थे सामान्यविशेषवति एकेनावधानेन एकमंशमवधारयति, अपरेण अपरम्इति स्यादप्यभ्यासोपयोगः, यथा दीर्घप्रपाठकग्रहणादिषु । तु निर्विशेषे ब्रह्मणि सामान्यविशेषरहिते चैतन्यमात्रात्मके प्रमोत्पत्तावभ्यासापेक्षा युक्तेति
अत्रोच्यतेभवेदावृत्त्यानर्थक्यं तं प्रति, यः तत्त्वमसि’ (छा. उ. ६ । ८ । ७) इति सकृदुक्तमेव ब्रह्मात्मत्वमनुभवितुं शक्नुयात् । यस्तु शक्नोति, तं प्रति उपयुज्यत एव आवृत्तिः । तथा हि छान्दोग्येतत्त्वमसि श्वेतकेतो’ (छा. उ. ६ । ८ । ७) इत्युपदिश्य, भूय एव मा भगवान्विज्ञापयतु’ (छा. उ. ६ । ८ । ७) इति पुनः पुनः परिचोद्यमानः तत्तदाशङ्काकारणं निराकृत्य, ‘तत्त्वमसिइत्येवासकृदुपदिशति; तथा श्रोतव्यो मन्तव्यो निदिध्यासितव्यः’ (बृ. उ. ४ । ५ । ६) इत्यादि दर्शितम् । ननु उक्तम्सकृच्छ्रुतं चेत् तत्त्वमसिवाक्यं स्वमर्थमनुभावयितुं शक्नोति, तत आवर्त्यमानमपि नैव शक्ष्यतीतिनैष दोषः । हि दृष्टेऽनुपपन्नं नाम । दृश्यन्ते हि सकृच्छ्रुताद्वाक्यात् मन्दप्रतीतं वाक्यार्थं आवर्तयन्तः तत्तदाभासव्युदासेन सम्यक्प्रतिपद्यमानाः । अपि तत्त्वमसिइत्येतद्वाक्यं त्वंपदार्थस्य तत्पदार्थभावमाचष्टे । तत्पदेन प्रकृतं सत् ब्रह्म ईक्षितृ जगतो जन्मादिकारणमभिधीयतेसत्यं ज्ञानमनन्तं ब्रह्म’ (तै. उ. २ । १ । १) विज्ञानमानन्दं ब्रह्म’ (बृ. उ. ३ । ९ । २८) अदृष्टं द्रष्टृ’ (बृ. उ. ३ । ८ । ११) अविज्ञातं विज्ञातृ’ (बृ. उ. ३ । ८ । ११)अजमजरममरम्’ ‘अस्थूलमनण्वह्रस्वमदीर्घम्इत्यादिशास्त्रप्रसिद्धम् । तत्र अजादिशब्दैर्जन्मादयो भावविकारा निवर्तिताः; अस्थूलादिशब्दैश्च स्थौल्यादयो द्रव्यधर्माः; विज्ञानादिशब्दैश्च चैतन्यप्रकाशात्मकत्वमुक्तम् । एष व्यावृत्तसर्वसंसारधर्मकोऽनुभवात्मको ब्रह्मसंज्ञकस्तत्पदार्थो वेदान्ताभियुक्तानां प्रसिद्धः । तथा त्वंपदार्थोऽपि प्रत्यगात्मा श्रोता देहादारभ्य प्रत्यगात्मतया सम्भाव्यमानः चैतन्यपर्यन्तत्वेनावधारितः । तत्र येषाम् एतौ पदार्थौ अज्ञानसंशयविपर्ययप्रतिबद्धौ, तेषांतत्त्वमसिइत्येतद्वाक्यं स्वार्थे प्रमां नोत्पादयितुं शक्नोति, पदार्थज्ञानपूर्वकत्वाद्वाक्यार्थज्ञानस्यइत्यतः, तान्प्रति एष्टव्यः पदार्थविवेकप्रयोजनः शास्त्रयुक्त्यभ्यासः । यद्यपि प्रतिपत्तव्य आत्मा निरंशः, तथापि अध्यारोपितं तस्मिन् बह्वंशत्वं देहेन्द्रियमनोबुद्धिविषयवेदनादिलक्षणम् । तत्र एकेन अवधानेन एकमंशमपोहति, अपरेण अपरम्इति युज्यते तत्र क्रमवती प्रतिपत्तिः । तत्तु पूर्वरूपमेव आत्मप्रतिपत्तेः । येषां पुनः निपुणमतीनां अज्ञानसंशयविपर्ययलक्षणः पदार्थविषयः प्रतिबन्धोऽस्ति, ते शक्नुवन्ति सकृदुक्तमेव तत्त्वमसिवाक्यार्थम् अनुभवितुमिति, तान्प्रति आवृत्त्यानर्थक्यमिष्टमेव । सकृदुत्पन्नैव हि आत्मप्रतिपत्तिः अविद्यां निवर्तयतीति, नात्र कश्चिदपि क्रमोऽभ्युपगम्यते । सत्यमेवं युज्येत, यदि कस्यचित् एवं प्रतिपत्तिर्भवेत् । बलवती हि आत्मनो दुःखित्वादिप्रतिपत्तिः । अतो दुःखित्वाद्यभावं कश्चित्प्रतिपद्यत इति चेत्, देहाद्यभिमानवत् दुःखित्वाद्यभिमानस्य मिथ्याभिमानत्वोपपत्तेः । प्रत्यक्षं हि देहे छिद्यमाने दह्यमाने वाअहं छिद्ये दह्येइति मिथ्याभिमानो दृष्टः । तथा बाह्यतरेष्वपि पुत्रमित्रादिषु सन्तप्यमानेषुअहमेव सन्तप्येइत्यध्यारोपो दृष्टः । तथा दुःखित्वाद्यभिमानोऽपि स्यात् , देहादिवदेव चैतन्याद्बहिरुपलभ्यमानत्वाद्दुःखित्वादीनाम् , सुषुप्तादिषु अननुवृत्तेः । चैतन्यस्य तु सुषुप्तेऽपि अनुवृत्तिमामनन्तियद्वै तन्न पश्यति पश्यन्वै तन्न पश्यति’ (बृ. उ. ४ । ३ । २३) इत्यादिना । तस्मात् सर्वदुःखविनिर्मुक्तैकचैतन्यात्मकोऽहमित्येष आत्मानुभवः । एवम् आत्मानमनुभवतः किञ्चिदन्यत्कृत्यमवशिष्यते । तथा श्रुतिःकिं प्रजया करिष्यामो येषां नोऽयमात्मायं लोकः’ (बृ. उ. ४ । ४ । २२) इत्यात्मविदः कर्तव्याभावं दर्शयति । स्मृतिरपियस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः । आत्मन्येव सन्तुष्टस्तस्य कार्यं विद्यते’ (भ. गी. ३ । १७) इति । यस्य तु एषोऽनुभवो द्रागिव जायते, तं प्रति अनुभवार्थ एव आवृत्त्यभ्युपगमः । तत्रापि तत्त्वमसिवाक्यार्थात् प्रच्याव्य आवृत्तौ प्रवर्तयेत् । हि वरघाताय कन्यामुद्वाहयन्ति । नियुक्तस्य अस्मिन्नधिकृतोऽहं कर्ता मयेदं कर्तव्यम्इत्यवश्यं ब्रह्मप्रत्ययाद्विपरीतप्रत्यय उत्पद्यते । यस्तु स्वयमेव मन्दमतिः अप्रतिभानात् तं वाक्यार्थं जिहासेत् , तस्य एतस्मिन्नेव वाक्यार्थे स्थिरीकार आवृत्त्यादिवाचोयुक्त्या अभ्युपेयते । तस्मात् परब्रह्मविषयेऽपि प्रत्यये तदुपायोपदेशेष्वावृत्तिसिद्धिः ॥ २ ॥

आत्मत्वोपासनाधिकरणम्

आत्मेति तूपगच्छन्ति ग्राहयन्ति च ॥ ३ ॥

यः शास्त्रोक्तविशेषणः परमात्मा, किम् अहमिति ग्रहीतव्यः, किं वा मदन्य इतिएतद्विचारयति । कथं पुनरात्मशब्दे प्रत्यगात्मविषये श्रूयमाणे संशय इति, उच्यतेअयमात्मशब्दो मुख्यः शक्यतेऽभ्युपगन्तुम् , सति जीवेश्वरयोरभेदसम्भवे । इतरथा तु गौणोऽयमभ्युपगन्तव्यःइति मन्यते । किं तावत्प्राप्तम् ? अहमिति ग्राह्यः । हि अपहतपाप्मत्वादिगुणो विपरीतगुणत्वेन शक्यते ग्रहीतुम् , विपरीतगुणो वा अपहतपाप्मत्वादिगुणत्वेन । अपहतपाप्मत्वादिगुणश्च परमेश्वरः, तद्विपरीतगुणस्तु शारीरः । ईश्वरस्य संसार्यात्मत्वे ईश्वराभावप्रसङ्गः । ततः शास्त्रानर्थक्यम् । संसारिणोऽपि ईश्वरात्मत्वे अधिकार्यभावाच्छास्त्रानर्थक्यमेव, प्रत्यक्षादिविरोधश्च । अन्यत्वेऽपि तादात्म्यदर्शनं शास्त्रात् कर्तव्यम्प्रतिमादिष्विव विष्ण्वादिदर्शनम् इति चेत्काममेवं भवतु । तु संसारिणो मुख्य आत्मा ईश्वर इत्येतत् नः प्रापयितव्यम्
एवं प्राप्ते, ब्रूमःआत्मेत्येव परमेश्वरः प्रतिपत्तव्यः । तथा हि परमेश्वरप्रक्रियायां जाबाला आत्मत्वेनैव एतमुपगच्छन्ति — ‘त्वं वा अहमस्मि भगवो देवतेऽहं वै त्वमसि भगवो देवतेइति; तथा अन्येऽपिअहं ब्रह्मास्मिइत्येवमादय आत्मत्वोपगमा द्रष्टव्याः । ग्राहयन्ति आत्मत्वेनैव ईश्वरं वेदान्तवाक्यानिएष आत्मा सर्वान्तरः’ (बृ. उ. ३ । ४ । १) एष आत्मान्तर्याम्यमृतः’ (बृ. उ. ३ । ७ । ३) तत्सत्यꣳ आत्मा तत्त्वमसि’ (छा. उ. ६ । ८ । ७) इत्येवमादीनि । यदुक्तम्प्रतीकदर्शनमिदं विष्णुप्रतिमान्यायेन भविष्यतीति, तदयुक्तम् । गौणत्वप्रसङ्गात् , वाक्यवैरूप्याच्चयत्र हि प्रतीकदृष्टिरभिप्रेयते, सकृदेव तत्र वचनं भवतियथा मनो ब्रह्म’ (छा. उ. ३ । १८ । १) आदित्यो ब्रह्म’ (छा. उ. ३ । १९ । १) इत्यादि । इह पुनःत्वम् अहमस्मि, अहं त्वमसीत्याह । अतः प्रतीकश्रुतिवैरूप्यात् अभेदप्रतिपत्तिः । भेददृष्ट्यपवादाच्च; तथा हिअथ योऽन्यां देवतामुपास्तेऽन्योऽसावन्योऽहमस्मीति वेद’ (बृ. उ. १ । ४ । १०) मृत्योः मृत्युमाप्नोति इह नानेव पश्यति’ (बृ. उ. ४ । ४ । १९) सर्वं तं परादाद्योऽन्यत्रात्मनः सर्वं वेद’ (बृ. उ. २ । ४ । ६) इत्येवमाद्या भूयसी श्रुतिः भेददर्शनमपवदति । यत्तूक्तम् विरुद्धगुणयोरन्योन्यात्मत्वसम्भव इति, नायं दोषः, विरुद्धगुणताया मिथ्यात्वोपपत्तेः । यत्पुनरुक्तम्ईश्वराभावप्रसङ्ग इति, तदसत् , शास्त्रप्रामाण्यात् अनभ्युपगमाच्च । हि ईश्वरस्य संसार्यात्मत्वं प्रतिपाद्यत इत्यभ्युपगच्छामःकिं तर्हि ? संसारिणः संसारित्वापोहेन ईश्वरात्मत्वं प्रतिपिपादयिषितमिति । एवं सति अद्वैतेश्वरस्य अपहतपाप्मत्वादिगुणता विपरीतगुणता तु इतरस्य मिथ्येति व्यवतिष्ठते । यदप्युक्तम्अधिकार्यभावः प्रत्यक्षादिविरोधश्चेति, तदप्यसत् , प्राक्प्रबोधात् संसारित्वाभ्युपगमात् , तद्विषयत्वाच्च प्रत्यक्षादिव्यवहारस्य । यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्’ (बृ. उ. २ । ४ । १४) इत्यादिना हि प्रबोधे प्रत्यक्षाद्यभावं दर्शयति । प्रत्यक्षाद्यभावे श्रुतेरप्यभावप्रसङ्ग इति चेत् , , इष्टत्वात् । अत्र पिताऽपिता भवति’ (बृ. उ. ४ । ३ । २२) इत्युपक्रम्य, वेदा अवेदाः’ (बृ. उ. ४ । ३ । २२) इति वचनात् इष्यत एव अस्माभिः श्रुतेरप्यभावः प्रबोधे । कस्य पुनरयम् अप्रबोध इति चेत् , यस्त्वं पृच्छसि तस्य ते, इति वदामः । ननु अहमीश्वर एवोक्तः श्रुत्यायद्येवं प्रतिबुद्धोऽसि, नास्ति कस्यचिदप्रबोधः । योऽपि दोषश्चोद्यते कैश्चित्अविद्यया किल आत्मनः सद्वितीयत्वात् अद्वैतानुपपत्तिरिति, सोऽपि एतेन प्रत्युक्तः । तस्मात् आत्मेत्येव ईश्वरे मनो दधीत ॥ ३ ॥

प्रतीकाधिकरणम्

न प्रतीके न हि सः ॥ ४ ॥

मनो ब्रह्मेत्युपासीतेत्यध्यात्ममथाधिदैवतमाकाशो ब्रह्मेति’ (छा. उ. ३ । १८ । १) तथा आदित्यो ब्रह्मेत्यादेशः’ (छा. उ. ३ । १९ । १) यो नाम ब्रह्मेत्युपास्ते’ (छा. उ. ७ । १ । ५) इत्येवमादिषु प्रतीकोपासनेषु संशयःकिं तेष्वपि आत्मग्रहः कर्तव्यः, वेति । किं तावत्प्राप्तम् ? तेष्वपि आत्मग्रह एव युक्तः कर्तुम् । कस्मात् ? ब्रह्मणः श्रुतिषु आत्मत्वेन प्रसिद्धत्वात् , प्रतीकानामपि ब्रह्मविकारत्वाद्ब्रह्मत्वे सति आत्मत्वोपपत्तेरित्येवं प्राप्ते ब्रूमः प्रतीकेष्वात्ममतिं बध्नीयात् । हि उपासकः प्रतीकानि व्यस्तानि आत्मत्वेन आकलयेत् । यत्पुनः ब्रह्मविकारत्वात्प्रतीकानां ब्रह्मत्वं ततश्च आत्मत्वमिति, तदसत् , प्रतीकाभावप्रसङ्गात् । विकारस्वरूपोपमर्देन हि नामादिजातस्य ब्रह्मत्वमेव आश्रितं भवति । स्वरूपोपमर्दे नामादीनां कुतः प्रतीकत्वम् आत्मग्रहो वा ? ब्रह्मण आत्मत्वात् ब्रह्मदृष्ट्युपदेशेष्वात्मदृष्टिः कल्प्या, कर्तृत्वाद्यनिराकरणात् । कर्तृत्वादिसर्वसंसारधर्मनिराकरणेन हि ब्रह्मण आत्मत्वोपदेशः । तदनिराकरणेन उपासनविधानम् । अतश्च उपासकस्य प्रतीकैः समत्वात् आत्मग्रहो नोपपद्यते । हि रुचकस्वस्तिकयोः इतरेतरात्मत्वमस्ति । सुवर्णात्मनेव तु ब्रह्मात्मना एकत्वे प्रतीकाभावप्रसङ्गमवोचाम । अतो प्रतीकेष्वात्मदृष्टिः क्रियते ॥ ४ ॥

ब्रह्मदृष्ट्यधिकरणम्

ब्रह्मदृष्टिरुत्कर्षात् ॥ ५ ॥

तेष्वेव उदाहरणेष्वन्यः संशयःकिमादित्यादिदृष्टयो ब्रह्मण्यध्यसितव्याः, किं वा ब्रह्मदृष्टिरादित्यादिष्विति । कुतः संशयः ? सामानाधिकरण्ये कारणानवधारणात् । अत्र हि ब्रह्मशब्दस्य आदित्यादिशब्दैः सामानाधिकरण्यमुपलभ्यते, ‘आदित्यो ब्रह्म’ ‘प्राणो ब्रह्म’ ‘विद्युद्ब्रह्मइत्यादिसमानविभक्तिनिर्देशात् । अत्र आञ्जसं सामानाधिकरण्यमवकल्पते, अर्थान्तरवचनत्वाद्ब्रह्मादित्यादिशब्दानाम् । हि भवतिगौरश्व इति सामानाधिकरण्यम् । ननु प्रकृतिविकारभावाद्ब्रह्मादित्यादीनां मृच्छरावादिवत्सामानाधिकरण्यं स्यात्नेत्युच्यते; विकारप्रविलयो ह्येवं प्रकृतिसामानाधिकरण्यात्स्यात् , ततश्च प्रतीकाभावप्रसङ्गमवोचाम । परमात्मवाक्यं चेदं तदानीं स्यात् , ततश्चोपासनाधिकारो बाध्येत, परिमितविकारोपादानं व्यर्थम् । तस्मात्ब्राह्मणोऽग्निर्वैश्वानरःइत्यादिवत् अन्यत्रान्यदृष्ट्यध्यासे सति, क्व किंदृष्टिरध्यस्यतामिति संशयः । तत्र अनियमः, नियमकारिणः शास्त्रस्याभावादित्येवं प्राप्तम् । अथवा आदित्यादिदृष्टय एव ब्रह्मणि कर्तव्या इत्येवं प्राप्तम् । एवं हि आदित्यादिदृष्टिभिः ब्रह्म उपासितं भवति । ब्रह्मोपासनं फलवदिति शास्त्रमर्यादा । तस्मात् ब्रह्मदृष्टिरादित्यादिष्वित्येवं प्राप्ते ब्रूमः
ब्रह्मदृष्टिरेव आदित्यादिषु स्यादिति । कस्मात् ? उत्कर्षात् । एवम् उत्कर्षेण आदित्यादयो दृष्टा भवन्ति, उत्कृष्टदृष्टेस्तेष्वध्यासात् । तथा लौकिको न्यायोऽनुगतो भवति । उत्कृष्टदृष्टिर्हि निकृष्टेऽध्यसितव्येति लौकिको न्यायःयथा राजदृष्टिः क्षत्तरि । अनुसर्तव्यः विपर्यये प्रत्यवायप्रसङ्गात् । हि क्षत्तृदृष्टिपरिगृहीतो राजा निकर्षं नीयमानः श्रेयसे स्यात् । ननु शास्त्रप्रामाण्यादनाशङ्कनीयोऽत्र प्रत्यवायप्रसङ्गः, लौकिकेन न्यायेन शास्त्रीया दृष्टिर्नियन्तुं युक्तेति ; अत्रोच्यतेनिर्धारिते शास्त्रार्थे एतदेवं स्यात् । सन्दिग्धे तु तस्मिन् तन्निर्णयं प्रति लौकिकोऽपि न्याय आश्रीयमाणो विरुध्यते । तेन उत्कृष्टदृष्ट्यध्यासे शास्त्रार्थेऽवधार्यमाणे, निकृष्टदृष्टिमध्यस्यन्प्रत्यवेयादिति श्लिष्यते । प्राथम्याच्च आदित्यादिशब्दानां मुख्यार्थत्वम् अविरोधात् ग्रहीतव्यम् । तैः स्वार्थवृत्तिभिरवरुद्धायां बुद्धौ, पश्चादवतरतो ब्रह्मशब्दस्य मुख्यया वृत्त्या सामानाधिकरण्यासम्भवात् , ब्रह्मदृष्टिविधानार्थतैव अवतिष्ठते । इतिपरत्वादपि ब्रह्मशब्दस्य एष एवार्थो न्याय्यः । तथा हि — ‘ब्रह्मेत्यादेशः’ ‘ब्रह्मेत्युपासीत’ ‘ब्रह्मेत्युपास्तेइति सर्वत्रेतिपरं ब्रह्मशब्दमुच्चारयति, शुद्धांस्तु आदित्यादिशब्दान् । ततश्च यथा शुक्तिकां रजतमिति प्रत्येतीत्यत्र, शुक्तिवचन एव शुक्तिकाशब्दः, रजतशब्दस्तु रजतप्रतीतिलक्षणार्थःप्रत्येत्येव हि केवलं रजतमिति, तु तत्र रजतमस्तिएवमत्रापि आदित्यादीन्ब्रह्मेति प्रतीयादिति गम्यते । वाक्यशेषोऽपि द्वितीयानिर्देशेन आदित्यादीनेव उपास्तिक्रियया व्याप्यमानान्दर्शयति एतमेवं विद्वानादित्यं ब्रह्मेत्युपास्ते’ (छा. उ. ३ । १९ । ४) यो वाचं ब्रह्मेत्युपास्ते’ (छा. उ. ७ । २ । २) यः सङ्कल्पं ब्रह्मेत्युपास्ते’ (छा. उ. ७ । ४ । ३) इति  । यत्तूक्तम्ब्रह्मोपासनमेवात्र आदरणीयं फलवत्त्वायेति, तदयुक्तम् , उक्तेन न्यायेन आदित्यादीनामेव उपास्यत्वावगमात् । फलं तु अतिथ्याद्युपासन इव आदित्याद्युपासनेऽपि ब्रह्मैव दास्यति, सर्वाध्यक्षत्वात् । वर्णितं चैतत् फलमत उपपत्तेः’ (ब्र. सू. ३ । २ । ३८) इत्यत्र । ईदृशं अत्र ब्रह्मण उपास्यत्वम् , यत्प्रतीकेषु तद्दृष्ट्यध्यारोपणम्प्रतिमादिष्विव विष्ण्वादीनाम् ॥ ५ ॥

आदित्यादिमत्यधिकरणम्

आदित्यादिमतयश्चाङ्ग उपपत्तेः ॥ ६ ॥

एवासौ तपति तमुद्गीथमुपासीत’ (छा. उ. १ । ३ । १) लोकेषु पञ्चविधꣳ सामोपासीत’ (छा. उ. २ । २ । १) वाचि सप्तविधꣳ सामोपासीत’ (छा. उ. २ । ८ । १) इयमेवर्गग्निः साम’ (छा. उ. १ । ६ । १) इत्येवमादिषु अङ्गावबद्धेषूपासनेषु संशयःकिमादित्यादिषु उद्गीथादिदृष्टयो विधीयन्ते, किं वा उद्गीथादिष्वेव आदित्यादिदृष्टय इति । तत्र अनियमः, नियमकारणाभावात्इति प्राप्तम् । हि अत्र ब्रह्मण इव कस्यचिदुत्कर्षविशेषोऽवधार्यते । ब्रह्म हि समस्तजगत्कारणत्वात् अपहतपाप्मत्वादिगुणयोगाच्च आदित्यादिभ्य उत्कृष्टमिति शक्यमवधारयितुम् । तु आदित्योद्गीथादीनां विकारत्वाविशेषात् किञ्चिदुत्कर्षविशेषावधारणे कारणमस्ति । अथवा नियमेनैव उद्गीथादिमतय आदित्यादिषु अध्यस्येरन् । कस्मात् ? कर्मात्मकत्वादुद्गीथादीनाम् , कर्मणश्च फलप्राप्तिप्रसिद्धेः । उद्गीथादिमतिभिरुपास्यमाना आदित्यादयः कर्मात्मकाः सन्तः फलहेतवो भविष्यन्ति । तथा इयमेवर्गग्निः साम’ (छा. उ. १ । ६ । १) इत्यत्र तदेतदेतस्यामृच्यध्यूढं साम’ (छा. उ. १ । ६ । १) इति ऋक्शब्देन पृथिवीं निर्दिशति, सामशब्देनाग्निम् । तच्च पृथिव्यग्न्योः ऋक्सामदृष्टिचिकीर्षायामवकल्पते, ऋक्सामयोः पृथिव्यग्निदृष्टिचिकीर्षायाम् । क्षत्तरि हि राजदृष्टिकरणात् राजशब्द उपचर्यते, राजनि क्षत्तृशब्दः । अपि लोकेषु पञ्चविधꣳ सामोपासीत’ (छा. उ. २ । २ । १) इति अधिकरणनिर्देशात् लोकेषु साम अध्यसितव्यमिति प्रतीयते । एतद्गायत्रं प्राणेषु प्रोतम्’ (छा. उ. २ । ११ । १) इति एतदेव दर्शयति । प्रथमनिर्दिष्टेषु आदित्यादिषु चरमनिर्दिष्टं ब्रह्माध्यस्तम्आदित्यो ब्रह्मेत्यादेशः’ (छा. उ. ३ । १९ । १) इत्यादिषु । प्रथमनिर्दिष्टाश्च पृथिव्यादयः, चरमनिर्दिष्टा हिंकारादयःपृथिवी हिंकारः’ (छा. उ. २ । २ । १) इत्यादिश्रुतिषु । अतः अनङ्गेष्वादित्यादिषु अङ्गमतिक्षेप त्येवं प्राप्ते ब्रूमः
आदित्यादिमतय एव अङ्गेषु उद्गीथादिषु क्षिप्येरन् । कुतः ? उपपत्तेः । उपपद्यते हि एवम् अपूर्वसन्निकर्षात् आदित्यादिमतिभिः संस्क्रियमाणेषु उद्गीथादिषु कर्मसमृद्धिः । यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति’ (छा. उ. १ । १ । १०) इति विद्यायाः कर्मसमृद्धिहेतुत्वं दर्शयति । भवतु कर्मसमृद्धिफलेष्वेवम्; स्वतन्त्रफलेषु तु कथं एतदेवं विद्वाँल्लोकेषु पञ्चविधं सामोपास्ते’ (छा. उ. २ । २ । ३) इत्यादिषु ? तेष्वपि अधिकृताधिकारात् प्रकृतापूर्वसन्निकर्षेणैव फलकल्पना युक्ता, गोदोहनादिनियमवत् । फलात्मकत्वाच्च आदित्यादीनाम् उद्गीथादिभ्यः कर्मात्मकेभ्यः उत्कर्षोपपत्तिः । आदित्यादिप्राप्तिलक्षणं हि कर्मफलं शिष्यते श्रुतिषु । अपि ओमित्येतदक्षरमुद्गीथमुपासीत’ (छा. उ. १ । १ । १) खल्वेतस्यैवाक्षरस्योपव्याख्यानं भवति’ (छा. उ. १ । १ । १०) इति उद्गीथमेव उपास्यत्वेनोपक्रम्य, आदित्यादिमतीर्विदधाति । यत्तूक्तम्उद्गीथादिमतिभिरुपास्यमाना आदित्यादयः कर्मभूयं भूत्वा फलं करिष्यन्तीति, तदयुक्तम् ; स्वयमेवोपासनस्य कर्मत्वात् फलवत्त्वोपपत्तेः । आदित्यादिभावेनापि दृश्यमानानामुद्गीथादीनां कर्मात्मकत्वानपायात् । तदेतदेतस्यामृच्यध्यूढꣳ साम’ (छा. उ. १ । ६ । १) इति तु लाक्षणिक एव पृथिव्यग्न्योः ऋक्सामशब्दप्रयोगः । लक्षणा यथासम्भवं सन्निकृष्टेन विप्रकृष्टेन वा स्वार्थसम्बन्धेन प्रवर्तते । तत्र यद्यपि ऋक्सामयोः पृथिव्यग्निदृष्टिचिकीर्षा, तथापि प्रसिद्धयोः ऋक्सामयोर्भेदेनानुकीर्तनात् , पृथिव्यग्न्योश्च सन्निधानात् , तयोरेव एष ऋक्सामशब्दप्रयोगः ऋक्सामसम्बन्धादिति निश्चीयते । क्षत्तृशब्दोऽपि हि कुतश्चित्कारणाद्राजानमुपसर्पन् निवारयितुं पार्यते । इयमेवर्क्’ (छा. उ. १ । ६ । १) इति यथाक्षरन्यासम् ऋच एव पृथिवीत्वमवधारयति । पृथिव्या हि ऋक्त्वेऽवधार्यमाणेइयमृगेवेत्यक्षरन्यासः स्यात् । एवं विद्वान्साम गायति’ (छा. उ. १ । ७ । ९) इति अङ्गाश्रयमेव विज्ञानमुपसंहरति, पृथिव्याद्याश्रयम् । तथा लोकेषु पञ्चविधꣳ सामोपासीत’ (छा. उ. २ । २ । १) इति यद्यपि सप्तमीनिर्दिष्टा लोकाः, तथापि साम्न्येव ते अध्यस्येरन् , द्वितीयानिर्देशेन साम्न उपास्यत्वावगमात् । सामनि हि लोकेष्वध्यस्यमानेषु साम लोकात्मनोपासितं भवति, अन्यथा पुनः लोकाः सामात्मना उपासिताः स्युः । एतेन एतद्गायत्रं प्राणेषु प्रोतम्’ (छा. उ. २ । ११ । १) इत्यादि व्याख्यातम् । यत्रापि तुल्यो द्वितीयानिर्देशः अथ खल्वमुमादित्यꣳ सप्तविधꣳ सामोपासीत’ (छा. उ. २ । ९ । १) इति, तत्रापिसमस्तस्य खलु साम्न उपासनꣳ साधु’ (छा. उ. २ । १ । १) इति तु पञ्चविधस्य’ (छा. उ. २ । ७ । २) अथ सप्तविधस्य’ (छा. उ. २ । ८ । १) इति साम्न एव उपास्यत्वोपक्रमात् तस्मिन्नेव आदित्याद्यध्यासः । एतस्मादेव साम्न उपास्यत्वावगमात् पृथिवी हिंकारः’ (छा. उ. २ । २ । १) इत्यादिनिर्देशविपर्ययेऽपि हिंकारादिष्वेव पृथिव्यादिदृष्टिः । तस्मात् अनङ्गाश्रया आदित्यादिमतयः अङ्गेषूद्गीथादिषु क्षिप्येरन्निति सिद्धम् ॥ ६ ॥

आसीनाधिकरणम्

आसीनः सम्भवात् ॥ ७ ॥

कर्माङ्गसम्बद्धेषु तावत् उपासनेषु कर्मतन्त्रत्वात् आसनादिचिन्ता । नापि सम्यग्दर्शने, वस्तुतन्त्रत्वाद्विज्ञानस्य । इतरेषु तु उपासनेषु किम् अनियमेन तिष्ठन् आसीनः शयानो वा प्रवर्तेत उत नियमेन आसीन एवेति चिन्तयति । तत्र मानसत्वादुपासनस्य अनियमः शरीरस्थितेरित्येवं प्राप्ते, ब्रवीतिआसीन एवोपासीतेति । कुतः ? सम्भवात् । उपासनं नाम समानप्रत्ययप्रवाहकरणम् । तत् गच्छतो धावतो वा सम्भवति, गत्यादीनां चित्तविक्षेपकरत्वात् । तिष्ठतोऽपि देहधारणे व्यापृतं मनो सूक्ष्मवस्तुनिरीक्षणक्षमं भवति । शयानस्यापि अकस्मादेव निद्रया अभिभूयेत । आसीनस्य तु एवंजातीयको भूयान्दोषः सुपरिहर इति सम्भवति तस्योपासनम् ॥ ७ ॥

ध्यानाच्च ॥ ८ ॥

अपि ध्यायत्यर्थ एषः, यत्समानप्रत्ययप्रवाहकरणम् । ध्यायतिश्च प्रशिथिलाङ्गचेष्टेषु प्रतिष्ठितदृष्टिषु एकविषयाक्षिप्तचित्तेषु उपचर्यमाणो दृश्यतेध्यायति बकः, ध्यायति प्रोषितबन्धुरिति । आसीनश्च अनायासो भवति । तस्मादपि आसीनकर्मोपासनम् ॥ ८ ॥

अचलत्वं चापेक्ष्य ॥ ९ ॥

अपि ध्यायतीव पृथिवी’ (छा. उ. ७ । ६ । १) इत्यत्र पृथिव्यादिषु अचलत्वमेवापेक्ष्य ध्यायतिवादो भवति । तच्च लिङ्गम् उपासनस्य आसीनकर्मत्वे ॥ ९ ॥

स्मरन्ति च ॥ १० ॥

स्मरन्त्यपि शिष्टा उपासनाङ्गत्वेन आसनम्शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः’ (भ. गी. ६ । ११) इत्यादिना । अत एव पद्मकादीनामासनविशेषाणामुपदेशो योगशास्त्रे ॥ १० ॥

एकाग्रताधिकरणम्

यत्रैकाग्रता तत्राविशेषात् ॥ ११ ॥

दिग्देशकालेषु संशयःकिमस्ति कश्चिन्नियमः, नास्ति वेति । प्रायेण वैदिकेष्वारम्भेषु दिगादिनियमदर्शनात् , स्यादिहापि कश्चिन्नियम इति यस्य मतिः, तं प्रत्याहदिग्देशकालेषु अर्थलक्षण एव नियमः । यत्रैव अस्य दिशि देशे काले वा मनसः सौकर्येणैकाग्रता भवति, तत्रैवोपासीत, प्राचीदिक्पूर्वाह्णप्राचीनप्रवणादिवत् विशेषाश्रवणात् , एकाग्रताया इष्टायाः सर्वत्राविशेषात् । ननु विशेषमपि केचिदामनन्तिसमे शुचौ शर्करावह्निवालुकाविवर्जिते शब्दजलाश्रयादिभिः । मनोनुकूले तु चक्षुपीडने गुहानिवाताश्रयणे प्रयोजयेत्’ (श्वे. उ. २ । १०) इति यथेतिउच्यते । सत्यमस्ति एवंजातीयको नियमः । सति त्वेतस्मिन् , तद्गतेषु विशेषेष्वनियम इति सुहृद्भूत्वा आचार्य आचष्टे । ‘मनोनुकूलेइति चैषा श्रुतिः यत्रैकाग्रता तत्रैवइत्येतदेव दर्शयति ॥ ११ ॥

आप्रायणाधिकरणम्

आ प्रायणात्तत्रापि हि दृष्टम् ॥ १२ ॥

आवृत्तिः सर्वोपासनेष्वादर्तव्येति स्थितमाद्येऽधिकरणे । तत्र यानि तावत् सम्यग्दर्शनार्थान्युपासनानि, तानि अवघातादिवत् कार्यपर्यवसानानीति ज्ञातमेव एषामावृत्तिपरिमाणम् । हि सम्यग्दर्शने कार्ये निष्पन्ने यत्नान्तरं किञ्चिच्छासितुं शक्यम् , अनियोज्यब्रह्मात्मत्वप्रतिपत्तेः शास्त्रस्याविषयत्वात् । यानि पुनः अभ्युदयफलानि, तेष्वेषा चिन्ताकिं कियन्तंचित्कालं प्रत्ययमावर्त्य उपरमेत् , उत यावज्जीवमावर्तयेदिति । किं तावत्प्राप्तम् ? कियन्तंचित्कालं प्रत्ययमभ्यस्य उत्सृजेत् , आवृत्तिविशिष्टस्योपासनशब्दार्थस्य कृतत्वादित्येवं प्राप्ते, ब्रूमः प्रायणादेव आवर्तयेत्प्रत्ययम् , अन्त्यप्रत्ययवशाददृष्टफलप्राप्तेः । कर्माण्यपि हि जन्मान्तरोपभोग्यं फलमारभमाणानि तदनुरूपं भावनाविज्ञानं प्रायणकाले आक्षिपन्ति — ‘सविज्ञानो भवति सविज्ञानमेवान्ववक्रामति’ ‘यच्चित्तस्तेनैष प्राणमायाति’ ‘प्राणस्तेजसा युक्तः सहात्मना यथासङ्कल्पितं लोकं नयतिइति चैवमादिश्रुतिभ्यः । तृणजलूकानिदर्शनाच्च । प्रत्ययास्त्वेते स्वरूपानुवृत्तिं मुक्त्वा किमन्यत् प्रायणकालभावि भावनाविज्ञानमपेक्षेरन् । तस्मात् ये प्रतिपत्तव्यफलभावनात्मकाः प्रत्ययाः, तेषु प्रायणात् आवृत्तिः । तथा श्रुतिः — ‘ यावत्क्रतुरयमस्माल्लोकात्प्रैतिइति प्रायणकालेऽपि प्रत्ययानुवृत्तिं दर्शयति । स्मृतिरपियं यं वापि स्मरन्भावं त्यजत्यन्ते कलेबरम् । तं तमेवैति कौन्तेय सदा तद्भावभावितः’ (भ. गी. ८ । ६) इति, प्रयाणकाले मनसाचलेन’ (भ. गी. ८ । १०) इति  । ‘सोऽन्तवेलायामेतत्त्रयं प्रतिपद्येतइति मरणवेलायामपि कर्तव्यशेषं श्रावयति ॥ १२ ॥

तदधिगमाधिकरणम्

तदधिगम उत्तरपूर्वाघयोरश्लेषविनाशौ तद्व्यपदेशात् ॥ १३ ॥

गतस्तृतीयशेषः । अथेदानीं ब्रह्मविद्याफलं प्रति चिन्ता प्रतायते । ब्रह्माधिगमे सति तद्विपरीतफलं दुरितं क्षीयते, क्षीयते वेति संशयः । किं तावत्प्राप्तम् ? फलार्थत्वात्कर्मणः फलमदत्त्वा सम्भाव्यते क्षयः । फलदायिनी हि अस्य शक्तिः श्रुत्या समधिगता । यदि तत् अन्तरेणैव फलोपभोगमपवृज्येत, श्रुतिः कदर्थिता स्यात् । स्मरन्ति हि कर्म क्षीयते’ (गौ. ध. सू. ३ । १ । ५) इति । नन्वेवं सति प्रायश्चित्तोपदेशोऽनर्थकः प्राप्नोतिनैष दोषः, प्रायश्चित्तानां नैमित्तिकत्वोपपत्तेः गृहदाहेष्ट्यादिवत् । अपि प्रायश्चित्तानां दोषसंयोगेन विधानाद्भवेदपि दोषक्षपणार्थता । त्वेवं ब्रह्मविद्यायां विधानमस्ति । नन्वनभ्युपगम्यमाने ब्रह्मविदः कर्मक्षये तत्फलस्यावश्यभोक्तव्यत्वादनिर्मोक्षः स्यात्नेत्युच्यते; देशकालनिमित्तापेक्षो मोक्षः कर्मफलवत् भविष्यति । तस्मान्न ब्रह्माधिगमे दुरितनिवृत्तिरित्येवं प्राप्ते ब्रूमः
तदधिगमे ब्रह्माधिगमे सति उत्तरपूर्वयोरघयोरश्लेषविनाशौ भवतःउत्तरस्य अश्लेषः, पूर्वस्य विनाशः । कस्मात् ? तद्व्यपदेशात् । तथा हि ब्रह्मविद्याप्रक्रियायां सम्भाव्यमानसम्बन्धस्य आगामिनो दुरितस्यानभिसम्बन्धं विदुषो व्यपदिशतियथा पुष्करपलाश आपो श्लिष्यन्त एवमेवंविदि पापं कर्म श्लिष्यते’ (छा. उ. ४ । १४ । ३) इति । तथा विनाशमपि पूर्वोपचितस्य दुरितस्य व्यपदिशतितद्यथेषीकातूलमग्नौ प्रोतं प्रदूयेतैवꣳ हास्य सर्वे पाप्मानः प्रदूयन्ते’ (छा. उ. ५ । २४ । ३) इति । अयमपरः कर्मक्षयव्यपदेशो भवतिभिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे’ (मु. उ. २ । २ । ९) इति । यदुक्तम्अनुपभुक्तफलस्य कर्मणः क्षयकल्पनायां शास्त्रं कदर्थितं स्यादिति, नैष दोषः । हि वयं कर्मणः फलदायिनीं शक्तिमवजानीमहे । विद्यत एव सा । सा तु विद्यादिना कारणान्तरेण प्रतिबध्यत इति वदामः । शक्तिसद्भावमात्रे शास्त्रं व्याप्रियते, प्रतिबन्धाप्रतिबन्धयोरपि । हि कर्म क्षीयते’ (गौ. ध. सू. ३ । १ । ५) इत्येतदपि स्मरणमौत्सर्गिकम् हि भोगादृते कर्म क्षीयते तदर्थत्वादिति । इष्यत एव तु प्रायश्चित्तादिना तस्य क्षयः — ‘सर्वं पाप्मानं तरति, तरति ब्रह्महत्याम् , योऽश्वमेधेन यजते, चैनमेवं वेदइत्यादि श्रुतिस्मृतिभ्यः । यत्तूक्तम्नैमित्तिकानि प्रायश्चित्तानि भविष्यन्तीति, तदसत् , दोषसंयोगेन चोद्यमानानामेषां दोषनिर्घातफलसम्भवे फलान्तरकल्पनानुपपत्तेः । यत्पुनरेतदुक्तम् प्रायश्चित्तवत् दोषक्षयोद्देशेन विद्याविधानमस्तीति, अत्र ब्रूमःसगुणासु तावद्विद्यासु विद्यत एव विधानम् , तासु वाक्यशेषे ऐश्वर्यप्राप्तिः पापनिवृत्तिश्च विद्यावत उच्यते, तयोश्चाविवक्षाकारणं नास्तिइत्यतः पाप्मप्रहाणपूर्वकैश्वर्यप्राप्तिः तासां फलमिति निश्चीयते । निर्गुणायां तु विद्यायां यद्यपि विधानं नास्ति, तथापि अकर्त्रात्मत्वबोधात्कर्मप्रदाहसिद्धिः । अश्लेष इति आगामिषु कर्मसु कर्तृत्वमेव प्रतिपद्यते ब्रह्मविदिति दर्शयति । अतिक्रान्तेषु तु यद्यपि मिथ्याज्ञानात्कर्तृत्वं प्रतिपेद इव, तथापि विद्यासामर्थ्यान्मिथ्याज्ञाननिवृत्तेः तान्यपि प्रविलीयन्त इत्याहविनाश इति । पूर्वसिद्धकर्तृत्वभोक्तृत्वविपरीतं हि त्रिष्वपि कालेष्वकर्तृत्वाभोक्तृत्वस्वरूपं ब्रह्माहमस्मि, नेतः पूर्वमपि कर्ता भोक्ता वा अहमासम् , नेदानीम् , नापि भविष्यत्कालेइति ब्रह्मविदवगच्छति । एवमेव मोक्ष उपपद्यते । अन्यथा हि अनादिकालप्रवृत्तानां कर्मणां क्षयाभावे मोक्षाभावः स्यात् । देशकालनिमित्तापेक्षो मोक्षः कर्मफलवत् भवितुमर्हति; अनित्यत्वप्रसङ्गात् , परोक्षत्वानुपपत्तेश्च ज्ञानफलस्य । तस्मात् ब्रह्माधिगमे दुरितक्षय इति स्थितम् ॥ १३ ॥

इतरासंश्लेषाधिकरणम्

इतरस्याप्येवमसंश्लेषः पाते तु ॥ १४ ॥

पूर्वस्मिन्नधिकरणे बन्धहेतोरघस्य स्वाभाविकस्य अश्लेषविनाशौ ज्ञाननिमित्तौ शास्त्रव्यपदेशान्निरूपितौ । धर्मस्य पुनः शास्त्रीयत्वात् शास्त्रीयेण ज्ञानेन अविरोध इत्याशङ्क्य तन्निराकरणाय पूर्वाधिकरणन्यायातिदेशः क्रियतेइतरस्यापि पुण्यस्य कर्मणः एवम् अघवत् असंश्लेषो विनाशश्च ज्ञानवतो भवतः ; कुतः ? तस्यापि स्वफलहेतुत्वेन ज्ञानफलप्रतिबन्धित्वप्रसङ्गात् , उभे हैवैष एते तरति’ (बृ. उ. ४ । ४ । २२) इत्यादिश्रुतिषु दुष्कृतवत्सुकृतस्यापि प्रणाशव्यपदेशात् , अकर्त्रात्मत्वबोधनिमित्तस्य कर्मक्षयस्य सुकृतदुष्कृतयोस्तुल्यत्वात् , क्षीयन्ते चास्य कर्माणि’ (मु. उ. २ । २ । ९) इति अविशेषश्रुतेः । यत्रापि केवल एव पाप्मशब्दः पठ्यते, तत्रापि तेनैव पुण्यमप्याकलितमिति द्रष्टव्यम् , ज्ञानापेक्षया निकृष्टफलत्वात् । अस्ति श्रुतौ पुण्येऽपि पाप्मशब्दःनैनं सेतुमहोरात्रे तरतः’ (छा. उ. ८ । ४ । १) इत्यत्र सह दुष्कृतेन सुकृतमप्यनुक्रम्य, ‘सर्वे पाप्मानोऽतो निवर्तन्तेइत्यविशेषेणैव प्रकृते पुण्ये पाप्मशब्दप्रयोगात् । ‘पाते तुइति तुशब्दोऽवधारणार्थः । एवं धर्माधर्मयोर्बन्धहेत्वोः विद्यासामर्थ्यादश्लेषविनाशसिद्धेः अवश्यंभाविनी विदुषः शरीरपाते मुक्तिरित्यवधारयति ॥ १४ ॥

अनारब्धाधिकरणम्

अनारब्धकार्ये एव तु पूर्वे तदवधेः ॥ १५ ॥

पूर्वयोरधिकरणयोर्ज्ञाननिमित्तः सुकृतदुष्कृतयोर्विनाशोऽवधारितः । किमविशेषेण आरब्धकार्ययोरनारब्धकार्ययोश्च भवति, उत विशेषेणानारब्धकार्ययोरेवेति विचार्यते । तत्र उभे हैवैष एते तरति’ (बृ. उ. ४ । ४ । २२) इत्येवमादिश्रुतिष्वविशेषश्रवणादविशेषेणैव क्षय त्येवं प्राप्ते, प्रत्याहअनारब्धकार्ये एव त्विति । अप्रवृत्तफले एव पूर्वे जन्मान्तरसञ्चिते, अस्मिन्नपि जन्मनि प्राग्ज्ञानोत्पत्तेः सञ्चिते, सुकृतदुष्कृते ज्ञानाधिगमात् क्षीयेते; तु आरब्धकार्ये सामिभुक्तफले, याभ्यामेतत् ब्रह्मज्ञानायतनं जन्म निर्मितम् । कुत एतत् ? तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ सम्पत्स्ये’ (छा. उ. ६ । १४ । २) इति शरीरपातावधिकरणात्क्षेमप्राप्तेः । इतरथा हि ज्ञानादशेषकर्मक्षये सति स्थितिहेत्वभावात् ज्ञानप्राप्त्यनन्तरमेव क्षेममश्नुवीत । तत्र शरीरपातप्रतीक्षां आचक्षीत । ननु वस्तुबलेनैव अयमकर्त्रात्मावबोधः कर्माणि क्षपयन् कथं कानिचित्क्षपयेत् कानिचिच्चोपेक्षेत ? हि समानेऽग्निबीजसम्पर्के केषाञ्चिद्बीजशक्तिः क्षीयते, केषाञ्चिन्न क्षीयते इति शक्यमङ्गीकर्तुमिति । उच्यते तावदनाश्रित्य आरब्धकार्यं कर्माशयं ज्ञानोत्पत्तिरुपपद्यते । आश्रिते तस्मिन्कुलालचक्रवत्प्रवृत्तवेगस्य अन्तराले प्रतिबन्धासम्भवात् भवति वेगक्षयप्रतिपालनम् । अकर्त्रात्मबोधोऽपि हि मिथ्याज्ञानबाधनेन कर्माण्युच्छिनत्ति । बाधितमपि तु मिथ्याज्ञानं द्विचन्द्रज्ञानवत्संस्कारवशात्कंचित्कालमनुवर्तत एव । अपि नैवात्र विवदितव्यम्ब्रह्मविदा कञ्चित्कालं शरीरं ध्रियते वा ध्रियत इति । कथं हि एकस्य स्वहृदयप्रत्ययं ब्रह्मवेदनं देहधारणं अपरेण प्रतिक्षेप्तुं शक्येत ? श्रुतिस्मृतिषु स्थितप्रज्ञलक्षणनिर्देशेन एतदेव निरुच्यते । तस्मादनारब्धकार्ययोरेव सुकृतदुष्कृतयोर्विद्यासामर्थ्यात्क्षय इति निर्णयः ॥ १५ ॥

अग्निहोत्राद्यधिकरणम्

अग्निहोत्रादि तु तत्कार्यायैव तद्दर्शनात् ॥ १६ ॥

पुण्यस्याप्यश्लेषविनाशयोरघन्यायोऽतिदिष्टः । सोऽतिदेशः सर्वपुण्यविषय इत्याशङ्क्य प्रतिवक्तिअग्निहोत्रादि त्विति । तुशब्द आशङ्कामपनुदति । यन्नित्यं कर्म वैदिकमग्निहोत्रादि, तत् तत्कार्यायैव भवति; ज्ञानस्य यत्कार्यं तदेव अस्यापि कार्यमित्यर्थः । कुतः ? तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन’ (बृ. उ. ४ । ४ । २२) इत्यादिदर्शनात् । ननु ज्ञानकर्मणोर्विलक्षणकार्यत्वात्कार्यैकत्वानुपपत्तिःनैष दोषः, ज्वरमरणकार्ययोरपि दधिविषयोः गुडमन्त्रसंयुक्तयोस्तृप्तिपुष्टिकार्यदर्शनात् , तद्वत् कर्मणोऽपि ज्ञानसंयुक्तस्य मोक्षकार्योपपत्तेः । ननु अनारभ्यो मोक्षः, कथमस्य कर्मकार्यत्वमुच्यते ? नैष दोषः, आरादुपकारकत्वात्कर्मणः । ज्ञानस्यैव हि प्रापकं सत् कर्म प्रणाड्या मोक्षकारणमित्युपचर्यते । अत एव अतिक्रान्तविषयमेतत्कार्यैकत्वाभिधानम् । हि ब्रह्मविद आगाम्यग्निहोत्रादि सम्भवति, अनियोज्यब्रह्मात्मत्वप्रतिपत्तेः शास्त्रस्याविषयत्वात् । सगुणासु तु विद्यासु कर्तृत्वानतिवृत्तेः सम्भवति आगाम्यपि अग्निहोत्रादि । तस्यापि निरभिसन्धिनः कार्यान्तराभावाद्विद्यासङ्गत्युपपत्तिः ॥ १६ ॥
किंविषयं पुनरिदम् अश्लेषविनाशवचनम् , किंविषयं वा अदो विनियोगवचनम् एकेषां शाखिनाम् — ‘तस्य पुत्रा दायमुपयन्ति सुहृदः साधुकृत्यां द्विषन्तः पापकृत्याम्इति ? अत उत्तरं पठति

अतोऽन्यापि ह्येकेषामुभयोः ॥ १७ ॥

अतोऽग्निहोत्रादेर्नित्यात्कर्मणः अन्यापि ह्यस्ति साधुकृत्या, या फलमभिसन्धाय क्रियते, तस्या एष विनियोग उक्तः एकेषां शाखिनाम् — ‘सुहृदः साधुकृत्यामुपयन्तिइति । तस्या एव इदम् अघवदश्लेषविनाशनिरूपणम्इतरस्याप्येवमसंश्लेष इति । एवंजातीयकस्य काम्यस्य कर्मणो विद्यां प्रत्यनुपकारकत्वे सम्प्रतिपत्तिः उभयोरपि जैमिनिबादरायणयोराचार्ययोः ॥ १७ ॥

विद्याज्ञानसाधनत्वाधिकरणम्

यदेव विद्ययेति हि ॥ १८ ॥

समधिगतमेतदनन्तराधिकरणेनित्यमग्निहोत्रादिकं कर्म मुमुक्षुणा मोक्षप्रयोजनोद्देशेन कृतमुपात्तदुरितक्षयहेतुत्वद्वारेण सत्त्वशुद्धिकारणतां प्रतिपद्यमानं मोक्षप्रयोजनब्रह्माधिगमनिमित्तत्वेन ब्रह्मविद्यया सह एककार्यं भवतीति । तत्र अग्निहोत्रादि कर्माङ्गव्यपाश्रयविद्यासंयुक्तं केवलं चास्ति — ‘ एवं विद्वान्यजति’ ‘ एवं विद्वाञ्जुहोति’ ‘ एवं विद्वाञ्शंसति’ ‘ एवं विद्वान्गायतितस्मादेवंविदमेव ब्रह्माणं कुर्वीत नानेवंविदम्’ (छा. उ. ४ । १७ । १०) तेनोभौ कुरुतो यश्चैतदेवं वेद यश्च वेद’ (छा. उ. १ । १ । १०) इत्यादिवचनेभ्यो विद्यासंयुक्तमस्ति, केवलमप्यस्ति । तत्रेदं विचार्यतेकिं विद्यासंयुक्तमेव अग्निहोत्रादिकं कर्म मुमुक्षोर्विद्याहेतुत्वेन तया सह एककार्यत्वं प्रतिपद्यते केवलम्; उत विद्यासंयुक्तं केवलं अविशेषेणेति । कुतः संशयः ? ‘तमेतमात्मानं यज्ञेन विविदिषन्तिइति यज्ञादीनामविशेषेण आत्मवेदनाङ्गत्वेन श्रवणात् , विद्यासंयुक्तस्य अग्निहोत्रादेर्विशिष्टत्वावगमात् । किं तावत्प्राप्तम् ? विद्यासंयुक्तमेव कर्म अग्निहोत्रादि आत्मविद्याशेषत्वं प्रतिपद्यते, विद्याहीनम् , विद्योपेतस्य विशिष्टत्वावगमाद्विद्याविहीनात्यदहरेव जुहोति तदहः पुनर्मृत्युमपजयत्येवं विद्वान्’(बृ॰उ॰ १-५-२) इत्यादिश्रुतिभ्यः, बुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि’ (भ. गी. २ । ३९) दूरेण ह्यवरं कर्म बुद्धियोगाद्धनञ्जय’ (भ. गी. २ । ४९) इत्यादिस्मृतिभ्यश्च इत्येवं प्राप्ते प्रतिपाद्यते
यदेव विद्ययेति हि । सत्यमेतत्विद्यासंयुक्तं कर्म अग्निहोत्रादिकं विद्याविहीनात्कर्मणोऽग्निहोत्राद्विशिष्टम् , विद्वानिव ब्राह्मणो विद्याविहीनाद्ब्राह्मणात्; तथापि नात्यन्तमनपेक्षं विद्याविहीनं कर्म अग्निहोत्रादिकम् । कस्मात् ? ‘तमेतमात्मानं यज्ञेन विविदिषन्तिइत्यविशेषेण अग्निहोत्रादेर्विद्याहेतुत्वेन श्रुतत्वात् । ननु विद्यासंयुक्तस्य अग्निहोत्रादेर्विद्याविहीनाद्विशिष्टत्वावगमात् विद्याविहीनमग्निहोत्रादि आत्मविद्याहेतुत्वेनानपेक्ष्यमेवेति युक्तम्नैतदेवम्; विद्यासहायस्याग्निहोत्रादेर्विद्यानिमित्तेन सामर्थ्यातिशयेन योगात् आत्मज्ञानं प्रति कश्चित्कारणत्वातिशयो भविष्यति, तथा विद्याविहीनस्यइति युक्तं कल्पयितुम् । तुयज्ञेन विविदिषन्तिइत्यत्राविशेषेणात्मज्ञानाङ्गत्वेन श्रुतस्याग्निहोत्रादेरनङ्गत्वं शक्यमभ्युपगन्तुम् । तथा हि श्रुतिःयदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति’ (छा. उ. १ । १ । १०) इति विद्यासंयुक्तस्य कर्मणोऽग्निहोत्रादेः वीर्यवत्तरत्वाभिधानेन स्वकार्यं प्रति कञ्चिदतिशयं ब्रुवाणा विद्याविहीनस्य तस्यैव तत्प्रयोजनं प्रति वीर्यवत्त्वं दर्शयति । कर्मणश्च वीर्यवत्त्वं तत् , यत्स्वप्रयोजनसाधनप्रसहत्वम् । तस्माद्विद्यासंयुक्तं नित्यमग्निहोत्रादि विद्याविहीनं उभयमपि मुमुक्षुणा मोक्षप्रयोजनोद्देशेन इह जन्मनि जन्मान्तरे प्राग्ज्ञानोत्पत्तेः कृतं यत् , तद्यथासामर्थ्यं ब्रह्माधिगमप्रतिबन्धकारणोपात्तदुरितक्षयहेतुत्वद्वारेण ब्रह्माधिगमकारणत्वं प्रतिपद्यमानं श्रवणमननश्रद्धातात्पर्याद्यन्तरङ्गकारणापेक्षं ब्रह्मविद्यया सह एककार्यं भवतीति स्थितम् ॥ १८ ॥

इतरक्षपणाधिकरणम्

भोगेन त्वितरे क्षपयित्वा सम्पद्यते ॥ १९ ॥

अनारब्धकार्ययोः पुण्यपापयोर्विद्यासामर्थ्यात्क्षय उक्तः । इतरे तु आरब्धकार्ये पुण्यपापे उपभोगेन क्षपयित्वा ब्रह्म सम्पद्यते, तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ सम्पत्स्ये’ (छा. उ. ६ । १४ । २) इतिब्रह्मैव सन्ब्रह्माप्येतिइति एवमादिश्रुतिभ्यः । ननु सत्यपि सम्यग्दर्शने यथा प्राग्देहपाताद्भेददर्शनं द्विचन्द्रदर्शनन्यायेनानुवृत्तम् , एवं पश्चादप्यनुवर्तेत, निमित्ताभावात् । उपभोगशेषक्षपणं हि तत्रानुवृत्तिनिमित्तम् , तादृशमत्र किञ्चिदस्ति । ननु अपरः कर्माशयोऽभिनवमुपभोगमारप्स्यते ; तस्य दग्धबीजत्वात् । मिथ्याज्ञानावष्टम्भं हि कर्मान्तरं देहपात उपभोगान्तरमारभते; तच्च मिथ्याज्ञानं सम्यग्ज्ञानेन दग्धम्इत्यतः साध्वेतत् आरब्धकार्यक्षये विदुषः कैवल्यमवश्यं भवतीति ॥ १९ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छङ्करभगवतः कृतौ शारीरकमीमांसासूत्रभाष्ये
चतुर्थाध्यायस्य प्रथमः पादः

द्वितीयः पादः

अथ अपरासु विद्यासु फलप्राप्तये देवयानं पन्थानमवतारयिष्यन् प्रथमं तावत् यथाशास्त्रमुत्क्रान्तिक्रममन्वाचष्टे । समाना हि विद्वदविदुषोरुत्क्रान्तिरिति वक्ष्यति

वागधिकरणम्

वाङ्मनसि दर्शनाच्छब्दाच्च ॥ १ ॥

अस्ति प्रायणविषया श्रुतिःअस्य सोम्य पुरुषस्य प्रयतो वाङ्मनसि सम्पद्यते मनः प्राणे प्राणस्तेजसि तेजः परस्यां देवतायाम्’ (छा. उ. ६ । ८ । ६) इति । किमिह वाच एव वृत्तिमत्त्या मनसि सम्पत्तिरुच्यते, उत वाग्वृत्तेरिति विशयः । तत्र वागेव तावत् मनसि सम्पद्यत इति प्राप्तम् । तथा हि श्रुतिरनुगृहीता भवति । इतरथा लक्षणा स्यात् । श्रुतिलक्षणाविशये श्रुतिर्न्याय्या, लक्षणा । तस्मात् वाच एव अयं मनसि प्रलय इति
एवं प्राप्ते, ब्रूमःवाग्वृत्तिर्मनसि सम्पद्यत इति । कथं वाग्वृत्तिरिति व्याख्यायते, यावतावाङ्मनसिइत्येव आचार्यः पठति ? सत्यमेतत्; पठिष्यति तु परस्तात्अविभागो वचनात्’ (ब्र. सू. ४ । २ । १६) इति । तस्मादत्र वृत्त्युपशममात्रं विवक्षितमिति गम्यते । तत्त्वप्रलयविवक्षायां तु सर्वत्रैव अविभागसाम्यात् किं परत्रैव विशिंष्यात् — ‘अविभागःइति । तस्मादत्र वृत्त्युपसंहारविवक्षा । वाग्वृत्तिः पूर्वमुपसंह्रियते मनोवृत्ताववस्थितायामित्यर्थः । कस्मात् ? दर्शनात्दृश्यते हि वाग्वृत्तेः पूर्वोपसंहारो मनोवृत्तौ विद्यमानायाम् । तु वाच एव वृत्तिमत्त्या मनस्युपसंहारः केनचिदपि द्रष्टुं शक्यते । ननु श्रुतिसामर्थ्यात् वाच एवायं मनस्यप्ययो युक्त इत्युक्तम्नेत्याह, अतत्प्रकृतित्वात् । यस्य हि यत उत्पत्तिः, तस्य तत्र प्रलयो न्याय्यः, मृदीव शरावस्य । मनसो वागुत्पद्यत इति किञ्चन प्रमाणमस्ति । वृत्त्युद्भवाभिभवौ तु अप्रकृतिसमाश्रयावपि दृश्येते । पार्थिवेभ्यो हि इन्धनेभ्यः तैजसस्याग्नेर्वृत्तिरुद्भवति, अप्सु उपशाम्यति । कथं तर्हि अस्मिन्पक्षे शब्दःवाङ्मनसि सम्पद्यतेइति ? अत आहशब्दाच्चेति । शब्दोऽप्यस्मिन्पक्षेऽवकल्पते, वृत्तिवृत्तिमतोरभेदोपचारादित्यर्थः ॥ १ ॥

अत एव च सर्वाण्यनु ॥ २ ॥

तस्मादुपशान्ततेजाः पुनर्भवमिन्द्रियैर्मनसि सम्पद्यमानैः’ (प्र. उ. ३ । ९) इत्यत्र अविशेषेण सर्वेषामेवेन्द्रियाणां मनसि सम्पत्तिः श्रूयते । तत्रापि अत एव वाच इव चक्षुरादीनामपि सवृत्तिके मनस्यवस्थिते वृत्तिलोपदर्शनात् तत्त्वप्रलयासम्भवात् शब्दोपपत्तेश्च वृत्तिद्वारेणैव सर्वाणीन्द्रियाणि मनोऽनुवर्तन्ते । सर्वेषां करणानां मनस्युपसंहाराविशेषे सति वाचः पृथग्ग्रहणम्वाङ्मनसि सम्पद्यतेइत्युदाहरणानुरोधेन ॥ २ ॥

मनोऽधिकरणम्

तन्मनः प्राण उत्तरात् ॥ ३ ॥

समधिगतमेतत्वाङ्मनसि सम्पद्यते’ (छा. उ. ६ । ८ । ६) इत्यत्र वृत्तिसम्पत्तिविवक्षेति । अथ यदुत्तरं वाक्यम् मनः प्राणे’ (छा. उ. ६ । ८ । ६) इति, किमत्रापि वृत्तिसम्पत्तिरेव विवक्ष्यते, उत वृत्तिमत्सम्पत्तिःइति विचिकित्सायाम् , वृत्तिमत्सम्पत्तिरेव अत्र इति प्राप्तम् , श्रुत्यनुग्रहात् । तत्प्रकृतित्वोपपत्तेश्च । तथा हिअन्नमयꣳ हि सोम्य मन आपोमयः प्राणः’ (छा. उ. ६ । ५ । ४) इत्यन्नयोनि मन आमनन्ति, अब्योनिं प्राणम् । ‘आपश्चान्नमसृजन्त’ — इति श्रुतिः । अतश्च यन्मनः प्राणे प्रलीयते, अन्नमेव तदप्सु प्रलीयते । अन्नं हि मनः, आपश्च प्राणः, प्रकृतिविकाराभेदादिति । एवं प्राप्ते, ब्रूमःतदपि आगृहीतबाह्येन्द्रियवृत्ति मनो वृत्तिद्वारेणैव प्राणे प्रलीयत इति उत्तराद्वाक्यादवगन्तव्यम् । तथा हि सुषुप्सोर्मुमूर्षोश्च प्राणवृत्तौ परिस्पन्दात्मिकायामवस्थितायाम् , मनोवृत्तीनामुपशमो दृश्यते । मनसः स्वरूपाप्ययः प्राणे सम्भवति; अतत्प्रकृतित्वात् । ननु दर्शितं मनसः प्राणप्रकृतिकत्वम्नैतत्सारम् । हि ईदृशेन प्राणाडिकेन तत्प्रकृतित्वेन मनः प्राणे सम्पत्तुमर्हति । एवमपि हि अन्ने मनः सम्पद्येत, अप्सु चान्नम् , अप्स्वेव प्राणः । ह्येतस्मिन्नपि पक्षे प्राणभावपरिणताभ्योऽद्भ्यो मनो जायत इति किञ्चन प्रमाणमस्ति । तस्मात् मनसः प्राणे स्वरूपाप्ययः । वृत्त्यप्ययेऽपि तु शब्दोऽवकल्पते, वृत्तिवृत्तिमतोरभेदोपचारात् इति दर्शितम् ॥ ३ ॥

अध्यक्षाधिकरणम्

सोऽध्यक्षे तदुपगमादिभ्यः ॥ ४ ॥

स्थितमेतत्यस्य यतो नोत्पत्तिः, तस्य तस्मिन्वृत्तिप्रलयः, स्वरूपप्रलय इति । इदमिदानीम्प्राणस्तेजसिइत्यत्र चिन्त्यतेकिं यथाश्रुति प्राणस्य तेजस्येव वृत्त्युपसंहारः, किं वा देहेन्द्रियपञ्जराध्यक्षे जीव इति । तत्र श्रुतेरनतिशङ्क्यत्वात् प्राणस्य तेजस्येव सम्पत्तिः स्यात् , अश्रुतकल्पनाया अन्याय्यत्वात्इत्येवं प्राप्ते प्रतिपद्यतेसोऽध्यक्ष इति । प्रकृतः प्राणः, अध्यक्षे अविद्याकर्मपूर्वप्रज्ञोपाधिके विज्ञानात्मनि अवतिष्ठते; तत्प्रधाना प्राणवृत्तिर्भवतीत्यर्थः । कुतः ? तदुपगमादिभ्यः — ‘एवमेवेममात्मानमन्तकाले सर्वे प्राणा अभिसमायन्ति यत्रैतदूर्ध्वोच्छ्वासी भवतिइति हि श्रुत्यन्तरम् अध्यक्षोपगामिनः सर्वान्प्राणान् अविशेषेण दर्शयति । विशेषेण तमुत्क्रामन्तं प्राणोऽनूत्क्रामति’ (बृ. उ. ४ । ४ । २) इति पञ्चवृत्तेः प्राणस्य अध्यक्षानुगामितां दर्शयति, तदनुवृत्तितां इतरेषाम् प्राणमनूत्क्रामन्तꣳ सर्वे प्राणा अनूत्क्रामन्ति’ (बृ. उ. ४ । ४ । २) इति । ‘सविज्ञानो भवतिइति अध्यक्षस्य अन्तर्विज्ञानवत्त्वप्रदर्शनेन तस्मिन् अपीतकरणग्रामस्य प्राणस्य अवस्थानं गमयति । ननुप्राणस्तेजसिइति श्रूयते; कथं प्राणोऽध्यक्षे इत्यधिकावापः क्रियते ? नैष दोषः, अध्यक्षप्रधानत्वादुत्क्रमणादिव्यवहारस्य, श्रुत्यन्तरगतस्यापि विशेषस्यापेक्षणीयत्वात् ॥ ४ ॥
कथं तर्हिप्राणस्तेजसिइति श्रुतिरित्यत आह

भूतेषु तच्छ्रुतेः ॥ ५ ॥

प्राणसम्पृक्तोऽध्यक्षः तेजःसहचरितेषु भूतेषु देहबीजभूतेषु सूक्ष्मेषु अवतिष्ठत इत्यवगन्तव्यम् , ‘प्राणस्तेजसिइति श्रुतेः । ननु इयं श्रुतिः प्राणस्य तेजसि स्थितिं दर्शयति, प्राणसम्पृक्तस्याध्यक्षस्यनैष दोषः, सोऽध्यक्षेइति अध्यक्षस्याप्यन्तराल उपसंख्यातत्वात् । योऽपि हि स्रुघ्नान्मथुरां गत्वा मथुरायाः पाटलिपुत्रं व्रजति, सोऽपि स्रुघ्नात्पाटलिपुत्रं यातीति शक्यते वदितुम् । तस्मात्प्राणस्तेजसिइति प्राणसम्पृक्तस्याध्यक्षस्यैव एतत् तेजःसहचरितेषु भूतेष्ववस्थानम् ॥ ५ ॥
कथं तेजःसहचरितेषु भूतेष्वित्युच्यते, यावता एकमेव तेजः श्रूयते — ‘प्राणस्तेजसिइति ? अत आह

नैकस्मिन्दर्शयतो हि ॥ ६ ॥

एकस्मिन्नेव तेजसि शरीरान्तरप्रेप्सावेलायां जीवोऽवतिष्ठते, कार्यस्य शरीरस्यानेकात्मकत्वदर्शनात् । दर्शयतश्च एतमर्थं प्रश्नप्रतिवचने आपः पुरुषवचसः’ (छा. उ. ५ । ३ । ३) इति । तद्व्याख्यातम् त्र्यात्मकत्वात्तु भूयस्त्वात्’ (ब्र. सू. ३ । १ । २) इत्यत्र । श्रुतिस्मृती एतमर्थं दर्शयतः । श्रुतिः — ‘पृथिवीमय आपोमयो वायुमय आकाशमयस्तेजोमयःइत्याद्या; स्मृतिरपिअण्व्यो मात्राऽविनाशिन्यो दशार्धानां तु याः स्मृताः । ताभिः सार्धमिदं सर्वं सम्भवत्यनुपूर्वशः’ (म. स्मृ. १ । २७) इत्याद्या । ननु उपसंहृतेषु वागादिषु करणेषु शरीरान्तरप्रेप्सावेलायाम् क्वायं तदा पुरुषो भवति’ (बृ. उ. ३ । २ । १३) इत्युपक्रम्य श्रुत्यन्तरं कर्माश्रयतां निरूपयतितौ यदूचतुः कर्म हैव तदूचतुरथ यत्प्रशशꣳसतुः कर्म हैव तत्प्रशशꣳसतुः’ (बृ. उ. ३ । २ । १३) इति । अत्रोच्यतेतत्र कर्मप्रयुक्तस्य ग्रहातिग्रहसंज्ञकस्य इन्द्रियविषयात्मकस्य बन्धनस्य प्रवृत्तिरिति कर्माश्रयतोक्ता । इह पुनः भूतोपादानाद्देहान्तरोत्पत्तिरिति भूताश्रयत्वमुक्तम् । प्रशंसाशब्दादपि तत्र प्राधान्यमात्रं कर्मणः प्रदर्शितम् , त्वाश्रयान्तरं निवारितम् । तस्मादविरोधः ॥ ६ ॥

आसृत्युपक्रमाधिकरणम्

समाना चासृत्युपक्रमादमृतत्वं चानुपोष्य ॥ ७ ॥

सेयमुत्क्रान्तिः किं विद्वदविदुषोः समाना, किं वा विशेषवतीइति विशयानानां विशेषवतीति तावत्प्राप्तम् । भूताश्रयविशिष्टा ह्येषा । पुनर्भवाय भूतान्याश्रीयन्ते । विदुषः पुनर्भवः सम्भवति; अमृतत्वं हि विद्वानश्नुतेइति स्थितिः । तस्मादविदुष एव एषा उत्क्रान्तिः । ननु विद्याप्रकरणे समाम्नानात् विदुष एव एषा भवेत्, स्वापादिवत् यथाप्राप्तानुकीर्तनात् । यथा हि यत्रैतत्पुरुषः स्वपिति नाम’ (छा. उ. ६ । ८ । १), अशिशिषति नाम’ (छा. उ. ६ । ८ । ३), पिपासति नाम’ (छा. उ. ६ । ८ । ५) इति सर्वप्राणिसाधारणा एव स्वापादयोऽनुकीर्त्यन्ते विद्याप्रकरणेऽपि प्रतिपिपादयिषितवस्तुप्रतिपादनानुगुण्येन, तु विदुषो विशेषवन्तो विधित्स्यन्ते; एवम् इयमपि उत्क्रान्तिः महाजनगतैवानुकीर्त्यते, यस्यां परस्यां देवतायां पुरुषस्य प्रयतः तेजः सम्पद्यते आत्मा तत्त्वमसिइत्येतत्प्रतिपादयितुम् । प्रतिषिद्धा एषा विदुषः तस्य प्राणा उत्क्रामन्ति’ (बृ. उ. ४ । ४ । ६) इति । तस्मात् अविदुष एवैषेति
एवं प्राप्ते, ब्रूमःसमाना चैषा उत्क्रान्तिःवाङ्मनसिइत्याद्या विद्वदविदुषोः आसृत्युपक्रमात् भवितुमर्हति, अविशेषश्रवणात् । अविद्वान् देहबीजभूतानि भूतसूक्ष्माण्याश्रित्य कर्मप्रयुक्तो देहग्रहणमनुभवितुं संसरति, विद्वांस्तु ज्ञानप्रकाशितं मोक्षनाडीद्वारमाश्रयतेतदेतत्आसृत्युपक्रमात्इत्युक्तम् । ननु अमृतत्वं विदुषा प्राप्तव्यम् , तद्देशान्तरायत्तम् , तत्र कुतो भूताश्रयत्वं सृत्युपक्रमो वेति ? अत्रोच्यतेअनुपोष्य , इदम् , अदग्ध्वा अत्यन्तमविद्यादीन्क्लेशान् , अपरविद्यासामर्थ्यात् आपेक्षिकममृतत्वं प्रेप्सते, सम्भवति तत्र सृत्युपक्रमः भूताश्रयत्वं हि निराश्रयाणां प्राणानां गतिरुपपद्यते; तस्माददोषः ॥ ७ ॥

संसारव्यपदेशाधिकरणम्

तदाऽपीतेः संसारव्यपदेशात् ॥ ८ ॥

तेजः परस्यां देवतायाम्’ (छा. उ. ६ । ८ । ६) इत्यत्र प्रकरणसामर्थ्यात् तत् यथाप्रकृतं तेजः साध्यक्षं सप्राणं सकरणग्रामं भूतान्तरसहितं प्रयतः पुंसः परस्यां देवतायां सम्पद्यत इत्येतदुक्तं भवति । कीदृशी पुनरियं सम्पत्तिः स्यादिति चिन्त्यते । तत्र आत्यन्तिक एव तावत् स्वरूपप्रविलय इति प्राप्तम् , तत्प्रकृतित्वोपपत्तेः । सर्वस्य हि जनिमतो वस्तुजातस्य प्रकृतिः परा देवतेति प्रतिष्ठापितम् । तस्मात् आत्यन्तिकी इयमविभागापत्तिरिति । एवं प्राप्ते ब्रूमःतत् तेजआदि भूतसूक्ष्मं श्रोत्रादिकरणाश्रयभूतम् आपीतेः आसंसारमोक्षात् सम्यग्ज्ञाननिमित्तात् अवतिष्ठतेयोनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः । स्थाणुमन्येऽनुसंयन्ति यथाकर्म यथाश्रुतम्’ (क. उ. २ । २ । ७) इत्यादिसंसारव्यपदेशात् । अन्यथा हि सर्वः प्रायणसमय एव उपाधिप्रत्यस्तमयादत्यन्तं ब्रह्म सम्पद्येत, तत्र विधिशास्त्रमनर्थकं स्यात् , विद्याशास्त्रं  । मिथ्याज्ञाननिमित्तश्च बन्धो सम्यग्ज्ञानादृते विस्रंसितुमर्हति । तस्मात् तत्प्रकृतित्वेऽपि सुषुप्तप्रलयवत् बीजभावावशेषैव एषा सत्सम्पत्तिरिति ॥ ८ ॥

सूक्ष्मं प्रमाणतश्च तथोपलब्धेः ॥ ९ ॥

तच्च इतरभूतसहितं तेजो जीवस्य अस्माच्छरीरात्प्रवसत आश्रयभूतं स्वरूपतः परिमाणतश्च सूक्ष्मं भवितुमर्हति । तथा हि नाडीनिष्क्रमणश्रवणादिभ्योऽस्य सौक्ष्म्यमुपलभ्यते । तत्र तनुत्वात्सञ्चारोपपत्तिः; स्वच्छत्वाच्च अप्रतीघातोपपत्तिः । अत एव देहान्निर्गच्छन् पार्श्वस्थैर्नोपलभ्यते ॥ ९ ॥

नोपमर्देनातः ॥ १० ॥

अत एव सूक्ष्मत्वात् नास्य स्थूलस्य शरीरस्योपमर्देन दाहादिनिमित्तेन इतरत्सूक्ष्मं शरीरमुपमृद्यते ॥ १० ॥

अस्यैव चोपपत्तेरेष ऊष्मा ॥ ११ ॥

अस्यैव सूक्ष्मस्य शरीरस्य एष ऊष्मा, यमेतस्मिञ्च्छरीरे संस्पर्शेनोष्माणं विजानन्ति । तथा हि मृतावस्थायाम् अवस्थितेऽपि देहे विद्यमानेष्वपि रूपादिषु देहगुणेषु, ऊष्मा उपलभ्यते, जीवदवस्थायामेव तु उपलभ्यतेइत्यत उपपद्यते
प्रसिद्धशरीरव्यतिरिक्तव्यपाश्रय एव एष ऊष्मेति । तथा श्रुतिः — ‘उष्ण एव जीविष्यञ्शीतो मरिष्यन्इति ॥ ११ ॥

प्रतिषेधाधिकरणम्

प्रतिषेधादिति चेन्न शारीरात् ॥ १२ ॥

अमृतत्वं चानुपोष्यइत्यतो विशेषणात् आत्यन्तिकेऽमृतत्वे गत्युत्क्रान्त्योरभावोऽभ्युपगतः । तत्रापि केनचित्कारणेन उत्क्रान्तिमाशङ्क्य प्रतिषेधतिअथाकामयमानो योऽकामो निष्काम आप्तकाम आत्मकामो भवति तस्य प्राणा उत्क्रामन्ति ब्रह्मैव सन्ब्रह्माप्येति’ (बृ. उ. ४ । ४ । ६) इति । अतः परविद्याविषयात्प्रतिषेधात् परब्रह्मविदो देहात् प्राणानामुत्क्रान्तिरस्तीति चेत् , नेत्युच्यते, यतः शारीरादात्मन एष उत्क्रान्तिप्रतिषेधः प्राणानाम् , शरीरात् । कथमवगम्यते ? ‘ तस्मात्प्राणा उत्क्रामन्तिइति शाखान्तरे पञ्चमीप्रयोगात् । सम्बन्धसामान्यविषया हि षष्ठी शाखान्तरगतया पञ्चम्या सम्बन्धविशेषे व्यवस्थाप्यते । ‘तस्मात्इति प्राधान्यात् अभ्युदयनिःश्रेयसाधिकृतो देही सम्बध्यते, देहः । तस्मादुच्चिक्रमिषोर्जीवात् प्राणा अपक्रामन्ति, सहैव तेन भवन्तिइत्यर्थः । सप्राणस्य प्रवसतो भवत्युत्क्रान्तिर्देहादिति ॥ १२ ॥
एवं प्राप्ते, प्रत्युच्यते

स्पष्टो ह्येकेषाम् ॥ १३ ॥

नैतदस्तियदुक्तम् , परब्रह्मविदोऽपि देहात् अस्त्युत्क्रान्तिः उत्क्रान्तिप्रतिषेधस्य देह्यपादानत्वादिति; यतो देहापादान एव उत्क्रान्तिप्रतिषेध एकेषां समाम्नातॄणां स्पष्ट उपलभ्यते । तथा हिआर्तभागप्रश्ने यत्रायं पुरुषो म्रियत उदस्मात्प्राणाः क्रामन्त्याहो नेति’ (बृ. उ. ३ । २ । ११) इत्यत्र, नेति होवाच याज्ञवल्क्यः’ (बृ. उ. ३ । २ । ११) इत्यनुत्क्रान्तिपक्षं परिगृह्य, तर्ह्ययमनुत्क्रान्तेषु प्राणेषु मृतःइत्यस्यामाशङ्कायाम्अत्रैव समवनीयन्तेइति प्रविलयं प्राणानां प्रतिज्ञाय, तत्सिद्धये उच्छ्वयत्याध्मायत्याध्मातो मृतः शेते’ (बृ. उ. ३ । २ । ११) इति सशब्दपरामृष्टस्य प्रकृतस्य उत्क्रान्त्यवधेः उच्छ्वयनादीनि समामनन्ति । देहस्य एतानि स्युः देहिनः; तत्सामान्यात् , ‘ तस्मात्प्राणा उत्क्रामन्त्यत्रैव समवनीयन्तेइत्यत्रापिअभेदोपचारेण देहापादानस्यैव उत्क्रमणस्य प्रतिषेधःयद्यपि प्राधान्यं देहिनःइति व्याख्येयम् , येषां पञ्चमीपाठः । येषां तु षष्ठीपाठः, तेषां विद्वत्सम्बन्धिनी उत्क्रान्तिः प्रतिषिध्यत इति, प्राप्तोत्क्रान्तिप्रतिषेधार्थत्वात् अस्य वाक्यस्य, देहापादानैव सा प्रतिषिद्धा भवति, देहादुत्क्रान्तिः प्राप्ता, देहिनः; अपि चक्षुष्टो वा मूर्ध्नो वान्येभ्यो वा शरीरदेशेभ्यस्तमुत्क्रामन्तं प्राणोऽनूत्क्रामति प्राणमनूत्क्रामन्तꣳ सर्वे प्राणा अनूत्क्रामन्ति’ (बृ. उ. ४ । ४ । २) इत्येवमविद्वद्विषये सप्रपञ्चमुत्क्रमणं संसारगमनं दर्शयित्वा, इति नु कामयमानः’ (बृ. उ. ४ । ४ । ६) इति उपसंहृत्य अविद्वत्कथाम् , अथाकामयमानः’ (बृ. उ. ४ । ४ । ६) इति व्यपदिश्य विद्वांसम्यदि तद्विषयेऽप्युत्क्रान्तिमेव प्रापयेत् , असमञ्जस एव व्यपदेशः स्यात्; तस्मात् अविद्वद्विषये प्राप्तयोर्गत्युत्क्रान्त्योः विद्वद्विषये प्रतिषेधःइत्येवमेव व्याख्येयम् , व्यपदेशार्थवत्त्वाय । ब्रह्मविदः सर्वगतब्रह्मात्मभूतस्य प्रक्षीणकामकर्मणः उत्क्रान्तिः गतिर्वा उपपद्यते, निमित्ताभावात् । ‘अत्र ब्रह्म समश्नुतेइति एवंजातीयकाः श्रुतयो गत्युत्क्रान्त्योरभावं सूचयन्ति ॥ १३ ॥

स्मर्यते च ॥ १४ ॥

स्मर्यतेऽपि महाभारते गत्युत्क्रान्त्योरभावःसर्वभूतात्मभूतस्य सम्यग्भूतानि पश्यतः । देवा अपि मार्गे मुह्यन्त्यपदस्य पदैषिणः’ (म. भा. १२ । २३९ । २३) इति । ननु गतिरपि ब्रह्मविदः सर्वगतब्रह्मात्मभूतस्य स्मर्यते — ‘शुकः किल वैयासकिर्मुमुक्षुरादित्यमण्डलमभिप्रतस्थे पित्रा चानुगम्याहूतो भो इति प्रतिशुश्रावइति; सशरीरस्यै अयं योगबलेन विशिष्टदेशप्राप्तिपूर्वकः शरीरोत्सर्ग इति द्रष्टव्यम् , सर्वभूतदृश्यत्वाद्युपन्यासात् । हि अशरीरं गच्छन्तं सर्वभूतानि द्रष्टुं शक्नुयुः । तथा तत्रैवोपसंहृतम्शुकस्तु मारुताच्छीघ्रां गतिं कृत्वान्तरिक्षगः ।’ (म. भा. १२ । ३३३ । १९), दर्शयित्वा प्रभावं स्वं सर्वभूतगतोऽभवत्’ (म. भा. १२ । ३३३ । २०) इति । तस्मादभावः परब्रह्मविदो गत्युत्क्रान्त्योः । गतिश्रुतीनां तु विषयमुपरिष्टाद्व्याख्यास्यामः ॥ १४ ॥

वागादिलयाधिकरणम्

तानि परे तथा ह्याह ॥ १५ ॥

तानि पुनः प्राणशब्दोदितानि इन्द्रियाणि भूतानि परब्रह्मविदः तस्मिन्नेव परस्मिन्नात्मनि प्रलीयन्ते । कस्मात् ? तथा हि आह श्रुतिःएवमेवास्य परिद्रष्टुरिमाः षोडश कलाः पुरुषायणाः पुरुषं प्राप्यास्तं गच्छन्ति’ (प्र. उ. ६ । ५) इति । ननु गताः कलाः पञ्चदश प्रतिष्ठाः’ (मु. उ. ३ । २ । ७) इति विद्वद्विषयैवापरा श्रुतिः परस्मादात्मनोऽन्यत्रापि कलानां प्रलयम् आह स्म; सा खलु व्यवहारापेक्षापार्थिवाद्याः कलाः पृथिव्यादीरेव स्वप्रकृतीरपियन्तीति । इतरा तु विद्वत्प्रतिपत्त्यपेक्षाकृत्स्नं कलाजातं परब्रह्मविदो ब्रह्मैव सम्पद्यत इति । तस्माददोषः ॥ १५ ॥

अविभागाधिकरणम्

अविभागो वचनात् ॥ १६ ॥

पुनर्विदुषः कलाप्रलयः किम् इतरेषामिव सावशेषो भवति, आहोस्विन्निरवशेष इति । तत्र प्रलयसामान्यात् शक्त्यवशेषताप्रसक्तौ ब्रवीतिअविभागापत्तिरेवेति । कुतः ? वचनात् । तथा हि कलाप्रलयमुक्त्वा वक्तिभिद्येते तासां नामरूपे पुरुष इत्येवं प्रोच्यते एषोऽकलोऽमृतो भवति’ (प्र. उ. ६ । ५) इति । अविद्यानिमित्तानां कलानां विद्यानिमित्ते प्रलये सावशेषत्वोपपत्तिः । तस्मादविभाग एवेति ॥ १६ ॥

तदोकोऽधिकरणम्

तदोकोऽग्रज्वलनं तत्प्रकाशितद्वारो विद्यासामर्थ्यात्तच्छेषगत्यनुस्मृतियोगाच्च हार्दानुगृहीतः शताधिकया ॥ १७ ॥

समाप्ता प्रासङ्गिकी परविद्यागता चिन्ता; सम्प्रति तु अपरविद्याविषयामेव चिन्तामनुवर्तयति । समाना आसृत्युपक्रमात् विद्वदविदुषोरुत्क्रान्तिःइत्युक्तम् । तम् इदानीं सृत्युपक्रमं दर्शयति । तस्य उपसंहृतवागादिकलापस्योच्चिक्रमिषतो विज्ञानात्मनः, ओकः आयतनं हृदयम् — ‘ एतास्तेजोमात्राः समभ्याददानो हृदयमेवान्ववक्रामतिइति श्रुतेः, तदग्रप्रज्वलनपूर्विका चक्षुरादिस्थानापादाना उत्क्रान्तिः श्रूयतेतस्य हैतस्य हृदयस्याग्रं प्रद्योतते तेन प्रद्योतेनैष आत्मा निष्क्रामति चक्षुष्टो वा मूर्ध्नो वान्येभ्यो वा शरीरदेशेभ्यः’ (बृ. उ. ४ । ४ । २) इति । सा किमनियमेनैव विद्वदविदुषोर्भवति, अथास्ति कश्चिद्विदुषो विशेषनियमःइति विचिकित्सायाम् , श्रुत्यविशेषादनियमप्राप्तौ, आचष्टेसमानेऽपि हि विद्वदविदुषोर्हृदयाग्रप्रद्योतने तत्प्रकाशितद्वारत्वे , मूर्धस्थानादेव विद्वान्निष्क्रामति, स्थानान्तरेभ्यस्तु इतरे । कुतः ? विद्यासामर्थ्यात् । यदि विद्वानपि इतरवत् यतः कुतश्चिद्देहदेशात् उत्क्रामेत् , नैव उत्कृष्टं लोकं लभेत, तत्र अनर्थिकैव विद्या स्यात् । तच्छेषगत्यनुस्मृतियोगाच्चविद्याशेषभूता मूर्धन्यनाडीसम्बद्धा गतिः अनुशीलयितव्या विद्याविशेषेषु विहिता । तामभ्यस्यन् तयैव प्रतिष्ठत इति युक्तम् । तस्मात् हृदयालयेन ब्रह्मणा सूपासितेन अनुगृहीतः तद्भावं समापन्नो विद्वान् मूर्धन्ययैव शताधिकया शतादतिरिक्तया एकशततम्या नाड्या निष्क्रामति, इतराभिरितरे । तथा हि हार्दविद्यां प्रकृत्य समामनन्तिशतं चैका हृदयस्य नाड्यस्तासां मूर्धानमभिनिःसृतैका । तयोर्ध्वमायन्नमृतत्वमेति विष्वङ्ङन्या उत्क्रमणे भवन्ति’ (छा. उ. ८ । ६ । ६) इति ॥ १७ ॥

रश्म्यधिकरणम्

रश्म्यनुसारी ॥ १८ ॥

अस्ति हार्दविद्या अथ यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म’ (छा. उ. ८ । १ । १) इत्युपक्रम्य विहिता । तत्प्रक्रियायाम् अथ या एता हृदयस्य नाड्यः’ (छा. उ. ८ । ६ । १) इत्युपक्रम्य सप्रपञ्चं नाडीरश्मिसम्बन्धमुक्त्वा उक्तम्अथ यत्रैतदस्माच्छरीरादुत्क्रामत्यथैतैरेव रश्मिभिरूर्ध्वमाक्रमते’ (छा. उ. ८ । ६ । ५) इति । पुनश्चोक्तम्तयोर्ध्वमायन्नमृतत्वमेति’ (छा. उ. ८ । ६ । ६) इति । तस्मात् शताधिकया नाड्या निष्क्रामन् रश्म्यनुसारी निष्क्रामतीति गम्यते । तत् किम् अविशेषेणै अहनि रात्रौ वा म्रियमाणस्य रश्म्यनुसारित्वम् , आहोस्विदहन्येवइति संशये सति, अविशेषश्रवणात् अविशेषेणैव तावत् रश्म्यनुसारीति प्रतिज्ञायते ॥ १८ ॥

निशि नेति चेन्न सम्बन्धस्य यावद्देहभावित्वाद्दर्शयति च ॥ १९ ॥

अस्ति अहनि नाडीरश्मिसम्बन्ध इति अहनि मृतस्य स्यात् रश्म्यनुसारित्वम् । रात्रौ तु प्रेतस्य स्यात् , नाडीरश्मिसम्बन्धविच्छेदात्इति चेत् , , नाडीरश्मिसम्बन्धस्य यावद्देहभावित्वात् । यावद्देहभावी हि शिराकिरणसम्पर्कः । दर्शयति चैतमर्थं श्रुतिःअमुष्मादादित्यात्प्रतायन्ते ता आसु नाडीषु सृप्ता आभ्यो नाडीभ्यः प्रतायन्ते तेऽमुष्मिन्नादित्ये सृप्ताः’ (छा. उ. ८ । ६ । २) इति । निदाघसमये निशास्वपि किरणानुवृत्तिरुपलभ्यते, प्रतापादिकार्यदर्शनात् । स्तोकानुवृत्तेस्तु दुर्लक्ष्यत्वम् ऋत्वन्तररजनीषु , शैशिरेष्विव दुर्दिनेषु । ‘अहरेवैतद्रात्रौ दधातिइति एतदेव दर्शयति । यदि रात्रौ प्रेतः विनैव रश्म्यनुसारेण ऊर्ध्वमाक्रमेत, रश्म्यनुसारानर्थक्यं भवेत् । ह्येतत् विशिष्य अधीयतेयो दिवा प्रैति, रश्मीनपेक्ष्योर्ध्वमाक्रमते, यस्तु रात्रौ सोऽनपेक्ष्यैवेति । अथ तु विद्वानपि रात्रिप्रायणापराधमात्रेण नोर्ध्वमाक्रमेत, पाक्षिकफला विद्येति अप्रवृत्तिरेव तस्यां स्यात् । मृत्युकालानियमात् । अथापि रात्रावुपरतोऽहरागमम् उदीक्षेत, अहरागमेऽप्यस्य कदाचित् अरश्मिसम्बन्धार्हं शरीरं स्यात् पावकादिसम्पर्कात् । यावत्क्षिप्येन्मनस्तावदादित्यं गच्छति’ (छा. उ. ८ । ६ । ५) इति श्रुतिः अनुदीक्षां दर्शयति । तस्मात् अविशेषेणैव इदं रात्रिंदिवं रश्म्यनुसारित्वम् ॥ १९ ॥

दक्षिणायनाधिकरणम्

अतश्चायनेऽपि दक्षिणे ॥ २० ॥

अत एव उदीक्षानुपपत्तेः, अपाक्षिकफलत्वाच्च विद्यायाः, अनियतकालत्वाच्च मृत्योः, दक्षिणायनेऽपि म्रियमाणो विद्वान् प्राप्नोत्येव विद्याफलम् । उत्तरायणमरणप्राशस्त्यप्रसिद्धेः, भीष्मस्य प्रतीक्षादर्शनात् , आपूर्यमाणपक्षाद्यान्षडुदङ्ङेति मासाꣳस्तान्’ (छा. उ. ४ । १५ । ५) इति श्रुतेः, अपेक्षितव्यमुत्तरायणम्इतीमामाशङ्काम् अनेन सूत्रेणापनुदति । प्राशस्त्यप्रसिद्धिः अविद्वद्विषया । भीष्मस्य तूत्तरायणप्रतिपालनम् आचारपरिपालनार्थं पितृप्रसादलब्धस्वच्छन्दमृत्युताख्यापनार्थं  । श्रुतेस्तु अर्थं वक्ष्यति आतिवाहिकास्तल्लिङ्गात्’ (ब्र. सू. ४ । ३ । ४) इति ॥ २० ॥
ननु यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिनः । प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ’ (भ. गी. ८ । २३) इति कालप्राधान्येन उपक्रम्य अहरादिकालविशेषः स्मृतावनावृत्तये नियमितः । कथं रात्रौ दक्षिणायने वा प्रयातोऽनावृत्तिं यायात्इत्यत्रोच्यते

योगिनः प्रति च स्मर्यते स्मार्ते चैते ॥ २१ ॥

योगिनः प्रति अयम् अहरादिकालविनियोगः अनावृत्तये स्मर्यते । स्मार्ते चैते योगसाङ्ख्ये, श्रौते । अतो विषयभेदात् प्रमाणविशेषाच्च नास्य स्मार्तस्य कालविनियोगस्य श्रौतेषु विज्ञानेषु अवतारः । ननु अग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरायणम् ।’ (भ. गी. ८ । २४) धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम्’ (भ. गी. ८ । २५) इति श्रौतावेतौ देवयानपितृयाणौ प्रत्यभिज्ञायेते स्मृतावपीति, उच्यतेतं कालं वक्ष्यामि’ (भ. गी. ८ । २३) इति स्मृतौ कालप्रतिज्ञानात् विरोधमाशङ्क्य अयं परिहारः उक्तः । यदा पुनः स्मृतावपि अग्न्याद्या देवता एव आतिवाहिक्यो गृह्यन्ते, तदा कश्चिद्विरोध इति ॥ २१ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छङ्करभगवतः कृतौ शारीरकमीमांसासूत्रभाष्ये
चतुर्थाध्यायस्य द्वितीयः पादः

तृतीयः पादः

आसृत्युपक्रमात् समानोत्क्रान्तिरित्युक्तम् । सृतिस्तु श्रुत्यन्तरेष्वनेकधा श्रूयतेनाडीरश्मिसम्बन्धेनैका अथैतैरेव रश्मिभिरूर्ध्वमाक्रमते’ (छा. उ. ८ । ६ । ५) इति । अर्चिरादिकैका तेऽर्चिषमभिसम्भवन्त्यर्चिषोऽहः’ (बृ. उ. ६ । २ । १५) इति । एतं देवयानं पन्थानमापद्याग्निलोकमागच्छति’ (कौ. उ. १ । ३) इत्यन्या । यदा वै पुरुषोऽस्माल्लोकात्प्रैति वायुमागच्छति’ (बृ. उ. ५ । १० । १) इत्यपरा । सूर्यद्वारेण ते विरजाः प्रयान्ति’ (मु. उ. १ । २ । ११) इति अपरा । तत्र संशयःकिं परस्परं भिन्ना एताः सृतयः, किं वा एकैव अनेकविशेषणेति । तत्र प्राप्तं तावत्भिन्ना एताः सृतय इति, भिन्नप्रकरणत्वात् , भिन्नोपासनाशेषत्वाच्च । अपि अथैतैरेव रश्मिभिः’ (छा. उ. ८ । ६ । ५) इत्यवधारणम् अर्चिराद्यपेक्षायाम् उपरुध्येत, त्वरावचनं पीड्येत यावत्क्षिप्येन्मनस्तावदादित्यं गच्छति’ (छा. उ. ८ । ६ । ५) इति । तस्मादन्योन्यभिन्ना एवैते पन्थान इति । एवं प्राप्ते, अभिदध्महे

अर्चिराद्यधिकरणम्

अर्चिरादिना तत्प्रथितेः ॥ १ ॥

अर्चिरादिनेति । सर्वो ब्रह्म प्रेप्सुः अर्चिरादिनैवाध्वना रंहतीति प्रतिजानीमहे । कुतः ? तत्प्रथितेः । प्रथितो ह्येष मार्गः सर्वेषां विदुषाम् । तथा हि पञ्चाग्निविद्याप्रकरणेये चामी अरण्ये श्रद्धाꣳ सत्यमुपासते’ (बृ. उ. ६ । २ । १५) इति विद्यान्तरशीलिनामपि अर्चिरादिका सृतिः श्राव्यते । स्यादेतत्यासु विद्यासु काचिद्गतिरुच्यते, तासु इयमर्चिरादिका उपतिष्ठताम् । यासु तु अन्या श्राव्यते, तासु किमित्यर्चिराद्याश्रयणमिति, अत्रोच्यतेभवेदेतदेवम् , यद्यत्यन्तभिन्ना एव एताः सृतयः स्युः । एकैव त्वेषा सृतिः अनेकविशेषणा ब्रह्मलोकप्रपदनी क्वचित् केनचित् विशेषणेनोपलक्षितेति वदामः, सर्वत्रैकदेशप्रत्यभिज्ञानात् इतरेतरविशेषणविशेष्यभावोपपत्तेः । प्रकरणभेदेऽपि हि विद्यैकत्वे भवति इतरेतरविशेषणोपसंहारवत् गतिविशेषणानामप्युपसंहारः । विद्याभेदेऽपि तु गत्येकदेशप्रत्यभिज्ञानात् गन्तव्याभेदाच्च गत्यभेद एव । तथा हिते तेषु ब्रह्मलोकेषु पराः परावतो वसन्ति’ (बृ. उ. ६ । २ । १५) तस्मिन्वसन्ति शाश्वतीः समाः’ (बृ. उ. ५ । १० । १) सा या ब्रह्मणो जितिर्या व्युष्टिस्तां जितिं जयति तां व्युष्टिं व्यश्नुते’ (कौ. उ. १ । ७) तद्य एवैतं ब्रह्मलोकं ब्रह्मचर्येणानुविन्दति’ (छा. उ. ८ । ४ । ३) इति तत्र तत्र तदेव एकं फलं ब्रह्मलोकप्राप्तिलक्षणं प्रदर्श्यते । यत्तुएतैरेवइत्यवधारणम् अर्चिराद्याश्रयणे स्यादिति, नैष दोषः, रश्मिप्राप्तिपरत्वादस्य । हि एक एव शब्दो रश्मींश्च प्रापयितुमर्हति, अर्चिरादींश्च व्यावर्तयितुम् । तस्मात् रश्मिसम्बन्ध एवायमवधार्यत इति द्रष्टव्यम् । त्वरावचनं तु अर्चिराद्यपेक्षायामपि गन्तव्यान्तरापेक्षया शैघ्र्यार्थत्वात् नोपरुध्यतेयथा निमेषमात्रेणात्रागम्यत इति । अपि अथैतयोः पथोर्न कतरेणचन’ (छा. उ. ५ । १० । ८) इति मार्गद्वयभ्रष्टानां कष्टं तृतीयं स्थानमाचक्षाणा पितृयाणव्यतिरिक्तमेकमेव देवयानमर्चिरादिपर्वाणं पन्थानं प्रथयति । भूयांस्यर्चिरादिसृतौ मार्गपर्वाणि, अल्पीयांसि त्वन्यत्र । भूयसां आनुगुण्येन अल्पीयसां नयनं न्याय्यमित्यतोऽपि अर्चिरादिना तत्प्रथितेरित्युक्तम् ॥ १ ॥

वाय्वधिकरणम्

वायुमब्दादविशेषविशेषाभ्याम् ॥ २ ॥

केन पुनः सन्निवेशविशेषेण गतिविशेषणानाम् इतरेतरविशेषणविशेष्यभावःइति तदेतत् सुहृद्भूत्वा आचार्यो ग्रथयति । एतं देवयानं पन्थानमापद्याग्निलोकमागच्छति वायुलोकं वरुणलोकं आदित्यलोकं इन्द्रलोकं प्रजापतिलोकं ब्रह्मलोकम्’ (कौ. उ. १ । ३) इति कौषीतकिनां देवयानः पन्थाः पठ्यते । तत्र अर्चिरग्निलोकशब्दौ तावत् एकार्थौ ज्वलनवचनत्वादिति नात्र सन्निवेशक्रमः कश्चिदन्वेष्यः । वायुस्तु अर्चिरादौ वर्त्मनि अश्रुतः कतमस्मिन्स्थाने निवेशयितव्य इति, उच्यतेतेऽर्चिषमेवाभिसम्भवन्त्यर्चिषोऽहरह्न आपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान्षडुदङ्ङेति मासाꣳस्तान् ।’ (छा. उ. ५ । १० । १) मासेभ्यः संवत्सरं संवत्सरादादित्यम्’ (छा. उ. ५ । १० । २) इत्यत्र संवत्सरात्पराञ्चम् आदित्यादर्वाञ्चं वायुमभिसम्भवन्ति । कस्मात् ? अविशेषविशेषाभ्याम् । तथा हि वायुलोकम्’ (कौ. उ. १ । ३) इत्यत्र अविशेषोपदिष्टस्य वायोः श्रुत्यन्तरे विशेषोपदेशो दृश्यतेयदा वै पुरुषोऽस्माल्लोकात्प्रैति वायुमागच्छति तस्मै तत्र विजिहीते यथा रथचक्रस्य खं तेन ऊर्ध्वमाक्रमते आदित्यमागच्छति’ (बृ. उ. ५ । १० । १) इति । एतस्मात् आदित्यात् वायोः पूर्वत्वदर्शनात् विशेषात् अब्दादित्ययोरन्तराले वायुर्निवेशयितव्यः । कस्मात्पुनरग्नेः परत्वदर्शनाद्विशेषादर्चिषोऽनन्तरं वायुर्न निवेश्यते ? नैषोऽस्ति विशेष इति वदामः । ननूदाहृता श्रुतिः एतं देवयानं पन्थानमापद्याग्निलोकमागच्छति वायुलोकं वरुणलोकम्’ (कौ. उ. १ । ३) इति । उच्यतेकेवलोऽत्र पाठः पौर्वापर्येणावस्थितः, नात्र क्रमवचनः कश्चिच्छब्दोऽस्ति । पदार्थोपदर्शनमात्रं ह्यत्र क्रियतेएतं एतं आगच्छतीति । इतरत्र पुनः, वायुप्रत्तेन रथचक्रमात्रेण च्छिद्रेण ऊर्ध्वमाक्रम्य आदित्यमागच्छतीतिअवगम्यते क्रमः । तस्मात् सूक्तम् अविशेषविशेषाभ्यामिति । वाजसनेयिनस्तु मासेभ्यो देवलोकं देवलोकादादित्यम्’ (बृ. उ. ६ । २ । १५) इति समामनन्ति । तत्र आदित्यानन्तर्याय देवलोकाद्वायुमभिसम्भवेयुः । ‘वायुमब्दात्इति तु छन्दोगश्रुत्यपेक्षयोक्तम् । छान्दोग्यवाजसनेयकयोस्तु एकत्र देवलोको विद्यते, परत्र संवत्सरः । तत्र श्रुतिद्वयप्रत्ययात् उभावपि उभयत्र ग्रथयितव्यौ । तत्रापि माससम्बन्धात्संवत्सरः पूर्वः पश्चिमो देवलोक इति विवेक्तव्यम् ॥ २ ॥

तडिदधिकरणम्

तडितोऽधि वरुणः सम्बन्धात् ॥ ३ ॥

आदित्याच्चन्द्रमसं चन्द्रमसो विद्युतम्’ (छा. उ. ४ । १५ । ५) इत्यस्या विद्युत उपरिष्टात् वरुणलोकम्इत्ययं वरुणः सम्बध्यते । अस्ति हि सम्बन्धो विद्युद्वरुणयोः । यदा हि विशाला विद्युतस्तीव्रस्तनितनिर्घोषा जीमूतोदरेषु प्रनृत्यन्ति, अथ आपः प्रपतन्ति । विद्योतते स्तनयति वर्षिष्यति वा’ (छा. उ. ७ । ११ । १) इति ब्राह्मणम् । अपां अधिपतिर्वरुण इति श्रुतिस्मृतिप्रसिद्धिः । वरुणादधि इन्द्रप्रजापती स्थानान्तराभावात् पाठसामर्थ्याच्च । आगन्तुकत्वादपि वरुणादीनामन्ते एव निवेशः, वैशेषिकस्थानाभावात् । विद्युच्च अन्त्या अर्चिरादौ वर्त्मनि ॥ ३ ॥

आतिवाहिकाधिकरणम्

आतिवाहिकास्तल्लिङ्गात् ॥ ४ ॥

तेष्वेव अर्चिरादिषु संशयःकिमेतानि मार्गचिह्नानि, उत भोगभूमयः, अथवा नेतारो गन्तॄणामिति । तत्र मार्गलक्षणभूता अर्चिरादय इति तावत्प्राप्तम् , तत्स्वरूपत्वादुपदेशस्य । यथा हि लोके कश्चिद्ग्रामं नगरं वा प्रतिष्ठासमानोऽनुशिष्यतेगच्छ इतस्त्वममुं गिरिं ततो न्यग्रोधं ततो नदीं ततो ग्रामं नगरं वा प्राप्स्यसीतिएवमिहापिअर्चिषोऽहरह्न आपूर्यमाणपक्षम्इत्याद्याह । अथवा भोगभूमय इति प्राप्तम् । तथाहि लोकशब्देन अग्न्यादीननुबध्नातिअग्निलोकमागच्छति’ (कौ. उ. १ । ३) इत्यादि । लोकशब्दश्च प्राणिनां भोगायतनेषु भाष्यतेमनुष्यलोकः पितृलोको देवलोकः’ (बृ. उ. १ । ५ । १६) इति  । तथा ब्राह्मणम् — ‘अहोरात्रेषु ते लोकेषु सज्जन्तेइत्यादि । तस्मान्नातिवाहिका अर्चिरादयः । अचेतनत्वादप्येतेषामातिवाहिकत्वानुपपत्तिः । चेतना हि लोके राजनियुक्ताः पुरुषा दुर्गेषु मार्गेष्वतिवाह्यान् अतिवाहयन्तीति । एवं प्राप्ते, ब्रूमःआतिवाहिका एवैते भवितुमर्हन्ति । कुतः ? तल्लिङ्गात् । तथा हिचन्द्रमसो विद्युतं तत्पुरुषोऽमानवः एनान्ब्रह्म गमयति’ (छा. उ. ४ । १५ । ५) इति सिद्धवद्गमयितृत्वं दर्शयति । तद्वचनं तद्विषयमेवोपक्षीणमिति चेत् , , प्राप्तमानवत्वनिवृत्तिपरत्वाद्विशेषणस्य । यद्यर्चिरादिषु पुरुषा गमयितारः प्राप्ताः ते मानवाः, ततो युक्तं तन्निवृत्त्यर्थं पुरुषविशेषणम्अमानव इति ॥ ४ ॥
ननु तल्लिङ्गमात्रमगमकम् , न्यायाभावात्; नैष दोषः

उभयव्यामोहात्तत्सिद्धेः ॥ ५ ॥

ये तावदर्चिरादिमार्गगाः ते देहवियोगात् सम्पिण्डितकरणग्रामा इति अस्वतन्त्राः, अर्चिरादीनामप्यचेतनत्वादस्वातन्त्र्यम्इत्यतः अर्चिराद्यभिमानिनश्चेतना देवताविशेषा अतियात्रायां नियुक्ता इति गम्यते । लोकेऽपि हि मत्तमूर्छितादयः सम्पिण्डितकरणाः परप्रयुक्तवर्त्मानो भवन्ति । अनवस्थितत्वादप्यर्चिरादीनां मार्गलक्षणत्वोपपत्तिः । हि रात्रौ प्रेतस्य अहःस्वरूपाभिसम्भव उपपद्यते । प्रतिपालनमस्तीत्युक्तं पुरस्तात् । ध्रुवत्वात्तु देवतात्मनां नायं दोषो भवति । अर्चिरादिशब्दता एषाम् अर्चिराद्यभिमानादुपपद्यते । अर्चिषोऽहः’ (छा. उ. ४ । १५ । ५) इत्यादिनिर्देशस्तु आतिवाहिकत्वेऽपि विरुध्यतेअर्चिषा हेतुना अहरभिसम्भवति, अह्ना हेतुना आपूर्यमाणपक्षमिति । तथा लोके प्रसिद्धेष्वप्यातिवाहिकेषु एवंजातीयक उपदेशो दृश्यतेगच्छ त्वम् इतो बलवर्माणं ततो जयसिंहं ततः कृष्णगुप्तमिति । अपि उपक्रमे तेऽर्चिरभिसम्भवन्ति’ (बृ. उ. ६ । २ । १५) इति सम्बन्धमात्रमुक्तम् , सम्बन्धविशेषः कश्चित् । उपसंहारे तु एनान्ब्रह्म गमयति’ (छा. उ. ४ । १५ । ५) इति सम्बन्धविशेषः अतिवाह्यातिवाहकत्वलक्षण उक्तः । तेन एवोपक्रमेऽपीति निर्धार्यते । सम्पिण्डितकरणत्वादेव गन्तॄणां तत्र भोगसम्भवः । लोकशब्दस्तु अनुपभुञ्जानेष्वपि गन्तृषु गमयितुं शक्यते, अन्येषां तल्लोकवासिनां भोगभूमित्वात् । अतः अग्निस्वामिकं लोकं प्राप्तः अग्निना अतिवाह्यते, वायुस्वामिकं प्राप्तो वायुनाइति योजयितव्यम् ॥ ५ ॥
कथं पुनरातिवाहिकत्वपक्षे वरुणादिषु तत्सम्भवः ? विद्युतो ह्यधि वरुणादय उपक्षिप्ताः, विद्युतस्त्वनन्तरम् ब्रह्मप्राप्तेः अमानवस्यैव पुरुषस्य गमयितृत्वं श्रुतम्इत्यत उत्तरं पठति

वैद्युतेनैव ततस्तच्छ्रुतेः ॥ ६ ॥

ततो विद्युदभिसम्भवनादूर्ध्वं विद्युदनन्तरवर्तिनैवामानवेन पुरुषेण वरुणलोकादिष्वतिवाह्यमाना ब्रह्मलोकं गच्छन्तीत्यवगन्तव्यम् , ‘तान्वैद्युतात्पुरुषोऽमानवः एत्य ब्रह्मलोकं गमयतिइति तस्यैव गमयितृत्वश्रुतेः । वरुणादयस्तु तस्यैव अप्रतिबन्धकरणेन साहाय्यानुष्ठानेन वा केनचित् अनुग्राहका इत्यवगन्तव्यम् । तस्मात्साधूक्तम्आतिवाहिका देवतात्मानोऽर्चिरादय इति ॥ ६ ॥

कार्याधिकरणम्

कार्यं बादरिरस्य गत्युपपत्तेः ॥ ७ ॥

एनान्ब्रह्म गमयति’ (छा. उ. ४ । १५ । ५) इत्यत्र विचिकित्स्यतेकिं कार्यमपरं ब्रह्म गमयति, आहोस्वित्परमेवाविकृतं मुख्यं ब्रह्मेति । कुतः संशयः ? ब्रह्मशब्दप्रयोगात् , गतिश्रुतेश्च । तत्र कार्यमेव सगुणमपरं ब्रह्म एनान्गमयत्यमानवः पुरुष इति बादरिराचार्यो मन्यते । कुतः ? अस्य गत्युपपत्तेःअस्य हि कार्यब्रह्मणो गन्तव्यत्वमुपपद्यते, प्रदेशवत्त्वात् । तु परस्मिन्ब्रह्मणि गन्तृत्वं गन्तव्यत्वं गतिर्वा अवकल्पते, सर्वगतत्वात्प्रत्यगात्मत्वाच्च गन्तॄणाम् ॥ ७ ॥

विशेषितत्वाच्च ॥ ८ ॥

ब्रह्मलोकान्गमयति ते तेषु ब्रह्मलोकेषु पराः परावतो वसन्ति’ (बृ. उ. ६ । २ । १५) इति श्रुत्यन्तरे विशेषितत्वात् कार्यब्रह्मविषयैव गतिरिति गम्यते । हि बहुवचनेन विशेषणं परस्मिन्ब्रह्मण्यवकल्पते । कार्ये तु अवस्थाभेदोपपत्तेः सम्भवति बहुवचनम् । लोकश्रुतिरपि विकारगोचरायामेव सन्निवेशविशिष्टायां भोगभूमावाञ्जसी । गौणी त्वन्यत्रब्रह्मैव लोक एष सम्राट्इत्यादिषु । अधिकरणाधिकर्तव्यनिर्देशोऽपि परस्मिन्ब्रह्मणि अनाञ्जसः स्यात् । तस्मात् कार्यविषयमेवेदं नयनम् ॥ ८ ॥
ननु कार्यविषयेऽपि ब्रह्मशब्दो नोपपद्यते, समन्वये हि समस्तस्य जगतो जन्मादिकारणं ब्रह्मेति स्थापितम्इत्यत्रोच्यते

सामीप्यात्तु तद्व्यपदेशः ॥ ९ ॥

तुशब्द आशङ्काव्यावृत्त्यर्थः । परब्रह्मसामीप्यात् अपरस्य ब्रह्मणः, तस्मिन्नपि ब्रह्मशब्दप्रयोगो विरुध्यते । परमेव हि ब्रह्म विशुद्धोपाधिसम्बन्धं क्वचित्कैश्चिद्विकारधर्मैर्मनोमयत्वादिभिः उपासनाय उपदिश्यमानम् अपरमिति स्थितिः ॥ ९ ॥
ननु कार्यप्राप्तौ अनावृत्तिश्रवणं घटते । हि परस्माद्ब्रह्मणोऽन्यत्र क्वचिन्नित्यतां सम्भावयन्ति । दर्शयति देवयानेन पथा प्रस्थितानामनावृत्तिम्एतेन प्रतिपद्यमाना इमं मानवमावर्तं नावर्तन्ते’ (छा. उ. ४ । १५ । ५) इति, ‘तेषामिह पुनरावृत्तिरस्तितयोर्ध्वमायन्नमृतत्वमेति’ (छा. उ. ८ । ६ । ६)(क. उ. २ । ३ । १६) इति चेत्; अत्र ब्रूमः

कार्यात्यये तदध्यक्षेण सहातः परमभिधानात् ॥ १० ॥

कार्यब्रह्मलोकप्रलयप्रत्युपस्थाने सति तत्रैव उत्पन्नसम्यग्दर्शनाः सन्तः, तदध्यक्षेण हिरण्यगर्भेण सह अतः परं परिशुद्धं विष्णोः परमं पदं प्रतिपद्यन्तेइति, इत्थं क्रममुक्तिः अनावृत्त्यादिश्रुत्यभिधानेभ्योऽभ्युपगन्तव्या । ह्यञ्जसैव गतिपूर्विका परप्राप्तिः सम्भवतीत्युपपादितम् ॥ १० ॥

स्मृतेश्च ॥ ११ ॥

स्मृतिरप्येतमर्थमनुजानाति — ‘ब्रह्मणा सह ते सर्वे सम्प्राप्ते प्रतिसञ्चरे । परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम्इति । तस्मात्कार्यब्रह्मविषया एव गतिश्रुतयः इति सिद्धान्तः ॥ ११ ॥
कं पुनः पूर्वपक्षमाशङ्क्य अयं सिद्धान्तः प्रतिष्ठापितः कार्यं बादरिः’ (ब्र. सू. ४ । ३ । ७) इत्यादिनेति, इदानीं सूत्रैरेवोपदर्श्यते

परं जैमिनिर्मुख्यत्वात् ॥ १२ ॥

जैमिनिस्त्वाचार्यः एनान्ब्रह्म गमयति’ (छा. उ. ४ । १५ । ५) इत्यत्र परमेव ब्रह्म प्रापयतीति मन्यते । कुतः ? मुख्यत्वात् । परं हि ब्रह्म ब्रह्मशब्दस्य मुख्यमालम्बनम् , गौणमपरम्; मुख्यगौणयोश्च मुख्ये सम्प्रत्ययो भवति ॥ १२ ॥

दर्शनाच्च ॥ १३ ॥

तयोर्ध्वमायन्नमृतत्वमेति’ (छा. उ. ८ । ६ । ६)(क. उ. २ । ३ । १६) इति गतिपूर्वकममृतत्वं दर्शयति । अमृतत्वं परस्मिन्ब्रह्मण्युपपद्यते, कार्ये, विनाशित्वात्कार्यस्यअथ यत्रान्यत्पश्यतितदल्पंतन्मर्त्यम्’ (छा. उ. ७ । २४ । १) इति वचनात् । परविषयैव एषा गतिः कठवल्लीषु पठ्यते; हि तत्र विद्यान्तरप्रक्रमोऽस्तिअन्यत्र धर्मादन्यत्राधर्मात्’ (क. उ. १ । २ । १४) इति परस्यैव ब्रह्मणः प्रक्रान्तत्वात् ॥ १३ ॥

न च कार्ये प्रतिपत्त्यभिसन्धिः ॥ १४ ॥

अपि प्रजापतेः सभां वेश्म प्रपद्ये’ (छा. उ. ८ । १४ । १) इति नायं कार्यविषयः प्रतिपत्त्यभिसन्धिः, नामरूपयोर्निर्वहिता ते यदन्तरा तद्ब्रह्म’ (छा. उ. ८ । १४ । १) इति कार्यविलक्षणस्य परस्यैव ब्रह्मणः प्रकृतत्वात् । यशोऽहं भवामि ब्राह्मणानाम्’ (छा. उ. ८ । १४ । १) इति सर्वात्मत्वेनोपक्रमणात् । तस्य प्रतिमाऽस्ति यस्य नाम महद्यशः’ (श्वे. उ. ४ । १९) इति परस्यैव ब्रह्मणो यशोनामत्वप्रसिद्धेः । सा चेयं वेश्मप्रतिपत्तिर्गतिपूर्विका हार्दविद्यायामुदितातदपराजिता पूर्ब्रह्मणः प्रभुविमितꣳ हिरण्मयम्’ (छा. उ. ८ । ५ । ३) इत्यत्र । पदेरपि गत्यर्थत्वात् मार्गापेक्षता अवसीयते । तस्मात्परब्रह्मविषया गतिश्रुतय इति पक्षान्तरम् । तावेतौ द्वौ पक्षावाचार्येण सूत्रितौगत्युपपत्त्यादिभिरेकः, मुख्यत्वादिभिरपरः । तत्र गत्युपपत्त्यादयः प्रभवन्ति मुख्यत्वादीनाभासयितुम् , तु मुख्यत्वादयो गत्युपपत्त्यादीन्इति आद्य एव सिद्धान्तो व्याख्यातः, द्वितीयस्तु पूर्वपक्षः । ह्यसत्यपि सम्भवे मुख्यस्यैवार्थस्य ग्रहणमिति कश्चिदाज्ञापयिता विद्यते । परविद्याप्रकरणेऽपि तत्स्तुत्यर्थं विद्यान्तराश्रयगत्यनुकीर्तनमुपपद्यतेविष्वङ्ङन्या उत्क्रमणे भवन्ति’ (छा. उ. ८ । ६ । ६) इतिवत् । प्रजापतेः सभां वेश्म प्रपद्ये’ (छा. उ. ८ । १४ । १) इति तु पूर्ववाक्यविच्छेदेन कार्येऽपि प्रतिपत्त्यभिसन्धिर्न विरुध्यते । सगुणेऽपि ब्रह्मणि सर्वात्मत्वसङ्कीर्तनम्सर्वकर्मा सर्वकामःइत्यादिवत् अवकल्पते । तस्मादपरविषया एव गतिश्रुतयः
केचित्पुनः पूर्वाणि पूर्वपक्षसूत्राणि भवन्ति उत्तराणि सिद्धान्तसूत्राणिइत्येतां व्यवस्थामनुरुध्यमानाः परविषया एव गतिश्रुतीः प्रतिष्ठापयन्ति; तत् अनुपपन्नम् , गन्तव्यत्वानुपपत्तेर्ब्रह्मणः । यत्सर्वगतं सर्वान्तरं सर्वात्मकं परं ब्रह्मआकाशवत्सर्वगतश्च नित्यःयत्साक्षादपरोक्षाद्ब्रह्म’ (बृ. उ. ३ । ४ । १) आत्मा सर्वान्तरः’ (बृ. उ. ३ । ४ । १) आत्मैवेदꣳ सर्वम्’ (छा. उ. ७ । २५ । २) ब्रह्मैवेदं विश्वमिदं वरिष्ठम्’ (मु. उ. २ । २ । १२) इत्यादिश्रुतिनिर्धारितविशेषम्तस्य गन्तव्यता कदाचिदप्युपपद्यते । हि गतमेव गम्यते । अन्यो ह्यन्यद्गच्छतीति प्रसिद्धं लोके । ननु लोके गतस्यापि गन्तव्यता देशान्तरविशिष्टस्य दृष्टायथा पृथिवीस्थ एव पृथिवीं देशान्तरद्वारेण गच्छति, तथा अनन्यत्वेऽपि बालस्य कालान्तरविशिष्टं वार्धकं स्वात्मभूतमेव गन्तव्यं दृष्टम् , तद्वत् ब्रह्मणोऽपि सर्वशक्त्युपेतत्वात् कथञ्चित् गन्तव्यता स्यादिति, प्रतिषिद्धसर्वविशेषत्वाद्ब्रह्मणः । निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम्’ (श्वे. उ. ६ । १९) अस्थूलमनण्वह्रस्वमदीर्घम्’ (बृ. उ. ३ । ८ । ८) सबाह्याभ्यन्तरो ह्यजः’ (मु. उ. २ । १ । २) वा एष महानज आत्माजरोऽमरोऽमृतोऽभयो ब्रह्म’ (बृ. उ. ४ । ४ । २५) एष नेति नेत्यात्मा’ (बृ. उ. ३ । ९ । २६) इत्यादिश्रुतिस्मृतिन्यायेभ्यो देशकालादिविशेषयोगः परमात्मनि कल्पयितुं शक्यते, येन भूप्रदेशवयोवस्थान्यायेनास्य गन्तव्यता स्यात् । भूवयसोस्तु प्रदेशावस्थादिविशेषयोगादुपपद्यते देशकालविशिष्टा गन्तव्यता । जगदुत्पत्तिस्थितिप्रलयहेतुत्वश्रुतेरनेकशक्तित्वं ब्रह्मण इति चेत् , , विशेषनिराकरणश्रुतीनामनन्यार्थत्वात् । उत्पत्त्यादिश्रुतीनामपि समानमनन्यार्थत्वमिति चेत् , , तासामेकत्वप्रतिपादनपरत्वात् । मृदादिदृष्टान्तैर्हि सतो ब्रह्मण एकस्य सत्यत्वं विकारस्य अनृतत्वं प्रतिपादयत् शास्त्रं नोत्पत्त्यादिपरं भवितुमर्हति
कस्मात्पुनरुत्पत्त्यादिश्रुतीनां विशेषनिराकरणश्रुतिशेषत्वम् , पुनरितरशेषत्वमितरासामिति, उच्यतेविशेषनिराकरणश्रुतीनां निराकाङ्क्षार्थत्वात् । हि आत्मन एकत्वनित्यत्वशुद्धत्वाद्यवगतौ सत्यां भूयः काचिदाकाङ्क्षा उपजायते, पुरुषार्थसमाप्तिबुद्ध्युपपत्तेः, तत्र को मोहः कः शोक एकत्वमनुपश्यतः’ (ई. उ. ७) अभयं वै जनक प्राप्तोऽसि’ (बृ. उ. ४ । २ । ४) विद्वान्न बिभेति कुतश्चन । एतꣳ वाव तपति । किमहꣳ साधु नाकरवम् । किमहं पापमकरवम्’ (तै. उ. २ । ९ । १) इत्यादिश्रुतिभ्यः, तथैव विदुषां तुष्ट्यनुभवादिदर्शनात् , विकारानृताभिसन्ध्यपवादाच्च — ‘मृत्योः मृत्युमाप्नोति इह नानेव पश्यतिइति । अतो विशेषनिराकरणश्रुतीनामन्यशेषत्वमवगन्तुं शक्यते । नैवमुत्पत्त्यादिश्रुतीनां निराकाङ्क्षार्थप्रतिपादनसामर्थ्यमस्ति । प्रत्यक्षं तु तासामन्यार्थत्वं समनुगम्यते । तथा हितत्रैतच्छुङ्गमुत्पतितꣳ सोम्य विजानीहि नेदममूलं भविष्यति’ (छा. उ. ६ । ८ । ३) इत्युपन्यस्य उदर्के सत एवैकस्य जगन्मूलस्य विज्ञेयत्वं दर्शयति; यतो वा इमानि भूतानि जायन्ते । येन जातानि जीवन्ति । यत्प्रयन्त्यभिसंविशन्ति । तद्विजिज्ञासस्व । तद्ब्रह्म’ (तै. उ. ३ । १ । १) इति  । एवमुत्पत्त्यादिश्रुतीनाम् ऐकात्म्यावगमपरत्वात् नानेकशक्तियोगो ब्रह्मणः । अतश्च गन्तव्यत्वानुपपत्तिः । तस्य प्राणा उत्क्रामन्ति’ (बृ. उ. ४ । ४ । ६)ब्रह्मैव सन्ब्रह्माप्येतिइति परस्मिन्ब्रह्मणि गतिं निवारयति । तद्व्याख्यातम् स्पष्टो ह्येकेषाम्’ (ब्र. सू. ४ । २ । १३) इत्यत्र
गतिकल्पनायां गन्ता जीवो गन्तव्यस्य ब्रह्मणः अवयवः विकारो अन्यो वा ततः स्यात् , अत्यन्ततादात्म्ये गमनानुपपत्तेः । यद्येवम् , ततः किं स्यात् ? उच्यतेयद्येकदेशः, तेन एकदेशिनो नित्यप्राप्तत्वात् पुनर्ब्रह्मगमनमुपपद्यते । एकदेशैकदेशित्वकल्पना ब्रह्मण्यनुपपन्ना, निरवयवत्वप्रसिद्धेः । विकारपक्षेऽप्येतत्तुल्यम् , विकारेणापि विकारिणो नित्यप्राप्तत्वात् । हि घटो मृदात्मतां परित्यज्य अवतिष्ठते, परित्यागे वा अभावप्राप्तेः । विकारावयवपक्षयोश्च तद्वतः स्थिरत्वात् ब्रह्मणः संसारगमनमपि अनवकॢप्तम् । अथ अन्य एव जीवो ब्रह्मणः, सोऽणुः व्यापी मध्यमपरिमाणो वा भवितुमर्हति । व्यापित्वे गमनानुपपत्तिः । मध्यमपरिमाणत्वे अनित्यत्वप्रसङ्गः । अणुत्वे कृत्स्नशरीरवेदनानुपपत्तिः । प्रतिषिद्धे अणुत्वमध्यमपरिमाणत्वे विस्तरेण पुरस्तात् । परस्माच्च अन्यत्वे जीवस्य तत्त्वमसि’ (छा. उ. ६ । ८ । ७) इत्यादिशास्त्रबाधप्रसङ्गः । विकारावयवपक्षयोरपि समानोऽयं दोषः । विकारावयवयोस्तद्वतोऽनन्यत्वात् अदोष इति चेत् , , मुख्यैकत्वानुपपत्तेः । सर्वेष्वेतेषु पक्षेषु अनिर्मोक्षप्रसङ्गः, संसार्यात्मत्वानिवृत्तेः; निवृत्तौ वा स्वरूपनाशप्रसङ्गः, ब्रह्मात्मत्वानभ्युपगमाच्च
यत्तु कैश्चिज्जल्प्यतेनित्यानि नैमित्तिकानि कर्माण्यनुष्ठीयन्ते प्रत्यवायानुत्पत्तये, काम्यानि प्रतिषिद्धानि परिह्रियन्ते स्वर्गनरकानवाप्तये, साम्प्रतदेहोपभोग्यानि कर्माण्युपभोगेनैव क्षप्यन्तेइत्यतो वर्तमानदेहपातादूर्ध्वं देहान्तरप्रतिसन्धानकारणाभावात् स्वरूपावस्थानलक्षणं कैवल्यं विनापि ब्रह्मात्मतया एवंवृत्तस्य सेत्स्यतीतितदसत् , प्रमाणाभावात् । ह्येतत् शास्त्रेण केनचित्प्रतिपादितम्मोक्षार्थी इत्थं समाचरेदिति । स्वमनीषया तु एतत्तर्कितम्यस्मात्कर्मनिमित्तः संसारः तस्मान्निमित्ताभावान्न भविष्यतीति । एतत् तर्कयितुमपि शक्यते, निमित्ताभावस्य दुर्ज्ञानत्वात् । बहूनि हि कर्माणि जात्यन्तरसञ्चितानि इष्टानिष्टविपाकानि एकैकस्य जन्तोः सम्भाव्यन्ते । तेषां विरुद्धफलानां युगपदुपभोगासम्भवात् कानिचिल्लब्धावसराणि इदं जन्म निर्मिमते, कानिचित्तु देशकालनिमित्तप्रतीक्षाण्यासतेइत्यतः तेषामवशिष्टानां साम्प्रतेनोपभोगेन क्षपणासम्भवात् यथावर्णितचरितस्यापि वर्तमानदेहपाते देहान्तरनिमित्ताभावः शक्यते निश्चेतुम् । कर्मशेषसद्भावसिद्धिश्चतद्य इह रमणीयचरणाः’ ‘ततः शेषेणइत्यादिश्रुतिस्मृतिभ्यः । स्यादेतत्नित्यनैमित्तिकानि तेषां क्षेपकाणि भविष्यन्तीतितत् , विरोधाभावात् । सति हि विरोधे क्षेप्यक्षेपकभावो भवति । जन्मान्तरसञ्चितानां सुकृतानां नित्यनैमित्तिकैरस्ति विरोधः, शुद्धिरूपत्वाविशेषात् । दुरितानां तु अशुद्धिरूपत्वात् सति विरोधे भवतु क्षपणम् । तु तावता देहान्तरनिमित्ताभावसिद्धिः, सुकृतनिमित्तत्वोपपत्तेः, दुरितस्याप्यशेषक्षपणानवगमात् । नित्यनैमित्तिकानुष्ठानात् प्रत्यवायानुत्पत्तिमात्रम् , पुनः फलान्तरोत्पत्तिः इति प्रमाणमस्ति, फलान्तरस्याप्यनुनिष्पादिनः सम्भवात् । स्मरति हि आपस्तम्बःतद्यथा आम्रे फलार्थे निमिते छायागन्धावनूत्पद्येते एवं धर्मं चर्यमाणम् अर्था अनूत्पद्यन्ते’ (आ. ध. सू. १ । ७ । २० । ३) इति । असति सम्यग्दर्शने सर्वात्मना काम्यप्रतिषिद्धवर्जनं जन्मप्रायणान्तराले केनचित्प्रतिज्ञातुं शक्यम् , सुनिपुणानामपि सूक्ष्मापराधदर्शनात् । संशयितव्यं तु भवति । तथापि निमित्ताभावस्य दुर्ज्ञानत्वमेव । अनभ्युपगम्यमाने ज्ञानगम्ये ब्रह्मात्मत्वे कर्तृत्वभोक्तृत्वस्वभावस्य आत्मनः कैवल्यमाकाङ्क्षितुं शक्यम् , अग्न्यौष्ण्यवत् स्वभावस्यापरिहार्यत्वात् । स्यादेतत्कर्तृत्वभोक्तृत्वकार्यम् अनर्थः, तच्छक्तिः, तेन शक्त्यवस्थानेऽपि कार्यपरिहारादुपपन्नो मोक्ष इतितच्च  । शक्तिसद्भावे कार्यप्रसवस्य दुर्निवारत्वात् । अथापि स्यात् केवला शक्तिः कार्यमारभते अनपेक्ष्य अन्यानि निमित्तानि । अत एकाकिनी सा स्थितापि नापराध्यतीतितच्च , निमित्तानामपि शक्तिलक्षणेन सम्बन्धेन नित्यसम्बद्धत्वात् । तस्मात् कर्तृत्वभोक्तृत्वस्वभावे सति आत्मनि, असत्यां विद्यागम्यायां ब्रह्मात्मतायाम् , कथञ्चन मोक्षं प्रति आशा अस्ति । श्रुतिश्चनान्यः पन्था विद्यतेऽयनाय’ (श्वे. उ. ३ । ८) इति ज्ञानादन्यं मोक्षमार्गं वारयति
परस्मादनन्यत्वेऽपि जीवस्य सर्वव्यवहारलोपप्रसङ्गः, प्रत्यक्षादिप्रमाणाप्रवृत्तेरिति चेत्, प्राक्प्रबोधात् स्वप्नव्यवहारवत् तदुपपत्तेः । शास्त्रं यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति’ (बृ. उ. २ । ४ । १४) इत्यादिना अप्रबुद्धविषये प्रत्यक्षादिव्यवहारमुक्त्वा, पुनः प्रबुद्धविषयेयत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्’ (बृ. उ. २ । ४ । १४) इत्यादिना तदभावं दर्शयति । तदेवं परब्रह्मविदो गन्तव्यादिविज्ञानस्य वाधितत्वात् कथञ्चन गतिरुपपादयितुं शक्या । किंविषयाः पुनर्गतिश्रुतय इति, उच्यतेसगुणविद्याविषया भविष्यन्ति । तथा हिक्वचित्पञ्चाग्निविद्यां प्रकृत्य गतिरुच्यते, क्वचित्पर्यङ्कविद्याम् , क्वचिद्वैश्वानरविद्याम् । यत्रापि ब्रह्म प्रकृत्य गतिरुच्यतेयथा प्राणो ब्रह्म कं ब्रह्म खं ब्रह्म’ (छा. उ. ४ । १० । ४) इति अथ यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म’ (छा. उ. ८ । १ । १) इति , तत्रापि वामनीत्वादिभिः सत्यकामादिभिश्च गुणैः सगुणस्यैव उपास्यत्वात् सम्भवति गतिः । क्वचित्परब्रह्मविषया गतिः श्राव्यते । तथा गतिप्रतिषेधः श्रावितः तस्य प्राणा उत्क्रामन्ति’ (बृ. उ. ४ । ४ । ६) इति । ब्रह्मविदाप्नोति परम्’ (तै. उ. २ । १ । १) इत्यादिषु तु, सत्यपि आप्नोतेर्गत्यर्थत्वे, वर्णितेन न्यायेन देशान्तरप्राप्त्यसम्भवात् स्वरूपप्रतिपत्तिरेवेयम् अविद्याध्यारोपितनामरूपप्रविलयापेक्षया अभिधीयतेब्रह्मैव सन्ब्रह्माप्येति’ (बृ. उ. ४ । ४ । ६) इत्यादिवत् इति द्रष्टव्यम् । अपि परविषया गतिर्व्याख्यायमाना प्ररोचनाय वा स्यात् , अनुचिन्तनाय वा ? तत्र प्ररोचनं तावत् ब्रह्मविदो गत्युक्त्या क्रियते, स्वसंवेद्येनैव अव्यवहितेन विद्यासमर्पितेन स्वास्थ्येन तत्सिद्धेः । नित्यसिद्धनिःश्रेयसनिवेदनस्य असाध्यफलस्य विज्ञानस्य गत्यनुचिन्तने काचिदपेक्षा उपपद्यते । तस्मादपरब्रह्मविषया गतिः । तत्र परापरब्रह्मविवेकानवधारणेन अपरस्मिन्ब्रह्मणि वर्तमाना गतिश्रुतयः परस्मिन्नध्यारोप्यन्ते । किं द्वे ब्रह्मणी परमपरं चेति ? बाढं द्वेएतद्वै सत्यकाम परं चापरं ब्रह्म यदोंकारः’ (प्र. उ. ५ । २) इत्यादिदर्शनात् । किं पुनः परं ब्रह्म किमपरमिति, उच्यतेयत्र अविद्याकृतनामरूपादिविशेषप्रतिषेधेन अस्थूलादिशब्दैर्ब्रह्मोपदिश्यते, तत्परम् । तदेव यत्र नामरूपादिविशेषेण केनचिद्विशिष्टम् उपासनायोपदिश्यतेमनोमयः प्राणशरीरो भारूपः’ (छा. उ. ३ । १४ । २) इत्यादिशब्दैः, तदपरम् । ननु एवमद्वितीयश्रुतिरुपरुध्येत, अविद्याकृतनामरूपोपाधिकतया परिहृतत्वात् । तस्य अपरब्रह्मोपासनस्य तत्सन्निधौ श्रूयमाणम् यदि पितृलोककामो भवति’ (छा. उ. ८ । २ । १) इत्यादि जगदैश्वर्यलक्षणं संसारगोचरमेव फलं भवति, अनिवर्तितत्वादविद्यायाः । तस्य देशविशेषावबद्धत्वात् तत्प्राप्त्यर्थं गमनमविरुद्धम् । सर्वगतत्वेऽपि आत्मनः, आकाशस्येव घटादिगमने, बुद्ध्याद्युपाधिगमने गमनप्रसिद्धिः इत्यवादिष्म तद्गुणसारत्वात्’ (ब्र. सू. २ । ३ । २९) इत्यत्र । तस्मात् कार्यं बादरिः’ (ब्र. सू. ४ । ३ । ७) इत्येष एव स्थितः पक्षः । परं जैमिनिः’ (ब्र. सू. ४ । ३ । १२) इति तु पक्षान्तरप्रतिभानमात्रप्रदर्शनं प्रज्ञाविकासनायेति द्रष्टव्यम् ॥ १४ ॥

अप्रतीकालम्बनाधिकरणम्

अप्रतीकालम्बनान्नयतीति बादरायण उभयथाऽदोषात्तत्क्रतुश्च ॥ १५ ॥

स्थितमेतत्कार्यविषया गतिः, परविषयेति । इदमिदानीं सन्दिह्यतेकिं सर्वान्विकारालम्बनान् अविशेषेणैव अमानवः पुरुषः प्रापयति ब्रह्मलोकम् , उत कांश्चिदेवेति । किं तावत्प्राप्तम् ? सर्वेषामेव एषां विदुषाम् अन्यत्र परस्माद्ब्रह्मणः गतिः स्यात् । तथा हि अनियमः सर्वासाम्’ (ब्र. सू. ३ । ३ । ३१) इत्यत्र अविशेषेणैव एषा विद्यान्तरेष्ववतारितेति । एवं प्राप्ते, प्रत्याहअप्रतीकालम्बनानिति । प्रतीकालम्बनान्वर्जयित्वा सर्वानन्यान्विकारालम्बनान् नयति ब्रह्मलोकम्इति बादरायण आचार्यो मन्यते । हि एवम् उभयथाभावाभ्युपगमे कश्चिद्दोषोऽस्ति, अनियमन्यायस्य प्रतीकव्यतिरिक्तेष्वप्युपासनेषूपपत्तेः । तत्क्रतुश्च अस्य उभयथाभावस्य समर्थको हेतुर्द्रष्टव्यः । यो हि ब्रह्मक्रतुः, ब्राह्ममैश्वर्यमासीदेत्इति श्लिष्यते, ‘तं यथा यथोपासते तदेव भवतिइति श्रुतेः, तु प्रतीकेषु ब्रह्मक्रतुत्वमस्ति, प्रतीकप्रधानत्वादुपासनस्य । ननु, अब्रह्मक्रतुरपि ब्रह्म गच्छतीति श्रूयते; यथा पञ्चाग्निविद्यायाम् एनान्ब्रह्म गमयति’ (छा. उ. ४ । १५ । ५) इति ; भवतु यत्र एवम् आहत्यवाद उपलभ्यते । तदभावे तु औत्सर्गिकेण तत्क्रतुन्यायेन ब्रह्मक्रतूनामेव तत्प्राप्तिः, इतरेषाम्इति गम्यते ॥ १५ ॥

विशेषं च दर्शयति ॥ १६ ॥

नामादिषु प्रतीकोपासनेषु पूर्वस्मात्पूर्वस्मात् फलविशेषम् उत्तरस्मिन्नुत्तरस्मिन् उपासने दर्शयतियावन्नाम्नो गतं तत्रास्य यथाकामचारो भवति’ (छा. उ. ७ । १ । ५) वाग्वाव नाम्नो भूयसी’ (छा. उ. ७ । २ । १) यावद्वाचो गतं तत्रास्य यथाकामचारो भवति’ (छा. उ. ७ । २ । २) मनो वाव वाचो भूयः’ (छा. उ. ७ । ३ । १) इत्यादिना । अयं फलविशेषः प्रतीकतन्त्रत्वादुपासनानाम् उपपद्यते । ब्रह्मतन्त्रत्वे तु ब्रह्मणोऽविशिष्टत्वात् कथं फलविशेषः स्यात् । तस्मात् प्रतीकालम्बनानाम् इतरैस्तुल्यफलत्वमिति ॥ १६ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छङ्करभगवतः कृतौ शारीरकमीमांसासूत्रभाष्ये
चतुर्थाध्यायस्य तृतीयः पादः

चतुर्थः पादः

एवमेवैष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यतेइति श्रूयते । तत्र संशयःकिं देवलोकाद्युपभोगस्थानेष्विव आगन्तुकेन केनचिद्विशेषेण अभिनिष्पद्यते, आहोस्वित् आत्ममात्रेणेति । किं तावत्प्राप्तम् ? स्थानान्तरेष्विव आगन्तुकेन केनचिद्रूपेण अभिनिष्पत्तिः स्यात् , मोक्षस्यापि फलत्वप्रसिद्धेः, अभिनिष्पद्यत इति उत्पत्तिपर्यायत्वात् । स्वरूपमात्रेण चेदभिनिष्पत्तिः, पूर्वास्वप्यवस्थासु स्वरूपानपायात् विभाव्येत । तस्मात् विशेषेण केनचिदभिनिष्पद्यत इति । एवं प्राप्ते, ब्रूमः

सम्पद्याविर्भावाधिकरणम्

सम्पद्याविर्भावः स्वेनशब्दात् ॥ १ ॥

केवलेनैव आत्मना आविर्भवति, धर्मान्तरेणेति । कुतः ? ‘स्वेन रूपेणाभिनिष्पद्यतेइति स्वशब्दात् । अन्यथा हि स्वशब्देन विशेषणमनवकॢप्तं स्यात् । ननु, आत्मीयाभिप्रायः स्वशब्दो भविष्यति, तस्यावचनीयत्वात् । येनैव हि केनचिद्रूपेणाभिनिष्पद्यते, तस्यैव आत्मीयत्वोपपत्तेः, स्वेनेति विशेषणमनर्थकं स्यात् । आत्मवचनतायां तु अर्थवत्केवलेनैव आत्मरूपेणाभिनिष्पद्यते, आगन्तुकेनापररूपेणापीति ॥ १ ॥
कः पुनर्विशेषः पूर्वास्ववस्थासु , इह स्वरूपानपायसाम्ये सतीत्यत आह

मुक्तः प्रतिज्ञानात् ॥ २ ॥

योऽत्र अभिनिष्पद्यत इत्युक्तः, सर्वबन्धविनिर्मुक्तः शुद्धेनैव आत्मना अवतिष्ठते । पूर्वत्र तु — ‘अन्धो भवति’ ‘अपि रोदितीव’ ‘विनाशमेवापीतो भवति’ — इति अवस्थात्रयकलुषितेन आत्मनाइत्ययं विशेषः । कथं पुनरवगम्यतेमुक्तोऽयमिदानीं भवतीति ? प्रतिज्ञानादित्याहतथा हिएतं त्वेव ते भूयोऽनुव्याख्यास्यामि’ (छा. उ. ८ । ९ । ३) इति अवस्थात्रयदोषविहीनम् आत्मानम् व्याख्येयत्वेन प्रतिज्ञाय, अशरीरं वाव सन्तं प्रियाप्रिये स्पृशतः’ (छा. उ. ८ । १२ । १) इति उपन्यस्य, स्वेन रूपेणाभिनिष्पद्यते उत्तमः पुरुषः’ (छा. उ. ८ । १२ । ३) इति उपसंहरति । तथा आख्यायिकोपक्रमेऽपि आत्मापहतपाप्मा’ (छा. उ. ८ । ७ । १) इत्यादि मुक्तात्मविषयमेव प्रतिज्ञानम् । फलत्वप्रसिद्धिरपि मोक्षस्य बन्धनिवृत्तिमात्रापेक्षा, अपूर्वोपजननापेक्षा । यदपि अभिनिष्पद्यत इत्युत्पत्तिपर्यायत्वम् , तदपि पूर्वावस्थापेक्षम्यथा रोगनिवृत्तौ अरोगोऽभिनिष्पद्यत इति, तद्वत् । तस्माददोषः ॥ २ ॥

आत्मा प्रकरणात् ॥ ३ ॥

कथं पुनर्मुक्त इत्युच्यते, यावता परं ज्योतिरुपसम्पद्य’ (छा. उ. ८ । १२ । ३) इति कार्यगोचरमे एनं श्रावयति, ज्योतिःशब्दस्य भौतिके ज्योतिषि रूढत्वात् ? अनतिवृत्तो विकारविषयात् कश्चिन्मुक्तो भवितुमर्हति, विकारस्य आर्तत्वप्रसिद्धेरितिनैष दोषः, यतः आत्मैवात्र ज्योतिःशब्देन आवेद्यते, प्रकरणात् । आत्मापहतपाप्मा विजरो विमृत्युः’ (छा. उ. ८ । ७ । १) इति हि प्रकृते परस्मिन्नात्मनि अकस्माद्भौतिकं ज्योतिः शक्यं ग्रहीतुम् , प्रकृतहानाप्रकृतप्रक्रियाप्रसङ्गात् । ज्योतिःशब्दस्तु आत्मन्यपि दृश्यतेतद्देवा ज्योतिषां ज्योतिः’ (बृ. उ. ४ । ४ । १६) इति । प्रपञ्चितं एतत् ज्योतिर्दर्शनात्’ (ब्र. सू. १ । ३ । ४०) इत्यत्र ॥ ३ ॥

अविभागेन दृष्टत्वाधिकरणम्

अविभागेन दृष्टत्वात् ॥ ४ ॥

परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते यः, किं परस्मादात्मनः पृथगेव भवति, उत अविभागेनैवावतिष्ठत इति वीक्षायाम् , तत्र पर्येति’ (छा. उ. ८ । १२ । ३) इत्यधिकरणाधिकर्तव्यनिर्देशात् ज्योतिरुपसम्पद्य’ (छा. उ. ८ । १२ । ३) इति कर्तृकर्मनिर्देशात् भेदेनैवावस्थानमिति यस्य मतिः, तं व्युत्पादयतिअविभक्त एव परेण आत्मना मुक्तोऽवतिष्ठते । कुतः ? दृष्टत्वात्; तथा हितत्त्वमसि’ (छा. उ. ६ । ८ । ७) अहं ब्रह्मास्मि’ (बृ. उ. १ । ४ । १०) यत्र नान्यत्पश्यति’ (छा. उ. ७ । २४ । १) तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यत्पश्येत्’ (बृ. उ. ४ । ३ । २३) इत्येवमादीनि वाक्यान्यविभागेनैव परमात्मानं दर्शयन्ति । यथादर्शनमेव फलं युक्तम् , तत्क्रतुन्यायात् । यथोदकं शुद्धे शुद्धमासिक्तं तादृगेव भवति । एवं मुनेर्विजानत आत्मा भवति गौतम’ (क. उ. २ । १ । १५) इति एवमादीनि मुक्तस्वरूपनिरूपणपराणि वाक्यान्यविभागमेव दर्शयन्ति । नदीसमुद्रादिनिदर्शनानि  । भेदनिर्देशस्तु अभेदेऽप्युपचर्यते भगवः कस्मिन्प्रतिष्ठित इति स्वे महिम्नि’ (छा. उ. ७ । २४ । १) इति, आत्मरतिरात्मक्रीडः’ (छा. उ. ७ । २५ । २) इति एवमादिदर्शनात् ॥ ४ ॥

ब्राह्माधिकरणम्

“ब्रह्मदृष्टिरुत्कर्षाद्”

ब्राह्मेण जैमिनिरुपन्यासादिभ्यः ॥ ५ ॥

स्थितमेतत् स्वेन रूपेण’ (छा. उ. ८ । ३ । ४) इत्यत्रआत्ममात्ररूपेणाभिनिष्पद्यते, आगन्तुकेनापररूपेणेति । अधुना तु तद्विशेषबुभुत्सायामभिधीयतेस्वम् अस्य रूपं ब्राह्मम् अपहतपाप्मत्वादिसत्यसङ्कल्पत्वावसानं तथा सर्वज्ञत्वं सर्वेश्वरत्वं , तेन स्वेन रूपेणाभिनिष्पद्यत इति जैमिनिराचार्यो मन्यते । कुतः ? उपन्यासादिभ्यस्तथात्वावगमात्; तथा हि आत्मापहतपाप्मा’ (छा. उ. ८ । ७ । १) इत्यादिना सत्यकामः सत्यसङ्कल्पः’ (छा. उ. ८ । ७ । १) इत्येवमन्तेन उपन्यासेन एवमात्मकतामात्मनो बोधयति । तथा तत्र पर्येति जक्षत्क्रीडरममाणः’ (छा. उ. ८ । १२ । ३) इति ऐश्वर्यरूपमावेदयति, तस्य सर्वेषु लोकेषु कामचारो भवति’ (छा. उ. ७ । २५ । २) इति  । ‘सर्वज्ञः सर्वेश्वरःइत्यादिव्यपदेशाश्च एवमुपपन्ना भविष्यन्तीति ॥ ५ ॥

चितितन्मात्रेण तदात्मकत्वादित्यौडुलोमिः ॥ ६ ॥

यद्यपि अपहतपाप्मत्वादयो भेदेनैव धर्मा निर्दिश्यन्ते, तथापि शब्द;विकल्पजा एव एते । पाप्मादिनिवृत्तिमात्रं हि तत्र गम्यते । चैतन्यमेव तु अस्य आत्मनः स्वरूपमिति तन्मात्रेण स्वरूपेण अभिनिष्पत्तिर्युक्ता तथा श्रुतिः एवं वा अरेऽयमात्मानन्तरोऽबाह्यः कृत्स्नः प्रज्ञानघन एव’ (बृ. उ. ४ । ५ । १३) इत्येवंजातीयका अनुगृहीता भविष्यति । सत्यकामत्वादयस्तु यद्यपि वस्तुस्वरूपेणैव धर्मा उच्यन्तेसत्याः कामा अस्येति, तथापि उपाधिसम्बन्धाधीनत्वात्तेषां चैतन्यवत् स्वरूपत्वसम्भवः, अनेकाकारत्वप्रतिषेधात् । प्रतिषिद्धं हि ब्रह्मणोऽनेकाकारत्वम् स्थानतोऽपि परस्योभयलिङ्गम्’ (ब्र. सू. ३ । २ । ११) इत्यत्र । अत एव जक्षणादिसङ्कीर्तनमपि दुःखाभावमात्राभिप्रायं स्तुत्यर्थम्आत्मरतिःइत्यादिवत् । हि मुख्यान्येव रतिक्रीडामिथुनानि आत्मनि शक्यन्ते वर्णयितुम् , द्वितीयविषयत्वात्तेषाम् । तस्मान्निरस्ताशेषप्रपञ्चेन प्रसन्नेन अव्यपदेश्येन बोधात्मना अभिनिष्पद्यत इत्यौडुलोमिराचार्यो मन्यते ॥ ६ ॥

एवमप्युपन्यासात्पूर्वभावादविरोधं बादरायणः ॥ ७ ॥

एवमपि पारमार्थिकचैतन्यमात्रस्वरूपाभ्युपगमेऽपि व्यवहारापेक्षया पूर्वस्यापि उपन्यासादिभ्योऽवगतस्य ब्राह्मस्य ऐश्वर्यरूपस्य अप्रत्याख्यानादविरोधं बादरायण आचार्यो मन्यते ॥ ७ ॥

सङ्कल्पाधिकरणम्

सङ्कल्पादेव तु तच्छ्रुतेः ॥ ८ ॥

हार्दविद्यायां श्रूयते यदि पितृलोककामो भवति सङ्कल्पादेवास्य पितरः समुत्तिष्ठन्ति’ (छा. उ. ८ । २ । १) इत्यादि । तत्र संशयःकिं सङ्कल्प एव केवलः पित्रादिसमुत्थाने हेतुः, उत निमित्तान्तरसहित इति । तत्र सत्यपिसङ्कल्पादेवइति श्रवणे लोकवत् निमित्तान्तरापेक्षा युक्ता । यथा लोके अस्मदादीनां सङ्कल्पात् गमनादिभ्यश्च हेतुभ्यः पित्रादिसम्पत्तिर्भवति एवं मुक्तस्यापि स्यात् । एवं दृष्टविपरीतं कल्पितं भविष्यति । ‘सङ्कल्पादेवइति तु राज्ञ इव सङ्कल्पितार्थसिद्धिकरीं साधनान्तरसामग्रीं सुलभामपेक्ष्य उच्यते । सङ्कल्पमात्रसमुत्थानाः पित्रादयः मनोरथविजृम्भितवत् चञ्चलत्वात् पुष्कलं भोगं समर्पयितुं पर्याप्ताः स्युरिति । एवं प्राप्ते, ब्रूमःसङ्कल्पादेव तु केवलात् पित्रादिसमुत्थानमिति । कुतः ? तच्छ्रुतेः । सङ्कल्पादेवास्य पितरः समुत्तिष्ठन्ति’ (छा. उ. ८ । २ । १) इत्यादिका हि श्रुतिर्निमित्तान्तरापेक्षायां पीड्येत । निमित्तान्तरमपि तु यदि सङ्कल्पानुविधाय्येव स्यात् , भवतु; तु प्रयत्नान्तरसम्पाद्यं निमित्तान्तरमितीष्यते, प्राक्तत्सम्पत्तेः वन्ध्यसङ्कल्पत्वप्रसङ्गात् । श्रुत्यवगम्येऽर्थे लोकवदिति सामान्यतो दृष्टं क्रमते । सङ्कल्पबलादेव एषां यावत्प्रयोजनं स्थैर्योपपत्तिः, प्राकृतसङ्कल्पविलक्षणत्वान्मुक्तसङ्कल्पस्य ॥ ८ ॥

अत एव चानन्याधिपतिः ॥ ९ ॥

अत एव अवन्ध्यसङ्कल्पत्वात् अनन्याधिपतिर्विद्वान्भवतिनास्यान्योऽधिपतिर्भवतीत्यर्थः । हि प्राकृतोऽपि सङ्कल्पयन् अन्यस्वामिकत्वमात्मनः सत्यां गतौ सङ्कल्पयति । श्रुतिश्चैतद्दर्शयतिअथ इहात्मानमनुविद्य व्रजन्त्येताꣳश्च सत्यान्कामाꣳस्तेषाꣳ सर्वेषु लोकेषु कामचारो भवति’ (छा. उ. ८ । १ । ६) इति ॥ ९ ॥

अभावाधिकरणम्

अभावं बादरिराह ह्येवम् ॥ १० ॥

सङ्कल्पादेवास्य पितरः समुत्तिष्ठन्ति’ (छा. उ. ८ । २ । १) इत्यतः श्रुतेः मनस्तावत्सङ्कल्पसाधनं सिद्धम् । शरीरेन्द्रियाणि पुनः प्राप्तैश्वर्यस्य विदुषः सन्ति, वा सन्तिइति समीक्ष्यते । तत्र बादरिस्तावदाचार्यः शरीरस्येन्द्रियाणां अभावं महीयमानस्य विदुषो मन्यते । कस्मात् ? एवं हि आह आम्नायःमनसैतान्कामान्पश्यरमते’ (छा. उ. ८ । १२ । ५) एते ब्रह्मलोके’ (छा. उ. ८ । १२ । ५) इति । यदि मनसा शरीरेन्द्रियैश्च विहरेत् मनसेति विशेषणं स्यात् । तस्मादभावः शरीरेन्द्रियाणां मोक्षे ॥ १० ॥

भावं जैमिनिर्विकल्पामननात् ॥ ११ ॥

जैमिनिस्त्वाचार्यः मनोवत् शरीरस्यापि सेन्द्रियस्य भावं मुक्तं प्रति मन्यते; यतः एकधा भवति त्रिधा भवति’ (छा. उ. ७ । २६ । २) इत्यादिना अनेकधाभावविकल्पमामनन्ति । हि अनेकविधता विना शरीरभेदेन आञ्जसी स्यात् । यद्यपि निर्गुणायां भूमविद्यायाम् अयमनेकधाभावविकल्पः पठ्यते, तथापि विद्यमानमेवेदं सगुणावस्थायाम् ऐश्वर्यं भूमविद्यास्तुतये सङ्कीर्त्यत इत्यतः सगुणविद्याफलभावेन उपतिष्ठत इत्युच्यते ॥ ११ ॥

द्वादशाहवदुभयविधं बादरायणोऽतः ॥ १२ ॥

बादरायणः पुनराचार्यः अत एव उभयलिङ्गश्रुतिदर्शनात् उभयविधत्वं साधु मन्यतेयदा सशरीरतां सङ्कल्पयति तदा सशरीरो भवति, यदा तु अशरीरतां तदा अशरीर इति; सत्यसङ्कल्पत्वात् , सङ्कल्पवैचित्र्याच्च । द्वादशाहवत्यथा द्वादशाहः सत्रम् अहीनश्च भवति, उभयलिङ्गश्रुतिदर्शनात्एवमिदमपीति ॥ १२ ॥

तन्वभावे सन्ध्यवदुपपत्तेः ॥ १३ ॥

यदा तनोः सेन्द्रियस्य शरीरस्य अभावः तदा, यथा सन्ध्ये स्थाने शरीरेन्द्रियविषयेष्वविद्यमानेष्वपि उपलब्धिमात्रा एव पित्रादिकामा भवन्ति, एवं मोक्षेऽपि स्युः । एवं हि एतदुपपद्यते ॥ १३ ॥

भावे जाग्रद्वत् ॥ १४ ॥

भावे पुनः तनोः, यथा जागरिते विद्यमाना एव पित्रादिकामा भवन्ति, एवं मुक्तस्याप्युपपद्यते ॥ १४ ॥

प्रदीपाधिकरणम्

प्रदीपवदावेशस्तथा हि दर्शयति ॥ १५ ॥

भावं जैमिनिर्विकल्पामननात्’ (ब्र. सू. ४ । ४ । ११) इत्यत्र सशरीरत्वं मुक्तस्योक्तम् । तत्र त्रिधाभावादिषु अनेकशरीरसर्गे किं निरात्मकानि शरीराणि दारुयन्त्रवत्सृज्यन्ते, किं वा सात्मकान्यस्मदादिशरीरवत्इति भवति वीक्षा । तत्र आत्ममनसोः भेदानुपपत्तेः एकेन शरीरेण योगात् इतराणि शरीराणि निरात्मकानिइत्येवं प्राप्ते, प्रतिपद्यतेप्रदीपवदावेश इति । यथा प्रदीप एकः अनेकप्रदीपभावमापद्यते, विकारशक्तियोगात् , एवमेकोऽपि सन् विद्वान् ऐश्वर्ययोगादनेकभावमापद्य सर्वाणि शरीराण्याविशति । कुतः ? तथा हि दर्शयति शास्त्रमेकस्यानेकभावम् एकधा भवति त्रिधा भवति पञ्चधा सप्तधा नवधा’ (छा. उ. ७ । २६ । २) इत्यादि । नैतद्दारुयन्त्रोपमाभ्युपगमेऽवकल्पते, नापि जीवान्तरावेशे । निरात्मकानां शरीराणां प्रवृत्तिः सम्भवति । यत्तु आत्ममनसोर्भेदानुपपत्तेः अनेकशरीरयोगासम्भव इतिनैष दोषः; एकमनोनुवर्तीनि समनस्कान्येवापराणि शरीराणि सत्यसङ्कल्पत्वात् स्रक्ष्यति । सृष्टेषु तेषु उपाधिभेदात् आत्मनोऽपि भेदेनाधिष्ठातृत्वं योक्ष्यते । एषैव योगशास्त्रेषु योगिनामनेकशरीरयोगप्रक्रिया ॥ १५ ॥
कथं पुनः मुक्तस्य अनेकशरीरावेशादिलक्षणमैश्वर्यमभ्युपगम्यते, यावता तत्केन कं विजानीयात्’ (बृ. उ. ४ । ५ । १५) तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यद्विजानीयात्’ (बृ. उ. ४ । ३ । ३०) सलिल एको द्रष्टाऽद्वैतो भवति’ (बृ. उ. ४ । ३ । ३२) इति एवंजातीयका श्रुतिः विशेषविज्ञानं वारयतिइत्यत उत्तरं पठति

स्वाप्ययसम्पत्त्योरन्यतरापेक्षमाविष्कृतं हि ॥ १६ ॥

स्वाप्ययः सुषुप्तम् , स्वमपीतो भवति तस्मादेनꣳ स्वपितीत्याचक्षते’ (छा. उ. ६ । ८ । १) इति श्रुतेः । सम्पत्तिः कैवल्यम् , ब्रह्मैव सन्ब्रह्माप्येति’ (बृ. उ. ४ । ४ । ६) इति श्रुतेः । तयोरन्यतरामवस्थामपेक्ष्य एतत् विशेषसंज्ञाऽभाववचनम्क्वचित् सुषुप्तावस्थामपेक्ष्योच्यते, क्वचित्कैवल्यावस्थाम् । कथमवगम्यते ? यतस्तत्रैव एतदधिकारवशात् आविष्कृतम्एतेभ्यो भूतेभ्यः समुत्थाय तान्येवानु विनश्यति प्रेत्य संज्ञास्तीति’ (बृ. उ. २ । ४ । १२), यत्र त्वस्य सर्वमात्मैवाभूत्’ (बृ. उ. २ । ४ । १४) यत्र सुप्तो कञ्चन कामं कामयते कञ्चन स्वप्नं पश्यति’ (बृ. उ. ४ । ३ । १९), इत्यादिश्रुतिभ्यः । सगुणविद्याविपाकावस्थानं तु एतत् स्वर्गादिवत् अवस्थान्तरम् , यत्रैतदैश्वर्यमुपवर्ण्यते । तस्माददोषः ॥ १६ ॥

जगद्व्यापाराधिकरणम्

जगद्व्यापारवर्जं प्रकरणादसन्निहितत्वाच्च ॥ १७ ॥

ये सगुणब्रह्मोपासनात् सहैव मनसा ईश्वरसायुज्यं व्रजन्ति, किं तेषां निरवग्रहमैश्वर्यं भवति, आहोस्वित्सावग्रहमिति संशयः । किं तावत्प्राप्तम् ? निरङ्कुशमेव एषामैश्वर्यं भवितुमर्हति, आप्नोति स्वाराज्यम्’ (तै. उ. १ । ६ । २) सर्वेऽस्मै देवा बलिमावहन्ति’ (तै. उ. १ । ५ । ३) तेषां सर्वेषु लोकेषु कामचारो भवति’ (छा. उ. ७ । २५ । २) इत्यादिश्रुतिभ्य इति । एवं प्राप्ते, पठतिजगद्व्यापारवर्जमिति । जगदुत्पत्त्यादिव्यापारं वर्जयित्वा अन्यत् अणिमाद्यात्मकमैश्वर्यं मुक्तानां भवितुमर्हति, जगद्व्यापारस्तु नित्यसिद्धस्यैव ईश्वरस्य । कुतः ? तस्य तत्र प्रकृतत्वात्; असन्निहितत्वाच्चेतरेषाम् । पर एव हि ईश्वरो जगद्व्यापारेऽधिकृतः, तमेव प्रकृत्य उत्पत्त्याद्युपदेशात् , नित्यशब्दनिबन्धनत्वाच्च । तदन्वेषणविजिज्ञासनपूर्वकं तु इतरेषामणिमाद्यैश्वर्यं श्रूयते । तेनासन्निहितास्ते जगद्व्यापारे । समनस्कत्वादे एतेषामनैकमत्ये, कस्यचित्स्थित्यभिप्रायः कस्यचित्संहाराभिप्राय इत्येवं विरोधोऽपि कदाचित्स्यात् । अथ कस्यचित् सङ्कल्पमनु अन्यस्य सङ्कल्प इत्यविरोधः समर्थ्येत, ततः परमेश्वराकूततन्त्रत्वमेवेतरेषामिति व्यवतिष्ठते ॥ १७ ॥

प्रत्यक्षोपदेशादिति चेन्नाधिकारिकमण्डलस्थोक्तेः ॥ १८ ॥

अथ यदुक्तम्आप्नोति स्वाराज्यम्’ (तै. उ. १ । ६ । २) इत्यादिप्रत्यक्षोपदेशात् निरवग्रहमैश्वर्यं विदुषां न्याय्यमिति, तत्परिहर्तव्यम् । अत्रोच्यतेनायं दोषः, आधिकारिकमण्डलस्थोक्तेः । आधिकारिको यः सवितृमण्डलादिषु विशेषायतनेष्ववस्थितः पर ईश्वरः, तदायत्तैव इयं स्वाराज्यप्राप्तिरुच्यते; यत्कारणम् अनन्तरम् आप्नोति मनसस्पतिम्’ (तै. उ. १ । ६ । २) इत्याह । यो हि सर्वमनसां पतिः पूर्वसिद्ध ईश्वरः तं प्राप्नोतीत्येतदुक्तं भवति । तदनुसारेणै अनन्तरम्वाक्पतिश्चक्षुष्पतिः । श्रोत्रपतिर्विज्ञानपतिः भवति इत्याह । एवमन्यत्रापि यथासम्भवं नित्यसिद्धेश्वरायत्तमेव इतरेषामैश्वर्यं योजयितव्यम् ॥ १८ ॥

विकारावर्ति च तथा हि स्थितिमाह ॥ १९ ॥

विकारावर्त्यपि नित्यमुक्तं पारमेश्वरं रूपम् , केवलं विकारमात्रगोचरं सवितृमण्डलाद्यधिष्ठानम् । तथा हि अस्य द्विरूपां स्थितिमाह आम्नायःतावानस्य महिमा ततो ज्यायाꣳश्च पूरुषः । पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवि’ (छा. उ. ३ । १२ । ६) इत्येवमादिः । तत् निर्विकारं रूपम् इतरालम्बनाः प्राप्नुवन्तीति शक्यं वक्तुम् अतत्क्रतुत्वात्तेषाम् । अतश्च यथैव द्विरूपे परमेश्वरे निर्गुणं रूपमनवाप्य सगुण एवावतिष्ठन्ते, एवं सगुणेऽपि निरवग्रहमैश्वर्यमनवाप्य सावग्रह एवावतिष्ठन्त इति द्रष्टव्यम् ॥ १९ ॥

दर्शयतश्चैवं प्रत्यक्षानुमाने ॥ २० ॥

दर्शयतश्च विकारावर्तित्वं परस्य ज्योतिषः श्रुतिस्मृती तत्र सूर्यो भाति चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः’ (मु. उ. २ । २ । ११)(क. उ. २ । २ । १५) इति, तद्भासयते सूर्यो शशाङ्को पावकः’ (भ. गी. १५ । ६) इति  । तदेवं विकारावर्तित्वं परस्य ज्योतिषः प्रसिद्धमित्यभिप्रायः ॥ २० ॥

भोगमात्रसाम्यलिङ्गाच्च ॥ २१ ॥

इतश्च निरङ्कुशं विकारालम्बनानामैश्वर्यम् , यस्मात् भोगमात्रमेव एषाम् अनादिसिद्धेनेश्वरेण समानमिति श्रूयते — ‘तमाहापो वै खलु मीयन्ते लोकोऽसौइति यथैतां देवताꣳ सर्वाणि भूतान्यवन्त्येवꣳ हैवंविदꣳ सर्वाणि भूतान्यवन्तितेनो एतस्यै देवतायै सायुज्यꣳ सलोकतां जयति’ (बृ. उ. १ । ५ । २३) इत्यादिभेदव्यपदेशलिङ्गेभ्यः ॥ २१ ॥
ननु एवं सति सातिशयत्वादन्तवत्त्वम् ऐश्वर्यस्य स्यात् । ततश्च एषामावृत्तिः प्रसज्येतइत्यतः उत्तरं भगवान्बादरायण आचार्यः पठति

अनावृत्तिः शब्दादनावृत्तिः शब्दात् ॥ २२ ॥

नाडीरश्मिसमन्वितेन अर्चिरादिपर्वणा देवयानेन पथा ये ब्रह्मलोकं शास्त्रोक्तविशेषणं गच्छन्तियस्मिन्नरश्च वै ण्यश्चार्णवौ ब्रह्मलोके तृतीयस्यामितो दिवि, यस्मिन्नैरं मदीयं सरः, यस्मिन्नश्वत्थः सोमसवनः, यस्मिन्नपराजिता पूर्ब्रह्मणः, यस्मिंश्च प्रभुविमितं हिरण्मयं वेश्म, यश्चानेकधा मन्त्रार्थवादादिप्रदेशेषु प्रपञ्च्यतेते तं प्राप्य चन्द्रलोकादिव भुक्तभोगा आवर्तन्ते । कुतः ? तयोर्ध्वमायन्नमृतत्वमेति’ (छा. उ. ८ । ६ । ६)(क. उ. २ । ३ । १६) तेषां पुनरावृत्तिः’ (बृ. उ. ६ । २ । १५) एतेन प्रतिपद्यमाना इमं मानवमावर्तं नावर्तन्ते’ (छा. उ. ४ । १५ । ५) ब्रह्मलोकमभिसम्पद्यते’ (छा. उ. ८ । १५ । १) पुनरावर्तते इत्यादिशब्देभ्यः । अन्तवत्त्वेऽपि तु ऐश्वर्यस्य यथा अनावृत्तिः तथा वर्णितम्कार्यात्यये तदध्यक्षेण सहातः परम्’ (ब्र. सू. ४ । ३ । १०) इत्यत्र । सम्यग्दर्शनविध्वस्ततमसां तु नित्यसिद्धनिर्वाणपरायणानां सिद्धैव अनावृत्तिः । तदाश्रयणेनै हि सगुणशरणानामप्यनावृत्तिसिद्धिरिति । अनावृत्तिः शब्दादनावृत्तिः शब्दात्इति सूत्राभ्यासः शास्त्रपरिसमाप्तिं द्योतयति ॥ २२ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छङ्करभगवतः कृतौ शारीरकमीमांसासूत्रभाष्ये
चतुर्थोऽध्यायः ॥
इति श्रीमच्छारीरकमीमांसासूत्रभाष्यं सम्पूर्णम् ॥