द्वितीयेऽध्याये स्मृतिन्यायविरोधो वेदान्तविहिते ब्रह्मदर्शने परिहृतः,
परपक्षाणां च अनपेक्षत्वं प्रपञ्चितम् ,
श्रुतिविप्रतिषेधश्च परिहृतः ।
तत्र च जीवव्यतिरिक्तानि तत्त्वानि जीवोपकरणानि ब्रह्मणो जायन्त इत्युक्तम् ।
अथेदानीम् उपकरणोपहितस्य जीवस्य संसारगतिप्रकारः तदवस्थान्तराणि ब्रह्मसतत्त्वं विद्याभेदाभेदौ गुणोपसंहारानुपसंहारौ सम्यग्दर्शनात्पुरुषार्थसिद्धिः सम्यग्दर्शनोपायविधिप्रभेदः मुक्तिफलानियमश्च —
इत्येतदर्थजातं तृतीये निरूपयिष्यते;
प्रसङ्गागतं च किमप्यन्यत् ।
तत्र प्रथमे तावत्पादे पञ्चाग्निविद्यामाश्रित्य संसारगतिप्रभेदः प्रदर्श्यते वैराग्यहेतोः — ‘
तस्माज्जुगुप्सेत’
इति च अन्ते श्रवणात् ।
जीवो मुख्यप्राणसचिवः सेन्द्रियः समनस्कोऽविद्याकर्मपूर्वप्रज्ञापरिग्रहः पूर्वदेहं विहाय देहान्तरं प्रतिपद्यत इत्येतदवगतम् —
‘अथैनमेते प्राणा अभिसमायन्ति’ (बृ. उ. ४ । ४ । १) इत्येवमादेः ‘अन्यन्नवतरꣳ कल्याणतरं रूपं कुरुते’ (बृ. उ. ४ । ४ । ४) इत्येवमन्तात् संसारप्रकरणस्थाच्छब्दात् ,
धर्माधर्मफलोपभोगसम्भवाच्च ।
स किं देहबीजैर्भूतसूक्ष्मैरसम्परिष्वक्तो गच्छति,
आहोस्वित्सम्परिष्वक्तः —
इति चिन्त्यते ॥
किं तावत्प्राप्तम् ?
असम्परिष्वक्त इति ।
कुतः ?
करणोपादानवद्भूतोपादानस्य अश्रुतत्वात् —
‘स एतास्तेजोमात्राः समभ्याददानः’ (बृ. उ. ४ । ४ । १) इति ह्यत्र तेजोमात्राशब्देन करणानामुपादानं सङ्कीर्तयति,
वाक्यशेषे चक्षुरादिसङ्कीर्तनात् ।
नैवं भूतमात्रोपादानसङ्कीर्तनमस्ति ।
सुलभाश्च सर्वत्र भूतमात्राः,
यत्रैव देह आरब्धव्यस्तत्रैव सन्ति ।
ततश्च तासां नयनं निष्प्रयोजनम् ।
तस्मादसम्परिष्वक्तो याति —
इत्येवं प्राप्ते,
पठत्याचार्यः —
तदन्तरप्रतिपत्तौ रंहति सम्परिष्वक्तः प्रश्ननिरूपणाभ्याम् ॥ १ ॥
तदन्तरप्रतिपत्तौ रंहति सम्परिष्वक्त इति ।
तदन्तरप्रतिपत्तौ देहान्तरप्रतिपत्तौ,
देहबीजैर्भूतसूक्ष्मैः सम्परिष्वक्तः,
रंहति गच्छति —
इत्यवगन्तव्यम् ।
कुतः ?
प्रश्ननिरूपणाभ्याम्;
तथा हि प्रश्नः —
‘वेत्थ यथा पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति’ (छा. उ. ५ । ३ । ३) इति ।
निरूपणं च प्रतिवचनम् ,
द्युपर्जन्यपृथिवीपुरुषयोषित्सु पञ्चस्वग्निषु श्रद्धासोमवृष्ट्यन्नरेतोरूपाः पञ्च आहुतीर्दर्शयित्वा, —
‘इति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति’ (छा. उ. ५ । ९ । १) इति ।
तस्मादद्भिः परिवेष्टितो जीवो रंहति व्रजतीति गम्यते ।
नन्वन्या श्रुतिः जलूकावत्पूर्वदेहं न मुञ्चति यावन्न देहान्तरमाक्रमतीति दर्शयति —
‘तद्यथा तृणजलायुका’ (बृ. उ. ४ । ४ । ३) इति ।
तत्राप्यप्परिवेष्टितस्यैव जीवस्य कर्मोपस्थापितप्रतिपत्तव्यदेहविषयभावनादीर्घीभावमात्रं जलूकयोपमीयत इत्यविरोधः ।
एवं श्रुत्युक्ते देहान्तरप्रतिपत्तिप्रकारे सति,
याः पुरुषमतिप्रभवाः कल्पनाः —
व्यापिनां करणानामात्मनश्च देहान्तरप्रतिपत्तौ कर्मवशाद्वृत्तिलाभस्तत्र भवति, —
केवलस्यैवात्मनो वृत्तिलाभस्तत्र भवति,
इन्द्रियाणि तु देहवदभिनवान्येव तत्र तत्र भोगस्थाने उत्पद्यन्ते, —
मन एव वा केवलं भोगस्थानमभिप्रतिष्ठते, —
जीव एव वा उत्प्लुत्य देहाद्देहान्तरं प्रतिपद्यते,
शुक इव वृक्षाद्वृक्षान्तरम् —
इत्येवमाद्याः,
ताः सर्वा एव अनादर्तव्याः,
श्रुतिविरोधात् ॥ १ ॥
ननु उदाहृताभ्यां प्रश्नप्रतिवचनाभ्यां केवलाभिरद्भिः सम्परिष्वक्तो रंहतीति प्राप्नोति, अप्शब्दश्रवणसामर्थ्यात् । तत्र कथं सामान्येन प्रतिज्ञायते — सर्वैरेव भूतसूक्ष्मैः सम्परिष्वक्तो रंहतीति ? अत उत्तरं पठति —
त्र्यात्मकत्वात्तु भूयस्त्वात् ॥ २ ॥
तुशब्देन चोदितामाशङ्कामुच्छिनत्ति । त्र्यात्मिका हि आपः, त्रिवृत्करणश्रुतेः । तास्वारम्भिकास्वभ्युपगतास्वितरदपि भूतद्वयमवश्यमभ्युपगन्तव्यं भवति । त्र्यात्मकश्च देहः, त्रयाणामपि तेजोबन्नानां तस्मिन्कार्योपलब्धेः । पुनश्च त्र्यात्मकः, त्रिधातुत्वात् — त्रिभिर्वातपित्तश्लेष्मभिः । न स भूतान्तराणि प्रत्याख्याय केवलाभिरद्भिरारब्धुं शक्यते । तस्माद्भूयस्त्वापेक्षोऽयम् — ‘आपः पुरुषवचसः’ इति — प्रश्नप्रतिवचनयोरप्शब्दः, न कैवल्यापेक्षः । सर्वदेहेषु हि रसलोहितादिद्रवद्रव्यभूयस्त्वं दृश्यते । ननु पार्थिवो धातुर्भूयिष्ठो देहेषूपलक्ष्यते । नैष दोषः — इतरापेक्षया अपां बाहुल्यं भविष्यति । दृश्यते च शुक्रशोणितलक्षणेऽपि देहबीजे द्रवबाहुल्यम् । कर्म च निमित्तकारणं देहान्तरारम्भे । कर्माणि च अग्निहोत्रादीनि सोमाज्यपयःप्रभृतिद्रवद्रव्यव्यपाश्रयाणि । कर्मसमवायिन्यश्च आपः श्रद्धाशब्दोदिताः सह कर्मभिर्द्युलोकाख्येऽग्नौ हूयन्त इति वक्ष्यति । तस्मादप्यपां बाहुल्यप्रसिद्धिः । बाहुल्याच्च अप्शब्देन सर्वेषामेव देहबीजानां भूतसूक्ष्माणामुपादानमिति निरवद्यम् ॥ २ ॥
अग्न्यादिगतिश्रुतेरिति चेन्न भाक्तत्वात् ॥ ४ ॥
स्यादेतत् —
नैव प्राणा देहान्तरप्रतिपत्तौ सह जीवेन गच्छन्ति,
अग्न्यादिगतिश्रुतेः ।
तथा हि श्रुतिः मरणकाले वागादयः प्राणा अग्न्यादीन्देवान्गच्छन्तीति दर्शयति —
‘यत्रास्य पुरुषस्य मृतस्याग्निं वागप्येति वातं प्राणः’ (बृ. उ. ३ । २ । १३) इत्यादिना इति चेत् ,
न,
भाक्तत्वात् ।
वागादीनामग्न्यादिगतिश्रुतिर्गौणी,
लोमसु केशेषु च अदर्शनात् —
‘ओषधीर्लोमानि वनस्पतीन्केशाः’ (बृ. उ. ३ । २ । १३) इति हि तत्राम्नायते,
न हि लोमानि केशाश्चोत्प्लुत्य ओषधीर्वनस्पतींश्च गच्छन्तीति सम्भवति ।
न च जीवस्य प्राणोपाधिप्रत्याख्याने गमनमवकल्पते ।
नापि प्राणैर्विना देहान्तरे उपभोग उपपद्यते ।
विस्पष्टं च प्राणानां सह जीवेन गमनमन्यत्र श्रावितम् ।
अतो वागाद्यधिष्ठात्रीणामग्न्यादिदेवतानां वागाद्युपकारिणीनां मरणकाले उपकारनिवृत्तिमात्रमपेक्ष्य वागादयोऽग्न्यादीन्गच्छन्तीत्युपचर्यते ॥ ४ ॥
प्रथमेऽश्रवणादिति चेन्न ता एव ह्युपपत्तेः ॥ ५ ॥
स्यादेतत् —
कथं पुनः ‘पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति’ (छा. उ. ५ । ३ । ३) इत्येतत् निर्धारयितुं पार्यते,
यावता नैव प्रथमेऽग्नावपां श्रवणमस्ति ?
इह हि द्युलोकप्रभृतयः पञ्चाग्नयः पञ्चानामाहुतीनामाधारत्वेनाधीताः ।
तेषां च प्रमुखे ‘असौ वाव लोको गौतमाग्निः’ (छा. उ. ५ । ४ । १) इत्युपन्यस्य ‘तस्मिन्नेतस्मिन्नग्नौ देवाः श्रद्धां जुह्वति’ (छा. उ. ५ । ४ । २) इति श्रद्धा होम्यद्रव्यत्वेन आवेदिता ।
न तत्र आपो होम्यद्रव्यतया श्रुताः ।
यदि नाम पर्जन्यादिषूत्तरेषु चतुर्ष्वग्निष्वपां होम्यद्रव्यता परिकल्प्येत,
परिकल्प्यतां नाम,
तेषु होतव्यतयोपात्तानां सोमादीनामब्बहुलत्वोपपत्तेः ।
प्रथमे त्वग्नौ श्रुतां श्रद्धां परित्यज्य अश्रुता आपः परिकल्प्यन्त इति साहसमेतत् ।
श्रद्धा च नाम प्रत्ययविशेषः,
प्रसिद्धिसामर्थ्यात् ।
तस्मादयुक्तः पञ्चम्यामाहुतावपां पुरुषभाव इति चेत् —
नैष दोषः;
हि यतः तत्रापि प्रथमेऽग्नौ ता एवापः श्रद्धाशब्देनाभिप्रेयन्ते ।
कुतः ?
उपपत्तेः ।
एवं ह्यादिमध्यावसानसंगानात् अनाकुलमेतदेकवाक्यमुपपद्यते ।
इतरथा पुनः,
पञ्चम्यामाहुतौ अपां पुरुषवचस्त्वप्रकारे पृष्टे,
प्रतिवचनावसरे प्रथमाहुतिस्थाने यद्यनपो होम्यद्रव्यं श्रद्धां नामावतारयेत् —
ततः अन्यथा प्रश्नोऽन्यथा प्रतिवचनमित्येकवाक्यता न स्यात् । ‘
इति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति’
इति च उपसंहरन् एतदेव दर्शयति ।
श्रद्धाकार्यं च सोमवृष्ट्यादि स्थूलीभवदब्बहुलं लक्ष्यते ।
सा च श्रद्धाया अप्त्वे युक्तिः ।
कारणानुरूपं हि कार्यं भवति ।
न च श्रद्धाख्यः प्रत्ययः,
मनसो जीवस्य वा धर्मः सन् धर्मिणो निष्कृष्य होमायोपादातुं शक्यते —
पश्वादिभ्य इव हृदयादीनि इति,
आप एव श्रद्धाशब्दा भवेयुः ।
श्रद्धाशब्दश्चाप्सूपपद्यते,
वैदिकप्रयोगदर्शनात् — ‘
श्रद्धा वा आपः’
इति ।
तनुत्वं श्रद्धासारूप्यं गच्छन्त्य आपो देहबीजभूता इत्यतः श्रद्धाशब्दाः स्युः —
यथा सिंहपराक्रमो नरः सिंहशब्दो भवति ।
श्रद्धापूर्वककर्मसमवायाच्च अप्सु श्रद्धाशब्द उपपद्यते,
मञ्चशब्द इव पुरुषेषु ।
श्रद्धाहेतुत्वाच्च श्रद्धाशब्दोपपत्तिः, ‘
आपो हास्मै श्रद्धां संनमन्ते पुण्याय कर्मणे’
इति श्रुतेः ॥ ५ ॥
अश्रुतत्वादिति चेन्नेष्टादिकारिणां प्रतीतेः ॥ ६ ॥
अथापि स्यात् —
प्रश्नप्रतिवचनाभ्यां नाम आपः श्रद्धादिक्रमेण पञ्चम्यामाहुतौ पुरुषाकारं प्रतिपद्येरन्;
न तु तत्सम्परिष्वक्ता जीवा रंहेयुः,
अश्रुतत्वात् —
न ह्यत्र अपामिव जीवानां श्रावयिता कश्चिच्छब्दोऽस्ति ।
तस्मात् ‘
रंहति सम्परिष्वक्तः’
इत्ययुक्तम् —
इति चेत् ,
नैष दोषः ।
कुतः ?
इष्टादिकारिणां प्रतीतेः —
‘अथ य इमे ग्राम इष्टापूर्ते दत्तमित्युपासते ते धूममभिसम्भवन्ति’ (छा. उ. ५ । १० । ३) इत्युपक्रम्य इष्टादिकारिणां धूमादिना पितृयाणेन पथा चन्द्रप्राप्तिं कथयति ‘आकाशाच्चन्द्रमसमेष सोमो राजा’ (छा. उ. ५ । १० । ४) इति ।
त एवेहापि प्रतीयन्ते,
‘तस्मिन्नेतस्मिन्नग्नौ देवाः श्रद्धां जुह्वति तस्या आहुतेः सोमो राजा सम्भवति’ (छा. उ. ५ । ४ । २) इति श्रुतिसामान्यात् ।
तेषां च अग्निहोत्रदर्शपूर्णमासादिकर्मसाधनभूता दधिपयःप्रभृतयो द्रवद्रव्यभूयस्त्वात्प्रत्यक्षमेव आपः सन्ति ।
ता आहवनीये हुताः सूक्ष्मा आहुत्योऽपूर्वरूपाः सत्यः तानिष्टादिकारिण आश्रयन्ति —
तेषां च शरीरं नैधनेन विधानेनान्त्येऽग्नावृत्विजो जुह्वति — ‘
असौ स्वर्गाय लोकाय स्वाहा’
इति ।
ततस्ताः श्रद्धापूर्वककर्मसमवायिन्य आहुतिमय्य आपोऽपूर्वरूपाः सत्यः तानिष्टादिकारिणो जीवान्परिवेष्ट्य अमुं लोकं फलदानाय नयन्तीति यत् ,
तदत्र जुहोतिना अभिधीयते —
‘श्रद्धां जुह्वतीति’ (बृ. उ. ६ । २ । ९) ।
तथा च अग्निहोत्रे षट्प्रश्नीनिर्वचनरूपेण वाक्यशेषेण ‘
ते वा एते आहुती हुते उत्क्रामतः’
इत्येवमादिना अग्निहोत्राहुत्योः फलारम्भाय लोकान्तरप्राप्तिर्दर्शिता ।
तस्मादाहुतिमयीभिरद्भिः सम्परिष्वक्ता जीवा रंहन्ति स्वकर्मफलोपभोगायेति श्लिष्यते ॥ ६ ॥
भाक्तं वानात्मवित्त्वात्तथाहि दर्शयति ॥ ७ ॥
वाशब्दश्चोदितदोषव्यावर्तनार्थः ।
भाक्तमेषामन्नत्वम् ,
न मुख्यम् ।
मुख्ये ह्यन्नत्वे ‘
स्वर्गकामो यजेत’
इत्येवंजातीयकाधिकारश्रुतिरुपरुध्येत ।
चन्द्रमण्डले चेदिष्टादिकारिणामुपभोगो न स्यात् ,
किमर्थमधिकारिण इष्टादि आयासबहुलं कर्म कुर्युः ।
अन्नशब्दश्चोपभोगहेतुत्वसामान्यात् अनन्नेऽप्युपचर्यमाणो दृश्यते,
यथा —
विशोऽन्नं राज्ञां पशवोऽन्नं विशामिति ।
तस्मादिष्टस्त्रीपुत्रमित्रभृत्यादिभिरिव गुणभावोपगतैरिष्टादिकारिभिर्यत्सुखविहरणं देवानाम् ,
तदेवैषां भक्षणमभिप्रेतम् ,
न मोदकादिवच्चर्वणं निगरणं वा ।
‘न ह वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं दृष्ट्वा तृप्यन्ति’ (छा. उ. ३ । ६ । १) इति च देवानां चर्वणादिव्यापारं वारयति ।
तेषां च इष्टादिकारिणां देवान्प्रति गुणभावोपगतानामप्युपभोग उपपद्यते,
राजोपजीविनामिव परिजनानाम् ।
अनात्मवित्त्वाच्च इष्टादिकारिणां देवोपभोग्यभाव उपपद्यते ।
तथा हि श्रुतिरनात्मविदां देवोपभोग्यतां दर्शयति —
‘अथ योऽन्यां देवतामुपास्तेऽन्योऽसावन्योऽहमस्मीति न स वेद यथा पशुरेवꣳ स देवानाम्’ (बृ. उ. १ । ४ । १०) इति ।
स चास्मिन्नपि लोके इष्टादिभिः कर्मभिः प्रीणयन्पशुवद्देवानामुपकरोति,
अमुष्मिन्नपि लोके तदुपजीवी तदादिष्टं फलमुपभुञ्जानः पशुवदेव देवानामुपकरोतीति गम्यते ॥
कृतात्ययेऽनुशयवान्दृष्टस्मृतिभ्यां यथेतमनेवं च ॥ ८ ॥
इष्टादिकारिणां धूमादिना वर्त्मना चन्द्रमण्डलमधिरूढानां भुक्तभोगानां ततः प्रत्यवरोह आम्नायते —
‘तस्मिन्यावत्सम्पातमुषित्वाथैतमेवाध्वानं पुनर्निवर्तन्ते यथेतम्’ (छा. उ. ५ । १० । ५) इत्यारभ्य, —
यावत् —
रमणीयचरणा ब्राह्मणादियोनिमापद्यन्ते कपूयचरणाः श्वादियोनिमिति ।
तत्रेदं विचार्यते —
किं निरनुशया भुक्तकृत्स्नकर्माणोऽवरोहन्ति,
आहोस्वित्सानुशया इति ।
किं तावत्प्राप्तम् ?
निरनुशया इति ।
कुतः ? ‘
यावत्सम्पातम्’
इति विशेषणात् —
सम्पातशब्देनात्र कर्माशय उच्यते,
सम्पतन्ति अनेन अस्माल्लोकात् अमुं लोकं फलोपभोगायेति । ‘
यावत्सम्पातमुषित्वा’
इति च कृत्स्नस्य तस्य कृतस्य तत्रैव भुक्ततां दर्शयति ।
‘तेषां यदा तत्पर्यवैति’ (बृ. उ. ६ । २ । १६) इति च श्रुत्यन्तरेणैष एवार्थः प्रदर्श्यते ।
स्यादेतत् —
यावदमुष्मिँल्लोके उपभोक्तव्यं कर्म तावदुपभुङ्क्त इति कल्पयिष्यामीति ।
नैवं कल्पयितुं शक्यते, ‘
यत्किञ्च’
इत्यन्यत्र परामर्शात् —
‘प्राप्यान्तं कर्मणस्तस्य यत्किञ्चेह करोत्ययम् । तस्माल्लोकात्पुनरैत्यस्मै लोकाय कर्मणे’ (बृ. उ. ४ । ४ । ६) इति हि अपरा श्रुतिः ‘
यत्किञ्च’
इत्यविशेषपरामर्शेन कृत्स्नस्येह कृतस्य कर्मणः तत्र क्षयिततां दर्शयति ।
अपि च प्रायणमनारब्धफलस्य कर्मणोऽभिव्यञ्जकम्;
प्राक्प्रायणात् आरब्धफलेन कर्मणा प्रतिबद्धस्याभिव्यक्त्यनुपपत्तेः ।
तच्च अविशेषाद्यावत्किञ्चिदनारब्धफलं तस्य सर्वस्याभिव्यञ्जकम् ।
न हि साधारणे निमित्ते नैमित्तिकमसाधारणं भवितुमर्हति ।
न ह्यविशिष्टे प्रदीपसन्निधौ,
घटोऽभिव्यज्यते न पट इत्युपपद्यते ।
तस्मान्निरनुशया अवरोहन्तीत्येवं प्राप्ते ब्रूमः —
कः पुनरनुशयो नामेति ? केचित्तावदाहुः — स्वर्गार्थस्य कर्मणो भुक्तफलस्यावशेषः कश्चिदनुशयो नाम, भाण्डानुसारिस्नेहवत् — यथा हि स्नेहभाण्डं रिच्यमानं न सर्वात्मना रिच्यते, भाण्डानुसार्येव कश्चित्स्नेहशेषोऽवतिष्ठते, तथा अनुशयोऽपीति । ननु कार्यविरोधित्वाददृष्टस्य न भुक्तफलस्यावशेषावस्थानं न्याय्यम्; नायं दोषः । न हि सर्वात्मना भुक्तफलत्वं कर्मणः प्रतिजानीमहे । ननु निरवशेषकर्मफलोपभोगाय चन्द्रमण्डलमारूढाः; बाढम् — तथापि स्वल्पकर्मावशेषमात्रेण तत्रावस्थातुं न लभ्यते । यथा किल कश्चित्सेवकः सकलैः सेवोपकरणैः राजकुलमुपसृप्तश्चिरप्रवासात्परिक्षीणबहूपकरणश्छत्रपादुकादिमात्रावशेषो न राजकुलेऽवस्थातुं शक्नोति, एवमनुशयमात्रपरिग्रहो न चन्द्रमण्डलेऽवस्थातुं शक्नोतीति ॥
न चैतद्युक्तमिव ।
न हि स्वर्गार्थस्य कर्मणो भुक्तफलस्यावशेषानुवृत्तिरुपपद्यते,
कार्यविरोधित्वात् —
इत्युक्तम् ।
नन्वेतदप्युक्तम् —
न स्वर्गफलस्य कर्मणो निखिलस्य भुक्तफलत्वं भविष्यतीति;
तदेतदपेशलम् —
स्वर्गार्थं किल कर्म स्वर्गस्थस्यैव स्वर्गफलं निखिलं न जनयति,
स्वर्गच्युतस्यापि कञ्चित्फललेशं जनयतीति ।
न शब्दप्रमाणकानामीदृशी कल्पना अवकल्पते ।
स्नेहभाण्डे तु स्नेहलेशानुवृत्तिर्दृष्टत्वादुपपद्यते ।
तथा सेवकस्योपकरणलेशानुवृत्तिश्च दृश्यते ।
न त्विह तथा स्वर्गफलस्य कर्मणो लेशानुवृत्तिर्दृश्यते ।
नापि कल्पयितुं शक्यते,
स्वर्गफलत्वशास्त्रविरोधात् ।
अवश्यं चैतदेवं विज्ञेयम् —
न स्वर्गफलस्येष्टादेः कर्मणो भाण्डानुसारिस्नेहवदेकदेशोऽनुवर्तमानोऽनुशय इति ।
यदि हि येन सुकृतेन कर्मणा इष्टादिना स्वर्गमन्वभूवन् ,
तस्यैव कश्चिदेकदेशोऽनुशयः कल्प्येत,
ततो रमणीय एवैकोऽनुशयः स्यात् ,
न विपरीतः ।
तत्रेयमनुशयविभागश्रुतिरुपरुध्येत —
‘तद्य इह रमणीयचरणाः … अथ य इह कपूयचरणाः’ (छा. उ. ५ । १० । ७) इति ।
तस्मादामुष्मिकफले कर्मजाते उपभुक्तेऽवशिष्टमैहिकफलं कर्मान्तरजातमनुशयः,
तद्वन्तोऽवरोहन्तीति ॥
यदुक्तम् — ‘यत्किञ्च’ इत्यविशेषपरामर्शात्सर्वस्येह कृतस्य कर्मणः फलोपभोगेनान्तं प्राप्य निरनुशया अवरोहन्तीति, नैतदेवम् । अनुशयसद्भावस्यावगमितत्वात् , यत्किञ्चिदिह कृतमामुष्मिकफलं कर्म आरब्धभोगम् , तत्सर्वं फलोपभोगेन क्षपयित्वा — इति गम्यते । यदप्युक्तम् — प्रायणम् अविशेषादनारब्धफलं कृत्स्नमेव कर्माभिव्यनक्ति । तत्र केनचित्कर्मणामुष्मिँल्लोके फलमारभ्यते, केनचिदस्मिन् इत्ययं विभागो न सम्भवतीति — तदप्यनुशयसद्भावप्रतिपादनेनैव प्रत्युक्तम् । अपि च केन हेतुना प्रायणमनारब्धफलस्य कर्मणोऽभिव्यञ्जकं प्रतिज्ञायत इति वक्तव्यम् । आरब्धफलेन कर्मणा प्रतिबद्धस्येतरस्य वृत्त्युद्भवानुपपत्तेः, तदुपशमात् प्रायणकाले वृत्त्युद्भवो भवतीति यद्युच्येत — ततो वक्तव्यम् — यथैव तर्हि प्राक्प्रायणात् आरब्धफलेन कर्मणा प्रतिबद्धस्य इतरस्य वृत्त्युद्भवानुपपत्तिः, एवं प्रायणकालेऽपि विरुद्धफलस्यानेकस्य कर्मणो युगपत्फलारम्भासम्भवात् बलवता प्रतिबद्धस्य दुर्बलस्य वृत्त्युद्भवानुपपत्तिरिति । न हि अनारब्धफलत्वसामान्येन जात्यन्तरोपभोग्यफलमप्यनेकं कर्म एकस्मिन्प्रायणे युगपदभिव्यक्तं सत् एकां जातिमारभत इति शक्यं वक्तुम् , प्रतिनियतफलत्वविरोधात् । नापि कस्यचित्कर्मणः प्रायणेऽभिव्यक्तिः कस्यचिदुच्छेद इति शक्यते वक्तुम् , ऐकान्तिकफलत्वविरोधात् । न हि प्रायश्चित्तादिभिर्हेतुभिर्विना कर्मणामुच्छेदः सम्भाव्यते । स्मृतिरपि विरुद्धफलेन कर्मणा प्रतिबद्धस्य कर्मान्तरस्य चिरमवस्थानं दर्शयति — ‘कदाचित्सुकृतं कर्म कूटस्थमिह तिष्ठति । मज्जमानस्य संसारे यावद्दुःखाद्विमुच्यते’ (म. भा. १२ । २९० । १८) इत्येवंजातीयका । यदि च कृत्स्नमनारब्धफलं कर्म एकस्मिन्प्रायणेऽभिव्यक्तं सत् एकां जातिमारभेत, ततः स्वर्गनरकतिर्यग्योनिष्वधिकारानवगमात् धर्माधर्मानुत्पत्तौ निमित्ताभावात् नोत्तरा जातिरुपपद्येत, ब्रह्महत्यादीनां च एकैकस्य कर्मणोऽनेकजन्मनिमित्तत्वं स्मर्यमाणमुपरुध्येत । न च धर्माधर्मयोः स्वरूपफलसाधनादिसमधिगमे शास्त्रादतिरिक्तं कारणं शक्यं सम्भावयितुम् । न च दृष्टफलस्य कर्मणः कारीर्यादेः प्रायणमभिव्यञ्जकं सम्भवतीति, अव्यापिकापीयं प्रायणस्याभिव्यञ्जकत्वकल्पना । प्रदीपोपन्यासोऽपि कर्मबलाबलप्रदर्शनेनैव प्रतिनीतः । स्थूलसूक्ष्मरूपाभिव्यक्त्यनभिव्यक्तिवच्चेदं द्रष्टव्यम् — यथा हि प्रदीपः समानेऽपि सन्निधाने स्थूलं रूपमभिव्यनक्ति, न सूक्ष्मम् — एवं प्रायणं समानेऽप्यनारब्धफलस्य कर्मजातस्य प्राप्तावसरत्वे बलवतः कर्मणो वृत्तिमुद्भावयति, न दुर्बलस्येति । तस्माच्छ्रुतिस्मृतिन्यायविरोधादश्लिष्टोऽयमशेषकर्माभिव्यक्त्यभ्युपगमः । शेषकर्मसद्भावेऽनिर्मोक्षप्रसङ्ग इत्ययमप्यस्थाने सम्भ्रमः, सम्यग्दर्शनादशेषकर्मक्षयश्रुतेः । तस्मात् स्थितमेतदेव — अनुशयवन्तोऽवरोहन्तीति । ते च अवरोहन्तो यथेतमनेवं च अवरोहन्ति । यथेतमिति यथागतमित्यर्थः । अनेवमिति तद्विपर्ययेणेत्यर्थः । धूमाकाशयोः पितृयाणेऽध्वन्युपात्तयोरवरोहे सङ्कीर्तनात् यथेतंशब्दाच्च यथागतमिति प्रतीयते । रात्र्याद्यसङ्कीर्तनादभ्राद्युपसंख्यानाच्च विपर्ययोऽपि प्रतीयते ॥ ८ ॥
चरणादिति चेन्नोपलक्षणार्थेति कार्ष्णाजिनिः ॥ ९ ॥
आनर्थक्यमिति चेन्न तदपेक्षत्वात् ॥ १० ॥
स्यादेतत् — कस्मात्पुनश्चरणशब्देन श्रौतं शीलं विहाय लाक्षणिकः अनुशयः प्रत्याय्यते ? ननु शीलस्यैव श्रौतस्य विहितप्रतिषिद्धस्य साध्वसाधुरूपस्य शुभाशुभयोन्यापत्तिः फलं भविष्यति; अवश्यं च शीलस्यापि किञ्चित्फलमभ्युपगन्तव्यम् , अन्यथा ह्यानर्थक्यमेव शीलस्य प्रसज्येत — इति चेत् , नैष दोषः । कुतः ? तदपेक्षत्वात् । इष्टादि हि कर्मजातं चरणापेक्षम् । न हि सदाचारहीनः कश्चिदधिकृतः स्यात् — ‘आचारहीनं न पुनन्ति वेदाः’ इत्यादिस्मृतिभ्यः । पुरुषार्थत्वेऽप्याचारस्य न आनर्थक्यम् । इष्टादौ हि कर्मजाते फलमारभमाणे तदपेक्ष एवाचारस्तत्रैव कञ्चिदतिशयमारप्स्यते । कर्म च सर्वार्थकारि — इति श्रुतिस्मृतिप्रसिद्धिः । तस्मात्कर्मैव शीलोपलक्षितमनुशयभूतं योन्यापत्तौ कारणमिति कार्ष्णाजिनेर्मतम् । न हि कर्मणि सम्भवति शीलात् योन्यापत्तिर्युक्ता । न हि पद्भ्यां पलायितुं पारयमाणो जानुभ्यां रंहितुमर्हति — इति ॥ १० ॥
सुकृतदुष्कृते एवेति तु बादरिः ॥ ११ ॥
बादरिस्त्वाचार्यः सुकृतदुष्कृते एव चरणशब्देन प्रत्याय्येते इति मन्यते । चरणम् अनुष्ठानं कर्मेत्यनर्थान्तरम् । तथा हि अविशेषेण कर्ममात्रे चरतिः प्रयुज्यमानो दृश्यते — यो हि इष्टादिलक्षणं पुण्यं कर्म करोति, तं लौकिका आचक्षते — धर्मं चरत्येष महात्मेति । आचारोऽपि च धर्मविशेष एव । भेदव्यपदेशस्तु कर्मचरणयोर्ब्राह्मणपरिव्राजकन्यायेनाप्युपपद्यते । तस्मात् रमणीयचरणाः प्रशस्तकर्माणः, कपूयचरणा निन्दितकर्माणः इति निर्णयः ॥ ११ ॥
अनिष्टादिकारिणामपि च श्रुतम् ॥ १२ ॥
इष्टादिकारिणश्चन्द्रमसं गच्छन्तीत्युक्तम् ।
ये त्वितरेऽनिष्टादिकारिणः,
तेऽपि किं चन्द्रमसं गच्छन्ति,
उत न गच्छन्तीति चिन्त्यते ।
तत्र तावदाहुः —
इष्टादिकारिण एव चन्द्रमसं गच्छन्तीत्येतत् न ।
कस्मात् ?
यतोऽनिष्टादिकारिणामपि चन्द्रमण्डलं गन्तव्यत्वेन श्रुतम् ।
तथा हि अविशेषेण कौषीतकिनः समामनन्ति —
‘ये वै के चास्माल्लोकात्प्रयन्ति चन्द्रमसमेव ते सर्वे गच्छन्ति’ (कौ. उ. १ । २) इति ।
देहारम्भोऽपि च पुनर्जायमानानां न अन्तरेण चन्द्रप्राप्तिम् अवकल्पते, ‘
पञ्चम्यामाहुतौ’
इत्याहुतिसंख्यानियमात् ।
तस्मात्सर्व एव चन्द्रमसमासीदेयुः ।
इष्टादिकारिणामितरेषां च समानगतित्वं न युक्तमिति चेत् ,
न,
इतरेषां चन्द्रमण्डले भोगाभावात् ॥ १२ ॥
संयमने त्वनुभूयेतरेषामारोहावरोहौ तद्गतिदर्शनात् ॥ १३ ॥
तुशब्दः पक्षं व्यावर्तयति ।
नैतदस्ति —
सर्वे चन्द्रमसं गच्छन्तीति ।
कस्मात् ?
भोगायैव हि चन्द्रारोहणम् ,
न निष्प्रयोजनम् ।
नापि प्रत्यवरोहायैव, —
यथा कश्चिद्वृक्षमारोहति पुष्पफलोपादानायैव,
न निष्प्रयोजनम् ,
नापि पतनायैव ।
भोगश्च अनिष्टादिकारिणां चन्द्रमसि नास्तीत्युक्तम् ।
तस्मादिष्टादिकारिण एव चन्द्रमसमारोहन्ति,
नेतरे ।
ते तु संयमनं यमालयमवगाह्य स्वदुष्कृतानुरूपा यामीर्यातना अनुभूय पुनरेव इमं लोकं प्रत्यवरोहन्ति ।
एवंभूतौ तेषामारोहावरोहौ भवतः ।
कुतः ?
तद्गतिदर्शनात् ।
तथा हि यमवचनसरूपा श्रुतिः प्रयताम् अनिष्टादिकारिणां यमवश्यतां दर्शयति —
‘न साम्परायः प्रतिभाति बालं प्रमाद्यन्तं वित्तमोहेन मूढम् । अयं लोको नास्ति पर इति मानी पुनः पुनर्वशमापद्यते मे’ (क. उ. १ । २ । ६) इति । ‘
वैवस्वतं सङ्गमनं जनानाम्’
इत्येवंजातीयकं च बह्वेव यमवश्यताप्राप्तिलिङ्गं भवति ॥ १३ ॥
स्मरन्ति च ॥ १४ ॥
अपि च मनुव्यासप्रभृतयः शिष्टाः संयमने पुरे यमायत्तं कपूयकर्मविपाकं स्मरन्ति नाचिकेतोपाख्यानादिषु ॥ १४ ॥
अपि च सप्त ॥ १५ ॥
अपि च सप्त नरका रौरवप्रमुखा दुष्कृतफलोपभोगभूमित्वेन स्मर्यन्ते पौराणिकैः । ताननिष्टादिकारिणः प्राप्नुवन्ति । कुतस्ते चन्द्रं प्राप्नुयुः इत्यभिप्रायः ॥ १५ ॥
ननु विरुद्धमिदम् — यमायत्ता यातनाः पापकर्माणोऽनुभवन्तीति, यावता तेषु रौरवादिषु अन्ये चित्रगुप्तादयो नानाधिष्ठातारः स्मर्यन्त इति; नेत्याह —
तत्रापि च तद्व्यापारादविरोधः ॥ १६ ॥
तेष्वपि सप्तसु नरकेषु तस्यैव यमस्याधिष्ठातृत्वव्यापाराभ्युपगमादविरोधः । यमप्रयुक्ता एव हि ते चित्रगुप्तादयोऽधिष्ठातारः स्मर्यन्ते ॥ १६ ॥
विद्याकर्मणोरिति तु प्रकृतत्वात् ॥ १७ ॥
यत्पुनरुक्तम् — देहलाभोपपत्तये सर्वे चन्द्रमसं गन्तुमर्हन्ति, ‘पञ्चम्यामाहुतौ’ इत्याहुतिसंख्यानियमादिति, तत्प्रत्युच्यते —
न तृतीये तथोपलब्धेः ॥ १८ ॥
न तृतीये स्थाने देहलाभाय पञ्चसंख्यानियम आहुतीनामादर्तव्यः ।
कुतः ?
तथोपलब्धेः ।
तथा हि अन्तरेणैवाहुतिसंख्यानियमं वर्णितेन प्रकारेण तृतीयस्थानप्राप्तिरुपलभ्यते —
‘जायस्व म्रियस्वेत्येतत्तृतीयꣳ स्थानम्’ (छा. उ. ५ । १० । ८) इति ।
अपि च ‘पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति’ (छा. उ. ५ । ३ । ३) इति मनुष्यशरीरहेतुत्वेन आहुतिसंख्या सङ्कीर्त्यते,
न कीटपतङ्गादिशरीरहेतुत्वेन,
पुरुषशब्दस्य मनुष्यजातिवचनत्वात् ।
अपि च पञ्चम्यामाहुतावपां पुरुषवचस्त्वमुपदिश्यते,
न अपञ्चम्यामाहुतौ पुरुषवचस्त्वं प्रतिषिध्यते,
वाक्यस्य द्व्यर्थतादोषात् ।
तत्र येषामारोहावरोहौ सम्भवतः,
तेषां पञ्चम्यामाहुतौ देह उद्भविष्यति ।
अन्येषां तु विनैवाहुतिसंख्यया भूतान्तरोपसृष्टाभिरद्भिर्देह आरप्स्यते ॥ १८ ॥
स्मर्यतेऽपि च लोके ॥ १९ ॥
अपि च स्मर्यते लोके, द्रोणधृष्टद्युम्नप्रभृतीनां सीताद्रौपदीप्रभृतीनां च अयोनिजत्वम् । तत्र द्रोणादीनां योषिद्विषया एका आहुतिर्नास्ति । धृष्टद्युम्नादीनां तु योषित्पुरुषविषये द्वे अप्याहुती न स्तः । यथा च तत्र आहुतिसंख्यानियमानादरो भवति, एवमन्यत्रापि भविष्यति । बलाकापि अन्तरेणैव रेतःसेकं गर्भं धत्त इति लोकरूढिः ॥ १९ ॥
दर्शनाच्च ॥ २० ॥
अपि च चतुर्विधे भूतग्रामे जरायुजाण्डजस्वेदजोद्भिज्जलक्षणे स्वेदजोद्भिज्जयोः अन्तरेणैव ग्राम्यधर्मम् उत्पत्तिदर्शनात् आहुतिसंख्यानादरो भवति । एवमन्यत्रापि भविष्यति ॥ २० ॥
तृतीयशब्दावरोधः संशोकजस्य ॥ २१ ॥
‘आण्डजं जीवजमुद्भिज्जम्’ (छा. उ. ६ । ३ । १) इत्यत्र तृतीयेनोद्भिज्जशब्देनैव स्वेदजोपसङ्ग्रहः कृतः प्रत्येतव्यः,
उभयोरपि स्वेदजोद्भिज्जयोः भूम्युदकोद्भेदप्रभवत्वस्य तुल्यत्वात् ।
स्थावरोद्भेदात्तु विलक्षणो जङ्गमोद्भेद इत्यन्यत्र स्वेदजोद्भिज्जयोर्भेदवाद इत्यविरोधः ॥ २१ ॥
साभाव्यापत्तिरुपपत्तेः ॥ २२ ॥
इष्टादिकारिणश्चन्द्रमसमारुह्य तस्मिन्यावत्सम्पातमुषित्वा ततः सानुशया अवरोहन्तीत्युक्तम्;
अथावरोहप्रकारः परीक्ष्यते ।
तत्रेयमवरोहश्रुतिर्भवति —
‘अथैतमेवाध्वानं पुनर्निवर्तन्ते यथेतमाकाशमाकाशाद्वायुं वायुर्भूत्वा धूमो भवति धूमो’ (छा. उ. ५ । १० । ५) ‘भूत्वाभ्रं भवत्यभ्रं भूत्वा मेघो भवति मेघो भूत्वा प्रवर्षति’ (छा. उ. ५ । १० । ६) इति ।
तत्र संशयः —
किमाकाशादिस्वरूपमेवावरोहन्तः प्रतिपद्यन्ते,
किं वा आकाशादिसाम्यमिति ।
तत्र प्राप्तं तावत् —
आकाशादिस्वरूपमेव प्रतिपद्यन्त इति ।
कुतः ?
एवं हि श्रुतिर्भवति ।
इतरथा लक्षणा स्यात् ।
श्रुतिलक्षणाविशये च श्रुतिर्न्याय्या,
न लक्षणा ।
तथा च ‘
वायुर्भूत्वा धूमो भवति’
इत्येवमादीन्यक्षराणि तत्तत्स्वरूपोपपत्तौ आञ्जस्येन अवकल्पन्ते ।
तस्मादाकाशादिस्वरूपप्रतिपत्तिरिति ।
एवं प्राप्ते,
ब्रूमः —
आकाशादिसाम्यं प्रतिपद्यन्त इति ।
चन्द्रमण्डले यत् अम्मयं शरीरमुपभोगार्थमारब्धम् ,
तत् उपभोगक्षये सति प्रविलीयमानं सूक्ष्ममाकाशसमं भवति ।
ततो वायोर्वशमेति ।
ततो धूमादिभिः सम्पृच्यत इति ।
तदेतदुच्यते —
‘यथेतमाकाशमाकाशाद्वायुम्’ (छा. उ. ५ । १० । ५) इत्येवमादिना ।
कुत एतत् ?
उपपत्तेः ।
एवं हि एतदुपपद्यते ।
न हि अन्यस्यान्यभावो मुख्य उपपद्यते ।
आकाशस्वरूपप्रतिपत्तौ च वाय्वादिक्रमेणावरोहो नोपपद्यते ।
विभुत्वाच्च आकाशेन नित्यसम्बद्धत्वात् न तत्सादृश्यापत्तेरन्यः तत्सम्बन्धो घटते ।
श्रुत्यसम्भवे च लक्षणाश्रयणं न्याय्यमेव ।
अत आकाशादितुल्यतापत्तिरेव अत्र आकाशादिभाव इत्युपचर्यते ॥ २२ ॥
नातिचिरेण विशेषात् ॥ २३ ॥
तत्र आकाशादिप्रतिपत्तौ प्राग्व्रीह्यादिप्रतिपत्तेः भवति विशयः —
किं दीर्घं दीर्घं कालं पूर्वपूर्वसादृश्येनावस्थायोत्तरोत्तरसादृश्यं गच्छन्ति,
उताल्पमल्पमिति ।
तत्रानियमः,
नियमकारिणः शास्त्रस्याभावादित्येवं प्राप्ते,
इदमाह —
नातिचिरेणेति ।
अल्पमल्पं कालमाकाशादिभावेनावस्थाय वर्षधाराभिः सह इमां भुवमापतन्ति ।
कुत एतत् ?
विशेषदर्शनात्;
तथा हि व्रीह्यादिभावापत्तेरनन्तरं विशिनष्टि —
‘अतो वै खलु दुर्निष्प्रपतरम्’ (छा. उ. ५ । १० । ६) इति ।
तकार एकश्छान्दस्यां प्रक्रियायां लुप्तो मन्तव्यः ।
दुर्निष्प्रपततरं दुर्निष्क्रमतरम् —
दुःखतरमस्माद्व्रीह्यादिभावान्निःसरणं भवतीत्यर्थः ।
तत् अत्र दुःखं निष्प्रपतनं प्रदर्शयन् पूर्वेषु सुखं निष्प्रपतनं दर्शयति ।
सुखदुःखताविशेषश्चायं निष्प्रपतनस्य कालाल्पत्वदीर्घत्वनिमित्तः,
तस्मिन्नवधौ शरीरानिष्पत्तेरुपभोगासम्भवात् ।
तस्माद्व्रीह्यादिभावापत्तेः प्राक् अल्पेनैव कालेनावरोहः स्यादिति ॥ २३ ॥
अन्याधिष्ठितेषु पूर्ववदभिलापात् ॥ २४ ॥
तस्मिन्नेवावरोहे प्रवर्षणानन्तरं पठ्यते —
‘त इह व्रीहियवा ओषधिवनस्पतयस्तिलमाषा इति जायन्ते’ (छा. उ. ५ । १० । ६) इति ।
तत्र संशयः —
किमस्मिन्नवधौ स्थावरजात्यापन्नाः स्थावरसुखदुःखभाजोऽनुशयिनो भवन्ति,
आहोस्वित्क्षेत्रज्ञान्तराधिष्ठितेषु स्थावरशरीरेषु संश्लेषमात्रं गच्छन्तीति ।
किं तावत्प्राप्तम् ?
स्थावरजात्यापन्नास्तत्सुखदुःखभाजोऽनुशयिनो भवन्तीति ।
कुत एतत् ?
जनेर्मुख्यार्थत्वोपपत्तेः,
स्थावरभावस्य च श्रुतिस्मृत्योरुपभोगस्थानत्वप्रसिद्धेः,
पशुहिंसादियोगाच्च इष्टादेः कर्मजातस्यानिष्टफलत्वोपपत्तेः ।
तस्मान्मुख्यमेवेदमनुशयिनां व्रीह्यादिजन्म,
श्वादिजन्मवत् —
यथा ‘
श्वयोनिं वा सूकरयोनिं वा चण्डालयोनिं वा’
इति मुख्यमेवानुशयिनां श्वादिजन्म तत्सुखदुःखान्वितं भवति,
एवं व्रीह्यादिजन्मापीति ।
एवं प्राप्ते ब्रूमः —
अन्यैर्जीवैरधिष्ठितेषु व्रीह्यादिषु संसर्गमात्रमनुशयिनः प्रतिपद्यन्ते, न तत्सुखदुःख भाजो भवन्ति, पूर्ववत् — यथा वायुधूमादिभावोऽनुशयिनां तत्संश्लेषमात्रम् , एवं व्रीह्यादिभावोऽपि जातिस्थावरैः संश्लेषमात्रम् । कुत एतत् ? तद्वदेवेहाप्यभिलापात् । कोऽभिलापस्य तद्वद्भावः ? कर्मव्यापारमन्तरेण सङ्कीर्तनम् — यथा आकाशादिषु प्रवर्षणान्तेषु न कञ्चित्कर्मव्यापारं परामृशति, एवं व्रीह्यादिजन्मन्यपि । तस्मान्नास्त्यत्र सुखदुःखभाक्त्वमनुशयिनाम् । यत्र तु सुखदुःखभाक्त्वमभिप्रैति, परामृशति तत्र कर्मव्यापारम् — ‘रमणीयचरणाः’ ‘कपूयचरणाः’ इति । अपि च मुख्येऽनुशयिनां व्रीह्यादिजन्मनि, व्रीह्यादिषु लूयमानेषु कण्ड्यमानेषु पच्यमानेषु भक्ष्यमाणेषु च तदभिमानिनोऽनुशयिनः प्रवसेयुः । यो हि जीवो यच्छरीरमभिमन्यते, स तस्मिन्पीड्यमाने प्रवसति — इति प्रसिद्धम् । तत्र व्रीह्यादिभावाद्रेतःसिग्भावोऽनुशयिनां नाभिलप्येत । अतः संसर्गमात्रमनुशयिनामन्याधिष्ठितेषु व्रीह्यादिषु भवति । एतेन जनेर्मुख्यार्थत्वं प्रतिब्रूयात् , उपभोगस्थानत्वं च स्थावरभावस्य । न च वयमुपभोगस्थानत्वं स्थावरभावस्यावजानीमहे । भवत्वन्येषां जन्तूनामपुण्यसामर्थ्येन स्थावरभावमुपगतानाम् एतत् उपभोगस्थानम् । चन्द्रमसस्तु अवरोहन्तोऽनुशयिनो न स्थावरभावमुपभुञ्जत इत्याचक्ष्महे ॥ २४ ॥
अशुद्धमिति चेन्न शब्दात् ॥ २५ ॥
यत्पुनरुक्तम् — पशुहिंसादियोगादशुद्धमाध्वरिकं कर्म, तस्यानिष्टमपि फलमवकल्पत इत्यतो मुख्यमेवानुशयिनां व्रीह्यादिजन्म अस्तु । तत्र गौणी कल्पना अनर्थिकेति — तत्परिह्रियते — न, शास्त्रहेतुत्वाद्धर्माधर्मविज्ञानस्य । अयं धर्मः अयमधर्म इति शास्त्रमेव विज्ञाने कारणम् , अतीन्द्रियत्वात्तयोः । अनियतदेशकालनिमित्तत्वाच्च — यस्मिन्देशे काले निमित्ते च यो धर्मोऽनुष्ठीयते, स एव देशकालनिमित्तान्तरेष्वधर्मो भवति । तेन न शास्त्रादृते धर्माधर्मविषयं विज्ञानं कस्यचिदस्ति । शास्त्राच्च हिंसानुग्रहाद्यात्मको ज्योतिष्टोमो धर्म इत्यवधारितः, स कथमशुद्ध इति शक्यते वक्तुम् । ननु ‘न हिंस्यात्सर्वा भूतानि’ इति शास्त्रमेव भूतविषयां हिंसाम् अधर्म इत्यवगमयति । बाढम् — उत्सर्गस्तु सः । अपवादः ‘अग्नीषोमीयं पशुमालभेत’ इति । उत्सर्गापवादयोश्च व्यवस्थितविषयत्वम् । तस्माद्विशुद्धं कर्म वैदिकम्; शिष्टैरनुष्ठीयमानत्वात् अनिन्द्यमानत्वाच्च । तेन न तस्य प्रतिरूपं फलम् जातिस्थावरत्वम् । न च श्वादिजन्मवदपि व्रीह्यादिजन्म भवितुमर्हति । तद्धि कपूयचरणानधिकृत्य उच्यते । नैवमिह वैशेषिकः कश्चिदधिकारोऽस्ति । अतश्चन्द्रमण्डलस्खलितानामनुशयिनां व्रीह्यादिसंश्लेषमात्रं तद्भाव इत्युपचर्यते ॥ २५ ॥
रेतःसिग्योगोऽथ ॥ २६ ॥
इतश्च व्रीह्यादिसंश्लेषमात्रं तद्भावः,
यत्कारणं व्रीह्यादिभावस्यानन्तरमनुशयिनां रेतःसिग्भाव आम्नायते —
‘यो यो ह्यन्नमत्ति यो रेतः सिञ्चति तद्भूय एव भवति’ (छा. उ. ५ । १० । ६) इति ।
न चात्र मुख्यो रेतःसिग्भावः सम्भवति ।
चिरजातो हि प्राप्तयौवनो रेतःसिग्भवति ।
कथमिव अनुपचरितं तद्भावम् अद्यमानान्नानुगतोऽनुशयी प्रतिपद्येत ?
तत्र तावदवश्यं रेतःसिग्योग एव रेतःसिग्भावोऽभ्युपगन्तव्यः ।
तद्वत् व्रीह्यादिभावोऽपि व्रीह्यादियोग एवेत्यविरोधः ॥ २६ ॥
योनेः शरीरम् ॥ २७ ॥
अथ रेतःसिग्भावस्यानन्तरं योनौ निषिक्ते रेतसि,
योनेरधि शरीरम् अनुशयिनाम् अनुशयफलोपभोगाय जायत इत्याह शास्त्रम् —
‘तद्य इह रमणीयचरणाः’ (छा. उ. ५ । १० । ७) इत्यादि ।
तस्मादप्यवगम्यते —
नावरोहे व्रीह्यादिभावावसरे तच्छरीरमेव सुखदुःखान्वितं भवतीति ।
तस्मात् व्रीह्यादिसंश्लेषमात्रमनुशयिनां तज्जन्मेति सिद्धम् ॥ २७ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छङ्करभगवतः कृतौ शारीरकमीमांसासूत्रभाष्ये
तृतीयाध्यायस्य प्रथमः पादः ॥
अतिक्रान्ते पादे पञ्चाग्निविद्यामुदाहृत्य जीवस्य संसारगतिप्रभेदः प्रपञ्चितः ।
इदानीं तस्यैवावस्थाभेदः प्रपञ्च्यते ।
इदमामनन्ति —
‘स यत्र प्रस्वपिति’ (बृ. उ. ४ । ३ । ९) इत्युपक्रम्य ‘
न तत्र रथा न रथयोगा न पन्थानो भवन्त्यथ रथारथयोगान्पथः सृजते’
इत्यादि ।
तत्र संशयः —
किं प्रबोधे इव स्वप्नेऽपि पारमार्थिकी सृष्टिः,
आहोस्विन्मायामयीति ।
तत्र तावत्प्रतिपाद्यते —
सन्ध्ये सृष्टिराह हि ॥ १ ॥
सन्ध्ये तथ्यरूपा सृष्टिरिति ।
सन्ध्यमिति स्वप्नस्थानमाचष्टे,
वेदे प्रयोगदर्शनात् — ‘
सन्ध्यं तृतीयꣳ स्वप्नस्थानम्’
इति;
द्वयोर्लोकस्थानयोः प्रबोधसम्प्रसादस्थानयोर्वा सन्धौ भवतीति सन्ध्यम् ।
तस्मिन्सन्ध्ये स्थाने तथ्यरूपैव सृष्टिर्भवितुमर्हति —
कुतः ?
यतः प्रमाणभूता श्रुतिरेवमाह —
‘अथ रथारथयोगान्पथः सृजते’ (बृ. उ. ४ । ३ । १०) इत्यादि । ‘
स हि कर्ता’
इति च उपसंहारात् एवमेवावगम्यते ॥ १ ॥
निर्मातारं चैके पुत्रादयश्च ॥ २ ॥
एवं प्राप्ते, प्रत्याह —
मायामात्रं तु कार्त्स्न्येनानभिव्यक्तस्वरूपत्वात् ॥ ३ ॥
तुशब्दः पक्षं व्यावर्तयति ।
नैतदस्ति —
यदुक्तं सन्ध्ये सृष्टिः पारमार्थिकीति ।
मायैव सन्ध्ये सृष्टिः,
न परमार्थगन्धोऽप्यस्ति ।
कुतः ?
कार्त्स्न्येनानभिव्यक्तस्वरूपत्वात् —
न हि कार्त्स्न्येन परमार्थवस्तुधर्मेण अभिव्यक्तस्वरूपः स्वप्नः ।
किं पुनरत्र कार्त्स्न्यमभिप्रेतम् ?
देशकालनिमित्तसम्पत्तिः अबाधश्च ।
न हि परमार्थवस्तुविषयाणि देशकालनिमित्तानि अबाधश्च स्वप्ने सम्भाव्यन्ते ।
न तावत्स्वप्ने रथादीनामुचितो देशः सम्भवति ।
न हि संवृते देहदेशे रथादयोऽवकाशं लभेरन् ।
स्यादेतत् —
बहिर्देहात् स्वप्नं द्रक्ष्यति,
देशान्तरितद्रव्यग्रहणात् ।
दर्शयति च श्रुतिः बहिर्देहात्स्वप्नम् —
‘बहिष्कुलायादमृतश्चरित्वा । स ईयतेऽमृतो यत्र कामम्’ (बृ. उ. ४ । ३ । १२) इति ।
स्थितिगतिप्रत्ययभेदश्च न अनिष्क्रान्ते जन्तौ सामञ्जस्यमश्नुवीत —
इति ।
नेत्युच्यते —
न हि सुप्तस्य जन्तोः क्षणमात्रेण योजनशतान्तरितं देशं पर्येतुं विपर्येतुं च ततः सामर्थ्यं सम्भाव्यते ।
क्वचिच्च प्रत्यागमनवर्जितं स्वप्नं श्रावयति —
कुरुष्वहमद्य शयानो निद्रयाभिप्लुतः,
स्वप्ने पञ्चालानभिगतश्च अस्मिन्प्रतिबुद्धश्च —
इति ।
देहाच्चेदपेयात् ,
पञ्चालेष्वेव प्रतिबुध्येत ,
तानसावभिगत इति ।
कुरुष्वेव तु प्रतिबुध्यते ।
येन च अयं देहेन देशान्तरमश्नुवानो मन्यते,
तमन्ये पार्श्वस्थाः शयनदेश एव पश्यन्ति ।
यथाभूतानि च अयं देशान्तराणि स्वप्ने पश्यति,
न तानि तथाभूतान्येव भवन्ति ।
परिधावंश्चेत्पश्येत् ,
जाग्रद्वत् वस्तुभूतमर्थमाकलयेत् ।
दर्शयति च श्रुतिरन्तरेव देहे स्वप्नम् — ‘
स यत्रैतत्स्वप्न्यया चरति’
इत्युपक्रम्य ‘स्वे शरीरे यथाकामं परिवर्तते’ (बृ. उ. २ । १ । १८) इति ।
अतश्च श्रुत्युपपत्तिविरोधाद्बहिष्कुलायश्रुतिः गौणी व्याख्यातव्या —
बहिरिव कुलायात् अमृतश्चरित्वेति;
यो हि वसन्नपि शरीरे न तेन प्रयोजनं करोति,
स बहिरिव शरीराद्भवति —
इति ।
स्थितिगतिप्रत्ययभेदोऽप्येवं सति विप्रलम्भ एवाभ्युपगन्तव्यः ॥
कालविसंवादोऽपि च स्वप्ने भवति —
रजन्यां सुप्तो वासरं भारते वर्षे मन्यते;
तथा मुहूर्तमात्रवर्तिनि स्वप्ने कदाचित् बहून् वर्षपूगान् अतिवाहयति ।
निमित्तान्यपि च स्वप्ने न बुद्धये कर्मणे वा उचितानि विद्यन्ते ।
करणोपसंहाराद्धि नास्य रथादिग्रहणाय चक्षुरादीनि सन्ति ।
रथादिनिर्वर्तनेऽपि कुतोऽस्य निमेषमात्रेण सामर्थ्यं दारूणि वा ।
बाध्यन्ते चैते रथादयः स्वप्नदृष्टाः प्रबोधे ।
स्वप्न एव च एते सुलभबाधा भवन्ति,
आद्यन्तयोर्व्यभिचारदर्शनात् —
रथोऽयमिति हि कदाचित्स्वप्ने निर्धारितः क्षणेन मनुष्यः सम्पद्यते,
मनुष्योऽयमिति निर्धारितः क्षणेन वृक्षः ।
स्पष्टं चाभावं रथादीनां स्वप्ने श्रावयति शास्त्रम् —
‘न तत्र रथा न रथयोगा न पन्थानो भवन्ति’ (बृ. उ. ४ । ३ । १०) इत्यादि ।
तस्मान्मायामात्रं स्वप्नदर्शनम् ॥ ३ ॥
सूचकश्च हि श्रुतेराचक्षते च तद्विदः ॥ ४ ॥
मायामात्रत्वात्तर्हि न कश्चित्स्वप्ने परमार्थगन्धोऽस्तीति —
नेत्युच्यते —
सूचकश्च हि स्वप्नो भवति भविष्यतोः साध्वसाधुनोः ।
तथा हि श्रूयते —
‘यदा कर्मसु काम्येषु स्त्रियꣳ स्वप्नेषु पश्यति । समृद्धिं तत्र जानीयात्तस्मिन्स्वप्ननिदर्शने’ (छा. उ. ५ । २ । ८) इति ।
तथा ‘
पुरुषं कृष्णं कृष्णदन्तं पश्यति स एनं हन्ति’
इत्येवमादिभिः स्वप्नैरचिरजीवित्वमावेद्यत इति श्रावयति ।
आचक्षते च स्वप्नाध्यायविदः —
कुञ्जरारोहणादीनि स्वप्ने धन्यानि,
खरयानादीन्यधन्यानि’
इति ।
मन्त्रदेवताद्रव्यविशेषनिमित्ताश्च केचित्स्वप्नाः सत्यार्थगन्धिनो भवन्तीति मन्यन्ते ।
तत्रापि भवतु नाम सूच्यमानस्य वस्तुनः सत्यत्वम् ।
सूचकस्य तु स्त्रीदर्शनादेर्भवत्येव वैतथ्यम् ,
बाध्यमानत्वादित्यभिप्रायः ।
तस्मादुपपन्नं स्वप्नस्य मायामात्रत्वम् ॥
यदुक्तम् — ‘
आह हि’
इति तदेवं सति भाक्तं व्याख्यातव्यम् —
यथा ‘
लाङ्गलं गवादीनुद्वहति’
इति निमित्तमात्रत्वादेवमुच्यते,
न तु प्रत्यक्षमेव लाङ्गलं गवादीनुद्वहति ।
एवं निमित्तमात्रत्वात् —
सुप्तो रथादीन्सृजते, ‘
स हि कर्ता’ —
इति च उच्यते ।
न तु प्रत्यक्षमेव सुप्तो रथादीन्सृजति ।
निमित्तत्वं तु अस्य रथादिप्रतिभाननिमित्तमोदत्रासादिदर्शनात्तन्निमित्तभूतयोः सुकृतदुष्कृतयोः कर्तृत्वेनेति वक्तव्यम् ।
अपि च जागरिते विषयेन्द्रियसंयोगात् आदित्यादिज्योतिर्व्यतिकराच्च आत्मनः स्वयंज्योतिष्ट्वं दुर्विवेचनमिति तद्विवेचनाय स्वप्न उपन्यस्तः ।
तत्र यदि रथादिसृष्टिवचनं श्रुत्या नीयेत,
ततः स्वयंज्योतिष्ट्वं न निर्णीतं स्यात् ।
तस्माद्रथाद्यभाववचनं श्रुत्या,
रथादिसृष्टिवचनं तु भक्त्येति व्याख्येयम् ।
एतेन निर्माणश्रवणं व्याख्यातम् ।
यदप्युक्तम् — ‘
प्राज्ञमेनं निर्मातारमामनन्ति’
इति,
तदप्यसत् ,
श्रुत्यन्तरे ‘स्वयं विहत्य स्वयं निर्माय स्वेन भासा स्वेन ज्योतिषा प्रस्वपिति’ (बृ. उ. ४ । ३ । ९) इति जीवव्यापारश्रवणात् ।
इहापि ‘य एष सुप्तेषु जागर्ति’ (क. उ. २ । २ । ८) इति प्रसिद्धानुवादाज्जीव एवायं कामानां निर्माता सङ्कीर्त्यते ।
तस्य तु वाक्यशेषेण ‘
तदेव शुक्रं तद्ब्रह्म’
इति जीवभावं व्यावर्त्य ब्रह्मभाव उपदिश्यते —
‘तत्त्वमसि’ (छा. उ. ६ । ९ । ४) इत्यादिवत् —
इति न ब्रह्मप्रकरणं विरुध्यते ।
न चास्माभिः स्वप्नेऽपि प्राज्ञव्यापारः प्रतिषिध्यते,
तस्य सर्वेश्वरत्वात् सर्वास्वप्यवस्थास्वधिष्ठातृत्वोपपत्तेः ।
पारमार्थिकस्तु नायं सन्ध्याश्रयः सर्गः वियदादिसर्गवत् —
इत्येतावत्प्रतिपाद्यते ।
न च वियदादिसर्गस्याप्यात्यन्तिकं सत्यत्वमस्ति ।
प्रतिपादितं हि ‘तदनन्यत्वमारम्भणशब्दादिभ्यः’ (ब्र. सू. २ । १ । १४) इत्यत्र समस्तस्य प्रपञ्चस्य मायामात्रत्वम् ।
प्राक् तु ब्रह्मात्मत्वदर्शनात् वियदादिप्रपञ्चो व्यवस्थितरूपो भवति ।
सन्ध्याश्रयस्तु प्रपञ्चः प्रतिदिनं बाध्यते —
इत्यतो वैशेषिकमिदं सन्ध्यस्य मायामात्रत्वमुदितम् ॥ ४ ॥
पराभिध्यानात्तु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ ॥ ५ ॥
अथापि स्यात् —
परस्यैव तावदात्मनोंऽशः जीवः —
अग्नेरिव विस्फुलिङ्गः ।
तत्रैवं सति यथा अग्निविस्फुलिङ्गयोः समाने दहनप्रकाशनशक्ती भवतः,
एवं जीवेश्वरयोरपि ज्ञानैश्वर्यशक्ती ।
ततश्च जीवस्य ज्ञानैश्वर्यवशात् साङ्कल्पिकी स्वप्ने रथादिसृष्टिर्भविष्यतीति ।
अत्रोच्यते —
सत्यपि जीवेश्वरयोरंशांशिभावे प्रत्यक्षमेव जीवस्येश्वरविपरीतधर्मत्वम् ।
किं पुनर्जीवस्य ईश्वरसमानधर्मत्वं नास्त्येव ?
न नास्त्येव ।
विद्यमानमपि तत् तिरोहितम् अविद्यादिव्यवधानात् ।
तत्पुनस्तिरोहितं सत् परमेश्वरमभिध्यायतो यतमानस्य जन्तोर्विधूतध्वान्तस्य —
तिमिरतिरस्कृतेव दृक्शक्तिः औषधवीर्यात् —
ईश्वरप्रसादात् संसिद्धस्य कस्यचिदेवाविर्भवति,
न स्वभावत एव,
सर्वेषां जन्तूनाम् ।
कुतः ?
ततो हि ईश्वराद्धेतोः,
अस्य जीवस्य,
बन्धमोक्षौ भवतः —
ईश्वरस्वरूपापरिज्ञानात् बन्धः,
तत्स्वरूपपरिज्ञानात्तु मोक्षः ।
तथा च श्रुतिः —
‘ज्ञात्वा देवं सर्वपाशापहानिः क्षीणैः क्लेशैर्जन्ममृत्युप्रहाणिः । तस्याभिध्यानात्तृतीयं देहभेदे विश्वैश्वर्यं केवल आप्तकामः’ (श्वे. उ. १ । ११) इत्येवमाद्या ॥ ५ ॥
देहयोगाद्वा सोऽपि ॥ ६ ॥
कस्मात्पुनर्जीवः परमात्मांश एव सन् तिरस्कृतज्ञानैश्वर्यो भवति ?
युक्तं तु ज्ञानैश्वर्ययोरतिरस्कृतत्वम् ,
विस्फुलिङ्गस्येव दहनप्रकाशनयोः —
इति ।
उच्यते —
सत्यमेवैतत् ।
सोऽपि तु जीवस्य ज्ञानैश्वर्यतिरोभावः,
देहयोगात् देहेन्द्रियमनोबुद्धिविषयवेदनादियोगात् भवति ।
अस्ति च अत्रोपमा —
यथा अग्नेर्दहनप्रकाशनसम्पन्नस्याप्यरणिगतस्य दहनप्रकाशने तिरोहिते भवतः,
यथा वा भस्मच्छन्नस्य —
एवमविद्याप्रत्युपस्थापितनामरूपकृतदेहाद्युपाधियोगात् तदविवेकभ्रमकृतो जीवस्य ज्ञानैश्वर्यतिरोभावः ।
वाशब्दो जीवस्य ईश्वरात् अन्यत्वशङ्काव्यावृत्त्यर्थः ।
नन्वन्य एव जीवः ईश्वरादस्तु,
तिरस्कृतज्ञानैश्वर्यत्वात् ।
किं देहयोगकल्पनया ?
नेत्युच्यते —
न हि अन्यत्वं जीवस्य ईश्वरादुपपद्यते —
‘सेयं देवतैक्षत’ (छा. उ. ६ । ३ । २) इत्युपक्रम्य ‘अनेन जीवेनात्मनानुप्रविश्य’ (छा. उ. ६ । ३ । २) इत्यात्मशब्देन जीवस्य परामर्शात्;
‘तत्सत्यꣳ स आत्मा तत्त्वमसि श्वेतकेतो’ (छा. उ. ६ । ८ । ७) इति च जीवाय उपदिशति ईश्वरात्मत्वम् ।
अतः अनन्य एव ईश्वराज्जीवः सन् देहयोगात्तिरोहितज्ञानैश्वर्यो भवति ।
अतश्च न साङ्कल्पिकी जीवस्य स्वप्ने रथादिसृष्टिर्घटते ।
यदि च साङ्कल्पिकी स्वप्ने रथादिसृष्टिः स्यात् ,
नैवानिष्टं कश्चित्स्वप्नं पश्येत् ,
न हि कश्चिदनिष्टं सङ्कल्पयते ।
यत्पुनरुक्तम् —
जागरितदेशश्रुतिः स्वप्नस्य सत्यत्वं ख्यापयतीति,
न तत्साम्यवचनं सत्यत्वाभिप्रायम् ,
स्वयंज्योतिष्ट्वविरोधात् ,
श्रुत्यैव च स्वप्ने रथाद्यभावस्य दर्शितत्वात् ।
जागरितप्रभववासनानिर्मितत्वात्तु स्वप्नस्य तत्तुल्यनिर्भासत्वाभिप्रायं तत् ।
तस्मादुपपन्नं स्वप्नस्य मायामात्रत्वम् ॥ ६ ॥
तदभावो नाडीषु तच्छ्रुतेरात्मनि च ॥ ७ ॥
एवं प्राप्ते,
प्रतिपाद्यते —
तदभावो नाडीष्वात्मनि चेति ।
तदभाव इति,
तस्य प्रकृतस्य स्वप्नदर्शनस्य अभावः सुषुप्तमित्यर्थः ।
नाडीष्वात्मनि चेति समुच्चयेन एतानि नाड्यादीनि स्वापायोपसर्पति,
न विकल्पेन —
इत्यर्थः ।
कुतः ?
तच्छ्रुतेः ।
तथा हि सर्वेषामेव नाड्यादीनां तत्र तत्र सुषुप्तिस्थानत्वं श्रूयते ।
तच्च समुच्चये सङ्गृहीतं भवति ।
विकल्पे ह्येषाम् ,
पक्षे बाधः स्यात् ।
ननु एकार्थत्वाद्विकल्पो नाड्यादीनां व्रीहियवादिवत् —
इत्युक्तम्;
नेत्युच्यते —
न हि एकविभक्तिनिर्देशमात्रेण एकार्थत्वं विकल्पश्च आपतति,
नानार्थत्वसमुच्चययोरप्येकविभक्तिनिर्देशदर्शनात् —
प्रासादे शेते पर्यङ्के शेते इत्येवमादिषु,
तथा इहापि नाडीषु पुरीतति ब्रह्मणि च स्वपितीति उपपद्यते समुच्चयः ।
तथा च श्रुतिः —
‘तासु तदा भवति यदा सुप्तः स्वप्नं न कञ्चन पश्यत्यथास्मिन्प्राण एवैकधा भवति’ (कौ. उ. ४ । १९) इति समुच्चयं नाडीनां प्राणस्य च सुषुप्तौ श्रावयति,
एकवाक्योपादानात् ।
प्राणस्य च ब्रह्मत्वं समधिगतं —
‘प्राणस्तथानुगमात्’ (ब्र. सू. १ । १ । २८) इत्यत्र ।
यत्रापि निरपेक्षा इव नाडीः सुप्तिस्थानत्वेन श्रावयति —
‘आसु तदा नाडीषु सृप्तो भवति’ (छा. उ. ८ । ६ । ३) इति,
तत्रापि प्रदेशान्तरप्रसिद्धस्य ब्रह्मणोऽप्रतिषेधात् नाडीद्वारेण ब्रह्मण्येवावतिष्ठत इति प्रतीयते ।
न चैवमपि नाडीषु सप्तमी विरुध्यते,
नाडीद्वारापि ब्रह्मोपसर्पन् सृप्त एव नाडीषु भवति —
यो हि गङ्गया सागरं गच्छति,
गत एव स गङ्गायां भवति ।
भवति च अत्र रश्मिनाडीद्वारात्मकस्य ब्रह्मलोकमार्गस्य विवक्षितत्वात् नाडीस्तुत्यर्थं सृप्तिसङ्कीर्तनम् —
‘नाडीषु सृप्तो भवति’ (छा. उ. ८ । ६ । ३) इत्युक्त्वा ‘तं न कश्चन पाप्मा स्पृशति’ (छा. उ. ८ । ६ । ३) इति ब्रुवन् नाडीः प्रशंसति ।
ब्रवीति च पाप्मस्पर्शाभावे हेतुम् ‘तेजसा हि तदा सम्पन्नो भवति’ (छा. उ. ८ । ६ । ३) इति —
तेजसा नाडीगतेन पित्ताख्येन अभिव्याप्तकरणो न बाह्यान् विषयानीक्षत इत्यर्थः ।
अथवा तेजसेति ब्रह्मण एवायं निर्देशः,
श्रुत्यन्तरे ।
‘ब्रह्मैव तेज एव’ (बृ. उ. ४ । ४ । ७) इति तेजःशब्दस्य ब्रह्मणि प्रयुक्तत्वात् ।
ब्रह्मणा हि तदा सम्पन्नो भवति नाडीद्वारेण,
अतस्तं न कश्चन पाप्मा स्पृशतीत्यर्थः —
ब्रह्मसम्पत्तिश्च पाप्मस्पर्शाभावे हेतुः समधिगतः ‘सर्वे पाप्मानोऽतो निवर्तन्तेऽपहतपाप्मा ह्येष ब्रह्मलोकः’ (छा. उ. ८ । ४ । १) इत्यादिश्रुतिभ्यः ।
एवं च सति प्रदेशान्तरप्रसिद्धेन ब्रह्मणा सुषुप्तिस्थानेनानुगतो नाडीनां समुच्चयः समधिगतो भवति ।
तथा पुरीततोऽपि ब्रह्मप्रक्रियायां सङ्कीर्तनात् तदनुगुणमेव सुषुप्तिस्थानत्वं विज्ञायते —
‘य एषोऽन्तर्हृदय आकाशस्तस्मिञ्शेते’ (बृ. उ. २ । १ । १७) इति हृदयाकाशे सुषुप्तिस्थाने प्रकृते इदमुच्यते —
‘पुरीतति शेते’ (बृ. उ. २ । १ । १९) इति ।
पुरीतदिति हृदयपरिवेष्टनमुच्यते ।
तदन्तर्वर्तिन्यपि हृदयाकाशे शयानः शक्यते ‘
पुरीतति शेते’
इति वक्तुम् —
प्राकारपरिक्षिप्तेऽपि हि पुरे वर्तमानः प्राकारे वर्तत इत्युच्यते ।
हृदयाकाशस्य च ब्रह्मत्वं समधिगतम् ‘दहर उत्तरेभ्यः’ (ब्र. सू. १ । ३ । १४) इत्यत्र ।
तथा नाडीपुरीतत्समुच्चयोऽपि ‘ताभिः प्रत्यवसृप्य पुरीतति शेते’ (बृ. उ. २ । १ । १९) इत्येकवाक्योपादानात् अवगम्यते ।
सत्प्राज्ञयोश्च प्रसिद्धमेव ब्रह्मत्वम् ।
एवमेतासु श्रुतिषु त्रीण्येव सुषुप्तिस्थानानि सङ्कीर्तितानि —
नाड्यः पुरीतत् ब्रह्म चेति ।
तत्रापि द्वारमात्रं नाड्यः पुरीतच्च,
ब्रह्मैव तु एकम् अनपायि सुषुप्तिस्थानम् ।
अपि च नाड्यः पुरीतद्वा जीवस्योपाध्याधार एव भवति —
तत्रास्य करणानि वर्तन्त इति ।
न हि उपाधिसम्बन्धमन्तरेण स्वत एव जीवस्याधारः कश्चित्सम्भवति,
ब्रह्माव्यतिरेकेण स्वमहिमप्रतिष्ठितत्वात् ।
ब्रह्माधारत्वमप्यस्य सुषुप्ते नैव आधाराधेयभेदाभिप्रायेण उच्यते ।
कथं तर्हि ?
तादात्म्याभिप्रायेण;
यत आह —
‘सता सोम्य तदा सम्पन्नो भवति स्वमपीतो भवति’ (छा. उ. ६ । ८ । १) इति;
स्वशब्देन आत्मा अभिलप्यते,
स्वरूपमापन्नः सुप्तो भवतीत्यर्थः ।
अपि च न कदाचिज्जीवस्य ब्रह्मणा सम्पत्तिर्नास्ति,
स्वरूपस्यानपायित्वात् ।
स्वप्नजागरितयोस्तूपाधिसम्पर्कवशात् पररूपापत्तिमिवापेक्ष्य तदुपशमात्सुषुप्ते स्वरूपापत्तिर्विवक्ष्यते — ‘
स्वमपीतो भवति’
इति ।
अतश्च सुषुप्तावस्थायां कदाचित्सता सम्पद्यते,
कदाचिन्न सम्पद्यते —
इत्ययुक्तम् ।
अपि च स्थानविकल्पाभ्युपगमेऽपि विशेषविज्ञानोपशमलक्षणं तावत्सुषुप्तं न क्वचिद्विशिष्यते ।
तत्र सति सम्पन्नस्तावत् एकत्वात् न विजानातीति युक्तम् ,
‘तत्केन कं विजानीयात्’ (छा. उ. २ । ४ । १४) इति श्रुतेः ।
नाडीषु पुरीतति च शयानस्य न किञ्चित् अविज्ञाने कारणं शक्यं विज्ञातुम् ,
भेदविषयत्वात् ,
‘यत्र वा अन्यदिव स्यात्तत्रान्योऽन्यत्पश्येत्’ (बृ. उ. ४ । ३ । ३१) इति श्रुतेः ।
ननु भेदविषयस्याप्यतिदूरादिकारणमविज्ञाने स्यात्;
बाढमेवं स्यात् ,
यदि जीवः स्वतः परिच्छिन्नोऽभ्युपगम्येत —
यथा विष्णुमित्रः प्रवासी स्वगृहं न पश्यतीति ।
न तु जीवस्योपाधिव्यतिरेकेण परिच्छेदो विद्यते ।
उपाधिगतमेवातिदूरादिकारणम् अविज्ञाने इति यद्युच्येत,
तथाप्युपाधेरुपशान्तत्वात् सत्येव सम्पन्नः न विजानातीति युक्तम् ।
न च वयमिह तुल्यवत् नाड्यादिसमुच्चयं प्रतिपादयामः ।
न हि नाड्यः सुप्तिस्थानं पुरीतच्च इत्यनेन विज्ञानेन किञ्चित्प्रयोजनमस्ति ।
न ह्येतद्विज्ञानप्रतिबद्धं किञ्चित्फलं श्रूयते ।
नाप्येतद्विज्ञानं फलवतः कस्यचिदङ्गमुपदिश्यते ।
ब्रह्म तु अनपायि सुप्तिस्थानम् —
इत्येतत्प्रतिपादयामः ।
तेन तु विज्ञानेन प्रयोजनमस्ति जीवस्य ब्रह्मात्मत्वावधारणं स्वप्नजागरितव्यवहारविमुक्तत्वावधारणं च ।
तस्मादात्मैव सुप्तिस्थानम् ॥ ७ ॥
स एव तु कर्मानुस्मृतिशब्दविधिभ्यः ॥ ९ ॥
तस्याः पुनः सत्सम्पत्तेः प्रतिबुध्यमानः किं य एव सत्सम्पन्नः स एव प्रतिबुध्यते, उत स वा अन्यो वा इति चिन्त्यते । तत्र प्राप्तं तावत् — अनियम इति । कुतः ? यदा हि जलराशौ कश्चिज्जलबिन्दुः प्रक्षिप्यते, जलराशिरेव स तदा भवति, पुनरुद्धरणे च स एव जलबिन्दुर्भवति इति दुःसम्पादम् — तद्वत् सुप्तः परेणैकत्वमापन्नः सम्प्रसीदतीति न स एव पुनरुत्थातुमर्हति; तस्मात् स एव ईश्वरो वा अन्यो वा जीवः प्रतिबुध्यते इति ॥
एवं प्राप्ते,
इदमाह —
स एव तु जीवः सुप्तः स्वास्थ्यं गतः पुनरुत्तिष्ठति,
नान्यः ।
कस्मात् ?
कर्मानुस्मृतिशब्दविधिभ्यः ।
विभज्य हेतुं दर्शयिष्यामि ।
कर्मशेषानुष्ठानदर्शनात्तावत्स एवोत्थातुमर्हति नान्यः ।
तथा हि —
पूर्वेद्युरनुष्ठितस्य कर्मणः अपरेद्युः शेषमनुतिष्ठन्दृश्यते ।
न चान्येन सामिकृतस्य कर्मणः अन्यः शेषक्रियायां प्रवर्तितुमुत्सहते,
अतिप्रसङ्गात् ।
तस्मादेक एव पूर्वेद्युरपरेद्युश्च एकस्य कर्मणः कर्तेति गम्यते ।
इतश्च स एवोत्तिष्ठति,
यत्कारणम् अतीतेऽहनि अहमदोऽद्राक्षमिति पूर्वानुभूतस्य पश्चात्स्मरणम् अन्यस्योत्थाने नोपपद्यते ।
न ह्यन्यदृष्टम् अन्योऽनुस्मर्तुमर्हति ।
सोऽहमस्मीति च आत्मानुस्मरणमात्मान्तरोत्थाने नावकल्पते ।
शब्देभ्यश्च तस्यैवोत्थानमवगम्यते ।
तथा हि —
‘पुनः प्रतिन्यायं प्रतियोन्याद्रवति बुद्धान्तायैव’ (बृ. उ. ४ । ३ । १६) ‘इमाः सर्वाः प्रजा अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्ति’ (छा. उ. ८ । ३ । २) ‘त इह व्याघ्रो वा सिꣳहो वा वृको वा वराहो वा कीटो वा पतङ्गो वा दꣳशो वा मशको वा यद्यद्भवन्ति तदाभवन्ति’ (छा. उ. ६ । ९ । ३) इत्येवमादयः शब्दाः स्वापप्रबोधाधिकारपठिता न आत्मान्तरोत्थाने सामञ्जस्यम् ईयुः ।
कर्मविद्याविधिभ्यश्चैवमेवावगम्यते ।
अन्यथा हि कर्मविद्याविधयोऽनर्थकाः स्युः ।
अन्योत्थानपक्षे हि सुप्तमात्रो मुच्यत इत्यापद्येत ।
एवं चेत्स्यात् ,
वद किं कालान्तरफलेन कर्मणा विद्यया वा कृतं स्यात् ?
अपि च अन्योत्थानपक्षे यदि तावच्छरीरान्तरे व्यवहरमाणो जीव उत्तिष्ठेत् ,
तत्रत्यव्यवहारलोपप्रसङ्गः स्यात् ।
अथ तत्र सुप्त उत्तिष्ठेत् ,
कल्पनानर्थक्यं स्यात् ।
यो हि यस्मिन् शरीरे सुप्तः सः तस्मिन् नोत्तिष्ठति,
अन्यस्मिन् शरीरे सुप्तः अन्यस्मिन्नुत्तिष्ठतीति कोऽस्याम् कल्पनायां लाभः स्यात् ?
अथ मुक्त उत्तिष्ठेत् ,
अन्तवान्मोक्ष आपद्येत ।
निवृत्ताविद्यस्य च पुनरुत्थानमनुपपन्नम् ।
एतेन ईश्वरस्योत्थानं प्रत्युक्तम् ,
नित्यनिवृत्ताविद्यत्वात् ।
अकृताभ्यागमकृतविप्रणाशौ च दुर्निवारावन्योत्थानपक्षे स्याताम् ।
तस्मात्स एवोत्तिष्ठति,
नान्य इति ।
यत्पुनरुक्तम् —
यथा जलराशौ प्रक्षिप्तो जलबिन्दुर्नोद्धर्तुं शक्यते,
एवं सति सम्पन्नो जीवो नोत्पतितुमर्हतीति,
तत्परिह्रियते —
युक्तं तत्र विवेककारणाभावात् जलबिन्दोरनुद्धरणम् ,
इह तु विद्यते विवेककारणम् —
कर्म च अविद्या च,
इति वैषम्यम् ।
दृश्यते च दुर्विवेचनयोरप्यस्मज्जातीयैः क्षीरोदकयोः संसृष्टयोः हंसेन विवेचनम् ।
अपि च न जीवो नाम कश्चित्परस्मादन्यो विद्यते,
यो जलबिन्दुरिव जलराशेः सतो विविच्येत ।
सदेव तु उपाधिसम्पर्काज्जीव इत्युपचर्यते इत्यसकृत्प्रपञ्चितम् ।
एवं सति यावदेकोपाधिगता बन्धानुवृत्तिः,
तावदेकजीवव्यवहारः ।
उपाध्यन्तरगतायां तु बन्धानुवृत्तौ जीवान्तरव्यवहारः ।
स एवायमुपाधिः स्वापप्रबोधयोः बीजाङ्कुरन्यायेन —
इत्यतः स एव जीवः प्रतिबुध्यत इति युक्तम् ॥ ९ ॥
मुग्धेऽर्धसम्पत्तिः परिशेषात् ॥ १० ॥
अस्ति मुग्धो नाम, यं मूर्छित इति लौकिकाः कथयन्ति । स तु किमवस्थ इति परीक्षायाम् , उच्यते — तिस्रस्तावदवस्थाः शरीरस्थस्य जीवस्य प्रसिद्धाः — जागरितं स्वप्नः सुषुप्तमिति । चतुर्थी शरीरादपसृप्तिः । न तु पञ्चमी काचिदवस्था जीवस्य श्रुतौ स्मृतौ वा प्रसिद्धा अस्ति । तस्माच्चतसृणामेवावस्थानामन्यतमावस्था मूर्छा — इति ॥
एवं प्राप्ते, ब्रूमः — न तावन्मुग्धो जागरितावस्थो भवितुमर्हति । न ह्ययमिन्द्रियैर्विषयानीक्षते । स्यादेतत् — इषुकारन्यायेन मुग्धो भविष्यति — यथा इषुकारो जाग्रदपि इष्वासक्तमनस्तया नान्यान्विषयानीक्षते, एवं मुग्धो मुसलसम्पातादिजनितदुःखानुभवव्यग्रमनस्तया जाग्रदपि नान्यान्विषयानीक्षत इति; न, अचेतयमानत्वात् । इषुकारो हि व्यापृतमना ब्रवीति — इषुमेवाहमेतावन्तं कालमुपलभमानोऽभूवमिति, मुग्धस्तु लब्धसंज्ञो ब्रवीति — अन्धे तमस्यहमेतावन्तं कालं प्रक्षिप्तोऽभूवम् , न किञ्चिन्मया चेतितमिति । जाग्रतश्चैकविषयविषक्तचेतसोऽपि देहो विध्रियते । मुग्धस्य तु देहो धरण्यां पतति । तस्मात् न जागर्ति । नापि स्वप्नान्पश्यति, निःसंज्ञत्वात् । नापि मृतः, प्राणोष्मणोर्भावात् — मुग्धे हि जन्तौ मृतोऽयं स्यान्न वा मृत इति संशयानाः, ऊष्मास्ति नास्तीति हृदयदेशमालभन्ते निश्चयार्थम् , प्राणोऽस्ति नास्तीति च नासिकादेशम् । यदि प्राणोष्मणोरस्तित्वं नावगच्छन्ति, ततो मृतोऽयमित्यध्यवसाय दहनायारण्यं नयन्ति । अथ तु प्राणमूष्माणं वा प्रतिपद्यन्ते, ततो नायं मृत इत्यध्यवसाय संज्ञालाभाय भिषज्यन्ति । पुनरुत्थानाच्च न दिष्टं गतः । न हि यमराष्ट्रात्प्रत्यागच्छति । अस्तु तर्हि सुषुप्तः, निःसंज्ञत्वात् , अमृतत्वाच्च; न, वैलक्षण्यात् — मुग्धः कदाचिच्चिरमपि नोच्छ्वसिति, सवेपथुरस्य देहो भवति, भयानकं च वदनम् , विस्फारिते नेत्रे । सुषुप्तस्तु प्रसन्नवदनस्तुल्यकालं पुनः पुनरुच्छ्वसिति, निमीलिते अस्य नेत्रे भवतः, न चास्य देहो वेपते । पाणिपेषणमात्रेण च सुषुप्तमुत्थापयन्ति, न तु मुग्धं मुद्गरघातेनापि । निमित्तभेदश्च भवति मोहस्वापयोः — मुसलसम्पातादिनिमित्तत्वान्मोहस्य, श्रमादिनिमित्तत्वाच्च स्वापस्य । न च लोकेऽस्ति प्रसिद्धिः — मुग्धः सुप्तः इति । परिशेषादर्धसम्पत्तिर्मुग्धतेत्यवगच्छामः — निःसंज्ञत्वात् सम्पन्नः, इतरस्माच्च वैलक्षण्यादसम्पन्नः इति ॥
कथं पुनरर्धसम्पत्तिर्मुग्धतेति शक्यते वक्तुम् ?
यावता सुषुप्तं प्रति तावदुक्तं श्रुत्या —
‘सता सोम्य तदा सम्पन्नो भवति’ (छा. उ. ६ । ८ । १) इति,
‘अत्र स्तेनोऽस्तेनो भवति’ (बृ. उ. ४ । ३ । २२) ‘नैतं सेतुमहोरात्रे तरतो न जरा न मृत्युर्न शोको न सुकृतं न दुष्कृतम्’ (छा. उ. ८ । ४ । १) इत्यादि ।
जीवे हि सुकृतदुष्कृतयोः प्राप्तिः सुखित्वदुःखित्वप्रत्ययोत्पादनेन भवति ।
न च सुखित्वप्रत्ययो दुःखित्वप्रत्ययो वा सुषुप्ते विद्यते ।
मुग्धेऽपि तौ प्रत्ययौ नैव विद्येते ।
तस्मात् उपाध्युपशमात् सुषुप्तवन्मुग्धेऽपि कृत्स्नसम्पत्तिरेव भवितुमर्हति,
नार्धसम्पत्तिरिति ।
अत्रोच्यते —
न ब्रूमः —
मुग्धेऽर्धसम्पत्तिर्जीवस्य ब्रह्मणा भवतीति ।
किं तर्हि ?
अर्धेन सुषुप्तपक्षस्य भवति मुग्धत्वम् ,
अर्धेनावस्थान्तरपक्षस्य —
इति ब्रूमः ।
दर्शिते च मोहस्य स्वापेन साम्यवैषम्ये ।
द्वारं चैतत् मरणस्य ।
यदास्य सावशेषं कर्म भवति,
तदा वाङ्मनसे प्रत्यागच्छतः ।
यदा तु निरवशेषं कर्म भवति,
तदा प्राणोष्माणावपगच्छतः ।
तस्मादर्धसम्पत्तिं ब्रह्मविद इच्छन्ति ।
यत्तूक्तम् —
न पञ्चमी काचिदवस्था प्रसिद्धास्तीति,
नैष दोषः;
कादाचित्कीयमवस्थेति न प्रसिद्धा स्यात् ।
प्रसिद्धा चैषा लोकायुर्वेदयोः ।
अर्धसम्पत्त्यभ्युपगमाच्च न पञ्चमी गण्यत इत्यनवद्यम् ॥ १० ॥
न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि ॥ ११ ॥
येन ब्रह्मणा सुषुप्त्यादिषु जीव उपाध्युपशमात्सम्पद्यते,
तस्येदानीं स्वरूपं श्रुतिवशेन निर्धार्यते ।
सन्त्युभयलिङ्गाः श्रुतयो ब्रह्मविषयाः —
‘सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः’ (छा. उ. ३ । १४ । २) इत्येवमाद्याः सविशेषलिङ्गाः;
‘अस्थूलमनण्वह्रस्वमदीर्घम्’ (बृ. उ. ३ । ८ । ८) इत्येवमाद्याश्च निर्विशेषलिङ्गाः ।
किमासु श्रुतिषु उभयलिङ्गं ब्रह्म प्रतिपत्तव्यम् ,
उतान्यतरलिङ्गम् ।
यदाप्यन्यतरलिङ्गम् ,
तदापि सविशेषम् ,
उत निर्विशेषम् —
इति मीमांस्यते ।
तत्र उभयलिङ्गश्रुत्यनुग्रहात् उभयलिङ्गमेव ब्रह्म इत्येवं प्राप्ते ब्रूमः —
न तावत्स्वत एव परस्य ब्रह्मण उभयलिङ्गत्वमुपपद्यते ।
न हि एकं वस्तु स्वत एव रूपादिविशेषोपेतं तद्विपरीतं च इत्यवधारयितुं शक्यम् ,
विरोधात् ।
अस्तु तर्हि स्थानतः,
पृथिव्याद्युपाधियोगादिति ।
तदपि नोपपद्यते —
न हि उपाधियोगादप्यन्यादृशस्य वस्तुनोऽन्यादृशः स्वभावः सम्भवति ।
न हि स्वच्छः सन् स्फटिकः अलक्तकाद्युपाधियोगादस्वच्छो भवति,
भ्रममात्रत्वादस्वच्छताभिनिवेशस्य ।
उपाधीनां च अविद्याप्रत्युपस्थापितत्वात् ।
अतश्च अन्यतरलिङ्गपरिग्रहेऽपि समस्तविशेषरहितं निर्विकल्पकमेव ब्रह्म प्रतिपत्तव्यम् ,
न तद्विपरीतम् ।
सर्वत्र हि ब्रह्मस्वरूपप्रतिपादनपरेषु वाक्येषु ‘अशब्दमस्पर्शमरूपमव्ययम्’ (क. उ. १ । ३ । १५),
(मुक्ति. उ. २ । १२) इत्येवमादिषु अपास्तसमस्तविशेषमेव ब्रह्म उपदिश्यते ॥ ११ ॥
न भेदादिति चेन्न प्रत्येकमतद्वचनात् ॥ १२ ॥
अथापि स्यात् —
यदुक्तम् ,
निर्विकल्पमेकलिङ्गमेव ब्रह्म नास्य स्वतः स्थानतो वा उभयलिङ्गत्वमस्तीति,
तन्नोपपद्यते ।
कस्मात् ?
भेदात् ।
भिन्ना हि प्रतिविद्यं ब्रह्मण आकारा उपदिश्यन्ते,
चतुष्पात् ब्रह्म,
षोडशकलं ब्रह्म,
वामनीत्वादिलक्षणं ब्रह्म,
त्रैलोक्यशरीरवैश्वानरशब्दोदितं ब्रह्म,
इत्येवंजातीयकाः ।
तस्मात् सविशेषत्वमपि ब्रह्मणोऽभ्युपगन्तव्यम् ।
ननु उक्तं नोभयलिङ्गत्वं ब्रह्मणः सम्भवतीति;
अयमप्यविरोधः,
उपाधिकृतत्वादाकारभेदस्य ।
अन्यथा हि निर्विषयमेव भेदशास्त्रं प्रसज्येत —
इति चेत् ,
नेति ब्रूमः ।
कस्मात् ?
प्रत्येकमतद्वचनात् ।
प्रत्युपाधिभेदं हि अभेदमेव ब्रह्मणः श्रावयति शास्त्रम् —
‘यश्चायमस्यां पृथिव्यां तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मꣳ शारीरस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मा’ (बृ. उ. २ । ५ । १) इत्यादि ।
अतश्च न भिन्नाकारयोगो ब्रह्मणः शास्त्रीय इति शक्यते वक्तुम् ,
भेदस्य उपासनार्थत्वात् ,
अभेदे तात्पर्यात् ॥ १२ ॥
कथं पुनः आकारवदुपदेशिनीषु अनाकारोपदेशिनीषु च ब्रह्मविषयासु श्रुतिषु सतीषु, अनाकारमेव ब्रह्म अवधार्यते, न पुनर्विपरीतम् इत्यत उत्तरं पठति —
अरूपवदेव हि तत्प्रधानत्वात् ॥ १४ ॥
का तर्ह्याकारवद्विषयाणां श्रुतीनां गतिः इत्यत आह —
प्रकाशवच्चावैयर्थ्यात् ॥ १५ ॥
यथा प्रकाशः सौरश्चान्द्रमसो वा वियद्व्याप्य अवतिष्ठमानः अङ्गुल्याद्युपाधिसम्बन्धात् तेषु ऋजुवक्रादिभावं प्रतिपद्यमानेषु तद्भावमिव प्रतिपद्यते, एवं ब्रह्मापि पृथिव्याद्युपाधिसम्बन्धात् तदाकारतामिव प्रतिपद्यते । तदालम्बनो ब्रह्मण आकारविशेषोपदेश उपासनार्थो न विरुध्यते । एवम् अवैयर्थ्यम् आकारवद्ब्रह्मविषयाणामपि वाक्यानां भविष्यति । न हि वेदवाक्यानां कस्यचिदर्थवत्त्वम् कस्यचिदनर्थवत्त्वमिति युक्तं प्रतिपत्तुम् , प्रमाणत्वाविशेषात् । नन्वेवमपि यत्पुरस्तात्प्रतिज्ञातम् — नोपाधियोगादप्युभयलिङ्गत्वं ब्रह्मणोऽस्तीति, तद्विरुध्यते; नेति ब्रूमः — उपाधिनिमित्तस्य वस्तुधर्मत्वानुपपत्तेः । उपाधीनां च अविद्याप्रत्युपस्थापितत्वात् । सत्यामेव च नैसर्गिक्यामविद्यायां लोकवेदव्यवहारावतार इति तत्र तत्र अवोचाम ॥ १५ ॥
दर्शयति चाथो अपि स्मर्यते ॥ १७ ॥
अत एव चोपमा सूर्यकादिवत् ॥ १८ ॥
यत एव च अयमात्मा चैतन्यरूपो निर्विशेषो वाङ्मनसातीतः परप्रतिषेधोपदेश्यः, अत एव च अस्योपाधिनिमित्तामपारमार्थिकीं विशेषवत्तामभिप्रेत्य जलसूर्यकादिवदित्युपमा उपादीयते मोक्षशास्त्रेषु — ‘यथा ह्ययं ज्योतिरात्मा विवस्वानपो भिन्ना बहुधैकोऽनुगच्छन् । उपाधिना क्रियते भेदरूपो देवः क्षेत्रेष्वेवमजोऽयमात्मा’ इति, ‘एक एव हि भूतात्मा भूते भूते व्यवस्थितः । एकधा बहुधा चैव दृश्यते जलचन्द्रवत्’ (ब्र. बिं. १२) इति चैवमादिषु ॥ १८ ॥
अत्र प्रत्यवस्थीयते —
अम्बुवदग्रहणात्तु न तथात्वम् ॥ १९ ॥
न जलसूर्यकादितुल्यत्वमिहोपपद्यते, तद्वदग्रहणात् । सूर्यादिभ्यो हि मूर्तेभ्यः पृथग्भूतं विप्रकृष्टदेशं मूर्तं जलं गृह्यते । तत्र युक्तः सूर्यादिप्रतिबिम्बोदयः । न तु आत्मा मूर्तः, न चास्मात्पृथग्भूता विप्रकृष्टदेशाश्चोपाधयः, सर्वगतत्वात् सर्वानन्यत्वाच्च । तस्मादयुक्तोऽयं दृष्टान्त इति ॥ १९ ॥
अत्र प्रतिविधीयते —
वृद्धिह्रासभाक्त्वमन्तर्भावादुभयसामञ्जस्यादेवम् ॥ २० ॥
युक्त एव तु अयं दृष्टान्तः, विवक्षितांशसम्भवात् । न हि दृष्टान्तदार्ष्टान्तिकयोः क्वचित् कञ्चित् विवक्षितमंशं मुक्त्वा सर्वसारूप्यं केनचित् दर्शयितुं शक्यते । सर्वसारूप्ये हि दृष्टान्तदार्ष्टान्तिकभावोच्छेद एव स्यात् । न चेदं स्वमनीषया जलसूर्यकादिदृष्टान्तप्रणयनम् । शास्त्रप्रणीतस्य तु अस्य प्रयोजनमात्रमुपन्यस्यते । किं पुनरत्र विवक्षितं सारूप्यमिति, तदुच्यते — वृद्धिह्रासभाक्त्वमिति । जलगतं हि सूर्यप्रतिबिम्बं जलवृद्धौ वर्धते, जलह्रासे ह्रसति, जलचलने चलति, जलभेदे भिद्यते — इत्येवं जलधर्मानुविधायि भवति, न तु परमार्थतः सूर्यस्य तथात्वमस्ति । एवं परमार्थतोऽविकृतमेकरूपमपि सत् ब्रह्म देहाद्युपाध्यन्तर्भावात् भजत इवोपाधिधर्मान्वृद्धिह्रासादीन् । एवमुभयोर्दृष्टान्तदार्ष्टान्तिकयोः सामञ्जस्यादविरोधः ॥ २० ॥
दर्शनाच्च ॥ २१ ॥
अत्र केचित् द्वे अधिकरणे कल्पयन्ति —
प्रथमं तावत् किं प्रत्यस्तमिताशेषप्रपञ्चमेकाकारं ब्रह्म,
उत प्रपञ्चवदनेकाकारोपेतमिति ।
द्वितीयं तु स्थिते प्रत्यस्तमितप्रपञ्चत्वे किं सल्लक्षणं ब्रह्म,
उत बोधलक्षणम् ,
उत उभयलक्षणमिति ।
अत्र वयं वदामः —
सर्वथाप्यानर्थक्यमधिकरणान्तरारम्भस्येति ।
यदि तावदनेकलिङ्गत्वं परस्य ब्रह्मणो निराकर्तव्यमित्ययं प्रयासः,
तत् पूर्वेणैव ‘
न स्थानतोऽपि’
इत्यनेनाधिकरणेन निराकृतमिति,
उत्तरमधिकरणम् ‘
प्रकाशवच्च’
इत्येतद्व्यर्थमेव भवेत् ।
न च सल्लक्षणमेव ब्रह्म न बोधलक्षणम् —
इति शक्यं वक्तुम् , ‘
विज्ञानघन एव’
इत्यादिश्रुतिवैयर्थ्यप्रसङ्गात् ।
कथं वा निरस्तचैतन्यं ब्रह्म चेतनस्य जीवस्यात्मत्वेनोपदिश्येत ।
नापि बोधलक्षणमेव ब्रह्म न सल्लक्षणम् —
इति शक्यं वक्तुम् ,
‘अस्तीत्येवोपलब्धव्यः’ (क. उ. २ । ३ । १३) इत्यादिश्रुतिवैयर्थ्यप्रसङ्गात् ।
कथं वा निरस्तसत्ताको बोधोऽभ्युपगम्येत ।
नाप्युभयलक्षणमेव ब्रह्म —
इति शक्यं वक्तुम् ,
पूर्वाभ्युपगमविरोधप्रसङ्गात् ।
सत्ताव्यावृत्तेन च बोधेन बोधव्यावृत्तया च सत्तया उपेतं ब्रह्म प्रतिजानानस्य तदेव पूर्वाधिकरणप्रतिषिद्धं सप्रपञ्चत्वं प्रसज्येत ।
श्रुतत्वाददोष इति चेत् ,
न,
एकस्य अनेकस्वभावत्वानुपपत्तेः ।
अथ सत्तैव बोधः,
बोध एव च सत्ता,
नानयोः परस्परव्यावृत्तिरस्तीति यद्युच्येत,
तथापि किं सल्लक्षणं ब्रह्म,
उत बोधलक्षणम् ,
उतोभयलक्षणम् —
इत्ययं विकल्पो निरालम्बन एव स्यात् ।
सूत्राणि त्वेकाधिकरणत्वेनैवास्माभिर्नीतानि ।
अपि च ब्रह्मविषयासु श्रुतिषु आकारवदनाकारप्रतिपादनेन विप्रतिपन्नासु,
अनाकारे ब्रह्मणि परिगृहीते,
अवश्यं वक्तव्या इतरासां श्रुतीनां गतिः ।
तादर्थ्येन ‘
प्रकाशवच्च’
इत्यादीनि सूत्राण्यर्थवत्तराणि सम्पद्यन्ते ॥
कथं च एषामेकवाक्यतोत्प्रेक्ष्यत इति वक्तव्यम् ।
एकनियोगप्रतीतेः,
प्रयाजदर्शपूर्णमासवाक्यवदिति चेत् ,
न,
ब्रह्मवाक्येषु नियोगाभावात् —
वस्तुमात्रपर्यवसायीनि हि ब्रह्मवाक्यानि,
न नियोगोपदेशीनि इत्येतद्विस्तरेण प्रतिष्ठापितम् ‘तत्तु समन्वयात्’ (ब्र. सू. १ । १ । ४) इत्यत्र ।
किंविषयश्चात्र नियोगोऽभिप्रेयत इति वक्तव्यम् ।
पुरुषो हि नियुज्यमानः ‘
कुरु’
इति स्वव्यापारे कस्मिंश्चिन्नियुज्यते ।
ननु द्वैतप्रपञ्चप्रविलयो नियोगविषयो भविष्यति —
अप्रविलापिते हि द्वैतप्रपञ्चे ब्रह्मतत्त्वावबोधो न भवत्यतो ब्रह्मतत्त्वावबोधप्रत्यनीकभूतो द्वैतप्रपञ्चः प्रविलाप्यः —
यथा स्वर्गकामस्य यागोऽनुष्ठातव्य उपदिश्यते,
एवमपवर्गकामस्य प्रपञ्चप्रविलयः;
यथा च तमसि व्यवस्थितं घटादितत्त्वमवबुभुत्समानेन तत्प्रत्यनीकभूतं तमः प्रविलाप्यते,
एवं ब्रह्मतत्त्वमवबुभुत्समानेन तत्प्रत्यनीकभूतः प्रपञ्चः प्रविलापयितव्यः —
ब्रह्मस्वभावो हि प्रपञ्चः,
न प्रपञ्चस्वभावं ब्रह्म;
तेन नामरूपप्रपञ्चप्रविलापनेन ब्रह्मतत्त्वावबोधो भवति —
इति ।
अत्र वयं पृच्छामः —
कोऽयं प्रपञ्चप्रविलयो नाम ?
किमग्निप्रतापसम्पर्कात् घृतकाठिन्यप्रविलय इव प्रपञ्चप्रविलयः कर्तव्यः,
आहोस्विदेकस्मिंश्चन्द्रे तिमिरकृतानेकचन्द्रप्रपञ्चवत् अविद्याकृतो ब्रह्मणि नामरूपप्रपञ्चो विद्यया प्रविलापयितव्यः —
इति ।
तत्र यदि तावद्विद्यमानोऽयं प्रपञ्चः देहादिलक्षण आध्यात्मिकः बाह्यश्च पृथिव्यादिलक्षणः प्रविलापयितव्य इत्युच्यते,
स पुरुषमात्रेणाशक्यः प्रविलापयितुमिति तत्प्रविलयोपदेशोऽशक्यविषय एव स्यात् ।
एकेन च आदिमुक्तेन पृथिव्यादिप्रविलयः कृत इति इदानीं पृथिव्यादिशून्यं जगदभविष्यत् ।
अथ अविद्याध्यस्तो ब्रह्मण्येकस्मिन् अयं प्रपञ्चो विद्यया प्रविलाप्यत इति ब्रूयात् ,
ततो ब्रह्मैव अविद्याध्यस्तप्रपञ्चप्रत्याख्यानेन आवेदयितव्यम् — ‘
एकमेवाद्वितीयं ब्रह्म’
‘तत्सत्यꣳ स आत्मा तत्त्वमसि’ (छा. उ. ६ । ८ । ७) इति —
तस्मिन्नावेदिते,
विद्या स्वयमेवोत्पद्यते,
तया च अविद्या बाध्यते,
ततश्च अविद्याध्यस्तः सकलोऽयं नामरूपप्रपञ्चः स्वप्नप्रपञ्चवत् प्रविलीयते —
अनावेदिते तु ब्रह्मणि ‘
ब्रह्मविज्ञानं कुरु प्रपञ्चप्रविलयं च’
इति शतकृत्वोऽप्युक्ते न ब्रह्मविज्ञानं प्रपञ्चप्रविलयो वा जायते ।
नन्वावेदिते ब्रह्मणि तद्विज्ञानविषयः प्रपञ्चविलयविषयो वा नियोगः स्यात्;
न,
निष्प्रपञ्चब्रह्मात्मत्वावेदनेनैव उभयसिद्धेः —
रज्जुस्वरूपप्रकाशनेनैव हि तत्स्वरूपविज्ञानम् अविद्याध्यस्तसर्पादिप्रपञ्चप्रविलयश्च भवति ।
न च कृतमेव पुनः क्रियते ॥
नियोज्योऽपि च प्रपञ्चावस्थायां योऽवगम्यते जीवो नाम, स प्रपञ्चपक्षस्यैव वा स्यात् , ब्रह्मपक्षस्यैव वा । प्रथमे विकल्पे निष्प्रपञ्चब्रह्मतत्त्वप्रतिपादनेन पृथिव्यादिवत् जीवस्यापि प्रविलापितत्वात् कस्य प्रपञ्चप्रविलये नियोग उच्येत कस्य वा नियोगनिष्ठतया मोक्षोऽवाप्तव्य उच्येत ? द्वितीयेऽपि ब्रह्मैव अनियोज्यस्वभावं जीवस्य स्वरूपम् , जीवत्वं तु अविद्याकृतमेव — इति प्रतिपादिते ब्रह्मणि नियोज्याभावात् नियोगाभाव एव । द्रष्टव्यादिशब्दा अपि परविद्याधिकारपठिताः तत्त्वाभिमुखीकरणप्रधानाः, न तत्त्वावबोधविधिप्रधाना भवन्ति । लोकेऽपि — इदं पश्य, इदमाकर्णयेति च एवंजातीयकेषु निर्देशेषु प्रणिधानमात्रं कुर्वित्युच्यते, न साक्षाज्ज्ञानमेव कुर्विति । ज्ञेयाभिमुखस्यापि ज्ञानं कदाचिज्जायते, कदाचिन्न जायते । तस्मात् तं प्रति ज्ञानविषय एव दर्शयितव्यो ज्ञापयितुकामेन । तस्मिन्दर्शिते स्वयमेव यथाविषयं यथाप्रमाणं च ज्ञानमुत्पद्यते । न च प्रमाणान्तरेण अन्यथाप्रसिद्धेऽर्थे अन्यथाज्ञानं नियुक्तस्याप्युपपद्यते । यदि पुनर्नियुक्तोऽहमिति अन्यथा ज्ञानं कुर्यात् , न तु तत् ज्ञानम् — किं तर्हि ? — मानसी सा क्रिया । स्वयमेव चेदन्यथोत्पद्येत, भ्रान्तिरेव स्यात् । ज्ञानं तु प्रमाणजन्यं यथाभूतविषयं च । न तत् नियोगशतेनापि कारयितुं शक्यते, न च प्रतिषेधशतेनापि वारयितुं शक्यते । न हि तत् पुरुषतन्त्रम् , वस्तुतन्त्रमेव हि तत् । अतोऽपि नियोगाभावः । किञ्चान्यत् — नियोगनिष्ठतयैव पर्यवस्यत्याम्नाये, यदभ्युपगतम् अनियोज्यब्रह्मात्मत्वं जीवस्य, तत् अप्रमाणकमेव स्यात् । अथ शास्त्रमेव अनियोज्यब्रह्मात्मत्वमप्याचक्षीत, तदवबोधे च पुरुषं नियुञ्जीत, ततो ब्रह्मशास्त्रस्यैकस्य द्व्यर्थपरता विरुद्धार्थपरता च प्रसज्येयाताम् । नियोगपरतायां च, श्रुतहानिः अश्रुतकल्पना कर्मफलवन्मोक्षस्यादृष्टफलत्वम् अनित्यत्वं च — इत्येवमादयो दोषा न केनचित्परिहर्तुं शक्याः । तस्मादवगतिनिष्ठान्येव ब्रह्मवाक्यानि, न नियोगनिष्ठानि । अतश्च एकनियोगप्रतीतेरेकवाक्यतेत्ययुक्तम् ॥
अभ्युपगम्यमानेऽपि च ब्रह्मवाक्येषु नियोगसद्भावे, तदेकत्वं निष्प्रपञ्चोपदेशेषु सप्रपञ्चोपदेशेषु च असिद्धम् । न हि शब्दान्तरादिभिः प्रमाणैर्नियोगभेदेऽवगम्यमाने, सर्वत्र एको नियोग इति शक्यमाश्रयितुम् । प्रयाजदर्शपूर्णमासवाक्येषु तु अधिकारांशेनाभेदात् युक्तमेकत्वम् । न त्विह सगुणनिर्गुणचोदनासु कश्चिदेकत्वाधिकारांशोऽस्ति । न हि भारूपत्वादयो गुणाः प्रपञ्चप्रविलयोपकारिणः, नापि प्रपञ्चप्रविलयो भारूपत्वादिगुणोपकारी, परस्परविरोधित्वात् । न हि कृत्स्नप्रपञ्चप्रविलापनं प्रपञ्चैकदेशापेक्षणं च एकस्मिन्धर्मिणि युक्तं समावेशयितुम् । तस्मात् अस्मदुक्त एव विभागः आकारवदनाकारोपदेशानां युक्ततर इति ॥ २१ ॥
प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूयः ॥ २२ ॥
‘द्वे वाव ब्रह्मणो रूपे मूर्तं चैवामूर्तं च’ (बृ. उ. २ । ३ । १) इत्युपक्रम्य,
पञ्चमहाभूतानि द्वैराश्येन प्रविभज्य,
अमूर्तरसस्य च पुरुषशब्दोदितस्य माहारजनादीनि रूपाणि दर्शयित्वा,
पुनः पठ्यते —
‘अथात आदेशो नेति नेति न ह्येतस्मादिति नेत्यन्यत्परमस्ति’ (बृ. उ. २ । ३ । ६) इति ।
तत्र कोऽस्य प्रतिषेधस्य विषय इति जिज्ञासामहे ।
न ह्यत्र इदं तदिति विशेषितं किञ्चित्प्रतिषेध्यमुपलभ्यते ।
इतिशब्देन तु अत्र प्रतिषेध्यं किमपि समर्प्यते, ‘
नेति नेति’
इति इतिपरत्वात् नञ्प्रयोगस्य ।
इतिशब्दश्चायं सन्निहितालम्बनः एवंशब्दसमानवृत्तिः प्रयुज्यमानो दृश्यते — ‘
इति ह स्मोपाध्यायः कथयति’
इत्येवमादिषु ।
सन्निहितं चात्र प्रकरणसामर्थ्याद्रूपद्वयं सप्रपञ्चं ब्रह्मणः,
तच्च ब्रह्म,
यस्य ते द्वे रूपे ।
तत्र नः संशय उपजायते —
किमयं प्रतिषेधो रूपे रूपवच्च उभयमपि प्रतिषेधति,
आहोस्विदेकतरम् ।
यदाप्येकतरम् ,
तदापि किं ब्रह्म प्रतिषेधति,
रूपे परिशिनष्टि,
आहोस्विद्रूपे प्रतिषेधति,
ब्रह्म परिशिनष्टि —
इति ॥
तत्र प्रकृतत्वाविशेषादुभयमपि प्रतिषेधतीत्याशङ्कामहे — द्वौ चैतौ प्रतिषेधौ, द्विः नेतिशब्दप्रयोगात् । तयोरेकेन सप्रपञ्चं ब्रह्मणो रूपं प्रतिषिध्यते, अपरेण रूपवद्ब्रह्म — इति भवति मतिः । अथवा ब्रह्मैव रूपवत् प्रतिषिध्यते । तद्धि वाङ्मनसातीतत्वादसम्भाव्यमानसद्भावं प्रतिषेधार्हम् । न तु रूपप्रपञ्चः प्रत्यक्षादिगोचरत्वात् प्रतिषेधार्हः । अभ्यासस्त्वादरार्थः इत्येवं प्राप्ते ब्रूमः —
तदेतदुच्यते —
प्रकृतैतावत्त्वं हि प्रतिषेधतीति ।
प्रकृतं यदेतावत् इयत्तापरिच्छिन्नं मूर्तामूर्तलक्षणं ब्रह्मणो रूपं तदेष शब्दः प्रतिषेधति ।
तद्धि प्रकृतं प्रपञ्चितं च पूर्वस्मिन्ग्रन्थे अधिदैवतमध्यात्मं च ।
तज्जनितमेव च वासनालक्षणमपरं रूपम् अमूर्तरसभूतं पुरुषशब्दोदितं लिङ्गात्मव्यपाश्रयं माहारजनाद्युपमाभिर्दर्शितम् —
अमूर्तरसस्य पुरुषस्य चक्षुर्ग्राह्यरूपयोगित्वानुपपत्तेः ।
तदेतत् सप्रपञ्चं ब्रह्मणो रूपं सन्निहितालम्बनेन इतिकरणेन प्रतिषेधकं नञं प्रति उपनीयत इति गम्यते ।
ब्रह्म तु रूपविशेषणत्वेन षष्ठ्या निर्दिष्टं पूर्वस्मिन्ग्रन्थे,
न स्वप्रधानत्वेन ।
प्रपञ्चिते च तदीये रूपद्वये रूपवतः स्वरूपजिज्ञासायाम् इदमुपक्रान्तम् —
‘अथात आदेशो नेति नेति’ (बृ. उ. २ । ३ । ६) इति ।
तत्र कल्पितरूपप्रत्याख्यानेन ब्रह्मणः स्वरूपावेदनमिदमिति निर्णीयते ।
तदास्पदं हि इदं समस्तं कार्यम् ‘
नेति नेति’
इति प्रतिषिद्धम् ।
युक्तं च कार्यस्य वाचारम्भणशब्दादिभ्योऽसत्त्वमिति नेति नेतीति प्रतिषेधनम् ।
न तु ब्रह्मणः,
सर्वकल्पनामूलत्वात् ।
न च अत्र इयमाशङ्का कर्तव्या —
कथं हि शास्त्रं स्वयमेव ब्रह्मणो रूपद्वयं दर्शयित्वा,
स्वयमेव पुनः प्रतिषेधति — ‘
प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम्’
इति —
यतः नेदं शास्त्रं प्रतिपाद्यत्वेन ब्रह्मणो रूपद्वयं निर्दिशति,
लोकप्रसिद्धं तु इदं रूपद्वयं ब्रह्मणि कल्पितं परामृशति प्रतिषेध्यत्वाय शुद्धब्रह्मस्वरूपप्रतिपादनाय च —
इति निरवद्यम् ।
द्वौ च एतौ प्रतिषेधौ यथासंख्यन्यायेन द्वे अपि मूर्तामूर्ते प्रतिषेधतः ।
यद्वा पूर्वः प्रतिषेधो भूतराशिं प्रतिषेधति,
उत्तरो वासनाराशिम् ।
अथवा ‘नेति नेति’ (बृ. उ. २ । ३ । ६) इति वीप्सा इयम् — ‘
इति’
इति यावत्किञ्चित् उत्प्रेक्ष्यते,
तत्सर्वं न भवतीत्यर्थः —
परिगणितप्रतिषेधे हि क्रियमाणे,
यदि नैतद्ब्रह्म,
किमन्यद्ब्रह्म भवेदिति जिज्ञासा स्यात् ।
वीप्सायां तु सत्यां समस्तस्य विषयजातस्य प्रतिषेधात् अविषयः प्रत्यगात्मा ब्रह्मेति,
जिज्ञासा निवर्तते ।
तस्मात् प्रपञ्चमेव ब्रह्मणि कल्पितं प्रतिषेधति,
परिशिनष्टि ब्रह्म —
इति निर्णयः ॥
इतश्च एष एव निर्णयः,
यतः —
ततः प्रतिषेधात् ,
भूयो ब्रह्म ब्रवीति —
‘अन्यत्परमस्ति’ (बृ. उ. २ । ३ । ६) इति ।
अभावावसाने हि प्रतिषेधे क्रियमाणे किमन्यत्परमस्तीति ब्रूयात् ।
तत्रैषा अक्षरयोजना — ‘
नेति नेति’
इति ब्रह्म आदिश्य,
तमेव आदेशं पुनर्निर्वक्ति । ‘
नेति नेति’
इत्यस्य कोऽर्थः ?
न हि एतस्माद्ब्रह्मणो व्यतिरिक्तमस्तीत्यतः ‘
नेति नेति’
इत्युच्यते,
न पुनः स्वयमेव नास्ति —
इत्यर्थः ।
तच्च दर्शयति —
अन्यत्परम् अप्रतिषिद्धं ब्रह्म अस्तीति ।
यदा पुनरेवमक्षराणि योज्यन्ते —
न हि,
एतस्मात् ‘
इति न’ ‘
इति न’
इति प्रपञ्चप्रतिषेधरूपात् आदेशनात् ,
अन्यत्परमादेशनं ब्रह्मणः अस्तीति —
तदा, ‘
ततो ब्रवीति च भूयः’
इत्येतत् नामधेयविषयं योजयितव्यम् —
‘अथ नामधेयं सत्यस्य सत्यमिति प्राणा वै सत्यं तेषामेष सत्यम्’ (बृ. उ. २ । १ । २०) इति हि ब्रवीति —
इति ।
तच्च ब्रह्मावसाने प्रतिषेधे समञ्जसं भवति ।
अभावावसाने तु प्रतिषेधे,
किम् ‘
सत्यस्य सत्यम्’
इत्युच्येत ?
तस्माद्ब्रह्मावसानः अयं प्रतिषेधः,
नाभावावसानः —
इत्यध्यवस्यामः ॥ २२ ॥
अपि च संराधने प्रत्यक्षानुमानाभ्याम् ॥ २४ ॥
ननु संराध्यसंराधकभावाभ्युपगमात्परेतरात्मनोरन्यत्वं स्यादिति; नेत्युच्यते —
प्रकाशादिवच्चावैशेष्यं प्रकाशश्च कर्मण्यभ्यासात् ॥ २५ ॥
यथा प्रकाशाकाशसवितृप्रभृतयः अङ्गुलिकरकोदकप्रभृतिषु कर्मसु उपाधिभूतेषु सविशेषा इवावभासन्ते, न च स्वाभाविकीमविशेषात्मतां जहति; एवमुपाधिनिमित्त एवायमात्मभेदः, स्वतस्तु ऐकात्म्यमेव । तथा हि वेदान्तेषु अभ्यासेन असकृत् जीवप्राज्ञयोरभेदः प्रतिपाद्यते ॥ २५ ॥
अतोऽनन्तेन तथा हि लिङ्गम् ॥ २६ ॥
उभयव्यपदेशात्त्वहिकुण्डलवत् ॥ २७ ॥
प्रकाशाश्रयवद्वा तेजस्त्वात् ॥ २८ ॥
अथवा प्रकाशाश्रयवदेतत्प्रतिपत्तव्यम् — यथा प्रकाशः सावित्रः तदाश्रयश्च सविता नात्यन्तभिन्नौ, उभयोरपि तेजस्त्वाविशेषात्; अथ च भेदव्यपदेशभाजौ भवतः — एवमिहापीति ॥ २८ ॥
पूर्ववद्वा ॥ २९ ॥
यथा वा पूर्वमुपन्यस्तम् — ‘प्रकाशादिवच्चावैशेष्यम्’ इति, तथैव एतद्भवितुमर्हति । तथा हि अविद्याकृतत्वाद्बन्धस्य विद्यया मोक्ष उपपद्यते । यदि पुनः परमार्थत एव बद्धः कश्चिदात्मा अहिकुण्डलन्यायेन परस्य आत्मनः संस्थानभूतः, प्रकाशाश्रयन्यायेन च एकदेशभूतोऽभ्युपगम्येत । ततः पारमार्थिकस्य बन्धस्य तिरस्कर्तुमशक्यत्वात् मोक्षशास्त्रवैयर्थ्यं प्रसज्येत । न चात्र उभावपि भेदाभेदौ श्रुतिः तुल्यवद्व्यपदिशति । अभेदमेव हि प्रतिपाद्यत्वेन निर्दिशति, भेदं तु पूर्वप्रसिद्धमेवानुवदति अर्थान्तरविवक्षया । तस्मात्प्रकाशादिवच्चावैशेष्यमित्येष एव सिद्धान्तः ॥ २९ ॥
यदेतत् निरस्तसमस्तप्रपञ्चं ब्रह्म निर्धारितम् , अस्मात्परम् अन्यत्तत्त्वमस्ति नास्तीति श्रुतिविप्रतिपत्तेः संशयः । कानिचिद्धि वाक्यानि आपातेनैव प्रतिभासमानानि ब्रह्मणोऽपि परम् अन्यत्तत्त्वं प्रतिपादयन्तीव । तेषां हि परिहारमभिधातुमयमुपक्रमः क्रियते —
परमतः सेतून्मानसम्बन्धभेदव्यपदेशेभ्यः ॥ ३१ ॥
एवं प्राप्ते, प्रतिपाद्यते —
सामान्यात्तु ॥ ३२ ॥
तुशब्देन प्रदर्शितां प्राप्तिं निरुणद्धि ।
न ब्रह्मणोऽन्यत् किञ्चिद्भवितुमर्हति,
प्रमाणाभावात् —
न ह्यन्यस्यास्तित्वे किञ्चित्प्रमाणमुपलभामहे ।
सर्वस्य हि जनिमतो वस्तुजातस्य जन्मादि ब्रह्मणो भवतीति निर्धारितम् ,
अनन्यत्वं च कारणात् कार्यस्य ।
न च ब्रह्मव्यतिरिक्तं किञ्चित् अजं सम्भवति,
‘सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्’ (छा. उ. ६ । २ । १) इत्यवधारणात् ।
एकविज्ञानेन च सर्वविज्ञानप्रतिज्ञानात् न ब्रह्मव्यतिरिक्तवस्त्वस्तित्वमवकल्पते ।
ननु सेत्वादिव्यपदेशाः ब्रह्मव्यतिरिक्तं तत्त्वं सूचयन्तीत्युक्तम्;
नेत्युच्यते —
सेतुव्यपदेशस्तावत् न ब्रह्मणो बाह्यस्य सद्भावं प्रतिपादयितुं क्षमते ।
सेतुरात्मेति हि आह,
न ततः परमस्तीति ।
तत्र परस्मिन् असति सेतुत्वं नावकल्पत इति परं किमपि कल्प्येत ।
न चैतत् न्याय्यम् ।
हठो हि अप्रसिद्धकल्पना ।
अपि च सेतुव्यपदेशादात्मनो लौकिकसेतुनिदर्शनेन सेतुबाह्यवस्तुतां प्रसञ्जयता मृद्दारुमयतापि प्रासङ्क्ष्यत ।
न चैतन्न्याय्यम् ,
अजत्वादिश्रुतिविरोधात् ।
सेतुसामान्यात्तु सेतुशब्द आत्मनि प्रयुक्त इति श्लिष्यते ।
जगतस्तन्मर्यादानां च विधारकत्वं सेतुसामान्यमात्मनः ।
अतः सेतुरिव सेतुः —
इति प्रकृत आत्मा स्तूयते । ‘
सेतुं तीर्त्वा’
इत्यपि तरतिः अतिक्रमासम्भवात् प्राप्नोत्यर्थ एव वर्तते —
यथा व्याकरणं तीर्ण इति प्राप्तः उच्यते,
न अतिक्रान्तः,
तद्वत् ॥ ३२ ॥
बुद्ध्यर्थः पादवत् ॥ ३३ ॥
यदप्युक्तम् — उन्मानव्यपदेशादस्ति परमिति, तत्राभिधीयते — उन्मानव्यपदेशोऽपि न ब्रह्मव्यतिरिक्तवस्त्वस्तित्वप्रतिपत्त्यर्थः । किमर्थस्तर्हि ? बुद्ध्यर्थः, उपासनार्थ इति यावत् । चतुष्पादष्टाशफं षोडशकलमित्येवंरूपा — बुद्धिः कथं नु नाम ब्रह्मणि स्थिरा स्यादिति — विकारद्वारेण ब्रह्मण उन्मानकल्पनैव क्रियते । न हि अविकारेऽनन्ते ब्रह्मणि सर्वैः पुम्भिः शक्या बुद्धिः स्थापयितुम् , मन्दमध्यमोत्तमबुद्धित्वात् पुंसामिति । पादवत् — यथा मनआकाशयोरध्यात्ममधिदैवतं च ब्रह्मप्रतीकयोराम्नातयोः, चत्वारो वागादयो मनःसम्बन्धिनः पादाः कल्प्यन्ते, चत्वारश्च अग्न्यादय आकाशसम्बन्धिनः — आध्यानाय — तद्वत् । अथवा पादवदिति — यथा कार्षापणे पादविभागो व्यवहारप्राचुर्याय कल्प्यते — न हि सकलेनैव कार्षापणेन सर्वदा सर्वे जना व्यवहर्तुमीशते, क्रयविक्रये परिमाणानियमात् — तद्वदित्यर्थः ॥ ३३ ॥
स्थानविशेषात्प्रकाशादिवत् ॥ ३४ ॥
इह सूत्रे द्वयोरपि सम्बन्धभेदव्यपदेशयोः परिहारोऽभिधीयते । यदप्युक्तम् — सम्बन्धव्यपदेशात् भेदव्यपदेशाच्च परमतः स्यादिति, तदप्यसत्; यत एकस्यापि स्थानविशेषापेक्षया एतौ व्यपदेशावुपपद्येते । सम्बन्धव्यपदेशे तावदयमर्थः — बुद्ध्याद्युपाधिस्थानविशेषयोगादुद्भूतस्य विशेषविज्ञानस्य उपाध्युपशमे य उपशमः, स परमात्मना सम्बन्धः — इत्युपाध्यपेक्षया उपचर्यते, न परिमितत्वापेक्षया । तथा भेदव्यपदेशोऽपि ब्रह्मण उपाधिभेदापेक्षयैव उपचर्यते, न स्वरूपभेदापेक्षया । प्रकाशादिवदिति उपमोपादानम् — यथा एकस्य प्रकाशस्य सौर्यस्य चान्द्रमसस्य वा उपाधियोगादुपजातविशेषस्य उपाध्युपशमात्सम्बन्धव्यपदेशो भवति, उपाधिभेदाच्च भेदव्यपदेशः । यथा वा सूचीपाशाकाशादिषूपाध्यपेक्षयैवैतौ सम्बन्धभेदव्यपदेशौ भवतः — तद्वत् ॥ ३४ ॥
तथाऽन्यप्रतिषेधात् ॥ ३६ ॥
अनेन सर्वगतत्वमायामशब्दादिभ्यः ॥ ३७ ॥
फलमत उपपत्तेः ॥ ३८ ॥
तस्यैव ब्रह्मणो व्यावहारिक्याम् ईशित्रीशितव्यविभागावस्थायाम् , अयमन्यः स्वभावो वर्ण्यते । यदेतत् इष्टानिष्टव्यामिश्रलक्षणं कर्मफलं संसारगोचरं त्रिविधं प्रसिद्धं जन्तूनाम् , किमेतत् कर्मणो भवति, आहोस्विदीश्वरादिति भवति विचारणा । तत्र तावत्प्रतिपाद्यते — फलम् अतः ईश्वरात् भवितुमर्हति । कुतः ? उपपत्तेः । स हि सर्वाध्यक्षः सृष्टिस्थितिसंहारान् विचित्रान् विदधत् देशकालविशेषाभिज्ञत्वात् कर्मिणां कर्मानुरूपं फलं सम्पादयतीत्युपपद्यते । कर्मणस्तु अनुक्षणविनाशिनः कालान्तरभावि फलं भवतीत्यनुपपन्नम् , अभावाद्भावानुत्पत्तेः । स्यादेतत् — कर्म विनश्यत् स्वकालमेव स्वानुरूपं फलं जनयित्वा विनश्यति, तत्फलं कालान्तरितं कर्त्रा भोक्ष्यत इति; तदपि न परिशुध्यति, प्राग्भोक्तृसम्बन्धात् फलत्वानुपपत्तेः — यत्कालं हि यत् सुखं दुःखं वा आत्मना भुज्यते, तस्यैव लोके फलत्वं प्रसिद्धम् । न हि असम्बद्धस्यात्मना सुखस्य दुःखस्य वा फलत्वं प्रतियन्ति लौकिकाः । अथोच्येत — मा भूत्कर्मानन्तरं फलोत्पादः, कर्मकार्यादपूर्वात्फलमुत्पत्स्यत इति, तदपि नोपपद्यते, अपूर्वस्याचेतनस्य काष्ठलोष्टसमस्य चेतनेनाप्रवर्तितस्य प्रवृत्त्यनुपपत्तेः, तदस्तित्वे च प्रमाणाभावात् । अर्थापत्तिः प्रमाणमिति चेत् , न, ईश्वरसिद्धेरर्थापत्तिक्षयात् ॥ ३८ ॥
धर्मं जैमिनिरत एव ॥ ४० ॥
जैमिनिस्त्वाचार्यो धर्मं फलस्य दातारं मन्यते, अत एव हेतोः — श्रुतेः उपपत्तेश्च । श्रूयते तावदयमर्थः ‘स्वर्गकामो यजेत’ इत्येवमादिषु वाक्येषु । तत्र च विधिश्रुतेर्विषयभावोपगमात् यागः स्वर्गस्योत्पादक इति गम्यते । अन्यथा हि अननुष्ठातृको याग आपद्येत । तत्र अस्य उपदेशवैयर्थ्यं स्यात् । ननु अनुक्षणविनाशिनः कर्मणः फलं नोपपद्यत इति, परित्यक्तोऽयं पक्षः; नैष दोषः, श्रुतिप्रामाण्यात् — श्रुतिश्चेत् प्रमाणम् , यथायं कर्मफलसम्बन्धः श्रुत उपपद्यते, तथा कल्पयितव्यः । न च अनुत्पाद्य किमप्यपूर्वं कर्म विनश्यत् कालान्तरितं फलं दातुं शक्नोति । अतः कर्मणो वा सूक्ष्मा काचिदुत्तरावस्था फलस्य वा पूर्वावस्था अपूर्वं नाम अस्तीति तर्क्यते । उपपद्यते च अयमर्थ उक्तेन प्रकारेण । ईश्वरस्तु फलं ददातीत्यनुपपन्नम् , अविचित्रस्य कारणस्य विचित्रकार्यानुपपत्तेः वैषम्यनैर्घृण्यप्रसङ्गात् , अनुष्ठानवैयर्थ्यापत्तेश्च । तस्मात् धर्मादेव फलमिति ॥ ४० ॥
पूर्वं तु बादरायणो हेतुव्यपदेशात् ॥ ४१ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छङ्करभगवतः कृतौ शारीरकमीमांसासूत्रभाष्ये
तृतीयाध्यायस्य द्वितीयः पादः ॥
व्याख्यातं विज्ञेयस्य ब्रह्मणः तत्त्वम् ।
इदानीं तु प्रतिवेदान्तं विज्ञानानि भिद्यन्ते,
न वेति विचार्यते ।
ननु विज्ञेयं ब्रह्म पूर्वापरादिभेदरहितम् एकरसं सैन्धवघनवत् अवधारितम् ।
तत्र कुतो विज्ञानभेदाभेदचिन्तावसरः ?
न हि कर्मबहुत्ववत् ब्रह्मबहुत्वमपि वेदान्तेषु प्रतिपिपादयिषितमिति शक्यं वक्तुम् ,
ब्रह्मण एकत्वात् एकरूपत्वाच्च ।
न च एकरूपे ब्रह्मणि अनेकरूपाणि विज्ञानानि सम्भवन्ति ।
न हि अन्यथा अर्थः अन्यथा ज्ञानम् —
इत्यभ्रान्तं भवति ।
यदि पुनः एकस्मिन्ब्रह्मणि बहूनि विज्ञानानि वेदान्तेषु प्रतिपिपादयिषितानि,
तेषाम् एकमभ्रान्तम् ,
भ्रान्तानि इतराणीति अनाश्वासप्रसङ्गो वेदान्तेषु ।
तस्मान्न तावत्प्रतिवेदान्तं ब्रह्मविज्ञानभेद आशङ्कितुं शक्यते ।
नाप्यस्य चोदनाद्यविशेषादभेद उच्येत,
ब्रह्मविज्ञानस्य अचोदनालक्षणत्वात् ।
अविधिप्रधानैर्हि वस्तुपर्यवसायिभिः ब्रह्मवाक्यैः ब्रह्मविज्ञानं जन्यत इत्यवोचदाचार्यः ‘तत्तु समन्वयात्’ (ब्र. सू. १ । १ । ४) इत्यत्र ।
तत्कथमिमां भेदाभेदचिन्तामारभत इति ॥
तदुच्यते — सगुणब्रह्मविषया प्राणादिविषया च इयं विज्ञानभेदाभेदचिन्तेत्यदोषः । अत्र हि कर्मवत् उपासनानां भेदाभेदौ सम्भवतः । कर्मवदेव च उपासनानि दृष्टफलानि अदृष्टफलानि च उच्यन्ते, क्रममुक्तिफलानि च कानिचित् सम्यग्ज्ञानोत्पत्तिद्वारेण । तेषु एषा चिन्ता सम्भवति — किं प्रतिवेदान्तं विज्ञानभेदः, आहोस्वित् नेति ॥
तत्र पूर्वपक्षहेतवस्तावदुपन्यस्यन्ते — नाम्नस्तावत् भेदप्रतिपत्तिहेतुत्वं प्रसिद्धं ज्योतिरादिषु । अस्ति च अत्र वेदान्तान्तरविहितेषु विज्ञानेषु अन्यदन्यत् नाम — तैत्तिरीयकं वाजसनेयकं कौथुमकं कौषीतकं शाट्यायनकमित्येवमादि । तथा रूपभेदोऽपि कर्मभेदस्य प्रतिपादकः प्रसिद्धः — ‘वैश्वदेव्यामिक्षा वाजिभ्यो वाजिनम्’ इत्येवमादिषु । अस्ति च अत्र रूपभेदः । तद्यथा — केचिच्छाखिनः पञ्चाग्निविद्यायां षष्ठमपरमग्निमामनन्ति, अपरे पुनः पञ्चैव पठन्ति । तथा प्राणसंवादादिषु केचित् ऊनान्वागादीनामनन्ति, केचिदधिकान् । तथा धर्मविशेषोऽपि कर्मभेदस्य प्रतिपादक आशङ्कितः कारीर्यादिषु । अस्ति च अत्र धर्मविशेषः; यथा आथर्वणिकानां शिरोव्रतमिति । एवं पुनरुक्त्यादयोऽपि भेदहेतवः यथासम्भवं वेदान्तान्तरेषु योजयितव्याः । तस्मात् प्रतिवेदान्तं विज्ञानभेद इत्येवं प्राप्ते, ब्रूमः —
सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात् ॥ १ ॥
सर्ववेदान्तप्रत्ययानि विज्ञानानि तस्मिन् तस्मिन् वेदान्ते तानि तान्येव भवितुमर्हन्ति ।
कुतः ?
चोदनाद्यविशेषात् ।
आदिग्रहणेन शाखान्तराधिकरणसिद्धान्तसूत्रोदिता अभेदहेतव इहाकृष्यन्ते —
संयोगरूपचोदनाख्याऽविशेषादित्यर्थः ।
यथा एकस्मिन्नग्निहोत्रे शाखाभेदेऽपि पुरुषप्रयत्नस्तादृश एव चोद्यते —
जुहुयादिति,
एवम् ‘यो ह वै ज्येष्ठं च श्रेष्ठं च वेद’ (छा. उ. ५ । १ । १) इति वाजसनेयिनां छन्दोगानां च तादृश्येव चोदना ।
प्रयोजनसंयोगोऽप्यविशिष्ट एव —
‘ज्येष्ठश्च श्रेष्ठश्च स्वानां भवति’ (बृ. उ. ६ । १ । १) इति ।
रूपमप्युभयत्र तदेव विज्ञानस्य,
यदुत ज्येष्ठश्रेष्ठादिगुणविशेषणान्वितं प्राणतत्त्वम् —
यथा च द्रव्यदेवते यागस्य रूपम् ,
एवं विज्ञेयं रूपं विज्ञानस्य ।
तेन हि तत् रूप्यते ।
समाख्यापि सैव —
प्राणविद्येति ।
तस्मात् सर्ववेदान्तप्रत्ययत्वं विज्ञानानाम् ।
एवं पञ्चाग्निविद्या वैश्वानरविद्या शाण्डिल्यविद्येत्येवमादिषु योजयितव्यम् ।
ये तु नामरूपादयो भेदहेत्वाभासाः,
ते प्रथम एव काण्डे ‘न नाम्ना स्यादचोदनाभिधानत्वात्’ (जै॰सू॰२-४-१०)इत्यारभ्य परिहृताः ॥ १ ॥
इहापि कञ्चिद्विशेषमाशङ्क्य परिहरति —
भेदान्नेति चेन्नैकस्यामपि ॥ २ ॥
स्यादेतत् —
सर्ववेदान्तप्रत्ययत्वं विज्ञानानां गुणभेदात् नोपपद्यते ।
तथा हि —
वाजसनेयिनः पञ्चाग्निविद्यां प्रस्तुत्य षष्ठमपरमग्निमामनन्ति —
‘तस्याग्निरेवाग्निर्भवति’ (बृ. उ. ६ । २ । १४) इत्यादिना ।
छन्दोगास्तु तं न आमनन्ति,
पञ्चसंख्ययैव च ते उपसंहरन्ति —
‘अथ ह य एतानेवं पंचाग्नीन्वेद’ (छा. उ. ५ । १० । १०) इति ।
येषां च स गुणोऽस्ति,
येषां च नास्ति,
कथमुभयेषामेका विद्योपपद्येत ?
न च अत्र गुणोपसंहारः शक्यते प्रत्येतुम् ,
पञ्चसंख्याविरोधात् ।
तथा प्राणसंवादे श्रेष्ठात् अन्यान् चतुरः प्राणान् वाक्चक्षुःश्रोत्रमनांसि छन्दोगा आमनन्ति ।
वाजसनेयिनस्तु पञ्चममप्यामनन्ति —
‘रेतो वै प्रजातिः प्रजायते ह प्रजया पशुभिर्य एवं वेद’ (बृ. उ. ६ । १ । ६) इति ।
आवापोद्वापभेदाच्च वेद्यभेदो भवति,
वेद्यभेदाच्च विद्याभेदः,
द्रव्यदेवताभेदादिव यागस्येति चेत् —
नैष दोषः;
यत एकस्यामपि विद्यायामेवंजातीयको गुणभेद उपपद्यते ।
यद्यपि षष्ठस्याग्नेरुपसंहारो न सम्भवति,
तथापि द्युप्रभृतीनां पञ्चानामग्नीनाम् उभयत्र प्रत्यभिज्ञायमानत्वात् न विद्याभेदो भवितुमर्हति ।
न हि षोडशिग्रहणाग्रहणयोरतिरात्रो भिद्यते ।
पठ्यतेऽपि च षष्ठोऽग्निः छन्दोगैः —
‘तं प्रेतं दिष्टमितोऽग्नय एव हरन्ति’ (छा. उ. ५ । ९ । २) इति ।
वाजसनेयिनस्तु साम्पादिकेषु पञ्चस्वग्निषु अनुवृत्तायाः समिद्धूमादिकल्पनाया निवृत्तये ‘तस्याग्निरेवाग्निर्भवति समित्समित्’ (बृ. उ. ६ । २ । १४) इत्यादि समामनन्ति ।
स नित्यानुवादः ।
अथाप्युपासनार्थ एष वादः,
तथापि स गुणः शक्यते छन्दोगैरप्युपसंहर्तुम् ।
न च अत्र पञ्चसंख्याविरोध आशङ्क्यः ।
साम्पादिकाग्न्यभिप्राया हि एषा पञ्चसंख्या नित्यानुवादभूता,
न विधिसमवायिनी —
इत्यदोषः ।
एवं प्राणसंवादादिष्वपि अधिकस्य गुणस्य इतरत्रोपसंहारो न विरुध्यते ।
न च आवापोद्वापभेदाद्वेद्यभेदो विद्याभेदश्च आशङ्क्यः,
कस्यचिद्वेद्यांशस्य आवापोद्वापयोरपि भूयसो वेद्यराशेरभेदावगमात् ।
तस्मादैकविद्यमेव ॥ २ ॥
स्वाध्यायस्य तथात्वेन हि समाचारेऽधिकाराच्च सववच्च तन्नियमः ॥ ३ ॥
यदप्युक्तम् —
आथर्वणिकानां विद्यां प्रति शिरोव्रताद्यपेक्षणात् अन्येषां च तदनपेक्षणात् विद्याभेद इति,
तत्प्रत्युच्यते ।
स्वाध्यायस्य एष धर्मः,
न विद्यायाः ।
कथमिदमवगम्यते ?
यतः,
तथात्वेन स्वाध्यायधर्मत्वेन,
समाचारे वेदव्रतोपदेशपरे ग्रन्थे,
आथर्वणिकाः ‘
इदमपि वेदव्रतत्वेन व्याख्यातम्’
इति समामनन्ति ।
‘नैतदचीर्णव्रतोऽधीते’ (मु. उ. ३ । २ । ११) इति च अधिकृतविषयादेतच्छब्दात् अध्ययनशब्दाच्च स्वोपनिषदध्ययनधर्म एव एष इति निर्धार्यते ।
ननु ‘तेषामेवैतां ब्रह्मविद्यां वदेत शिरोव्रतं विधिवद्यैस्तु चीर्णम्’ (मु. उ. ३ । २ । १०) इति ब्रह्मविद्यासंयोगश्रवणात् ,
एकैव सर्वत्र ब्रह्मविद्येति,
सङ्कीर्येत एष धर्मः —
न ;
तत्रापि एतामिति प्रकृतप्रत्यवमर्शात् ।
प्रकृतत्वं च ब्रह्मविद्यायाः ग्रन्थविशेषापेक्षम् —
इति ग्रन्थविशेषसंयोग्येव एष धर्मः ।
सववच्च तन्नियम इति निदर्शननिर्देशः —
यथा च सवाः सप्त सौर्यादयः शतौदनपर्यन्ताः वेदान्तरोदितत्रेताग्न्यनभिसम्बन्धात् आथर्वणोदितैकाग्न्यभिसम्बन्धाच्च आथर्वणिकानामेव नियम्यन्ते,
तथैव अयमपि धर्मः स्वाध्यायविशेषसम्बन्धात् तत्रैव नियम्यते ।
तस्मादप्यनवद्यं विद्यैकत्वम् ॥ ३ ॥
उपसंहारोऽर्थाभेदाद्विधिशेषवत्समाने च ॥ ५ ॥
इदं प्रयोजनसूत्रम् । स्थिते चैवं सर्ववेदान्तप्रत्ययत्वे सर्वविज्ञानानाम् , अन्यत्रोदितानां विज्ञानगुणानाम् , अन्यत्रापि समाने विज्ञाने उपसंहारो भवति । अर्थाभेदात् — य एव हि तेषां गुणानामेकत्र अर्थो विशिष्टविज्ञानोपकारः, स एव अन्यत्रापि । उभयत्रापि हि तदेवैकं विज्ञानम् । तस्मादुपसंहारः । विधिशेषवत् — यथा विधिशेषाणामग्निहोत्रादिधर्माणाम् , तदेव एकमग्निहोत्रादि कर्म सर्वत्रेति, अर्थाभेदात् उपसंहारः; एवमिहापि । यदि हि विज्ञानभेदो भवेत् , ततो विज्ञानान्तरनिबद्धत्वाद्गुणानाम् , प्रकृतिविकृतिभावाभावाच्च न स्यादुपसंहारः । विज्ञानैकत्वे तु नैवमिति । अस्यैव तु प्रयोजनसूत्रस्य प्रपञ्चः ‘सर्वाभेदात्’ इत्यारभ्य भविष्यति ॥ ५ ॥
अन्यथात्वं शब्दादिति चेन्नाविशेषात् ॥ ६ ॥
वाजसनेयके ‘ते ह देवा ऊचुर्हन्तासुरान्यज्ञ उद्गीथेनात्ययामेति’ (बृ. उ. १ । ३ । १) ‘ते ह वाचमूचुस्त्वं न उद्गाय’ (बृ. उ. १ । ३ । २) इति प्रक्रम्य,
वागादीन्प्राणान् असुरपाप्मविद्धत्वेन निन्दित्वा,
मुख्यप्राणपरिग्रहः पठ्यते —
‘अथ हेममासन्यं प्राणमूचुस्त्वं न उद्गायेति तथेति तेभ्य एष प्राण उदगायत्’ (बृ. उ. १ । ३ । ७) इति ।
तथा छान्दोग्येऽपि ‘तद्ध देवा उद्गीथमाजह्रुरनेनैनानभिभविष्यामः’ (छा. उ. १ । २ । १) इति प्रक्रम्य,
इतरान्प्राणान् असुरपाप्मविद्धत्वेन निन्दित्वा,
तथैव मुख्यप्राणपरिग्रहः पठ्यते —
‘अथ ह य एवायं मुख्यः प्राणस्तमुद्गीथमुपासाञ्चक्रिरे’ (छा. उ. १ । २ । ७) इति ।
उभयत्रापि च प्राणप्रशंसया प्राणविद्याविधिरध्यवसीयते ।
तत्र संशयः —
किमत्र विद्याभेदः स्यात् ,
आहोस्वित् विद्यैकत्वमिति ।
किं तावत्प्राप्तम् ?
पूर्वेण न्यायेन विद्यैकत्वमिति ।
ननु न युक्तं विद्यैकत्वम् ,
प्रक्रमभेदात् ।
अन्यथा हि प्रक्रमन्ते वाजसनेयिनः,
अन्यथा छन्दोगाः —
‘त्वं न उद्गाय’ (बृ. उ. १ । ३ । २) इति वाजसनेयिन उद्गीथस्य कर्तृत्वेन प्राणमामनन्ति,
छन्दोगास्तु उद्गीथत्वेन ‘तमुद्गीथमुपासाञ्चक्रिरे’ (छा. उ. १ । २ । ७) इति,
तत्कथं विद्यैकत्वं स्यादिति चेत् —
नैष दोषः;
न हि एतावता विशेषेण विद्यैकत्वम् अपगच्छति,
अविशेषस्यापि बहुतरस्य प्रतीयमानत्वात् ।
तथा हि —
देवासुरसङ्ग्रामोपक्रमत्वम् ,
असुरात्ययाभिप्रायः,
उद्गीथोपन्यासः,
वागादिसङ्कीर्तनम् ,
तन्निन्दया मुख्यप्राणव्यपाश्रयः,
तद्वीर्याच्च असुरविध्वंसनम् अश्मलोष्टनिदर्शनेन —
इत्येवं बहवोऽर्था उभयत्राप्यविशिष्टाः प्रतीयन्ते ।
वाजसनेयकेऽपि च उद्गीथसामानाधिकरण्यं प्राणस्य श्रुतम् —
‘एष उ वा उद्गीथः’ (बृ. उ. १ । ३ । २३) इति ।
तस्माच्छान्दोग्येऽपि कर्तृत्वं लक्षयितव्यम् ।
तस्माच्च विद्यैकत्वमिति ॥ ६ ॥
न वा प्रकरणभेदात्परोवरीयस्त्वादिवत् ॥ ७ ॥
न वा विद्यैकत्वमत्र न्याय्यम् ।
विद्याभेद एव अत्र न्याय्यः ।
कस्मात् ?
प्रकरणभेदात् ,
प्रक्रमभेदादित्यर्थः ।
तथा हि इह प्रक्रमभेदो दृश्यते —
छान्दोग्ये तावत् —
‘ओमित्येतदक्षरमुद्गीथमुपासीत’ (छा. उ. १ । १ । १) इत्येवमुद्गीथावयवस्य ओंकारस्य उपास्यत्वं प्रस्तुत्य,
रसतमादिगुणोपव्याख्यानं तत्र कृत्वा,
‘खल्वेतस्यैवाक्षरस्योपव्याख्यानं भवति’ (छा. उ. १ । १ । १०) इति पुनरपि तमेव उद्गीथावयवमोंकारमनुवर्त्य,
देवासुराख्यायिकाद्वारेण तम् ‘प्राणमुद्गीथमुपासाञ्चक्रिरे’ (छा. उ. १ । २ । २) इत्याह ।
तत्र यदि उद्गीथशब्देन सकला भक्तिरभिप्रेयेत,
तस्याश्च कर्ता उद्गाता ऋत्विक्,
तत उपक्रमश्चोपरुध्येत,
लक्षणा च प्रसज्येत ।
उपक्रमतन्त्रेण च एकस्मिन्वाक्ये उपसंहारेण भवितव्यम् ।
तस्मात् अत्र तावत् उद्गीथावयवे ओंकारे प्राणदृष्टिरुपदिश्यते —
वाजसनेयके तु उद्गीथशब्देन अवयवग्रहणे कारणाभावात् सकलैव भक्तिरावेद्यते ।
‘त्वं न उद्गाय’ (बृ. उ. १ । ३ । २) इत्यपि तस्याः कर्ता उद्गाता ऋत्विक् प्राणत्वेन निरूप्यत इति —
प्रस्थानान्तरम् ।
यदपि तत्र उद्गीथसामानाधिकरण्यं प्राणस्य,
तदपि उद्गातृत्वेनैव दिदर्शयिषितस्य प्राणस्य सर्वात्मत्वप्रतिपादनार्थमिति न विद्यैकत्वमावहति ।
सकलभक्तिविषय एव च तत्रापि उद्गीथशब्द इति वैषम्यम् ।
न च प्राणस्योद्गातृत्वम् असम्भवेन हेतुना परित्यज्येत,
उद्गीथभाववत् उद्गातृभावस्यापि उपासनार्थत्वेन उपदिश्यमानत्वात् ।
प्राणवीर्येणैव च उद्गाता औद्गात्रं करोतीति नास्त्यसम्भवः ।
तथा च तत्रैव श्रावितम् —
‘वाचा च ह्येव स प्राणेन चोदगायत्’ (बृ. उ. १ । ३ । २४) इति ।
न च विवक्षितार्थभेदेऽवगम्यमाने वाक्यच्छायानुकारमात्रेण समानार्थत्वमध्यवसातुं युक्तम् ।
तथा हि —
अभ्युदयवाक्ये पशुकामवाक्ये च ‘
त्रेधा तण्डुलान्विभजेद्ये मध्यमाः स्युस्तानग्नये दात्रे पुरोडाशमष्टाकपालं कुर्यात्’
इत्यादिनिर्देशसाम्येऽपि,
उपक्रमभेदात् अभ्युदयवाक्ये देवतापनयोऽध्यवसितः,
पशुकामवाक्ये तु यागविधिः —
तथा इहापि उपक्रमभेदात् विद्याभेदः ।
परोवरीयस्त्वादिवत् —
यथा परमात्मदृष्ट्यध्याससाम्येऽपि,
‘आकाशो ह्येवैभ्यो ज्यायानाकाशः परायणम्’ (छा. उ. १ । ९ । १) ‘स एष परोवरीयानुद्गीथः स एषोऽनन्तः’ (छा. उ. १ । ९ । २) इति परोवरीयस्त्वादिगुणविशिष्टम् उद्गीथोपासनम् अक्ष्यादित्यगतहिरण्यश्मश्रुत्वादिगुणविशिष्टोद्गीथोपासनात् भिन्नम् ।
न च इतरेतरगुणोपसंहार एकस्यामपि शाखायाम् —
तद्वत् शाखान्तरस्थेष्वपि एवंजातीयकेषु उपासनेष्विति ॥ ७ ॥
संज्ञातश्चेत्तदुक्तमस्ति तु तदपि ॥ ८ ॥
अथोच्येत —
संज्ञैकत्वात् विद्यैकत्वमत्र न्याय्यम् ,
उद्गीथविद्येति ह्युभयत्रापि एका संज्ञेति,
तदपि नोपपद्यते ।
उक्तं ह्येतत् —
‘न वा प्रकरणभेदात्परोवरीयस्त्वादिवत्’ (ब्र. सू. ३ । ३ । ७) इति ।
तदेव च अत्र न्याय्यतरम् ।
श्रुत्यक्षरानुगतं हि तत् ।
संज्ञैकत्वं तु श्रुत्यक्षरबाह्यम् उद्गीथशब्दमात्रप्रयोगात् लौकिकैर्व्यवहर्तृभिरुपचर्यते ।
अस्ति च एतत्संज्ञैकत्वं प्रसिद्धभेदेष्वपि परोवरीयस्त्वाद्युपासनेषु —
उद्गीथविद्येति ।
तथा प्रसिद्धभेदानामपि अग्निहोत्रदर्शपूर्णमासादीनां काठकैकग्रन्थपरिपठितानां काठकसंज्ञैकत्वं दृश्यते,
तथेहापि भविष्यति ।
यत्र तु नास्ति कश्चित् एवंजातीयको भेदहेतुः,
तत्र भवतु संज्ञैकत्वात् विद्यैकत्वम् —
यथा संवर्गविद्यादिषु ॥ ८ ॥
व्याप्तेश्च समञ्जसम् ॥ ९ ॥
‘ओमित्येतदक्षरमुद्गीथमुपासीत’ (छा. उ. १ । १ । १) इत्यत्र अक्षरोद्गीथशब्दयोः सामानाधिकरण्ये श्रूयमाणे अध्यासापवादैकत्वविशेषणपक्षाणां प्रतिभासनात् कतमोऽत्र पक्षो न्याय्यः स्यादिति विचारः ।
तत्र अध्यासो नाम —
द्वयोर्वस्तुनोः अनिवर्तितायामेव अन्यतरबुद्धौ अन्यतरबुद्धिरध्यस्यते ।
यस्मिन् इतरबुद्धिरध्यस्यते,
अनुवर्तत एव तस्मिन् तद्बुद्धिः,
अध्यस्तेतरबुद्धावपि ।
यथा नाम्नि ब्रह्मबुद्धावध्यस्यमानायामपि अनुवर्तत एव नामबुद्धिः,
न ब्रह्मबुद्ध्या निवर्तते —
यथा वा प्रतिमादिषु विष्ण्वादिबुद्ध्यध्यासः —
एवमिहापि अक्षरे उद्गीथबुद्धिरध्यस्यते,
उद्गीथे वा अक्षरबुद्धिरिति ।
अपवादो नाम —
यत्र कस्मिंश्चिद्वस्तुनि पूर्वनिविष्टायां मिथ्याबुद्धौ निश्चितायाम् ,
पश्चादुपजायमाना यथार्था बुद्धिः पूर्वनिविष्टाया मिथ्याबुद्धेः निवर्तिका भवति —
यथा देहेन्द्रियसङ्घाते आत्मबुद्धिः,
आत्मन्येव आत्मबुद्ध्या पश्चाद्भाविन्या ‘तत्त्वमसि’ (छा. उ. ६ । ८ । ७) इत्यनया यथार्थबुद्ध्या निवर्त्यते —
यथा वा दिग्भ्रान्तिबुद्धिः दिग्याथात्म्यबुद्ध्या निवर्त्यते —
एवमिहापि अक्षरबुद्ध्या उद्गीथबुद्धिर्निवर्त्येत,
उद्गीथबुद्ध्या वा अक्षरबुद्धिरिति ।
एकत्वं तु अक्षरोद्गीथशब्दयोरनतिरिक्तार्थवृत्तित्वम् —
यथा द्विजोत्तमो ब्राह्मणो भूमिदेव इति ।
विशेषणं पुनः सर्ववेदव्यापिन ओमित्येतस्याक्षरस्य ग्रहणप्रसङ्गे औद्गात्रविशेषस्य समर्पणम् —
यथा नीलं यदुत्पलम् तदानयेति,
एवमिहापि उद्गीथो य ओंकारः तमुपासीतेति ।
एवमेतस्मिन्सामानाधिकरण्यवाक्ये विमृश्यमाने,
एते पक्षाः प्रतिभान्ति ।
तत्रान्यतमनिर्धारणकारणाभावात् अनिर्धारणप्राप्तौ इदमुच्यते —
व्याप्तेश्च समञ्जसमिति ।
चशब्दोऽयं तुशब्दस्थाननिवेशी पक्षत्रयव्यावर्तनप्रयोजनः ।
तदिह त्रयः पक्षाः सावद्या इति पर्युदस्यन्ते ।
विशेषणपक्ष एवैको निरवद्य इत्युपादीयते ।
तत्राध्यासे तावत् —
या बुद्धिः इतरत्र अध्यस्यते,
तच्छब्दस्य लक्षणावृत्तित्वं प्रसज्येत,
तत्फलं च कल्प्येत ।
श्रूयत एव फलम् ‘आपयिता ह वै कामानां भवति’ (छा. उ. १ । १ । ७) इत्यादि,
इति चेत् —
न ;
तस्य अन्यफलत्वात् ।
आप्त्यादिदृष्टिफलं हि तत् ,
नोद्गीथाध्यासफलम् ।
अपवादेऽपि समानः फलाभावः ।
मिथ्याज्ञाननिवृत्तिः फलमिति चेत् ,
न;
पुरुषार्थोपयोगानवगमात्;
न च कदाचिदपि ओंकारात् ओंकारबुद्धिर्निवर्तते,
उद्गीथाद्वा उद्गीथबुद्धिः ।
न चेदं वाक्यं वस्तुतत्त्वप्रतिपादनपरम् ,
उपासनाविधिपरत्वात् ।
नापि एकत्वपक्षः सङ्गच्छते ।
निष्प्रयोजनं हि तदा शब्दद्वयोच्चारणं स्यात् ,
एकेनैव विवक्षितार्थसमर्पणात् ।
न च हौत्रविषये आध्वर्यवविषये वा अक्षरे ओंकारशब्दवाच्ये उद्गीथशब्दप्रसिद्धिरस्ति,
नापि सकलायाम् साम्नो द्वितीयायां भक्तौ उद्गीथशब्दवाच्यायाम् ओंकारशब्दप्रसिद्धिः,
येनानतिरिक्तार्थता स्यात् ।
परिशेषाद्विशेषणपक्षः परिगृह्यते,
व्याप्तेः सर्ववेदसाधारण्यात् ।
सर्वव्याप्यक्षरमिह मा प्रसञ्जि —
इत्यत उद्गीथशब्देन अक्षरं विशेष्यते —
कथं नाम उद्गीथावयवभूत ओंकारो गृह्येतेति ।
नन्वस्मिन्नपि पक्षे समाना लक्षणा,
उद्गीथशब्दस्य अवयवलक्षणार्थत्वात्;
सत्यमेवमेतत्;
लक्षणायामपि तु सन्निकर्षविप्रकर्षौ भवत एव ।
अध्यासपक्षे हि अर्थान्तरबुद्धिरर्थान्तरे निक्षिप्यत इति विप्रकृष्टा लक्षणा,
विशेषणपक्षे तु अवयविवचनेन शब्देन अवयवः समर्प्यत इति सन्निकृष्टा ।
समुदायेषु हि प्रवृत्ताः शब्दा अवयवेष्वपि प्रवर्तमाना दृष्टाः पटग्रामादिषु ।
अतश्च व्याप्तेर्हेतोः ‘
ओमित्येतदक्षरम्’
इत्येतस्य ‘
उद्गीथम्’
इत्येतद्विशेषणमिति समञ्जसमेतत् ,
निरवद्यमित्यर्थः ॥ ९ ॥
सर्वाभेदादन्यत्रेमे ॥ १० ॥
वाजिनां छन्दोगानां च प्राणसंवादे श्रैष्ठ्यगुणान्वितस्य प्राणस्य उपास्यत्वमुक्तम् ।
वागादयोऽपि हि तत्र वसिष्ठत्वादिगुणान्विता उक्ताः ।
ते च गुणाः प्राणे पुनः प्रत्यर्पिताः —
‘यद्वा अहं वसिष्ठास्मि त्वं तद्वसिष्ठोऽसि’ (बृ. उ. ६ । १ । १४) इत्यादिना ।
अन्येषामपि तु शाखिनां कौषीतकिप्रभृतीनां प्राणसंवादेषु ‘अथातो निःश्रेयसादानमेता ह वै देवता अहंश्रेयसे विवदमानाः’ (कौ. उ. २ । १४) इत्येवंजातीयकेषु प्राणस्य श्रैष्ठ्यमुक्तम् ,
न त्विमे वसिष्ठत्वादयोऽपि गुणा उक्ताः ।
तत्र संशयः —
किमिमे वसिष्ठत्वादयो गुणाः क्वचिदुक्ता अन्यत्रापि अस्येरन् ,
उत नास्येरन्निति ।
तत्र प्राप्तं तावत् —
नास्येरन्निति ।
कुतः ?
एवंशब्दसंयोगात् । ‘
अथो य एवं विद्वान्प्राणे निःश्रेयसं विदित्वा’
इति तत्र तत्र एवंशब्देन वेद्यं वस्तु निवेद्यते ।
एवंशब्दश्च सन्निहितावलम्बनः न शाखान्तरपरिपठितम् एवंजातीयकं गुणजातं शक्नोति निवेदयितुम् ।
तस्मात् स्वप्रकरणस्थैरेव गुणैर्निराकाङ्क्षत्वमित्येवं प्राप्ते प्रत्याह —
अस्येरन् इमे गुणाः क्वचिदुक्ता वसिष्ठत्वादयः अन्यत्रापि । कुतः ? सर्वाभेदात् — सर्वत्रैव हि तदेव एकं प्राणविज्ञानमभिन्नं प्रत्यभिज्ञायते, प्राणसंवादादिसारूप्यात् । अभेदे च विज्ञानस्य कथम् इमे गुणाः क्वचिदुक्ता अन्यत्र न अस्येरन् । ननु एवंशब्दः तत्र तत्र भेदेन एवंजातीयकं गुणजातं वेद्यत्वाय समर्पयतीत्युक्तम्; अत्रोच्यते — यद्यपि कौषीतकिब्राह्मणगतेन एवंशब्देन वाजसनेयिब्राह्मणगतं गुणजातम् असंशब्दितम् असन्निहितत्वात् , तथापि तस्मिन्नेव विज्ञाने वाजसनेयिब्राह्मणगतेन एवंशब्देन तत् संशब्दितमिति — न परशाखागतमपि अभिन्नविज्ञानावबद्धं गुणजातं स्वशाखागताद्विशिष्यते । न चैवं सति श्रुतहानिः अश्रुतकल्पना वा भवति । एकस्यामपि हि शाखायां श्रुता गुणाः श्रुता एव सर्वत्र भवन्ति, गुणवतो भेदाभावात् । न हि देवदत्तः शौर्यादिगुणत्वेन स्वदेशे प्रसिद्धः देशान्तरं गतः तद्देश्यैरविभावितशौर्यादिगुणोऽपि अतद्गुणो भवति । यथा च तत्र परिचयविशेषात् देशान्तरेऽपि देवदत्तगुणा विभाव्यन्ते, एवम् अभियोगविशेषात् शाखान्तरेऽप्युपास्या गुणाः शाखान्तरेऽप्यस्येरन् । तस्मादेकप्रधानसम्बद्धा धर्मा एकत्राप्युच्यमानाः सर्वत्रैव उपसंहर्तव्या इति ॥ १० ॥
आनन्दादयः प्रधानस्य ॥ ११ ॥
ब्रह्मस्वरूपप्रतिपादनपरासु श्रुतिषु आनन्दरूपत्वं विज्ञानघनत्वं सर्वगतत्वं सर्वात्मत्वमित्येवंजातीयका ब्रह्मणो धर्माः क्वचित् केचित् श्रूयन्ते । तेषु संशयः — किमानन्दादयो ब्रह्मधर्माः यत्र यावन्तः श्रूयन्ते तावन्त एव तत्र प्रतिपत्तव्याः, किं वा सर्वे सर्वत्रेति । तत्र यथाश्रुतिविभागं धर्मप्रतिपत्तौ प्राप्तायाम् , इदमुच्यते — आनन्दादयः प्रधानस्य ब्रह्मणो धर्माः सर्वे सर्वत्र प्रतिपत्तव्याः । कस्मात् ? सर्वाभेदादेव — सर्वत्र हि तदेव एकं प्रधानं विशेष्यं ब्रह्म न भिद्यते । तस्मात् सार्वत्रिकत्वं ब्रह्मधर्माणाम् — तेनैव पूर्वाधिकरणोदितेन देवदत्तशौर्यादिनिदर्शनेन ॥ ११ ॥
प्रियशिरस्त्वाद्यप्राप्तिरुपचयापचयौ हि भेदे ॥ १२ ॥
प्रियशिरस्त्वादीनां धर्माणां तैत्तिरीयके आम्नातानां नास्ति अन्यत्र प्राप्तिः,
यत्कारणम् —
प्रियं मोदः प्रमोद आनन्द इत्येते —
परस्परापेक्षया भोक्त्रन्तरापेक्षया च उपचितापचितरूपा उपलभ्यन्ते ।
उपचयापचयौ च सति भेदे सम्भवतः ।
निर्भेदं तु ब्रह्म ‘एकमेवाद्वितीयम्’ (छा. उ. ६ । २ । १) इत्यादिश्रुतिभ्यः ।
न च एते प्रियशिरस्त्वादयो ब्रह्मधर्माः ।
कोशधर्मास्तु एते इत्युपदिष्टमस्माभिः ‘आनन्दमयोऽभ्यासात्’ (ब्र. सू. १ । १ । १२) इत्यत्र ।
अपि च परस्मिन् ब्रह्मणि चित्तावतारोपायमात्रत्वेन एते परिकल्प्यन्ते,
न द्रष्टव्यत्वेन ।
एवमपि सुतरामन्यत्राप्राप्तिः प्रियशिरस्त्वादीनाम् ।
ब्रह्मधर्मांस्तु एतान्कृत्वा न्यायमात्रमिदम् आचार्येण प्रदर्शितम् —
प्रियशिरस्त्वाद्यप्राप्तिरिति ।
स च न्यायः अन्येषु निश्चितेषु ब्रह्मधर्मेषु उपासनायोपदिश्यमानेषु नेतव्यः —
संयद्वामत्वादिषु सत्यकामत्वादिषु च ।
तेषु हि सत्यपि उपास्यस्य ब्रह्मण एकत्वे,
प्रक्रमभेदादुपासनाभेदे सति,
न अन्योन्यधर्माणाम् अन्योन्यत्र प्राप्तिः ।
यथा च द्वे नार्यौ एकं नृपतिमुपासाते —
छत्रेण अन्या चामरेण अन्या —
तत्रोपास्यैकत्वेऽपि उपासनभेदो धर्मव्यवस्था च भवति —
एवमिहापीति ।
उपचितापचितगुणत्वं हि सति भेदव्यवहारे सगुणे ब्रह्मण्युपपद्यते,
न निर्गुणे परस्मिन्ब्रह्मणि ।
अतो न सत्यकामत्वादीनां धर्माणां क्वचिच्छ्रुतानां सर्वत्र प्राप्तिरित्यर्थः ॥ १२ ॥
इतरे त्वर्थसामान्यात् ॥ १३ ॥
इतरे तु आनन्दादयो धर्मा ब्रह्मस्वरूपप्रतिपादनायैव उच्यमानाः, अर्थसामान्यात् प्रतिपाद्यस्य ब्रह्मणो धर्मिण एकत्वात् , सर्वे सर्वत्र प्रतीयेरन्निति वैषम्यम् — प्रतिपत्तिमात्रप्रयोजना हि ते इति ॥ १३ ॥
आध्यानाय प्रयोजनाभावात् ॥ १४ ॥
पुरुष एव हि एभ्यः सर्वेभ्यः परः प्रतिपाद्यत इति युक्तम् ,
न प्रत्येकमेषां परत्वप्रतिपादनम् ।
कस्मात् ?
प्रयोजनाभावात् ।
न हि इतरेषु परत्वेन प्रतिपन्नेषु किञ्चित्प्रयोजनं दृश्यते,
श्रूयते वा ।
पुरुषे तु इन्द्रियादिभ्यः परस्मिन् सर्वानर्थव्रातातीते प्रतिपन्ने दृश्यते प्रयोजनम् ,
मोक्षसिद्धिः ।
तथा च श्रुतिः —
‘निचाय्य तं मृत्युमुखात्प्रमुच्यते’ (क. उ. १ । ३ । १५) इति ।
अपि च परप्रतिषेधेन काष्ठाशब्देन च पुरुषविषयमादरं दर्शयन् पुरुषप्रतिपत्त्यर्थैव पूर्वापरप्रवाहोक्तिरिति दर्शयति ।
आध्यानायेति —
आध्यानपूर्वकाय सम्यग्दर्शनायेत्यर्थः ।
सम्यग्दर्शनार्थमेव हि इह आध्यानमुपदिश्यते,
न तु आध्यानमेव स्वप्रधानम् ॥ १४ ॥
आत्मगृहीतिरितरवदुत्तरात् ॥ १६ ॥
ऐतरेयके श्रूयते —
‘आत्मा वा इदमेक एवाग्र आसीन्नान्यत्किञ्चन मिषत्स ईक्षत लोकान्नु सृजा इति’ (ऐ. उ. १ । १ । १) ‘स इमाँल्लोकानसृजताम्भो मरीचीर्मरमापः’ (ऐ. उ. १ । १ । २) इत्यादि ।
तत्र संशयः —
किं पर एवात्मा इह आत्मशब्देनाभिलप्यते,
उत अन्यः कश्चिदिति ।
किं तावत्प्राप्तम् ?
न परमात्मा इह आत्मशब्दाभिलप्यो भवितुमर्हतीति ।
कस्मात् ?
वाक्यान्वयदर्शनात् ।
ननु वाक्यान्वयः सुतरां परमात्मविषयो दृश्यते,
प्रागुत्पत्तेः आत्मैकत्वावधारणात् ,
ईक्षणपूर्वकस्रष्टृत्ववचनाच्च;
नेत्युच्यते,
लोकसृष्टिवचनात् —
परमात्मनि हि स्रष्टरि परिगृह्यमाणे,
महाभूतसृष्टिः आदौ वक्तव्या ।
लोकसृष्टिस्तु इह आदावुच्यते ।
लोकाश्च महाभूतसन्निवेशविशेषाः ।
तथा च अम्भःप्रभृतीन् लोकत्वेनैव निर्ब्रवीति —
‘अदोऽम्भः परेण दिवम्’ (ऐ. उ. १ । १ । २) इत्यादिना ।
लोकसृष्टिश्च परमेश्वराधिष्ठितेन अपरेण केनचिदीश्वरेण क्रियत इति श्रुतिस्मृत्योरुपलभ्यते ।
तथा हि श्रुतिर्भवति —
‘आत्मैवेदमग्र आसीत्पुरुषविधः’ (बृ. उ. १ । ४ । १) इत्याद्या ।
स्मृतिरपि —
‘स वै शरीरी प्रथमः स वै पुरुष उच्यते । आदिकर्ता स भूतानां ब्रह्माग्रे समवर्तत’(मा॰पु॰ ४५-६४) इति ।
ऐतरेयिणोऽपि ‘
अथातो रेतसः सृष्टिः प्रजापते रेतो देवाः’
इत्यत्र पूर्वस्मिन्प्रकरणे प्रजापतिकर्तृकां विचित्रां सृष्टिमामनन्ति ।
आत्मशब्दोऽपि तस्मिन्प्रयुज्यमानो दृश्यते —
‘आत्मैवेदमग्र आसीत्पुरुषविधः’ (बृ. उ. १ । ४ । १) इत्यत्र ।
एकत्वावधारणमपि प्रागुत्पत्तेः स्वविकारापेक्षमुपपद्यते ।
ईक्षणमपि तस्य चेतनत्वाभ्युपगमादुपपन्नम् ।
अपि च ‘
ताभ्यो गामानयत्’ ‘
ताभ्योऽश्वमानयत्’ ‘
ताभ्यः पुरुषमानयत्’ ‘
ता अब्रुवन्’
इत्येवंजातीयको भूयान् व्यापारविशेषः लौकिकेषु विशेषवत्सु आत्मसु प्रसिद्धः इहानुगम्यते ।
तस्मात् विशेषवानेव कश्चिदिह आत्मा स्यादित्येवं प्राप्ते ब्रूमः —
अन्वयादिति चेत्स्यादवधारणात् ॥ १७ ॥
अपरा योजना —
आत्मगृहीतिरितरवदुत्तरात् ।
वाजसनेयके ‘कतम आत्मेति योऽयं विज्ञानमयः प्राणेषु हृद्यन्तर्ज्योतिः पुरुषः’ (बृ. उ. ४ । ३ । ७) इत्यात्मशब्देनोपक्रम्य,
तस्यैव सर्वसङ्गविनिर्मुक्तत्वप्रतिपादनेन ब्रह्मात्मतामवधारयति ।
तथा हि उपसंहरति —
‘स वा एष महानज आत्माऽजरोऽमरोऽमृतोऽभयो ब्रह्म’ (बृ. उ. ४ । ४ । २५) इति ।
छान्दोग्ये तु ‘सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्’ (छा. उ. ६ । २ । १) इति अन्तरेणैवात्मशब्दम् उपक्रम्य उदर्के ‘स आत्मा तत्त्वमसि’ (छा. उ. ६ । ८ । ७) इति तादात्म्यमुपदिशति ।
तत्र संशयः —
तुल्यार्थत्वं किमनयोराम्नानयोः स्यात् ,
अतुल्यार्थत्वं वेति ।
अतुल्यार्थत्वमिति तावत् प्राप्तम् ,
अतुल्यत्वादाम्नानयोः ।
न हि आम्नानवैषम्ये सति अर्थसाम्यं युक्तं प्रतिपत्तुम् ,
आम्नानतन्त्रत्वादर्थपरिग्रहस्य ।
वाजसनेयके च आत्मशब्दोपक्रमात् आत्मतत्त्वोपदेश इति गम्यते ।
छान्दोग्ये तु उपक्रमविपर्ययात् उपदेशविपर्ययः ।
ननु छन्दोगानामपि अस्त्युदर्के तादात्म्योपदेश इत्युक्तम्;
सत्यमुक्तम् ,
उपक्रमतन्त्रत्वादुपसंहारस्य,
तादात्म्यसम्पत्तिः सा —
इति मन्यते ।
तथा प्राप्ते,
अभिधीयते —
आत्मगृहीतिः ‘सदेव सोम्येदमग्र आसीत्’ (छा. उ. ६ । २ । १) इत्यत्र च्छन्दोगानामपि भवितुमर्हति ।
इतरवत् —
यथा ‘कतम आत्मा’ (बृ. उ. ४ । ३ । ७) इत्यत्र वाजसनेयिनामात्मगृहीतिः,
तथैव ।
कस्मात् ?
उत्तरात् तादात्म्योपदेशात् ।
अन्वयादिति चेत्स्यादवधारणात् —
यदुक्तम् ,
उपक्रमान्वयात् उपक्रमे च आत्मशब्दश्रवणाभावात् न आत्मगृहीतिरिति,
तस्य कः परिहार इति चेत् ,
सोऽभिधीयते —
स्यादवधारणादिति ।
भवेदुपपन्ना इह आत्मगृहीतिः,
अवधारणात् ।
तथा हि —
‘येनाश्रुतꣳ श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातम्’ (छा. उ. ६ । १ । ३) इत्येकविज्ञानेन सर्वविज्ञानमवधार्य,
तत्सम्पिपादयिषया ‘
सदेव’
इत्याह;
तच्च आत्मगृहीतौ सत्यां सम्पद्यते ।
अन्यथा हि,
योऽयं मुख्य आत्मा स न विज्ञात इति,
नैव सर्वविज्ञानं सम्पद्येत ।
तथा प्रागुत्पत्तेः एकत्वावधारणम् ,
जीवस्य च आत्मशब्देन परामर्शः,
स्वापावस्थायां च तत्स्वभावसम्पत्तिकथनम् ,
परिचोदनापूर्वकं च पुनः पुनः ‘तत्त्वमसि’ (छा. उ. ६ । ८ । ७) इत्यवधारणम् —
इति च सर्वमेतत् तादात्म्यप्रतिपादनायामेव अवकल्पते,
न तादात्म्यसम्पादनायाम् ।
न च अत्र उपक्रमतन्त्रत्वोपन्यासो न्याय्यः ।
न हि उपक्रमे आत्मत्वसङ्कीर्तनम् अनात्मत्वसङ्कीर्तनं वा अस्ति ।
सामान्योपक्रमश्च न वाक्यशेषगतेन विशेषेण विरुध्यते,
विशेषाकाङ्क्षित्वात्सामान्यस्य ।
सच्छब्दार्थोऽपि च पर्यालोच्यमानः न मुख्यादात्मनोऽन्यः सम्भवति,
अतोऽन्यस्य वस्तुजातस्य आरम्भणशब्दादिभ्योऽनृतत्वोपपत्तेः ।
आम्नानवैषम्यमपि नावश्यमर्थवैषम्यमावहति, ‘
आहर पात्रम्’ ‘
पात्रमाहर’
इत्येवमादिषु अर्थसाम्येऽपि तद्दर्शनात् ।
तस्मात् एवंजातीयकेषु वाक्येषु प्रतिपादनप्रकारभेदेऽपि प्रतिपाद्यार्थाभेद इति सिद्धम् ॥ १७ ॥
कार्याख्यानादपूर्वम् ॥ १८ ॥
न आचमनस्य विधेयत्वमुपपद्यते,
कार्याख्यानात् —
प्राप्तमेव हि इदं कार्यत्वेन आचमनं प्रायत्यार्थं स्मृतिप्रसिद्धम् अन्वाख्यायते ।
ननु इयं श्रुतिः तस्याः स्मृतेर्मूलं स्यात्;
नेत्युच्यते,
विषयनानात्वात् ।
सामान्यविषया हि स्मृतिः पुरुषमात्रसम्बद्धं प्रायत्यार्थमाचमनं प्रापयति ।
श्रुतिस्तु प्राणविद्याप्रकरणपठिता तद्विषयमेव आचमनं विदधती विदध्यात् ।
न च भिन्नविषययोः श्रुतिस्मृत्योः मूलमूलिभावोऽवकल्पते ।
न च इयं श्रुतिः प्राणविद्यासंयोगि अपूर्वमाचमनं विधास्यतीति शक्यमाश्रयितुम् ,
पूर्वस्यैव पुरुषमात्रसंयोगिन आचमनस्य इह प्रत्यभिज्ञायमानत्वात् ।
अत एव च नोभयविधानम् ।
उभयविधाने च वाक्यं भिद्येत ।
तस्मात् प्राप्तमेव अशिशिषतामशितवतां च उभयत आचमनम् अनूद्य,
‘एतमेव तदनमनग्नं कुर्वन्तो मन्यन्ते’ (बृ. उ. ६ । १ । १४) इति प्राणस्य अनग्नताकरणसङ्कल्पः अनेन वाक्येन आचमनीयास्वप्सु प्राणविद्यासम्बन्धित्वेन अपूर्व उपदिश्यते ।
न च अयमनग्नतावादः आचमनस्तुत्यर्थ इति न्याय्यम् ,
आचमनस्याविधेयत्वात् ।
स्वयं च अनग्नतासङ्कल्पस्य विधेयत्वप्रतीतेः ।
न च एवं सति एकस्य आचमनस्य उभयार्थता अभ्युपगता भवति —
प्रायत्यार्थता परिधानार्थता चेति ।
क्रियान्तरत्वाभ्युपगमात् —
क्रियान्तरमेव हि आचमनं नाम प्रायत्यार्थं पुरुषस्य अभ्युपगम्यते ।
तदीयासु तु अप्सु वासःसङ्कल्पनं नाम क्रियान्तरमेव परिधानार्थं प्राणस्य अभ्युपगम्यत इत्यनवद्यम् ।
अपि च ‘यदिदं किञ्चा श्वभ्य आ कृमिभ्य आ कीटपतङ्गेभ्यस्तत्तेऽन्नम्’ (बृ. उ. ६ । १ । १४) इत्यत्र तावत् न सर्वान्नाभ्यवहारश्चोद्यत इति शक्यं वक्तुम् ,
अशब्दत्वादशक्यत्वाच्च ।
सर्वं तु प्राणस्यान्नमिति इयमन्नदृष्टिश्चोद्यते ।
तत्साहचर्याच्च ‘
आपो वासः’
इत्यत्रापि न अपामाचमनं चोद्यते ।
प्रसिद्धास्वेव तु आचमनीयास्वप्सु परिधानदृष्टिश्चोद्यत इति युक्तम् ।
न हि अर्धवैशसं सम्भवति ।
अपि च आचामन्तीति वर्तमानापदेशित्वात् नायं शब्दो विधिक्षमः ।
ननु मन्यन्त इत्यपि समानं वर्तमानापदेशित्वम्;
सत्यमेवमेतत्;
अवश्यविधेये तु अन्यतरस्मिन् वासःकार्याख्यानात् अपां वासःसङ्कल्पनमेव अपूर्वं विधीयते ।
न आचमनम् ।
पूर्ववद्धि तत् —
इत्युपपादितम् ।
यदप्युक्तम् —
विस्पष्टा च आचमने विधिविभक्तिरिति,
तदपि पूर्ववत्त्वेनैव आचमनस्य प्रत्युक्तम् ।
अत एव आचमनस्याविधित्सितत्वात् ‘
एतमेव तदनमनग्नं कुर्वन्तो मन्यन्ते’
इत्यत्रैव काण्वाः पर्यवस्यन्ति,
न आमनन्ति ‘
तस्मादेवंवित्’
इत्यादि तस्मात् माध्यन्दिनानामपि पाठे आचमनानुवादेन एवंवित्त्वमेव प्रकृतप्राणवासोवित्त्वं विधीयत इति प्रतिपत्तव्यम् ।
योऽप्ययमभ्युपगमः —
क्वचिदाचमनं विधीयताम् ,
क्वचिद्वासोविज्ञानमिति —
सोऽपि न साधुः, ‘
आपो वासः’
इत्यादिकाया वाक्यप्रवृत्तेः सर्वत्रैकरूप्यात् ।
तस्मात् वासोविज्ञानमेव इह विधीयते,
न आचमनमिति न्याय्यम् ॥ १८ ॥
समान एवं चाभेदात् ॥ १९ ॥
वाजसनेयिशाखायाम् अग्निरहस्ये शाण्डिल्यनामाङ्किता विद्या विज्ञाता ।
तत्र च गुणाः श्रूयन्ते — ‘
स आत्मानमुपासीत मनोमयं प्राणशरीरं भारूपम्’
इत्येवमादयः ।
तस्यामेव शाखायां बृहदारण्यके पुनः पठ्यते —
‘मनोमयोऽयं पुरुषो भाःसत्यस्तस्मिन्नन्तर्हृदये यथा व्रीहिर्वा यवो वा स एष सर्वस्येशानः सर्वस्याधिपतिः सर्वमिदं प्रशास्ति यदिदं किञ्च’ (बृ. उ. ५ । ६ । १) इति ।
तत्र संशयः —
किमियम् एका विद्या अग्निरहस्यबृहदारण्यकयोः गुणोपसंहारश्च,
उत द्वे इमे विद्ये गुणानुपसंहारश्चेति ।
किं तावत्प्राप्तम् ?
विद्याभेदः गुणव्यवस्था चेति ।
कुतः ?
पौनरुक्त्यप्रसङ्गात् —
भिन्नासु हि शाखासु अध्येतृवेदितृभेदात् पौनरुक्त्यपरिहारमालोच्य विद्यैकत्वमध्यवसाय एकत्रातिरिक्ता गुणा इतरत्रोपसंह्रियन्ते प्राणसंवादादिषु —
इत्युक्तम् ।
एकस्यां पुनः शाखायाम् अध्येतृवेदितृभेदाभावात् अशक्यपरिहारे पौनरुक्त्ये न विप्रकृष्टदेशस्था एका विद्या भवितुमर्हति ।
न च अत्र एकमाम्नानं विद्याविधानार्थम् ,
अपरं गुणविधानार्थम् —
इति विभागः सम्भवति ।
तदा हि अतिरिक्ता एव गुणा इतरत्रेतरत्र च आम्नायेरन् ,
न समानाः ।
समाना अपि तु उभयत्राम्नायन्ते मनोमयत्वादयः ।
तस्मात् नान्योन्यगुणोपसंहार इत्येवं प्राप्ते ब्रूमहे —
यथा भिन्नासु शाखासु विद्यैकत्वं गुणोपसंहारश्च भवति एवमेकस्यामपि शाखायां भवितुमर्हति, उपास्याभेदात् । तदेव हि ब्रह्म मनोमयत्वादिगुणकम् उभयत्रापि उपास्यम् अभिन्नं प्रत्यभिजानीमहे । उपास्यं च रूपं विद्यायाः । न च विद्यमाने रूपाभेदे विद्याभेदमध्यवसातुं शक्नुमः । नापि विद्याऽभेदे गुणव्यवस्थानम् । ननु पौनरुक्त्यप्रसङ्गात् विद्याभेदोऽध्यवसितः; नेत्युच्यते, अर्थविभागोपपत्तेः — एकं हि आम्नानं विद्याविधानार्थम् , अपरं गुणविधानार्थम् — इति न किञ्चिन्नोपपद्यते । ननु एवं सति यदपठितमग्निरहस्ये, तदेव बृहदारण्यके पठितव्यम् — ‘स एष सर्वस्येशानः’ इत्यादि । यत्तु पठितमेव ‘मनोमयः’ इत्यादि, तन्न पठितव्यम् — नैष दोषः, तद्बलेनैव प्रदेशान्तरपठितविद्याप्रत्यभिज्ञानात् । समानगुणाम्नानेन हि विप्रकृष्टदेशां शाण्डिल्यविद्यां प्रत्यभिज्ञाप्य तस्याम् ईशानत्वादि उपदिश्यते । अन्यथा हि कथं तस्याम् अयं गुणविधिरभिधीयते । अपि च अप्राप्तांशोपदेशेन अर्थवति वाक्ये सञ्जाते, प्राप्तांशपरामर्शस्य नित्यानुवादतयापि उपपद्यमानत्वात् न तद्बलेन प्रत्यभिज्ञा उपेक्षितुं शक्यते । तस्मादत्र समानायामपि शाखायां विद्यैकत्वं गुणोपसंहारश्चेत्युपपन्नम् ॥ १९ ॥
सम्बन्धादेवमन्यत्रापि ॥ २० ॥
बृहदारण्यके ‘सत्यं ब्रह्म’ (बृ. उ. ५ । ५ । १) इत्युपक्रम्य,
‘तद्यत्तत्सत्यमसौ स आदित्यो य एष एतस्मिन्मण्डले पुरुषो यश्चायं दक्षिणेऽक्षन्पुरुषः’ (बृ. उ. ५ । ५ । २) इति तस्यैव सत्यस्य ब्रह्मणः अधिदैवतमध्यात्मं च आयतनविशेषमुपदिश्य,
व्याहृतिशरीरत्वं च सम्पाद्य,
द्वे उपनिषदावुपदिश्येते — ‘
तस्योपनिषदहः’
इति —
अधिदैवतम् , ‘
तस्योपनिषदहम्’
इति —
अध्यात्मम् ।
तत्र संशयः —
किमविभागेनैव उभे अपि उपनिषदावुभयत्रानुसन्धातव्ये,
उत विभागेन —
एका अधिदैवतम् ,
एका अध्यात्ममिति ।
तत्र सूत्रेणैवोपक्रमते —
यथा शाण्डिल्यविद्यायां विभागेनाप्यधीतायां गुणोपसंहार उक्तः,
एवमन्यत्रापि एवंजातीयके विषये भवितुमर्हति,
एकविद्याभिसम्बन्धात् —
एका हि इयं सत्यविद्या अधिदैवतम् अध्यात्मं च अधीता,
उपक्रमाभेदात् व्यतिषक्तपाठाच्च ।
कथं तस्यामुदितो धर्मः तस्यामेव न स्यात् ।
यो ह्याचार्ये कश्चिदनुगमनादिराचारश्चोदितः,
स ग्रामगतेऽरण्यगते च तुल्यवदेव भवति ।
तस्मात् उभयोरप्युपनिषदोः उभयत्र प्राप्तिरिति ॥ २० ॥
एवं प्राप्ते, प्रतिविधत्ते —
न वा विशेषात् ॥ २१ ॥
न वा उभयोः उभयत्र प्राप्तिः ।
कस्मात् ?
विशेषात् ,
उपासनस्थानविशेषोपनिबन्धादित्यर्थः ।
कथं स्थानविशेषोपनिबन्ध इति,
उच्यते —
‘य एष एतस्मिन्मण्डले पुरुषः’ (बृ. उ. ५ । ५ । ३) इति हि आधिदैविकं पुरुषं प्रकृत्य, ‘
तस्योपनिषदहः’
इति श्रावयति ।
‘योऽयं दक्षिणेऽक्षन्पुरुषः’ (बृ. उ. ५ । ५ । ४) इति च आध्यात्मिकं पुरुषं प्रकृत्य, ‘
तस्योपनिषदहम्’
इति ।
तस्येति च एतत् सन्निहितावलम्बनं सर्वनाम ।
तस्मात् आयतनविशेषव्यपाश्रयेणैव एते उपनिषदावुपदिश्येते ।
कुत उभयोरुभयत्र प्राप्तिः ।
ननु एक एवायम् अधिदैवतमध्यात्मं च पुरुषः,
एकस्यैव सत्यस्य ब्रह्मण आयतनद्वयप्रतिपादनात् ।
सत्यमेवमेतत् ।
एकस्यापि तु अवस्थाविशेषोपादानेनैव उपनिषद्विशेषोपदेशात् तदवस्थस्यैव सा भवितुमर्हति ।
अस्ति चायं दृष्टान्तः —
सत्यपि आचार्यस्वरूपानपाये,
यत् आचार्यस्य आसीनस्य अनुवर्तनमुक्तम् ,
न तत् तिष्ठतो भवति ।
यच्च तिष्ठत उक्तम् ,
न तदासीनस्येति ।
ग्रामारण्ययोस्तु आचार्यस्वरूपानपायात् तत्स्वरूपानुबद्धस्य च धर्मस्य ग्रामारण्यकृतविशेषाभावात् उभयत्र तुल्यवद्भाव इति अदृष्टान्तः सः ।
तस्मात् व्यवस्था अनयोरुपनिषदोः ॥ २१ ॥
सम्भृतिद्युव्याप्त्यपि चातः ॥ २३ ॥
पुरुषविद्यायामिव चेतरेषामनाम्नानात् ॥ २४ ॥
अस्ति ताण्डिनां पैङ्गिनां च रहस्यब्राह्मणे पुरुषविद्या ।
तत्र पुरुषो यज्ञः कल्पितः ।
तदीयमायुः त्रेधा विभज्य सवनत्रयं कल्पितम् ।
अशिशिषादीनि च दीक्षादिभावेन कल्पितानि ।
अन्ये च धर्मास्तत्र समधिगता आशीर्मन्त्रप्रयोगादयः ।
तैत्तिरीयका अपि कञ्चित् पुरुषयज्ञं कल्पयन्ति —
‘तस्यैवंविदुषो यज्ञस्यात्मा यजमानः श्रद्धा पत्नी’ (ना. उ. ८०) इत्येतेनानुवाकेन ।
तत्र संशयः —
किमितरत्र उक्ताः पुरुषयज्ञस्य धर्माः ते तैत्तिरीयके प्युपसंहर्तव्याः,
किं वा नोपसंहर्तव्या इति ।
पुरुषयज्ञत्वाविशेषात् उपसंहारप्राप्तौ,
आचक्ष्महे —
नोपसंहर्तव्या इति ।
कस्मात् ?
तद्रूपप्रत्यभिज्ञानाभावात् ।
तदाहाचार्यः पुरुषविद्यायामिवेति —
यथा एकेषां शाखिनां ताण्डिनां पैङ्गिनां च पुरुषविद्यायामाम्नानम् ,
नैवम् इतरेषां तैत्तिरीयाणामाम्नानमस्ति ।
तेषां हि इतरविलक्षणमेव यज्ञसम्पादनं दृश्यते,
पत्नीयजमानवेदवेदिबर्हिर्यूपाज्यपश्वृत्विगाद्यनुक्रमणात् ।
यदपि सवनसम्पादनं तदपि इतरविलक्षणमेव —
‘यत्प्रातर्मध्यन्दिनं सायं च तानि’ (ना. उ. ८०) इति ।
यदपि किञ्चित् मरणावभृथत्वादिसाम्यम् ,
तदपि अल्पीयस्त्वात् भूयसा वैलक्षण्येन अभिभूयमानं न प्रत्यभिज्ञापनक्षमम् ।
न च तैत्तिरीयके पुरुषस्य यज्ञत्वं श्रूयते । ‘
विदुषः’ ‘
यज्ञस्य’
इति हि न च एते समानाधिकरणे षष्ठ्यौ —
विद्वानेव यो यज्ञस्तस्येति ।
न हि पुरुषस्य मुख्यं यज्ञत्वमस्ति ।
व्यधिकरणे तु एते षष्ठ्यौ —
विदुषो यो यज्ञस्तस्येति ।
भवति हि पुरुषस्य मुख्यो यज्ञसम्बन्धः ।
सत्यां च गतौ,
मुख्य एवार्थ आश्रयितव्यः,
न भाक्तः । ‘
आत्मा यजमानः’
इति च यजमानत्वं पुरुषस्य निर्ब्रुवन् वैयधिकरण्येनैव अस्य यज्ञसम्बन्धं दर्शयति ।
अपि च ‘
तस्यैवं विदुषः’
इति सिद्धवदनुवादश्रुतौ सत्याम् ,
पुरुषस्य यज्ञभावम् आत्मादीनां च यजमानादिभावं प्रतिपित्समानस्य वाक्यभेदः स्यात् ।
अपि च ससंन्यासामात्मविद्यां पुरस्तादुपदिश्य अनन्तरम् ‘
तस्यैवं विदुषः’
इत्याद्यनुक्रमणं पश्यन्तः —
पूर्वशेष एव एष आम्नायः,
न स्वतन्त्र इति प्रतीमः ।
तथा च एकमेव फलमुभयोरप्यनुवाकयोरुपलभामहे —
‘ब्रह्मणो महिमानमाप्नोति’ (ना. उ. ८०) इति;
इतरेषां तु अनन्यशेषः पुरुषविद्याम्नायः ।
आयुरभिवृद्धिफलो ह्यसौ,
‘प्र ह षोडशं वर्षशतं जीवति य एवं वेद’ (छा. उ. ३ । १६ । ७) इति समभिव्याहारात् ।
तस्मात् शाखान्तराधीतानां पुरुषविद्याधर्माणामाशीर्मन्त्रादीनामप्राप्तिः तैत्तिरीयके ॥ २४ ॥
वेधाद्यर्थभेदात् ॥ २५ ॥
अस्त्याथर्वणिकानामुपनिषदारम्भे मन्त्रसमाम्नायः — ‘
सर्वं प्रविध्य हृदयं प्रविध्य धमनीः प्रवृज्य शिरोऽभिप्रवृज्य त्रिधा विपृक्तः’
इत्यादिः ।
ताण्डिनाम् — ‘
देव सवितः प्रसुव यज्ञम्’
इत्यादिः ।
शाट्यायनिनाम् — ‘
श्वेताश्वो हरितनीलोऽसि’
इत्यादिः ।
कठानां तैत्तिरीयाणां च —
‘शं नो मित्रः शं वरुणः’ (तै. उ. १ । १ । १) इत्यादिः ।
वाजसनेयिनां तु उपनिषदारम्भे प्रवर्ग्यब्राह्मणं पठ्यते — ‘
देवा ह वै सत्रं निषेदुः’
इत्यादि ।
कौषीतकिनामपि अग्निष्टोमब्राह्मणम् — ‘
ब्रह्म वा अग्निष्टोमो ब्रह्मैव तदहर्ब्रह्मणैव ते ब्रह्मोपयन्ति तेऽमृतत्वमाप्नुवन्ति य एतदहरुपयन्ति’
इति ।
किमिमे सर्वं प्रविध्येत्यादयो मन्त्राः प्रवर्ग्यादीनि च कर्माणि विद्यासु उपसंह्रियेरन् ,
किं वा न उपसंह्रियेरन् —
इति मीमांसामहे ।
किं तावत् नः प्रतिभाति ?
उपसंहार एव एषां विद्यास्विति ।
कुतः ?
विद्याप्रधानानामुपनिषद्ग्रन्थानां समीपे पाठात् ।
ननु एषां विद्यार्थतया विधानं नोपलभामहे —
बाढम् ,
अनुपलभमाना अपि तु अनुमास्यामहे,
सन्निधिसामर्थ्यात् ।
न हि सन्निधेः अर्थवत्त्वे सम्भवति,
अकस्मादसावनाश्रयितुं युक्तः ।
ननु नैषां मन्त्राणां विद्याविषयं किञ्चित्सामर्थ्यं पश्यामः ।
कथं च प्रवर्ग्यादीनि कर्माणि अन्यार्थत्वेनैव विनियुक्तानि सन्ति विद्यार्थत्वेनापि प्रतिपद्येमहीति ।
नैष दोषः ।
सामर्थ्यं तावत् मन्त्राणां विद्याविषयमपि किञ्चित् शक्यं कल्पयितुम् ,
हृदयादिसङ्कीर्तनात् ।
हृदयादीनि हि प्रायेण उपासनेषु आयतनादिभावेनोपदिष्टानि ।
तद्द्वारेण च ‘
हृदयं प्रविध्य’
इत्येवंजातीयकानां मन्त्राणाम् उपपन्नमुपासनाङ्गत्वम्;
दृष्टश्च उपासनेष्वपि मन्त्रविनियोगः —
‘भूः प्रपद्येऽमुनाऽमुनाऽमुना’ (छा. उ. ३ । १५ । ३) इत्येवमादिः ।
तथा प्रवर्ग्यादीनां कर्मणाम् अन्यत्रापि विनियुक्तानां सताम् अविरुद्धो विद्यासु विनियोगः —
वाजपेय इव बृहस्पतिसवस्य —
इत्येवं प्राप्ते ब्रूमः —
नैषामुपसंहारो विद्यास्विति । कस्मात् ? वेधाद्यर्थभेदात् — ‘हृदयं प्रविध्य’ इत्येवंजातीयकानां हि मन्त्राणां येऽर्था हृदयवेधादयः, भिन्नाः अनभिसम्बद्धाः ते उपनिषदुदिताभिर्विद्याभिः । न तेषां ताभिः सङ्गन्तुं सामर्थ्यमस्ति । ननु हृदयस्य उपासनेष्वप्युपयोगात् तद्द्वारक उपासनासम्बन्ध उपन्यस्तः — नेत्युच्यते । हृदयमात्रसङ्कीर्तनस्य हि एवमुपयोगः कथञ्चिदुत्प्रेक्ष्येत । न च हृदयमात्रमत्र मन्त्रार्थः । ‘हृदयं प्रविध्य धमनीः प्रवृज्य’ इत्येवंजातीयको हि न सकलो मन्त्रार्थो विद्याभिरभिसम्बध्यते । अभिचारिकविषयो ह्येषोऽर्थः । तस्मादाभिचारिकेण कर्मणा ‘सर्वं प्रविध्य’ इत्येतस्य मन्त्रस्याभिसम्बन्धः । तथा ‘देव सवितः प्रसुव यज्ञम्’ इत्यस्य यज्ञप्रसवलिङ्गत्वात् यज्ञेन कर्मणा अभिसम्बन्धः । तद्विशेषसम्बन्धस्तु प्रमाणान्तरादनुसर्तव्यः । एवमन्येषामपि मन्त्राणाम् — केषाञ्चित् लिङ्गेन, केषाञ्चिद्वचनेन, केषाञ्चित्प्रमाणान्तरेणेत्येवम् — अर्थान्तरेषु विनियुक्तानाम् , रहस्यपठितानामपि सताम् , न सन्निधिमात्रेण विद्याशेषत्वोपपत्तिः । दुर्बलो हि सन्निधिः श्रुत्यादिभ्य इत्युक्तं प्रथमे तन्त्रे — ‘श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां समवाये पारदौर्बल्यमर्थविप्रकर्षात्’ (जै. सू. ३ । ३ । १४) इत्यत्र । तथा कर्मणामपि प्रवर्ग्यादीनामन्यत्र विनियुक्तानां न विद्याशेषत्वोपपत्तिः । न ह्येषां विद्याभिः सह ऐकार्थ्यं किञ्चिदस्ति । वाजपेये तु बृहस्पतिसवस्य स्पष्टं विनियोगान्तरम् — ‘वाजपेयेनेष्ट्वा बृहस्पतिसवेन यजेत’ इति । अपि च एकोऽयं प्रवर्ग्यः सकृदुत्पन्नो बलीयसा प्रमाणेन अन्यत्र विनियुक्तः न दुर्बलेन प्रमाणेन अन्यत्रापि विनियोगमर्हति । अगृह्यमाणविशेषत्वे हि प्रमाणयोः एतदेवं स्यात् । न तु बलवदबलवतोः प्रमाणयोरगृह्यमाणविशेषता सम्भवति, बलवदबलवत्त्वविशेषादेव । तस्मात् एवंजातीयकानां मन्त्राणां कर्मणां वा न सन्निधिपाठमात्रेण विद्याशेषत्वमाशङ्कितव्यम् । अरण्यानुवचनादिधर्मसामान्यात्तु सन्निधिपाठ इति संतोष्टव्यम् ॥ २५ ॥
हानौ तूपायनशब्दशेषत्वात्कुशाच्छन्दस्तुत्युपगानवत्तदुक्तम् ॥ २६ ॥
अस्यां प्राप्तौ पठति —
हानाविति ।
हानौ तु एतस्यां केवलायामपि श्रूयमाणायाम् उपायनं सन्निपतितुमर्हति ।
तच्छेषत्वात् —
हानशब्दशेषो हि उपायनशब्दः समधिगतः कौषीतकिरहस्ये ।
तस्मादन्यत्र केवलहानशब्दश्रवणेऽप्युपायनानुवृत्तिः ।
यदुक्तम् —
अश्रवणात् विद्यान्तरगोचरत्वात् अनावश्यकत्वाच्च असन्निपात इति,
तदुच्यते —
भवेदेषा व्यवस्थोक्तिः,
यद्यनुष्ठेयं किञ्चिदन्यत्र श्रुतम् अन्यत्र निनीष्येत ।
न त्विह हानमुपायनं वा अनुष्ठेयत्वेन सङ्कीर्त्यते ।
विद्यास्तुत्यर्थं तु अनयोः सङ्कीर्तनम् —
इत्थं महाभागा विद्या,
यत्सामर्थ्यादस्य विदुषः सुकृतदुष्कृते संसारकारणभूते विधूयेते,
ते च अस्य सुहृद्द्विषत्सु निविशेते इति ।
स्तुत्यर्थे च अस्मिन्संकीर्तने,
हानानन्तरभावित्वेनोपायनस्य,
क्वचिच्छ्रुतत्वात् अन्यत्रापि हानश्रुतावुपायनानुवृत्तिं मन्यते —
स्तुतिप्रकर्षलाभाय ।
प्रसिद्धा च अर्थवादान्तरापेक्षा अर्थवादान्तरप्रवृत्तिः —
‘एकविंशो वा इतोऽसावादित्यः’ (छा. उ. २ । १० । ५) इत्येवमादिषु ।
कथं हि इह एकविंशता आदित्यस्याभिधीयेत,
अनपेक्ष्यमाणेऽर्थवादान्तरे —
‘द्वादश मासाः पञ्चर्तवस्त्रय इमे लोका असावादित्य एकविंशः’(तै॰सं॰ ५-१-१०) इत्येतस्मिन् ।
तथा ‘
त्रिष्टुभौ भवतः सेन्द्रियत्वाय’
इत्येवमादिवादेषु ‘
इन्द्रियं वै त्रिष्टुप्’
इत्येवमाद्यर्थवादान्तरापेक्षा दृश्यते ।
विद्यास्तुत्यर्थत्वाच्च अस्योपायनवादस्य,
कथमन्यदीये सुकृतदुष्कृते अन्यैरुपेयेते इति नातीवाभिनिवेष्टव्यम् ।
उपायनशब्दशेषत्वादिति च शब्दशब्दं समुच्चारयन् स्तुत्यर्थामेव हानावुपायनानुवृत्तिं सूचयति ।
गुणोपसंहारविवक्षायां हि उपायनार्थस्यैव हानावनुवृत्तिं ब्रूयात् ।
तस्मात् गुणोपसंहारविचारप्रसङ्गेन स्तुत्युपसंहारप्रदर्शनार्थमिदं सूत्रम् ।
कुशाच्छन्दस्तुत्युपगानवदिति उपमोपादानम् ।
तद्यथा —
भाल्लविनाम् ‘
कुशा वानस्पत्याः स्थ ता मा पात’
इत्येतस्मिन्निगमे कुशानामविशेषेण वनस्पतियोनित्वेन श्रवणे,
शाट्यायनिनाम् ‘
औदुम्बराः कुशा’
इति विशेषवचनात् औदुम्बर्यः कुशा आश्रीयन्ते ।
यथा च क्वचित् देवासुरच्छन्दसामविशेषेण पौर्वापर्यप्रसङ्गे,
देवच्छन्दांसि पूर्वाणीति पैङ्ग्याम्नानात्प्रतीयते ।
यथा च षोडशिस्तोत्रे केषाञ्चित्कालाविशेषप्राप्तौ, ‘
समयाध्युषिते सूर्ये’
इत्यार्चश्रुतेः कालविशेषप्रतिपत्तिः ।
यथैव च अविशेषेणोपगानं केचित्समामनन्ति विशेषेण भाल्लविनः —
यथा एतेषु कुशादिषु श्रुत्यन्तरगतविशेषान्वयः,
एवं हानावप्युपायनान्वय इत्यर्थः ।
श्रुत्यन्तरकृतं हि विशेषं श्रुत्यन्तरेऽनभ्युपगच्छतः सर्वत्रैव विकल्पः स्यात् ।
स च अन्याय्यः सत्यां गतौ ।
तदुक्तं द्वादशलक्षण्याम् —
‘अपि तु वाक्यशेषत्वादितरपर्युदासः स्यात्प्रतिषेधे विकल्पः स्यात्’ (जै॰सू॰ १०-८-१५)इति ॥
अथवा एतास्वेव विधूननश्रुतिषु एतेन सूत्रेण एतच्चिन्तयितव्यम् —
किमनेन विधूननवचनेन सुकृतदुष्कृतयोर्हानमभिधीयते,
किं वा अर्थान्तरमिति ।
तत्र च एवं प्रापयितव्यम् —
न हानं विधूननमभिधीयते, ‘
धूञ् कम्पने’
इति स्मरणात् , ‘
दोधूयन्ते ध्वजाग्राणि’
इति च वायुना चाल्यमानेषु ध्वजाग्रेषु प्रयोगदर्शनात् ।
तस्मात् चालनं विधूननमभिधीयते ।
चालनं तु सुकृतदुष्कृतयोः कञ्चित्कालं फलप्रतिबन्धनात् —
इत्येवं प्रापय्य,
प्रतिवक्तव्यम् —
हानावेव एष विधूननशब्दो वर्तितुमर्हति,
उपायनशब्दशेषत्वात् ।
न हि परपरिग्रहभूतयोः सुकृतदुष्कृतयोः अप्रहीणयोः परैरुपायनं सम्भवति ।
यद्यपि इदं परकीययोः सुकृतदुष्कृतयोः परैरुपायनं न आञ्जसं सम्भाव्यते,
तथापि तत्सङ्कीर्तनात्तावत् तदानुगुण्येन हानमेव विधूननं नामेति निर्णेतुं शक्यते ।
क्वचिदपि च इदं विधूननसन्निधावुपायनं श्रूयमाणं कुशाच्छन्दस्तुत्युपगानवत् विधूननश्रुत्या सर्वत्रापेक्ष्यमाणं सार्वत्रिकं निर्णयकारणं सम्पद्यते ।
न च चालनं ध्वजाग्रवत् सुकृतदुष्कृतयोर्मुख्यं सम्भवति,
अद्रव्यत्वात् ।
अश्वश्च रोमाणि विधून्वानः त्यजन् रजः सहैव तेन रोमाण्यपि जीर्णानि शातयति —
‘अश्व इव रोमाणि विधूय पापम्’ (छा. उ. ८ । १३ । १) इति च ब्राह्मणम् ।
अनेकार्थत्वाभ्युपगमाच्च धातूनां न स्मरणविरोधः ।
तदुक्तमिति व्याख्यातम् ॥ २६ ॥
साम्पराये तर्तव्याभावात्तथा ह्यन्ये ॥ २७ ॥
देवयानेन पथा पर्यङ्कस्थं ब्रह्म अभिप्रस्थितस्य व्यध्वनि सुकृतदुष्कृतयोर्वियोगं कौषीतकिनः पर्यङ्कविद्यायामामनन्ति —
‘स एतं देवयानं पन्थानमापद्याग्निलोकमागच्छति’ (कौ. उ. १ । ३) इत्युपक्रम्य,
‘स आगच्छति विरजां नदीं तां मनसैवात्येति तत्सुकृतदुष्कृते विधूनुते’ (कौ. उ. १ । ४) इति ।
तत् किं यथाश्रुतं व्यध्वन्येव वियोगवचनं प्रतिपत्तव्यम् ,
आहोस्वित् आदावेव देहादपसर्पणे —
इति विचारणायाम् ,
श्रुतिप्रामाण्यात् यथाश्रुति प्रतिपत्तिप्रसक्तौ,
पठति —
साम्पराय इति ।
साम्पराये गमन एव देहादपसर्पणे,
इदं विद्यासामर्थ्यात्सुकृतदुष्कृतहानं भवति —
इति प्रतिजानीते ।
हेतुं च आचष्टे —
तर्तव्याभावादिति ।
न हि विदुषः सम्परेतस्य विद्यया ब्रह्म संप्रेप्सतः अन्तराले सुकृतदुष्कृताभ्यां किञ्चित्प्राप्तव्यमस्ति,
यदर्थं कतिचित्क्षणानक्षीणे ते कल्प्येयाताम् ।
विद्याविरुद्धफलत्वात्तु विद्यासामर्थ्येन तयोः क्षयः ।
स च यदैव विद्या फलाभिमुखी तदैव भवितुमर्हति ।
तस्मात् प्रागेव सन् अयं सुकृतदुष्कृतक्षयः पश्चात्पठ्यते ।
तथा हि अन्येऽपि शाखिनः ताण्डिनः शाट्यायनिनश्च प्रागवस्थायामेव सुकृतदुष्कृतहानमामनन्ति —
‘अश्व इव रोमाणि विधूय पापम्’ (छा. उ. ८ । १३ । १) इति, ‘
तस्य पुत्रा दायमुपयन्ति सुहृदः साधुकृत्यां द्विषन्तः पापकृत्याम्’
इति च ॥ २७ ॥
छन्दत उभयाविरोधात् ॥ २८ ॥
यदि च देहादपसृप्तस्य देवयानेन पथा प्रस्थितस्य अर्धपथे सुकृतदुष्कृतक्षयोऽभ्युपगम्येत, ततः पतिते देहे यमनियमविद्याभ्यासात्मकस्य सुकृतदुष्कृतक्षयहेतोः पुरुषयत्नस्य इच्छातोऽनुष्ठानानुपपत्तेः अनुपपत्तिरेव तद्धेतुकस्य सुकृतदुष्कृतक्षयस्य स्यात् । तस्मात् पूर्वमेव साधकावस्थायां छन्दतोऽनुष्ठानं तस्य स्यात् , तत्पूर्वकं च सुकृतदुष्कृतहानम् — इति द्रष्टव्यम् । एवं निमित्तनैमित्तिकयोरुपपत्तिः ताण्डिशाट्यायनिश्रुत्योश्च सङ्गतिरिति ॥ २८ ॥
गतेरर्थवत्त्वमुभयथाऽन्यथा हि विरोधः ॥ २९ ॥
क्वचित् पुण्यपापापहानसन्निधौ देवयानः पन्थाः श्रूयते,
क्वचिन्न ।
तत्र संशयः —
किं हानावविशेषेणैव देवयानः पन्थाः सन्निपतेत् ,
उत विभागेन क्वचित्सन्निपतेत् क्वचिन्नेति ।
यथा तावत् हानावविशेषेणैव उपायनानुवृत्तिरुक्ता एवं देवयानानुवृत्तिरपि भवितुमर्हतीत्यस्यां प्राप्तौ,
आचक्ष्महे —
गतेः देवयानस्य पथः,
अर्थवत्त्वम् ,
उभयथा विभागेन भवितुमर्हति —
क्वचिदर्थवती गतिः क्वचिन्नेति;
न अविशेषेण ।
अन्यथा हि अविशेषेणैव एतस्यां गतावङ्गीक्रियमाणायां विरोधः स्यात् —
‘पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति’ (मु. उ. ३ । १ । ३) इत्यस्यां श्रुतौ देशान्तरप्रापणी गतिर्विरुध्येत ।
कथं हि निरञ्जनोऽगन्ता देशान्तरं गच्छेत् ।
गन्तव्यं च परमं साम्यं न देशान्तरप्राप्त्यायत्तम् —
इत्यानर्थक्यमेवात्र गतेर्मन्यामहे ॥ २९ ॥
उपपन्नस्तल्लक्षणार्थोपलब्धेर्लोकवत् ॥ ३० ॥
उपपन्नश्चायम् उभयथाभावः — क्वचिदर्थवती गतिः क्वचिन्नेति । तल्लक्षणार्थोपलब्धेः — गतिकारणभूतोऽर्थः पर्यङ्कविद्यादिषु सगुणेषु उपासनेषु उपलभ्यते । तत्र हि पर्यङ्कारोहणम् , पर्यङ्कस्थेन ब्रह्मणा संवदनम् , विशिष्टगन्धादिप्राप्तिश्च — इत्येवमादि बहु देशान्तरप्राप्त्यायत्तं फलं श्रूयते । तत्र अर्थवती गतिः । न हि सम्यग्दर्शने तल्लक्षणार्थोपलब्धिरस्ति । न हि आत्मैकत्वदर्शिनामाप्तकामानाम् इहैव दग्धाशेषक्लेशबीजानाम् आरब्धभोगकर्माशयक्षपणव्यतिरेकेण अपेक्षितव्यं किञ्चिदस्ति । तत्र अनर्थिका गतिः । लोकवच्च एष विभागो द्रष्टव्यः — यथा लोके ग्रामप्राप्तौ देशान्तरप्रापणः पन्था अपेक्ष्यते, न आरोग्यप्राप्तौ, एवमिहापीति । भूयश्च एनं विभागं चतुर्थाध्याये निपुणतरमुपपादयिष्यामः ॥ ३० ॥
अनियमः सर्वासामविरोधः शब्दानुमानाभ्याम् ॥ ३१ ॥
सगुणासु विद्यासु गतिरर्थवती, न निर्गुणायां परमात्मविद्यायाम् — इत्युक्तम् । सगुणास्वपि विद्यासु कासुचिद्गतिः श्रूयते — यथा पर्यङ्कविद्यायाम् उपकोसलविद्यायां पञ्चाग्निविद्यायां दहरविद्यायामिति । न अन्यासु — यथा मधुविद्यायां शाण्डिल्यविद्यायां षोडशकलविद्यायां वैश्वानरविद्यायामिति । तत्र संशयः — किं यास्वेवैषा गतिः श्रूयते, तास्वेव नियम्येत; उत अनियमेन सर्वाभिरेव एवंजातीयकाभिर्विद्याभिरभिसम्बध्येतेति । किं तावत्प्राप्तम् ? नियम इति । यत्रैव श्रूयते, तत्रैव भवितुमर्हति, प्रकरणस्य नियामकत्वात् । यद्यन्यत्र श्रूयमाणापि गतिः विद्यान्तरं गच्छेत् , श्रुत्यादीनां प्रामाण्यं हीयेत, सर्वस्य सर्वार्थत्वप्रसङ्गात् । अपि च अर्चिरादिका एकैव गतिः उपकोसलविद्यायां पञ्चाग्निविद्यायां च तुल्यवत्पठ्यते । तत् सर्वार्थत्वेऽनर्थकं पुनर्वचनं स्यात् । तस्मान्नियम इत्येवं प्राप्ते पठति —
यावदधिकारमवस्थितिराधिकारिकाणाम् ॥ ३२ ॥
विदुषो वर्तमानदेहपातानन्तरं देहान्तरमुत्पद्यते, न वा — इति चिन्त्यते । ननु विद्यायाः साधनभूतायाः सम्पत्तौ कैवल्यनिर्वृत्तिः स्यात् न वेति नेयं चिन्ता उपपद्यते । न हि पाकसाधनसम्पत्तौ, ओदनो भवेत् न वेति चिन्ता सम्भवति । नापि भुञ्जानः तृप्येत् न वेति चिन्त्यते — उपपन्ना तु इयं चिन्ता, ब्रह्मविदामपि केषाञ्चित् इतिहासपुराणयोर्देहान्तरोत्पत्तिदर्शनात् । तथा हि — अपान्तरतमा नाम वेदाचार्यः पुराणर्षिः विष्णुनियोगात् कलिद्वापरयोः सन्धौ कृष्णद्वैपायनः सम्बभूवेति स्मरन्ति । वसिष्ठश्च ब्रह्मणो मानसः पुत्रः सन् निमिशापादपगतपूर्वदेहः पुनर्ब्रह्मादेशान्मित्रावरुणाभ्यां सम्बभूवेति । भृग्वादीनामपि ब्रह्मण एव मानसपुत्राणां वारुणे यज्ञे पुनरुत्पत्तिः श्रूयते । सनत्कुमारोऽपि ब्रह्मण एव मानसः पुत्रः स्वयं रुद्राय वरप्रदानात् स्कन्दत्वेन प्रादुर्बभूव । एवमेव दक्षनारदप्रभृतीनां भूयसी देहान्तरोत्पत्तिः कथ्यते तेन तेन निमित्तेन स्मृतौ । श्रुतावपि मन्त्रार्थवादयोः प्रायेणोपलभ्यते । ते च केचित् पतिते पूर्वदेहे देहान्तरमाददते, केचित्तु स्थित एव तस्मिन् योगैश्वर्यवशात् अनेकदेहादानन्यायेन । सर्वे च एते समधिगतसकलवेदार्थाः स्मर्यन्ते । तत् एतेषां देहान्तरोत्पत्तिदर्शनात् प्राप्तं ब्रह्मविद्यायाः पाक्षिकं मोक्षहेतुत्वम् , अहेतुत्वं वेति ॥
अत उत्तरमुच्यते —
न,
तेषाम् अपान्तरतमःप्रभृतीनां वेदप्रवर्तनादिषु लोकस्थितिहेतुष्वधिकारेषु नियुक्तानाम् अधिकारतन्त्रत्वात्स्थितेः ।
यथासौ भगवान्सविता सहस्रयुगपर्यन्तं जगतोऽधिकारं चरित्वा तदवसाने उदयास्तमयवर्जितं कैवल्यमनुभवति —
‘अथ तत ऊर्ध्व उदेत्य नैवोदेता नास्तमेतैकल एव मध्ये स्थाता’ (छा. उ. ३ । ११ । १) इति श्रुतेः ।
यथा च वर्तमाना ब्रह्मविदः आरब्धभोगक्षये कैवल्यमनुभवन्ति —
‘तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ सम्पत्स्ये’ (छा. उ. ६ । १४ । २) इति श्रुतेः —
एवम् अपान्तरतमःप्रभृतयोऽपीश्वराः परमेश्वरेण तेषु तेष्वधिकारेषु नियुक्ताः सन्तः सत्यपि सम्यग्दर्शने कैवल्यहेतौ अक्षीणकर्माणो यावदधिकारमवतिष्ठन्ते,
तदवसाने च अपवृज्यन्त इत्यविरुद्धम् ।
सकृत्प्रवृत्तमेव हि ते फलदानाय कर्माशयमतिवाहयन्तः,
स्वातन्त्र्येणैव गृहादिव गृहान्तरम् अन्यमन्यं देहं सञ्चरन्तः स्वाधिकारनिर्वर्तनाय,
अपरिमुषितस्मृतय एव देहेन्द्रियप्रकृतिवशित्वात् निर्माय देहान् युगपत् क्रमेण वा अधितिष्ठन्ति ।
न च एते जातिस्मरा इत्युच्यन्ते —
त एवैते इति स्मृतिप्रसिद्धेः ।
यथा हि सुलभा नाम ब्रह्मवादिनी जनकेन विवदितुकामा व्युदस्य स्वं देहम् ,
जानकं देहमाविश्य,
व्युद्य तेन,
पश्चात् स्वमेव देहमाविवेश —
इति स्मर्यते ।
यदि हि उपयुक्ते सकृत्प्रवृत्ते कर्मणि कर्मान्तरं देहान्तरारम्भकारणमाविर्भवेत् ,
ततः अन्यदप्यदग्धबीजं कर्मान्तरं तद्वदेव प्रसज्येतेति ब्रह्मविद्यायाः पाक्षिकं मोक्षहेतुत्वम् अहेतुत्वं वा आशङ्क्येत ।
न तु इयमाशङ्का युक्ता,
ज्ञानात्कर्मबीजदाहस्य श्रुतिस्मृतिप्रसिद्धत्वात् ।
तथा हि श्रुतिः —
‘भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे’ (मु. उ. २ । २ । ९) इति,
‘स्मृतिलम्भे सर्वग्रन्थीनां विप्रमोक्षः’ (छा. उ. ७ । २६ । २) इति चैवमाद्या ।
स्मृतिरपि —
‘यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन । ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा’ (भ. गी. ४ । ३७) इति,
‘बीजान्यग्न्युपदग्धानि न रोहन्ति यथा पुनः । ज्ञानदग्धैस्तथा क्लेशैर्नात्मा सम्पद्यते पुनः’(म॰भा॰१२-२११-१७) इति चैवमाद्या ।
न च अविद्यादिक्लेशदाहे सति क्लेशबीजस्य कर्माशयस्य एकदेशदाहः एकदेशप्ररोहश्च इत्युपपद्यते ।
न हि अग्निदग्धस्य शालिबीजस्य एकदेशप्ररोहो दृश्यते ।
प्रवृत्तफलस्य तु कर्माशयस्य मुक्तेषोरिव वेगक्षयात् निवृत्तिः,
‘तस्य तावदेव चिरम्’ (छा. उ. ६ । १४ । २) इति शरीरपातावधिक्षेपकरणात् ।
तस्मादुपपन्ना यावदधिकारम् आधिकारिकाणामवस्थितिः ।
न च ज्ञानफलस्य अनैकान्तिकता ।
तथा च श्रुतिः अविशेषेणैव सर्वेषां ज्ञानान्मोक्षं दर्शयति —
‘तद्यो यो देवानां प्रत्यबुध्यत स एव तदभवत्तथर्षीणां तथा मनुष्याणाम्’ (बृ. उ. १ । ४ । १०) इति ।
ज्ञानान्तरेषु च ऐश्वर्यादिफलेष्वासक्ताः स्युर्महर्षयः ।
ते पश्चादैश्वर्यक्षयदर्शनेन निर्विण्णाः परमात्मज्ञाने परिनिष्ठाः कैवल्यं प्रापुरित्युपपद्यते — ‘
ब्रह्मणा सह ते सर्वे सम्प्राप्ते प्रतिसञ्चरे ।
परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम्’
इति स्मरणात् ।
प्रत्यक्षफलत्वाच्च ज्ञानस्य फलविरहाशङ्कानुपपत्तिः ।
कर्मफले हि स्वर्गादावनुभवानारूढे स्यादाशङ्का भवेद्वा न वेति ।
अनुभवारूढं तु ज्ञानफलम् —
‘यत्साक्षादपरोक्षाद्ब्रह्म’ (बृ. उ. ३ । ४ । १) इति श्रुतेः,
‘तत्त्वमसि’ (छा. उ. ६ । ८ । ७) इति सिद्धवदुपदेशात् ।
न हि ‘
तत्त्वमसि’
इत्यस्य वाक्यस्य अर्थः —
तत् त्वं मृतो भविष्यसीति —
एवं परिणेतुं शक्यः ।
‘तद्धैतत्पश्यन्नृषिर्वामदेवः प्रतिपेदेऽहं मनुरभवꣳ सूर्यश्च’ (बृ. उ. १ । ४ । १०) इति च सम्यग्दर्शनकालमेव तत्फलं सर्वात्मत्वं दर्शयति ।
तस्मात् ऐकान्तिकी विदुषः कैवल्यसिद्धिः ॥ ३२ ॥
अक्षरधियां त्ववरोधः सामान्यतद्भावाभ्यामौपसदवत्तदुक्तम् ॥ ३३ ॥
वाजसनेयके श्रूयते —
‘एतद्वै तदक्षरं गार्गि ब्राह्मणा अभिवदन्त्यस्थूलमनण्वह्रस्वमदीर्घमलोहितमस्नेहम्’ (बृ. उ. ३ । ८ । ८) इत्यादि ।
तथा आथर्वणे श्रूयते —
‘अथ परा यया तदक्षरमधिगम्यते’ (मु. उ. १ । १ । ५) ‘यत्तदद्रेश्यमग्राह्यमगोत्रमवर्णम्’ (मु. उ. १ । १ । ६) इत्यादि ।
तथैव अन्यत्रापि विशेषनिराकरणद्वारेण अक्षरं परं ब्रह्म श्राव्यते ।
तत्र च क्वचित् केचित् अतिरिक्ता विशेषाः प्रतिषिध्यन्ते ।
तासां विशेषप्रतिषेधबुद्धीनां किं सर्वासां सर्वत्र प्राप्तिः,
उत व्यवस्थेति संशये,
श्रुतिविभागात् व्यवस्थाप्राप्तौ,
उच्यते —
अक्षरविषयास्तु विशेषप्रतिषेधबुद्धयः सर्वाः सर्वत्रावरोद्धव्याः,
सामान्यतद्भावाभ्याम् —
समानो हि सर्वत्र विशेषनिराकरणरूपो ब्रह्मप्रतिपादनप्रकारः ।
तदेव च सर्वत्र प्रतिपाद्यं ब्रह्म अभिन्नं प्रत्यभिज्ञायते ।
तत्र किमिति अन्यत्र कृता बुद्धयः अन्यत्र न स्युः ।
तथा च ‘आनन्दादयः प्रधानस्य’ (ब्र. सू. ३ । ३ । ११) इत्यत्र व्याख्यातम् ।
तत्र विधिरूपाणि विशेषणानि चिन्तितानि,
इह प्रतिषेधरूपाणीति विशेषः ।
प्रपञ्चार्थश्चायं चिन्ताभेदः ।
औपसदवदिति निदर्शनम् ।
यथा जामदग्न्येऽहीने पुरोडाशिनीषूपसत्सु चोदितासु ,
पुरोडाशप्रदानमन्त्राणाम् ‘
अग्ने वेर्होत्रं वेरध्वरम्’
इत्येवमादीनाम् उद्गातृवेदोत्पन्नानामपि अध्वर्युभिरभिसम्बन्धो भवति,
अध्वर्युकर्तृकत्वात्पुरोडाशप्रदानस्य,
प्रधानतन्त्रत्वाच्चाङ्गानाम् —
एवमिहापि अक्षरतन्त्रत्वात् तद्विशेषणानां यत्र क्वचिदप्युत्पन्नानाम् अक्षरेण सर्वत्राभिसम्बन्ध इत्यर्थः ।
तदुक्तं प्रथमे काण्डे —
‘गुणमुख्यव्यतिक्रमे तदर्थत्वान्मुख्येन वेदसंयोगः’ (जै. सू. ३ । ३ । ९) इत्यत्र ॥ ३३ ॥
इयदामननात् ॥ ३४ ॥
विद्यैकत्वमिति ।
कुतः ?
यतः उभयोरप्यनयोर्मन्त्रयोः इयत्तापरिच्छिन्नं द्वित्वोपेतं वेद्यं रूपम् अभिन्नम् आमनन्ति ।
ननु दर्शितो रूपभेदः —
नेत्युच्यते;
उभावप्येतौ मन्त्रौ जीवद्वितीयमीश्वरं प्रतिपादयतः,
नार्थान्तरम् । ‘
द्वा सुपर्णा’
इत्यत्र तावत् — ‘
अनश्नन्नन्यो अभिचाकशीति’
इत्यशनायाद्यतीतः परमात्मा प्रतिपाद्यते ।
वाक्यशेषेऽपि च स एव प्रतिपाद्यमानो दृश्यते ‘जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानम्’ (श्वे. उ. ४ । ७) इति । ‘
ऋतं पिबन्तौ’
इत्यत्र तु जीवे पिबति,
अशनायाद्यतीतः परमात्मापि साहचर्यात् छत्रिन्यायेन पिबतीत्युपचर्यते ।
परमात्मप्रकरणं हि एतत् —
‘अन्यत्र धर्मादन्यत्राधर्मात्’ (क. उ. १ । २ । १४) इत्युपक्रमात् ।
तद्विषय एव च अत्रापि वाक्यशेषो भवति —
‘यः सेतुरीजानानामक्षरं ब्रह्म यत्परम्’ (क. उ. १ । ३ । २) इति ।
‘गुहां प्रविष्टावात्मानौ हि’ (ब्र. सू. १ । २ । ११) इत्यत्र च एतत्प्रपञ्चितम् ।
तस्मान्नास्ति वेद्यभेदः ।
तस्माच्च विद्यैकत्वम् ।
अपि च त्रिष्वप्येतेषु वेदान्तेषु पौर्वापर्यालोचने परमात्मविद्यैव अवगम्यते ।
तादात्म्यविवक्षयैव जीवोपादानम् ,
नार्थान्तरविवक्षया ।
न च परमात्मविद्यायां भेदाभेदविचारावतारोऽस्तीत्युक्तम् ।
तस्मात्प्रपञ्चार्थ एव एष योगः ।
तस्माच्चाधिकधर्मोपसंहार इति ॥ ३४ ॥
अन्तरा भूतग्रामवत्स्वात्मनः ॥ ३५ ॥
‘यत्साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरः’ (बृ. उ. ३ । ४ । १)(बृ. उ. ३ । ५ । १) इत्येवं द्विः उषस्तकहोलप्रश्नयोः नैरन्तर्येण वाजसनेयिनः समामनन्ति ।
तत्र संशयः —
विद्यैकत्वं वा स्यात् ,
विद्यानानात्वं वेति ।
विद्यानानात्वमिति तावत्प्राप्तम् ,
अभ्याससामर्थ्यात् ।
अन्यथा हि अन्यूनानतिरिक्तार्थे द्विराम्नानम् अनर्थकमेव स्यात् ।
तस्मात् यथा अभ्यासात्कर्मभेदः,
एवमभ्यासाद्विद्याभेद इत्येवं प्राप्ते,
प्रत्याह —
अन्तरा आम्नानाविशेषात् स्वात्मनः विद्यैकत्वमिति ।
सर्वान्तरो हि स्वात्मा उभयत्राप्यविशिष्टः पृच्छ्यते च,
प्रत्युच्यते च ।
न हि द्वावात्मानौ एकस्मिन्देहे सर्वान्तरौ सम्भवतः ।
तदा हि एकस्य आञ्जसं सर्वान्तरत्वमवकल्पेत,
एकस्य तु भूतग्रामवत् नैव सर्वान्तरत्वं स्यात् ।
यथा च पञ्चभूतसमूहे देहे —
पृथिव्या आपोऽन्तराः,
अद्भ्यस्तेजोऽन्तरमिति —
सत्यप्यापेक्षिकेऽन्तरत्वे,
नैव मुख्यं सर्वान्तरत्वं भवति,
तथेहापीत्यर्थः ।
अथवा भूतग्रामवदिति श्रुत्यन्तरं निदर्शयति ।
यथा —
‘एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा’ (श्वे. उ. ६ । ११) इत्यस्मिन्मन्त्रे समस्तेषु भूतग्रामेष्वेक एव सर्वान्तर आत्मा आम्नायते —
एवमनयोरपि ब्राह्मणयोरित्यर्थः ।
तस्मात् वेद्यैक्यात् विद्यैकत्वमिति ॥ ३५ ॥
अन्यथा भेदानुपपत्तिरिति चेन्नोपदेशान्तरवत् ॥ ३६ ॥
अथ यदुक्तम् —
अनभ्युपगम्यमाने विद्याभेदे आम्नानभेदानुपपत्तिरिति,
तत्परिहर्तव्यम्;
अत्रोच्यते —
नायं दोषः ।
उपदेशान्तरवदुपपत्तेः ।
यथा ताण्डिनामुपनिषदि षष्ठे प्रपाठके —
‘स आत्मा तत्त्वमसि श्वेतकेतो’ (छा. उ. ६ । ८ । ७) इति नवकृत्वोऽप्युपदेशे न विद्याभेदो भवति,
एवमिहापि भविष्यति ।
कथं च नवकृत्वोऽप्युपदेशे विद्याभेदो न भवति ?
उपक्रमोपसंहाराभ्यामेकार्थतावगमात् —
‘भूय एव मा भगवान्विज्ञापयतु’ (छा. उ. ६ । ५ । ४) इति च एकस्यैवार्थस्य पुनः पुनः प्रतिपिपादयिषितत्वेन उपक्षेपात् आशङ्कान्तरनिराकरणेन च असकृदुपदेशोपपत्तेः ।
एवमिहापि प्रश्नरूपाभेदात् ,
‘अतोऽन्यदार्तम्’ (बृ. उ. ३ । ४ । २) इति च परिसमाप्त्यविशेषात् उपक्रमोपसंहारौ तावदेकार्थविषयौ दृश्येते ।
‘यदेव साक्षादपरोक्षाद्ब्रह्म’ (बृ. उ. ३ । ५ । १) इति द्वितीये प्रश्ने एवकारं प्रयुञ्जानः पूर्वप्रश्नगतमेवार्थम् उत्तरत्रानुकृष्यमाणं दर्शयति ।
पूर्वस्मिंश्च ब्राह्मणे कार्यकरणव्यतिरिक्तस्य आत्मनः सद्भावः कथ्यते ।
उत्तरस्मिंस्तु तस्यैव अशनायादिसंसारधर्मातीतत्वं कथ्यते —
इत्येकार्थतोपपत्तिः ।
तस्मात् एका विद्येति ॥ ३६ ॥
व्यतिहारो विशिंषन्ति हीतरवत् ॥ ३७ ॥
यथा — ‘तद्योऽहं सोऽसौ योऽसौ सोऽहम्’ (ऐ॰आ॰ २-२-४-६)इत्यादित्यपुरुषं प्रकृत्यैतरेयिणः समामनन्ति, तथा जाबालाः — ‘त्वं वा अहमस्मि भगवो देवतेऽहं वै त्वमसि’ इति । तत्र संशयः — किमिह व्यतिहारेण उभयरूपा मतिः कर्तव्या, उत एकरूपैवेति । एकरूपैवेति तावदाह । न हि अत्र आत्मन ईश्वरेणैकत्वं मुक्त्वा अन्यत्किञ्चिच्चिन्तयितव्यमस्ति । यदि चैवं चिन्तयितव्यो विशेषः परिकल्प्येत, संसारिणश्च ईश्वरात्मत्वम् , ईश्वरस्य संसार्यात्मत्वमिति — तत्र संसारिणस्तावदीश्वरात्मत्वे उत्कर्षो भवेत् । ईश्वरस्य तु संसार्यात्मत्वे निकर्षः कृतः स्यात् । तस्मात् ऐकरूप्यमेव मतेः । व्यतिहाराम्नायस्तु एकत्वदृढीकारार्थ इत्येवं प्राप्ते, प्रत्याह — व्यतिहारोऽयम् आध्यानायाम्नायते । इतरवत् — यथा इतरे गुणाः सर्वात्मत्वप्रभृतयः आध्यानाय आम्नायन्ते, तद्वत् । तथा हि विशिंषन्ति समाम्नातारः उभयोच्चारणेन — ‘त्वमहमस्म्यहं च त्वमसि’ इति । तच्च उभयरूपायां मतौ कर्तव्यायाम् अर्थवद्भवति । अन्यथा हि इदं विशेषेणोभयाम्नानम् अनर्थकं स्यात् , एकेनैव कृतत्वात् । ननु उभयाम्नानस्य अर्थविशेषे परिकल्प्यमाने देवतायाः संसार्यात्मत्वापत्तेः निकर्षः प्रसज्येतेत्युक्तम् — नैष दोषः; ऐकात्म्यस्यैव अनेन प्रकारेणानुचिन्त्यमानत्वात् । ननु एवं सति स एव एकत्वदृढीकार आपद्येत — न वयमेकत्वदृढीकारं वारयामः — किं तर्हि ? — व्यतिहारेण इह द्विरूपा मतिः कर्तव्या वचनप्रामाण्यात् , नैकरूपेत्येतावत् उपपादयामः । फलतस्तु एकत्वमपि दृढीभवति । यथा आध्यानार्थेऽपि सत्यकामादिगुणोपदेशे तद्गुण ईश्वरः प्रसिध्यति, तद्वत् । तस्मादयमाध्यातव्यो व्यतिहारः समाने च विषये उपसंहर्तव्यो भवतीति ॥ ३७ ॥
सैव हि सत्यादयः ॥ ३८ ॥
एकैवेयं सत्यविद्येति ।
कुतः ?
‘तद्यत्तत्सत्यम्’ (बृ. उ. ५ । ५ । २) इति प्रकृताकर्षणात् ।
ननु विद्याभेदेऽपि प्रकृताकर्षणम् उपास्यैकत्वादुपपद्यत इत्युक्तम् —
नैतदेवम्;
यत्र हि विस्पष्टात् कारणान्तरात् विद्याभेदः प्रतीयते,
तत्र एतदेवं स्यात् ।
अत्र तु उभयथा सम्भवे ‘
तद्यत्तत्सत्यम्’
इति प्रकृताकर्षणात् पूर्वविद्यासम्बद्धमेव सत्यम् उत्तरत्र आकृष्यत इति एकविद्यात्वनिश्चयः ।
यत्पुनरुक्तम् —
फलान्तरश्रवणाद्विद्यान्तरमिति,
अत्रोच्यते — ‘
तस्योपनिषदहः …
अहम्’
इति च अङ्गान्तरोपदेशस्य स्तावकमिदं फलान्तरश्रवणमित्यदोषः ।
अपि च अर्थवादादेव फले कल्पयितव्ये,
सति विद्यैकत्वे च अवयवेषु श्रूयमाणानि बहून्यपि फलानि अवयविन्यामेव विद्यायाम् उपसंहर्तव्यानि भवन्ति ।
तस्मात्सैवेयम् एका सत्यविद्या तेन तेन विशेषेणोपेता आम्नाता —
इत्यतः सर्व एव सत्यादयो गुणा एकस्मिन्नेवप्रयोगे उपसंहर्तव्याः ॥
कामादीतरत्र तत्र चायतनादिभ्यः ॥ ३९ ॥
‘अथ यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाशः’ (छा. उ. ८ । १ । १) इति प्रस्तुत्य,
छन्दोगा अधीयते —
‘एष आत्माऽपहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः सत्यकामः सत्यसङ्कल्पः’ (छा. उ. ८ । १ । ५) इत्यादि ।
तथा वाजसनेयिनः —
‘स वा एष महानज आत्मा योऽयं विज्ञानमयः प्राणेषु य एषोऽन्तर्हृदय आकाशस्तस्मिञ्शेते सर्वस्य वशी’ (बृ. उ. ४ । ४ । २२) इत्यादि ।
तत्र विद्यैकत्वं परस्परगुणयोगश्च,
किं वा नेति संशयःविद्यैकत्वमिति ।
तत्रेदमुच्यते —
कामादीति,
सत्यकामादीत्यर्थः —
यथा देवदत्तो दत्तः,
सत्यभामा भामेति ।
यदेतत् छान्दोग्ये हृदयाकाशस्य सत्यकामत्वादिगुणजातमुपलभ्यते,
तदितरत्र वाजसनेयके ‘
स वा एष महानज आत्मा’
इत्यत्र सम्बध्येत ।
यच्च वाजसनेयके वशित्वादि उपलभ्यते,
तदपि इतरत्र छान्दोग्ये ‘एष आत्माऽपहतपाप्मा’ (छा. उ. ८ । १ । ५) इत्यत्र सम्बध्येत ।
कुतः ?
आयतनादिसामान्यात् ।
समानं हि उभयत्रापि हृदयमायतनम् ,
समानश्च वेद्य ईश्वरः,
समानं च तस्य सेतुत्वं लोकासम्भेदप्रयोजनम् —
इत्येवमादि बहु सामान्यं दृश्यते ।
ननु विशेषोऽपि दृश्यते —
छान्दोग्ये हृदयाकाशस्य गुणयोगः,
वाजसनेयके तु आकाशाश्रयस्य ब्रह्मण इति —
न,
‘दहर उत्तरेभ्यः’ (ब्र. सू. १ । ३ । १४) इत्यत्र च्छान्दोग्येऽपि आकाशशब्दं ब्रह्मैवेति प्रतिष्ठापितत्वात् ।
अयं तु अत्र विद्यते विशेषः —
सगुणा हि ब्रह्मविद्या छान्दोग्ये उपदिश्यते —
‘अथ य इहात्मानमनुविद्य व्रजन्त्येताꣳश्च सत्यान्कामान्’ (छा. उ. ८ । १ । ६) इत्यात्मवत् कामानामपि वेद्यत्वश्रवणात् ,
वाजसनेयके तु निर्गुणमेव परम्ब्रह्म उपदिश्यमानं दृश्यते —
‘अत ऊर्ध्वं विमोक्षाय ब्रूहि’ (बृ. उ. ४ । ३ । १४) ‘असङ्गो ह्ययं पुरुषः’ (बृ. उ. ४ । ३ । १५) इत्यादिप्रश्नप्रतिवचनसमन्वयात् ।
वशित्वादि तु तत्स्तुत्यर्थमेव गुणजातं वाजसनेयके सङ्कीर्त्यते ।
तथा च उपरिष्टात् ‘स एष नेति नेत्यात्मा’ (बृ. उ. ३ । ९ । २६) इत्यादिना निर्गुणमेव ब्रह्म उपसंहरति ।
गुणवतस्तु ब्रह्मण एकत्वात् विभूतिप्रदर्शनाय अयं गुणोपसंहारः सूत्रितः,
नोपासनाय —
इति द्रष्टव्यम् ॥ ३९ ॥
आदरादलोपः ॥ ४० ॥
छान्दोग्ये वैश्वानरविद्यां प्रकृत्य श्रूयते —
‘तद्यद्भक्तं प्रथममागच्छेत्तद्धोमीयꣳ स यां प्रथमामाहुतिं जुहुयात्तां जुहुयात्प्राणाय स्वाहा’ (छा. उ. ५ । १९ । १) इत्यादि ।
तत्र पञ्च प्राणाहुतयो विहिताः ।
तासु च परस्तादग्निहोत्रशब्दः प्रयुक्तः ‘य एतदेवं विद्वानग्निहोत्रं जुहोति’ (छा. उ. ५ । २४ । २) इति,
‘यथेह क्षुधिता बाला मातरं पर्युपासते एवꣳ सर्वाणि भूतान्यग्निहोत्रमुपासते’ (छा. उ. ५ । २४ । ५) इति च ।
तत्रेदं विचार्यते —
किं भोजनलोपे लोपः प्राणाग्निहोत्रस्य,
उत अलोप इति । ‘
तद्यद्भक्तम्’
इति भक्तागमनसंयोगश्रवणात् ,
भक्तागमनस्य च भोजनार्थत्वात् ,
भोजनलोपे लोपः प्राणाग्निहोत्रस्येत्येवं प्राप्ते,
न लुप्येतेति तावदाह ।
कस्मात् ?
आदरात् ।
तथा हि वैश्वानरविद्यायामेव जाबालानां श्रुतिः — ‘
पूर्वोऽतिथिभ्योऽश्नीयात् ।
यथा ह वै स्वयमहुत्वाग्निहोत्रं परस्य जुहुयादेवं तत्’
इति अतिथिभोजनस्य प्राथम्यं निन्दित्वा,
स्वामिभोजनं प्रथमं प्रापयन्ती प्राणाग्निहोत्रे आदरं करोति ।
या हि न प्राथम्यलोपं सहते,
नतरां सा प्राथम्यवतोऽग्निहोत्रस्य लोपं सहेतेति मन्यते ।
ननु भोजनार्थभक्तागमनसंयोगाद्भोजनलोपे लोपः प्रापितः —
न,
तस्य द्रव्यविशेषविधानार्थत्वात् ।
प्राकृते हि अग्निहोत्रे पयःप्रभृतीनां द्रव्याणां नियतत्वात् इहापि अग्निहोत्रशब्दात् कौण्डपायिनामयनवत् तद्धर्मप्राप्तौ सत्याम् ,
भक्तद्रव्यकतागुणविशेषविधानार्थम् इदं वाक्यम् ‘
तद्यद्भक्तम्’
इति ।
अतो गुणलोपे न मुख्यस्येत्येवं प्राप्तम् ।
भोजनलोपेऽपि अद्भिर्वा अन्येन वा द्रव्येणाविरुद्धेन प्रतिनिधिन्यायेन प्राणाग्निहोत्रस्यानुष्ठानमिति ॥ ४० ॥
अत उत्तरं पठति —
उपस्थितेऽतस्तद्वचनात् ॥ ४१ ॥
उपस्थिते भोजने अतः तस्मादेव भोजनद्रव्यात् प्रथमोपनिपतितात् प्राणाग्निहोत्रं निर्वर्तयितव्यम् ।
कस्मात् ?
तद्वचनात् ।
तथा हि —
‘तद्यद्भक्तं प्रथममागच्छेत्तद्धोमीयम्’ (छा. उ. ५ । १९ । १) इति सिद्धवद्भक्तोपनिपातपरामर्शेन परार्थद्रव्यसाध्यतां प्राणाहुतीनां विदधाति ।
ताः अप्रयोजकलक्षणापन्नाः सत्यः,
कथं भोजनलोपे द्रव्यान्तरं प्रतिनिधापयेयुः ।
न च अत्र प्राकृताग्निहोत्रधर्मप्राप्तिरस्ति ।
कुण्डपायिनामयने हि ‘
मासमग्निहोत्रं जुहोति’
इति विध्युद्देशगतोऽग्निहोत्रशब्दः तद्वद्भावं विधापयेदिति युक्ता तद्धर्मप्राप्तिः ।
इह पुनः अर्थवादगतोऽग्निहोत्रशब्दः न तद्वद्भावं विधापयितुमर्हति ।
तद्धर्मप्राप्तौ च अभ्युपगम्यमानायाम् ,
अग्न्युद्धरणादयोऽपि प्राप्येरन् ।
न च अस्ति सम्भवः ।
अग्न्युद्धरणं तावत् होमाधिकरणभावाय ।
न च अयम् अग्नौ होमः,
भोजनार्थताव्याघातप्रसङ्गात् ।
भोजनोपनीतद्रव्यसम्बन्धाच्च आस्य एव एष होमः ।
तथा च जाबालश्रुतिः ‘
पूर्वोऽतिथिभ्योऽश्नीयात्’
इति आस्याधारामेव इमां होमनिर्वृत्तिं दर्शयति ।
अत एव च इहापि साम्पादिकान्येवाग्निहोत्राङ्गानि दर्शयति —
‘उर एव वेदिर्लोमानि बर्हिर्हृदयं गार्हपत्यो मनोऽन्वाहार्यपचन आस्यमाहवनीयः’ (छा. उ. ५ । १८ । २) इति ।
वेदिश्रुतिश्चात्र स्थण्डिलमात्रोपलक्षणार्था द्रष्टव्या,
मुख्याग्निहोत्रे वेद्यभावात् ,
तदङ्गानां च इह सम्पिपादयिषितत्वात् ।
भोजनेनैव च कृतकालेन संयोगात् न अग्निहोत्रकालावरोधसम्भवः ।
एवमन्येऽपि उपस्थानादयो धर्माः केचित्कथञ्चित् विरुध्यन्ते ।
तस्माद्भोजनपक्ष एव एते मन्त्रद्रव्यदेवतासंयोगात् पञ्च होमा निर्वर्तयितव्याः ।
यत्तु आदरदर्शनवचनम् ,
तत् भोजनपक्षे प्राथम्यविधानार्थम् ।
न ह्यस्ति वचनस्य अतिभारः ।
न तु अनेन अस्य नित्यता शक्यते दर्शयितुम् ।
तस्मात् भोजनलोपे लोप एव प्राणाग्निहोत्रस्येति ॥ ४१ ॥
तन्निर्धारणानियमस्तद्दृष्टेः पृथग्घ्यप्रतिबन्धः फलम् ॥ ४२ ॥
सन्ति कर्माङ्गव्यपाश्रयाणि विज्ञानानि —
‘ओमित्येतदक्षरमुद्गीथमुपासीत’ (छा. उ. १ । १ । १) इत्येवमादीनि ।
किं तानि नित्यान्येव स्युः कर्मसु ,
पर्णमयीत्वादिवत्;
उत अनित्यानि,
गोदोहनादिवदिति विचारयामः ।
किं तावत्प्राप्तम् ?
नित्यानीति ।
कुतः ?
प्रयोगवचनपरिग्रहात् —
अनारभ्याधीतान्यपि हि एतानि उद्गीथादिद्वारेण क्रतुसम्बन्धात् क्रतुप्रयोगवचनेनैव अङ्गान्तरवत् संस्पृश्यन्ते ।
यत्तु एषां स्ववाक्येषु फलश्रवणम् —
‘आपयिता ह वै कामानां भवति’ (छा. उ. १ । १ । ७) इत्यादि,
तद्वर्तमानापदेशरूपत्वादर्थवादमात्रमेव,
अपापश्लोकश्रवणादिवत् ,
न फलप्रधानम् ।
तस्मात् यथा ‘
यस्य पर्णमयी जुहूर्भवति न स पापं श्लोकं शृणोति’
इत्येवमादीनाम् अप्रकरणपठितानामपि जुह्वादिद्वारेण क्रतुप्रवेशात् प्रकरणपठितवत् नित्यता,
एवमुद्गीथाद्युपासनानामपीत्येवं प्राप्ते ब्रूमः —
प्रदानवदेव तदुक्तम् ॥ ४३ ॥
पृथगेव वायुप्राणावुपगन्तव्याविति ।
कस्मात् ?
पृथगुपदेशात् ।
आध्यानार्थो हि अयम् अध्यात्माधिदैवविभागोपदेशः ।
सः असत्याध्यानपृथक्त्वे अनर्थक एव स्यात् ।
ननु उक्तम् ,
न पृथगनुचिन्तनं तत्त्वाभेदादिति —
नैष दोषः ।
तत्त्वाभेदेऽप्यवस्थाभेदात् उपदेशभेदवशेन अनुचिन्तनभेदोपपत्तेः,
श्लोकोपन्यासस्य च तत्त्वाभेदाभिप्रायेणापि उपपद्यमानस्य पूर्वोदितध्येयभेदनिराकरणसामर्थ्याभावात् ,
‘स यथैषां प्राणानां मध्यमः प्राण एवमेतासां देवतानां वायुः’ (बृ. उ. १ । ५ । २२) इति च उपमानोपमेयकरणात् ।
एतेन व्रतोपदेशो व्याख्यातः ।
‘एकमेव व्रतम्’ (बृ. उ. १ । ५ । २३) इति च एवकारः वागादिव्रतनिवर्तनेन प्राणव्रतप्रतिपत्त्यर्थः ।
भग्नव्रतानि हि वागादीन्युक्तानि,
‘तानि मृत्युः श्रमो भूत्वोपयेमे’ (बृ. उ. १ । ५ । २१) इति श्रुतेः ।
न वायुव्रतनिवृत्त्यर्थः,
‘अथातो व्रतमीमाꣳसा’ (बृ. उ. १ । ५ । २१) इति प्रस्तुत्य तुल्यवत् वायुप्राणयोरभग्नव्रतत्वस्य निर्धारितत्वात् ।
‘एकमेव व्रतं चरेत्’ (बृ. उ. १ । ५ । २३) इति च उक्त्वा,
‘तेनो एतस्यै देवतायै सायुज्यं सलोकतां जयति’ (बृ. उ. १ । ५ । २३) इति वायुप्राप्तिं फलं ब्रुवन् वायुव्रतमनिवर्तितं दर्शयति ।
देवता ह्यत्र वायुः स्यात् ,
अपरिच्छिन्नात्मकत्वस्य प्रेप्सितत्वात् ,
पुरस्तात्प्रयोगाच्च —
‘सैषाऽनस्तमिता देवता यद्वायुः’ (बृ. उ. १ । ५ । २२) इति ।
तथा ‘तौ वा एतौ द्वौ संवर्गौ वायुरेव देवेषु प्राणः प्राणेषु’ (छा. उ. ४ । ३ । ४) इति भेदेन व्यपदिशति ।
‘ते वा एते पञ्चान्ये पञ्चान्ये दश सन्तस्तत्कृतम्’ (बृ. उ. ४ । ३ । ८) इति च भेदेनैव उपसंहरति ।
तस्मात्पृथगेव उपगमनम् ।
प्रदानवत् —
यथा ‘
इन्द्राय राज्ञे पुरोडाशमेकादशकपालमिन्द्रायाधिराजायेन्द्राय स्वराज्ञे’
इत्यस्यां त्रिपुरोडाशिन्यामिष्टौ, ‘
सर्वेषामभिगमयन्नवद्यत्यछम्बट्कारम्’
इत्यतो वचनात् ,
इन्द्राभेदाच्च,
सह प्रदानाशङ्कायाम् —
राजादिगुणभेदात् याज्यानुवाक्याव्यत्यासविधानाच्च यथान्यासमेव देवतापृथक्त्वात्प्रदानपृथक्त्वं भवति ।
एवं तत्त्वाभेदेऽपि आध्येयांशपृथक्त्वात् आध्यानपृथक्त्वमित्यर्थः ।
तदुक्तं सङ्कर्षे — ‘
नाना वा देवता पृथग्ज्ञानात्’
इति ।
तत्र तु द्रव्यदेवताभेदात् यागभेदो विद्यते ।
नैवमिह विद्याभेदोऽस्ति,
उपक्रमोपसंहाराभ्याम् अध्यात्माधिदैवोपदेशेषु एकविद्याविधानप्रतीतेः ।
विद्यैक्येऽपि तु अध्यात्माधिदैवभेदात् प्रवृत्तिभेदो भवति —
अग्निहोत्र इव सायंप्रातःकालभेदात् —
इत्येतावदभिप्रेत्य प्रदानवदित्युक्तम् ॥ ४३ ॥
लिङ्गभूयस्त्वात्तद्धि बलीयस्तदपि ॥ ४४ ॥
वाजसनेयिनोऽग्निरहस्ये ‘नैव वा इदमग्रे सदासीत्’ इत्येतस्मिन्ब्राह्मणे मनोऽधिकृत्य अधीयते — ‘तत्षट्त्रिंशत्सहस्राण्यपश्यदात्मनोऽग्नीनर्कान्मनोमयान्मनश्चितः’ इत्यादि । तथैव ‘वाक्चितः प्राणचितश्चक्षुश्चितः श्रोत्रचितः कर्मचितोऽग्निचितः’ इति पृथगग्नीन् आमनन्ति साम्पादिकान् । तेषु संशयः — किमेते मनश्चिदादयः क्रियानुप्रवेशिनः तच्छेषभूताः, उत स्वतन्त्राः केवलविद्यात्मका इति । तत्र प्रकरणात् क्रियानुप्रवेशे प्राप्ते, स्वातन्त्र्यं तावत्प्रतिजानीते — लिङ्गभूयस्त्वादिति । भूयांसि हि लिङ्गानि अस्मिन्ब्राह्मणे केवलविद्यात्मकत्वमेषामुपोद्बलयन्ति दृश्यन्ते — ‘तद्यत्किञ्चेमानि भूतानि मनसा सङ्कल्पयन्ति तेषामेव सा कृतिः’ इति, ‘तान्हैतानेवंविदे सर्वदा सर्वाणि भूतानि चिन्वन्त्यपि स्वपते’ इति च एवंजातीयकानि । तद्धि लिङ्गं प्रकरणाद्बलीयः । तदप्युक्तं पूर्वस्मिन्काण्डे — ‘श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां समवाये पारदौर्बल्यमर्थविप्रकर्षात्’ (जै. सू. ३ । ३ । १४) इति ॥ ४४ ॥
पूर्वविकल्पः प्रकरणात्स्यात्क्रिया मानसवत् ॥ ४५ ॥
नैतद्युक्तम् — स्वतन्त्रा एतेऽग्नयः अनन्यशेषभूता इति । पूर्वस्य क्रियामयस्य अग्नेः प्रकरणात् तद्विषय एव अयं विकल्पविशेषोपदेशः स्यात् , न स्वतन्त्रः । ननु प्रकरणाल्लिङ्गं बलीयः — सत्यमेवमेतत् । लिङ्गमपि तु एवंजातीयकं न प्रकरणाद्बलीयो भवति । अन्यार्थदर्शनं हि एतत् , साम्पादिकाग्निप्रशंसारूपत्वात् । अन्यार्थदर्शनं च असत्यामन्यस्यां प्राप्तौ गुणवादेनाप्युपपद्यमानं न प्रकरणं बाधितुमुत्सहते । तस्मात् साम्पादिका अप्येतेऽग्नयः प्रकरणात्क्रियानुप्रवेशिन एव स्युः । मानसवत् — यथा दशरात्रस्य दशमेऽहनि अविवाक्ये पृथिव्या पात्रेण समुद्रस्य सोमस्य प्रजापतये देवतायै गृह्यमाणस्य ग्रहणासादनहवनाहरणोपह्वानभक्षणानि मानसान्येव आम्नायन्ते, स च मानसोऽपि ग्रहकल्पः क्रियाप्रकरणात् क्रियाशेष एव भवति — एवमयमप्यग्नि कल्प इत्यर्थः ॥ ४५ ॥
अतिदेशाच्च ॥ ४६ ॥
अतिदेशश्च एषामग्नीनां क्रियानुप्रवेशमुपोद्बलयति — ‘षट्त्रिंशत्सहस्राण्यग्नयोऽर्कास्तेषामेकैक एव तावान्यावानसौ पूर्वः’ इति । सति हि सामान्ये अतिदेशः प्रवर्तते । ततश्च पूर्वेण इष्टकाचितेन क्रियानुप्रवेशिना अग्निना साम्पादिकानग्नीनतिदिशन् क्रियानुप्रवेशमेव एषां द्योतयति ॥ ४६ ॥
विद्यैव तु निर्धारणात् ॥ ४७ ॥
तुशब्दः पक्षं व्यावर्तयति । विद्यात्मका एव एते स्वतन्त्रा मनश्चिदादयोऽग्नयः स्युः, न क्रियाशेषभूताः । तथा हि निर्धारयति — ‘ते हैते विद्याचित एव’ इति, ‘विद्यया हैवैत एवंविदश्चिता भवन्ति’ इति च ॥ ४७ ॥
ननु लिङ्गमपि असत्यामन्यस्यां प्राप्तौ असाधकं कस्यचिदर्थस्येति, अपास्य तत् , प्रकरणसामर्थ्यात् क्रियाशेषत्वमध्यवसितम् — इत्यत उत्तरं पठति —
श्रुत्यादिबलीयस्त्वाच्च न बाधः ॥ ४९ ॥
नैवं प्रकरणसामर्थ्यात्क्रियाशेषत्वमध्यवसाय स्वातन्त्र्यपक्षो बाधितव्यः,
श्रुत्यादेर्बलीयस्त्वात् ।
बलीयांसि हि प्रकरणात् श्रुतिलिङ्गवाक्यानीति स्थितं श्रुतिलिङ्गसूत्रे ।
तानि च इह स्वातन्त्र्यपक्षं साधयन्ति दृश्यन्ते ।
कथम् ?
श्रुतिस्तावत् — ‘
ते हैते विद्याचित एव’
इति ।
तथा लिङ्गम् — ‘
सर्वदा सर्वाणि भूतानि चिन्वन्त्यपि स्वपते’
इति ।
तथा वाक्यमपि — ‘
विद्यया हैवैत एवंविदश्चिता भवन्ति’
इति । ‘
विद्याचित एव’
इति हि सावधारणा इयं श्रुतिः क्रियानुप्रवेशेऽमीषामभ्युपगम्यमाने पीडिता स्यात् ।
ननु अबाह्यसाधनत्वाभिप्रायमिदमवधारणं भविष्यति —
नेत्युच्यते;
तदभिप्रायतायां हि ‘
विद्याचितः’
इति इयता स्वरूपसङ्कीर्तनेनैव कृतत्वात् ,
अनर्थकमवधारणं भवेत् —
स्वरूपमेव हि एषाम् अबाह्यसाधनत्वमिति ।
अबाह्यसाधनत्वेऽपि तु मानसग्रहवत् क्रियानुप्रवेशशङ्कायां तन्निवृत्तिफलम् अवधारणम् अर्थवद्भविष्यति ।
तथा ‘
स्वपते जाग्रते चैवंविदे सर्वदा सर्वाणि भूतान्येतानग्नींश्चिन्वन्ति’
इति सातत्यदर्शनम् एषां स्वातन्त्र्येऽवकल्पते —
यथा साम्पादिके वाक्प्राणमयेऽग्निहोत्रे ‘प्राणं तदा वाचि जुहोति … वाचं तदा प्राणे जुहोति’ (कौ. उ. २ । ५) इति च उक्त्वा उच्यते — ‘
एते अनन्ते अमृते आहुती जाग्रच्च स्वपंश्च सततं जुहोति’
इति —
तद्वत् ।
क्रियानुप्रवेशे तु क्रियाप्रयोगस्य अल्पकालत्वेन न सातत्येन एषां प्रयोगः कल्पेत ।
न च इदमर्थवादमात्रमिति न्याय्यम् ।
यत्र हि विस्पष्टो विधायको लिङादिः उपलभ्यते,
युक्तं तत्र सङ्कीर्तनमात्रस्यार्थवादत्वम् ।
इह तु विस्पष्टविध्यन्तरानुपलब्धेः सङ्कीर्तनादेव एषां विज्ञानविधानं कल्पनीयम् ।
तच्च यथासङ्कीर्तनमेव कल्पयितुं शक्यत इति,
सातत्यदर्शनात् तथाभूतमेव कल्प्यते ।
ततश्च सामर्थ्यादेषां स्वातन्त्र्यसिद्धिः ।
एतेन ‘तद्यत्किञ्चेमानि भूतानि मनसा सङ्कल्पयन्ति तेषामेव सा कृतिः’(श॰ब्रा॰ १०-५-३-३) इत्यादि व्याख्यातम् ।
तथा वाक्यमपि ‘
एवंविदे’
इति पुरुषविशेषसम्बन्धमेव एषामाचक्षाणं न क्रतुसम्बन्धं मृष्यते ।
तस्मात् स्वातन्त्र्यपक्ष एव ज्यायानिति ॥ ४९ ॥
अनुबन्धादिभ्यः प्रज्ञान्तरपृथक्त्ववद्दृष्टश्च तदुक्तम् ॥ ५० ॥
इतश्च प्रकरणमुपमृद्य स्वातन्त्र्यं मनश्चिदादीनां प्रतिपत्तव्यम् , यत् क्रियावयवान् मनआदिव्यापारेष्वनुबध्नाति — ‘ते मनसैवाधीयन्त मनसाचीयन्त मनसैव ग्रहा अगृह्यन्त मनसास्तुवन्मनसाशंसन्यत्किञ्च यज्ञे कर्म क्रियते यत्किञ्च यज्ञियं कर्म मनसैव तेषु तन्मनोमयेषु मनश्चित्सु मनोमयमेव क्रियते’(श॰ब्रा॰ १०-५-३-३) इत्यादिना । सम्पत्फलो हि अयमनुबन्धः । न च प्रत्यक्षाः क्रियावयवाः सन्तः सम्पदा लिप्सितव्याः । न च अत्र उद्गीथाद्युपासनवत् क्रियाङ्गसम्बन्धात् तदनुप्रवेशित्वमाशङ्कितव्यम् , श्रुतिवैरूप्यात् । न हि अत्र क्रियाङ्गं किञ्चिदादाय तस्मिन् अदो नामाध्यवसितव्यमिति वदति । षट्त्रिंशत्सहस्राणि तु मनोवृत्तिभेदान् आदाय तेष्वग्नित्वं ग्रहादींश्च कल्पयति, पुरुषयज्ञादिवत् । संख्या च इयं पुरुषायुषस्याहःसु दृष्टा सती तत्सम्बन्धिनीषु मनोवृत्तिष्वारोप्यत इति द्रष्टव्यम् । एवमनुबन्धात्स्वातन्त्र्यं मनश्चिदादीनाम् । आदिशब्दात् अतिदेशाद्यपि यथासम्भवं योजयितव्यम् । तथा हि — ‘तेषामेकैक एव तावान्यावानसौ पूर्वः’(श॰ब्रा॰ १०-५-३-३) इति क्रियामयस्याग्नेर्माहात्म्यं ज्ञानमयानामेकैकस्य अतिदिशन् क्रियायामनादरं दर्शयति । न च सत्येव क्रियासम्बन्धे विकल्पः पूर्वेणोत्तरेषामिति शक्यं वक्तुम् । न हि, येन व्यापारेण आहवनीयधारणादिना पूर्वः क्रियायामुपकरोति, तेन उत्तरे उपकर्तुं शक्नुवन्ति । यत्तु पूर्वपक्षेऽप्यतिदेश उपोद्बलक इत्युक्तम् — सति हि सामान्येऽतिदेशः प्रवर्तत इति, तत् अस्मत्पक्षेऽप्यग्नित्वसामान्येनातिदेशसम्भवात्प्रत्युक्तम् — अस्ति हि साम्पादिकानामप्यग्नीनामग्नित्वमिति । श्रुत्यादीनि च कारणानि दर्शितानि । एवमनुबन्धादिभ्यः कारणेभ्यः स्वातन्त्र्यं मनश्चिदादीनाम् । प्रज्ञान्तरपृथक्त्ववत् — यथा प्रज्ञान्तराणि शाण्डिल्यविद्याप्रभृतीनि स्वेन स्वेन अनुबन्धेन अनुबध्यमानानि पृथगेव कर्मभ्यः प्रज्ञान्तरेभ्यश्च स्वतन्त्राणि भवन्ति, एवमिति । दृष्टश्च अवेष्टेः राजसूयप्रकरणपठितायाः प्रकरणादुत्कर्षः — वर्णत्रयानुबन्धात् । राजयज्ञत्वाच्च राजसूयस्य । तदुक्तं प्रथमे काण्डे — ‘क्रत्वर्थायामिति चेन्न वर्णत्रयसंयोगात्’ (जै. सू. ११ । ४ । ९) इति ॥ ५० ॥
न सामान्यादप्युपलब्धेर्मृत्युवन्न हि लोकापत्तिः ॥ ५१ ॥
यदुक्तं मानसवदिति,
तत्प्रत्युच्यते ।
न मानसग्रहसामान्यादपि मनश्चिदादीनां क्रियाशेषत्वं कल्प्यम् ,
पूर्वोक्तेभ्यः श्रुत्यादिहेतुभ्यः केवलपुरुषार्थत्वोपलब्धेः ।
न हि किञ्चित् कस्यचित् केनचित् सामान्यं न सम्भवति ।
न च तावता यथास्वं वैषम्यं निवर्तते;
मृत्युवत् —
यथा ‘
स वा एष एव मृत्युर्य एष एतस्मिन्मण्डले पुरुषः’
इति,
‘अग्निर्वै मृत्युः’ (बृ. उ. ३ । २ । १०) इति च अग्न्यादित्यपुरुषयोः समानेऽपि मृत्युशब्दप्रयोगे,
न अत्यन्तसाम्यापत्तिः ।
यथा च ‘असौ वाव लोको गौतमाग्निस्तस्यादित्य एव समित्’ (छा. उ. ५ । ४ । १) इत्यत्र न समिदादिसामान्यात् लोकस्याग्निभावापत्तिः —
तद्वत् ॥ ५१ ॥
परेण च शब्दस्य ताद्विध्यं भूयस्त्वात्त्वनुबन्धः ॥ ५२ ॥
परस्तादपि ‘अयं वाव लोक एषोऽग्निश्चितः’ इत्यस्मिन् अनन्तरे ब्राह्मणे, ताद्विध्यं केवलविद्याविधित्वम् शब्दस्य प्रयोजनं लक्ष्यते, न शुद्धकर्माङ्गविधित्वम्; तत्र हि — ‘विद्यया तदारोहन्ति यत्र कामाः परागताः । न तत्र दक्षिणा यन्ति नाविद्वांसस्तपस्विनः’(श॰ब्रा॰ १०-५-४-१६) इत्यनेन श्लोकेन केवलं कर्म निन्दन् विद्यां च प्रशंसन् इदं गमयति । तथा पुरस्तादपि ‘यदेतन्मण्डलं तपति’ इत्यस्मिन्ब्राह्मणे विद्याप्रधानत्वमेव लक्ष्यते — ‘सोऽमृतो भवति मृत्युर्ह्यस्यात्मा भवति’ इति विद्याफलेनैव उपसंहारात् न कर्मप्रधानता । तत्सामान्यात् इहापि तथात्वम् । भूयांसस्तु अग्न्यवयवाः सम्पादयितव्या विद्यायाम् — इत्येतस्मात्कारणात् अग्निना अनुबध्यते विद्या, न कर्माङ्गत्वात् । तस्मात् मनश्चिदादीनां केवलविद्यात्मकत्वसिद्धिः ॥ ५२ ॥
एक आत्मनः शरीरे भावात् ॥ ५३ ॥
इह देहव्यतिरिक्तस्य आत्मनः सद्भावः समर्थ्यते, बन्धमोक्षाधिकारसिद्धये । न हि असति देहव्यतिरिक्त आत्मनि परलोकफलाश्चोदना उपपद्येरन् । कस्य वा ब्रह्मात्मत्वमुपदिश्येत । ननु शास्त्रप्रमुख एव प्रथमे पादे शास्त्रफलोपभोगयोग्यस्य देहव्यतिरिक्तस्य आत्मनोऽस्तित्वमुक्तम् — सत्यमुक्तं भाष्यकृता । न तु तत्रात्मास्तित्वे सूत्रमस्ति । इह तु स्वयमेव सूत्रकृता तदस्तित्वमाक्षेपपुरःसरं प्रतिष्ठापितम् । इत एव च आकृष्य आचार्येण शबरस्वामिना प्रमाणलक्षणे वर्णितम् । अत एव च भगवता उपवर्षेण प्रथमे तन्त्रे आत्मास्तित्वाभिधानप्रसक्तौ शारीरके वक्ष्याम इत्युद्धारः कृतः । इह च इदं चोदनालक्षणेषु उपासनेषु विचार्यमाणेषु आत्मास्तित्वं विचार्यते, कृत्स्नशास्त्रशेषत्वप्रदर्शनाय । अपि च पूर्वस्मिन्नधिकरणे प्रकरणोत्कर्षाभ्युपगमेन मनश्चिदादीनां पुरुषार्थत्वं वर्णितम् । कोऽसौ पुरुषः, यदर्था एते मनश्चिदादयः — इत्यस्यां प्रसक्तौ इदं देहव्यतिरिक्तस्य आत्मनोऽस्तित्वमुच्यते । तदस्तित्वाक्षेपार्थं चेदमादिमं सूत्रम् — आक्षेपपूर्विका हि परिहारोक्तिः विवक्षितेऽर्थे स्थूणानिखननन्यायेन दृढां बुद्धिमुत्पादयेदिति ॥
अत्र एके देहमात्रात्मदर्शिनो लोकायतिकाः देहव्यतिरिक्तस्य आत्मनोऽभावं मन्यमानाः, समस्तव्यस्तेषु बाह्येषु पृथिव्यादिष्वदृष्टमपि चैतन्यं शरीराकारपरिणतेषु भूतेषु स्यादिति — सम्भावयन्तस्तेभ्यश्चैतन्यम् , मदशक्तिवत् विज्ञानम् चैतन्यविशिष्टः कायः पुरुषः — इति च आहुः । न स्वर्गगमनाय अपवर्गगमनाय वा समर्थो देहव्यतिरिक्त आत्मा अस्ति, यत्कृतं चैतन्यं देहे स्यात् । देह एव तु चेतनश्च आत्मा च इति प्रतिजानते । हेतुं च आचक्षते — शरीरे भावादिति । यद्धि यस्मिन्सति भवति, असति च न भवति, तत् तद्धर्मत्वेनाध्यवसीयते — यथा अग्निधर्मावौष्ण्यप्रकाशौ । प्राणचेष्टाचैतन्यस्मृत्यादयश्च आत्मधर्मत्वेनाभिमता आत्मवादिनाम् — तेऽपि अन्तरेव देहे उपलभ्यमानाः बहिश्च अनुपलभ्यमानाः असिद्धे देहव्यतिरिक्ते धर्मिणि देहधर्मा एव भवितुमर्हन्ति । तस्मादव्यतिरेको देहादात्मन इति ॥ ५३ ॥
एवं प्राप्ते, ब्रूमः —
व्यतिरेकस्तद्भावाभावित्वान्न तूपलब्धिवत् ॥ ५४ ॥
न त्वेतदस्ति — यदुक्तमव्यतिरेको देहादात्मन इति । व्यतिरेक एव अस्य देहाद्भवितुमर्हति । तद्भावाभावित्वात् । यदि देहभावे भावात् देहधर्मत्वम् आत्मधर्माणां मन्येत — ततो देहभावेऽपि अभावात् अतद्धर्मत्वमेव एषां किं न मन्येत ? देहधर्मवैलक्षण्यात् । ये हि देहधर्मा रूपादयः, ते यावद्देहं भवन्ति । प्राणचेष्टादयस्तु सत्यपि देहे मृतावस्थायां न भवन्ति । देहधर्माश्च रूपादयः परैरप्युपलभ्यन्ते, न त्वात्मधर्माश्चैतन्यस्मृत्यादयः । अपि च सति तावत् देहे जीवदवस्थायाम् एषां भावः शक्यते निश्चेतुम् , न तु असत्यभावः । पतितेऽपि कदाचिदस्मिन्देहे देहान्तरसञ्चारेण आत्मधर्मा अनुवर्तेरन् । संशयमात्रेणापि परपक्षः प्रतिषिध्यते । किमात्मकं च पुनरिदं चैतन्यं मन्यते, यस्य भूतेभ्य उत्पत्तिमिच्छति — इति परः पर्यनुयोक्तव्यः । न हि भूतचतुष्टयव्यतिरेकेण लोकायतिकः किञ्चित् तत्त्वं प्रत्येति । यत् अनुभवनं भूतभौतिकानाम् , तत् चैतन्यमिति चेत् , तर्हि विषयत्वात्तेषाम् न तद्धर्मत्वमश्नुवीत, स्वात्मनि क्रियाविरोधात् । न हि अग्निरुष्णः सन् स्वात्मानं दहति, न हि नटः शिक्षितः सन् स्वस्कन्धमधिरोक्ष्यति । न हि भूतभौतिकधर्मेण सता चैतन्येन भूतभौतिकानि विषयीक्रियेरन् । न हि रूपादिभिः स्वरूपं पररूपं वा विषयीक्रियते । विषयीक्रियन्ते तु बाह्याध्यात्मिकानि भूतभौतिकानि चैतन्येन । अतश्च यथैव अस्या भूतभौतिकविषयाया उपलब्धेर्भावोऽभ्युपगम्यते, एवं व्यतिरेकोऽपि अस्यास्तेभ्यः अभ्युपगन्तव्यः । उपलब्धिस्वरूप एव च न आत्मेति आत्मनो देहव्यतिरिक्तत्वम् । नित्यत्वं च उपलब्धेः, ऐकरूप्यात् , ‘अहम् इदम् अद्राक्षम्’ इति च अवस्थान्तरयोगेऽप्युपलब्धृत्वेन प्रत्यभिज्ञानात् , स्मृत्याद्युपपत्तेश्च । यत्तूक्तम् — शरीरे भावाच्छरीरधर्म उपलब्धिरिति, तत् वर्णितेन प्रकारेण प्रत्युक्तम् । अपि च सत्सु प्रदीपादिषु उपकरणेषु उपलब्धिर्भवति असत्सु न भवति — न च एतावता प्रदीपादिधर्म एव उपलब्धिर्भवति । एवं सति देहे उपलब्धिर्भवति, असति च न भवतीति — न देहधर्मो भवितुमर्हति । उपकरणत्वमात्रेणापि प्रदीपादिवत् देहोपयोगोपपत्तेः । न च अत्यन्तं देहस्य उपलब्धावुपयोगोऽपि दृश्यते, निश्चेष्टेऽप्यस्मिन्देहे स्वप्ने नानाविधोपलब्धिदर्शनात् । तस्मादनवद्यं देहव्यतिरिक्तस्य आत्मनोऽस्तित्वम् ॥ ५४ ॥
अङ्गावबद्धास्तु न शाखासु हि प्रतिवेदम् ॥ ५५ ॥
समाप्ता प्रासङ्गिकी कथा;
सम्प्रति प्रकृतामेवानुवर्तामहे ।
‘ओमित्येतदक्षरमुद्गीथमुपासीत’ (छा. उ. १ । १ । १) ‘लोकेषु पञ्चविधꣳ सामोपासीत’ (छा. उ. २ । २ । १) ‘
उक्थमुक्थमिति वै प्रजा वदन्ति तदिदमेवोक्थम् इयमेव पृथिवी’ ‘अयं वाव लोकः’ ‘एषोऽग्निश्चितः’(श॰ब्रा॰ १०-१-२-२) इत्येवमाद्या ये उद्गीथादिकर्माङ्गावबद्धाः प्रत्ययाः प्रतिवेदं शाखाभेदेषु विहिताः,
ते तत्तच्छाखागतेष्वेव उद्गीथादिषु भवेयुः,
अथवा सर्वशाखागतेषु —
इति विशयः ।
प्रतिशाखं च स्वरादिभेदात् उद्गीथादिभेदानुपादाय अयमुपन्यासः ।
किं तावत्प्राप्तम् ?
स्वशाखागतेष्वेव उद्गीथादिषु विधीयेरन्निति ।
कुतः ?
सन्निधानात् — ‘
उद्गीथमुपासीत’
इति हि सामान्यविहितानां विशेषाकाङ्क्षायां सन्निकृष्टेनैव स्वशाखागतेन विशेषेण आकाङ्क्षानिवृत्तेः,
तदतिलङ्घनेन शाखान्तरविहितविशेषोपादाने कारणं नास्ति ।
तस्मात्प्रतिशाखं व्यवस्थेत्येवं प्राप्ते,
ब्रवीति —
अङ्गावबद्धास्त्विति ।
तुशब्दः पक्षं व्यावर्तयति ।
नैते प्रतिवेदं स्वशाखास्वेव व्यवतिष्ठेरन् ,
अपि तु सर्वशाखास्वनुवर्तेरन् ।
कुतः ?
उद्गीथादिश्रुत्यविशेषात् ।
स्वशाखाव्यवस्थायां हि ‘उद्गीथमुपासीत’ (छा. उ. १ । १ । १) इति सामान्यश्रुतिरविशेषप्रवृत्ता सती सन्निधानवशेन विशेषे व्यवस्थाप्यमाना पीडिता स्यात् ।
न चैतन्न्याय्यम् ।
सन्निधानाद्धि श्रुतिर्बलीयसी ।
न च सामान्याश्रयः प्रत्ययो नोपपद्यते ।
तस्मात् स्वरादिभेदे सत्यपि उद्गीथत्वाद्यविशेषात् सर्वशाखागतेष्वेव उद्गीथादिषु एवंजातीयकाः प्रत्ययाः स्युः ॥ ५५ ॥
मन्त्रादिवद्वाऽविरोधः ॥ ५६ ॥
अथवा नैवात्र विरोधः शङ्कितव्यः — कथमन्यशाखागतेषु उद्गीथादिषु अन्यशाखाविहिताः प्रत्यया भवेयुरिति । मन्त्रादिवत् अविरोधोपपत्तेः । तथा हि — मन्त्राणां कर्मणां गुणानां च शाखान्तरोत्पन्नानामपि शाखान्तरे उपसङ्ग्रहो दृश्यते । येषामपि हि शाखिनाम् ‘कुटरुरसि’ इत्यश्मादानमन्त्रो नाम्नातः, तेषामपि असौ विनियोगो दृश्यते — ‘कुक्कुटोऽसीत्यश्मानमादत्ते, कुटरुरसीति वा’ इति । येषामपि समिदादयः प्रयाजा नाम्नाताः, तेषामपि तेषु गुणविधिराम्नायते — ‘ऋतवो वै प्रयाजाः समानत्र होतव्याः’ इति । तथा येषामपि ‘अजोऽग्नीषोमीयः’ इति जातिविशेषोपदेशो नास्ति, तेषामपि तद्विषयो मन्त्रवर्ण उपलभ्यते — ‘छागस्य वपाया मेदसोऽनुब्रूहि’ इति । तथा वेदान्तरोत्पन्नानामपि ‘अग्ने वेर्होत्रं वेरध्वरम्’(ता॰ब्रा॰२१-१०-११) इत्येवमादिमन्त्राणां वेदान्तरे परिग्रहो दृष्टः; तथा बह्वृचपठितस्य सूक्तस्य ‘यो जात एव प्रथमो मनस्वान्’ (ऋ. सं. २ । १२ । १) इत्यस्य, अध्वर्यवे ‘सजनीयꣳ शस्यम्’ इत्यत्र परिग्रहो दृष्टः । तस्मात् यथा आश्रयाणां कर्माङ्गानां सर्वत्रानुवृत्तिः, एवम् आश्रितानामपि प्रत्ययानाम् — इत्यविरोधः ॥ ५६ ॥
भूम्नः क्रतुवज्ज्यायस्त्वं तथा हि दर्शयति ॥ ५७ ॥
ततोऽभिधीयते —
भूम्नः पदार्थोपचयात्मकस्य समस्तस्य वैश्वानरोपासनस्य ज्यायस्त्वं प्राधान्यं अस्मिन्वाक्ये विवक्षितं भवितुमर्हति,
न प्रत्येकम् अवयवोपासनानामपि;
क्रतुवत् —
यथा क्रतुषु दर्शपूर्णमासप्रभृतिषु सामस्त्येन साङ्गप्रधानप्रयोग एव एको विवक्ष्यते,
न व्यस्तानामपि प्रयोगः प्रयाजादीनाम् ,
नाप्येकदेशाङ्गयुक्तस्य प्रधानस्य —
तद्वत् ।
कुत एतत् —
भूमैव ज्यायानिति ?
तथा हि श्रुतिः भूम्नो ज्यायस्त्वं दर्शयति,
एकवाक्यतावगमात् ।
एकं हि इदं वाक्यं वैश्वानरविद्याविषयं पौर्वापर्यालोचनात्प्रतीयते ।
तथा हि —
प्राचीनशालप्रभृतय उद्दालकावसानाः षट् ऋषयः वैश्वानरविद्यायां परिनिष्ठामप्रतिपद्यमानाः अश्वपतिं कैकेयं राजानमभ्याजग्मुः —
इत्युपक्रम्य,
एकैकस्य ऋषेरुपास्यं द्युप्रभृतीनामेकैकं श्रावयित्वा,
‘मूर्धा त्वेष आत्मन इति होवाच’ (छा. उ. ५ । १२ । २) इत्यादिना मूर्धादिभावं तेषां विदधाति ।
‘मूर्धा ते व्यपतिष्यद्यन्मां नागमिष्यः’ (छा. उ. ५ । १२ । २) इत्यादिना च व्यस्तोपासनमपवदति ।
पुनश्च व्यस्तोपासनं व्यावर्त्य,
समस्तोपासनमेवानुवर्त्य,
‘स सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मस्वन्नमत्ति’ (छा. उ. ५ । १८ । १) इति भूमाश्रयमेव फलं दर्शयति ।
यत्तु प्रत्येकं सुतेजःप्रभृतिषु फलभेदश्रवणम् ,
तत् एवं सति अङ्गफलानि प्रधान एवाभ्युपगतानि —
इति द्रष्टव्यम् ।
तथा ‘
उपास्से’
इत्यपि प्रत्यवयवमाख्यातश्रवणं पराभिप्रायानुवादार्थम् ,
न व्यस्तोपासनविधानार्थम् ।
तस्मात्समस्तोपासनपक्ष एव श्रेयानिति ॥
केचित्तु अत्र समस्तोपासनपक्षं ज्यायांसं प्रतिष्ठाप्य,
ज्यायस्त्ववचनादेव किल व्यस्तोपासनपक्षमपि सूत्रकारोऽनुमन्यत इति कल्पयन्ति ।
तदयुक्तम् ,
एकवाक्यतावगतौ सत्यां वाक्यभेदकल्पनस्यान्याय्यत्वात् ,
‘मूर्धा ते व्यपतिष्यत्’ (छा. उ. ५ । १२ । २) इति च एवमादिनिन्दाविरोधात् ,
स्पष्टे च उपसंहारस्थे समस्तोपासनावगमे तदभावस्य पूर्वपक्षे वक्तुमशक्यत्वात् ,
सौत्रस्य च ज्यायस्त्ववचनस्य प्रमाणवत्त्वाभिप्रायेणापि उपपद्यमानत्वात् ॥ ५७ ॥
नाना शब्दादिभेदात् ॥ ५८ ॥
नानेति ।
वेद्याभेदेऽपि एवंजातीयका विद्या भिन्ना भवितुमर्हति ।
कुतः ?
शब्दादिभेदात् ।
भवति हि शब्दभेदः — ‘
वेद’ ‘
उपासीत’
‘स क्रतुं कुर्वीत’ (छा. उ. ३ । १४ । १) इत्येवमादिः ।
शब्दभेदश्च कर्मभेदहेतुः समधिगतः पुरस्तात् ‘
शब्दान्तरे कर्मभेदः कृतानुबन्धत्वात्’
इति ।
आदिग्रहणात् गुणादयोऽपि यथासम्भवं भेदहेतवो योजयितव्याः ।
ननु ‘
वेद’
इत्यादिषु शब्दभेद एव अवगम्यते,
न ‘
यजति’
इत्यादिवत् अर्थभेदः,
सर्वेषामेवैषां मनोवृत्त्यर्थत्वाभेदात् ,
अर्थान्तरासम्भवाच्च ।
तत् कथं शब्दभेदाद्विद्याभेद इति?
नैष दोषः,
मनोवृत्त्यर्थत्वाभेदेऽपि अनुबन्धभेदाद्वेद्यभेदे सति विद्याभेदोपपत्तेः ।
एकस्यापीश्वरस्य उपास्यस्य प्रतिप्रकरणं व्यावृत्ता गुणाः शिष्यन्ते ।
तथा एकस्यापि प्राणस्य तत्र तत्र उपास्यस्य अभेदेऽपि अन्यादृग्गुणोऽन्यत्रोपासितव्यः अन्यादृग्गुणश्चान्यत्र —
इत्येवमनुबन्धभेदाद्वेद्यभेदे सति विद्याभेदो विज्ञायते ।
न च अत्र एको विद्याविधिः,
इतरे गुणविधय इति शक्यं वक्तुम् —
विनिगमनायां हेत्वभावात् ,
अनेकत्वाच्च प्रतिप्रकरणं गुणानां प्राप्तविद्यानुवादेन विधानानुपपत्तेः ।
न च अस्मिन्पक्षे समानाः सन्तः सत्यकामादयो गुणा असकृच्छ्रावयितव्याः ।
प्रतिप्रकरणं च —
इदंकामेनेदमुपासितव्यम् ,
इदंकामेन च इदम् —
इति नैराकाङ्क्ष्यावगमात् नैकवाक्यतापत्तिः ।
न च अत्र वैश्वानरविद्यायामिव समस्तचोदना अपरा अस्ति,
यद्बलेन प्रतिप्रकरणवर्तीन्यवयवोपासनानि भूत्वा एकवाक्यताम् इयुः ।
वेद्यैकत्वनिमित्ते च विद्यैकत्वे सर्वत्र निरङ्कुशे प्रतिज्ञायमाने,
समस्तगुणोपसंहारोऽशक्यः प्रतिज्ञायेत ।
तस्मात् सुष्ठु उच्यते —
नाना शब्दादिभेदादिति ।
स्थिते च एतस्मिन्नधिकरणे,
सर्ववेदान्तप्रत्ययमित्यादि द्रष्टव्यम् ॥ ५८ ॥
विकल्पोऽविशिष्टफलत्वात् ॥ ५९ ॥
स्थिते विद्याभेदे विचार्यते —
किमासामिच्छया समुच्चयो विकल्पो वा स्यात् ,
अथवा विकल्प एव नियमेनेति ।
तत्र स्थितत्वात् तावद्विद्याभेदस्य न समुच्चयनियमे किञ्चित्कारणमस्ति ।
ननु भिन्नानामप्यग्निहोत्रदर्शपूर्णमासादीनां समुच्चयनियमो दृश्यते —
नैष दोषः ।
नित्यताश्रुतिर्हि तत्र कारणम् ।
नैवं विद्यानां काचिन्नित्यताश्रुतिरस्ति ।
तस्मान्न समुच्चयनियमः ।
नापि विकल्पनियमः,
विद्यान्तराधिकृतस्य विद्यान्तराप्रतिषेधात् ।
पारिशेष्यात् याथाकाम्यमापद्यते ।
ननु अविशिष्टफलत्वादासां विकल्पो न्याय्यः ।
तथा हि —
‘मनोमयः प्राणशरीरः’ (छा. उ. ३ । १४ । २) ‘कं ब्रह्म खं ब्रह्म’ (छा. उ. ४ । १० । ५) ‘सत्यकामः सत्यसङ्कल्पः’ (छा. उ. ८ । १ । ५) इत्येवमाद्याः तुल्यवत् ईश्वरप्राप्तिफला लक्ष्यन्ते —
नैष दोषः।
समानफलेष्वपि स्वर्गादिसाधनेषु कर्मसु याथाकाम्यदर्शनात् ।
तस्मात् याथाकाम्यप्राप्तौ,
उच्यते —
विकल्प एव आसां भवितुमर्हति,
न समुच्चयः ।
कस्मात् ?
अविशिष्टफलत्वात् ।
अविशिष्टं हि आसां फलमुपास्यविषयसाक्षात्करणम् ।
एकेन च उपासनेन साक्षात्कृते उपास्ये विषये ईश्वरादौ,
द्वितीय मनर्थकम् ।
अपि च असम्भव एव साक्षात्करणस्य समुच्चयपक्षे,
चित्तविक्षेपहेतुत्वात् ।
साक्षात्करणसाध्यं च विद्याफलं दर्शयन्ति श्रुतयः —
‘यस्य स्यादद्धा न विचिकित्सास्ति’ (छा. उ. ३ । १४ । ४) इति,
‘देवो भूत्वा देवानप्येति’ (बृ. उ. ४ । १ । २) इति च एवमाद्याः ।
स्मृतयश्च —
‘सदा तद्भावभावितः’ (भ. गी. ८ । ६) इत्येवमाद्याः ।
तस्मात् अविशिष्टफलानां विद्यानामन्यतमामादाय तत्परः स्यात् ,
यावदुपास्यविषयसाक्षात्करणेन तत्फलप्राप्तिरिति ॥ ५९ ॥
काम्यास्तु यथाकामं समुच्चीयेरन्न वा पूर्वहेत्वभावात् ॥ ६० ॥
अङ्गेषु यथाश्रयभावः ॥ ६१ ॥
कर्माङ्गेषु उद्गीथादिषु ये आश्रिताः प्रत्यया वेदत्रयविहिताः, किं ते समुच्चीयेरन् , किं वा यथाकामं स्युरिति संशये — यथाश्रयभाव इत्याह । यथैव एषामाश्रयाः स्तोत्रादयः सम्भूय भवन्ति, एवं प्रत्यया अपि, आश्रयतन्त्रत्वात्प्रत्ययानाम् ॥ ६१ ॥
शिष्टेश्च ॥ ६२ ॥
यथा वा आश्रयाः स्तोत्रादयः त्रिषु वेदेषु शिष्यन्ते, एवमाश्रिता अपि प्रत्ययाः — नोपदेशकृतोऽपि कश्चिद्विशेषः अङ्गानां तदाश्रयाणां च प्रत्ययानामित्यर्थः ॥ ६२ ॥
समाहारात् ॥ ६३ ॥
‘होतृषदनाद्धैवापि दुरुद्गीतमनुसमाहरति’ (छा. उ. १ । ५ । ५) इति च —
प्रणवोद्गीथैकत्वविज्ञानमाहात्म्यात् उद्गाता स्वकर्मण्युत्पन्नं क्षतं हौत्रात्कर्मणः प्रतिसमादधाति —
इति ब्रुवन् वेदान्तरोदितस्य प्रत्ययस्य वेदान्तरोदितपदार्थसम्बन्धसामान्यात् सर्ववेदोदितप्रत्ययोपसंहारं सूचयति —
इति लिङ्गदर्शनम् ॥ ६३ ॥
गुणसाधारण्यश्रुतेश्च ॥ ६४ ॥
विद्यागुणं च विद्याश्रयं सन्तम् ओंकारं वेदत्रयसाधारणं श्रावयति —
‘तेनेयं त्रयी विद्या वर्तत ओमित्याश्रावयत्योमिति शꣳसत्योमित्युद्गायति’ (छा. उ. १ । १ । ९) इति च ।
ततश्च आश्रयसाधारण्यात् आश्रितसाधारण्यमिति —
लिङ्गदर्शनमेव ।
अथवा गुणसाधारण्यश्रुतेश्चेति ।
यदीमे कर्मगुणा उद्गीथादयः सर्वे सर्वप्रयोगसाधारणा न स्युः,
न स्यात् ततः तदाश्रयाणां प्रत्ययानां सहभावः ।
ते तु उद्गीथादयः सर्वाङ्गग्राहिणा प्रयोगवचनेन सर्वे सर्वप्रयोगसाधारणाः श्राव्यन्ते ।
ततश्च आश्रयसहभावात्प्रत्ययसहभाव इति ॥ ६४ ॥
न वा तत्सहभावाश्रुतेः ॥ ६५ ॥
न वेति पक्षव्यावर्तनम् ।
न यथाश्रयभाव आश्रितानामुपासनानां भवितुमर्हति ।
कुतः ?
तत्सहभावाश्रुतेः ।
यथा हि त्रिवेदविहितानामङ्गानां स्तोत्रादीनां सहभावः श्रूयते — ‘
ग्रहं वा गृहीत्वा चमसं वोन्नीय स्तोत्रमुपाकरोति,
स्तुतमनुशंसति,
प्रस्तोतः साम गाय,
होतरेतद्यज’
इत्यादिना ।
नैवमुपासनानां सहभावश्रुतिरस्ति ।
ननु प्रयोगवचन एषां सहभावं प्रापयेत् —
नेति ब्रूमः,
पुरुषार्थत्वादुपासनानाम् ।
प्रयोगवचनो हि क्रत्वर्थानामुद्गीथादीनां सहभावं प्रापयेत् ।
उद्गीथाद्युपासनानि क्रत्वर्थाश्रयाण्यपि गोदोहनादिवत् पुरुषार्थानीत्यवोचाम ‘पृथग्घ्यप्रतिबन्धः फलम्’ (ब्र. सू. ३ । ३ । ४२) इत्यत्र ।
अयमेव च उपदेशाश्रयो विशेषः अङ्गानां तदालम्बनानां च उपासनानाम् —
यदेकेषां क्रत्वर्थत्वम् ,
एकेषां पुरुषार्थत्वमिति ।
परं च लिङ्गद्वयम् अकारणमुपासनसहभावस्य,
श्रुतिन्यायाभावात् ।
न च प्रतिप्रयोगम् आश्रयकात्स्न्योपसंहारादाश्रितानामपि तथात्वं विज्ञातुं शक्यम् ,
अतत्प्रयुक्तत्वादुपासनानाम् —
आश्रयतन्त्राण्यपि हि उपासनानि कामम् आश्रयाभावे मा भूवन् ।
न त्वाश्रयसहभावेन सहभावनियममर्हन्ति,
तत्सहभावाश्रुतेरेव ।
तस्मात् यथाकाममेव उपासनान्यनुष्ठीयेरन् ॥ ६५ ॥
दर्शनाच्च ॥ ६६ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छङ्करभगवतः कृतौ शारीरकमीमांसासूत्रभाष्ये
तृतीयाध्यायस्य तृतीयः पादः ॥
अथेदानीम् औपनिषदमात्मज्ञानं किमधिकारिद्वारेण कर्मण्येवानुप्रविशति, आहोस्वित् स्वतन्त्रमेव पुरुषार्थसाधनं भवतीति मीमांसमानः, सिद्धान्तेनैव तावदुपक्रमते —
पुरुषार्थोऽतः शब्दादिति बादरायणः ॥ १ ॥
अथात्र प्रत्यवतिष्ठते —
शेषत्वात्पुरुषार्थवादो यथान्येष्विति जैमिनिः ॥ २ ॥
कर्तृत्वेन आत्मनः कर्मशेषत्वात् , तद्विज्ञानमपि व्रीहिप्रोक्षणादिवत् विषयद्वारेण कर्मसम्बन्ध्येव — इत्यतः, तस्मिन् अवगतप्रयोजने आत्मज्ञाने या फलश्रुतिः, सा अर्थवादः — इति जैमिनिराचार्यो मन्यते । यथा अन्येषु द्रव्यसंस्कारकर्मसु ‘यस्य पर्णमयी जुहूर्भवति न स पापꣳ श्लोकꣳ शृणोति’ (तै॰सं॰ ३-५-७) ‘यदाङ्क्ते चक्षुरेव भ्रातृव्यस्य वृङ्क्ते’(तै॰सं॰ ६-१-१) ‘यत्प्रयाजानूयाजा इज्यन्ते, वर्म वा एतद्यज्ञस्य क्रियते वर्म यजमानस्य भ्रातृव्याभिभूत्यै’(तै॰सं॰ २-६-१) इत्येवंजातीयका फलश्रुतिः अर्थवादः — तद्वत् । कथं पुनः अस्य अनारभ्याधीतस्य आत्मज्ञानस्य प्रकरणादीनामन्यतमेनापि हेतुना विना क्रतुप्रवेश आशङ्क्यते ? कर्तृद्वारेण वाक्यात् तद्विज्ञानस्य क्रतुसम्बन्ध इति चेत् , न, वाक्याद्विनियोगानुपपत्तेः; अव्यभिचारिणा हि केनचिद्द्वारेण अनारभ्याधीतानामपि वाक्यनिमित्तः क्रतुसम्बन्धोऽवकल्पते । कर्ता तु व्यभिचारि द्वारम् , लौकिकवैदिककर्मसाधारण्यात् । तस्मान्न तद्द्वारेण आत्मज्ञानस्य क्रतुसम्बन्धसिद्धिरिति — न, व्यतिरेकविज्ञानस्य वैदिकेभ्यः कर्मभ्योऽन्यत्र अनुपयोगात् । न हि देहव्यतिरिक्तात्मज्ञानं लौकिकेषु कर्मसु उपयुज्यते, सर्वथा दृष्टार्थप्रवृत्त्युपपत्तेः । वैदिकेषु तु देहपातोत्तरकालफलेषु देहव्यतिरिक्तात्मज्ञानमन्तरेण प्रवृत्तिः नोपपद्यत इति, उपयुज्यते व्यतिरेकविज्ञानम् । ननु अपहतपाप्मत्वादिविशेषणात् असंसार्यात्मविषयम् औपनिषदं दर्शनं न प्रवृत्त्यङ्गं स्यात् — न, प्रियादिसंसूचितस्य संसारिण एव आत्मनो द्रष्टव्यत्वेनोपदेशात् । अपहतपाप्मत्वादि विशेषणं तु स्तुत्यर्थं भविष्यति । ननु तत्र तत्र प्रसाधितमेतत् — अधिकमसंसारि ब्रह्म जगत्कारणम् । तदेव च संसारिण आत्मनः पारमार्थिकं स्वरूपम् उपनिषत्सु उपदिश्यत इति — सत्यं प्रसाधितम् । तस्यैव तु स्थूणानिखननवत् फलद्वारेण आक्षेपसमाधाने क्रियेते दार्ढ्याय ॥ २ ॥
एवं प्राप्ते, प्रतिविधत्ते —
अधिकोपदेशात्तु बादरायणस्यैवं तद्दर्शनात् ॥ ८ ॥
विभागः शतवत् ॥ ११ ॥
यदप्युक्तम् —
‘तं विद्याकर्मणी समन्वारभेते’ (बृ. उ. ४ । ४ । २) इत्येतत् समन्वारम्भवचनम् अस्वातन्त्र्ये विद्याया लिङ्गमिति,
तत् प्रत्युच्यते —
विभागोऽत्र द्रष्टव्यः —
विद्या अन्यं पुरुषमन्वारभते,
कर्म अन्यमिति ।
शतवत् —
यथा शतम् आभ्यां दीयतामित्युक्ते विभज्य दीयते —
पञ्चाशदेकस्मै पञ्चाशदपरस्मै,
तद्वत् ।
न च इदं समन्वारम्भवचनं मुमुक्षुविषयम् —
‘इति नु कामयमानः’ (बृ. उ. ४ । ४ । ६) इति संसारिविषयत्वोपसंहारात् ,
‘अथाकामयमानः’ (बृ. उ. ४ । ४ । ६) इति च मुमुक्षोः पृथगुपक्रमात् ।
तत्र संसारिविषये विद्या विहिता प्रतिषिद्धा च परिगृह्यते,
विशेषाभावात् ।
कर्मापि विहितं प्रतिषिद्धं च,
यथाप्राप्तानुवादित्वात् ।
एवं सति अविभागेनापि इदं समन्वारम्भवचनमवकल्पते ॥ ११ ॥
अध्ययनमात्रवतः ॥ १२ ॥
‘आचार्यकुलाद्वेदमधीत्य’ (छा. उ. ८ । १५ । १) इत्यत्र अध्ययनमात्रस्य श्रवणात् अध्ययनमात्रवत एव कर्मविधिरित्यध्यवस्यामः ।
ननु एवं सति अविद्यत्वात् अनधिकारः कर्मसु प्रसज्येत —
नैष दोषः ।
न वयम् अध्ययनप्रभवं कर्मावबोधनम् अधिकारकारणं वारयामः ।
किं तर्हि ?
औपनिषदमात्मज्ञानम् स्वातन्त्र्येणैव प्रयोजनवत् प्रतीयमानम् न कर्माधिकारकारणतां प्रतिपद्यते —
इत्येतावत्प्रतिपादयामः ।
यथा च न क्रत्वन्तरज्ञानं क्रत्वन्तराधिकारेण अपेक्ष्यते,
एवमेतदपि द्रष्टव्यमिति ॥ १२ ॥
स्तुतयेऽनुमतिर्वा ॥ १४ ॥
‘कुर्वन्नेवेह कर्माणि’ (ई. उ. २) इत्यत्र अपरो विशेष आख्यायते ।
यद्यपि अत्र प्रकरणसामर्थ्यात् विद्वानेव —
कुर्वन् —
इति सम्बध्यते,
तथापि विद्यास्तुतये कर्मानुज्ञानम् एतद्द्रष्टव्यम् ।
‘न कर्म लिप्यते नरे’ (ई. उ. २) इति हि वक्ष्यति ।
एतदुक्तं भवति —
यावज्जीवं कर्म कुर्वत्यपि विदुषि पुरुषे न कर्म लेपाय भवति,
विद्यासामर्थ्यादिति —
तदेवं विद्या स्तूयते ॥ १४ ॥
ऊर्ध्वरेतःसु च शब्दे हि ॥ १७ ॥
परामर्शं जैमिनिरचोदना चापवदति हि ॥ १८ ॥
अनुष्ठेयं बादरायणः साम्यश्रुतेः ॥ १९ ॥
अनुष्ठेयम् आश्रमान्तरं बादरायण आचार्यो मन्यते —
वेदेऽश्रवणादग्निहोत्रादीनां च अवश्यानुष्ठेयत्वात् तद्विरोधादनधिकृतानुष्ठेयमाश्रमान्तरम् —
इति हि इमां मतिं निराकरोति,
गार्हस्थ्यवदेव आश्रमान्तरमपि अनिच्छता प्रतिपत्तव्यमिति मन्यमानः ।
कुतः ?
साम्यश्रुतेः ।
समा हि गार्हस्थ्येनाश्रमान्तरस्य परामर्शश्रुतिर्दृश्यते —
‘त्रयो धर्मस्कन्धाः’ (छा. उ. २ । २३ । १) इत्याद्या ।
यथा इह श्रुत्यन्तरविहितमेव गार्हस्थ्यं परामृष्टम् ,
एवमाश्रमान्तरमपीति प्रतिपत्तव्यम् —
यथा च शास्त्रान्तरप्राप्तयोरेव निवीतप्राचीनावीतयोः परामर्श उपवीतविधिपरे वाक्ये ।
तस्मात् तुल्यमनुष्ठेयत्वं गार्हस्थ्येन आश्रमान्तरस्य ।
तथा ‘एतमेव प्रव्राजिनो लोकमिच्छन्तः प्रव्रजन्ति’ (बृ. उ. ४ । ४ । २२) इत्यस्य वेदानुवचनादिभिः समभिव्याहारः ।
‘ये चेमेऽरण्ये श्रद्धा तप इत्युपासते’ (छा. उ. ५ । १० । १) इत्यस्य च पञ्चाग्निविद्यया ।
यत्तूक्तम् — ‘
तप एव द्वितीयः’
इत्यादिष्वाश्रमान्तराभिधानं सन्दिग्धमिति ।
नैष दोषः,
निश्चयकारणसद्भावात् ।
‘त्रयो धर्मस्कन्धाः’ (छा. उ. २ । २३ । १) इति हि धर्मस्कन्धत्रित्वं प्रतिज्ञातम् ।
न च यज्ञादयो भूयांसो धर्मा उत्पत्तिभिन्नाः सन्तः अन्यत्राश्रमसम्बन्धात् त्रित्वेऽन्तर्भावयितुं शक्यन्ते ।
तत्र यज्ञादिलिङ्गो गृहाश्रम एको धर्मस्कन्धो निर्दिष्टः,
ब्रह्मचारीति च स्पष्ट आश्रमनिर्देशः,
तप इत्यपि कोऽन्यस्तपःप्रधानादाश्रमात् धर्मस्कन्धोऽभ्युपगम्येत ।
‘ये चेमेऽरण्ये’ (छा. उ. ५ । १० । १) इति च अरण्यलिङ्गात् श्रद्धातपोभ्यामाश्रमगृहीतिः ।
तस्मात् परमार्शेऽप्यनुष्ठेयमाश्रमान्तरम् ॥ १९ ॥
विधिर्वा धारणवत् ॥ २० ॥
विधिर्वा अयमाश्रमान्तरस्य, न परामर्शमात्रम् । ननु विधित्वाभ्युपगमे एकवाक्यताप्रतीतिरुपरुध्येत । प्रतीयते च अत्र एकवाक्यता — पुण्यलोकफलास्त्रयो धर्मस्कन्धाः, ब्रह्मसंस्थता त्वमृतत्वफलेति — सत्यमेतत्; सतीमपि तु एकवाक्यताप्रतीतिं परित्यज्य विधिरेवाभ्युपगन्तव्यः, अपूर्वत्वात् , विध्यन्तरस्यादर्शनात् , विस्पष्टाच्चाश्रमान्तरप्रत्ययात् गुणवादकल्पनया एकवाक्यत्वयोजनानुपपत्तेः । धारणवत् — यथा ‘अधस्तात्समिधं धारयन्ननुद्रवेदुपरि हि देवेभ्यो धारयति’ इत्यत्र सत्यामप्यधोधारणेन एकवाक्यताप्रतीतौ, विधीयत एव उपरिधारणम् , अपूर्वत्वात्; तथा च उक्तं शेषलक्षणे ‘विधिस्तु धारणेऽपूर्वत्वात्’ (जै. सू. ३ । ४ । १५) इति । तद्वत् इहापि आश्रमपरामर्शश्रुतिः विधिरेवेति कल्प्यते ॥
यदापि परामर्श एवायमाश्रमान्तराणाम् ,
तदापि ब्रह्मसंस्थता तावत् ,
संस्तवसामर्थ्यादवश्यं विधेया अभ्युपगन्तव्या ।
सा च किं चतुर्ष्वाश्रमेषु यस्य कस्यचित् ,
आहोस्वित्परिव्राजकस्यैवेति विवेक्तव्यम् ।
यदि च ब्रह्मचार्यन्तेष्वाश्रमेषु परामृश्यमानेषु परिव्राजकोऽपि परामृष्टः,
ततश्चतुर्णामप्याश्रमाणां परामृष्टत्वाविशेषात् अनाश्रमित्वानुपपत्तेश्च यः कश्चिच्चतुर्ष्वाश्रमेषु ब्रह्मसंस्थो भविष्यति ।
अथ न परामृष्टः,
ततः परिशिष्यमाणः परिव्राडेव ब्रह्मसंस्थ इति सेत्स्यति ।
तत्र तपःशब्देन वैखानसग्राहिणा परामृष्टः परिव्राडपि इति केचित् ।
तदयुक्तम्;
न हि सत्यां गतौ वानप्रस्थविशेषणेन परिव्राजको ग्रहणमर्हति ।
यथा अत्र ब्रह्मचारिगृहमेधिनौ असाधारणेनैव स्वेन स्वेन विशेषणेन विशेषितौ,
एवं भिक्षुवैखानसावपीति युक्तम् ।
तपश्च असाधारणो धर्मो वानप्रस्थानां कायक्लेशप्रधानत्वात् ,
तपःशब्दस्य तत्र रूढेः ।
भिक्षोस्तु धर्म इन्द्रियसंयमादिलक्षणो नैव तपःशब्देनाभिलप्यते ।
चतुष्ट्वेन च प्रसिद्धा आश्रमाः त्रित्वेन परामृश्यन्त इत्यन्याय्यम् ।
अपि च भेदव्यपदेशोऽत्र भवति —
त्रय एते पुण्यलोकभाजः,
एकोऽमृतत्वभागिति ।
पृथक्त्वे चैष भेदव्यपदेशोऽवकल्पते ।
न ह्येवं भवति —
देवदत्तयज्ञदत्तौ मन्दप्रज्ञौ,
अन्यतरस्त्वनयोर्महाप्रज्ञ इति ।
भवति त्वेवम् —
देवदत्तयज्ञदत्तौ मन्दप्रज्ञौ,
विष्णुमित्रस्तु महाप्रज्ञ इति ।
तस्मात् पूर्वे त्रय आश्रमिणः पुण्यलोकभाजः,
परिशिष्यमाणः परिव्राडेवामृतत्वभाक् ।
कथं पुनः ब्रह्मसंस्थशब्दो योगात्प्रवर्तमानः सर्वत्र सम्भवन् परिव्राजक एवावतिष्ठेत ?
रूढ्यभ्युपगमे च आश्रममात्रादमृतत्वप्राप्तेर्ज्ञानानर्थक्यप्रसङ्ग इति;
अत्रोच्यते —
ब्रह्मसंस्थ इति हि ब्रह्मणि परिसमाप्तिः अनन्यव्यापारतारूपं तन्निष्ठत्वमभिधीयते ।
तच्च त्रयाणामाश्रमाणां न सम्भवति,
स्वाश्रमविहितकर्माननुष्ठाने प्रत्यवायश्रवणात् ।
परिव्राजकस्य तु सर्वकर्मसंन्यासात् प्रत्यवायो न सम्भवति अननुष्ठाननिमित्तः ।
शमदमादिस्तु तदीयो धर्मो ब्रह्मसंस्थताया उपोद्बलकः,
न विरोधी ।
ब्रह्मनिष्ठत्वमेव हि तस्य शमदमाद्युपबृंहितं स्वाश्रमविहितं कर्म ।
यज्ञादीनि च इतरेषाम् ।
तद्व्यतिक्रमे च तस्य प्रत्यवायः ।
तथा च ‘न्यास इति ब्रह्मा ब्रह्मा हि परः परो हि ब्रह्मा तानि वा एतान्यवराणि तपाꣳसि न्यास एवात्यरेचयत्’ (ना. उ. ७८) ‘वेदान्तविज्ञानसुनिश्चितार्थाः संन्यासयोगाद्यतयः शुद्धसत्त्वाः’ (मु. उ. ३ । २ । ६)(ना. उ. १२ । ३)(कै. उ. ३) इत्याद्याः श्रुतयः,
स्मृतयश्च ‘तद्बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणाः’ (भ. गी. ५ । १७) इत्याद्याः —
ब्रह्मसंस्थस्य कर्माभावं दर्शयन्ति ।
तस्मात् परिव्राजकस्य आश्रममात्रादमृतत्वप्राप्तेर्ज्ञानानर्थक्यप्रसङ्ग इत्येषोऽपि दोषो नावतरति ।
तदेवं परामर्शेऽपि इतरेषामाश्रमाणाम् ,
पारिव्राज्यं तावद्ब्रह्मसंस्थतालक्षणं लभ्यत एव ।
अनपेक्ष्यैव जाबालश्रुतिमाश्रमान्तरविधायिनीम् अयमाचार्येण विचारः प्रवर्तितः;
विद्यत एव तु आश्रमान्तरविधिश्रुतिः प्रत्यक्षा —
‘ब्रह्मचर्यं परिसमाप्य गृही भवेद्गृही भूत्वा वनी भवेद्वनी भूत्वा प्रव्रजेत् । यदि वेतरथा ब्रह्मचर्यादेव प्रव्रजेद्गृहाद्वा वनाद्वा’ (जा. उ. ४) इति ।
न च इयं श्रुतिः अनधिकृतविषया शक्या वक्तुम् ,
अविशेषश्रवणात् ,
पृथग्विधानाच्च अनधिकृतानाम् —
‘अथ पुनरेव व्रती वाऽव्रती वा स्नातको वाऽस्नातको वोत्सन्नाग्निरनग्निको वा’ (जा. उ. ४) इत्यादिना ।
ब्रह्मज्ञानपरिपाकाङ्गत्वाच्च पारिव्राज्यस्य न अनधिकृतविषयत्वम् ,
तच्च दर्शयति —
‘अथ परिव्राड्विवर्णवासा मुण्डोऽपरिग्रहः शुचिरद्रोही भैक्षाणो ब्रह्मभूयाय भवति’ (जा. उ. ५) इति ।
तस्मात्सिद्धा ऊर्ध्वरेतसामाश्रमाः ।
सिद्धं च ऊर्ध्वरेतःसु विधानाद्विद्यायाः स्वातन्त्र्यमिति ॥ २० ॥
स्तुतिमात्रमुपादानादिति चेन्नापूर्वत्वात् ॥ २१ ॥
‘स एष रसानां रसतमः परमः परार्ध्योऽष्टमो यदुद्गीथः’ (छा. उ. १ । १ । ३) ‘इयमेवर्गग्निः साम’ (छा. उ. १ । ६ । १) ‘अयं वाव लोकः एषोऽग्निश्चितः ।’(श॰ब्रा॰ १०-१-२-२),
‘तदिदमेवोक्थमियमेव पृथिवी(ऐ॰आ॰ २-१-२)’ इत्येवंजातीयकाः श्रुतयः किमुद्गीथादेः स्तुत्यर्थाः,
आहोस्वित् उपासनाविध्यर्था इत्यस्मिन्संशये —
स्तुत्यर्था इति युक्तम् ,
उद्गीथादीनि कर्माङ्गान्युपादाय श्रवणात् ।
यथा ‘
इयमेव जुहूरादित्यः कूर्मः स्वर्गो लोक आहवनीयः’
इत्याद्या जुह्वादिस्तुत्यर्थाः,
तद्वत् —
इति चेत् ,
नेत्याह ।
न हि स्तुतिमात्रमासां श्रुतीनां प्रयोजनं युक्तम् ,
अपूर्वत्वात् ।
विध्यर्थतायां हि अपूर्वोऽर्थो विहितो भवति ।
स्तुत्यर्थतायां त्वानर्थक्यमेव स्यात् ।
विधायकस्य हि शब्दस्य वाक्यशेषभावं प्रतिपद्यमाना स्तुतिरुपयुज्यत इत्युक्तम् ‘विधिना त्वेकवाक्यत्वात्स्तुत्यर्थेन विधीनां स्युः’(जै॰सू॰ १-२-७) इत्यत्र ।
प्रदेशान्तरविहितानां तु उद्गीथादीनाम् इयं प्रदेशान्तरपठिता स्तुतिः वाक्यशेषभावमप्रतिपद्यमाना अनर्थिकैव स्यात् । ‘
इयमेव जुहूः’
इत्यादि तु विधिसन्निधावेवाम्नातमिति वैषम्यम् ।
तस्मात् विध्यर्था एव एवंजातीयकाः श्रुतयः ॥ २१ ॥
पारिप्लवार्था इति चेन्न विशेषितत्वात् ॥ २३ ॥
तथा चैकवाक्यतोपबन्धात् ॥ २४ ॥
असति च पारिप्लवार्थत्वे आख्यानानां सन्निहितविद्याप्रतिपादनोपयोगितैव न्याय्या,
एकवाक्यतोपबन्धात् ।
तथा हि तत्र तत्र सन्निहिताभिर्विद्याभिरेकवाक्यता दृश्यते प्ररोचनोपयोगात् प्रतिपत्तिसौकर्योपयोगाच्च ।
मैत्रेयीब्राह्मणे तावत् —
‘आत्मा वा अरे द्रष्टव्यः’ (बृ. उ. ४ । ५ । ६) इत्याद्यया विद्यया एकवाक्यता दृश्यते;
प्रातर्दनेऽपि ‘
प्राणोऽस्मि प्रज्ञात्मा’
इत्याद्यया । ‘
जानश्रुतिः’
इत्यत्रापि ‘वायुर्वाव संवर्गः’ (छा. उ. ४ । ३ । १) इत्याद्यया ।
यथा ‘
स आत्मनो वपामुदखिदत्’
इत्येवमादीनां कर्मश्रुतिगतानामाख्यानानां सन्निहितविधिस्तुत्यर्थता,
तद्वत् ।
तस्मान्न पारिप्लवार्थत्वम् ॥ २४ ॥
अत एव चाग्नीन्धनाद्यनपेक्षा ॥ २५ ॥
‘पुरुषार्थोऽतः शब्दात्’ (ब्र. सू. ३ । ४ । १) इत्येतत् व्यवहितमपि सम्भवात् ‘
अतः’
इति परामृश्यते ।
अत एव च विद्यायाः पुरुषार्थहेतुत्वात् अग्नीन्धनादीन्याश्रमकर्माणि विद्यया स्वार्थसिद्धौ नापेक्षितव्यानीति आद्यस्यैवाधिकरणस्य फलमुपसंहरत्यधिकविवक्षया ॥ २५ ॥
सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत् ॥ २६ ॥
शमदमाद्युपेतः स्यात्तथापि तु तद्विधेस्तदङ्गतया तेषामवश्यानुष्ठेयत्वात् ॥ २७ ॥
यदि कश्चिन्मन्येत —
यज्ञादीनां विद्यासाधनभावो न न्याय्यः,
विध्यभावात् । ‘
यज्ञेन विविदिषन्ति’
इत्येवंजातीयका हि श्रुतिः अनुवादस्वरूपा विद्याभिष्टवपरा,
न यज्ञादिविधिपरा —
इत्थं महाभागा विद्या,
यत् यज्ञादिभिरेतामवाप्तुमिच्छन्तीति —
तथापि तु शमदमाद्युपेतः स्यात् विद्यार्थी,
‘तस्मादेवंविच्छान्तो दान्त उपरतस्तितिक्षुः समाहितो भूत्वाऽऽत्मन्येवात्मानं पश्यति’ (बृ. उ. ४ । ४ । २३) इति विद्यासाधनत्वेन शमदमादीनां विधानात् विहितानां च अवश्यानुष्ठेयत्वात् ।
ननु अत्रापि शमाद्युपेतो भूत्वा पश्यतीति वर्तमानापदेश उपलभ्यते,
न विधिः ;
नेति ब्रूमः, ‘
तस्मात्’
इति प्रकृतप्रशंसापरिग्रहाद्विधित्वप्रतीतेः । ‘
पश्येत्’
इति च माध्यन्दिना विस्पष्टमेव विधिमधीयते ।
तस्मात् यज्ञाद्यनपेक्षायामपि शमादीन्यपेक्षितव्यानि ।
यज्ञादीन्यपि तु अपेक्षितव्यानि,
यज्ञादिश्रुतेरेव ।
ननु उक्तम् —
यज्ञादिभिर्विविदिषन्तीत्यत्र न विधिरुपलभ्यत इति —
सत्यमुक्तम्;
तथापि तु अपूर्वत्वात्संयोगस्य विधिः परिकल्प्यते ।
न हि अयं यज्ञादीनां विविदिषासंयोगः पूर्वं प्राप्तः,
येनानूद्येत । ‘
तस्मात्पूषा प्रपिष्टभागोऽदन्तको हि’
इत्येवमादिषु च अश्रुतविधिकेष्वपि वाक्येषु अपूर्वत्वाद्विधिं परिकल्प्य,
‘पौष्णं पेषणं विकृतौ प्रतीयेत’ (शाब. भा. ३ । ३ । ३४) —
इत्यादिविचारः प्रथमे तन्त्रे प्रवर्तितः ।
तथा च उक्तम् ‘विधिर्वा धारणवत्’ (ब्र. सू. ३ । ४ । २०) इति ।
स्मृतिष्वपि भगवद्गीताद्यासु अनभिसन्धाय फलम् अनुष्ठितानि यज्ञादीनि मुमुक्षोर्ज्ञानसाधनानि भवन्तीति प्रपञ्चितम् ।
तस्माद्यज्ञादीनि शमदमादीनि च यथाश्रमं सर्वाण्येव आश्रमकर्माणि विद्योत्पत्तावपेक्षितव्यानि ।
तत्रापि ‘
एवंवित्’
इति विद्यासंयोगात् प्रत्यासन्नानि विद्यासाधनानि शमादीनि,
विविदिषासंयोगात्तु बाह्यतराणि यज्ञादीनीति विवेक्तव्यम् ॥ २७ ॥
सर्वान्नानुमतिश्च प्राणात्यये तद्दर्शनात् ॥ २८ ॥
नेदं सर्वान्नानुज्ञानं विधीयत इति ।
न हि अत्र विधायकः शब्द उपलभ्यते,
‘न ह वा एवंविदि किञ्चनानन्नं भवति’ (छा. उ. ५ । २ । १) इति वर्तमानापदेशात् ।
न च असत्यामपि विधिप्रतीतौ प्रवृत्तिविशेषकरत्वलोभेनैव विधिरभ्युपगन्तुं शक्यते ।
अपि च श्वादिमर्यादं प्राणस्यान्नमित्युक्त्वा,
इदमुच्यते —
नैवंविदः किञ्चिदनन्नं भवतीति ।
न च श्वादिमर्यादमन्नं मानुषेण देहेनोपभोक्तुं शक्यते ।
शक्यते तु प्राणस्यान्नमिदं सर्वमिति विचिन्तयितुम् ।
तस्मात् प्राणान्नविज्ञानप्रशंसार्थोऽयमर्थवादः,
न सर्वान्नानुज्ञानविधिः ।
तद्दर्शयति — ‘
सर्वान्नानुमतिश्च प्राणात्यये’
इति ।
एतदुक्तं भवति —
प्राणात्यय एव हि परस्यामापदि सर्वमन्नमदनीयत्वेनाभ्यनुज्ञायते,
तद्दर्शनात् ।
तथा हि श्रुतिः चाक्रायणस्य ऋषेः कष्टायामवस्थायाम् अभक्ष्यभक्षणे प्रवृत्तिं दर्शयति ‘मटचीहतेषु कुरुषु’ (छा. उ. १ । १० । १) इत्यस्मिन् ब्राह्मणे —
चाक्रायणः किल ऋषिः आपद्गतः इभ्येन सामिखादितान्कुल्माषांश्चखाद ।
अनुपानं तु तदीयम् उच्छिष्टदोषात्प्रत्याचचक्षे ।
कारणं चात्रोवाच ‘न वा अजीविष्यमिमानखादन्’ (छा. उ. १ । १० । ४) इति,
‘कामो म उदपानम्’ (छा. उ. १ । १० । ४) इति च ।
पुनश्च उत्तरेद्युः तानेव स्वपरोच्छिष्टान्पर्युषितान्कुल्माषान् भक्षयांबभूव —
इति ।
तदेतत् उच्छिष्टोच्छिष्टपर्युषितभक्षणं दर्शयन्त्याः श्रुतेः आशयातिशयो लक्ष्यते —
प्राणात्ययप्रसङ्गे प्राणसन्धारणाय अभक्ष्यमपि भक्षयितव्यमिति;
स्वस्थावस्थायां तु तन्न कर्तव्यं विद्यावतापि —
इत्यनुपानप्रत्याख्यानाद्गम्यते ।
तस्मात् अर्थवादः ‘न ह वा एवंविदि’ (छा. उ. ५ । २ । १) इत्येवमादिः ॥ २८ ॥
अबाधाच्च ॥ २९ ॥
एवं च सति ‘आहारशुद्धौ सत्त्वशुद्धिः’ इत्येवमादि भक्ष्याभक्ष्यविभागशास्त्रम् अबाधितं भविष्यति ॥ २९ ॥
अपि च स्मर्यते ॥ ३० ॥
अपि च आपदि सर्वान्नभक्षणमपि स्मर्यते विदुषोऽविदुषश्च अविशेषेण — ‘जीवितात्ययमापन्नो योऽन्नमत्ति यतस्ततः । लिप्यते न स पापेन पद्मपत्रमिवाम्भसा’ (म.स्मृ. १० । १०४) इति । तथा ‘मद्यं नित्यं ब्राह्मणः’ (गौ॰ध॰सू॰ १-२-२५), ‘सुरापस्य ब्राह्मणस्योष्णामासिञ्चेयुः’ (गौ. ध. सू. ३ । ५ । १), ‘सुरापाः कृमयो भवन्त्यभक्ष्यभक्षणात्’ इति च स्मर्यते वर्जनमनन्नस्य ॥ ३० ॥
शब्दश्चातोऽकामकारे ॥ ३१ ॥
शब्दश्च अनन्नस्य प्रतिषेधकः कामकारनिवृत्तिप्रयोजनः कठानां संहितायां श्रूयते — ‘
तस्माद्ब्राह्मणः सुरां न पिबेत्’
इति ।
सोऽपि ‘न ह वा एवंविदि’ (छा. उ. ५ । २ । १) इत्यस्यार्थवादत्वात् उपपन्नतरो भवति ।
तस्मादेवंजातीयका अर्थवादा न विधय इति ॥ ३१ ॥
विहितत्वाच्चाश्रमकर्मापि ॥ ३२ ॥
‘सर्वापेक्षा च’ (ब्र. सू. ३ । ४ । २६) इत्यत्र आश्रमकर्मणां विद्यासाधनत्वमवधारितम्;
इदानीं तु किममुमुक्षोरप्याश्रममात्रनिष्ठस्य विद्यामकामयमानस्य तान्यनुष्ठेयानि,
उताहो नेति चिन्त्यते ।
तत्र ‘तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति’ (बृ. उ. ४ । ४ । २२) इत्यादिना आश्रमकर्मणां विद्यासाधनत्वेन विहितत्वात् विद्यामनिच्छतः फलान्तरं कामयमानस्य नित्यान्यननुष्ठेयानि ।
अथ तस्याप्यनुष्ठेयानि,
न तर्हि एषां विद्यासाधनत्वम् ,
नित्यानित्यसंयोगविरोधात् —
इत्यस्यां प्राप्तौ,
पठति —
आश्रममात्रनिष्ठस्याप्यमुमुक्षोः कर्तव्यान्येव नित्यानि कर्माणि, ‘
यावज्जीवमग्निहोत्रं जुहोति’
इत्यादिना विहितत्वात्;
न हि वचनस्यातिभारो नाम कश्चिदस्ति ॥ ३२ ॥
अथ यदुक्तम् — नैवं सति विद्यासाधनत्वमेषां स्यादिति, अत उत्तरं पठति —
सहकारित्वेन च ॥ ३३ ॥
विद्यासहकारीणि च एतानि स्युः,
विहितत्वादेव ‘
तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति’
इत्यादिना;
तदुक्तम् —
‘सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत्’ (ब्र. सू. ३ । ४ । २६) इति ।
न चेदं विद्यासहकारित्ववचनमाश्रमकर्मणां प्रयाजादिवत् विद्याफलविषयं मन्तव्यम् ,
अविधिलक्षणत्वाद्विद्यायाः,
असाध्यत्वाच्च विद्याफलस्य ।
विधिलक्षणं हि साधनं दर्शपूर्णमासादि स्वर्गफलसिषाधयिषया सहकारिसाधनान्तरम् अपेक्षते,
नैवं विद्या ।
तथा चोक्तम् —
‘अत एव चाग्नीन्धनाद्यनपेक्षा’ (ब्र. सू. ३ । ४ । २५) इति ।
तस्मादुत्पत्तिसाधनत्व एव एषां सहकारित्ववाचोयुक्तिः ।
न च अत्र नित्यानित्यसंयोगविरोध आशङ्क्यः,
कर्माभेदेऽपि संयोगभेदात् ।
नित्यो हि एकः संयोगो यावज्जीवादिवाक्यकल्पितः,
न तस्य विद्याफलत्वम् ।
अनित्यस्तु अपरः संयोगः ‘तमेतं वेदानुवचनेन’ (बृ. उ. ४ । ४ । २२) इत्यादिवाक्यकल्पितः,
तस्य विद्याफलत्वम् —
यथा एकस्यापि खादिरत्वस्य नित्येन संयोगेन क्रत्वर्थत्वम् ,
अनित्येन संयोगेन पुरुषार्थत्वम् ,
तद्वत् ॥ ३३ ॥
सर्वथापि त एवोभयलिङ्गात् ॥ ३४ ॥
सर्वथापि आश्रमकर्मत्वपक्षे विद्यासहकारित्वपक्षे च,
त एव अग्निहोत्रादयो धर्मा अनुष्ठेयाः । ‘
त एव’
इत्यवधारयन्नाचार्यः किं निवर्तयति ?
कर्मभेदशङ्कामिति ब्रूमः ।
यथा कुण्डपायिनामयने ‘
मासमग्निहोत्रं जुह्वति’
इत्यत्र नित्यादग्निहोत्रात्कर्मान्तरमुपदिश्यते,
नैवमिह कर्मभेदोऽस्तीत्यर्थः ।
कुतः ?
उभयलिङ्गात् —
श्रुतिलिङ्गात्स्मृतिलिङ्गाच्च ।
श्रुतिलिङ्गं तावत् —
‘तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति’ (बृ. उ. ४ । ४ । २२) इति सिद्धवदुत्पन्नरूपाण्येव यज्ञादीनि विविदिषायां विनियुङ्क्ते,
न तु ‘
जुह्वति’
इत्यादिवत् अपूर्वमेषां रूपमुत्पादयतीति ।
स्मृतिलिङ्गमपि —
‘अनाश्रितः कर्मफलं कार्यं कर्म करोति यः’ (भ. गी. ६ । १) इति विज्ञातकर्तव्यताकमेव कर्म विद्योत्पत्त्यर्थं दर्शयति ।
‘यस्यैतेऽष्टाचत्वारिंशत्संस्काराः’ (गौ. ध. सू. १ । ८ । २५) इत्याद्या च संस्कारत्वप्रसिद्धिः वैदिकेषु कर्मसु तत्संस्कृतस्य विद्योत्पत्तिमभिप्रेत्य स्मृतौ भवति ।
तस्मात्साध्विदम् अभेदावधारणम् ॥ ३४ ॥
अन्तरा चापि तु तद्दृष्टेः ॥ ३६ ॥
विधुरादीनां द्रव्यादिसम्पद्रहितानां च अन्यतमाश्रमप्रतिपत्तिहीनानामन्तरालवर्तिनां किं विद्यायामधिकारोऽस्ति, किं वा नास्ति — इति संशये, नास्तीति तावत्प्राप्तम् , आश्रमकर्मणां विद्याहेतुत्वावधारणात् , आश्रमकर्मासम्भवाच्चैतेषाम् — इत्येवं प्राप्ते, इदमाह — अन्तरा चापि तु — अनाश्रमित्वेन वर्तमानोऽपि विद्यायामधिक्रियते । कुतः ? तद्दृष्टेः — रैक्ववाचक्नवीप्रभृतीनामेवंभूतानामपि ब्रह्मवित्त्वश्रुत्युपलब्धेः ॥ ३६ ॥
अपि च स्मर्यते ॥ ३७ ॥
संवर्तप्रभृतीनां च नग्नचर्यादियोगात् अनपेक्षिताश्रमकर्मणामपि महायोगित्वं स्मर्यत इतिहासे ॥ ३७ ॥
ननु लिङ्गमिदं श्रुतिस्मृतिदर्शनमुपन्यस्तम् । का नु खलु प्राप्तिरिति, सा अभिधीयते —
विशेषानुग्रहश्च ॥ ३८ ॥
तेषामपि च विधुरादीनाम् अविरुद्धैः पुरुषमात्रसम्बन्धिभिर्जपोपवासदेवताराधनादिभिर्धर्मविशेषैरनुग्रहो विद्यायाः सम्भवति ।
तथा च स्मृतिः —
‘जप्येनैव तु संसिध्येद्ब्राह्मणो नात्र संशयः । कुर्यादन्यन्न वा कुर्यान्मैत्रो ब्राह्मण उच्यते’ (म. स्मृ. २ । ८७) इति असम्भवदाश्रमकर्मणोऽपि जप्येऽधिकारं दर्शयति ।
जन्मान्तरानुष्ठितैरपि च आश्रमकर्मभिः सम्भवत्येव विद्याया अनुग्रहः ।
तथा च स्मृतिः —
‘अनेकजन्मसंसिद्धस्ततो याति परां गतिम्’ (भ. गी. ६ । ४५) इति जन्मान्तरसञ्चितानपि संस्कारविशेषान् अनुग्रहीतॄन् विद्यायां दर्शयति ।
दृष्टार्था च विद्या प्रतिषेधाभावमात्रेणापि अर्थिनमधिकरोति श्रवणादिषु ।
तस्मात् विधुरादीनामप्यधिकारो न विरुध्यते ॥ ३८ ॥
अतस्त्वितरज्ज्यायो लिङ्गाच्च ॥ ३९ ॥
अतस्तु अन्तरालवर्तित्वात् इतरत् आश्रमवर्तित्वं ज्यायो विद्यासाधनम् ,
श्रुतिस्मृतिसन्दृष्टत्वात् ।
श्रुतिलिङ्गाच्च —
‘तेनैति ब्रह्मवित्पुण्यकृत्तैजसश्च’ (बृ. उ. ४ । ४ । ९) इति ।
‘अनाश्रमी न तिष्ठेत दिनमेकमपि द्विजः । संवत्सरमनाश्रमी स्थित्वा कृच्छ्रमेकं चरेत्’(द॰स्मृ॰ १-१०) इति च स्मृतिलिङ्गात् ॥ ३९ ॥
तद्भूतस्य तु नातद्भावो जैमिनेरपि नियमातद्रूपाभावेभ्यः ॥ ४० ॥
सन्ति ऊर्ध्वरेतस आश्रमा इति स्थापितम् ।
तांस्तु प्राप्तस्य कथञ्चित् ततः प्रच्युतिरस्ति,
नास्ति वेति संशयः ।
पूर्वकर्मस्वनुष्ठानचिकीर्षया वा रागादिवशेन वा प्रच्युतोऽपि स्यात् विशेषाभावादित्येवं प्राप्ते,
उच्यते —
तद्भूतस्य तु प्रतिपन्नोर्ध्वरेतोभावस्य न कथञ्चिदपि अतद्भावः,
न ततः प्रच्युतिः स्यात् ।
कुतः ?
नियमातद्रूपाभावेभ्यः ।
तथा हि —
‘अत्यन्तमात्मानमाचार्यकुलेऽवसादयन्’ (छा. उ. २ । २३ । १) इति, ‘
अरण्यमियादिति पदं ततो न पुनरेयादित्युपनिषत्’
इति,
‘आचार्येणाभ्यनुज्ञातश्चतुर्णामेकमाश्रमम् । आ विमोक्षाच्छरीरस्य सोऽनुतिष्ठेद्यथाविधि’(म॰भा॰ १२-२३४-४) इति च एवंजातीयको नियमः प्रच्युत्यभावं दर्शयति ।
यथा च ‘ब्रह्मचर्यं समाप्य गृही भवेत्’ (जा. उ. ४) ‘ब्रह्मचर्यादेव प्रव्रजेत्’ (जा. उ. ४) इति च एवमादीनि आरोहरूपाणि वचांस्युपलभ्यन्ते,
नैवं प्रत्यवरोहरूपाणि ।
न चैवमाचाराः शिष्टा विद्यन्ते ।
यत्तु पूर्वकर्मस्वनुष्ठानचिकीर्षया प्रत्यवरोहणमिति,
तदसत् —
‘श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात्’ (भ. गी. ३ । ३५) इति स्मरणात् ,
न्यायाच्च —
यो हि यं प्रति विधीयते स तस्य धर्मः,
न तु यो येन स्वनुष्ठातुं शक्यते ।
चोदनालक्षणत्वाद्धर्मस्य ।
न च रागादिवशात्प्रच्युतिः,
नियमशास्त्रस्य बलीयस्त्वात् ।
जैमिनेरपीति अपिशब्देन जैमिनिबादरायणयोरत्र सम्प्रतिपत्तिं शास्ति प्रतिपत्तिदार्ढ्याय ॥ ४० ॥
न चाधिकारिकमपि पतनानुमानात्तदयोगात् ॥ ४१ ॥
यदि नैष्ठिको ब्रह्मचारी प्रमादादवकीर्येत, किं तस्य ‘ब्रह्मचार्यवकीर्णी नैऋतं गर्दभमालभेत’ इत्येतत्प्रायश्चित्तं स्यात् , उत नेति । नेत्युच्यते; यदपि अधिकारलक्षणे निर्णीतं प्रायश्चित्तम् ‘अवकीर्णिपशुश्च तद्वदाधानस्याप्राप्तकालत्वात्’ (जै. सू. ६ । ८ । २२) इति, तदपि न नैष्ठिकस्य भवितुमर्हति । किं कारणम् ? ‘आरूढो नैष्ठिकं धर्मं यस्तु प्रच्यवते पुनः । प्रायश्चित्तं न पश्यामि येन शुध्येत्स आत्महा’(अ॰पु॰ १६५-२३,२४) इति अप्रतिसमाधेयपतनस्मरणात् छिन्नशिरस इव प्रतिक्रियानुपपत्तेः । उपकुर्वाणस्य तु तादृक्पतनस्मरणाभावादुपपद्यते तत्प्रायश्चित्तम् ॥ ४१ ॥
उपपूर्वमपि त्वेके भावमशनवत्तदुक्तम् ॥ ४२ ॥
अपि तु एके आचार्या उपपातकमेवैतदिति मन्यन्ते । यत् नैष्ठिकस्य गुरुदारादिभ्योऽन्यत्र ब्रह्मचर्यं विशीर्येत, न तत् महापातकं भवति, गुरुतल्पादिषु महापातकेष्वपरिगणनात् । तस्मात् उपकुर्वाणवत् नैष्ठिकस्यापि प्रायश्चित्तस्य भावमिच्छन्ति, ब्रह्मचारित्वाविशेषात् अवकीर्णित्वाविशेषाच्च । अशनवत् — यथा ब्रह्मचारिणो मधुमांसाशने व्रतलोपः पुनः संस्कारश्च, एवमिति । ये हि प्रायश्चित्तस्याभावमिच्छन्ति, तेषां न मूलमुपलभ्यते । ये तु भावमिच्छन्ति, तेषां ‘ब्रह्मचार्यवकीर्णी’ इत्येतदविशेषश्रवणं मूलम् । तस्मात् भावो युक्ततरः । तदुक्तं प्रमाणलक्षणे — ‘समा विप्रतिपत्तिः स्यात्’ (जै. सू. १ । ३ । ८) ‘शास्त्रस्था वा तन्निमित्तत्वात्’ (जै. सू. १ । ३ । ९) इति । प्रायश्चित्ताभावस्मरणं तु एवं सति यत्नगौरवोत्पादनार्थमिति व्याख्यातव्यम् । एवं भिक्षुवैखानसयोरपि — ‘वानप्रस्थो दीक्षाभेदे कृच्छ्रं द्वादशरात्रं चरित्वा महाकक्षं वर्धयेत्’ ,‘भिक्षुर्वानप्रस्थवत्सोमवल्लिवर्जं स्वशास्त्रसंस्कारश्च’(व॰ध॰ २१-३५,३६) इत्येवमादि प्रायश्चित्तस्मरणम् अनुसर्तव्यम् ॥ ४२ ॥
बहिस्तूभयथापि स्मृतेराचाराच्च ॥ ४३ ॥
यदि ऊर्ध्वरेतसां स्वाश्रमेभ्यः प्रच्यवनं महापातकम् , यदि वा उपपातकम् , उभयथापि शिष्टैस्ते बहिष्कर्तव्याः — ‘आरूढो नैष्ठिकं धर्मं यस्तु प्रच्यवते पुनः । प्रायश्चित्तं न पश्यामि येन शुध्येत्स आत्महा’(अ॰पु॰ १६५-२३,२४) इति, ‘आरूढपतितं विप्रं मण्डलाच्च विनिःसृतम् । उद्बद्धं कृमिदष्टं च स्पृष्ट्वा चान्द्रायणं चरेत्’ इति च एवमादिनिन्दातिशयस्मृतिभ्यः । शिष्टाचाराच्च — न हि यज्ञाध्ययनविवाहादीनि तैः सह आचरन्ति शिष्टाः ॥ ४३ ॥
स्वामिनः फलश्रुतेरित्यात्रेयः ॥ ४४ ॥
आर्त्विज्यमित्यौडुलोमिस्तस्मै हि परिक्रीयते ॥ ४५ ॥
नैतदस्ति —
स्वामिकर्माण्युपासनानीति ।
ऋत्विक्कर्माण्येतानि स्युः —
इत्यौडुलोमिराचार्यो मन्यते ।
किं कारणम् ?
तस्मै हि साङ्गाय कर्मणे यजमानेन ऋत्विक् परिक्रीयते ।
तत्प्रयोगान्तःपातीनि च उद्गीथाद्युपासनानि अधिकृताधिकारत्वात् ।
तस्मात् गोदोहनादिनियमवदेव ऋत्विग्भिर्निर्वर्त्येरन् ।
तथा च ‘तꣳ ह बको दाल्भ्यो विदाञ्चकार । स ह नैमिशीयानामुद्गाता बभूव’ (छा. उ. १ । २ । १३) इत्युद्गातृकर्तृकतां विज्ञानस्य दर्शयति ।
यत्तूक्तं कर्त्राश्रयं फलं श्रूयत इति —
नैष दोषः,
परार्थत्वादृत्विजः अन्यत्र वचनात् फलसम्बन्धानुपपत्तेः ॥ ४५ ॥
सहकार्यन्तरविधिः पक्षेण तृतीयं तद्वतो विध्यादिवत् ॥ ४७ ॥
सहकार्यन्तरविधिरिति ।
विद्यासहकारिणो मौनस्य बाल्यपाण्डित्यवद्विधिरेव आश्रयितव्यः,
अपूर्वत्वात् ।
ननु पाण्डित्यशब्देनैव मौनस्यावगतत्वमुक्तम् —
नैष दोषः,
मुनिशब्दस्य ज्ञानातिशयार्थत्वात् ,
मननान्मुनिरिति च व्युत्पत्तिसम्भवात् ,
‘मुनीनामप्यहं व्यासः’ (भ. गी. १० । ३७) इति च प्रयोगदर्शनात् ।
ननु मुनिशब्द उत्तमाश्रमवचनोऽपि श्रूयते ‘
गार्हस्थ्यमाचार्यकुलं मौनं वानप्रस्थम्’
इत्यत्र —
न, ‘
वाल्मीकिर्मुनिपुङ्गवः’
इत्यादिषु व्यभिचारदर्शनात् ।
इतराश्रमसन्निधानात्तु पारिशेष्यात् तत्र उत्तमाश्रमोपादानम् ,
ज्ञानप्रधानत्वादुत्तमाश्रमस्य ।
तस्मात् बाल्यपाण्डित्यापेक्षया तृतीयमिदं मौनं ज्ञानातिशयरूपं विधीयते ।
यत्तु बाल्य एव विधेः पर्यवसानमिति,
तथापि अपूर्वत्वान्मुनित्वस्य विधेयत्वमाश्रीयते —
मुनिः स्यादिति ।
निर्वेदनीयत्वनिर्देशादपि मौनस्य बाल्यपाण्डित्यवद्विधेयत्वाश्रयणम् ।
तद्वतः विद्यावतः संन्यासिनः ।
कथं च विद्यावतः संन्यासिन इत्यवगम्यते ?
तदधिकारात् —
आत्मानं विदित्वा पुत्राद्येषणाभ्यो व्युत्थाय ‘
अथ भिक्षाचर्यं चरन्ति’
इति ।
ननु सति विद्यावत्त्वे प्राप्नोत्येव तत्रातिशयः,
किं मौनविधिना —
इत्यत आह —
पक्षेणेति ।
एतदुक्तं भवति —
यस्मिन्पक्षे भेददर्शनप्राबल्यात् न प्राप्नोति,
तस्मिन् एष विधिरिति ।
विध्यादिवत् —
यथा ‘
दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत’
इत्येवंजातीयके विध्यादौ सहकारित्वेन अग्न्यन्वाधानादिकम् अङ्गजातं विधीयते,
एवम् अविधिप्रधानेऽपि अस्मिन्विद्यावाक्ये मौनविधिरित्यर्थः ॥ ४७ ॥
कृत्स्नभावात्तु गृहिणोपसंहारः ॥ ४८ ॥
तुशब्दो विशेषणार्थः । कृत्स्नभावोऽस्य विशेष्यते । बहुलायासानि हि बहून्याश्रमकर्माणि यज्ञादीनि तं प्रति कर्तव्यतयोपदिष्टानि, आश्रमान्तरकर्माणि च यथासम्भवमहिंसेन्द्रियसंयमादीनि तस्य विद्यन्ते । तस्मात् गृहमेधिना उपसंहारो न विरुध्यते ॥ ४८ ॥
मौनवदितरेषामप्युपदेशात् ॥ ४९ ॥
यथा मौनं गार्हस्थ्यं च एतावाश्रमौ श्रुतिमन्तौ,
एवमितरावपि वानप्रस्थगुरुकुलवासौ ।
दर्शिता हि पुरस्ताच्छ्रुतिः —
‘तप एव द्वितीयो ब्रह्मचार्याचार्यकुलवासी तृतीयः’ (छा. उ. २ । २३ । १) इत्याद्या ।
तस्मात् चतुर्णामप्याश्रमाणाम् उपदेशाविशेषात् तुल्यवत् विकल्पसमुच्चयाभ्यां प्रतिपत्तिः ।
इतरेषामिति द्वयोराश्रमयोर्बहुवचनं वृत्तिभेदापेक्षया अनुष्ठातृभेदापेक्षया वा —
इति द्रष्टव्यम् ॥ ४९ ॥
अनाविष्कुर्वन्नन्वयात् ॥ ५० ॥
‘तस्माद्ब्राह्मणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेत्’ (बृ. उ. ३ । ५ । १) इति बाल्यमनुष्ठेयतया श्रूयते ।
तत्र बालस्य भावः कर्म वा बाल्यमिति तद्धिते सति,
बालभावस्य वयोविशेषस्य इच्छया सम्पादयितुमशक्यत्वात् ,
यथोपपादमूत्रपुरीषत्वादि बालचरितम् ,
अन्तर्गता वा भावविशुद्धिः अप्ररूढेन्द्रियत्वं दम्भदर्पादिरहितत्वं वा बाल्यं स्यादिति संशयः ।
किं तावत्प्राप्तम् ?
कामचारवादभक्षता यथोपपादमूत्रपुरीषत्वं च प्रसिद्धतरं लोके बाल्यमिति तद्ग्रहणं युक्तम् ।
ननु पतितत्वादिदोषप्राप्तेर्न युक्तं कामचारताद्याश्रयणम् —
न;
विद्यावतः संन्यासिनो वचनसामर्थ्यात् दोषनिवृत्तेः,
पशुहिंसादिष्विवेत्येवं प्राप्ते अभिधीयते —
न, वचनस्य गत्यन्तरसम्भवात् । अविरुद्धे हि अन्यस्मिन् बाल्यशब्दाभिलप्ये लभ्यमाने, न विध्यन्तरव्याघातकल्पना युक्ता । प्रधानोपकाराय च अङ्गं विधीयते । ज्ञानाभ्यासश्च प्रधानमिह यतीनामनुष्ठेयम् । न च सकलायां बालचर्यायामङ्गीक्रियमाणायां ज्ञानाभ्यासः सम्भाव्यते । तस्मात् आन्तरो भावविशेषो बालस्य अप्ररूढेन्द्रियत्वादिः इह बाल्यमाश्रीयते; तदाह — अनाविष्कुर्वन्निति । ज्ञानाध्ययनधार्मिकत्वादिभिः आत्मानमविख्यापयन् दम्भदर्पादिरहितो भवेत् — यथा बालः अप्ररूढेन्द्रियतया न परेषाम् आत्मानमाविष्कर्तुमीहते, तद्वत् । एवं हि अस्य वाक्यस्य प्रधानोपकार्यर्थानुगम उपपद्यते । तथा च उक्तं स्मृतिकारैः — ‘यं न सन्तं न चासन्तं नाश्रुतं न बहुश्रुतम् । न सुवृत्तं न दुर्वृत्तं वेद कश्चित्स ब्राह्मणः ॥ गूढधर्माश्रितो विद्वानज्ञातचरितं चरेत् । अन्धवज्जडवच्चापि मूकवच्च महीं चरेत्’(व॰स्मृ॰ ६-४०,४१), ‘अव्यक्तलिङ्गोऽव्यक्ताचारः’(व॰स्मृ॰ १०-१२) इति चैवमादि ॥ ५० ॥
ऐहिकमप्यप्रस्तुतप्रतिबन्धे तद्दर्शनात् ॥ ५१ ॥
‘सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत्’ (ब्र. सू. ३ । ४ । २६) इत्यत आरभ्य उच्चावचं विद्यासाधनमवधारितम्;
तत्फलं विद्या सिध्यन्ती किमिहैव जन्मनि सिध्यति,
उत कदाचित् अमुत्रापीति चिन्त्यते ।
किं तावत्प्राप्तम् ?
इहैवेति ।
किं कारणम् ?
श्रवणादिपूर्विका हि विद्या ।
न च कश्चित् अमुत्र मे विद्या जायतामित्यभिसन्धाय श्रवणादिषु प्रवर्तते ।
समान एव तु जन्मनि विद्याजन्म अभिसन्धाय एतेषु प्रवर्तमानो दृश्यते ।
यज्ञादीन्यपि श्रवणादिद्वारेणैव विद्यां जनयन्ति,
प्रमाणजन्यत्वाद्विद्यायाः ।
तस्मादैहिकमेव विद्याजन्मेत्येवं प्राप्ते वदामः —
एवं मुक्तिफलानियमस्तदवस्थावधृतेस्तदवस्थावधृतेः ॥ ५२ ॥
यथा मुमुक्षोर्विद्यासाधनावलम्बिनः साधनवीर्यविशेषाद्विद्यालक्षणे फले ऐहिकामुष्मिकफलत्वकृतो विशेषप्रतिनियमो दृष्टः,
एवं मुक्तिलक्षणेऽपि उत्कर्षापकर्षकृतः कश्चिद्विशेषप्रतिनियमः स्यात् —
इत्याशङ्क्य,
आह —
एवं मुक्तिफलानियम इति ।
न खलु मुक्तिफले कश्चित् एवंभूतो विशेषप्रतिनियम आशङ्कितव्यः ।
कुतः ?
तदवस्थावधृतेः —
मुक्त्यवस्था हि सर्ववेदान्तेष्वेकरूपैव अवधार्यते ।
ब्रह्मैव हि मुक्त्यवस्था ।
न च ब्रह्मणोऽनेकाकारयोगोऽस्ति,
एकलिङ्गत्वावधारणात् —
‘अस्थूलमनणु’ (बृ. उ. ३ । ८ । ८) ‘स एष नेति नेत्यात्मा’ (बृ. उ. ३ । ९ । २६) ‘यत्र नान्यत्पश्यति’ (छा. उ. ७ । २४ । १) ‘ब्रह्मैवेदममृतं पुरस्तात्’ (मु. उ. २ । २ । १२) ‘इदꣳ सर्वं यदयमात्मा’ (बृ. उ. २ । ४ । ६),
‘स वा एष महानज आत्माऽजरोऽमरोऽमृतोऽभयो ब्रह्म’ (बृ. उ. ४ । ४ । २५),
‘यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्’ (बृ. उ. ४ । ५ । १५) इत्यादिश्रुतिभ्यः ।
अपि च विद्यासाधनं स्ववीर्यविशेषात् स्वफल एव विद्यायां कञ्चिदतिशयमासञ्जयेत् ,
न विद्याफले मुक्तौ ।
तद्धि असाध्यं नित्यसिद्धस्वभावमेव विद्यया अधिगम्यत इत्यसकृदवादिष्म ।
न च तस्यामप्युत्कर्षनिकर्षात्मकोऽतिशय उपपद्यते,
निकृष्टाया विद्यात्वाभावात् ।
उत्कृष्टैव हि विद्या भवति ।
तस्मात् तस्यां चिराचिरोत्पत्तिरूपोऽतिशयो भवन् भवेत् ।
न तु मुक्तौ कश्चित् अतिशयसम्भवोऽस्ति ।
विद्याभेदाभावादपि तत्फलभेदनियमाभावः,
कर्मफलवत् ।
न हि मुक्तिसाधनभूताया विद्यायाः कर्मणामिव भेदोऽस्ति ।
सगुणासु तु विद्यासु ‘मनोमयः प्राणशरीरः’ (छा. उ. ३ । १४ । २) इत्याद्यासु गुणावापोद्वापवशाद्भेदोपपत्तौ सत्याम् ,
उपपद्यते यथास्वं फलभेदनियमः,
कर्मफलवत् —
तथा च लिङ्गदर्शनम् — ‘
तं यथा यथोपासते तदेव भवति’
इति ।
नैवं निर्गुणायां विद्यायाम् ,
गुणाभावात् ।
तथा च स्मृतिः —
‘न हि गतिरधिकास्ति कस्यचित्सति हि गुणे प्रवदन्त्यतुल्यताम्’ (म. भा. १२ । १९४ । ६०) इति ।
तदवस्थावधृतेस्तदवस्थावधृतेरिति पदाभ्यासः अध्यायपरिसमाप्तिं द्योतयति ॥ ५२ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छङ्करभगवतः कृतौ शारीरकमीमांसासूत्रभाष्ये
तृतीयोऽध्यायः ॥