तृतीयेऽध्याये परापरासु विद्यासु साधनाश्रयो विचारः प्रायेण अत्यगात् । अथेह चतुर्थे फलाश्रय आगमिष्यति । प्रसङ्गागतं च अन्यदपि किञ्चिच्चिन्तयिष्यते । प्रथमं तावत् कतिभिश्चिदधिकरणैः साधनाश्रयविचारशेषमेवानुसरामः —
आवृत्तिरसकृदुपदेशात् ॥ १ ॥
‘आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः’ (बृ. उ. ४ । ५ । ६) ‘तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत’ (बृ. उ. ४ । ४ । २१) ‘सोऽन्वेष्टव्यः स विजिज्ञासितव्यः’ (छा. उ. ८ । ७ । १) इति च एवमादिश्रवणेषु संशयः —
किं सकृत्प्रत्ययः कर्तव्यः,
आहोस्वित् आवृत्त्येति ।
किं तावत्प्राप्तम् ?
सकृत्प्रत्ययः स्यात् ,
प्रयाजादिवत् ,
तावता शास्त्रस्य कृतार्थत्वात् ।
अश्रूयमाणायां हि आवृत्तौ क्रियमाणायाम् अशास्त्रार्थः कृतो भवेत् ।
ननु असकृदुपदेशा उदाहृताः — ‘
श्रोतव्यो मन्तव्यो निदिध्यासितव्यः’
इत्येवमादयः।
एवमपि यावच्छब्दमावर्तयेत् —
सकृच्छ्रवणं सकृन्मननं सकृन्निदिध्यासनं चेति,
नातिरिक्तम् ।
सकृदुपदेशेषु तु ‘
वेद’ ‘
उपासीत’
इत्येवमादिषु अनावृत्तिरित्येवं प्राप्ते,
ब्रूमः —
प्रत्ययावृत्तिः कर्तव्या ।
कुतः ?
असकृदुपदेशात् — ‘
श्रोतव्यो मन्तव्यो निदिध्यासितव्यः’
इत्येवंजातीयको हि असकृदुपदेशः प्रत्ययावृत्तिं सूचयति ।
ननु उक्तम् —
यावच्छब्दमेव आवर्तयेत् ,
नाधिकमिति —
न,
दर्शनपर्यवसानत्वादेषाम् ।
दर्शनपर्यवसानानि हि श्रवणादीन्यावर्त्यमानानि दृष्टार्थानि भवन्ति —
यथा अवघातादीनि तण्डुलादिनिष्पत्तिपर्यवसानानि,
तद्वत् ।
अपि च उपासनं निदिध्यासनं च इत्यन्तर्णीतावृत्तिगुणैव क्रिया अभिधीयते ।
तथा हि लोके ‘
गुरुमुपास्ते’ ‘
राजानमुपास्ते’
इति च यस्तात्पर्येण गुर्वादीननुवर्तते,
स एवमुच्यते ।
तथा ‘
ध्यायति प्रोषितनाथा पतिम्’
इति —
या निरन्तरस्मरणा पतिं प्रति सोत्कण्ठा,
सा एवमभिधीयते ।
विद्युपास्त्योश्च वेदान्तेषु अव्यतिरेकेण प्रयोगो दृश्यते;
क्वचित् विदिनोपक्रम्य उपासिनोपसंहरति,
यथा —
‘यस्तद्वेद यत्स वेद स मयैतदुक्तः’ (छा. उ. ४ । १ । ४) इत्यत्र ‘अनु म एतां भगवो देवतां शाधि यां देवतामुपास्से’ (छा. उ. ४ । २ । २) इति ।
क्वचिच्च उपासिनोपक्रम्य विदिनोपसंहरति,
यथा —
‘मनो ब्रह्मेत्युपासीत’ (छा. उ. ३ । १८ । १) इत्यत्र ‘भाति च तपति च कीर्त्या यशसा ब्रह्मवर्चसेन य एवं वेद’ (छा. उ. ३ । १८ । ३) इति ।
तस्मात्सकृदुपदेशेष्वपि आवृत्तिसिद्धिः ।
असकृदुपदेशस्तु आवृत्तेः सूचकः ॥ १ ॥
लिङ्गाच्च ॥ २ ॥
अत्राह — भवतु नाम साध्यफलेषु प्रत्ययेष्वावृत्तिः, तेष्वावृत्तिसाध्यस्यातिशयस्य सम्भवात् । यस्तु परब्रह्मविषयः प्रत्ययो नित्यशुद्धबुद्धमुक्तस्वभावमेव आत्मभूतं परं ब्रह्म समर्पयति, तत्र किमर्था आवृत्तिरिति । सकृच्छ्रुतौ ब्रह्मात्मत्वप्रतीत्यनुपपत्तेरावृत्त्यभ्युपगम इति चेत् , न, आवृत्तावपि तदनुपपत्तेः । यदि हि ‘तत्त्वमसि’ इत्येवंजातीयकं वाक्यं सकृच्छ्रूयमाणं ब्रह्मात्मत्वप्रतीतिं नोत्पादयेत् ततस्तदेव आवर्त्यमानमुत्पादयिष्यतीति का प्रत्याशा स्यात् । अथोच्येत — न केवलं वाक्यं कञ्चिदर्थं साक्षात्कर्तुं शक्नोति; अतो युक्त्यपेक्षं वाक्यमनुभावयिष्यति ब्रह्मात्मत्वमिति — तथाप्यावृत्त्यानर्थक्यमेव । सापि हि युक्तिः सकृत्प्रवृत्तैव स्वमर्थमनुभावयिष्यति । अथापि स्यात् — युक्त्या वाक्येन च सामान्यविषयमेव विज्ञानं क्रियते, न विशेषविषयम्; यथा ‘अस्ति मे हृदये शूलम्’ इत्यतो वाक्यात् गात्रकम्पादिलिङ्गाच्च शूलसद्भावसामान्यमेव परः प्रतिपद्यते, न विशेषमनुभवति — यथा स एव शूली । विशेषानुभवश्च अविद्याया निवर्तकः; तदर्था आवृत्तिरिति चेत् — न । असकृदपि तावन्मात्रे क्रियमाणे विशेषविज्ञानोत्पत्त्यसम्भवात् । न हि सकृत्प्रयुक्ताभ्यां शास्त्रयुक्तिभ्यामनवगतो विशेषः शतकृत्वोऽपि प्रयुज्यमानाभ्यामवगन्तुं शक्यते । तस्मात् यदि शास्त्रयुक्तिभ्यां विशेषः प्रतिपाद्येत, यदि वा सामान्यमेव उभयथापि सकृत्प्रवृत्ते एव ते स्वकार्यं कुरुत इति आवृत्त्यनुपयोगः । न च सकृत्प्रयुक्ते शास्त्रयुक्ती कस्यचिदप्यनुभवं नोत्पादयत इति शक्यते नियन्तुम् , विचित्रप्रज्ञत्वात्प्रतिपत्तॄणाम् । अपि च अनेकांशोपेते लौकिके पदार्थे सामान्यविशेषवति एकेनावधानेन एकमंशमवधारयति, अपरेण अपरम् — इति स्यादप्यभ्यासोपयोगः, यथा दीर्घप्रपाठकग्रहणादिषु । न तु निर्विशेषे ब्रह्मणि सामान्यविशेषरहिते चैतन्यमात्रात्मके प्रमोत्पत्तावभ्यासापेक्षा युक्तेति ॥
अत्रोच्यते —
भवेदावृत्त्यानर्थक्यं तं प्रति,
यः ‘तत्त्वमसि’ (छा. उ. ६ । ८ । ७) इति सकृदुक्तमेव ब्रह्मात्मत्वमनुभवितुं शक्नुयात् ।
यस्तु न शक्नोति,
तं प्रति उपयुज्यत एव आवृत्तिः ।
तथा हि छान्दोग्ये —
‘तत्त्वमसि श्वेतकेतो’ (छा. उ. ६ । ८ । ७) इत्युपदिश्य,
‘भूय एव मा भगवान्विज्ञापयतु’ (छा. उ. ६ । ८ । ७) इति पुनः पुनः परिचोद्यमानः तत्तदाशङ्काकारणं निराकृत्य, ‘
तत्त्वमसि’
इत्येवासकृदुपदिशति;
तथा च ‘श्रोतव्यो मन्तव्यो निदिध्यासितव्यः’ (बृ. उ. ४ । ५ । ६) इत्यादि दर्शितम् ।
ननु उक्तम् —
सकृच्छ्रुतं चेत् तत्त्वमसिवाक्यं स्वमर्थमनुभावयितुं न शक्नोति,
तत आवर्त्यमानमपि नैव शक्ष्यतीति —
नैष दोषः ।
न हि दृष्टेऽनुपपन्नं नाम ।
दृश्यन्ते हि सकृच्छ्रुताद्वाक्यात् मन्दप्रतीतं वाक्यार्थं आवर्तयन्तः तत्तदाभासव्युदासेन सम्यक्प्रतिपद्यमानाः ।
अपि च ‘
तत्त्वमसि’
इत्येतद्वाक्यं त्वंपदार्थस्य तत्पदार्थभावमाचष्टे ।
तत्पदेन च प्रकृतं सत् ब्रह्म ईक्षितृ जगतो जन्मादिकारणमभिधीयते —
‘सत्यं ज्ञानमनन्तं ब्रह्म’ (तै. उ. २ । १ । १) ‘विज्ञानमानन्दं ब्रह्म’ (बृ. उ. ३ । ९ । २८) ‘अदृष्टं द्रष्टृ’ (बृ. उ. ३ । ८ । ११) ‘अविज्ञातं विज्ञातृ’ (बृ. उ. ३ । ८ । ११) ‘
अजमजरममरम्’ ‘
अस्थूलमनण्वह्रस्वमदीर्घम्’
इत्यादिशास्त्रप्रसिद्धम् ।
तत्र अजादिशब्दैर्जन्मादयो भावविकारा निवर्तिताः;
अस्थूलादिशब्दैश्च स्थौल्यादयो द्रव्यधर्माः;
विज्ञानादिशब्दैश्च चैतन्यप्रकाशात्मकत्वमुक्तम् ।
एष व्यावृत्तसर्वसंसारधर्मकोऽनुभवात्मको ब्रह्मसंज्ञकस्तत्पदार्थो वेदान्ताभियुक्तानां प्रसिद्धः ।
तथा त्वंपदार्थोऽपि प्रत्यगात्मा श्रोता देहादारभ्य प्रत्यगात्मतया सम्भाव्यमानः चैतन्यपर्यन्तत्वेनावधारितः ।
तत्र येषाम् एतौ पदार्थौ अज्ञानसंशयविपर्ययप्रतिबद्धौ,
तेषां ‘
तत्त्वमसि’
इत्येतद्वाक्यं स्वार्थे प्रमां नोत्पादयितुं शक्नोति,
पदार्थज्ञानपूर्वकत्वाद्वाक्यार्थज्ञानस्य —
इत्यतः,
तान्प्रति एष्टव्यः पदार्थविवेकप्रयोजनः शास्त्रयुक्त्यभ्यासः ।
यद्यपि च प्रतिपत्तव्य आत्मा निरंशः,
तथापि अध्यारोपितं तस्मिन् बह्वंशत्वं देहेन्द्रियमनोबुद्धिविषयवेदनादिलक्षणम् ।
तत्र एकेन अवधानेन एकमंशमपोहति,
अपरेण अपरम् —
इति युज्यते तत्र क्रमवती प्रतिपत्तिः ।
तत्तु पूर्वरूपमेव आत्मप्रतिपत्तेः ।
येषां पुनः निपुणमतीनां न अज्ञानसंशयविपर्ययलक्षणः पदार्थविषयः प्रतिबन्धोऽस्ति,
ते शक्नुवन्ति सकृदुक्तमेव तत्त्वमसिवाक्यार्थम् अनुभवितुमिति,
तान्प्रति आवृत्त्यानर्थक्यमिष्टमेव ।
सकृदुत्पन्नैव हि आत्मप्रतिपत्तिः अविद्यां निवर्तयतीति,
नात्र कश्चिदपि क्रमोऽभ्युपगम्यते ।
सत्यमेवं युज्येत,
यदि कस्यचित् एवं प्रतिपत्तिर्भवेत् ।
बलवती हि आत्मनो दुःखित्वादिप्रतिपत्तिः ।
अतो न दुःखित्वाद्यभावं कश्चित्प्रतिपद्यत इति चेत् —
न,
देहाद्यभिमानवत् दुःखित्वाद्यभिमानस्य मिथ्याभिमानत्वोपपत्तेः ।
प्रत्यक्षं हि देहे छिद्यमाने दह्यमाने वा ‘
अहं छिद्ये दह्ये’
इति च मिथ्याभिमानो दृष्टः ।
तथा बाह्यतरेष्वपि पुत्रमित्रादिषु सन्तप्यमानेषु ‘
अहमेव सन्तप्ये’
इत्यध्यारोपो दृष्टः ।
तथा दुःखित्वाद्यभिमानोऽपि स्यात् ,
देहादिवदेव चैतन्याद्बहिरुपलभ्यमानत्वाद्दुःखित्वादीनाम् ,
सुषुप्तादिषु च अननुवृत्तेः ।
चैतन्यस्य तु सुषुप्तेऽपि अनुवृत्तिमामनन्ति —
‘यद्वै तन्न पश्यति पश्यन्वै तन्न पश्यति’ (बृ. उ. ४ । ३ । २३) इत्यादिना ।
तस्मात् सर्वदुःखविनिर्मुक्तैकचैतन्यात्मकोऽहमित्येष आत्मानुभवः ।
न च एवम् आत्मानमनुभवतः किञ्चिदन्यत्कृत्यमवशिष्यते ।
तथा च श्रुतिः —
‘किं प्रजया करिष्यामो येषां नोऽयमात्मायं लोकः’ (बृ. उ. ४ । ४ । २२) इत्यात्मविदः कर्तव्याभावं दर्शयति ।
स्मृतिरपि —
‘यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः । आत्मन्येव च सन्तुष्टस्तस्य कार्यं न विद्यते’ (भ. गी. ३ । १७) इति ।
यस्य तु न एषोऽनुभवो द्रागिव जायते,
तं प्रति अनुभवार्थ एव आवृत्त्यभ्युपगमः ।
तत्रापि न तत्त्वमसिवाक्यार्थात् प्रच्याव्य आवृत्तौ प्रवर्तयेत् ।
न हि वरघाताय कन्यामुद्वाहयन्ति ।
नियुक्तस्य च ‘
अस्मिन्नधिकृतोऽहं कर्ता मयेदं कर्तव्यम्’
इत्यवश्यं ब्रह्मप्रत्ययाद्विपरीतप्रत्यय उत्पद्यते ।
यस्तु स्वयमेव मन्दमतिः अप्रतिभानात् तं वाक्यार्थं जिहासेत् ,
तस्य एतस्मिन्नेव वाक्यार्थे स्थिरीकार आवृत्त्यादिवाचोयुक्त्या अभ्युपेयते ।
तस्मात् परब्रह्मविषयेऽपि प्रत्यये तदुपायोपदेशेष्वावृत्तिसिद्धिः ॥ २ ॥
आत्मेति तूपगच्छन्ति ग्राहयन्ति च ॥ ३ ॥
यः शास्त्रोक्तविशेषणः परमात्मा, स किम् अहमिति ग्रहीतव्यः, किं वा मदन्य इति — एतद्विचारयति । कथं पुनरात्मशब्दे प्रत्यगात्मविषये श्रूयमाणे संशय इति, उच्यते — अयमात्मशब्दो मुख्यः शक्यतेऽभ्युपगन्तुम् , सति जीवेश्वरयोरभेदसम्भवे । इतरथा तु गौणोऽयमभ्युपगन्तव्यः — इति मन्यते । किं तावत्प्राप्तम् ? न अहमिति ग्राह्यः । न हि अपहतपाप्मत्वादिगुणो विपरीतगुणत्वेन शक्यते ग्रहीतुम् , विपरीतगुणो वा अपहतपाप्मत्वादिगुणत्वेन । अपहतपाप्मत्वादिगुणश्च परमेश्वरः, तद्विपरीतगुणस्तु शारीरः । ईश्वरस्य च संसार्यात्मत्वे ईश्वराभावप्रसङ्गः । ततः शास्त्रानर्थक्यम् । संसारिणोऽपि ईश्वरात्मत्वे अधिकार्यभावाच्छास्त्रानर्थक्यमेव, प्रत्यक्षादिविरोधश्च । अन्यत्वेऽपि तादात्म्यदर्शनं शास्त्रात् कर्तव्यम् — प्रतिमादिष्विव विष्ण्वादिदर्शनम् इति चेत् — काममेवं भवतु । न तु संसारिणो मुख्य आत्मा ईश्वर इत्येतत् नः प्रापयितव्यम् ॥
एवं प्राप्ते,
ब्रूमः —
आत्मेत्येव परमेश्वरः प्रतिपत्तव्यः ।
तथा हि परमेश्वरप्रक्रियायां जाबाला आत्मत्वेनैव एतमुपगच्छन्ति — ‘
त्वं वा अहमस्मि भगवो देवतेऽहं वै त्वमसि भगवो देवते’
इति;
तथा अन्येऽपि ‘
अहं ब्रह्मास्मि’
इत्येवमादय आत्मत्वोपगमा द्रष्टव्याः ।
ग्राहयन्ति च आत्मत्वेनैव ईश्वरं वेदान्तवाक्यानि —
‘एष त आत्मा सर्वान्तरः’ (बृ. उ. ३ । ४ । १) ‘एष त आत्मान्तर्याम्यमृतः’ (बृ. उ. ३ । ७ । ३) ‘तत्सत्यꣳ स आत्मा तत्त्वमसि’ (छा. उ. ६ । ८ । ७) इत्येवमादीनि ।
यदुक्तम् —
प्रतीकदर्शनमिदं विष्णुप्रतिमान्यायेन भविष्यतीति,
तदयुक्तम् ।
गौणत्वप्रसङ्गात् ,
वाक्यवैरूप्याच्च।
यत्र हि प्रतीकदृष्टिरभिप्रेयते,
सकृदेव तत्र वचनं भवति —
यथा ‘मनो ब्रह्म’ (छा. उ. ३ । १८ । १) ‘आदित्यो ब्रह्म’ (छा. उ. ३ । १९ । १) इत्यादि ।
इह पुनः —
त्वम् अहमस्मि,
अहं च त्वमसीत्याह ।
अतः प्रतीकश्रुतिवैरूप्यात् अभेदप्रतिपत्तिः ।
भेददृष्ट्यपवादाच्च;
तथा हि —
‘अथ योऽन्यां देवतामुपास्तेऽन्योऽसावन्योऽहमस्मीति न स वेद’ (बृ. उ. १ । ४ । १०) ‘मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति’ (बृ. उ. ४ । ४ । १९) ‘सर्वं तं परादाद्योऽन्यत्रात्मनः सर्वं वेद’ (बृ. उ. २ । ४ । ६) इत्येवमाद्या भूयसी श्रुतिः भेददर्शनमपवदति ।
यत्तूक्तम् —
न विरुद्धगुणयोरन्योन्यात्मत्वसम्भव इति,
नायं दोषः,
विरुद्धगुणताया मिथ्यात्वोपपत्तेः ।
यत्पुनरुक्तम् —
ईश्वराभावप्रसङ्ग इति,
तदसत् ,
शास्त्रप्रामाण्यात् अनभ्युपगमाच्च ।
न हि ईश्वरस्य संसार्यात्मत्वं प्रतिपाद्यत इत्यभ्युपगच्छामः —
किं तर्हि ?
संसारिणः संसारित्वापोहेन ईश्वरात्मत्वं प्रतिपिपादयिषितमिति ।
एवं च सति अद्वैतेश्वरस्य अपहतपाप्मत्वादिगुणता विपरीतगुणता तु इतरस्य मिथ्येति व्यवतिष्ठते ।
यदप्युक्तम् —
अधिकार्यभावः प्रत्यक्षादिविरोधश्चेति,
तदप्यसत् ,
प्राक्प्रबोधात् संसारित्वाभ्युपगमात् ,
तद्विषयत्वाच्च प्रत्यक्षादिव्यवहारस्य ।
‘यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्’ (बृ. उ. २ । ४ । १४) इत्यादिना हि प्रबोधे प्रत्यक्षाद्यभावं दर्शयति ।
प्रत्यक्षाद्यभावे श्रुतेरप्यभावप्रसङ्ग इति चेत् ,
न,
इष्टत्वात् ।
‘अत्र पिताऽपिता भवति’ (बृ. उ. ४ । ३ । २२) इत्युपक्रम्य,
‘वेदा अवेदाः’ (बृ. उ. ४ । ३ । २२) इति वचनात् इष्यत एव अस्माभिः श्रुतेरप्यभावः प्रबोधे ।
कस्य पुनरयम् अप्रबोध इति चेत् ,
यस्त्वं पृच्छसि तस्य ते,
इति वदामः ।
ननु अहमीश्वर एवोक्तः श्रुत्या —
यद्येवं प्रतिबुद्धोऽसि,
नास्ति कस्यचिदप्रबोधः ।
योऽपि दोषश्चोद्यते कैश्चित् —
अविद्यया किल आत्मनः सद्वितीयत्वात् अद्वैतानुपपत्तिरिति,
सोऽपि एतेन प्रत्युक्तः ।
तस्मात् आत्मेत्येव ईश्वरे मनो दधीत ॥ ३ ॥
न प्रतीके न हि सः ॥ ४ ॥
‘मनो ब्रह्मेत्युपासीतेत्यध्यात्ममथाधिदैवतमाकाशो ब्रह्मेति’ (छा. उ. ३ । १८ । १) तथा ‘आदित्यो ब्रह्मेत्यादेशः’ (छा. उ. ३ । १९ । १) ‘स यो नाम ब्रह्मेत्युपास्ते’ (छा. उ. ७ । १ । ५) इत्येवमादिषु प्रतीकोपासनेषु संशयः —
किं तेष्वपि आत्मग्रहः कर्तव्यः,
न वेति ।
किं तावत्प्राप्तम् ?
तेष्वपि आत्मग्रह एव युक्तः कर्तुम् ।
कस्मात् ?
ब्रह्मणः श्रुतिषु आत्मत्वेन प्रसिद्धत्वात् ,
प्रतीकानामपि ब्रह्मविकारत्वाद्ब्रह्मत्वे सति आत्मत्वोपपत्तेरित्येवं प्राप्ते ब्रूमः —
न प्रतीकेष्वात्ममतिं बध्नीयात् ।
न हि स उपासकः प्रतीकानि व्यस्तानि आत्मत्वेन आकलयेत् ।
यत्पुनः ब्रह्मविकारत्वात्प्रतीकानां ब्रह्मत्वं ततश्च आत्मत्वमिति,
तदसत् ,
प्रतीकाभावप्रसङ्गात् ।
विकारस्वरूपोपमर्देन हि नामादिजातस्य ब्रह्मत्वमेव आश्रितं भवति ।
स्वरूपोपमर्दे च नामादीनां कुतः प्रतीकत्वम् आत्मग्रहो वा ?
न च ब्रह्मण आत्मत्वात् ब्रह्मदृष्ट्युपदेशेष्वात्मदृष्टिः कल्प्या,
कर्तृत्वाद्यनिराकरणात् ।
कर्तृत्वादिसर्वसंसारधर्मनिराकरणेन हि ब्रह्मण आत्मत्वोपदेशः ।
तदनिराकरणेन च उपासनविधानम् ।
अतश्च उपासकस्य प्रतीकैः समत्वात् आत्मग्रहो नोपपद्यते ।
न हि रुचकस्वस्तिकयोः इतरेतरात्मत्वमस्ति ।
सुवर्णात्मनेव तु ब्रह्मात्मना एकत्वे प्रतीकाभावप्रसङ्गमवोचाम ।
अतो न प्रतीकेष्वात्मदृष्टिः क्रियते ॥ ४ ॥
ब्रह्मदृष्टिरुत्कर्षात् ॥ ५ ॥
तेष्वेव उदाहरणेष्वन्यः संशयः — किमादित्यादिदृष्टयो ब्रह्मण्यध्यसितव्याः, किं वा ब्रह्मदृष्टिरादित्यादिष्विति । कुतः संशयः ? सामानाधिकरण्ये कारणानवधारणात् । अत्र हि ब्रह्मशब्दस्य आदित्यादिशब्दैः सामानाधिकरण्यमुपलभ्यते, ‘आदित्यो ब्रह्म’ ‘प्राणो ब्रह्म’ ‘विद्युद्ब्रह्म’ इत्यादिसमानविभक्तिनिर्देशात् । न च अत्र आञ्जसं सामानाधिकरण्यमवकल्पते, अर्थान्तरवचनत्वाद्ब्रह्मादित्यादिशब्दानाम् । न हि भवति — गौरश्व इति सामानाधिकरण्यम् । ननु प्रकृतिविकारभावाद्ब्रह्मादित्यादीनां मृच्छरावादिवत्सामानाधिकरण्यं स्यात् — नेत्युच्यते; विकारप्रविलयो ह्येवं प्रकृतिसामानाधिकरण्यात्स्यात् , ततश्च प्रतीकाभावप्रसङ्गमवोचाम । परमात्मवाक्यं चेदं तदानीं स्यात् , ततश्चोपासनाधिकारो बाध्येत, परिमितविकारोपादानं च व्यर्थम् । तस्मात् ‘ब्राह्मणोऽग्निर्वैश्वानरः’ इत्यादिवत् अन्यत्रान्यदृष्ट्यध्यासे सति, क्व किंदृष्टिरध्यस्यतामिति संशयः । तत्र अनियमः, नियमकारिणः शास्त्रस्याभावादित्येवं प्राप्तम् । अथवा आदित्यादिदृष्टय एव ब्रह्मणि कर्तव्या इत्येवं प्राप्तम् । एवं हि आदित्यादिदृष्टिभिः ब्रह्म उपासितं भवति । ब्रह्मोपासनं च फलवदिति शास्त्रमर्यादा । तस्मात् न ब्रह्मदृष्टिरादित्यादिष्वित्येवं प्राप्ते ब्रूमः —
ब्रह्मदृष्टिरेव आदित्यादिषु स्यादिति ।
कस्मात् ?
उत्कर्षात् ।
एवम् उत्कर्षेण आदित्यादयो दृष्टा भवन्ति,
उत्कृष्टदृष्टेस्तेष्वध्यासात् ।
तथा च लौकिको न्यायोऽनुगतो भवति ।
उत्कृष्टदृष्टिर्हि निकृष्टेऽध्यसितव्येति लौकिको न्यायः —
यथा राजदृष्टिः क्षत्तरि ।
स च अनुसर्तव्यः विपर्यये प्रत्यवायप्रसङ्गात् ।
न हि क्षत्तृदृष्टिपरिगृहीतो राजा निकर्षं नीयमानः श्रेयसे स्यात् ।
ननु शास्त्रप्रामाण्यादनाशङ्कनीयोऽत्र प्रत्यवायप्रसङ्गः,
न च लौकिकेन न्यायेन शास्त्रीया दृष्टिर्नियन्तुं युक्तेति ;
अत्रोच्यते —
निर्धारिते शास्त्रार्थे एतदेवं स्यात् ।
सन्दिग्धे तु तस्मिन् तन्निर्णयं प्रति लौकिकोऽपि न्याय आश्रीयमाणो न विरुध्यते ।
तेन च उत्कृष्टदृष्ट्यध्यासे शास्त्रार्थेऽवधार्यमाणे,
निकृष्टदृष्टिमध्यस्यन्प्रत्यवेयादिति श्लिष्यते ।
प्राथम्याच्च आदित्यादिशब्दानां मुख्यार्थत्वम् अविरोधात् ग्रहीतव्यम् ।
तैः स्वार्थवृत्तिभिरवरुद्धायां बुद्धौ,
पश्चादवतरतो ब्रह्मशब्दस्य मुख्यया वृत्त्या सामानाधिकरण्यासम्भवात् ,
ब्रह्मदृष्टिविधानार्थतैव अवतिष्ठते ।
इतिपरत्वादपि ब्रह्मशब्दस्य एष एवार्थो न्याय्यः ।
तथा हि — ‘
ब्रह्मेत्यादेशः’ ‘
ब्रह्मेत्युपासीत’ ‘
ब्रह्मेत्युपास्ते’
इति च सर्वत्रेतिपरं ब्रह्मशब्दमुच्चारयति,
शुद्धांस्तु आदित्यादिशब्दान् ।
ततश्च यथा शुक्तिकां रजतमिति प्रत्येतीत्यत्र,
शुक्तिवचन एव शुक्तिकाशब्दः,
रजतशब्दस्तु रजतप्रतीतिलक्षणार्थः —
प्रत्येत्येव हि केवलं रजतमिति,
न तु तत्र रजतमस्ति —
एवमत्रापि आदित्यादीन्ब्रह्मेति प्रतीयादिति गम्यते ।
वाक्यशेषोऽपि च द्वितीयानिर्देशेन आदित्यादीनेव उपास्तिक्रियया व्याप्यमानान्दर्शयति —
‘स य एतमेवं विद्वानादित्यं ब्रह्मेत्युपास्ते’ (छा. उ. ३ । १९ । ४) ‘यो वाचं ब्रह्मेत्युपास्ते’ (छा. उ. ७ । २ । २) ‘यः सङ्कल्पं ब्रह्मेत्युपास्ते’ (छा. उ. ७ । ४ । ३) इति च ।
यत्तूक्तम् —
ब्रह्मोपासनमेवात्र आदरणीयं फलवत्त्वायेति,
तदयुक्तम् ,
उक्तेन न्यायेन आदित्यादीनामेव उपास्यत्वावगमात् ।
फलं तु अतिथ्याद्युपासन इव आदित्याद्युपासनेऽपि ब्रह्मैव दास्यति,
सर्वाध्यक्षत्वात् ।
वर्णितं चैतत् ‘फलमत उपपत्तेः’ (ब्र. सू. ३ । २ । ३८) इत्यत्र ।
ईदृशं च अत्र ब्रह्मण उपास्यत्वम् ,
यत्प्रतीकेषु तद्दृष्ट्यध्यारोपणम् —
प्रतिमादिष्विव विष्ण्वादीनाम् ॥ ५ ॥
आदित्यादिमतयश्चाङ्ग उपपत्तेः ॥ ६ ॥
आदित्यादिमतय एव अङ्गेषु उद्गीथादिषु क्षिप्येरन् ।
कुतः ?
उपपत्तेः ।
उपपद्यते हि एवम् अपूर्वसन्निकर्षात् आदित्यादिमतिभिः संस्क्रियमाणेषु उद्गीथादिषु कर्मसमृद्धिः ।
‘यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति’ (छा. उ. १ । १ । १०) इति च विद्यायाः कर्मसमृद्धिहेतुत्वं दर्शयति ।
भवतु कर्मसमृद्धिफलेष्वेवम्;
स्वतन्त्रफलेषु तु कथं ‘य एतदेवं विद्वाँल्लोकेषु पञ्चविधं सामोपास्ते’ (छा. उ. २ । २ । ३) इत्यादिषु ?
तेष्वपि अधिकृताधिकारात् प्रकृतापूर्वसन्निकर्षेणैव फलकल्पना युक्ता,
गोदोहनादिनियमवत् ।
फलात्मकत्वाच्च आदित्यादीनाम् उद्गीथादिभ्यः कर्मात्मकेभ्यः उत्कर्षोपपत्तिः ।
आदित्यादिप्राप्तिलक्षणं हि कर्मफलं शिष्यते श्रुतिषु ।
अपि च ‘ओमित्येतदक्षरमुद्गीथमुपासीत’ (छा. उ. १ । १ । १) ‘खल्वेतस्यैवाक्षरस्योपव्याख्यानं भवति’ (छा. उ. १ । १ । १०) इति च उद्गीथमेव उपास्यत्वेनोपक्रम्य,
आदित्यादिमतीर्विदधाति ।
यत्तूक्तम् —
उद्गीथादिमतिभिरुपास्यमाना आदित्यादयः कर्मभूयं भूत्वा फलं करिष्यन्तीति,
तदयुक्तम् ;
स्वयमेवोपासनस्य कर्मत्वात् फलवत्त्वोपपत्तेः ।
आदित्यादिभावेनापि च दृश्यमानानामुद्गीथादीनां कर्मात्मकत्वानपायात् ।
‘तदेतदेतस्यामृच्यध्यूढꣳ साम’ (छा. उ. १ । ६ । १) इति तु लाक्षणिक एव पृथिव्यग्न्योः ऋक्सामशब्दप्रयोगः ।
लक्षणा च यथासम्भवं सन्निकृष्टेन विप्रकृष्टेन वा स्वार्थसम्बन्धेन प्रवर्तते ।
तत्र यद्यपि ऋक्सामयोः पृथिव्यग्निदृष्टिचिकीर्षा,
तथापि प्रसिद्धयोः ऋक्सामयोर्भेदेनानुकीर्तनात् ,
पृथिव्यग्न्योश्च सन्निधानात् ,
तयोरेव एष ऋक्सामशब्दप्रयोगः ऋक्सामसम्बन्धादिति निश्चीयते ।
क्षत्तृशब्दोऽपि हि कुतश्चित्कारणाद्राजानमुपसर्पन् न निवारयितुं पार्यते ।
‘इयमेवर्क्’ (छा. उ. १ । ६ । १) इति च यथाक्षरन्यासम् ऋच एव पृथिवीत्वमवधारयति ।
पृथिव्या हि ऋक्त्वेऽवधार्यमाणे —
इयमृगेवेत्यक्षरन्यासः स्यात् ।
‘य एवं विद्वान्साम गायति’ (छा. उ. १ । ७ । ९) इति च अङ्गाश्रयमेव विज्ञानमुपसंहरति,
न पृथिव्याद्याश्रयम् ।
तथा ‘लोकेषु पञ्चविधꣳ सामोपासीत’ (छा. उ. २ । २ । १) इति यद्यपि सप्तमीनिर्दिष्टा लोकाः,
तथापि साम्न्येव ते अध्यस्येरन् ,
द्वितीयानिर्देशेन साम्न उपास्यत्वावगमात् ।
सामनि हि लोकेष्वध्यस्यमानेषु साम लोकात्मनोपासितं भवति,
अन्यथा पुनः लोकाः सामात्मना उपासिताः स्युः ।
एतेन ‘एतद्गायत्रं प्राणेषु प्रोतम्’ (छा. उ. २ । ११ । १) इत्यादि व्याख्यातम् ।
यत्रापि तुल्यो द्वितीयानिर्देशः ‘अथ खल्वमुमादित्यꣳ सप्तविधꣳ सामोपासीत’ (छा. उ. २ । ९ । १) इति,
तत्रापि —
‘समस्तस्य खलु साम्न उपासनꣳ साधु’ (छा. उ. २ । १ । १) ‘इति तु पञ्चविधस्य’ (छा. उ. २ । ७ । २) ‘अथ सप्तविधस्य’ (छा. उ. २ । ८ । १) इति च साम्न एव उपास्यत्वोपक्रमात् तस्मिन्नेव आदित्याद्यध्यासः ।
एतस्मादेव च साम्न उपास्यत्वावगमात् ‘पृथिवी हिंकारः’ (छा. उ. २ । २ । १) इत्यादिनिर्देशविपर्ययेऽपि हिंकारादिष्वेव पृथिव्यादिदृष्टिः ।
तस्मात् अनङ्गाश्रया आदित्यादिमतयः अङ्गेषूद्गीथादिषु क्षिप्येरन्निति सिद्धम् ॥ ६ ॥
आसीनः सम्भवात् ॥ ७ ॥
कर्माङ्गसम्बद्धेषु तावत् उपासनेषु कर्मतन्त्रत्वात् न आसनादिचिन्ता । नापि सम्यग्दर्शने, वस्तुतन्त्रत्वाद्विज्ञानस्य । इतरेषु तु उपासनेषु किम् अनियमेन तिष्ठन् आसीनः शयानो वा प्रवर्तेत उत नियमेन आसीन एवेति चिन्तयति । तत्र मानसत्वादुपासनस्य अनियमः शरीरस्थितेरित्येवं प्राप्ते, ब्रवीति — आसीन एवोपासीतेति । कुतः ? सम्भवात् । उपासनं नाम समानप्रत्ययप्रवाहकरणम् । न च तत् गच्छतो धावतो वा सम्भवति, गत्यादीनां चित्तविक्षेपकरत्वात् । तिष्ठतोऽपि देहधारणे व्यापृतं मनो न सूक्ष्मवस्तुनिरीक्षणक्षमं भवति । शयानस्यापि अकस्मादेव निद्रया अभिभूयेत । आसीनस्य तु एवंजातीयको भूयान्दोषः सुपरिहर इति सम्भवति तस्योपासनम् ॥ ७ ॥
ध्यानाच्च ॥ ८ ॥
अपि च ध्यायत्यर्थ एषः, यत्समानप्रत्ययप्रवाहकरणम् । ध्यायतिश्च प्रशिथिलाङ्गचेष्टेषु प्रतिष्ठितदृष्टिषु एकविषयाक्षिप्तचित्तेषु उपचर्यमाणो दृश्यते — ध्यायति बकः, ध्यायति प्रोषितबन्धुरिति । आसीनश्च अनायासो भवति । तस्मादपि आसीनकर्मोपासनम् ॥ ८ ॥
यत्रैकाग्रता तत्राविशेषात् ॥ ११ ॥
दिग्देशकालेषु संशयः —
किमस्ति कश्चिन्नियमः,
नास्ति वेति ।
प्रायेण वैदिकेष्वारम्भेषु दिगादिनियमदर्शनात् ,
स्यादिहापि कश्चिन्नियम इति यस्य मतिः,
तं प्रत्याह —
दिग्देशकालेषु अर्थलक्षण एव नियमः ।
यत्रैव अस्य दिशि देशे काले वा मनसः सौकर्येणैकाग्रता भवति,
तत्रैवोपासीत,
प्राचीदिक्पूर्वाह्णप्राचीनप्रवणादिवत् विशेषाश्रवणात् ,
एकाग्रताया इष्टायाः सर्वत्राविशेषात् ।
ननु विशेषमपि केचिदामनन्ति —
‘समे शुचौ शर्करावह्निवालुकाविवर्जिते शब्दजलाश्रयादिभिः । मनोनुकूले न तु चक्षुपीडने गुहानिवाताश्रयणे प्रयोजयेत्’ (श्वे. उ. २ । १०) इति यथेति —
उच्यते ।
सत्यमस्ति एवंजातीयको नियमः ।
सति त्वेतस्मिन् ,
तद्गतेषु विशेषेष्वनियम इति सुहृद्भूत्वा आचार्य आचष्टे । ‘
मनोनुकूले’
इति चैषा श्रुतिः यत्रैकाग्रता तत्रैव —
इत्येतदेव दर्शयति ॥ ११ ॥
आ प्रायणात्तत्रापि हि दृष्टम् ॥ १२ ॥
आवृत्तिः सर्वोपासनेष्वादर्तव्येति स्थितमाद्येऽधिकरणे ।
तत्र यानि तावत् सम्यग्दर्शनार्थान्युपासनानि,
तानि अवघातादिवत् कार्यपर्यवसानानीति ज्ञातमेव एषामावृत्तिपरिमाणम् ।
न हि सम्यग्दर्शने कार्ये निष्पन्ने यत्नान्तरं किञ्चिच्छासितुं शक्यम् ,
अनियोज्यब्रह्मात्मत्वप्रतिपत्तेः शास्त्रस्याविषयत्वात् ।
यानि पुनः अभ्युदयफलानि,
तेष्वेषा चिन्ता —
किं कियन्तंचित्कालं प्रत्ययमावर्त्य उपरमेत् ,
उत यावज्जीवमावर्तयेदिति ।
किं तावत्प्राप्तम् ?
कियन्तंचित्कालं प्रत्ययमभ्यस्य उत्सृजेत् ,
आवृत्तिविशिष्टस्योपासनशब्दार्थस्य कृतत्वादित्येवं प्राप्ते,
ब्रूमः —
आ प्रायणादेव आवर्तयेत्प्रत्ययम् ,
अन्त्यप्रत्ययवशाददृष्टफलप्राप्तेः ।
कर्माण्यपि हि जन्मान्तरोपभोग्यं फलमारभमाणानि तदनुरूपं भावनाविज्ञानं प्रायणकाले आक्षिपन्ति — ‘
सविज्ञानो भवति सविज्ञानमेवान्ववक्रामति’ ‘
यच्चित्तस्तेनैष प्राणमायाति’ ‘
प्राणस्तेजसा युक्तः सहात्मना यथासङ्कल्पितं लोकं नयति’
इति चैवमादिश्रुतिभ्यः ।
तृणजलूकानिदर्शनाच्च ।
प्रत्ययास्त्वेते स्वरूपानुवृत्तिं मुक्त्वा किमन्यत् प्रायणकालभावि भावनाविज्ञानमपेक्षेरन् ।
तस्मात् ये प्रतिपत्तव्यफलभावनात्मकाः प्रत्ययाः,
तेषु आ प्रायणात् आवृत्तिः ।
तथा च श्रुतिः — ‘
स यावत्क्रतुरयमस्माल्लोकात्प्रैति’
इति प्रायणकालेऽपि प्रत्ययानुवृत्तिं दर्शयति ।
स्मृतिरपि —
‘यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेबरम् । तं तमेवैति कौन्तेय सदा तद्भावभावितः’ (भ. गी. ८ । ६) इति,
‘प्रयाणकाले मनसाचलेन’ (भ. गी. ८ । १०) इति च । ‘
सोऽन्तवेलायामेतत्त्रयं प्रतिपद्येत’
इति च मरणवेलायामपि कर्तव्यशेषं श्रावयति ॥ १२ ॥
तदधिगम उत्तरपूर्वाघयोरश्लेषविनाशौ तद्व्यपदेशात् ॥ १३ ॥
गतस्तृतीयशेषः । अथेदानीं ब्रह्मविद्याफलं प्रति चिन्ता प्रतायते । ब्रह्माधिगमे सति तद्विपरीतफलं दुरितं क्षीयते, न क्षीयते वेति संशयः । किं तावत्प्राप्तम् ? फलार्थत्वात्कर्मणः फलमदत्त्वा न सम्भाव्यते क्षयः । फलदायिनी हि अस्य शक्तिः श्रुत्या समधिगता । यदि तत् अन्तरेणैव फलोपभोगमपवृज्येत, श्रुतिः कदर्थिता स्यात् । स्मरन्ति च — ‘न हि कर्म क्षीयते’ (गौ. ध. सू. ३ । १ । ५) इति । नन्वेवं सति प्रायश्चित्तोपदेशोऽनर्थकः प्राप्नोति — नैष दोषः, प्रायश्चित्तानां नैमित्तिकत्वोपपत्तेः गृहदाहेष्ट्यादिवत् । अपि च प्रायश्चित्तानां दोषसंयोगेन विधानाद्भवेदपि दोषक्षपणार्थता । न त्वेवं ब्रह्मविद्यायां विधानमस्ति । नन्वनभ्युपगम्यमाने ब्रह्मविदः कर्मक्षये तत्फलस्यावश्यभोक्तव्यत्वादनिर्मोक्षः स्यात् — नेत्युच्यते; देशकालनिमित्तापेक्षो मोक्षः कर्मफलवत् भविष्यति । तस्मान्न ब्रह्माधिगमे दुरितनिवृत्तिरित्येवं प्राप्ते ब्रूमः —
तदधिगमे ब्रह्माधिगमे सति उत्तरपूर्वयोरघयोरश्लेषविनाशौ भवतः —
उत्तरस्य अश्लेषः,
पूर्वस्य विनाशः ।
कस्मात् ?
तद्व्यपदेशात् ।
तथा हि ब्रह्मविद्याप्रक्रियायां सम्भाव्यमानसम्बन्धस्य आगामिनो दुरितस्यानभिसम्बन्धं विदुषो व्यपदिशति —
‘यथा पुष्करपलाश आपो न श्लिष्यन्त एवमेवंविदि पापं कर्म न श्लिष्यते’ (छा. उ. ४ । १४ । ३) इति ।
तथा विनाशमपि पूर्वोपचितस्य दुरितस्य व्यपदिशति —
‘तद्यथेषीकातूलमग्नौ प्रोतं प्रदूयेतैवꣳ हास्य सर्वे पाप्मानः प्रदूयन्ते’ (छा. उ. ५ । २४ । ३) इति ।
अयमपरः कर्मक्षयव्यपदेशो भवति —
‘भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे’ (मु. उ. २ । २ । ९) इति ।
यदुक्तम् —
अनुपभुक्तफलस्य कर्मणः क्षयकल्पनायां शास्त्रं कदर्थितं स्यादिति,
नैष दोषः ।
न हि वयं कर्मणः फलदायिनीं शक्तिमवजानीमहे ।
विद्यत एव सा ।
सा तु विद्यादिना कारणान्तरेण प्रतिबध्यत इति वदामः ।
शक्तिसद्भावमात्रे च शास्त्रं व्याप्रियते,
न प्रतिबन्धाप्रतिबन्धयोरपि ।
‘न हि कर्म क्षीयते’ (गौ. ध. सू. ३ । १ । ५) इत्येतदपि स्मरणमौत्सर्गिकम् —
न हि भोगादृते कर्म क्षीयते तदर्थत्वादिति ।
इष्यत एव तु प्रायश्चित्तादिना तस्य क्षयः — ‘
सर्वं पाप्मानं तरति,
तरति ब्रह्महत्याम् ,
योऽश्वमेधेन यजते,
य उ चैनमेवं वेद’
इत्यादि श्रुतिस्मृतिभ्यः ।
यत्तूक्तम् —
नैमित्तिकानि प्रायश्चित्तानि भविष्यन्तीति,
तदसत् ,
दोषसंयोगेन चोद्यमानानामेषां दोषनिर्घातफलसम्भवे फलान्तरकल्पनानुपपत्तेः ।
यत्पुनरेतदुक्तम् —
न प्रायश्चित्तवत् दोषक्षयोद्देशेन विद्याविधानमस्तीति,
अत्र ब्रूमः —
सगुणासु तावद्विद्यासु विद्यत एव विधानम् ,
तासु च वाक्यशेषे ऐश्वर्यप्राप्तिः पापनिवृत्तिश्च विद्यावत उच्यते,
तयोश्चाविवक्षाकारणं नास्ति —
इत्यतः पाप्मप्रहाणपूर्वकैश्वर्यप्राप्तिः तासां फलमिति निश्चीयते ।
निर्गुणायां तु विद्यायां यद्यपि विधानं नास्ति,
तथापि अकर्त्रात्मत्वबोधात्कर्मप्रदाहसिद्धिः ।
अश्लेष इति च आगामिषु कर्मसु कर्तृत्वमेव न प्रतिपद्यते ब्रह्मविदिति दर्शयति ।
अतिक्रान्तेषु तु यद्यपि मिथ्याज्ञानात्कर्तृत्वं प्रतिपेद इव,
तथापि विद्यासामर्थ्यान्मिथ्याज्ञाननिवृत्तेः तान्यपि प्रविलीयन्त इत्याह —
विनाश इति ।
पूर्वसिद्धकर्तृत्वभोक्तृत्वविपरीतं हि त्रिष्वपि कालेष्वकर्तृत्वाभोक्तृत्वस्वरूपं ब्रह्माहमस्मि,
नेतः पूर्वमपि कर्ता भोक्ता वा अहमासम् ,
नेदानीम् ,
नापि भविष्यत्काले —
इति ब्रह्मविदवगच्छति ।
एवमेव च मोक्ष उपपद्यते ।
अन्यथा हि अनादिकालप्रवृत्तानां कर्मणां क्षयाभावे मोक्षाभावः स्यात् ।
न च देशकालनिमित्तापेक्षो मोक्षः कर्मफलवत् भवितुमर्हति;
अनित्यत्वप्रसङ्गात् ,
परोक्षत्वानुपपत्तेश्च ज्ञानफलस्य ।
तस्मात् ब्रह्माधिगमे दुरितक्षय इति स्थितम् ॥ १३ ॥
इतरस्याप्येवमसंश्लेषः पाते तु ॥ १४ ॥
पूर्वस्मिन्नधिकरणे बन्धहेतोरघस्य स्वाभाविकस्य अश्लेषविनाशौ ज्ञाननिमित्तौ शास्त्रव्यपदेशान्निरूपितौ ।
धर्मस्य पुनः शास्त्रीयत्वात् शास्त्रीयेण ज्ञानेन अविरोध इत्याशङ्क्य तन्निराकरणाय पूर्वाधिकरणन्यायातिदेशः क्रियते —
इतरस्यापि पुण्यस्य कर्मणः एवम् अघवत् असंश्लेषो विनाशश्च ज्ञानवतो भवतः ;
कुतः ?
तस्यापि स्वफलहेतुत्वेन ज्ञानफलप्रतिबन्धित्वप्रसङ्गात् ,
‘उभे उ हैवैष एते तरति’ (बृ. उ. ४ । ४ । २२) इत्यादिश्रुतिषु च दुष्कृतवत्सुकृतस्यापि प्रणाशव्यपदेशात् ,
अकर्त्रात्मत्वबोधनिमित्तस्य च कर्मक्षयस्य सुकृतदुष्कृतयोस्तुल्यत्वात् ,
‘क्षीयन्ते चास्य कर्माणि’ (मु. उ. २ । २ । ९) इति च अविशेषश्रुतेः ।
यत्रापि केवल एव पाप्मशब्दः पठ्यते,
तत्रापि तेनैव पुण्यमप्याकलितमिति द्रष्टव्यम् ,
ज्ञानापेक्षया निकृष्टफलत्वात् ।
अस्ति च श्रुतौ पुण्येऽपि पाप्मशब्दः —
‘नैनं सेतुमहोरात्रे तरतः’ (छा. उ. ८ । ४ । १) इत्यत्र सह दुष्कृतेन सुकृतमप्यनुक्रम्य, ‘
सर्वे पाप्मानोऽतो निवर्तन्ते’
इत्यविशेषेणैव प्रकृते पुण्ये पाप्मशब्दप्रयोगात् । ‘
पाते तु’
इति तुशब्दोऽवधारणार्थः ।
एवं धर्माधर्मयोर्बन्धहेत्वोः विद्यासामर्थ्यादश्लेषविनाशसिद्धेः अवश्यंभाविनी विदुषः शरीरपाते मुक्तिरित्यवधारयति ॥ १४ ॥
अनारब्धकार्ये एव तु पूर्वे तदवधेः ॥ १५ ॥
पूर्वयोरधिकरणयोर्ज्ञाननिमित्तः सुकृतदुष्कृतयोर्विनाशोऽवधारितः ।
स किमविशेषेण आरब्धकार्ययोरनारब्धकार्ययोश्च भवति,
उत विशेषेणानारब्धकार्ययोरेवेति विचार्यते ।
तत्र ‘उभे उ हैवैष एते तरति’ (बृ. उ. ४ । ४ । २२) इत्येवमादिश्रुतिष्वविशेषश्रवणादविशेषेणैव क्षय इत्येवं प्राप्ते,
प्रत्याह —
अनारब्धकार्ये एव त्विति ।
अप्रवृत्तफले एव पूर्वे जन्मान्तरसञ्चिते,
अस्मिन्नपि च जन्मनि प्राग्ज्ञानोत्पत्तेः सञ्चिते,
सुकृतदुष्कृते ज्ञानाधिगमात् क्षीयेते;
न तु आरब्धकार्ये सामिभुक्तफले,
याभ्यामेतत् ब्रह्मज्ञानायतनं जन्म निर्मितम् ।
कुत एतत् ?
‘तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ सम्पत्स्ये’ (छा. उ. ६ । १४ । २) इति शरीरपातावधिकरणात्क्षेमप्राप्तेः ।
इतरथा हि ज्ञानादशेषकर्मक्षये सति स्थितिहेत्वभावात् ज्ञानप्राप्त्यनन्तरमेव क्षेममश्नुवीत ।
तत्र शरीरपातप्रतीक्षां न आचक्षीत ।
ननु वस्तुबलेनैव अयमकर्त्रात्मावबोधः कर्माणि क्षपयन् कथं कानिचित्क्षपयेत् कानिचिच्चोपेक्षेत ?
न हि समानेऽग्निबीजसम्पर्के केषाञ्चिद्बीजशक्तिः क्षीयते,
केषाञ्चिन्न क्षीयते इति शक्यमङ्गीकर्तुमिति ।
उच्यते —
न तावदनाश्रित्य आरब्धकार्यं कर्माशयं ज्ञानोत्पत्तिरुपपद्यते ।
आश्रिते च तस्मिन्कुलालचक्रवत्प्रवृत्तवेगस्य अन्तराले प्रतिबन्धासम्भवात् भवति वेगक्षयप्रतिपालनम् ।
अकर्त्रात्मबोधोऽपि हि मिथ्याज्ञानबाधनेन कर्माण्युच्छिनत्ति ।
बाधितमपि तु मिथ्याज्ञानं द्विचन्द्रज्ञानवत्संस्कारवशात्कंचित्कालमनुवर्तत एव ।
अपि च नैवात्र विवदितव्यम् —
ब्रह्मविदा कञ्चित्कालं शरीरं ध्रियते न वा ध्रियत इति ।
कथं हि एकस्य स्वहृदयप्रत्ययं ब्रह्मवेदनं देहधारणं च अपरेण प्रतिक्षेप्तुं शक्येत ?
श्रुतिस्मृतिषु च स्थितप्रज्ञलक्षणनिर्देशेन एतदेव निरुच्यते ।
तस्मादनारब्धकार्ययोरेव सुकृतदुष्कृतयोर्विद्यासामर्थ्यात्क्षय इति निर्णयः ॥ १५ ॥
अग्निहोत्रादि तु तत्कार्यायैव तद्दर्शनात् ॥ १६ ॥
पुण्यस्याप्यश्लेषविनाशयोरघन्यायोऽतिदिष्टः ।
सोऽतिदेशः सर्वपुण्यविषय इत्याशङ्क्य प्रतिवक्ति —
अग्निहोत्रादि त्विति ।
तुशब्द आशङ्कामपनुदति ।
यन्नित्यं कर्म वैदिकमग्निहोत्रादि,
तत् तत्कार्यायैव भवति;
ज्ञानस्य यत्कार्यं तदेव अस्यापि कार्यमित्यर्थः ।
कुतः ?
‘तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन’ (बृ. उ. ४ । ४ । २२) इत्यादिदर्शनात् ।
ननु ज्ञानकर्मणोर्विलक्षणकार्यत्वात्कार्यैकत्वानुपपत्तिः —
नैष दोषः,
ज्वरमरणकार्ययोरपि दधिविषयोः गुडमन्त्रसंयुक्तयोस्तृप्तिपुष्टिकार्यदर्शनात् ,
तद्वत् कर्मणोऽपि ज्ञानसंयुक्तस्य मोक्षकार्योपपत्तेः ।
ननु अनारभ्यो मोक्षः,
कथमस्य कर्मकार्यत्वमुच्यते ?
नैष दोषः,
आरादुपकारकत्वात्कर्मणः ।
ज्ञानस्यैव हि प्रापकं सत् कर्म प्रणाड्या मोक्षकारणमित्युपचर्यते ।
अत एव च अतिक्रान्तविषयमेतत्कार्यैकत्वाभिधानम् ।
न हि ब्रह्मविद आगाम्यग्निहोत्रादि सम्भवति,
अनियोज्यब्रह्मात्मत्वप्रतिपत्तेः शास्त्रस्याविषयत्वात् ।
सगुणासु तु विद्यासु कर्तृत्वानतिवृत्तेः सम्भवति आगाम्यपि अग्निहोत्रादि ।
तस्यापि निरभिसन्धिनः कार्यान्तराभावाद्विद्यासङ्गत्युपपत्तिः ॥ १६ ॥
किंविषयं पुनरिदम् अश्लेषविनाशवचनम् , किंविषयं वा अदो विनियोगवचनम् एकेषां शाखिनाम् — ‘तस्य पुत्रा दायमुपयन्ति सुहृदः साधुकृत्यां द्विषन्तः पापकृत्याम्’ इति ? अत उत्तरं पठति —
अतोऽन्यापि ह्येकेषामुभयोः ॥ १७ ॥
अतोऽग्निहोत्रादेर्नित्यात्कर्मणः अन्यापि ह्यस्ति साधुकृत्या, या फलमभिसन्धाय क्रियते, तस्या एष विनियोग उक्तः एकेषां शाखिनाम् — ‘सुहृदः साधुकृत्यामुपयन्ति’ इति । तस्या एव च इदम् अघवदश्लेषविनाशनिरूपणम् — इतरस्याप्येवमसंश्लेष इति । एवंजातीयकस्य काम्यस्य कर्मणो विद्यां प्रत्यनुपकारकत्वे सम्प्रतिपत्तिः उभयोरपि जैमिनिबादरायणयोराचार्ययोः ॥ १७ ॥
यदेव विद्ययेति हि ॥ १८ ॥
यदेव विद्ययेति हि ।
सत्यमेतत् —
विद्यासंयुक्तं कर्म अग्निहोत्रादिकं विद्याविहीनात्कर्मणोऽग्निहोत्राद्विशिष्टम् ,
विद्वानिव ब्राह्मणो विद्याविहीनाद्ब्राह्मणात्;
तथापि नात्यन्तमनपेक्षं विद्याविहीनं कर्म अग्निहोत्रादिकम् ।
कस्मात् ? ‘
तमेतमात्मानं यज्ञेन विविदिषन्ति’
इत्यविशेषेण अग्निहोत्रादेर्विद्याहेतुत्वेन श्रुतत्वात् ।
ननु विद्यासंयुक्तस्य अग्निहोत्रादेर्विद्याविहीनाद्विशिष्टत्वावगमात् विद्याविहीनमग्निहोत्रादि आत्मविद्याहेतुत्वेनानपेक्ष्यमेवेति युक्तम् —
नैतदेवम्;
विद्यासहायस्याग्निहोत्रादेर्विद्यानिमित्तेन सामर्थ्यातिशयेन योगात् आत्मज्ञानं प्रति कश्चित्कारणत्वातिशयो भविष्यति,
न तथा विद्याविहीनस्य —
इति युक्तं कल्पयितुम् ।
न तु ‘
यज्ञेन विविदिषन्ति’
इत्यत्राविशेषेणात्मज्ञानाङ्गत्वेन श्रुतस्याग्निहोत्रादेरनङ्गत्वं शक्यमभ्युपगन्तुम् ।
तथा हि श्रुतिः —
‘यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति’ (छा. उ. १ । १ । १०) इति विद्यासंयुक्तस्य कर्मणोऽग्निहोत्रादेः वीर्यवत्तरत्वाभिधानेन स्वकार्यं प्रति कञ्चिदतिशयं ब्रुवाणा विद्याविहीनस्य तस्यैव तत्प्रयोजनं प्रति वीर्यवत्त्वं दर्शयति ।
कर्मणश्च वीर्यवत्त्वं तत् ,
यत्स्वप्रयोजनसाधनप्रसहत्वम् ।
तस्माद्विद्यासंयुक्तं नित्यमग्निहोत्रादि विद्याविहीनं च उभयमपि मुमुक्षुणा मोक्षप्रयोजनोद्देशेन इह जन्मनि जन्मान्तरे च प्राग्ज्ञानोत्पत्तेः कृतं यत् ,
तद्यथासामर्थ्यं ब्रह्माधिगमप्रतिबन्धकारणोपात्तदुरितक्षयहेतुत्वद्वारेण ब्रह्माधिगमकारणत्वं प्रतिपद्यमानं श्रवणमननश्रद्धातात्पर्याद्यन्तरङ्गकारणापेक्षं ब्रह्मविद्यया सह एककार्यं भवतीति स्थितम् ॥ १८ ॥
भोगेन त्वितरे क्षपयित्वा सम्पद्यते ॥ १९ ॥
अनारब्धकार्ययोः पुण्यपापयोर्विद्यासामर्थ्यात्क्षय उक्तः ।
इतरे तु आरब्धकार्ये पुण्यपापे उपभोगेन क्षपयित्वा ब्रह्म सम्पद्यते,
‘तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ सम्पत्स्ये’ (छा. उ. ६ । १४ । २) इति ‘
ब्रह्मैव सन्ब्रह्माप्येति’
इति च एवमादिश्रुतिभ्यः ।
ननु सत्यपि सम्यग्दर्शने यथा प्राग्देहपाताद्भेददर्शनं द्विचन्द्रदर्शनन्यायेनानुवृत्तम् ,
एवं पश्चादप्यनुवर्तेत —
न,
निमित्ताभावात् ।
उपभोगशेषक्षपणं हि तत्रानुवृत्तिनिमित्तम् ,
न च तादृशमत्र किञ्चिदस्ति ।
ननु अपरः कर्माशयोऽभिनवमुपभोगमारप्स्यते —
न ;
तस्य दग्धबीजत्वात् ।
मिथ्याज्ञानावष्टम्भं हि कर्मान्तरं देहपात उपभोगान्तरमारभते;
तच्च मिथ्याज्ञानं सम्यग्ज्ञानेन दग्धम् —
इत्यतः साध्वेतत् आरब्धकार्यक्षये विदुषः कैवल्यमवश्यं भवतीति ॥ १९ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छङ्करभगवतः कृतौ शारीरकमीमांसासूत्रभाष्ये
चतुर्थाध्यायस्य प्रथमः पादः ॥
अथ अपरासु विद्यासु फलप्राप्तये देवयानं पन्थानमवतारयिष्यन् प्रथमं तावत् यथाशास्त्रमुत्क्रान्तिक्रममन्वाचष्टे । समाना हि विद्वदविदुषोरुत्क्रान्तिरिति वक्ष्यति —
वाङ्मनसि दर्शनाच्छब्दाच्च ॥ १ ॥
एवं प्राप्ते,
ब्रूमः —
वाग्वृत्तिर्मनसि सम्पद्यत इति ।
कथं वाग्वृत्तिरिति व्याख्यायते,
यावता ‘
वाङ्मनसि’
इत्येव आचार्यः पठति ?
सत्यमेतत्;
पठिष्यति तु परस्तात् —
‘अविभागो वचनात्’ (ब्र. सू. ४ । २ । १६) इति ।
तस्मादत्र वृत्त्युपशममात्रं विवक्षितमिति गम्यते ।
तत्त्वप्रलयविवक्षायां तु सर्वत्रैव अविभागसाम्यात् किं परत्रैव विशिंष्यात् — ‘
अविभागः’
इति ।
तस्मादत्र वृत्त्युपसंहारविवक्षा ।
वाग्वृत्तिः पूर्वमुपसंह्रियते मनोवृत्ताववस्थितायामित्यर्थः ।
कस्मात् ?
दर्शनात् —
दृश्यते हि वाग्वृत्तेः पूर्वोपसंहारो मनोवृत्तौ विद्यमानायाम् ।
न तु वाच एव वृत्तिमत्त्या मनस्युपसंहारः केनचिदपि द्रष्टुं शक्यते ।
ननु श्रुतिसामर्थ्यात् वाच एवायं मनस्यप्ययो युक्त इत्युक्तम् —
नेत्याह,
अतत्प्रकृतित्वात् ।
यस्य हि यत उत्पत्तिः,
तस्य तत्र प्रलयो न्याय्यः,
मृदीव शरावस्य ।
न च मनसो वागुत्पद्यत इति किञ्चन प्रमाणमस्ति ।
वृत्त्युद्भवाभिभवौ तु अप्रकृतिसमाश्रयावपि दृश्येते ।
पार्थिवेभ्यो हि इन्धनेभ्यः तैजसस्याग्नेर्वृत्तिरुद्भवति,
अप्सु च उपशाम्यति ।
कथं तर्हि अस्मिन्पक्षे शब्दः ‘
वाङ्मनसि सम्पद्यते’
इति ?
अत आह —
शब्दाच्चेति ।
शब्दोऽप्यस्मिन्पक्षेऽवकल्पते,
वृत्तिवृत्तिमतोरभेदोपचारादित्यर्थः ॥ १ ॥
अत एव च सर्वाण्यनु ॥ २ ॥
‘तस्मादुपशान्ततेजाः पुनर्भवमिन्द्रियैर्मनसि सम्पद्यमानैः’ (प्र. उ. ३ । ९) इत्यत्र अविशेषेण सर्वेषामेवेन्द्रियाणां मनसि सम्पत्तिः श्रूयते ।
तत्रापि अत एव वाच इव चक्षुरादीनामपि सवृत्तिके मनस्यवस्थिते वृत्तिलोपदर्शनात् तत्त्वप्रलयासम्भवात् शब्दोपपत्तेश्च वृत्तिद्वारेणैव सर्वाणीन्द्रियाणि मनोऽनुवर्तन्ते ।
सर्वेषां करणानां मनस्युपसंहाराविशेषे सति वाचः पृथग्ग्रहणम् ‘
वाङ्मनसि सम्पद्यते’
इत्युदाहरणानुरोधेन ॥ २ ॥
तन्मनः प्राण उत्तरात् ॥ ३ ॥
समधिगतमेतत् —
‘वाङ्मनसि सम्पद्यते’ (छा. उ. ६ । ८ । ६) इत्यत्र वृत्तिसम्पत्तिविवक्षेति ।
अथ यदुत्तरं वाक्यम् ‘मनः प्राणे’ (छा. उ. ६ । ८ । ६) इति,
किमत्रापि वृत्तिसम्पत्तिरेव विवक्ष्यते,
उत वृत्तिमत्सम्पत्तिः —
इति विचिकित्सायाम् ,
वृत्तिमत्सम्पत्तिरेव अत्र इति प्राप्तम् ,
श्रुत्यनुग्रहात् ।
तत्प्रकृतित्वोपपत्तेश्च ।
तथा हि —
‘अन्नमयꣳ हि सोम्य मन आपोमयः प्राणः’ (छा. उ. ६ । ५ । ४) इत्यन्नयोनि मन आमनन्ति,
अब्योनिं च प्राणम् । ‘
आपश्चान्नमसृजन्त’ —
इति श्रुतिः ।
अतश्च यन्मनः प्राणे प्रलीयते,
अन्नमेव तदप्सु प्रलीयते ।
अन्नं हि मनः,
आपश्च प्राणः,
प्रकृतिविकाराभेदादिति ।
एवं प्राप्ते,
ब्रूमः —
तदपि आगृहीतबाह्येन्द्रियवृत्ति मनो वृत्तिद्वारेणैव प्राणे प्रलीयत इति उत्तराद्वाक्यादवगन्तव्यम् ।
तथा हि सुषुप्सोर्मुमूर्षोश्च प्राणवृत्तौ परिस्पन्दात्मिकायामवस्थितायाम् ,
मनोवृत्तीनामुपशमो दृश्यते ।
न च मनसः स्वरूपाप्ययः प्राणे सम्भवति;
अतत्प्रकृतित्वात् ।
ननु दर्शितं मनसः प्राणप्रकृतिकत्वम् —
नैतत्सारम् ।
न हि ईदृशेन प्राणाडिकेन तत्प्रकृतित्वेन मनः प्राणे सम्पत्तुमर्हति ।
एवमपि हि अन्ने मनः सम्पद्येत,
अप्सु चान्नम् ,
अप्स्वेव च प्राणः ।
न ह्येतस्मिन्नपि पक्षे प्राणभावपरिणताभ्योऽद्भ्यो मनो जायत इति किञ्चन प्रमाणमस्ति ।
तस्मात् न मनसः प्राणे स्वरूपाप्ययः ।
वृत्त्यप्ययेऽपि तु शब्दोऽवकल्पते,
वृत्तिवृत्तिमतोरभेदोपचारात् इति दर्शितम् ॥ ३ ॥
सोऽध्यक्षे तदुपगमादिभ्यः ॥ ४ ॥
स्थितमेतत् —
यस्य यतो नोत्पत्तिः,
तस्य तस्मिन्वृत्तिप्रलयः,
न स्वरूपप्रलय इति ।
इदमिदानीम् ‘
प्राणस्तेजसि’
इत्यत्र चिन्त्यते —
किं यथाश्रुति प्राणस्य तेजस्येव वृत्त्युपसंहारः,
किं वा देहेन्द्रियपञ्जराध्यक्षे जीव इति ।
तत्र श्रुतेरनतिशङ्क्यत्वात् प्राणस्य तेजस्येव सम्पत्तिः स्यात् ,
अश्रुतकल्पनाया अन्याय्यत्वात् —
इत्येवं प्राप्ते प्रतिपद्यतेसोऽध्यक्ष इति ।
स प्रकृतः प्राणः,
अध्यक्षे अविद्याकर्मपूर्वप्रज्ञोपाधिके विज्ञानात्मनि अवतिष्ठते;
तत्प्रधाना प्राणवृत्तिर्भवतीत्यर्थः ।
कुतः ?
तदुपगमादिभ्यः — ‘
एवमेवेममात्मानमन्तकाले सर्वे प्राणा अभिसमायन्ति यत्रैतदूर्ध्वोच्छ्वासी भवति’
इति हि श्रुत्यन्तरम् अध्यक्षोपगामिनः सर्वान्प्राणान् अविशेषेण दर्शयति ।
विशेषेण च ‘तमुत्क्रामन्तं प्राणोऽनूत्क्रामति’ (बृ. उ. ४ । ४ । २) इति पञ्चवृत्तेः प्राणस्य अध्यक्षानुगामितां दर्शयति,
तदनुवृत्तितां च इतरेषाम् ‘प्राणमनूत्क्रामन्तꣳ सर्वे प्राणा अनूत्क्रामन्ति’ (बृ. उ. ४ । ४ । २) इति । ‘
सविज्ञानो भवति’
इति च अध्यक्षस्य अन्तर्विज्ञानवत्त्वप्रदर्शनेन तस्मिन् अपीतकरणग्रामस्य प्राणस्य अवस्थानं गमयति ।
ननु ‘
प्राणस्तेजसि’
इति श्रूयते;
कथं प्राणोऽध्यक्षे इत्यधिकावापः क्रियते ?
नैष दोषः,
अध्यक्षप्रधानत्वादुत्क्रमणादिव्यवहारस्य,
श्रुत्यन्तरगतस्यापि च विशेषस्यापेक्षणीयत्वात् ॥ ४ ॥
कथं तर्हि ‘प्राणस्तेजसि’ इति श्रुतिरित्यत आह —
भूतेषु तच्छ्रुतेः ॥ ५ ॥
स प्राणसम्पृक्तोऽध्यक्षः तेजःसहचरितेषु भूतेषु देहबीजभूतेषु सूक्ष्मेषु अवतिष्ठत इत्यवगन्तव्यम् , ‘प्राणस्तेजसि’ इति श्रुतेः । ननु च इयं श्रुतिः प्राणस्य तेजसि स्थितिं दर्शयति, न प्राणसम्पृक्तस्याध्यक्षस्य — नैष दोषः, सोऽध्यक्षे — इति अध्यक्षस्याप्यन्तराल उपसंख्यातत्वात् । योऽपि हि स्रुघ्नान्मथुरां गत्वा मथुरायाः पाटलिपुत्रं व्रजति, सोऽपि स्रुघ्नात्पाटलिपुत्रं यातीति शक्यते वदितुम् । तस्मात् ‘प्राणस्तेजसि’ इति प्राणसम्पृक्तस्याध्यक्षस्यैव एतत् तेजःसहचरितेषु भूतेष्ववस्थानम् ॥ ५ ॥
कथं तेजःसहचरितेषु भूतेष्वित्युच्यते, यावता एकमेव तेजः श्रूयते — ‘प्राणस्तेजसि’ इति ? अत आह —
नैकस्मिन्दर्शयतो हि ॥ ६ ॥
समाना चासृत्युपक्रमादमृतत्वं चानुपोष्य ॥ ७ ॥
सेयमुत्क्रान्तिः किं विद्वदविदुषोः समाना,
किं वा विशेषवती —
इति विशयानानां विशेषवतीति तावत्प्राप्तम् ।
भूताश्रयविशिष्टा ह्येषा ।
पुनर्भवाय च भूतान्याश्रीयन्ते ।
न च विदुषः पुनर्भवः सम्भवति;
अमृतत्वं हि विद्वानश्नुते —
इति स्थितिः ।
तस्मादविदुष एव एषा उत्क्रान्तिः ।
ननु विद्याप्रकरणे समाम्नानात् विदुष एव एषा भवेत् —
न,
स्वापादिवत् यथाप्राप्तानुकीर्तनात् ।
यथा हि ‘यत्रैतत्पुरुषः स्वपिति नाम’ (छा. उ. ६ । ८ । १),
‘अशिशिषति नाम’ (छा. उ. ६ । ८ । ३),
‘पिपासति नाम’ (छा. उ. ६ । ८ । ५) इति च सर्वप्राणिसाधारणा एव स्वापादयोऽनुकीर्त्यन्ते विद्याप्रकरणेऽपि प्रतिपिपादयिषितवस्तुप्रतिपादनानुगुण्येन,
न तु विदुषो विशेषवन्तो विधित्स्यन्ते;
एवम् इयमपि उत्क्रान्तिः महाजनगतैवानुकीर्त्यते,
यस्यां परस्यां देवतायां पुरुषस्य प्रयतः तेजः सम्पद्यते स आत्मा तत्त्वमसि —
इत्येतत्प्रतिपादयितुम् ।
प्रतिषिद्धा च एषा विदुषः —
‘न तस्य प्राणा उत्क्रामन्ति’ (बृ. उ. ४ । ४ । ६) इति ।
तस्मात् अविदुष एवैषेति ॥
एवं प्राप्ते, ब्रूमः — समाना चैषा उत्क्रान्तिः ‘वाङ्मनसि’ इत्याद्या विद्वदविदुषोः आसृत्युपक्रमात् भवितुमर्हति, अविशेषश्रवणात् । अविद्वान् देहबीजभूतानि भूतसूक्ष्माण्याश्रित्य कर्मप्रयुक्तो देहग्रहणमनुभवितुं संसरति, विद्वांस्तु ज्ञानप्रकाशितं मोक्षनाडीद्वारमाश्रयते — तदेतत् ‘आसृत्युपक्रमात्’ इत्युक्तम् । ननु अमृतत्वं विदुषा प्राप्तव्यम् , न च तद्देशान्तरायत्तम् , तत्र कुतो भूताश्रयत्वं सृत्युपक्रमो वेति ? अत्रोच्यते — अनुपोष्य च, इदम् , अदग्ध्वा अत्यन्तमविद्यादीन्क्लेशान् , अपरविद्यासामर्थ्यात् आपेक्षिकममृतत्वं प्रेप्सते, सम्भवति तत्र सृत्युपक्रमः भूताश्रयत्वं च — न हि निराश्रयाणां प्राणानां गतिरुपपद्यते; तस्माददोषः ॥ ७ ॥
तदाऽपीतेः संसारव्यपदेशात् ॥ ८ ॥
‘तेजः परस्यां देवतायाम्’ (छा. उ. ६ । ८ । ६) इत्यत्र प्रकरणसामर्थ्यात् तत् यथाप्रकृतं तेजः साध्यक्षं सप्राणं सकरणग्रामं भूतान्तरसहितं प्रयतः पुंसः परस्यां देवतायां सम्पद्यत इत्येतदुक्तं भवति ।
कीदृशी पुनरियं सम्पत्तिः स्यादिति चिन्त्यते ।
तत्र आत्यन्तिक एव तावत् स्वरूपप्रविलय इति प्राप्तम् ,
तत्प्रकृतित्वोपपत्तेः ।
सर्वस्य हि जनिमतो वस्तुजातस्य प्रकृतिः परा देवतेति प्रतिष्ठापितम् ।
तस्मात् आत्यन्तिकी इयमविभागापत्तिरिति ।
एवं प्राप्ते ब्रूमः —
तत् तेजआदि भूतसूक्ष्मं श्रोत्रादिकरणाश्रयभूतम् आपीतेः आसंसारमोक्षात् सम्यग्ज्ञाननिमित्तात् अवतिष्ठते —
‘योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः । स्थाणुमन्येऽनुसंयन्ति यथाकर्म यथाश्रुतम्’ (क. उ. २ । २ । ७) इत्यादिसंसारव्यपदेशात् ।
अन्यथा हि सर्वः प्रायणसमय एव उपाधिप्रत्यस्तमयादत्यन्तं ब्रह्म सम्पद्येत,
तत्र विधिशास्त्रमनर्थकं स्यात् ,
विद्याशास्त्रं च ।
मिथ्याज्ञाननिमित्तश्च बन्धो न सम्यग्ज्ञानादृते विस्रंसितुमर्हति ।
तस्मात् तत्प्रकृतित्वेऽपि सुषुप्तप्रलयवत् बीजभावावशेषैव एषा सत्सम्पत्तिरिति ॥ ८ ॥
सूक्ष्मं प्रमाणतश्च तथोपलब्धेः ॥ ९ ॥
तच्च इतरभूतसहितं तेजो जीवस्य अस्माच्छरीरात्प्रवसत आश्रयभूतं स्वरूपतः परिमाणतश्च सूक्ष्मं भवितुमर्हति । तथा हि नाडीनिष्क्रमणश्रवणादिभ्योऽस्य सौक्ष्म्यमुपलभ्यते । तत्र तनुत्वात्सञ्चारोपपत्तिः; स्वच्छत्वाच्च अप्रतीघातोपपत्तिः । अत एव च देहान्निर्गच्छन् पार्श्वस्थैर्नोपलभ्यते ॥ ९ ॥
नोपमर्देनातः ॥ १० ॥
अत एव च सूक्ष्मत्वात् नास्य स्थूलस्य शरीरस्योपमर्देन दाहादिनिमित्तेन इतरत्सूक्ष्मं शरीरमुपमृद्यते ॥ १० ॥
अस्यैव चोपपत्तेरेष ऊष्मा ॥ ११ ॥
अस्यैव च सूक्ष्मस्य शरीरस्य एष ऊष्मा, यमेतस्मिञ्च्छरीरे संस्पर्शेनोष्माणं विजानन्ति । तथा हि मृतावस्थायाम् अवस्थितेऽपि देहे विद्यमानेष्वपि च रूपादिषु देहगुणेषु, न ऊष्मा उपलभ्यते, जीवदवस्थायामेव तु उपलभ्यते — इत्यत उपपद्यते
प्रसिद्धशरीरव्यतिरिक्तव्यपाश्रय एव एष ऊष्मेति । तथा च श्रुतिः — ‘उष्ण एव जीविष्यञ्शीतो मरिष्यन्’ इति ॥ ११ ॥
प्रतिषेधादिति चेन्न शारीरात् ॥ १२ ॥
‘
अमृतत्वं चानुपोष्य’
इत्यतो विशेषणात् आत्यन्तिकेऽमृतत्वे गत्युत्क्रान्त्योरभावोऽभ्युपगतः ।
तत्रापि केनचित्कारणेन उत्क्रान्तिमाशङ्क्य प्रतिषेधति —
‘अथाकामयमानो योऽकामो निष्काम आप्तकाम आत्मकामो भवति न तस्य प्राणा उत्क्रामन्ति ब्रह्मैव सन्ब्रह्माप्येति’ (बृ. उ. ४ । ४ । ६) इति ।
अतः परविद्याविषयात्प्रतिषेधात् न परब्रह्मविदो देहात् प्राणानामुत्क्रान्तिरस्तीति चेत् ,
नेत्युच्यते,
यतः शारीरादात्मन एष उत्क्रान्तिप्रतिषेधः प्राणानाम् ,
न शरीरात् ।
कथमवगम्यते ? ‘
न तस्मात्प्राणा उत्क्रामन्ति’
इति शाखान्तरे पञ्चमीप्रयोगात् ।
सम्बन्धसामान्यविषया हि षष्ठी शाखान्तरगतया पञ्चम्या सम्बन्धविशेषे व्यवस्थाप्यते । ‘
तस्मात्’
इति च प्राधान्यात् अभ्युदयनिःश्रेयसाधिकृतो देही सम्बध्यते,
न देहः ।
न तस्मादुच्चिक्रमिषोर्जीवात् प्राणा अपक्रामन्ति,
सहैव तेन भवन्ति —
इत्यर्थः ।
सप्राणस्य च प्रवसतो भवत्युत्क्रान्तिर्देहादिति ॥ १२ ॥
एवं प्राप्ते, प्रत्युच्यते —
स्पष्टो ह्येकेषाम् ॥ १३ ॥
नैतदस्ति —
यदुक्तम् ,
परब्रह्मविदोऽपि देहात् अस्त्युत्क्रान्तिः उत्क्रान्तिप्रतिषेधस्य देह्यपादानत्वादिति;
यतो देहापादान एव उत्क्रान्तिप्रतिषेध एकेषां समाम्नातॄणां स्पष्ट उपलभ्यते ।
तथा हि —
आर्तभागप्रश्ने ‘यत्रायं पुरुषो म्रियत उदस्मात्प्राणाः क्रामन्त्याहो नेति’ (बृ. उ. ३ । २ । ११) इत्यत्र,
‘नेति होवाच याज्ञवल्क्यः’ (बृ. उ. ३ । २ । ११) इत्यनुत्क्रान्तिपक्षं परिगृह्य,
न तर्ह्ययमनुत्क्रान्तेषु प्राणेषु मृतः —
इत्यस्यामाशङ्कायाम् ‘
अत्रैव समवनीयन्ते’
इति प्रविलयं प्राणानां प्रतिज्ञाय,
तत्सिद्धये ‘स उच्छ्वयत्याध्मायत्याध्मातो मृतः शेते’ (बृ. उ. ३ । २ । ११) इति सशब्दपरामृष्टस्य प्रकृतस्य उत्क्रान्त्यवधेः उच्छ्वयनादीनि समामनन्ति ।
देहस्य च एतानि स्युः न देहिनः;
तत्सामान्यात् , ‘
न तस्मात्प्राणा उत्क्रामन्त्यत्रैव समवनीयन्ते’
इत्यत्रापि —
अभेदोपचारेण देहापादानस्यैव उत्क्रमणस्य प्रतिषेधः —
यद्यपि प्राधान्यं देहिनः —
इति व्याख्येयम् ,
येषां पञ्चमीपाठः ।
येषां तु षष्ठीपाठः,
तेषां विद्वत्सम्बन्धिनी उत्क्रान्तिः प्रतिषिध्यत इति,
प्राप्तोत्क्रान्तिप्रतिषेधार्थत्वात् अस्य वाक्यस्य,
देहापादानैव सा प्रतिषिद्धा भवति,
देहादुत्क्रान्तिः प्राप्ता,
न देहिनः;
अपि च ‘चक्षुष्टो वा मूर्ध्नो वान्येभ्यो वा शरीरदेशेभ्यस्तमुत्क्रामन्तं प्राणोऽनूत्क्रामति प्राणमनूत्क्रामन्तꣳ सर्वे प्राणा अनूत्क्रामन्ति’ (बृ. उ. ४ । ४ । २) इत्येवमविद्वद्विषये सप्रपञ्चमुत्क्रमणं संसारगमनं च दर्शयित्वा,
‘इति नु कामयमानः’ (बृ. उ. ४ । ४ । ६) इति उपसंहृत्य अविद्वत्कथाम् ,
‘अथाकामयमानः’ (बृ. उ. ४ । ४ । ६) इति व्यपदिश्य विद्वांसम् —
यदि तद्विषयेऽप्युत्क्रान्तिमेव प्रापयेत् ,
असमञ्जस एव व्यपदेशः स्यात्;
तस्मात् अविद्वद्विषये प्राप्तयोर्गत्युत्क्रान्त्योः विद्वद्विषये प्रतिषेधः —
इत्येवमेव व्याख्येयम् ,
व्यपदेशार्थवत्त्वाय ।
न च ब्रह्मविदः सर्वगतब्रह्मात्मभूतस्य प्रक्षीणकामकर्मणः उत्क्रान्तिः गतिर्वा उपपद्यते,
निमित्ताभावात् । ‘
अत्र ब्रह्म समश्नुते’
इति च एवंजातीयकाः श्रुतयो गत्युत्क्रान्त्योरभावं सूचयन्ति ॥ १३ ॥
स्मर्यते च ॥ १४ ॥
स्मर्यतेऽपि च महाभारते गत्युत्क्रान्त्योरभावः — ‘सर्वभूतात्मभूतस्य सम्यग्भूतानि पश्यतः । देवा अपि मार्गे मुह्यन्त्यपदस्य पदैषिणः’ (म. भा. १२ । २३९ । २३) इति । ननु गतिरपि ब्रह्मविदः सर्वगतब्रह्मात्मभूतस्य स्मर्यते — ‘शुकः किल वैयासकिर्मुमुक्षुरादित्यमण्डलमभिप्रतस्थे पित्रा चानुगम्याहूतो भो इति प्रतिशुश्राव’ इति — न; सशरीरस्यैव अयं योगबलेन विशिष्टदेशप्राप्तिपूर्वकः शरीरोत्सर्ग इति द्रष्टव्यम् , सर्वभूतदृश्यत्वाद्युपन्यासात् । न हि अशरीरं गच्छन्तं सर्वभूतानि द्रष्टुं शक्नुयुः । तथा च तत्रैवोपसंहृतम् — ‘शुकस्तु मारुताच्छीघ्रां गतिं कृत्वान्तरिक्षगः ।’ (म. भा. १२ । ३३३ । १९), ‘दर्शयित्वा प्रभावं स्वं सर्वभूतगतोऽभवत्’ (म. भा. १२ । ३३३ । २०) इति । तस्मादभावः परब्रह्मविदो गत्युत्क्रान्त्योः । गतिश्रुतीनां तु विषयमुपरिष्टाद्व्याख्यास्यामः ॥ १४ ॥
तानि परे तथा ह्याह ॥ १५ ॥
तदोकोऽग्रज्वलनं तत्प्रकाशितद्वारो विद्यासामर्थ्यात्तच्छेषगत्यनुस्मृतियोगाच्च हार्दानुगृहीतः शताधिकया ॥ १७ ॥
समाप्ता प्रासङ्गिकी परविद्यागता चिन्ता;
सम्प्रति तु अपरविद्याविषयामेव चिन्तामनुवर्तयति ।
समाना च आसृत्युपक्रमात् विद्वदविदुषोरुत्क्रान्तिः —
इत्युक्तम् ।
तम् इदानीं सृत्युपक्रमं दर्शयति ।
तस्य उपसंहृतवागादिकलापस्योच्चिक्रमिषतो विज्ञानात्मनः,
ओकः आयतनं हृदयम् — ‘
स एतास्तेजोमात्राः समभ्याददानो हृदयमेवान्ववक्रामति’
इति श्रुतेः,
तदग्रप्रज्वलनपूर्विका चक्षुरादिस्थानापादाना च उत्क्रान्तिः श्रूयते —
‘तस्य हैतस्य हृदयस्याग्रं प्रद्योतते तेन प्रद्योतेनैष आत्मा निष्क्रामति चक्षुष्टो वा मूर्ध्नो वान्येभ्यो वा शरीरदेशेभ्यः’ (बृ. उ. ४ । ४ । २) इति ।
सा किमनियमेनैव विद्वदविदुषोर्भवति,
अथास्ति कश्चिद्विदुषो विशेषनियमः —
इति विचिकित्सायाम् ,
श्रुत्यविशेषादनियमप्राप्तौ,
आचष्टे —
समानेऽपि हि विद्वदविदुषोर्हृदयाग्रप्रद्योतने तत्प्रकाशितद्वारत्वे च,
मूर्धस्थानादेव विद्वान्निष्क्रामति,
स्थानान्तरेभ्यस्तु इतरे ।
कुतः ?
विद्यासामर्थ्यात् ।
यदि विद्वानपि इतरवत् यतः कुतश्चिद्देहदेशात् उत्क्रामेत् ,
नैव उत्कृष्टं लोकं लभेत,
तत्र अनर्थिकैव विद्या स्यात् ।
तच्छेषगत्यनुस्मृतियोगाच्च —
विद्याशेषभूता च मूर्धन्यनाडीसम्बद्धा गतिः अनुशीलयितव्या विद्याविशेषेषु विहिता ।
तामभ्यस्यन् तयैव प्रतिष्ठत इति युक्तम् ।
तस्मात् हृदयालयेन ब्रह्मणा सूपासितेन अनुगृहीतः तद्भावं समापन्नो विद्वान् मूर्धन्ययैव शताधिकया शतादतिरिक्तया एकशततम्या नाड्या निष्क्रामति,
इतराभिरितरे ।
तथा हि हार्दविद्यां प्रकृत्य समामनन्ति —
‘शतं चैका च हृदयस्य नाड्यस्तासां मूर्धानमभिनिःसृतैका । तयोर्ध्वमायन्नमृतत्वमेति विष्वङ्ङन्या उत्क्रमणे भवन्ति’ (छा. उ. ८ । ६ । ६) इति ॥ १७ ॥
निशि नेति चेन्न सम्बन्धस्य यावद्देहभावित्वाद्दर्शयति च ॥ १९ ॥
अस्ति अहनि नाडीरश्मिसम्बन्ध इति अहनि मृतस्य स्यात् रश्म्यनुसारित्वम् ।
रात्रौ तु प्रेतस्य न स्यात् ,
नाडीरश्मिसम्बन्धविच्छेदात् —
इति चेत् ,
न,
नाडीरश्मिसम्बन्धस्य यावद्देहभावित्वात् ।
यावद्देहभावी हि शिराकिरणसम्पर्कः ।
दर्शयति चैतमर्थं श्रुतिः —
‘अमुष्मादादित्यात्प्रतायन्ते ता आसु नाडीषु सृप्ता आभ्यो नाडीभ्यः प्रतायन्ते तेऽमुष्मिन्नादित्ये सृप्ताः’ (छा. उ. ८ । ६ । २) इति ।
निदाघसमये च निशास्वपि किरणानुवृत्तिरुपलभ्यते,
प्रतापादिकार्यदर्शनात् ।
स्तोकानुवृत्तेस्तु दुर्लक्ष्यत्वम् ऋत्वन्तररजनीषु ,
शैशिरेष्विव दुर्दिनेषु । ‘
अहरेवैतद्रात्रौ दधाति’
इति च एतदेव दर्शयति ।
यदि च रात्रौ प्रेतः विनैव रश्म्यनुसारेण ऊर्ध्वमाक्रमेत,
रश्म्यनुसारानर्थक्यं भवेत् ।
न ह्येतत् विशिष्य अधीयते —
यो दिवा प्रैति,
स रश्मीनपेक्ष्योर्ध्वमाक्रमते,
यस्तु रात्रौ सोऽनपेक्ष्यैवेति ।
अथ तु विद्वानपि रात्रिप्रायणापराधमात्रेण नोर्ध्वमाक्रमेत,
पाक्षिकफला विद्येति अप्रवृत्तिरेव तस्यां स्यात् ।
मृत्युकालानियमात् ।
अथापि रात्रावुपरतोऽहरागमम् उदीक्षेत,
अहरागमेऽप्यस्य कदाचित् अरश्मिसम्बन्धार्हं शरीरं स्यात् पावकादिसम्पर्कात् ।
‘स यावत्क्षिप्येन्मनस्तावदादित्यं गच्छति’ (छा. उ. ८ । ६ । ५) इति च श्रुतिः अनुदीक्षां दर्शयति ।
तस्मात् अविशेषेणैव इदं रात्रिंदिवं रश्म्यनुसारित्वम् ॥ १९ ॥
अतश्चायनेऽपि दक्षिणे ॥ २० ॥
अत एव च उदीक्षानुपपत्तेः,
अपाक्षिकफलत्वाच्च विद्यायाः,
अनियतकालत्वाच्च मृत्योः,
दक्षिणायनेऽपि म्रियमाणो विद्वान् प्राप्नोत्येव विद्याफलम् ।
उत्तरायणमरणप्राशस्त्यप्रसिद्धेः,
भीष्मस्य च प्रतीक्षादर्शनात् ,
‘आपूर्यमाणपक्षाद्यान्षडुदङ्ङेति मासाꣳस्तान्’ (छा. उ. ४ । १५ । ५) इति च श्रुतेः,
अपेक्षितव्यमुत्तरायणम् —
इतीमामाशङ्काम् अनेन सूत्रेणापनुदति ।
प्राशस्त्यप्रसिद्धिः अविद्वद्विषया ।
भीष्मस्य तूत्तरायणप्रतिपालनम् आचारपरिपालनार्थं पितृप्रसादलब्धस्वच्छन्दमृत्युताख्यापनार्थं च ।
श्रुतेस्तु अर्थं वक्ष्यति ‘आतिवाहिकास्तल्लिङ्गात्’ (ब्र. सू. ४ । ३ । ४) इति ॥ २० ॥
योगिनः प्रति च स्मर्यते स्मार्ते चैते ॥ २१ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छङ्करभगवतः कृतौ शारीरकमीमांसासूत्रभाष्ये
चतुर्थाध्यायस्य द्वितीयः पादः ॥
अर्चिरादिना तत्प्रथितेः ॥ १ ॥
वायुमब्दादविशेषविशेषाभ्याम् ॥ २ ॥
तडितोऽधि वरुणः सम्बन्धात् ॥ ३ ॥
आतिवाहिकास्तल्लिङ्गात् ॥ ४ ॥
तेष्वेव अर्चिरादिषु संशयः —
किमेतानि मार्गचिह्नानि,
उत भोगभूमयः,
अथवा नेतारो गन्तॄणामिति ।
तत्र मार्गलक्षणभूता अर्चिरादय इति तावत्प्राप्तम् ,
तत्स्वरूपत्वादुपदेशस्य ।
यथा हि लोके कश्चिद्ग्रामं नगरं वा प्रतिष्ठासमानोऽनुशिष्यते —
गच्छ इतस्त्वममुं गिरिं ततो न्यग्रोधं ततो नदीं ततो ग्रामं नगरं वा प्राप्स्यसीति —
एवमिहापि ‘
अर्चिषोऽहरह्न आपूर्यमाणपक्षम्’
इत्याद्याह ।
अथवा भोगभूमय इति प्राप्तम् ।
तथाहि लोकशब्देन अग्न्यादीननुबध्नाति —
‘अग्निलोकमागच्छति’ (कौ. उ. १ । ३) इत्यादि ।
लोकशब्दश्च प्राणिनां भोगायतनेषु भाष्यते —
‘मनुष्यलोकः पितृलोको देवलोकः’ (बृ. उ. १ । ५ । १६) इति च ।
तथा च ब्राह्मणम् — ‘
अहोरात्रेषु ते लोकेषु सज्जन्ते’
इत्यादि ।
तस्मान्नातिवाहिका अर्चिरादयः ।
अचेतनत्वादप्येतेषामातिवाहिकत्वानुपपत्तिः ।
चेतना हि लोके राजनियुक्ताः पुरुषा दुर्गेषु मार्गेष्वतिवाह्यान् अतिवाहयन्तीति ।
एवं प्राप्ते,
ब्रूमः —
आतिवाहिका एवैते भवितुमर्हन्ति ।
कुतः ?
तल्लिङ्गात् ।
तथा हि —
‘चन्द्रमसो विद्युतं तत्पुरुषोऽमानवः स एनान्ब्रह्म गमयति’ (छा. उ. ४ । १५ । ५) इति सिद्धवद्गमयितृत्वं दर्शयति ।
तद्वचनं तद्विषयमेवोपक्षीणमिति चेत् ,
न,
प्राप्तमानवत्वनिवृत्तिपरत्वाद्विशेषणस्य ।
यद्यर्चिरादिषु पुरुषा गमयितारः प्राप्ताः ते च मानवाः,
ततो युक्तं तन्निवृत्त्यर्थं पुरुषविशेषणम् —
अमानव इति ॥ ४ ॥
ननु तल्लिङ्गमात्रमगमकम् , न्यायाभावात्; नैष दोषः —
उभयव्यामोहात्तत्सिद्धेः ॥ ५ ॥
ये तावदर्चिरादिमार्गगाः ते देहवियोगात् सम्पिण्डितकरणग्रामा इति अस्वतन्त्राः,
अर्चिरादीनामप्यचेतनत्वादस्वातन्त्र्यम् —
इत्यतः अर्चिराद्यभिमानिनश्चेतना देवताविशेषा अतियात्रायां नियुक्ता इति गम्यते ।
लोकेऽपि हि मत्तमूर्छितादयः सम्पिण्डितकरणाः परप्रयुक्तवर्त्मानो भवन्ति ।
अनवस्थितत्वादप्यर्चिरादीनां न मार्गलक्षणत्वोपपत्तिः ।
न हि रात्रौ प्रेतस्य अहःस्वरूपाभिसम्भव उपपद्यते ।
न च प्रतिपालनमस्तीत्युक्तं पुरस्तात् ।
ध्रुवत्वात्तु देवतात्मनां नायं दोषो भवति ।
अर्चिरादिशब्दता च एषाम् अर्चिराद्यभिमानादुपपद्यते ।
‘अर्चिषोऽहः’ (छा. उ. ४ । १५ । ५) इत्यादिनिर्देशस्तु आतिवाहिकत्वेऽपि न विरुध्यते —
अर्चिषा हेतुना अहरभिसम्भवति,
अह्ना हेतुना आपूर्यमाणपक्षमिति ।
तथा च लोके प्रसिद्धेष्वप्यातिवाहिकेषु एवंजातीयक उपदेशो दृश्यते —
गच्छ त्वम् इतो बलवर्माणं ततो जयसिंहं ततः कृष्णगुप्तमिति ।
अपि च उपक्रमे ‘तेऽर्चिरभिसम्भवन्ति’ (बृ. उ. ६ । २ । १५) इति सम्बन्धमात्रमुक्तम् ,
न सम्बन्धविशेषः कश्चित् ।
उपसंहारे तु ‘स एनान्ब्रह्म गमयति’ (छा. उ. ४ । १५ । ५) इति सम्बन्धविशेषः अतिवाह्यातिवाहकत्वलक्षण उक्तः ।
तेन स एवोपक्रमेऽपीति निर्धार्यते ।
सम्पिण्डितकरणत्वादेव च गन्तॄणां न तत्र भोगसम्भवः ।
लोकशब्दस्तु अनुपभुञ्जानेष्वपि गन्तृषु गमयितुं शक्यते,
अन्येषां तल्लोकवासिनां भोगभूमित्वात् ।
अतः अग्निस्वामिकं लोकं प्राप्तः अग्निना अतिवाह्यते,
वायुस्वामिकं प्राप्तो वायुना —
इति योजयितव्यम् ॥ ५ ॥
कथं पुनरातिवाहिकत्वपक्षे वरुणादिषु तत्सम्भवः ? विद्युतो ह्यधि वरुणादय उपक्षिप्ताः, विद्युतस्त्वनन्तरम् आ ब्रह्मप्राप्तेः अमानवस्यैव पुरुषस्य गमयितृत्वं श्रुतम् — इत्यत उत्तरं पठति —
वैद्युतेनैव ततस्तच्छ्रुतेः ॥ ६ ॥
ततो विद्युदभिसम्भवनादूर्ध्वं विद्युदनन्तरवर्तिनैवामानवेन पुरुषेण वरुणलोकादिष्वतिवाह्यमाना ब्रह्मलोकं गच्छन्तीत्यवगन्तव्यम् , ‘तान्वैद्युतात्पुरुषोऽमानवः स एत्य ब्रह्मलोकं गमयति’ इति तस्यैव गमयितृत्वश्रुतेः । वरुणादयस्तु तस्यैव अप्रतिबन्धकरणेन साहाय्यानुष्ठानेन वा केनचित् अनुग्राहका इत्यवगन्तव्यम् । तस्मात्साधूक्तम् — आतिवाहिका देवतात्मानोऽर्चिरादय इति ॥ ६ ॥
कार्यं बादरिरस्य गत्युपपत्तेः ॥ ७ ॥
‘स एनान्ब्रह्म गमयति’ (छा. उ. ४ । १५ । ५) इत्यत्र विचिकित्स्यते —
किं कार्यमपरं ब्रह्म गमयति,
आहोस्वित्परमेवाविकृतं मुख्यं ब्रह्मेति ।
कुतः संशयः ?
ब्रह्मशब्दप्रयोगात् ,
गतिश्रुतेश्च ।
तत्र कार्यमेव सगुणमपरं ब्रह्म एनान्गमयत्यमानवः पुरुष इति बादरिराचार्यो मन्यते ।
कुतः ?
अस्य गत्युपपत्तेः —
अस्य हि कार्यब्रह्मणो गन्तव्यत्वमुपपद्यते,
प्रदेशवत्त्वात् ।
न तु परस्मिन्ब्रह्मणि गन्तृत्वं गन्तव्यत्वं गतिर्वा अवकल्पते,
सर्वगतत्वात्प्रत्यगात्मत्वाच्च गन्तॄणाम् ॥ ७ ॥
विशेषितत्वाच्च ॥ ८ ॥
‘ब्रह्मलोकान्गमयति ते तेषु ब्रह्मलोकेषु पराः परावतो वसन्ति’ (बृ. उ. ६ । २ । १५) इति च श्रुत्यन्तरे विशेषितत्वात् कार्यब्रह्मविषयैव गतिरिति गम्यते ।
न हि बहुवचनेन विशेषणं परस्मिन्ब्रह्मण्यवकल्पते ।
कार्ये तु अवस्थाभेदोपपत्तेः सम्भवति बहुवचनम् ।
लोकश्रुतिरपि विकारगोचरायामेव सन्निवेशविशिष्टायां भोगभूमावाञ्जसी ।
गौणी त्वन्यत्र ‘
ब्रह्मैव लोक एष सम्राट्’
इत्यादिषु ।
अधिकरणाधिकर्तव्यनिर्देशोऽपि परस्मिन्ब्रह्मणि अनाञ्जसः स्यात् ।
तस्मात् कार्यविषयमेवेदं नयनम् ॥ ८ ॥
ननु कार्यविषयेऽपि ब्रह्मशब्दो नोपपद्यते, समन्वये हि समस्तस्य जगतो जन्मादिकारणं ब्रह्मेति स्थापितम् — इत्यत्रोच्यते —
सामीप्यात्तु तद्व्यपदेशः ॥ ९ ॥
तुशब्द आशङ्काव्यावृत्त्यर्थः । परब्रह्मसामीप्यात् अपरस्य ब्रह्मणः, तस्मिन्नपि ब्रह्मशब्दप्रयोगो न विरुध्यते । परमेव हि ब्रह्म विशुद्धोपाधिसम्बन्धं क्वचित्कैश्चिद्विकारधर्मैर्मनोमयत्वादिभिः उपासनाय उपदिश्यमानम् अपरमिति स्थितिः ॥ ९ ॥
कार्यात्यये तदध्यक्षेण सहातः परमभिधानात् ॥ १० ॥
कार्यब्रह्मलोकप्रलयप्रत्युपस्थाने सति तत्रैव उत्पन्नसम्यग्दर्शनाः सन्तः, तदध्यक्षेण हिरण्यगर्भेण सह अतः परं परिशुद्धं विष्णोः परमं पदं प्रतिपद्यन्ते — इति, इत्थं क्रममुक्तिः अनावृत्त्यादिश्रुत्यभिधानेभ्योऽभ्युपगन्तव्या । न ह्यञ्जसैव गतिपूर्विका परप्राप्तिः सम्भवतीत्युपपादितम् ॥ १० ॥
स्मृतेश्च ॥ ११ ॥
स्मृतिरप्येतमर्थमनुजानाति — ‘ब्रह्मणा सह ते सर्वे सम्प्राप्ते प्रतिसञ्चरे । परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम्’ इति । तस्मात्कार्यब्रह्मविषया एव गतिश्रुतयः इति सिद्धान्तः ॥ ११ ॥
परं जैमिनिर्मुख्यत्वात् ॥ १२ ॥
जैमिनिस्त्वाचार्यः ‘स एनान्ब्रह्म गमयति’ (छा. उ. ४ । १५ । ५) इत्यत्र परमेव ब्रह्म प्रापयतीति मन्यते ।
कुतः ?
मुख्यत्वात् ।
परं हि ब्रह्म ब्रह्मशब्दस्य मुख्यमालम्बनम् ,
गौणमपरम्;
मुख्यगौणयोश्च मुख्ये सम्प्रत्ययो भवति ॥ १२ ॥
न च कार्ये प्रतिपत्त्यभिसन्धिः ॥ १४ ॥
गतिकल्पनायां च गन्ता जीवो गन्तव्यस्य ब्रह्मणः अवयवः विकारो अन्यो वा ततः स्यात् ,
अत्यन्ततादात्म्ये गमनानुपपत्तेः ।
यद्येवम् ,
ततः किं स्यात् ?
उच्यते —
यद्येकदेशः,
तेन एकदेशिनो नित्यप्राप्तत्वात् न पुनर्ब्रह्मगमनमुपपद्यते ।
एकदेशैकदेशित्वकल्पना च ब्रह्मण्यनुपपन्ना,
निरवयवत्वप्रसिद्धेः ।
विकारपक्षेऽप्येतत्तुल्यम् ,
विकारेणापि विकारिणो नित्यप्राप्तत्वात् ।
न हि घटो मृदात्मतां परित्यज्य अवतिष्ठते,
परित्यागे वा अभावप्राप्तेः ।
विकारावयवपक्षयोश्च तद्वतः स्थिरत्वात् ब्रह्मणः संसारगमनमपि अनवकॢप्तम् ।
अथ अन्य एव जीवो ब्रह्मणः,
सोऽणुः व्यापी मध्यमपरिमाणो वा भवितुमर्हति ।
व्यापित्वे गमनानुपपत्तिः ।
मध्यमपरिमाणत्वे च अनित्यत्वप्रसङ्गः ।
अणुत्वे कृत्स्नशरीरवेदनानुपपत्तिः ।
प्रतिषिद्धे च अणुत्वमध्यमपरिमाणत्वे विस्तरेण पुरस्तात् ।
परस्माच्च अन्यत्वे जीवस्य ‘तत्त्वमसि’ (छा. उ. ६ । ८ । ७) इत्यादिशास्त्रबाधप्रसङ्गः ।
विकारावयवपक्षयोरपि समानोऽयं दोषः ।
विकारावयवयोस्तद्वतोऽनन्यत्वात् अदोष इति चेत् ,
न,
मुख्यैकत्वानुपपत्तेः ।
सर्वेष्वेतेषु पक्षेषु अनिर्मोक्षप्रसङ्गः,
संसार्यात्मत्वानिवृत्तेः;
निवृत्तौ वा स्वरूपनाशप्रसङ्गः,
ब्रह्मात्मत्वानभ्युपगमाच्च ॥
यत्तु कैश्चिज्जल्प्यते —
नित्यानि नैमित्तिकानि च कर्माण्यनुष्ठीयन्ते प्रत्यवायानुत्पत्तये,
काम्यानि प्रतिषिद्धानि च परिह्रियन्ते स्वर्गनरकानवाप्तये,
साम्प्रतदेहोपभोग्यानि च कर्माण्युपभोगेनैव क्षप्यन्ते —
इत्यतो वर्तमानदेहपातादूर्ध्वं देहान्तरप्रतिसन्धानकारणाभावात् स्वरूपावस्थानलक्षणं कैवल्यं विनापि ब्रह्मात्मतया एवंवृत्तस्य सेत्स्यतीति —
तदसत् ,
प्रमाणाभावात् ।
न ह्येतत् शास्त्रेण केनचित्प्रतिपादितम् —
मोक्षार्थी इत्थं समाचरेदिति ।
स्वमनीषया तु एतत्तर्कितम् —
यस्मात्कर्मनिमित्तः संसारः तस्मान्निमित्ताभावान्न भविष्यतीति ।
न च एतत् तर्कयितुमपि शक्यते,
निमित्ताभावस्य दुर्ज्ञानत्वात् ।
बहूनि हि कर्माणि जात्यन्तरसञ्चितानि इष्टानिष्टविपाकानि एकैकस्य जन्तोः सम्भाव्यन्ते ।
तेषां विरुद्धफलानां युगपदुपभोगासम्भवात् कानिचिल्लब्धावसराणि इदं जन्म निर्मिमते,
कानिचित्तु देशकालनिमित्तप्रतीक्षाण्यासते —
इत्यतः तेषामवशिष्टानां साम्प्रतेनोपभोगेन क्षपणासम्भवात् न यथावर्णितचरितस्यापि वर्तमानदेहपाते देहान्तरनिमित्ताभावः शक्यते निश्चेतुम् ।
कर्मशेषसद्भावसिद्धिश्च ‘
तद्य इह रमणीयचरणाः’ ‘
ततः शेषेण’
इत्यादिश्रुतिस्मृतिभ्यः ।
स्यादेतत् —
नित्यनैमित्तिकानि तेषां क्षेपकाणि भविष्यन्तीति —
तत् न,
विरोधाभावात् ।
सति हि विरोधे क्षेप्यक्षेपकभावो भवति ।
न च जन्मान्तरसञ्चितानां सुकृतानां नित्यनैमित्तिकैरस्ति विरोधः,
शुद्धिरूपत्वाविशेषात् ।
दुरितानां तु अशुद्धिरूपत्वात् सति विरोधे भवतु क्षपणम् ।
न तु तावता देहान्तरनिमित्ताभावसिद्धिः,
सुकृतनिमित्तत्वोपपत्तेः,
दुरितस्याप्यशेषक्षपणानवगमात् ।
न च नित्यनैमित्तिकानुष्ठानात् प्रत्यवायानुत्पत्तिमात्रम् ,
न पुनः फलान्तरोत्पत्तिः इति प्रमाणमस्ति,
फलान्तरस्याप्यनुनिष्पादिनः सम्भवात् ।
स्मरति हि आपस्तम्बः —
‘तद्यथा आम्रे फलार्थे निमिते छायागन्धावनूत्पद्येते एवं धर्मं चर्यमाणम् अर्था अनूत्पद्यन्ते’ (आ. ध. सू. १ । ७ । २० । ३) इति ।
न च असति सम्यग्दर्शने सर्वात्मना काम्यप्रतिषिद्धवर्जनं जन्मप्रायणान्तराले केनचित्प्रतिज्ञातुं शक्यम् ,
सुनिपुणानामपि सूक्ष्मापराधदर्शनात् ।
संशयितव्यं तु भवति ।
तथापि निमित्ताभावस्य दुर्ज्ञानत्वमेव ।
न च अनभ्युपगम्यमाने ज्ञानगम्ये ब्रह्मात्मत्वे कर्तृत्वभोक्तृत्वस्वभावस्य आत्मनः कैवल्यमाकाङ्क्षितुं शक्यम् ,
अग्न्यौष्ण्यवत् स्वभावस्यापरिहार्यत्वात् ।
स्यादेतत् —
कर्तृत्वभोक्तृत्वकार्यम् अनर्थः,
न तच्छक्तिः,
तेन शक्त्यवस्थानेऽपि कार्यपरिहारादुपपन्नो मोक्ष इति —
तच्च न ।
शक्तिसद्भावे कार्यप्रसवस्य दुर्निवारत्वात् ।
अथापि स्यात् —
न केवला शक्तिः कार्यमारभते अनपेक्ष्य अन्यानि निमित्तानि ।
अत एकाकिनी सा स्थितापि नापराध्यतीति —
तच्च न,
निमित्तानामपि शक्तिलक्षणेन सम्बन्धेन नित्यसम्बद्धत्वात् ।
तस्मात् कर्तृत्वभोक्तृत्वस्वभावे सति आत्मनि,
असत्यां विद्यागम्यायां ब्रह्मात्मतायाम् ,
न कथञ्चन मोक्षं प्रति आशा अस्ति ।
श्रुतिश्च —
‘नान्यः पन्था विद्यतेऽयनाय’ (श्वे. उ. ३ । ८) इति ज्ञानादन्यं मोक्षमार्गं वारयति ॥
परस्मादनन्यत्वेऽपि जीवस्य सर्वव्यवहारलोपप्रसङ्गः,
प्रत्यक्षादिप्रमाणाप्रवृत्तेरिति चेत् —
न,
प्राक्प्रबोधात् स्वप्नव्यवहारवत् तदुपपत्तेः ।
शास्त्रं च ‘यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति’ (बृ. उ. २ । ४ । १४) इत्यादिना अप्रबुद्धविषये प्रत्यक्षादिव्यवहारमुक्त्वा,
पुनः प्रबुद्धविषये —
‘यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्’ (बृ. उ. २ । ४ । १४) इत्यादिना तदभावं दर्शयति ।
तदेवं परब्रह्मविदो गन्तव्यादिविज्ञानस्य वाधितत्वात् न कथञ्चन गतिरुपपादयितुं शक्या ।
किंविषयाः पुनर्गतिश्रुतय इति,
उच्यते —
सगुणविद्याविषया भविष्यन्ति ।
तथा हि —
क्वचित्पञ्चाग्निविद्यां प्रकृत्य गतिरुच्यते,
क्वचित्पर्यङ्कविद्याम् ,
क्वचिद्वैश्वानरविद्याम् ।
यत्रापि ब्रह्म प्रकृत्य गतिरुच्यते —
यथा ‘प्राणो ब्रह्म कं ब्रह्म खं ब्रह्म’ (छा. उ. ४ । १० । ४) इति ‘अथ यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म’ (छा. उ. ८ । १ । १) इति च,
तत्रापि वामनीत्वादिभिः सत्यकामादिभिश्च गुणैः सगुणस्यैव उपास्यत्वात् सम्भवति गतिः ।
न क्वचित्परब्रह्मविषया गतिः श्राव्यते ।
तथा गतिप्रतिषेधः श्रावितः —
‘न तस्य प्राणा उत्क्रामन्ति’ (बृ. उ. ४ । ४ । ६) इति ।
‘ब्रह्मविदाप्नोति परम्’ (तै. उ. २ । १ । १) इत्यादिषु तु,
सत्यपि आप्नोतेर्गत्यर्थत्वे,
वर्णितेन न्यायेन देशान्तरप्राप्त्यसम्भवात् स्वरूपप्रतिपत्तिरेवेयम् अविद्याध्यारोपितनामरूपप्रविलयापेक्षया अभिधीयते —
‘ब्रह्मैव सन्ब्रह्माप्येति’ (बृ. उ. ४ । ४ । ६) इत्यादिवत् इति द्रष्टव्यम् ।
अपि च परविषया गतिर्व्याख्यायमाना प्ररोचनाय वा स्यात् ,
अनुचिन्तनाय वा ?
तत्र प्ररोचनं तावत् ब्रह्मविदो न गत्युक्त्या क्रियते,
स्वसंवेद्येनैव अव्यवहितेन विद्यासमर्पितेन स्वास्थ्येन तत्सिद्धेः ।
न च नित्यसिद्धनिःश्रेयसनिवेदनस्य असाध्यफलस्य विज्ञानस्य गत्यनुचिन्तने काचिदपेक्षा उपपद्यते ।
तस्मादपरब्रह्मविषया गतिः ।
तत्र परापरब्रह्मविवेकानवधारणेन अपरस्मिन्ब्रह्मणि वर्तमाना गतिश्रुतयः परस्मिन्नध्यारोप्यन्ते ।
किं द्वे ब्रह्मणी परमपरं चेति ?
बाढं द्वे —
‘एतद्वै सत्यकाम परं चापरं च ब्रह्म यदोंकारः’ (प्र. उ. ५ । २) इत्यादिदर्शनात् ।
किं पुनः परं ब्रह्म किमपरमिति,
उच्यते —
यत्र अविद्याकृतनामरूपादिविशेषप्रतिषेधेन अस्थूलादिशब्दैर्ब्रह्मोपदिश्यते,
तत्परम् ।
तदेव यत्र नामरूपादिविशेषेण केनचिद्विशिष्टम् उपासनायोपदिश्यते —
‘मनोमयः प्राणशरीरो भारूपः’ (छा. उ. ३ । १४ । २) इत्यादिशब्दैः,
तदपरम् ।
ननु एवमद्वितीयश्रुतिरुपरुध्येत —
न,
अविद्याकृतनामरूपोपाधिकतया परिहृतत्वात् ।
तस्य च अपरब्रह्मोपासनस्य तत्सन्निधौ श्रूयमाणम् ‘स यदि पितृलोककामो भवति’ (छा. उ. ८ । २ । १) इत्यादि जगदैश्वर्यलक्षणं संसारगोचरमेव फलं भवति,
अनिवर्तितत्वादविद्यायाः ।
तस्य च देशविशेषावबद्धत्वात् तत्प्राप्त्यर्थं गमनमविरुद्धम् ।
सर्वगतत्वेऽपि च आत्मनः,
आकाशस्येव घटादिगमने,
बुद्ध्याद्युपाधिगमने गमनप्रसिद्धिः इत्यवादिष्म ‘तद्गुणसारत्वात्’ (ब्र. सू. २ । ३ । २९) इत्यत्र ।
तस्मात् ‘कार्यं बादरिः’ (ब्र. सू. ४ । ३ । ७) इत्येष एव स्थितः पक्षः ।
‘परं जैमिनिः’ (ब्र. सू. ४ । ३ । १२) इति तु पक्षान्तरप्रतिभानमात्रप्रदर्शनं प्रज्ञाविकासनायेति द्रष्टव्यम् ॥ १४ ॥
अप्रतीकालम्बनान्नयतीति बादरायण उभयथाऽदोषात्तत्क्रतुश्च ॥ १५ ॥
स्थितमेतत् —
कार्यविषया गतिः,
न परविषयेति ।
इदमिदानीं सन्दिह्यते —
किं सर्वान्विकारालम्बनान् अविशेषेणैव अमानवः पुरुषः प्रापयति ब्रह्मलोकम् ,
उत कांश्चिदेवेति ।
किं तावत्प्राप्तम् ?
सर्वेषामेव एषां विदुषाम् अन्यत्र परस्माद्ब्रह्मणः गतिः स्यात् ।
तथा हि ‘अनियमः सर्वासाम्’ (ब्र. सू. ३ । ३ । ३१) इत्यत्र अविशेषेणैव एषा विद्यान्तरेष्ववतारितेति ।
एवं प्राप्ते,
प्रत्याह —
अप्रतीकालम्बनानिति ।
प्रतीकालम्बनान्वर्जयित्वा सर्वानन्यान्विकारालम्बनान् नयति ब्रह्मलोकम् —
इति बादरायण आचार्यो मन्यते ।
न हि एवम् उभयथाभावाभ्युपगमे कश्चिद्दोषोऽस्ति,
अनियमन्यायस्य प्रतीकव्यतिरिक्तेष्वप्युपासनेषूपपत्तेः ।
तत्क्रतुश्च अस्य उभयथाभावस्य समर्थको हेतुर्द्रष्टव्यः ।
यो हि ब्रह्मक्रतुः,
स ब्राह्ममैश्वर्यमासीदेत् —
इति श्लिष्यते, ‘
तं यथा यथोपासते तदेव भवति’
इति श्रुतेः,
न तु प्रतीकेषु ब्रह्मक्रतुत्वमस्ति,
प्रतीकप्रधानत्वादुपासनस्य ।
ननु,
अब्रह्मक्रतुरपि ब्रह्म गच्छतीति श्रूयते;
यथा पञ्चाग्निविद्यायाम् —
‘स एनान्ब्रह्म गमयति’ (छा. उ. ४ । १५ । ५) इति ;
भवतु यत्र एवम् आहत्यवाद उपलभ्यते ।
तदभावे तु औत्सर्गिकेण तत्क्रतुन्यायेन ब्रह्मक्रतूनामेव तत्प्राप्तिः,
न इतरेषाम् —
इति गम्यते ॥ १५ ॥
विशेषं च दर्शयति ॥ १६ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छङ्करभगवतः कृतौ शारीरकमीमांसासूत्रभाष्ये
चतुर्थाध्यायस्य तृतीयः पादः ॥
‘एवमेवैष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते’ इति श्रूयते । तत्र संशयः — किं देवलोकाद्युपभोगस्थानेष्विव आगन्तुकेन केनचिद्विशेषेण अभिनिष्पद्यते, आहोस्वित् आत्ममात्रेणेति । किं तावत्प्राप्तम् ? स्थानान्तरेष्विव आगन्तुकेन केनचिद्रूपेण अभिनिष्पत्तिः स्यात् , मोक्षस्यापि फलत्वप्रसिद्धेः, अभिनिष्पद्यत इति च उत्पत्तिपर्यायत्वात् । स्वरूपमात्रेण चेदभिनिष्पत्तिः, पूर्वास्वप्यवस्थासु स्वरूपानपायात् विभाव्येत । तस्मात् विशेषेण केनचिदभिनिष्पद्यत इति । एवं प्राप्ते, ब्रूमः —
सम्पद्याविर्भावः स्वेनशब्दात् ॥ १ ॥
केवलेनैव आत्मना आविर्भवति, न धर्मान्तरेणेति । कुतः ? ‘स्वेन रूपेणाभिनिष्पद्यते’ इति स्वशब्दात् । अन्यथा हि स्वशब्देन विशेषणमनवकॢप्तं स्यात् । ननु, आत्मीयाभिप्रायः स्वशब्दो भविष्यति — न, तस्यावचनीयत्वात् । येनैव हि केनचिद्रूपेणाभिनिष्पद्यते, तस्यैव आत्मीयत्वोपपत्तेः, स्वेनेति विशेषणमनर्थकं स्यात् । आत्मवचनतायां तु अर्थवत् — केवलेनैव आत्मरूपेणाभिनिष्पद्यते, न आगन्तुकेनापररूपेणापीति ॥ १ ॥
कः पुनर्विशेषः पूर्वास्ववस्थासु , इह च स्वरूपानपायसाम्ये सतीत्यत आह —
मुक्तः प्रतिज्ञानात् ॥ २ ॥
अविभागेन दृष्टत्वात् ॥ ४ ॥
ब्राह्मेण जैमिनिरुपन्यासादिभ्यः ॥ ५ ॥
चितितन्मात्रेण तदात्मकत्वादित्यौडुलोमिः ॥ ६ ॥
यद्यपि अपहतपाप्मत्वादयो भेदेनैव धर्मा निर्दिश्यन्ते,
तथापि शब्द;विकल्पजा एव एते ।
पाप्मादिनिवृत्तिमात्रं हि तत्र गम्यते ।
चैतन्यमेव तु अस्य आत्मनः स्वरूपमिति तन्मात्रेण स्वरूपेण अभिनिष्पत्तिर्युक्ता तथा च श्रुतिः ‘एवं वा अरेऽयमात्मानन्तरोऽबाह्यः कृत्स्नः प्रज्ञानघन एव’ (बृ. उ. ४ । ५ । १३) इत्येवंजातीयका अनुगृहीता भविष्यति ।
सत्यकामत्वादयस्तु यद्यपि वस्तुस्वरूपेणैव धर्मा उच्यन्ते —
सत्याः कामा अस्येति,
तथापि उपाधिसम्बन्धाधीनत्वात्तेषां न चैतन्यवत् स्वरूपत्वसम्भवः,
अनेकाकारत्वप्रतिषेधात् ।
प्रतिषिद्धं हि ब्रह्मणोऽनेकाकारत्वम् ‘न स्थानतोऽपि परस्योभयलिङ्गम्’ (ब्र. सू. ३ । २ । ११) इत्यत्र ।
अत एव च जक्षणादिसङ्कीर्तनमपि दुःखाभावमात्राभिप्रायं स्तुत्यर्थम् ‘
आत्मरतिः’
इत्यादिवत् ।
न हि मुख्यान्येव रतिक्रीडामिथुनानि आत्मनि शक्यन्ते वर्णयितुम् ,
द्वितीयविषयत्वात्तेषाम् ।
तस्मान्निरस्ताशेषप्रपञ्चेन प्रसन्नेन अव्यपदेश्येन बोधात्मना अभिनिष्पद्यत इत्यौडुलोमिराचार्यो मन्यते ॥ ६ ॥
एवमप्युपन्यासात्पूर्वभावादविरोधं बादरायणः ॥ ७ ॥
एवमपि पारमार्थिकचैतन्यमात्रस्वरूपाभ्युपगमेऽपि व्यवहारापेक्षया पूर्वस्यापि उपन्यासादिभ्योऽवगतस्य ब्राह्मस्य ऐश्वर्यरूपस्य अप्रत्याख्यानादविरोधं बादरायण आचार्यो मन्यते ॥ ७ ॥
सङ्कल्पादेव तु तच्छ्रुतेः ॥ ८ ॥
हार्दविद्यायां श्रूयते —
‘स यदि पितृलोककामो भवति सङ्कल्पादेवास्य पितरः समुत्तिष्ठन्ति’ (छा. उ. ८ । २ । १) इत्यादि ।
तत्र संशयः —
किं सङ्कल्प एव केवलः पित्रादिसमुत्थाने हेतुः,
उत निमित्तान्तरसहित इति ।
तत्र सत्यपि ‘
सङ्कल्पादेव’
इति श्रवणे लोकवत् निमित्तान्तरापेक्षा युक्ता ।
यथा लोके अस्मदादीनां सङ्कल्पात् गमनादिभ्यश्च हेतुभ्यः पित्रादिसम्पत्तिर्भवति एवं मुक्तस्यापि स्यात् ।
एवं दृष्टविपरीतं न कल्पितं भविष्यति । ‘
सङ्कल्पादेव’
इति तु राज्ञ इव सङ्कल्पितार्थसिद्धिकरीं साधनान्तरसामग्रीं सुलभामपेक्ष्य उच्यते ।
न च सङ्कल्पमात्रसमुत्थानाः पित्रादयः मनोरथविजृम्भितवत् चञ्चलत्वात् पुष्कलं भोगं समर्पयितुं पर्याप्ताः स्युरिति ।
एवं प्राप्ते,
ब्रूमः —
सङ्कल्पादेव तु केवलात् पित्रादिसमुत्थानमिति ।
कुतः ?
तच्छ्रुतेः ।
‘सङ्कल्पादेवास्य पितरः समुत्तिष्ठन्ति’ (छा. उ. ८ । २ । १) इत्यादिका हि श्रुतिर्निमित्तान्तरापेक्षायां पीड्येत ।
निमित्तान्तरमपि तु यदि सङ्कल्पानुविधाय्येव स्यात् ,
भवतु;
न तु प्रयत्नान्तरसम्पाद्यं निमित्तान्तरमितीष्यते,
प्राक्तत्सम्पत्तेः वन्ध्यसङ्कल्पत्वप्रसङ्गात् ।
न च श्रुत्यवगम्येऽर्थे लोकवदिति सामान्यतो दृष्टं क्रमते ।
सङ्कल्पबलादेव च एषां यावत्प्रयोजनं स्थैर्योपपत्तिः,
प्राकृतसङ्कल्पविलक्षणत्वान्मुक्तसङ्कल्पस्य ॥ ८ ॥
अत एव चानन्याधिपतिः ॥ ९ ॥
अभावं बादरिराह ह्येवम् ॥ १० ॥
भावं जैमिनिर्विकल्पामननात् ॥ ११ ॥
जैमिनिस्त्वाचार्यः मनोवत् शरीरस्यापि सेन्द्रियस्य भावं मुक्तं प्रति मन्यते;
यतः ‘स एकधा भवति त्रिधा भवति’ (छा. उ. ७ । २६ । २) इत्यादिना अनेकधाभावविकल्पमामनन्ति ।
न हि अनेकविधता विना शरीरभेदेन आञ्जसी स्यात् ।
यद्यपि निर्गुणायां भूमविद्यायाम् अयमनेकधाभावविकल्पः पठ्यते,
तथापि विद्यमानमेवेदं सगुणावस्थायाम् ऐश्वर्यं भूमविद्यास्तुतये सङ्कीर्त्यत इत्यतः सगुणविद्याफलभावेन उपतिष्ठत इत्युच्यते ॥ ११ ॥
द्वादशाहवदुभयविधं बादरायणोऽतः ॥ १२ ॥
बादरायणः पुनराचार्यः अत एव उभयलिङ्गश्रुतिदर्शनात् उभयविधत्वं साधु मन्यते — यदा सशरीरतां सङ्कल्पयति तदा सशरीरो भवति, यदा तु अशरीरतां तदा अशरीर इति; सत्यसङ्कल्पत्वात् , सङ्कल्पवैचित्र्याच्च । द्वादशाहवत् — यथा द्वादशाहः सत्रम् अहीनश्च भवति, उभयलिङ्गश्रुतिदर्शनात् — एवमिदमपीति ॥ १२ ॥
तन्वभावे सन्ध्यवदुपपत्तेः ॥ १३ ॥
यदा तनोः सेन्द्रियस्य शरीरस्य अभावः तदा, यथा सन्ध्ये स्थाने शरीरेन्द्रियविषयेष्वविद्यमानेष्वपि उपलब्धिमात्रा एव पित्रादिकामा भवन्ति, एवं मोक्षेऽपि स्युः । एवं हि एतदुपपद्यते ॥ १३ ॥
भावे जाग्रद्वत् ॥ १४ ॥
भावे पुनः तनोः, यथा जागरिते विद्यमाना एव पित्रादिकामा भवन्ति, एवं मुक्तस्याप्युपपद्यते ॥ १४ ॥
प्रदीपवदावेशस्तथा हि दर्शयति ॥ १५ ॥
‘भावं जैमिनिर्विकल्पामननात्’ (ब्र. सू. ४ । ४ । ११) इत्यत्र सशरीरत्वं मुक्तस्योक्तम् ।
तत्र त्रिधाभावादिषु अनेकशरीरसर्गे किं निरात्मकानि शरीराणि दारुयन्त्रवत्सृज्यन्ते,
किं वा सात्मकान्यस्मदादिशरीरवत् —
इति भवति वीक्षा ।
तत्र च आत्ममनसोः भेदानुपपत्तेः एकेन शरीरेण योगात् इतराणि शरीराणि निरात्मकानि —
इत्येवं प्राप्ते,
प्रतिपद्यते —
प्रदीपवदावेश इति ।
यथा प्रदीप एकः अनेकप्रदीपभावमापद्यते,
विकारशक्तियोगात् ,
एवमेकोऽपि सन् विद्वान् ऐश्वर्ययोगादनेकभावमापद्य सर्वाणि शरीराण्याविशति ।
कुतः ?
तथा हि दर्शयति शास्त्रमेकस्यानेकभावम् —
‘स एकधा भवति त्रिधा भवति पञ्चधा सप्तधा नवधा’ (छा. उ. ७ । २६ । २) इत्यादि ।
नैतद्दारुयन्त्रोपमाभ्युपगमेऽवकल्पते,
नापि जीवान्तरावेशे ।
न च निरात्मकानां शरीराणां प्रवृत्तिः सम्भवति ।
यत्तु आत्ममनसोर्भेदानुपपत्तेः अनेकशरीरयोगासम्भव इति —
नैष दोषः;
एकमनोनुवर्तीनि समनस्कान्येवापराणि शरीराणि सत्यसङ्कल्पत्वात् स्रक्ष्यति ।
सृष्टेषु च तेषु उपाधिभेदात् आत्मनोऽपि भेदेनाधिष्ठातृत्वं योक्ष्यते ।
एषैव च योगशास्त्रेषु योगिनामनेकशरीरयोगप्रक्रिया ॥ १५ ॥
स्वाप्ययसम्पत्त्योरन्यतरापेक्षमाविष्कृतं हि ॥ १६ ॥
जगद्व्यापारवर्जं प्रकरणादसन्निहितत्वाच्च ॥ १७ ॥
ये सगुणब्रह्मोपासनात् सहैव मनसा ईश्वरसायुज्यं व्रजन्ति,
किं तेषां निरवग्रहमैश्वर्यं भवति,
आहोस्वित्सावग्रहमिति संशयः ।
किं तावत्प्राप्तम् ?
निरङ्कुशमेव एषामैश्वर्यं भवितुमर्हति,
‘आप्नोति स्वाराज्यम्’ (तै. उ. १ । ६ । २) ‘सर्वेऽस्मै देवा बलिमावहन्ति’ (तै. उ. १ । ५ । ३) ‘तेषां सर्वेषु लोकेषु कामचारो भवति’ (छा. उ. ७ । २५ । २) इत्यादिश्रुतिभ्य इति ।
एवं प्राप्ते,
पठति —
जगद्व्यापारवर्जमिति ।
जगदुत्पत्त्यादिव्यापारं वर्जयित्वा अन्यत् अणिमाद्यात्मकमैश्वर्यं मुक्तानां भवितुमर्हति,
जगद्व्यापारस्तु नित्यसिद्धस्यैव ईश्वरस्य ।
कुतः ?
तस्य तत्र प्रकृतत्वात्;
असन्निहितत्वाच्चेतरेषाम् ।
पर एव हि ईश्वरो जगद्व्यापारेऽधिकृतः,
तमेव प्रकृत्य उत्पत्त्याद्युपदेशात् ,
नित्यशब्दनिबन्धनत्वाच्च ।
तदन्वेषणविजिज्ञासनपूर्वकं तु इतरेषामणिमाद्यैश्वर्यं श्रूयते ।
तेनासन्निहितास्ते जगद्व्यापारे ।
समनस्कत्वादेव च एतेषामनैकमत्ये,
कस्यचित्स्थित्यभिप्रायः कस्यचित्संहाराभिप्राय इत्येवं विरोधोऽपि कदाचित्स्यात् ।
अथ कस्यचित् सङ्कल्पमनु अन्यस्य सङ्कल्प इत्यविरोधः समर्थ्येत,
ततः परमेश्वराकूततन्त्रत्वमेवेतरेषामिति व्यवतिष्ठते ॥ १७ ॥
प्रत्यक्षोपदेशादिति चेन्नाधिकारिकमण्डलस्थोक्तेः ॥ १८ ॥
अथ यदुक्तम् —
‘आप्नोति स्वाराज्यम्’ (तै. उ. १ । ६ । २) इत्यादिप्रत्यक्षोपदेशात् निरवग्रहमैश्वर्यं विदुषां न्याय्यमिति,
तत्परिहर्तव्यम् ।
अत्रोच्यते —
नायं दोषः,
आधिकारिकमण्डलस्थोक्तेः ।
आधिकारिको यः सवितृमण्डलादिषु विशेषायतनेष्ववस्थितः पर ईश्वरः,
तदायत्तैव इयं स्वाराज्यप्राप्तिरुच्यते;
यत्कारणम् अनन्तरम् ‘आप्नोति मनसस्पतिम्’ (तै. उ. १ । ६ । २) इत्याह ।
यो हि सर्वमनसां पतिः पूर्वसिद्ध ईश्वरः तं प्राप्नोतीत्येतदुक्तं भवति ।
तदनुसारेणैव च अनन्तरम् ‘
वाक्पतिश्चक्षुष्पतिः ।
श्रोत्रपतिर्विज्ञानपतिः’
च भवति इत्याह ।
एवमन्यत्रापि यथासम्भवं नित्यसिद्धेश्वरायत्तमेव इतरेषामैश्वर्यं योजयितव्यम् ॥ १८ ॥
विकारावर्ति च तथा हि स्थितिमाह ॥ १९ ॥
दर्शयतश्चैवं प्रत्यक्षानुमाने ॥ २० ॥
भोगमात्रसाम्यलिङ्गाच्च ॥ २१ ॥
इतश्च न निरङ्कुशं विकारालम्बनानामैश्वर्यम् ,
यस्मात् भोगमात्रमेव एषाम् अनादिसिद्धेनेश्वरेण समानमिति श्रूयते — ‘
तमाहापो वै खलु मीयन्ते लोकोऽसौ’
इति ‘
स यथैतां देवताꣳ सर्वाणि भूतान्यवन्त्येवꣳ हैवंविदꣳ सर्वाणि भूतान्यवन्ति’
‘तेनो एतस्यै देवतायै सायुज्यꣳ सलोकतां जयति’ (बृ. उ. १ । ५ । २३) इत्यादिभेदव्यपदेशलिङ्गेभ्यः ॥ २१ ॥
ननु एवं सति सातिशयत्वादन्तवत्त्वम् ऐश्वर्यस्य स्यात् । ततश्च एषामावृत्तिः प्रसज्येत — इत्यतः उत्तरं भगवान्बादरायण आचार्यः पठति —
अनावृत्तिः शब्दादनावृत्तिः शब्दात् ॥ २२ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छङ्करभगवतः कृतौ शारीरकमीमांसासूत्रभाष्ये
चतुर्थोऽध्यायः ॥
इति श्रीमच्छारीरकमीमांसासूत्रभाष्यं सम्पूर्णम् ॥