श्रीमच्छङ्करभगवत्पूज्यपादविरचितम्

बृहदारण्यकोपनिषद्भाष्यम्

करतलकलिताद्वयात्मतत्त्वं क्षपितदुरन्तचिरन्तनप्रमोहम् ।
उपचितमुदितोदितैर्गुणौघैः उपनिषदामयमुज्जहार भाष्यम् ।।

change script to

ओं यो ह वै ज्येष्ठं च श्रेष्ठं च वेद ज्येष्ठश्च श्रेष्ठश्च स्वानां भवति प्राणो वै ज्येष्ठश्च श्रेष्ठश्च ज्येष्ठश्च श्रेष्ठश्च स्वानां भवत्यपि च येषां बुभूषति य एवं वेद ॥ १ ॥
ओं प्राणो गायत्रीत्युक्तम् । कस्मात्पुनः कारणात् प्राणभावः गायत्र्याः, न पुनर्वागादिभाव इति, यस्मात् ज्येष्ठश्च श्रेष्ठश्च प्राणः, न वागादयो ज्यैष्ठ्यश्रैष्ठ्यभाजः ; कथं ज्येष्ठत्वं श्रेष्ठत्वं च प्राणस्येति तन्निर्दिधारयिषया इदमारभ्यते । अथवा उक्थयजुःसामक्षत्त्रादिभावैः प्राणस्यैव उपासनमभिहितम् , सत्स्वपि अन्येषु चक्षुरादिषु ; तत्र हेतुमात्रमिह आनन्तर्येण सम्बध्यते ; न पुनः पूर्वशेषता । विवक्षितं तु खिलत्वादस्य काण्डस्य पूर्वत्र यदनुक्तं विशिष्टफलं प्राणविषयमुपासनं तद्वक्तव्यमिति । यः कश्चित् , ह वै इत्यवधारणार्थौ ; यो ज्येष्ठश्रेष्ठगुणं वक्ष्यमाणं यो वेद असौ भवत्येव ज्येष्ठश्च श्रेष्ठश्च ; एवं फलेन प्रलोभितः सन् प्रश्नाय अभिमुखीभूतः ; तस्मै चाह — प्राणो वै ज्येष्ठश्च श्रेष्ठश्च । कथं पुनरवगम्यते प्राणो ज्येष्ठश्च श्रेष्ठश्चेति, यस्मात् निषेककाल एव शुक्रशोणितसम्बन्धः प्राणादिकलापस्याविशिष्टः ? तथापि न अप्राणं शुक्रं विरोहतीति प्रथमो वृत्तिलाभः प्राणस्य चक्षुरादिभ्यः ; अतो ज्येष्ठो वयसा प्राणः ; निषेककालादारभ्य गर्भं पुष्यति प्राणः ; प्राणे हि लब्धवृत्तौ पश्चाच्चक्षुरादीनां वृत्तिलाभः ; अतो युक्तं प्राणस्य ज्येष्ठत्वं चक्षुरादिषु ; भवति तु कश्चित्कुले ज्येष्ठः, गुणहीनत्वात्तु न श्रेष्ठः ; मध्यमः कनिष्ठो वा गुणाढ्यत्वात् भवेत् श्रेष्ठः, न ज्येष्ठः ; न तु तथा इहेत्याह — प्राण एव तु ज्येष्ठश्च श्रेष्ठश्च । कथं पुनः श्रैष्ठ्यमवगम्यते प्राणस्य ? तदिह संवादेन दर्शयिष्यामः । सर्वथापि तु प्राणं ज्येष्ठश्रेष्ठगुणं यो वेद उपास्ते, स स्वानां ज्ञातीनां ज्येष्ठश्च श्रेष्ठश्च भवति, ज्येष्ठश्रेष्ठगुणोपासनसामर्थ्यात् ; स्वव्यतिरेकेणापि च येषां मध्ये ज्येष्ठश्च श्रेष्ठश्च भविष्यामीति बुभूषति भवितुमिच्छति, तेषामपि ज्येष्ठश्रेष्ठप्राणदर्शी ज्येष्ठश्च श्रेष्ठश्च भवति । ननु वयोनिमित्तं ज्येष्ठत्वम् , तत् इच्छातः कथं भवतीत्युच्यते — नैष दोषः, प्राणवत् वृत्तिलाभस्यैव ज्येष्ठत्वस्य विवक्षितत्वात् ॥
यो ह वै वसिष्ठां वेद वसिष्ठः स्वानां भवति वाग्वै वसिष्ठा वसिष्ठः स्वानां भवत्यपि च येषां बुभूषति य एवं वेद ॥ २ ॥
यो ह वै वसिष्ठां वेद वसिष्ठः स्वानां भवति । तद्दर्शनानुरूप्येण फलम् । येषां च ज्ञातिव्यतिरेकेण वसिष्ठो भवितुमिच्छति, तेषां च वसिष्ठो भवति । उच्यतां तर्हि, कासौ वसिष्ठेति ; वाग्वै वसिष्ठा ; वासयत्यतिशयेन वस्ते वेति वसिष्ठा ; वाग्ग्मिनो हि धनवन्तो वसन्त्यतिशयेन ; आच्छादनार्थस्य वा वसेर्वसिष्ठा ; अभिभवन्ति हि वाचा वाग्ग्मिनः अन्यान् । तेन वसिष्ठगुणवत्परिज्ञानात् वसिष्ठगुणो भवतीति दर्शनानुरूपं फलम् ॥
यो ह वै प्रतिष्ठां वेद प्रतितिष्ठति समे प्रतितिष्ठति दुर्गे चक्षुर्वै प्रतिष्ठा चक्षुषा हि समे च दुर्गे च प्रतितिष्ठति प्रतितिष्ठति समे प्रतितिष्ठति दुर्गे य एवं वेद ॥ ३ ॥
यो ह वै प्रतिष्ठां वेद, प्रतितिष्ठत्यनयेति प्रतिष्ठा, तां प्रतिष्ठां प्रतिष्ठागुणवतीं यो वेद, तस्य एतत्फलम् ; प्रतितिष्ठति समे देशे काले च ; तथा दुर्गे विषमे च दुर्गमने च देशे दुर्भिक्षादौ वा काले विषमे । यद्येवमुच्यताम् , कासौ प्रतिष्ठा ; चक्षुर्वै प्रतिष्ठा ; कथं चक्षुषः प्रतिष्ठात्वमित्याह — चक्षुषा हि समे च दुर्गे च दृष्ट्वा प्रतितिष्ठति । अतोऽनुरूपं फलम् , प्रतितिष्ठति समे, प्रतितिष्ठति दुर्गे, य एवं वेदेति ॥
यो ह वै सम्पदं वेद सं हास्मै पद्यते यं कामं कामयते श्रोत्रं वै सम्पच्छ्रोत्रे हीमे सर्वे वेदा अभिसम्पन्नाः सं हास्मै पद्यते यं कामं कामयते य एवं वेद ॥ ४ ॥
यो ह वै सम्पदं वेद, सम्पद्गुणयुक्तं यो वेद, तस्य एतत्फलम् ; अस्मै विदुषे सम्पद्यते ह ; किम् ? यं कामं कामयते, स कामः । किं पुनः सम्पद्गुणकम् ? श्रोत्रं वै सम्पत् । कथं पुनः श्रोत्रस्य सम्पद्गुणत्वमित्युच्यते — श्रोत्रे सति हि यस्मात् सर्वे वेदा अभिसम्पन्नाः, श्रोत्रेन्द्रियवतोऽध्येयत्वात् ; वेदविहितकर्मायत्ताश्च कामाः ; तस्मात् श्रोत्रं सम्पत् । अतो विज्ञानानुरूपं फलम् , सं हास्मै पद्यते, यं कामं कामयते, य एवं वेद ॥
यो ह वा आयतनं वेदायतनं स्वानां भवत्यायतनं जनानां मनो वा आयतनमायतनं स्वानां भवत्यायतनं जनानां य एवं वेद ॥ ५ ॥
यो ह वा आयतनं वेद ; आयतनम् आश्रयः, तत् यो वेद, आयतनं स्वानां भवति, आयतनं जनानामन्येषामपि । किं पुनः तत् आयतनमित्युच्यते — मनो वै आयतनम् आश्रयः इन्द्रियाणां विषयाणां च ; मनआश्रिता हि विषया आत्मनो भोग्यत्वं प्रतिपद्यन्ते ; मनःसङ्कल्पवशानि च इन्द्रियाणि प्रवर्तन्ते निवर्तन्ते च ; अतो मन आयतनम् इन्द्रियाणाम् । अतो दर्शनानुरूप्येण फलम् , आयतनं स्वानां भवति, आयतनं जनानाम् , य एवं वेद ॥
यो ह वै प्रजातिं वेद प्रजायते ह प्रजया पशुभी रेतो वै प्रजातिः प्रजायते ह प्रजया पशुभिर्य एवं वेद ॥ ६ ॥
यो ह वै प्रजातिं वेद, प्रजायते ह प्रजया पशुभिश्च सम्पन्नो भवति । रेतो वै प्रजातिः ; रेतसा प्रजननेन्द्रियमुपलक्ष्यते । तद्विज्ञानानुरूपं फलम् , प्रजायते ह प्रजया पशुभिः, य एवं वेद ॥
ते हेमे प्राणा अहंश्रेयसे विवदमाना ब्रह्म जग्मुस्तद्धोचुः को नो वसिष्ठ इति तद्धोवाच यस्मिन्व उत्क्रान्त इदं शरीरं पापीयो मन्यते स वो वसिष्ठ इति ॥ ७ ॥
ते हेमे प्राणा वागादयः, अहंश्रेयसे अहं श्रेयानित्येतस्मै प्रयोजनाय, विवदमानाः विरुद्धं वदमानाः, ब्रह्म जग्मुः ब्रह्म गतवन्तः, ब्रह्मशब्दवाच्यं प्रजापतिम् ; गत्वा च तद्ब्रह्म ह ऊचुः उक्तवन्तः — कः नः अस्माकं मध्ये, वसिष्ठः, कोऽस्माकं मध्ये वसति च वासयति च । तद्ब्रह्म तैः पृष्टं सत् ह उवाच उक्तवत् — यस्मिन् वः युष्माकं मध्ये उत्क्रान्ते निर्गते शरीरात् , इदं शरीरं पूर्वस्मादतिशयेन पापीयः पापतरं मन्यते लोकः ; शरीरं हि नाम अनेकाशुचिसङ्घातत्वात् जीवतोऽपि पापमेव, ततोऽपि कष्टतरं यस्मिन् उत्क्रान्ते भवति ; वैराग्यार्थमिदमुच्यते — पापीय इति ; स वः युष्माकं मध्ये वसिष्ठो भविष्यति । जानन्नपि वसिष्ठं प्रजापतिः नोवाच अयं वसिष्ठ इति इतरेषाम् अप्रियपरिहाराय ॥
वाग्घोच्चक्राम सा संवत्सरं प्रोष्यागत्योवाच कथमशकत मदृते जीवितुमिति ते होचुर्यथाकला अवदन्तो वाचा प्राणन्तः प्राणेन पश्यन्तश्चक्षुषा शृण्वन्तः श्रोत्रेण विद्वांसो मनसा प्रजायमाना रेतसैवमजीविष्मेति प्रविवेश ह वाक् ॥ ८ ॥
ते एवमुक्ता ब्रह्मणा प्राणाः आत्मनो वीर्यपरीक्षणाय क्रमेण उच्चक्रमुः । तत्र वागेव प्रथमं ह अस्मात् शरीरात् उच्चक्राम उत्क्रान्तवती ; सा चोत्क्रम्य, संवत्सरं प्रोष्य प्रोषिता भूत्वा, पुनरागत्योवाच — कथम् अशकत शक्तवन्तः यूयम् , मदृते मां विना, जीवितुमिति । ते एवमुक्ताः ऊचुः — यथा लोके अकलाः मूकाः, अवदन्तः वाचा, प्राणन्तः प्राणनव्यापारं कुर्वन्तः प्राणेन, पश्यन्तः दर्शनव्यापारं चक्षुषा कुर्वन्तः, तथा शृण्वन्तः श्रोत्रेण, विद्वांसः मनसा कार्याकार्यादिविषयम् , प्रजायमानाः रेतसा पुत्रान् उत्पादयन्तः, एवमजीविष्म वयम् — इत्येवं प्राणैः दत्तोत्तरा वाक् आत्मनः अस्मिन् अवसिष्ठत्वं बुद्ध्वा, प्रविवेश ह वाक् ॥
चक्षुर्होच्चक्राम तत्संवत्सरं प्रोष्यागत्योवाच कथमशकत मदृते जीवितुमिति ते होचुर्यथान्धा अपश्यन्तश्चक्षुषा प्राणन्तः प्राणेन वदन्तो वाचा शृण्वन्तः श्रोत्रेण विद्वांसो मनसा प्रजायमाना रेतसैवमजीविष्मेति प्रविवेश ह चक्षुः ॥ ९ ॥
श्रोत्रं होच्चक्राम तत्संवत्सरं प्रोष्यागत्योवाच कथमशकत मदृते जीवितुमिति ते होचुर्यथा बधिरा अशृण्वन्तः श्रोत्रेण प्राणान्तः प्राणेन वदन्तो वाचा पश्यन्तश्चक्षुषा विद्वांसो मनसा प्रजायमाना रेतसैवमजीविष्मेति प्रविवेश ह श्रोत्रम् ॥ १० ॥
मनो होच्चक्राम तत्संवत्सरं प्रोष्यागत्योवाच कथमशकत मदृते जीवितुमिति ते होचुर्यथा मुग्धा अविद्वांसो मनसा प्राणन्तः प्राणेन वदन्तो वाचा पश्यन्तश्चक्षुषा शृण्वन्तः श्रोत्रेण प्रजायमाना रेतसैवमजीविष्मेति प्रविवेश ह मनः ॥ ११ ॥
रेतो होच्चक्राम तत्संवत्सरं प्रोष्यागत्योवाच कथमशकत मदृते जीवितुमिति ते होचुर्यथा क्लीबा अप्रजायमाना रेतसा प्राणन्तः प्राणेन वदन्तो वाचा पश्यन्तश्चक्षुषा शृण्वन्तः श्रोत्रेण विद्वांसो मनसैवमजीविष्मेति प्रविवेश ह रेतः ॥ १२ ॥
तथा चक्षुर्होच्चक्रामेत्यादि पूर्ववत् । श्रोत्रं मनः प्रजातिरिति ॥
अथ ह प्राण उत्क्रमिष्यन्यथा महासुहयः सैन्धवः पड्वीशशङ्कून्संवृहेदेवं हैवेमान्प्राणान्संववर्ह ते होचुर्मा भगव उत्क्रमीर्न वै शक्ष्यामस्त्वदृते जीवितुमिति तस्यो मे बलिं कुरुतेति तथेति ॥ १३ ॥
अथ ह प्राण उत्क्रमिष्यन् उत्क्रमणं करिष्यन् ; तदानीमेव स्वस्थानात्प्रचलिता वागादयः । किमिवेत्याह — यथा लोके, महांश्चासौ सुहयश्च महासुहयः, शोभनो हयः लक्षणोपेतः, महान् परिमाणतः, सिन्धुदेशे भवः सैन्धवः अभिजनतः, पड्वीशशङ्कून् पादबन्धनशङ्कून् , पड्वीशाश्च ते शङ्कवश्च तान् , संवृहेत् उद्यच्छेत् युगपदुत्खनेत् अश्वारोहे आरूढे परीक्षणाय ; एवं ह एव इमान् वागादीन् प्राणान् संववर्ह उद्यतवान् स्वस्थानात् भ्रंशितवान् । ते वागादयः ह ऊचुः — हे भगवः भगवन् मा उत्क्रमीः ; यस्मात् न वै शक्ष्यामः त्वदृते त्वां विना जीवितुमिति । यद्येवं मम श्रेष्ठता विज्ञाता भवद्भिः, अहमत्र श्रेष्ठः, तस्य उ मे मम बलिं करं कुरुत करं प्रयच्छतेति । अयं च प्राणसंवादः कल्पितः विदुषः श्रेष्ठपरीक्षणप्रकारोपदेशः ; अनेन हि प्रकारेण विद्वान् को नु खलु अत्र श्रेष्ठ इति परीक्षणं करोति ; स एष परीक्षणप्रकारः संवादभूतः कथ्यते ; न हि अन्यथा संहत्यकारिणां सताम् एषाम् अञ्जसैव संवत्सरमात्रमेव एकैकस्य निर्गमनादि उपपद्यते ; तस्मात् विद्वानेव अनेन प्रकारेण विचारयति वागादीनां प्रधानबुभुत्सुः उपासनाय ; बलिं प्रार्थिताः सन्तः प्राणाः, तथेति प्रतिज्ञातवन्तः ॥
सा ह वागुवाच यद्वा अहं वसिष्ठास्मि त्वं तद्वसिष्ठोऽसीति यद्वा अहं प्रतिष्ठास्मि त्वं तत्प्रतिष्ठोऽसीति चक्षुर्यद्वा अहं सम्पदस्मि त्वं तत्सम्पदसीति श्रोत्रं यद्वा अहमायतनमस्मि त्वं तदायतनमसीति मनो यद्वा अहं प्रजातिरस्मि त्वं तत्प्रजातिरसीति रेतस्तस्यो मे किमन्नं किं वास इति यदिदं किञ्चाश्वभ्य आ कृमिभ्य आ कीटपतङ्गेभ्यस्तत्तेऽन्नमापो वास इति न ह वा अस्यानन्नं जग्धं भवति नानन्नं प्रतिगृहीतं य एवमेतदनस्यान्नं वेद तद्विद्वांसः श्रोत्रिया अशिष्यन्त आचामन्त्यशित्वाचामन्त्येतमेव तदनमनग्नं कुर्वन्तो मन्यन्ते ॥ १४ ॥
सा ह वाक् प्रथमं बलिदानाय प्रवृत्ता ह किल उवाच उक्तवती — यत् वै अहं वसिष्ठास्मि, यत् मम वसिष्ठत्वम् , तत् तवैव ; तेन वसिष्ठगुणेन त्वं तद्वसिष्ठोऽसीति । यत् वै अहं प्रतिष्ठास्मि, त्वं तत्प्रतिष्ठोऽसि, या मम प्रतिष्ठा सा त्वमसीति चक्षुः । समानम् अन्यत् । सम्पदायतनप्रजातित्वगुणान् क्रमेण समर्पितवन्तः । यद्येवम् , साधु बलिं दत्तवन्तो भवन्तः ; ब्रूत — तस्य उ मे एवंगुणविशिष्टस्य किमन्नम् , किं वास इति ; आहुरितरे — यदिदं लोके किञ्च किञ्चित् अन्नं नाम आ श्वभ्यः आ कृमिभ्यः आ कीटपतङ्गेभ्यः, यच्च श्वान्नं कृम्यन्नं कीटपतङ्गान्नं च, तेन सह सर्वमेव यत्किञ्चित् प्राणिभिरद्यमानम् अन्नम् , तत्सर्वं तवान्नम् । सर्वं प्राणस्यान्नमिति दृष्टिः अत्र विधीयते ॥
केचित्तु सर्वभक्षणे दोषाभावं वदन्ति प्राणान्नविदः ; तत् असत् , शास्त्रान्तरेण प्रतिषिद्धत्वात् । तेनास्य विकल्प इति चेत् , न, अविधायकत्वात् । न ह वा अस्यानन्नं जग्धं भवतीति — सर्वं प्राणस्यान्नमित्येतस्य विज्ञानस्य विहितस्य स्तुत्यर्थमेतत् ; तेनैकवाक्यतापत्तेः ; न तु शास्त्रान्तरविहितस्य बाधने सामर्थ्यम् , अन्यपरत्वादस्य । प्राणमात्रस्य सर्वमन्नम् इत्येतदृर्शनम् इह विधित्सितम् , न तु सर्वं भक्षयेदिति । यत्तु सर्वभक्षणे दोषाभावज्ञानम् , तत् मिथ्यैव, प्रमाणाभावात् । विदुषः प्राणत्वात् सर्वान्नोपपत्तेः सामर्थ्यात् अदोष एवेति चेत् , न, अशेषान्नत्वानुपपत्तेः ; सत्यं यद्यपि विद्वान् प्राणः, येन कार्यकरणसङ्घातेन विशिष्टस्य विद्वत्ता तेन कार्यकरणसङ्घातेन कृमिकीटदेवाद्यशेषान्नभक्षणं नोपपद्यते ; तेन तत्र अशेषान्नभक्षणे दोषाभावज्ञापनमनर्थकम् , अप्राप्तत्वादशेषान्नभक्षणदोषस्य । ननु प्राणः सन् भक्षयत्येव कृमिकीटाद्यन्नमपि ; बाढम् , किन्तु न तद्विषयः प्रतिषेधोऽस्ति ; तस्मात् — दैवरक्तं किंशुकम् — तत्र दोषाभावः ; अतः तद्रूपेण दोषाभावज्ञापनमनर्थकम् , अप्राप्तत्वात् अशेषान्नभक्षणदोषस्य । येन तु कार्यकरणसङ्घातसम्बन्धेन प्रतिषेधः क्रियते, तत्सम्बन्धेन तु इह नैव प्रतिप्रसवोऽस्ति । तस्मात् तत्प्रतिषेधातिक्रमे दोष एव स्यात् , अन्यविषयत्वात् ‘न ह वै’ इत्यादेः । न च ब्राह्मणादिशरीरस्य सर्वान्नत्वदर्शनमिह विधीयते, किन्तु प्राणमात्रस्यैव । यथा च सामान्येन सर्वान्नस्य प्राणस्य किञ्चित् अन्नजातं कस्यचित् जीवनहेतुः, यथा विषं विषजस्य क्रिमेः, तदेव अन्यस्य प्राणान्नमपि सत् दृष्टमेव दोषमुत्पादयति मरणादिलक्षणम् — तथा सर्वान्नस्यापि प्राणस्य प्रतिषिद्धान्नभक्षणे ब्राह्मणत्वादिदेहसम्बन्धात् दोष एव स्यात् । तस्मात् मिथ्याज्ञानमेव अभक्ष्यभक्षणे दोषाभावज्ञानम् ॥
आपो वास इति ; आपः भक्ष्यमाणाः वासःस्थानीयास्तव । अत्र च प्राणस्य आपो वास इत्येतद्दर्शनं विधीयते ; न तु वासःकार्ये आपो विनियोक्तुं शक्याः ; तस्मात् यथाप्राप्ते अब्भक्षणे दर्शनमात्रं कर्तव्यम् । न ह वै अस्य सर्वं प्राणस्यान्नमित्येवंविदः अनन्नम् अनदनीयं जग्धं भुक्तं न भवति ह ; यद्यपि अनेन अनदनीयं भुक्तम् , अदनीयमेव भुक्तं स्यात् , न तु तत्कृतदोषेण लिप्यते — इत्येतत् विद्यास्तुतिरित्यवोचाम । तथा न अनन्नं प्रतिगृहीतम् ; यद्यपि अप्रतिग्राह्यं हस्त्यादि प्रतिगृहीतं स्यात् तदपि अन्नमेव प्रतिग्राह्यं प्रतिगृहीतं स्यात् , तत्रापि अप्रतिग्राह्यप्रतिग्रहदोषेण न लिप्यत इति स्तुत्यर्थमेव ; य एवम् एतत् अनस्य प्राणस्य अन्नं वेद ; फलं तु प्राणात्मभाव एव ; न त्वेतत् फलाभिप्रायेण, किं तर्हि स्तुत्यभिप्रायेणेति । ननु एतदेव फलं कस्मान्न भवति ? न, प्राणात्मदर्शिनः प्राणात्मभाव एव फलम् ; तत्र च प्राणात्मभूतस्य सर्वात्मनः अनदनीयमपि आद्यमेव, तथा अप्रतिग्राह्यमपि प्रतिग्राह्यमेव — इति यथाप्राप्तमेव उपादाय विद्या स्तूयते ; अतो नैव फलविधिसरूपता वाक्यस्य । यस्मात् आपो वासः प्राणस्य, तस्मात् विद्वांसः ब्राह्मणाः श्रोत्रिया अधीतवेदाः, अशिष्यन्तः भोक्ष्यमाणाः, आचामन्ति अपः ; अशित्वा आचामन्ति भुक्त्वा च उत्तरकालम् अपः भक्षयन्ति ; तत्र तेषामाचामतां कोऽभिप्राय इत्याह — एतमेवानं प्राणम् अनग्नं कुर्वन्तो मन्यन्ते ; अस्ति चैतत् — यो यस्मै वासो ददाति, स तम् अनग्नं करोमीति हि मन्यते ; प्राणस्य च आपो वास इति ह्युक्तम् । यदपः पिबामि तत्प्राणस्य वासो ददामि इति विज्ञानं कर्तव्यमित्येवमर्थमेतत् । ननु भोक्ष्यमाणः भुक्तवांश्च प्रयतो भविष्यामीत्याचामति ; तत्र च प्राणस्यानग्नताकरणार्थत्वे च द्विकार्यता आचमनस्य स्यात् ; न च कार्यद्वयम् आचमनस्य एकस्य युक्तम् ; यदि प्रायत्यार्थम् , न अनग्नतार्थम् ; अथ अनग्नतार्थम् , न प्रायत्यार्थम् ; यस्मादेवम् , तस्मात् द्वितीयम् आचमनान्तरं प्राणस्यानग्नताकरणाय भवतु — न, क्रियाद्वित्वोपपत्तेः ; द्वे ह्येते क्रिये ; भोक्ष्यमाणस्य भुक्तवतश्च यत् आचमनं स्मृतिविहितम् , तत् प्रायत्यार्थं भवति क्रियामात्रमेव ; न तु तत्र प्रायत्यं दर्शनादि अपेक्षते ; तत्र च आचमनाङ्गभूतास्वप्सु वासोविज्ञानं प्राणस्य इतिकर्तव्यतया चोद्यते ; न तु तस्मिन्क्रियमाणे आचमनस्य प्रायत्यार्थता बाध्यते, क्रियान्तरत्वादाचमनस्य । तस्मात् भोक्ष्यमाणस्य भुक्तवतश्च यत् आचमनम् , तत्र आपो वासः प्राणस्येति दर्शनमात्रं विधीयते, अप्राप्तत्वादन्यतः ॥
इति षष्ठाध्यायस्य प्रथमं ब्राह्मणम् ॥
श्वेतकेतुर्ह वा आरुणेय इत्यस्य सम्बन्धः । खिलाधिकारोऽयम् ; तत्र यदनुक्तं तदुच्यते । सप्तमाध्यायान्ते ज्ञानकर्मसमुच्चयकारिणा अग्नेर्मार्गयाचनं कृतम् — अग्ने नय सुपथेति । तत्र अनेकेषां पथां सद्भावः मन्त्रेण सामर्थ्यात्प्रदर्शितः, सुपथेति विशेषणात् । पन्थानश्च कृतविपाकप्रतिपत्तिमार्गाः ; वक्ष्यति च ‘यत्कृत्वा’ (बृ. उ. ६ । २ । २) इत्यादि । तत्र च कति कर्मविपाकप्रतिपत्तिमार्गा इति सर्वसंसारगत्युपसंहारार्थोऽयमारम्भः — एतावती हि संसारगतिः, एतावान् कर्मणो विपाकः स्वाभाविकस्य शास्त्रीयस्य च सविज्ञानस्येति । यद्यपि ‘द्वया ह प्राजापत्याः’ (बृ. उ. १ । ३ । १) इत्यत्र स्वाभाविकः पाप्मा सूचितः, न च तस्येदं कार्यमिति विपाकः प्रदर्शितः ; शास्त्रीयस्यैव तु विपाकः प्रदर्शितः त्र्यन्नात्मप्रतिपत्त्यन्तेन, ब्रह्मविद्यारम्भे तद्वैराग्यस्य विवक्षितत्वात् । तत्रापि केवलेन कर्मणा पितृलोकः, विद्यया विद्यासंयुक्तेन च कर्मणा देवलोक इत्युक्तम् । तत्र केन मार्गेण पितृलोकं प्रतिपद्यते, केन वा देवलोकमिति नोक्तम् । तच्च इह खिलप्रकरणे अशेषतो वक्तव्यमित्यत आरभ्यते । अन्ते च सर्वोपसंहारः शास्त्रस्येष्टः । अपि च एतावदमृतत्वमित्युक्तम् , न कर्मणः अमृतत्वाशा अस्तीति च ; तत्र हेतुः नोक्तः ; तदर्थश्चायमारम्भः । यस्मात् इयं कर्मणो गतिः, न नित्येऽमृतत्वे व्यापारोऽस्ति, तस्मात् एतावदेवामृतत्वसाधनमिति सामर्थ्यात् हेतुत्वं सम्पद्यते । अपि च उक्तमग्निहोत्रे — न त्वेवैतयोस्त्वमुत्क्रान्तिं न गतिं न प्रतिष्ठां न तृप्तिं न पुनरावृत्तिं न लोकं प्रत्युत्थायिनं वेत्थेति ; तत्र प्रतिवचने ‘ते वा एते आहुती हुते उत्क्रामतः’ (शत. ब्रा. ११ । ६ । २ । ४) इत्यादिना आहुतेः कार्यमुक्तम् ; तच्चैतत् कर्तुः आहुतिलक्षणस्य कर्मणः फलम् ; न हि कर्तारमनाश्रित्य आहुतिलक्षणस्य कर्मणः स्वातन्त्र्येण उत्क्रान्त्यादिकार्यारम्भ उपपद्यते, कर्त्रर्थत्वात्कर्मणः कार्यारम्भस्य, साधनाश्रयत्वाच्च कर्मणः ; तत्र अग्निहोत्रस्तुत्यर्थत्वात् अग्निहोत्रस्यैव कार्यमित्युक्तं षट्प्रकारमपि ; इह तु तदेव कर्तुः फलमित्युपदिश्यते षट्प्रकारमपि, कर्मफलविज्ञानस्य विवक्षितत्वात् । तद्द्वारेण च पञ्चाग्निदर्शनम् इह उत्तरमार्गप्रतिपत्तिसाधानं विधित्सितम् । एवम् , अशेषसंसारगत्युपसंहारः, कर्मकाण्डस्य एषा निष्ठा — इत्येतद्द्वयं दिदर्शयिषुः आख्यायिकां प्रणयति ॥
श्वेतकेतुर्ह वा आरुणेयः पञ्चालानां परिषदमाजगाम स आजगाम जैवलिं प्रवाहणं परिचारयमाणं तमुदीक्ष्याभ्युवाद कुमारा३ इति स भो३ इति प्रतिशुश्रावानुशिष्टोऽन्वसि पित्रेत्योमिति होवाच ॥ १ ॥
श्वेतकेतुः नामतः, अरुणस्यापत्यम् आरुणिः, तस्यापत्यम् आरुणेयः ; ह - शब्दः ऐतिह्यार्थः ; वै निश्चयार्थः ; पित्रा अनुशिष्टः सन् आत्मनो यशःप्रथनाय पञ्चालानां परिषदमाजगाम ; पञ्चालाः प्रसिद्धाः ; तेषां परिषदमागत्य, जित्वा, राज्ञोऽपि परिषदं जेष्यामीति गर्वेण स आजगाम ; जीवलस्यापत्यं जैवलिं पञ्चालराजं प्रवाहणनामानं स्वभृत्यैः परिचारयमाणम् आत्मनः परिचरणं कारयन्तमित्येतत् ; स राजा पूर्वमेव तस्य विद्याभिमानगर्वं श्रुत्वा, विनेतव्योऽयमिति मत्वा, तमुदीक्ष्य उत्प्रेक्ष्य आगतमात्रमेव अभ्युवाद अभ्युक्तवान् , कुमारा३ इति सम्बोध्य ; भर्त्सनार्था प्लुतिः । एवमुक्तः सः प्रतिशुश्राव — भो३ इति । भो३ इति अप्रतिरूपमपि क्षत्त्रियं प्रति उक्तवान् क्रुद्धः सन् । अनुशिष्टः अनुशासितोऽसि भवसि किं पित्रा — इत्युवाच राजा । प्रत्याह इतरः — ओमिति, बाढमनुशिष्टोऽस्मि, पृच्छ यदि संशयस्ते ॥
वेत्थ यथेमाः प्रजाः प्रयत्यो विप्रतिपद्यन्ता३ इति नेति होवाच वेत्थो यथेमं लोकं पुनरापद्यन्ता३ इति नेति हैवोवाच वेत्थो यथासौ लोक एवं बहुभिः पुनः पुनः प्रयद्भिर्न सम्पूर्यता३ इति नेति हैवोवाच वेत्थो यतिथ्यामाहुत्यां हुतायामापः पुरुषवाचो भूत्वा समुत्थाय वदन्ती३ इति नेति हैवोवाच वेत्थो देवयानस्य वा पथः प्रतिपदं पितृयाणस्य वा यत्कृत्वा देवयानं वा पन्थानं प्रतिपद्यन्ते पितृयाणं वापि हि न ऋषेर्वचः श्रुतं द्वे सृती अशृणवं पितृणामहं देवानामुत मर्त्यानां ताभ्यामिदं विश्वमेजत्समेति यदन्तरा पितरं मातरं चेति नाहमत एकञ्चन वेदेति होवाच ॥ २ ॥
यद्येवम् , वेत्थ विजानासि किम् , यथा येन प्रकारेण इमाः प्रजाः प्रसिद्धाः, प्रयत्यः म्रियमाणाः, विप्रतिपद्यन्ता३ इति विप्रतिपद्यन्ते ; विचारणार्था प्लुतिः ; समानेन मार्गेण गच्छन्तीनां मार्गद्वैविध्यं यत्र भवति, तत्र काश्चित्प्रजा अन्येन मार्गेण गच्छन्ति काश्चिदन्येनेति विप्रतिपत्तिः ; यथा ताः प्रजा विप्रतिपद्यन्ते, तत् किं वेत्थेत्यर्थः । नेति होवाच इतरः । तर्हि वेत्थ उ यथा इमं लोकं पुनः आपद्यन्ता३ इति, पुनरापद्यन्ते, यथा पुनरागच्छन्ति इमं लोकम् । नेति हैवोवाच श्वेतकेतुः । वेत्थ उ यथा असौ लोक एवं प्रसिद्धेन न्यायेन पुनः पुनरसकृत् प्रयद्भिः म्रियमाणैः यथा येन प्रकारेण न सम्पूर्यता३ इति, न सम्पूर्यतेऽसौ लोकः, तत्किं वेत्थ । नेति हैवोवाच । वेत्थ उ यतिथ्यां यत्सङ्ख्याकायाम् आहुत्याम् आहुतौ हुतायम् आपः पुरुषवाचः, पुरुषस्य या वाक् सैव यासां वाक् , ताः पुरुषवाचो भूत्वा पुरुषशब्दवाच्या वा भूत्वा ; यदा पुरुषाकारपरिणताः, तदा पुरुषवाचो भवन्ति ; समुत्थाय सम्यगुत्थाय उद्भूताः सत्यः वदन्ती३ इति । नेति हैवोवाच । यद्येवं वेत्थ उ देवयानस्य पथो मार्गस्य प्रतिपदम् , प्रतिपद्यते येन सा प्रतिपत् तां प्रतिपदम् , पितृयाणस्य वा प्रतिपदम् ; प्रतिपच्छब्दवाच्यमर्थमाह — यत्कर्म कृत्वा यथाविशिष्टं कर्म कृत्वेत्यर्थः, देवयानं वा पन्थानं मार्गं प्रतिपद्यन्ते, पितृयाणं वा यत्कर्म कृत्वा प्रतिपद्यन्ते, तत्कर्म प्रतिपदुच्यते ; तां प्रतिपदं किं वेत्थ, देवलोकपितृलोकप्रतिपत्तिसाधनं किं वेत्थेत्यर्थः । अप्यत्र अस्यार्थस्य प्रकाशकम् ऋषेः मन्त्रस्य वचः वाक्यम् नः श्रुतमस्ति, मन्त्रोऽपि अस्यार्थस्य प्रकाशको विद्यत इत्यर्थः । कोऽसौ मन्त्र इत्युच्यते — द्वे सृती द्वौ मार्गावशृणवं श्रुतवानस्मि ; तयोः एका पितृणां प्रापिका पितृलोकसम्बद्धा, तया सृत्या पितृलोकं प्राप्नोतीत्यर्थः ; अहमशृणवमिति व्यवहितेन सम्बन्धः ; देवानाम् उत अपि देवानां सम्बन्धिनी अन्या, देवान्प्रापयति सा । के पुनः उभाभ्यां सृतिभ्यां पितॄन् देवांश्च गच्छन्तीत्युच्यते — उत अपि मर्त्यानां मनुष्याणां सम्बन्धिन्यौ ; मनुष्या एव हि सृतिभ्यां गच्छन्तीत्यर्थः । ताभ्यां सृतिभ्याम् इदं विश्वं समस्तम् एजत् गच्छत् समेति सङ्गच्छते । ते च द्वे सृती यदन्तरा ययोरन्तरा यदन्तरा, पितरं मातरं च, मातापित्रोः अन्तरा मध्ये इत्यर्थः । कौ तौ मातापितरौ ? द्यावापृथिव्यौ अण्डकपाले ; ‘इयं वै माता असौ पिता’ (शत. ब्रा. १३ । ३ । ९ । ७) इति हि व्याख्यातं ब्राह्मणेन । अण्डकपालयोर्मध्ये संसारविषये एव एते सृती, न आत्यन्तिकामृतत्वगमनाय । इतर आह — न अहम् अतः अस्मात् प्रश्नसमुदायात् एकञ्चन एकमपि प्रश्नम् , न वेद, नाहं वेदेति होवाच श्वेतकेतुः ॥
अथैनं वसत्योपमन्त्रयाञ्चक्रेऽनादृत्य वसतिं कुमारः प्रदुद्राव स आजगाम पितरं तं होवाचेति वाव किल नो भवान्पुरानुशिष्टानवोच इति कथं सुमेध इति पञ्च मा प्रश्नान्राजन्यबन्धुरप्राक्षीत्ततो नैकञ्चन वेदेति कतमे त इतीम इति ह प्रतीकान्युदाजहार ॥ ३ ॥
अथ अनन्तरम् अपनीय विद्याभिमानगर्वम् एनं प्रकृतं श्वेतकेतुम् , वसत्या वसतिप्रयोजनेन उपमन्त्रयाञ्चक्रे ; इह वसन्तु भवन्तः, पाद्यमर्घ्यं च आनीयताम् — इत्युपमन्त्रणं कृतवान्राजा । अनादृत्य तां वसतिं कुमारः श्वेतकेतुः प्रदुद्राव प्रतिगतवान् पितरं प्रति । स च आजगाम पितरम् , आगत्य च उवाच तम् , कथमिति — वाव किल एवं किल, नः अस्मान् भवान् पुरा समावर्तनकाले अनुशिष्टान् सर्वाभिर्विद्याभिः अवोचः अवोचदिति । सोपालम्भं पुत्रस्य वचः श्रुत्वा आह पिता — कथं केन प्रकारेण तव दुःखमुपजातम् , हे सुमेधः, शोभना मेधा यस्येति सुमेधाः । शृणु, मम यथा वृत्तम् ; पञ्च पञ्चसङ्ख्याकान् प्रश्नान् मा मां राजन्यबन्धुः राजन्या बन्धवो यस्येति ; परिभववचनमेतत् राजन्यबन्धुरिति ; अप्राक्षीत् पृष्टवान् ; ततः तस्मात् न एकञ्चन एकमपि न वेद न विज्ञातवानस्मि । कतमे ते राज्ञा पृष्टाः प्रश्ना इति पित्रा उक्तः पुत्रः ‘इमे ते’ इति ह प्रतीकानि मुखानि प्रश्नानाम् उदाजहार उदाहृतवान् ॥
स होवाच तथा नस्त्वं तात जानीथा यथा यदहं किञ्च वेद सर्वमहं तत्तुभ्यमवोचं प्रेहि तु तत्र प्रतीत्य ब्रह्मचर्यं वत्स्याव इति भवानेव गच्छत्विति स आजगाम गौतमो यत्र प्रवाहणस्य जैवलेरास तस्मा आसनमाहृत्योदकमाहारयाञ्चकाराथ हास्मा अर्घ्यं चकार तं होवाच वरं भगवते गौतमाय दद्म इति ॥ ४ ॥
स होवाच पिता पुत्रं क्रुद्धमुपशमयन् — तथा तेन प्रकारेण नः अस्मान् त्वम् , हे तात वत्स, जानीथा गृह्णीथाः, यथा यदहं किञ्च विज्ञानजातं वेद सर्वं तत् तुभ्यम् अवोचम् इत्येव जानीथाः ; कोऽन्यो मम प्रियतरोऽस्ति त्वत्तः, यदर्थं रक्षिष्ये ; अहमपि एतत् न जानामि, यत् राज्ञा पृष्टम् ; तस्मात् प्रेहि आगच्छ ; तत्र प्रतीत्य गत्वा राज्ञि ब्रह्मचर्यं वत्स्यावो विद्यार्थमिति । स आह — भवानेव गच्छत्विति, नाहं तस्य मुखं निरीक्षितुमुत्सहे । स आजगाम, गौतमः गोत्रतो गौतमः, आरुणिः, यत्र प्रवाहणस्य जैवलेरास आसनम् आस्थायिका ; षष्ठीद्वयं प्रथमास्थाने ; तस्मै गौतमाय आगताय आसनम् अनुरूपम् आहृत्य उदकं भृत्यैराहारयाञ्चकार ; अथ ह अस्मै अर्घ्यं पुरोधसा कृतवान् मन्त्रवत् , मधुपर्कं च । कृत्वा चैवं पूजां तं होवाच — वरं भगवते गौतमाय तुभ्यं दद्म इति गोश्वादिलक्षणम् ॥
स होवाच प्रतिज्ञातो म एष वरो यां तु कुमारस्यान्ते वाचमभाषथास्तां मे ब्रूहीति ॥ ५ ॥
स होवाच गौतमः — प्रतिज्ञातः मे मम एष वरः त्वया ; अस्यां प्रतिज्ञायां दृढीकुरु आत्मानम् ; यां तु वाचं कुमारस्य मम पुत्रस्य अन्ते समीपे वाचमभाषथाः प्रश्नरूपाम् , तामेव मे ब्रूहि ; स एव नो वर इति ॥
स होवाच दैवेषु वै गौतम तद्वरेषु मानुषाणां ब्रूहीति ॥ ६ ॥
स होवाच राजा — दैवेषु वरेषु तद्वै गौतम, यत् त्वं प्रार्थयसे ; मानुषाणामन्यतमं प्रार्थय वरम् ॥
स होवाच विज्ञायते हास्ति हिरण्यस्यापात्तं गोअश्वानां दासीनां प्रवाराणां परिदानस्य मा नो भवान्बहोरनन्तस्यापर्यन्तस्याभ्यवदान्यो भूदिति स वै गौतम तीर्थेनेच्छासा इत्युपैम्यहं भवन्तमिति वाचा ह स्मैव पूर्व उपयन्ति स होपायनकीर्त्योवास ॥ ७ ॥
स होवाच गौतमः — भवतापि विज्ञायते ह ममास्ति सः ; न तेन प्रार्थितेन कृत्यं मम, यं त्वं दित्ससि मानुषं वरम् ; यस्मात् ममाप्यस्ति हिरण्यस्य प्रभूतस्य अपात्तं प्राप्तम् ; गोअश्वानाम् अपात्तमस्तीति सर्वत्रानुषङ्गः ; दासीनाम् , प्रवाराणां परिवाराणाम् , परिधानस्य च ; न च यत् मम विद्यमानम् , तत् त्वत्तः प्रार्थनीयम् , त्वया वा देयम् ; प्रतिज्ञातश्च वरः त्वया ; त्वमेव जानीषे, यदत्र युक्तम् , प्रतिज्ञा रक्षणीया तवेति ; मम पुनः अयमभिप्रायः — मा भूत् नः अस्मान् अभि, अस्मानेव केवलान्प्रति, भवान् सर्वत्र वदान्यो भूत्वा, अवदान्यो मा भूत् कदर्यो मा भूदित्यर्थः ; बहोः प्रभूतस्य, अनन्तस्य अनन्तफलस्येत्येतत् , अपर्यन्तस्य अपरिसमाप्तिकस्य पुत्रपौत्रादिगामिकस्येत्येतत् , ईदृशस्य वित्तस्य, मां प्रत्येव केवलम् अदाता मा भूद्भवान् ; न च अन्यत्र अदेयमस्ति भवतः । एवमुक्त आह — स त्वं वै हे गौतम तीर्थेन न्यायेन शास्त्रविहितेन विद्यां मत्तः इच्छासै इच्छ अन्वाप्तुम् ; इत्युक्तो गौतम आह — उपैमि उपगच्छामि शिष्यत्वेन अहं भवन्तमिति । वाचा ह स्मैव किल पूर्वे ब्राह्मणाः क्षत्त्रियान् विद्यार्थिनः सन्तः वैश्यान्वा, क्षत्त्रिया वा वैश्यान् आपदि उपयन्ति शिष्यवृत्त्या हि उपगच्छन्ति, न उपायनशुश्रूषादिभिः ; अतः स गौतमः ह उपायनकीर्त्या उपगमनकीर्तनमात्रेणैव उवास उषितवान् , न उपायनं चकार ॥
स होवाच तथा नस्त्वं गौतम मापराधास्तव च पितामहा यथेयं विद्येतः पूर्वं न कस्मिंश्चन ब्राह्मण उवास तां त्वहं तुभ्यं वक्ष्यामि को हि त्वैवं ब्रुवन्तमर्हति प्रत्याख्यातुमिति ॥ ८ ॥
एवं गौतमेन आपदन्तरे उक्ते, स होवाच राजा पीडित मत्वा क्षामयन् — तथा नः अस्मान् प्रति, मा अपराधाः अपराधं मा कार्षीः, अस्मदीयोऽपराधः न ग्रहीतव्य इत्यर्थः ; तव च पितामहाः अस्मात्पितामहेषु यथा अपराधं न जगृहुः, तथा पितामहानां वृत्तम् अस्मास्वपि भवता रक्षणीयमित्यर्थः । यथा इयं विद्या त्वया प्रार्थिता इतः त्वत्सम्प्रदानात्पूर्वम् प्राक् न कस्मिन्नपि ब्राह्मणे उवास उषितवती, तथा त्वमपि जानीषे ; सर्वदा क्षत्त्रियपरम्परया इयं विद्या आगता ; सा स्थितिः मयापि रक्षणीया, यदि शक्यते इति — उक्तम् ‘दैवेषु गौतम तद्वरेषु मानुषाणां ब्रूहि’ इति ; न पुनः तव अदेयो वर इति ; इतः परं न शक्यते रक्षितुम् ; तामपि विद्याम् अहं तुभ्यं वक्ष्यामि । को हि अन्योऽपि हि यस्मात् एवं ब्रूवन्तं त्वाम् अर्हति प्रत्याख्यातुम् — न वक्ष्यामीति ; अहं पुनः कथं न वक्ष्ये तुभ्यमिति ॥
असौ वै लोकोऽग्निर्गौतम तस्यादित्य एव समिद्रश्मयो धूमोऽहरर्चिर्दिशोऽङ्गारा अवान्तरदिशो विस्फुलिङ्गास्तस्मिन्नेतस्मिन्नग्नौ देवाः श्रद्धां जुह्वति तस्या आहुत्यै सोमो राजा सम्भवति ॥ ९ ॥
असौ वै लोकोऽग्निर्गौतमेत्यादि — चतुर्थः प्रश्नः प्राथम्येन निर्णीयते ; क्रमभङ्गस्तु एतन्निर्णयायत्तत्वादितरप्रश्ननिर्णयस्य । असौ द्यौर्लोकः अग्निः हे, गौतम ; द्युलोके अग्निदृष्टिः अनग्नौ विधीयते, यथा योषित्पुरुषयोः ; तस्य द्युलोकाग्नेः आदित्य एव समित् , समिन्धनात् ; आदित्येन हि समिध्यते असौ लोकः ; रश्मयो धूमः, समिध उत्थानसामान्यात् ; आदित्याद्धि रश्मयो निर्गताः, समिधश्च धूमो लोके उत्तिष्ठति ; अहः अर्चिः, प्रकाशसामान्यात् ; दिशः अङ्गाराः, उपशमसामान्यात् ; अवान्तरदिशो विस्फुलिङ्गाः, विस्फुलिङ्गवद्विक्षेपात् ; तस्मिन् एतस्मिन् एवंगुणविशिष्टे द्युलोकाग्नौ, देवाः इन्द्रादयः, श्रद्धां जुह्वति आहुतिद्रव्यस्थानीयां प्रक्षिपन्ति ; तस्या आहुत्याः आहुतेः सोमो राजा पितृणां ब्राह्मणानां च सम्भवति । तत्र के देवाः कथं जुह्वति किं वा श्रद्धाख्यं हविरित्यतः उक्तमस्माभिः सम्बन्धे ; ‘नत्वेवैनयोस्त्वमुत्क्रान्तिम्’ (शत. ब्रा. ११ । ६ । २ । ४) इत्यादिपदार्थषट्कनिर्णयार्थम् अग्निहोत्रे उक्तम् ; ‘ते वा एते अग्निहोत्राहुती हुते सत्यावुत्क्रामतः’ (शत. ब्रा. ११ । ६ । २ । ६, ७), ‘ते अन्तरिक्षमाविशतः’ (शत. ब्रा. ११ । ६ । २ । ६), ‘ते अन्तरिक्षमाहवनीयं कुर्वाते वायुं समिधं मरीचीरेव शुक्रामाहुतिम्’, ‘ते अन्तरिक्षं तर्पयतः’ (शत. ब्रा. ११ । ६ । २ । ६), ‘ते तत उत्क्रामतः’ (शत. ब्रा. ११ । ६ । २ । ६), ‘ते दिवमाविशतः’ (शत. ब्रा. ११ । ६ । २ । ७), ‘ते दिवमाहवनीयं कुर्वाते आदित्यं समिधम्’ (शत. ब्रा. ११ । ६ । २ । ७) इत्येवमादि उक्तम् । तत्र अग्निहोत्राहुती ससाधने एव उत्क्रामतः । यथा इह यैः साधनैर्विशिष्टे ये ज्ञायेते आहवनीयाग्निसमिद्धूमाङ्गारविस्फुलिङ्गाहुतिद्रव्यैः, ते तथैव उत्क्रामतः अस्माल्लोकात् अमुं लोकम् । तत्र अग्निः अग्नित्वेन, समित् समित्त्वेन, धूमो धूमत्वेन, अङ्गाराः अङ्गारत्वेन, विस्फुलिङ्गा विस्फुलिङ्गत्वेन, आहुतिद्रव्यमपि पयआद्याहुतिद्रव्यत्वेनैव सर्गादौ अव्याकृतावस्थायामपि परेण सूक्ष्मेण आत्मना व्यवतिष्ठते । तत् विद्यमानमेव ससाधनम् अग्निहोत्रलक्षणं कर्म अपूर्वेणात्मना व्यवस्थितं सत् , तत्पुनः व्याकरणकाले तथैव अन्तरिक्षादीनाम् आहवनीयाद्यग्न्यादिभावं कुर्वत् विपरिणमते । तथैव इदानीमपि अग्निहोत्राख्यं कर्म । एवम् अग्निहोत्राहुत्यपूर्वपरिणामात्मकं जगत् सर्वमिति आहुत्योरेव स्तुत्यर्थत्वेन उत्क्रान्त्याद्याः लोकं प्रत्युत्थायितान्ताः षट् पदार्थाः कर्मप्रकरणे अधस्तान्निर्णीताः । इह तु कर्तुः कर्मविपाकविवक्षायां द्युलोकाग्न्याद्यारभ्य पञ्चाग्निदर्शनम् उत्तरमार्गप्रतिपत्तिसाधनं विशिष्टकर्मफलोपभोगाय विधित्सितमिति द्युलोकाग्न्यादिदर्शनं प्रस्तूयते । तत्र ये आध्यात्मिकाः प्राणाः इह अग्निहोत्रस्य होतारः, ते एव आधिदैविकत्वेन परिणताः सन्तः इन्द्रादयो भवन्ति ; त एव तत्र होतारो द्युलोकाग्नौ ; ते च इह अग्निहोत्रस्य फलभोगाय अग्निहोत्रं हुतवन्तः ; ते एव फलपरिणामकालेऽपि तत्फलभोक्तृत्वात् तत्र तत्र होतृत्वं प्रतिपद्यन्ते, तथा तथा विपरिणममाना देवशब्दवाच्याः सन्तः । अत्र च यत् पयोद्रव्यम् अग्निहोत्रकर्माश्रयभूतम् इह आहवनीये प्रक्षिप्तम् अग्निना भक्षितम् अदृष्टेन सूक्ष्मेण रूपेण विपरिणतम् सह कर्त्रा यजमानेन अमुं लोकम् धूमादिक्रमेण अन्तरिक्षम् अन्तरिक्षात् द्युलोकम् आविशति ; ताः सूक्ष्मा आपः आहुतिकार्यभूता अग्निहोत्रसमवायिन्यः कर्तृसहिताः श्रद्धाशब्दवाच्याः सोमलोके कर्तुः शरीरान्तरारम्भाय द्युलोकं प्रविशन्त्यः हूयन्त इत्युच्यन्ते ; ताः तत्र द्युलोकं प्रविश्य सोममण्डले कर्तुः शरीरमारभन्ते । तदेतदुच्यते — ‘देवाः श्रद्धां जुह्वति, तस्या आहुत्यै सोमो राजा सम्भवति’ इति, ‘श्रद्धा वा आपः’ (तै. सं. १ । ६ । ८) इति श्रुतेः । ‘वेत्थ यतिथ्यामाहुत्यां हुतायामापः पुरुषवाचो भूत्वा समुत्थाय वदन्ति’ (बृ. उ. ६ । २ । २) इति प्रश्नः ; तस्य च निर्णयविषये ‘असौ वै लोकोऽग्निः’ इति प्रस्तुतम् ; तस्मात् आपः कर्मसमवायिन्यः कर्तुः शरीरारम्भिकाः श्रद्धाशब्दवाच्या इति निश्चीयते । भूयस्त्वात् ‘आपः पुरुषवाचः’ इति व्यपदेशः, न तु इतराणि भूतानि न सन्तीति ; कर्मप्रयुक्तश्च शरीरारम्भः ; कर्म च अप्समवायि ; ततश्च अपां प्राधान्यं शरीरकर्तृत्वे ; तेन च ‘आपः पुरुषवाचः’ इति व्यपदेशः ; कर्मकृतो हि जन्मारम्भः सर्वत्र । तत्र यद्यपि अग्निहोत्राहुतिस्तुतिद्वारेण उत्क्रान्त्यादयः प्रस्तुताः षट्पदार्था अग्निहोत्रे, तथापि वैदिकानि सर्वाण्येव कर्माणि अग्निहोत्रप्रभृतीनि लक्ष्यन्ते ; दाराग्निसम्बद्धं हि पाङ्क्तं कर्म प्रस्तुत्योक्तम् — ‘कर्मणा पितृलोकः’ (बृ. उ. १ । ५ । १६) इति ; वक्ष्यति च — ‘अथ ये यज्ञेन दानेन तपसा लोकाञ्जयन्ति’ (बृ. उ. ६ । २ । १५) इति ॥
पर्जन्यो वा अग्निर्गौतम तस्य संवत्सर एव समिदभ्राणि धूमो विद्युदर्चिरशनिरङ्गारा ह्रादुनयो विस्फुलिङ्गास्तस्मिन्नेतस्मिन्नग्नौ देवाः सोमं राजानं जुह्वति तस्या आहुत्यै वृष्टिः सम्भवति ॥ १० ॥
पर्जन्यो वा अग्निर्गौतम, द्वितीय आहुत्याधारः आहुत्योरावृत्तिक्रमेण । पर्जन्यो नाम वृष्ट्युपकरणाभिमानी देवतात्मा । तस्य संवत्सर एव समित् ; संवत्सरेण हि शरदादिभिर्ग्रीष्मान्तैः स्वावयवैर्विपरिवर्तमानेन पर्जन्योऽग्निर्दीप्यते । अभ्राणि धूमः, धूमप्रभवत्वात् धूमवदुपलक्ष्यत्वाद्वा । विद्युत् अर्चिः, प्रकाशसामान्यात् । अशनिः अङ्गाराः, उपशान्तकाठिन्यसामान्याभ्याम् । ह्रादुनयः ह्लादुनयः स्तनयित्नुशब्दाः विस्फुलिङ्गाः, विक्षेपानेकत्वसामान्यात् । तस्मिन्नेतस्मिन्निति आहुत्यधिकरणनिर्देशः । देवा इति, ते एव होतारः सोमं राजानं जुह्वति ; योऽसौ द्युलोकाग्नौ श्रद्धायां हुतायामभिनिर्वृत्तः सोमः, स द्वितीये पर्जन्याग्नौ हूयते ; तस्याश्च सोमाहुतेर्वृष्टिः सम्भवति ॥
अयं वै लोकोऽग्निर्गौतम तस्य पृथिव्येव समिदग्निर्धूमो रात्रिरर्चिश्चन्द्रमा अङ्गारा नक्षत्राणि विस्फुलिङ्गास्तस्मिन्नेतस्मिन्नग्नौ देवा वृष्टिं जुह्वति तस्या आहुत्या अन्नं सम्भवति ॥ ११ ॥
अयं वै लोकोऽग्निर्गौतम । अयं लोक इति प्राणिजन्मोपभोगाश्रयः क्रियाकारकफलविशिष्टः, स तृतीयोऽग्निः । तस्याग्नेः पृथिव्येव समित् ; पृथिव्या हि अयं लोकः अनेकप्राण्युपभोगसम्पन्नया समिध्यते । अग्निः धूमः, पृथिव्याश्रयोत्थानसामान्यात् ; पार्थिवं हि इन्धनद्रव्यम् आश्रित्य अग्निः उत्तिष्ठति, यथा समिदाश्रयेण धूमः । रात्रिः अर्चिः, समित्सम्बन्धप्रभवसामान्यात् ; अग्नेः समित्सम्बन्धेन हि अर्चिः सम्भवति, तथा पृथिवीसमित्सम्बन्धेन शर्वरी ; पृथिवीछायां हि शार्वरं तम आचक्षते । चन्द्रमा अङ्गाराः, तत्प्रभवत्वसामान्यात् ; अर्चिषो हि अङ्गाराः प्रभवन्ति, तथा रात्रौ चन्द्रमाः ; उपशान्तत्वसामान्याद्वा । नक्षत्राणि विस्फुलिङ्गाः, विस्फुलिङ्गवद्विक्षेपसामान्यात् । तस्मिन्नेतस्मिन्नित्यादि पूर्ववत् । वृष्टिं जुह्वति, तस्या आहुतेः अन्नं सम्भवति, वृष्टिप्रभवत्वस्य प्रसिद्धत्वात् व्रीहियवादेरन्नस्य ॥
पुरुषो वा अग्निर्गौतम तस्य व्यात्तमेव समित्प्राणो धूमो वागर्चिश्चक्षुरङ्गाराः श्रोत्रं विस्फुलिङ्गास्तस्मिन्नेतस्मिन्नग्नौ देवा अन्नं जुह्वति तस्या आहुत्यै रेतः सम्भवति ॥ १२ ॥
पुरुषो वा अग्निर्गौतम ; प्रसिद्धः शिरःपाण्यादिमान् पुरुषः चतुर्थोऽग्निः तस्य व्यात्तं विवृतं मुखं समित् ; विवृतेन हि मुखेन दीप्यते पुरुषः वचनस्वाध्यायादौ, यथा समिधा अग्निः । प्राणो धूमः तदुत्थानसामान्यात् ; मुखाद्धि प्राण उत्तिष्ठति । वाक् शब्दः अर्चिः व्यञ्जकत्वसामान्यात् ; अर्चिश्च व्यञ्जकम् , तथा वाक् शब्दः अभिधेयव्यञ्जकः । चक्षुः अङ्गाराः, उपशमसामान्यात् प्रकाशाश्रयत्वाद्वा । श्रोत्रं विस्फुलिङ्गाः, विक्षेपसामान्यात् । तस्मिन् अन्नं जुह्वति । ननु नैव देवा अन्नमिह जुह्वतो दृश्यन्ते — नैष दोषः, प्राणानां देवत्वोपपत्तेः ; अधिदैवम् इन्द्रादयो देवाः ; ते एव अध्यात्मं प्राणाः ; ते च अन्नस्य पुरुषे प्रक्षेप्तारः ; तस्या आहुतेः रेतः सम्भवति ; अन्नपरिणामो हि रेतः ॥
योषा वा अग्निर्गौतम तस्या उपस्थ एव समिल्लोमानि धूमो योनिरर्चिर्यदन्तः करोति तेऽङ्गारा अभिनन्दा विस्फुलिङ्गास्तस्मिन्नेतस्मिन्नग्नौ देवा रेतो जुह्वति तस्या आहुत्यै पुरुषः सम्भवति स जीवति यावज्जीवत्यथ यदा म्रियते ॥ १३ ॥
योषा वा अग्निर्गौतम । योषेति स्त्री पञ्चमो होमाधिकरणम् अग्निः तस्याः उपस्थ एव समित् ; तेन हि सा समिध्यते । लोमानि धूमः, तदुत्थानसामान्यात् । योनिः अर्चिः, वर्णसामान्यात् । यदन्तः करोति, तेऽङ्गाराः ; अन्तःकरणं मैथुनव्यापारः, तेऽङ्गाराः, वीर्योपशमहेतुत्वसामान्यात् ; वीर्याद्युपशमकारणं मैथुनम् , तथा अङ्गारभावः अग्नेरुपशमकारणम् । अभिनन्दाः सुखलवाः क्षुद्रत्वसामान्यात् विस्फुलिङ्गाः । तस्मिन् रेतो जुह्वति । तस्या आहुतेः पुरुषः सम्भवति । एवं द्युपर्जन्यायंलोकपुरुषयोषाग्निषु क्रमेण हूयमानाः श्रद्धासोमवृष्ट्यन्नरेतोभावेन स्थूलतारतम्यक्रममापद्यमानाः श्रद्धाशब्दवाच्या आपः पुरुषशब्दमारभन्ते । यः प्रश्नः चतुर्थः ‘वेत्थ यतिथ्यामाहुत्यां हुतायामापः पुरुषवाचो भूत्वा समुत्थाय वदन्ती३’ (बृ. उ. ६ । २ । २) इति, स एष निर्णीतः — पञ्चम्यामाहुतौ योषाग्नौ हुतायां रेतोभूता आपः पुरुषवाचो भवन्तीति । स पुरुषः एवं क्रमेण जातो जीवति ; कियन्तं कालमित्युच्यते — यावज्जीवति यावदस्मिन् शरीरे स्थितिनिमित्तं कर्म विद्यते, तावदित्यर्थः । अथ तत्क्षये यदा यस्मिन्काले म्रियते ॥
अथैनमग्नये हरन्ति तस्याग्निरेवाग्निर्भवति समित्समिद्धूमो धूमोऽर्चिरर्चिरङ्गारा विस्फुलिङ्गा विस्फुलिङ्गास्तस्मिन्नेतस्मिन्नग्नौ देवाः पुरुषं जुह्वति तस्या आहुत्यै पुरुषो भास्वरवर्णः सम्भवति ॥ १४ ॥
अथ तदा एनं मृतम् अग्नये अग्न्यर्थमेव अन्त्याहुत्यै हरन्ति ऋत्विजः ; तस्य आहुतिभूतस्य प्रसिद्धः अग्निरेव होमाधिकरणम् , न परिकल्प्योऽग्निः ; प्रसिद्धैव समित् समित् ; धूमो धूमः ; अर्चिः अर्चिः ; अङ्गारा अङ्गाराः ; विस्फुलिङ्गा विस्फुलिङ्गाः ; यथाप्रसिद्धमेव सर्वमित्यर्थः । तस्मिन् पुरुषम् अन्त्याहुतिं जुह्वति ; तस्यै आहुत्यै आहुतेः, पुरुषः भास्वरवर्णः अतिशयदीप्तिमान् , निषेकादिभिरन्त्याहुत्यन्तैः कर्मभिः संस्कृतत्वात् , सम्भवति निष्पद्यते ॥
ते य एवमेतद्विदुर्ये चामी अरण्ये श्रद्धां सत्यमुपासते तेऽर्चिरभिसम्भवन्त्यर्चिषोऽहरह्न आपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान्षण्मासानुदङ्ङादित्य एति मासेभ्यो देवलोकं देवलोकादादित्यमादित्याद्वैद्युतं तान्वैद्युतान्पुरुषो मानस एत्य ब्रह्मलोकान्गमयति ते तेषु ब्रह्मलोकेषु पराः परावतो वसन्ति तेषां न पुनरावृत्तिः ॥ १५ ॥
इदानीं प्रथमप्रश्ननिराकरणार्थमाह — ते ; के ? ये एवं यथोक्तं पञ्चाग्निदर्शनमेतत् विदुः ; एवंशब्दात् अग्निसमिद्धूमार्चिरङ्गारविस्फुलिङ्गश्रद्धादिविशिष्टाः पञ्चाग्नयो निर्दिष्टाः ; तान् एवम् एतान् पञ्चाग्नीन् विदुरित्यर्थः ॥
ननु अग्निहोत्राहुतिदर्शनविषयमेव एतद्दर्शनम् ; तत्र हि उक्तम् उत्क्रान्त्यादिपदार्थषट्कनिर्णये ‘दिवमेवाहवनीयं कुर्वाते’ (शत. ब्रा. ११ । ६ । २ । ७) इत्यादि ; इहापि अमुष्य लोकस्याग्नित्वम् , आदित्यस्य च समित्त्वमित्यादि बहु साम्यम् ; तस्मात् तच्छेषमेव एतद्दर्शनमिति — न, यतिथ्यामिति प्रश्नप्रतिवचनपरिग्रहात् ; यतिथ्यामित्यस्य प्रश्नस्य प्रतिवचनस्य यावदेव परिग्रहः, तावदेव एवंशब्देन पराम्रष्टुं युक्तम् , अन्यथा प्रश्नानर्थक्यात् ; निर्ज्ञातत्वाच्च सङ्ख्यायाः अग्नय एव वक्तव्याः ; अथ निर्ज्ञातमप्यनूद्यते, यथाप्राप्तस्यैव अनुवदनं युक्तम् , न तु ‘असौ लोकोऽग्निः’ इति ; अथ उपलक्षणार्थः, तथापि आद्येन अन्त्येन च उपलक्षणं युक्तम् । श्रुत्यन्तराच्च ; समाने हि प्रकरणे छान्दोग्यश्रुतौ ‘पञ्चाग्नीन्वेद’ (छा. उ. ५ । १० । १०) इति पञ्चसङ्ख्याया एवोपादानात् अनग्निहोत्रशेषम् एतत् पञ्चाग्निदर्शनम् । यत्तु अग्निसमिदादिसामान्यम् , तत् अग्निहोत्रस्तुत्यर्थमित्यवोचाम ; तस्मात् न उत्क्रान्त्यादिपदार्थषट्कपरिज्ञानात् अर्चिरादिप्रतिपत्तिः, एवमिति प्रकृतोपादानेन अर्चिरादिप्रतिपत्तिविधानात् ॥
के पुनस्ते, ये एवं विदुः ? गृहस्था एव । ननु तेषां यज्ञादिसाधनेन धूमादिप्रतिपत्तिः विधित्सिता — न, अनेवंविदामपि गृहस्थानां यज्ञादिसाधनोपपत्तेः, भिक्षुवानप्रस्थयोश्च अरण्यसम्बन्धेन ग्रहणात् , गृहस्थकर्मसम्बद्धत्वाच्च पञ्चाग्निदर्शनस्य । अतः नापि ब्रह्मचारिणः ‘एवं विदुः’ इति गृह्यन्ते ; तेषां तु उत्तरे पथि प्रवेशः स्मृतिप्रामाण्यात् — ‘अष्टाशीतिसहस्राणामृषीणामूर्ध्वरेतसाम् । उत्तरेणार्यम्णः पन्थास्तेऽमृतत्वं हि भेजिरे’ ( ? )इति । तस्मात् ये गृहस्थाः एवम् — अग्निजोऽहम् , अग्न्यपत्यम् — इति, एवम् क्रमेण अग्निभ्यो जातः अग्निरूपः इत्येवम् , ये विदुः, ते च, ये च अमी अरण्ये वानप्रस्थाः परिव्राजकाश्चारण्यनित्याः, श्रद्धां श्रद्धायुक्ताः सन्तः, सत्यं ब्रह्म हिरण्यगर्भात्मानमुपासते, न पुनः श्रद्धां च उपासते, ते सर्वेऽर्चिरभिसम्भवन्ति । यावत् गृहस्थाः पञ्चाग्निविद्यां सत्यं वा ब्रह्म न विदुः, तावत् श्रद्धाद्याहुतिक्रमेण पञ्चम्यामाहुतौ हुतायां ततो योषाग्नेर्जाताः, पुनर्लोकं प्रत्युत्थायिनः अग्निहोत्रादिकर्मानुष्ठातारो भवन्ति ; तेन कर्मणा धूमादिक्रमेण पुनः पितृलोकम् , पुनः पर्जन्यादिक्रमेण इमम् आवर्तन्ते । ततः पुनर्योषाग्नेर्जाताः पुनः कर्म कृत्वा — इत्येवमेव घटीयन्त्रवत् गत्यागतिभ्यां पुनः पुनः आवर्तन्ते । यदा तु एवं विदुः, ततो घटीयन्त्रभ्रमणाद्विनिर्मुक्ताः सन्तः अर्चिरभिसम्भवन्ति ; अर्चिरिति न अग्निज्वालामात्रम् , किं तर्हि अर्चिरभिमानिनी अर्चिःशब्दवाच्या देवता उत्तरमार्गलक्षणा व्यवस्थितैव ; तामभिसम्भवन्ति ; न हि परिव्राजकानाम् अग्न्यर्चिषैव साक्षात्सम्बन्धोऽस्ति ; तेन देवतैव परिगृह्यते अर्चिःशब्दवाच्या । अतः अहर्देवताम् ; मरणकालनियमानुपपत्तेः अहःशब्दोऽपि देवतैव ; आयुषः क्षये हि मरणम् ; न हि एवंविदा अहन्येव मर्तव्यमिति अहः मरणकालो नियन्तुं शक्यते ; न च रात्रौ प्रेताः सन्तः अहः प्रतीक्षन्ते, ‘स यावत्क्षिप्येत्मनस्तावदादित्यं गच्छति’ (छा. उ. ८ । ६ । ५) इति श्रुत्यन्तरात् । अह्न आपूर्यमाणपक्षम् , अहर्देवतया अतिवाहिता आपूर्यमाणपक्षदेवतां प्रतिपद्यन्ते, शुक्लपक्षदेवतामित्येतत् । आपूर्यमाणपक्षात् यान् षण्मासान् उदङ् उत्तरां दिशम् आदित्यः सविता एति, तान्मासान्प्रतिपद्यन्ते शुक्लपक्षदेवतया अतिवाहिताः सन्तः ; मासानिति बहुवचनात् सङ्घचारिण्यः षट् उत्तरायणदेवताः ; तेभ्यो मासेभ्यः षण्मासदेवताभिरतिवाहिताः देवलोकाभिमानिनीं देवतां प्रतिपद्यन्ते । देवलोकात् आदित्यम् ; आदित्यात् वैद्युतं विद्युदभिमानिनीं देवतां प्रतिपद्यन्ते । विद्युद्देवतां प्राप्तान् ब्रह्मलोकवासी पुरुषः ब्रह्मणा मनसा सृष्टो मानसः कश्चित् एत्य आगत्य ब्रह्मलोकान्गमयति ; ब्रह्मलोकानिति अधरोत्तरभूमिभेदेन भिन्ना इति गम्यन्ते, बहुवचनप्रयोगात् , उपासनतारतम्योपपत्तेश्च । ते तेन पुरुषेण गमिताः सन्तः, तेषु ब्रह्मलोकेषु पराः प्रकृष्टाः सन्तः, स्वयं परावतः प्रकृष्टाः समाः संवत्सराननेकान् वसन्ति, ब्रह्मणोऽनेकान्कल्पान्वसन्तीत्यर्थः । तेषां ब्रह्मलोकं गतानां नास्ति पुनरावृत्तिः अस्मिन्संसारे न पुनरागमनम् , ‘इह’ इति शाखान्तरपाठात् ; इहेति आकृतिमात्रग्रहणमिति चेत् , ‘श्वोभूते पौर्णमासीम्’ ( ? ) इति यद्वत् — न, इहेतिविशेषणानर्थक्यात् , यदि हि नावर्तन्त एव इहग्रहणमनर्थकमेव स्यात् ; ‘श्वोभूते पौर्णमासीम्’ ( ? ) इत्यत्र पौर्णमास्याः श्वोभूतत्वमनुक्तं न ज्ञायत इति युक्तं विशेषयितुम् ; न हि तत्र श्वआकृतिः शब्दार्थो विद्यत इति श्वःशब्दो निरर्थक एव प्रयुज्यते ; यत्र तु विशेषणशब्दे प्रयुक्ते अन्विष्यमाणे विशेषणफलं चेन्न गम्यते, तत्र युक्तो निरर्थकत्वेन उत्स्रष्टुं विशेषणशब्दः ; न तु सत्यां विशेषणफलागतौ । तस्मात् अस्मात्कल्पादूर्ध्वम् आवृत्तिर्गम्यते ॥
अथ ये यज्ञेन दानेन तपसा लोकाञ्जयन्ति ते धूममभिसम्भवन्ति धूमाद्रात्रिं रात्रेरपक्षीयमाणपक्षमपक्षीयमाणपक्षाद्यान्षण्मासान्दक्षिणादित्य एति मासेभ्यः पितृलोकं पितृलोकाच्चन्द्रं ते चन्द्रं प्राप्यान्नं भवन्ति तांस्तत्र देवा यथा सोमं राजानमाप्यायस्वापक्षीयस्वेत्येवमेनांस्तत्र भक्षयन्ति तेषां यदा तत्पर्यवैत्यथेममेवाकाशमभिनिष्पद्यन्त आकाशाद्वायुं वायोर्वृष्टिं वृष्टेः पृथिवीं ते पृथिवीं प्राप्यान्नं भवन्ति ते पुनः पुरुषाग्नौ हूयन्ते ततो योषाग्नौ जायन्ते लोकान्प्रत्युत्थायिनस्य एवमेवानुपरिवर्तन्तेऽथ य एतौ पन्थानौ न विदुस्ते कीटाः पतङ्गा यदिदं दन्दशूकम् ॥ १६ ॥
अथ पुनः ये नैवं विदुः, उत्क्रान्त्याद्यग्निहोत्रसम्बद्धपदार्थषट्कस्यैव वेदितारः केवलकर्मिणः, यज्ञेनाग्निहोत्रादिना, दानेन बहिर्वेदि भिक्षमाणेषु द्रव्यसंविभागलक्षणेन, तपसा बहिर्वेद्येव दीक्षादिव्यतिरिक्तेन कृच्छ्रचान्द्रायणादिना, लोकान् जयन्ति ; लोकानिति बहुवचनात् तत्रापि फलतारतम्यमभिप्रेतम् । ते धूममभिसम्भवन्ति ; उत्तरमार्ग इव इहापि देवता एव धूमादिशब्दवाच्याः, धूमदेवतां प्रतिपद्यन्त इत्यर्थः ; आतिवाहिकत्वं च देवतानां तद्वदेव । धूमात् रात्रिं रात्रिदेवताम् , ततः अपक्षीयमाणपक्षम् अपक्षीयमाणपक्षदेवताम् , ततो यान्षण्मासान् दक्षिणां दिशमादित्य एति तान् मासदेवताविशेषान् प्रतिपद्यन्ते । मासेभ्यः पितृलोकम् , पितृलोकाच्चन्द्रम् । ते चन्द्रं प्राप्य अन्नं भवन्ति ; तान् तत्रान्नभूतान् , यथा सोमं राजानमिह यज्ञे ऋत्विजः आप्यायस्व अपक्षीयस्वेति भक्षयन्ति, एवम् एनान् चन्द्रं प्राप्तान् कर्मिणः भृत्यानिव स्वामिनः भक्षयन्ति उपभुञ्जते देवाः ; ‘आप्यायस्वापक्षीयस्व’ इति न मन्त्रः ; किं तर्हि आप्याय्य आप्याय्य चमसस्थम् , भक्षणेन अपक्षयं च कृत्वा, पुनः पुनर्भक्षयन्तीत्यर्थः ; एवं देवा अपि सोमलोके लब्धशरीरान् कर्मिणः उपकरणभूतान् पुनः पुनः विश्रामयन्तः कर्मानुरूपं फलं प्रयच्छन्तः — तद्धि तेषामाप्यायनं सोमस्य आप्यायनमिव उपभुञ्जते उपकरणभूतान् देवाः । तेषां कर्मिणाम् यदा यस्मिन्काले, तत् यज्ञदानादिलक्षणं सोमलोकप्रापकं कर्म, पर्यवैति परिगच्छति परिक्षीयत इत्यर्थः, अथ तदा इममेव प्रसिद्धमाकाशमभिनिष्पद्यन्ते ; यास्ताः श्रद्धाशब्दवाच्या द्युलोकाग्नौ हुता आपः सोमाकारपरिणताः, याभिः सोमलोके कर्मिणामुपभोगाय शरीरमारब्धम् अम्मयम् , ताः कर्मक्षयात् हिमपिण्ड इवातपसम्पर्कात् प्रविलीयन्ते ; प्रविलीनाः सूक्ष्मा आकाशभूता इव भवन्ति ; तदिदमुच्यते — ‘इममेवाकाशमभिनिष्पद्यन्ते’ इति । ते पुनरपि कर्मिणः तच्छरीराः सन्तः पुरोवातादिना इतश्च अमुतश्च नीयन्ते अन्तरिक्षगाः ; तदाह — आकाशाद्वायुमिति । वायोर्वृष्टिं प्रतिपद्यन्ते ; तदुक्तम् — पर्जन्याग्नौ सोमं राजानं जुह्वतीति । ततो वृष्टिभूता इमां पृथिवीं पतन्ति । ते पृथिवीं प्राप्य व्रीहियवादि अन्नं भवन्ति ; तदुक्तम् — अस्मिंल्लोकेऽग्नौ वृष्टिं जुह्वति तस्या आहुत्या अन्नं सम्भवतीति । ते पुनः पुरुषाग्नौ हूयन्ते अन्नभूता रेतःसिचि ; ततो रेतोभूता योषाग्नौ हूयन्ते ; ततो जायन्ते ; लोकं प्रत्युत्थायिनः ते लोकं प्रत्युत्तिष्ठन्तः अग्निहोत्रादिकर्म अनुतिष्ठन्ति । ततो धूमादिना पुनः पुनः सोमलोकम् , पुनरिमं लोकमिति — ते एवं कर्मिणः अनुपरिवर्तन्ते घटीयन्त्रवत् चक्रीभूता बम्भ्रमतीत्यर्थः, उत्तरमार्गाय सद्योमुक्तये वा यावद्ब्रह्म न विदुः ; ‘इति नु कामयमानः संसरति’ (बृ. उ. ४ । ४ । ६) इत्युक्तम् । अथ पुनः ये उत्तरं दक्षिणं च एतौ पन्थानौ न विदुः, उत्तरस्य दक्षिणस्य वा पथः प्रतिपत्तये ज्ञानं कर्म वा नानुतिष्ठन्तीत्यर्थः ; ते किं भवन्तीत्युच्यते — ते कीटाः पतङ्गाः, यदिदं यच्चेदं दन्दशूकं दंशमशकमित्येतत् , भवन्ति । एवं हि इयं संसारगतिः कष्टा, अस्यां निमग्नस्य पुनरुद्धार एव दुर्लभः । तथा च श्रुत्यन्तरम् — ‘तानीमानि क्षुद्राण्यसकृदावर्तीनि भूतानि भवन्ति जायस्व म्रियस्व’ (छा. उ. ५ । १ । ८) इति । तस्मात्सर्वोत्साहेन यथाशक्ति स्वाभाविककर्मज्ञानहानेन दक्षिणोत्तरमार्गप्रतिपत्तिसाधनं शास्त्रीयं कर्म ज्ञानं वा अनुतिष्ठेदिति वाक्यार्थः ; तथा चोक्तम् — ‘अतो वै खलु दुर्निष्प्रपतरं तस्माज्जुगुप्सेत’ (छा. उ. ५ । १० । ६) इति श्रुत्यन्तरात् मोक्षाय प्रयतेतेत्यर्थः । अत्रापि उत्तरमार्गप्रतिपत्तिसाधन एव महान् यत्नः कर्तव्य इति गम्यते, ‘एवमेवानुपरिवर्तन्ते’ इत्युक्तत्वात् । एवं प्रश्नाः सर्वे निर्णीताः ; ‘असौ वै लोकः’ (बृ. उ. ६ । २ । ९) इत्यारभ्य ‘पुरुषः सम्भवति’ (बृ. उ. ६ । २ । १३) इति चतुर्थः प्रश्नः ‘यतिथ्यामाहुत्याम्’ (बृ. उ. ६ । २ । २) इत्यादिः प्राथम्येन ; पञ्चमस्तु द्वितीयत्वेन देवयानस्य वा पथः प्रतिपदं पितृयाणस्य वेति दक्षिणोत्तरमार्गप्रतिपत्तिसाधनकथनेन ; तेनैव च प्रथमोऽपि — अग्नेरारभ्य केचिदर्चिः प्रतिपद्यन्ते केचिद्धूममिति विप्रतिपत्तिः ; पुनरावृत्तिश्च द्वितीयः प्रश्नः — आकाशादिक्रमेणेमं लोकमागच्छन्तीति ; तेनैव — असौ लोको न सम्पूर्यते कीटपतङ्गादिप्रतिपत्तेश्च केषाञ्चिदिति, तृतीयोऽपि प्रश्नो निर्णीतः ॥
इति षष्ठाध्यायस्य द्वितीयं ब्राह्मणम् ॥
स यः कामयेत महत्प्राप्नुयामित्युदगयन आपूर्यमाणपक्षस्य पुण्याहे द्वादशाहमुपसद्व्रती भूत्वौदुम्बरे कंसे चमसे वा सर्वौषधं फलानीति सम्भृत्य परिसमुह्य परिलिप्याग्निमुपसमाधाय परिस्तीर्यावृताज्यं संस्कृत्य पुंसा नक्षत्रेण मन्थं सन्नीय जुहोति । यावन्तो देवास्त्वयि जातवेदस्तिर्यञ्चो घ्नन्ति पुरुषस्य कामान् । तेभ्योऽहं भागधेयं जुहोमि ते मा तृप्ताः सर्वैः कामैस्तर्पयन्तु स्वाहा । या तिरश्ची निपद्यतेऽहं विधरणी इति तां त्वा घृतस्य धारया यजे संराधनीमहं स्वाहा ॥ १ ॥
स यः कामयेत । ज्ञानकर्मणोर्गतिरुक्ता ; तत्र ज्ञानं स्वतन्त्रम् ; कर्म तु दैवमानुषवित्तद्वयायत्तम् ; तेन कर्मार्थं वित्तमुपार्जनीयम् ; तच् च अप्रत्यवायकारिणोपायेनेति तदर्थं मन्थाख्यं कर्म आरभ्यते महत्त्वप्राप्तये ; महत्त्वे च सति अर्थसिद्धं हि वित्तम् । तदुच्यते — स यः कामयेत, स यो वित्तार्थी कर्मण्यधिकृतः यः कामयेत ; किम् ? महत् महत्त्वम् प्राप्नुयाम् , महान्स्यामितीत्यर्थः । तत्र मन्थकर्मणो विधित्सितस्य कालोऽभिधीयते — उदगयने आदित्यस्य ; तत्र सर्वत्र प्राप्तौ आपूर्यमाणपक्षस्य शुक्लपक्षस्य ; तत्रापि सर्वत्र प्राप्तौ, पुण्याहे अनुकूले आत्मनः कर्मसिद्धिकर इत्यर्थः ; द्वादशाहम् , यस्मिन्पुण्येऽनुकूले कर्म चिकीर्षति ततः प्राक् पुण्याहमेवारभ्य द्वादशाहम् , उपसद्व्रती, उपसत्सु व्रतम् , उपसदः प्रसिद्धा ज्योतिष्टोमे, तत्र च स्तनोपचयापचयद्वारेण पयोभक्षणं तद्व्रतम् ; अत्र च तत्कर्मानुपसंहारात् केवलमितिकर्तव्यताशून्यं पयोभक्षणमात्रमुपादीयते ; ननु उपसदो व्रतमिति यदा विग्रहः, तदा सर्वमितिकर्तव्यतारूपं ग्राह्यं भवति, तत् कस्मात् न परिगृह्यत इत्युच्यते — स्मार्तत्वात्कर्मणः ; स्मार्तं हीदं मन्थकर्म । ननु श्रुतिविहितं सत् कथं स्मार्तं भवितुमर्हति — स्मृत्यनुवादिनी हि श्रुतिरियम् ; श्रौतत्वे हि प्रकृतिविकारभावः ; ततश्च प्राकृतधर्मग्राहित्वं विकारकर्मणः ; न तु इह श्रौतत्वम् ; अत एव च आवसथ्याग्नौ एतत्कर्म विधीयते, सर्वा च आवृत् स्मार्तैवेति । उपसद्व्रती भूत्वा पयोव्रती सन्नित्यर्थः औदुम्बरे उदुम्बरवृक्षमये, कंसे चमसे वा, तस्यैव विशेषणम् — कंसाकारे चमसाकरे वा औदुम्बर एव ; आकारे तु विकल्पः, न औदुम्बरत्वे । अत्र सर्वौषधं सर्वासामोषधीनां समूहं यथासम्भवं यथाशक्ति च सर्वा ओषधीः समाहृत्य ; तत्र ग्राम्याणां तु दश नियमेन ग्राह्या व्रीहियवाद्या वक्ष्यमाणाः ; अधिकग्रहणे तु न दोषः ; ग्राम्याणां फलानि च यथासम्भवं यथाशक्ति च ; इतिशब्दः समस्तसम्भारोपचयप्रदर्शनार्थः ; अन्यदपि यत्सम्भरणीयं तत्सर्वं सम्भृत्येत्यर्थः ; क्रमस्तत्र गृह्योक्तो द्रष्टव्यः । परिसमूहनपरिलेपने भूमिसंस्कारः । अग्निमुपसमाधायेति वचनात् आवसथ्येऽग्नाविति गम्यते, एकवचनात् उपसमाधानश्रवणाच्च ; विद्यमानस्यैव उपसमाधानम् ; परिस्तीर्य दर्भान् ; आवृता — स्मार्तत्वात्कर्मणः स्थालीपाकावृत् परिगृह्यते — तया आज्यं संस्कृत्य ; पुंसा नक्षत्रेण पुन्नाम्ना नक्षत्रेण पुण्याहसंयुक्तेन, मन्थं सर्वौषधफलपिष्टं तत्रौदुम्बरे चमसे दधनि मधुनि घृते च उपसिच्य एकया उपमन्थन्या उपसम्मथ्य, सन्नीय मध्ये संस्थाप्य, औदुम्बरेण स्रुवेण आवापस्थाने आज्यस्य जुहोति एतैर्मन्त्रैः ‘यावन्तो देवाः’ इत्याद्यैः ॥
ज्येष्ठाय स्वाहा श्रेष्ठाय स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति प्राणाय स्वाहा वसिष्ठायै स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति वाचे स्वाहा प्रतिष्ठायै स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति चक्षुषे स्वाहा सम्पदे स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति श्रोत्राय स्वाहायतनाय स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति मनसे स्वाहा प्रजात्यै स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति रेतसे स्वाहेत्यग्नौ हुत्वा संस्रवमवनयति ॥ २ ॥
अग्नये स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति सोमाय स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति भूः स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति भुवः स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति स्वः स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति भूर्भुवःस्वः स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति ब्रह्मणे स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति क्षत्त्राय स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति भूताय स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति भविष्यते स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति विश्वाय स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति सर्वाय स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति प्रजापतये स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति ॥ ३ ॥
ज्येष्ठाय स्वाहा श्रेष्ठाय स्वाहेत्यारभ्य द्वे द्वे आहुती हुत्वा मन्थे संस्रवमवनयति, स्रुवावलेपनमाज्यं मन्थे संस्रावयति । एतस्मादेव ज्येष्ठाय श्रेष्ठायेत्यादिप्राणलिङ्गात् ज्येष्ठश्रेष्ठादिप्राणविद एव अस्मिन् कर्मण्यधिकारः । ‘रेतसे’ इत्यारभ्य एकैकामाहुतिं हुत्वा मन्थे संस्रवमवनयति, अपरया उपमन्थन्या पुनर्मथ्नाति ॥
अथैनमभिमृशति भ्रमदसि ज्वलदसि पूर्णमसि प्रस्तब्धमस्येकसभमसि हिङ्कृतमसि हिङ्क्रियमाणमस्युद्गीथमस्युद्गीयमानमसि श्रावितमसि प्रत्याश्रावितमस्यार्द्रे सन्दीप्तमसि विभूरसि प्रभूरस्यन्नमसि ज्योतिरसि निधनमसि संवर्गोऽसीति ॥ ४ ॥
अथैनमभिमृशति ‘भ्रमदसि’ इत्यनेन मन्त्रेण ॥
अथैनमुद्यच्छत्यामं स्यामं हि ते महि स हि राजेशानोऽधिपतिः स मां राजेशानोऽधिपतिं करोत्विति ॥ ५ ॥
अथैनमुद्यच्छति सह पात्रेण हस्ते गृह्णाति ‘आमंस्यामंहि ते महि’ इत्यनेन ॥
अथैनमाचामति तत्सवितुर्वरेण्यम् । मधु वाता ऋतायते मधु क्षरन्ति सिन्धवः । माध्वीर्नः सन्त्वोषधीः । भूः स्वाहा । भर्गो देवस्य धीमहि । मधु नक्तमुतोषसो मधुमत्पार्थिवं रजः । मधु द्यौरस्तु नः पिता । भुवः स्वाहा । धियो यो नः प्रचोदयात् । मधुमान्नो वनस्पतिर्मधुमां अस्तु सूर्यः । माध्वीर्गावो भवन्तु नः । स्वः स्वाहेति । सर्वां च सावित्रीमन्वाह सर्वाश्च मधुमतीरहमेवेदं सर्वं भूयासं भूर्भुवः स्वः स्वाहेत्यन्तत आचम्य पाणी प्रक्षाल्य जघनेनाग्निं प्राक्शिराः संविशति प्रातरादित्यमुपतिष्ठते दिशामेकपुण्डरीकमस्यहं मनुष्याणामेकपुण्डरीकं भूयासमिति यथेतमेत्य जघनेनाग्निमासीनो वंशं जपति ॥ ६ ॥
अथैनम् आचामति भक्षयति, गायत्र्याः प्रथमपादेन मधुमत्या एकया व्याहृत्या च प्रथमया प्रथमग्रासमाचामति ; तथा गायत्रीद्वितीयपादेन मधुमत्या द्वितीयया द्वितीयया च व्याहृत्या द्वितीयं ग्रासम् ; तथा तृतीयेन गायत्रीपादेन तृतीयया मधुमत्या तृतीयया च व्याहृत्या तृतीयं ग्रासम् । सर्वां सावित्रीं सर्वाश्च मधुमतीरुक्त्वा ‘अहमेवेदं सर्वं भूयासम्’ इति च अन्ते ‘भूर्भुवःस्वः स्वाहा’ इति समस्तं भक्षयति । यथा चतुर्भिर्ग्रासैः तद्द्रव्यं सर्वं परिसमाप्यते, तथा पूर्वमेव निरूपयेत् । यत् पात्रावलिप्तम् , तत् पात्रं सर्वं निर्णिज्य तूष्णीं पिबेत् । पाणी प्रक्षाल्य आप आचम्य जघनेनाग्निं पश्चादग्नेः प्राक्शिराः संविशति । प्रातःसन्ध्यामुपास्य आदित्यमुपतिष्ठते ‘दिशामेकपुण्डरीकम्’ इत्यनेन मन्त्रेण । यथेतं यथागतम् , एत्य आगत्य जघनेनाग्निम् आसीनो वंशं जपति ॥
तं हैतमुद्दालक आरुणिर्वाजसनेयाय याज्ञवल्क्यायान्तेवासिन उक्त्वोवाचापि य एनं शुष्के स्थाणौ निषिञ्चेज्जायेरञ्छाखाः प्ररोहेयुः पलाशानीति ॥ ७ ॥
एतमु हैव वाजसनेयो याज्ञवल्क्यो मधुकाय पैङ्ग्यायान्तेवासिन उक्त्वोवाचापि य एनं शुष्के स्थाणौ निषिञ्चेज्जायेरञ्छाखाः प्ररोहेयुः पलाशानीति ॥ ८ ॥
एतमु हैव मधुकः पैङ्ग्यश्चूलाय भागवित्तयेऽन्तेवासिन उक्त्वोवाचापि य एनं शुष्के स्थाणौ निषिञ्चेज्जायेरञ्छाखाः प्ररोहेयुः पलाशानीति ॥ ९ ॥
एतमु हैव चूलो भागवित्तिर्जानकाय आयस्थूणायान्तेवासिन उक्त्वोवाचापि य एनं शुष्के स्थाणौ निषिञ्चेज्जायेरञ्छाखाः प्ररोहेयुः पलाशानीति ॥ १० ॥
एतमु हैव जानकिरायस्थूणः सत्यकामाय जाबालायान्तेवासिन उक्त्वोवाचापि य एनं शुष्के स्थाणौ निषिञ्चेज्जायेरञ्छाखाः प्ररोहेयुः पलाशानीति ॥ ११ ॥
एतमु हैव सत्यकामो जाबालोऽन्तेवासिभ्य उक्त्वोवाचापि य एनं शुष्के स्थाणौ निषिञ्चेज्जायेरञ्छाखाः प्ररोहेयुः पलाशानीति तमेतं नापुत्राय वान्तेवासिने वा ब्रूयात् ॥ १२ ॥
‘तं हैतमुद्दालकः’ इत्यादि सत्यकामो जाबालोन्तेवासिभ्य उक्त्वा उवाच — अपि यः एनं शुष्के स्थाणौ निषिञ्चेत् , जायेरन्नेव अस्मिन् शाखाः प्ररोहेयुः पलाशानि — इत्येवमन्तम् एनं मन्थम् उद्दालकात्प्रभृति एकैकाचार्यक्रमागतं सत्यकाम आचार्यो बहुभ्योऽन्तेवासिभ्य उक्त्वोवाच । किमन्यदुवाचेत्युच्यते — अपि यः एनं शष्के स्थाणौ गतप्राणेऽपि एनं मन्थं भक्षणाय संस्कृतं निषिञ्चेत् प्रक्षिपेत् , जायेरन् उत्पद्येरन्नेव अस्मिन् स्थाणौ शाखा अवयवा वृक्षस्य, प्ररोहेयुश्च पलाशानि पर्णानि, यथा जीवतः स्थाणोः ; किमुत अनेन कर्मणा कामः सिध्येदिति ; ध्रुवफलमिदं कर्मेति कर्मस्तुत्यर्थमेतत् । विद्याधिगमे षट् तीर्थानि ; तेषामिह सप्राणदर्शनस्य मन्थविज्ञानस्याधिगमे द्वे एव तीर्थे अनुज्ञायेते, पुत्रश्चान्तेवासी च ॥
चतुरौदुम्बरो भवत्यौदुम्बरः स्रुव औदुम्बरश्चमस औदुम्बर इध्म औदुम्बर्या उपमन्थन्यौ दश ग्राम्याणि धान्यानि भवन्ति व्रीहियवास्तिलमाषा अणुप्रियङ्गवो गोधूमाश्च मसूराश्च खल्वाश्च खलकुलाश्च तान्पिष्टान्दधनि मधुनि घृत उपसिञ्चत्याज्यस्य जुहोति ॥ १३ ॥
चतुरौदुम्बरो भवतीति व्याख्यातम् । दश ग्राम्याणि धान्यानि भवन्ति, ग्राम्याणां तु धान्यानां दश नियमेन ग्राह्या इत्यवोचाम । के त इति निर्दिश्यन्ते — व्रीहियवाः, तिलमाषाः, अणुप्रियङ्गवः अणवश्च अणुशब्दवाच्याः, क्वचिद्देशे प्रियङ्गवः प्रसिद्धाः कङ्गुशब्देन, खल्वा निष्पावाः वल्लशब्दवाच्या लोके, खलकुलाः कुलत्थाः । एतद्व्यतिरेकेण यथाशक्ति सर्वौषधयो.. ग्राह्याः फलानि च — इत्यवोचाम, अयाज्ञिकानि वर्जयित्वा ॥
इति षष्ठाध्यायस्य तृतीयं ब्राह्मणम् ॥
एषां वै भूतानां पृथिवी रसः पृथिव्या आपोऽपामोषधय ओषधीनां पुष्पाणि पुष्पाणां फलानि फलानां पुरुषः पुरुषस्य रेतः ॥ १ ॥
यादृग्जन्मा यथोत्पादितः यैर्वा गुणैर्विशिष्टः पुत्र आत्मनः पितुश्च लोक्यो भवतीति, तत्सम्पादनाय ब्राह्मणमारभ्यते । प्राणदर्शिनः श्रीमन्थं कर्म कृतवतः पुत्रमन्थेऽधिकारः । यदा पुत्रमन्थं चिकीर्षति तदा श्रीमन्थं कृत्वा ऋतुकालं पत्न्याः प्रतीक्षत इत्येतत् रेतस ओषध्यादिरसतमत्वस्तुत्या अवगम्यते । एषां वै चराचराणां भूतानां पृथिवी रसः सारभूतः, सर्वभूतानां मध्विति ह्युक्तम् । पृथिव्या आपो रसः, अप्सु हि पृथिव्योता च प्रोता च अपामोषधयो रसः, कार्यत्वात् रसत्वमोषध्यादीनां । ओषधीनां पुष्पाणि । पुष्पाणां फलानि । फलानां पुरुषः । पुरुषस्य रेतः, ‘सर्वेभ्योऽङ्गेभ्यस्तेजः सम्भूतम्’ (ऐ. उ. २ । १ । १) इति श्रुत्यन्तरात् ॥
स ह प्रजापतिरीक्षाञ्चक्रे हन्तास्मै प्रतिष्ठां कल्पयानीति स स्त्रियं ससृजे तां सृष्ट्वाध उपास्त तस्मात्स्त्रियमध उपासीत स एतं प्राञ्चं ग्रावाणमात्मन एव समुदपारयत्तेनैनामभ्यसृजत् ॥ २ ॥
यत एवं सर्वभूतानां सारतमम् एतत् रेतः, अतः कानु खल्वस्य योग्या प्रतिष्टेति स ह स्रष्टा प्रजापतिरीक्षाञ्चक्रे । ईक्षां कृत्वा स स्त्रियं ससृजे । तां च सृष्ट्वा अध उपास्त मैथुनाख्यं कर्म अधउपासनं नाम कृतवान् । तस्मात्स्त्रियमध उपासीत ; श्रेष्ठानुश्रयणा हि प्रजाः । अत्र वाजपेयसामान्यक्लृप्तिमाह — स एनं प्राञ्चं प्रकृष्टगतियुक्तम् आत्मनो ग्रावाणं सोमाभिषवोपलस्थानीयं काठिन्यसामान्यात् प्रजननेन्द्रियम् , उदपारयत् उत्पूरितवान् स्त्रीव्यञ्जनं प्रति ; तेन एनां स्त्रियम् अभ्यसृजत् अभिसंसर्गं कृतवान् ॥
तस्या वेदिरुपस्थो लोमानि बर्हिश्चर्माधिषवणे समिद्धो मध्यतस्तौ मुष्कौ स यावान्ह वै वाजपेयेन यजमानस्य लोको भवति तावानस्य लोको भवति य एवं विद्वानधोपहासं चरत्यासां स्त्रीणां सुकृतं वृङ्क्तेऽथ य इदमविद्वानधोपहासं चरत्यास्य स्त्रियः सुकृतं वृञ्जते ॥ ३ ॥
तस्या वेदिरित्यादि सर्वं सामान्यं प्रसिद्धम् । समिद्धोऽग्निः मध्यतः स्त्रीव्यञ्जनस्य ; तौ मुष्कौ अधिषवणफलके इति व्यवहितेन सम्बध्यते । वाजपेययाजिनो यावान् लोकः प्रसिद्धः, तावान् विदुषः मैथुनकर्मणो लोकः फलमिति स्तूयते । तस्मात् बीभत्सा नो कार्येति । य एवं विद्वानधोपहासं चरति आसां स्त्रीणां सुकृतं वृङ्क्ते आवर्जयति । अथ पुनः यः वाजपेयसम्पत्तिं न जानाति अविद्वान् रेतसो रसतमत्वं च अधोपहासं चरति, आ अस्य स्त्रियः सुकृतम् आवृञ्जते अविदुषः ॥
एतदद्ध स्म वै तद्विद्वानुद्दालक आरुणिराहैतद्ध स्म वै तद्विद्वान्नाको मौद्गल्य आहैतद्ध स्म वै तद्विद्वान्कुमारहारित आह बहवो मर्या ब्राह्मणायना निरिन्द्रिया विसुकृतोऽस्माल्लोकात्प्रयन्ति य इदमविद्वांसोऽधोपहासं चरन्तीति बहु वा इदं सुप्तस्य वा जाग्रतो वा रेतः स्कन्दति ॥ ४ ॥
एतद्ध स्म वै तत् विद्वान् उद्दालक आरुणिः आह अधोपहासाख्यं मैथुनकर्म वाजपेयसम्पन्नं विद्वानित्यर्थः । तथा नाको मौद्गल्यः कुमारहारितश्च । किं त आहुरित्युच्यते — बहवो मर्या मरणधर्मिणो मनुष्याः, ब्राह्मणा अयनं येषां ते ब्राह्मणायनाः ब्रह्मबन्धवः जातिमात्रोपजीविन इत्येतत् , निरिन्द्रियाः विश्लिष्टेन्द्रियाः, विसुकृतः विगतसुकृतकर्माणः, अविद्वांसः मैथुनकर्मासक्ता इत्यर्थः ; ते किम् ? अस्मात् लोकात् प्रयन्ति परलोकात् परिभ्रष्टा इति । मैथुनकर्मणोऽत्यन्तपापहेतुत्वं दर्शयति — य इदमविद्वांसोऽधोपहासं चरन्तीति । श्रीमन्थं कृत्वा पत्न्या ऋतुकालं ब्रह्मचर्येण प्रतीक्षते ; यदि इदं रेतः स्कन्दति, बहु वा अल्पं वा, सुप्तस्य वा जाग्रतो वा, रागप्राबल्यात् ॥४॥
तदभिमृशेदनु वा मन्त्रयेत यन्मेऽद्य रेतः पृथिवीमस्कान्त्सीद्यदोषधीरप्यसरद्यदपः । इदमहं तद्रेत आददे पुनर्मामैत्विन्द्रियं पुनस्तेजः पुनर्भगः । पुनरग्निर्धिष्ण्या यथास्थानं कल्पन्तामित्यनामिकाङ्गुष्ठाभ्यामादायान्तरेण स्तनौ वा भ्रुवौ वा निमृज्यात् ॥ ५ ॥
तदभिमृशेत् , अनुमन्त्रयेत वा अनुजपेदित्यर्थः । यदा अभिमृशति, तदा अनामिकाङ्गुष्ठाभ्यां तद्रेत आदत्ते ‘आददे’ इत्येवमन्तेन मन्त्रेण ; ‘पुनर्माम्’ इत्येतेन निमृज्यात् अन्तरेण मध्ये भ्रुवौ भ्रुवोर्वा, स्तनौ स्तनयोर्वा ॥
अथ यद्युदक आत्मानं पश्येत्तदभिमन्त्रयेत मयि तेज इन्द्रियं यशो द्रविणं सुकृतमिति श्रीर्ह वा एषा स्त्रीणां यन्मलोद्वासास्तस्मान्मलोद्वाससं यशस्विनीमभिक्रम्योपमन्त्रयेत ॥ ६ ॥
अथ यदि कदाचित् उदके आत्मानम् आत्मच्छायां पश्येत् , तत्रापि अभिमन्त्रयेत अनेन मन्त्रेण ‘मयि तेजः’ इति । श्रीर्ह वा एषा पत्नी स्त्रीणां मध्ये यत् यस्मात् मलोद्वासाः उद्गतमलवद्वासाः, तस्मात् तां मलोद्वाससं यशस्विनीं श्रीमतीमभिक्रम्य अभिगत्य उपमन्त्रयेत इदम् — अद्य आवाभ्यां कार्यं यत्पुत्रोत्पादनमिति, त्रिरात्रान्ते आप्लुताम् ॥
सा चेदस्मै न दद्यात्काममेनामवक्रीणीयात्सा चेदस्मै नैव दद्यात्काममेनां यष्ट्या वा पाणिना वोपहत्यातिक्रामेदिन्द्रियेण ते यशसा यश आदद इत्ययशा एव भवति ॥ ७ ॥
सा चेदस्मै न दद्यात् मैथुनं कर्तुम् , कामम् एनाम् अवक्रीणीयात् आभरणादिना ज्ञापयेत् । तथापि सा नैव दद्यात् , काममेनां यष्ट्या वा पाणिना वा उपहत्य अतिक्रामेत् मैथुनाय । शप्स्यामि त्वां दुर्भगां करिष्यामीति प्रख्याप्य, तामनेन मन्त्रेणोपगच्छेत् — ‘इन्द्रियेण ते यशसा यश आददे’ इति । सा तस्मात् तदभिशापात् वन्ध्या दुर्भगेति ख्याता अयशा एव भवति ॥
सा चेदस्मै दद्यादिन्द्रियेण ते यशसा यश आदधामीति यशस्विनावेव भवतः ॥ ८ ॥
सा चेदस्मै दद्यात् , अनुगुणैव स्याद्भर्तुः, तदा अनेन मन्त्रेण उपगच्छेत् ‘इन्द्रियेण ते यशसा यश आदधामि’ इति ; तदा यशस्विनावेव उभावपि भवतः ॥
स यामिच्छेत्कामयेत मेति तस्यामर्थं निष्ठाय मुखेन मुखं सन्धायोपस्थमस्या अभिमृश्य जपेदङ्गादङ्गात्सम्भवसि हृदयादधिजायसे । स त्वमङ्गकषायोऽसि दिग्धविद्धमिव मादयेमाममूं मयीति ॥ ९ ॥
स यां स्वभार्यामिच्छेत् — इयं मां कामयेतेति, तस्याम् अर्थं प्रजननेन्द्रियम् निष्ठाय निक्षिप्य, मुखेन मुखं सन्धाय, उपस्थमस्या अभिमृश्य, जपेदिमं मन्त्रम् — ‘अङ्गादङ्गात्’ इति ॥
अथ यामिच्छेन्न गर्भं दधीतेति तस्यामर्थं निष्ठाय मुखेन मुखं सन्धायाभिप्राण्यापान्यादिन्द्रियेण ते रेतसा रेत आदद इत्यरेता एव भवति ॥ १० ॥
अथ यामिच्छेत् — न गर्भं दधीत न धारयेत् गर्भिणी मा भूदिति, तस्याम् अर्थमिति पूर्ववत् । अभिप्राण्य अभिप्राणनं प्रथमं कृत्वा, पश्चात् अपान्यात् — ‘इन्द्रियेण ते रेतसा रेत आददे’ इत्यनेन मन्त्रेण ; अरेता एव भवति, न गर्भिणी भवतीत्यर्थः ॥
अथ यामिच्छेद्दधीतेति तस्यामर्थं निष्ठाय मुखेन मुखं सन्धायापान्याभिप्राण्यादिन्द्रियेण ते रेतसा रेत आदधामीति गर्भिण्येव भवति ॥ ११ ॥
अथ यामिच्छेत् — दधीत गर्भमिति, तस्यामर्थमित्यादि पूर्ववत् । पूर्वविपर्ययेण अपान्य अभिप्राण्यात् ‘इन्द्रियेण ते रेतसा रेत आदधामि’ इति ; गर्भिण्येव भवति ॥
अथ यस्य जायायै जारः स्यात्तं चेद्द्विष्यादामपात्रेऽग्निमुपसमाधाय प्रतिलोमं शरबर्हिस्तीर्त्वा तस्मिन्नेताः शरभृष्टीः प्रतिलोमाः सर्पिषाक्ता जुहुयान्मम समिद्धेऽहौषीः प्राणापानौ त आददेऽसाविति मम समिद्धेऽहौषीः पुत्रपशूंस्त आददेऽसाविति मम समिद्धेऽहौषीरिष्टासुकृते त आददेऽसाविति मम समिद्धेऽहौषीराशापराकाशौ त आददेऽसाविति स वा एष निरिन्द्रियो विसुकृतोऽस्माल्लोकात्प्रैति यमेवंविद्ब्राह्मणः शपति तस्मादेवंविच्छ्रोत्रियस्य दारेण नोपहासमिच्छेदुत ह्येवंवित्परो भवति ॥ १२ ॥
अथ पुनर्यस्य जायायै जारः उपपतिः स्यात् , तं चेत् द्विष्यात् , अभिचरिष्याम्येनमिति मन्येत, तस्येदं कर्म । आमपात्रे अग्निमुपसमाधाय सर्वं प्रतिलोमं कुर्यात् ; तस्मिन् अग्नौ एताः शरभृष्टीः शरेषीकाः प्रतिलोमाः सर्पिषा अक्ताः घृताभ्यक्ताः जुहुयात् ‘मम समिद्धेऽहौषीः’ इत्याद्या आहुतीः ; अन्ते सर्वासाम् असाविति नामग्रहणं प्रत्येकम् ; स एषः एवंवित् , यं ब्राह्मणः शपति, सः विसुकृतः विगतपुण्यकर्मा प्रैति । तस्मात् एवंवित् श्रोत्रियस्य दारेण नोपहासमिच्छेत् नर्मापि न कुर्यात् , किमुत अधोपहासम् ; हि यस्मात् एवंविदपि तावत् परो भवति शत्रुर्भवतीत्यर्थः ॥
अथ यस्य जायामार्तवं विन्देत्त्र्यहं कंसेन पिबेदहतवासा नैनां वृषलो न वृषल्युपहन्यात्त्रिरात्रान्त आप्लुत्य व्रीहीनवघातयेत् ॥ १३ ॥
अथ यस्य जायाम् आर्तवं विन्देत् ऋतुभावं प्राप्नुयात् — इत्येवमादिग्रन्थः ‘श्रीर्ह वा एषा स्त्रीणाम्’ इत्यतः पूर्वं द्रष्टव्यः, सामर्थ्यात् । त्र्यहं कंसेन पिबेत् , अहतवासाश्च स्यात् ; नैनां स्नाताम् अस्नातां च वृषलो वृषली वा नोपहन्यात् नोपस्पृशेत् । त्रिरात्रान्ते त्रिरात्रव्रतसमाप्तौ आप्लुत्य स्नात्वा अहतवासाः स्यादिति व्यवहितेन सम्बन्धः ; ताम् आप्लुतां व्रीहन् अवघातयेत् व्रीह्यवघाताय तामेव विनियुञ्ज्यात् ॥
स य इच्छेत्पुत्रो मे शुक्लो जायेत वेदमनुब्रुवीत सर्वमायुरियादिति क्षीरौदनं पाचयित्वा सर्पिष्मन्तमश्नीयातामीश्वरौ जनयितवै ॥ १४ ॥
स य इच्छेत् — पुत्रो मे शुक्लो वर्णतो जायेत, वेदमेकमनुब्रुवीत, सर्वमायुरियात् — वर्षशतं क्षीरौदनं पाचयित्वा सर्पिष्मन्तमश्नीयाताम् ईश्वरौ समर्थौ जनयितवै जनयितुम् ॥
अथ य इच्छेत्पुत्रो मे कपिलः पिङ्गलो जायते द्वौ वेदावनुब्रुवीत् सर्वमायुरियादिति दध्योदनं पाचयित्वा सर्पिष्मन्तमश्नीयातामीश्वरौ जनयितवै ॥ १५ ॥
दध्योदनं दध्ना चरुं पाचयित्वा ; द्विवेदं चेदिच्छति पुत्रम् , तदा एवमशननियमः ॥
अथ य इच्छेत्पुत्रो मे श्यामो लोहिताक्षो जायेत त्रीन्वेदाननुब्रुवीत सर्वमायुरियादित्युदौदनं पाचयित्वा सर्पिष्मन्तमश्नीयातामीश्वरौ जनयितवै ॥ १६ ॥
केवलमेव स्वाभाविकमोदनम् । उदग्रहणम् अन्यप्रसङ्गनिवृत्त्यर्थम् ॥
अथ य इच्छेद्दुहिता मे पण्डिता जायेत सर्वमायुरियादिति तिलौदनं पाचयित्वा सर्पिष्मन्तमश्नीयातामीश्वरौ जनयितवै ॥ १७ ॥
दुहितुः पाण्डित्यं गृहतन्त्रविषयमेव, वेदेऽनधिकारात् । तिलौदनं कृशरम् ॥
अथ य इच्छेत्पुत्रो मे पण्डितो विगीतः समितिङ्गमः शुश्रूषितां वाचं भाषिता जायेत सर्वान्वेदाननुब्रुवीत सर्वमायुरियादिति मांसौदनं पाचयित्वा सर्पिष्मन्तमश्नीयातामीश्वरौ जनयितवा औक्षेण वार्षभेण वा ॥ १८ ॥
विविधं गीतो विगीतः प्रख्यात इत्यर्थः ; समितिङ्गमः सभां गच्छतीति प्रगल्भ इत्यर्थः, पाण्डित्यस्य पृथग्ग्रहणात् ; शुश्रूषितां श्रोतुमिष्टां रमणीयां वाचं भाषिता संस्कृताया अर्थवत्या वाचो भाषितेत्यर्थः । मांसमिश्रमोदनं मांसौदनम् । तन्मांसनियमार्थमाह — औक्षेण वा मांसेन ; उक्षा सेचनसमर्थः पुङ्गवः, तदीयं मांसम् ; ऋषभः ततोऽप्यधिकवयाः, तदीयम् आर्षभं मांसम् ॥
अथाभिप्रातरेव स्थालीपाकावृताज्यं चेष्टित्वा स्थालीपाकस्योपघातं जुहोत्यग्नये स्वाहानुमतये स्वाहा देवाय सवित्रे सत्यप्रसवाय स्वाहेति हुत्वोद्धृत्य प्राश्नाति प्राश्येतरस्याः प्रयच्छति प्रक्षाल्य पाणी उदपात्रं पूरयित्वा तेनैनां त्रिरभ्युक्षत्युत्तिष्ठातो विश्वावसोऽन्यामिच्छ प्रपूर्व्यां सं जायां पत्या सहेति ॥ १९ ॥
अथाभिप्रातरेव काले अवघातनिर्वृत्तान् तण्डुलानादाय स्थालीपाकावृता स्थालीपाकविधिना, आज्यं चेष्टित्वा, आज्यसंस्कारं कृत्वा, चरुं श्रपयित्वा, स्थालीपाकस्य आहुतीः जुहोति, उपघातम् उपहत्योपहत्य ‘अग्नये स्वाहा’ इत्याद्याः । गार्ह्यः सर्वो विधिः द्रष्टव्यः अत्र ; हुत्वा उद्धृत्य चरुशेषं प्राश्नाति ; स्वयं प्राश्य इतरस्याः पत्न्यै प्रयच्छति उच्छिष्टम् । प्रक्षाल्य पाणी आचम्य उदपात्रं पूरयित्वा तेनोदकेन एनां त्रिरभ्युक्षति अनेन मन्त्रेण ‘उत्तिष्ठातः’ इति, सकृन्मन्त्रोच्चारणम् ॥
अथैनामभिपद्यतेऽमोऽहमस्मि सा त्वं सा त्वमस्यमोऽहं सामाहमस्मि ऋक्त्वं द्यौरहं पृथिवी त्वं तावेहि संरभावहै सह रेतो दधावहै पुंसे पुत्राय वित्तय इति ॥ २० ॥
अथैनामभिमन्त्र्य क्षीरौदनादि यथापत्यकामं भुक्त्वेति क्रमो द्रष्टव्यः । संवेशनकाले — ‘अमोऽहमस्मि’ इत्यादिमन्त्रेणाभिपद्यते ॥
अथास्या ऊरू विहापयति विजिहीथां द्यावापृथिवी इति तस्यामर्थं निष्ठाय मुखेन मुखं सन्धाय त्रिरेनामनुलोमामनुमार्ष्टि विष्णुर्योनिं कल्पयतु त्वष्टा रूपाणि पिंशतु । आसिञ्चतु प्रजापतिर्धाता गर्भं दधातु ते । गर्भं धेहि सिनीवालि गर्भं धेहि पृथुष्टुके । गर्भं ते अश्विनौ देवावाधत्तां पुष्करस्रजौ ॥ २१ ॥
अथास्या ऊरू विहापयति ‘विजिहीथां द्यावापृथिवी’ इत्यनेन । तस्यामर्थमित्यादि पूर्ववत् । त्रिः एनां शिरःप्रभृति अनुलोमामनुमार्ष्टि ‘विष्णुर्योनिम्’ इत्यादि प्रतिमन्त्रम् ॥
हिरण्मयी अरणी याभ्यां निर्मन्थतामश्विनौ । तं ते गर्भं हवामहे दशमे मासि सूतये । यथाग्निगर्भा पृथिवी यथा द्यौरिन्द्रेण गर्भिणी । वायुर्दिशां यथा गर्भ एवं गर्भं दधामि तेऽसाविति ॥ २२ ॥
अन्ते नाम गृह्णाति — असाविति तस्याः ॥
सोष्यन्तीमद्भिरभ्युक्षति । यथा वायुः पुष्करिणीं समिङ्गयति सर्वतः । एवा ते गर्भ एजतु सहावैतु जरायुणा । इन्द्रस्यायं व्रजः कृतः सार्गलः सपरिश्रयः । तमिन्द्र निर्जहि गर्भेण सावरां सहेति ॥ २३ ॥
सोष्यन्तीम् अद्भिरभ्युक्षति प्रसवकाले सुखप्रसवनार्थम् अनेन मन्त्रेण — ‘यथा वायुः पुष्करिणीं समिङ्गयति सर्वतः । एवा ते गर्भ एजतु’ इति ॥
जातेऽग्निमुपसमाधायाङ्क आधाय कंसे पृषदाज्यं सन्नीय पृषदाज्यस्योपघातं जुहोत्यस्मिन्सहस्रं पुष्यासमेधमानः स्वे गृहे । अस्योपसन्द्यां मा च्छैत्सीत्प्रजया च पशुभिश्च स्वाहा । मयि प्राणांस्त्वयि मनसा जुहोमि स्वाहा । यत्कर्मणात्यरीरिचं यद्वा न्यूनमिहाकरम् । अग्निष्टत्स्विष्टकृद्विद्वान्स्विष्टं सुहुतं करोतु नः स्वाहेति ॥ २४ ॥
अथ जातकर्म । जातेऽग्निमुपसमाधाय अङ्के आधाय पुत्रम् , कंसे पृषदाज्यं सन्नीय संयोज्य दधिघृते, पृषदाज्यस्य उपघातं जुहोति ‘अस्मिन्सहस्रम्’ इत्याद्यावापस्थाने ॥
अथास्य दक्षिणं कर्णमभिनिधाय वाग्वागिति त्रिरथ दधि मधु घृतं सन्नीयानन्तर्हितेन जातरूपेण प्राशयति । भूस्ते दधामि भुवस्ते दधामि स्वस्ते दधामि भूर्भुवःस्वः सर्वं त्वयि दधामीति ॥ २५ ॥
अथास्य दक्षिणं कर्णमभिनिधाय स्वं मुखम् ‘वाग्वाक्’ इति त्रिर्जपेत् । अथ दधि मधु घृतं सन्नीय अनन्तर्हितेन अव्यवहितेन जातरूपेण हिरण्येन प्राशयति एतैर्मन्त्रैः प्रत्येकम् ॥
अथास्य नाम करोति वेदोऽसीति तदस्य तद्गुह्यमेव नाम भवति ॥ २६ ॥
अथास्य नामधेयं करोति ‘वेदोऽसि’ इति । तदस्य तद्गुह्यं नाम भवति — वेद इति ॥
अथैनं मात्रे प्रदाय स्तनं प्रयच्छति यस्ते स्तनः शशयो यो मयोभूर्यो रत्नधा वसुविद्यः सुदत्रः । येन विश्वा पुष्यसि वार्याणि सरस्वति तमिह धातवे करिति ॥ २७ ॥
अथैनं मात्रे प्रदाय स्वाङ्कस्थम् , स्तनं प्रयच्छति ‘यस्ते स्तनः’ इत्यादिमन्त्रेण ॥
अथास्य मातरमभिमन्त्रयते । इलासि मैत्रावरुणी वीरे वीरमजीजनत् । सा त्वं वीरवती भव यास्मान्वीरवतोऽकरदिति । तं वा एतमाहुरतिपिता बताभूरतिपितामहो बताभूः परमां बत काष्ठां प्रापच्छ्रिया यशसा ब्रह्मवर्चसेन य एवंविदो ब्राह्मणस्य पुत्रो जायत इति ॥ २८ ॥
अथास्य मातरमभिमन्त्रयते ‘इलासि’ इत्यनेन । तं वा एतमाहुरिति — अनेन विधिना जातः पुत्रः पितरं पितामहं च अतिशेते इति श्रिया यशसा ब्रह्मवर्चसेन परमां निष्ठां प्रापत् — इत्येवं स्तुत्यो भवतीत्यर्थः । यस्य च एवंविदो ब्राह्मणस्य पुत्रो जायते, स च एवं स्तुत्यो भवतीत्यध्याहार्यम् ॥
इति षष्ठाध्यायस्य चतुर्थं ब्राह्मणम् ॥
अथ वंशः । पौतिमाषीपुत्रः कात्यायनीपुत्रात्कात्यायनीपुत्रो गौतमीपुत्राद्गौतमीपुत्रो भारद्वाजीपुत्राद्भारद्वाजीपुत्रः पाराशरीपुत्रात्पाराशरीपुत्र औपस्वस्तीपुत्रादौपस्वस्तीपुत्रः पाराशरीपुत्रात्पाराशरीपुत्रः कात्यायनीपुत्रात्कात्यायनीपुत्रः कौशिकीपुत्रात्कौशिकीपुत्र आलम्बीपुत्राच्च वैयाघ्रपदीपुत्राच्च वैयाघ्रपदीपुत्रः काण्वीपुत्राच्च कापीपुत्राच्च कापीपुत्रः ॥ १ ॥
अथेदानीं समस्तप्रवचनवंशः स्त्रीप्राधान्यात् । गुणवान्पुत्रो भवतीति प्रस्तुतम् ; अतः स्त्रीविशेषणेनैव पुत्रविशेषणात् आचार्यपरम्परा कीर्त्यते । तानीमानि शुक्लानीति अव्यामिश्राणि ब्राह्मणेन । अथवा यानीमानि यजूंषि तानि शुक्लानि शुद्धानीत्येतत् । प्रजापतिमारभ्य यावत्पौतिमाषीपुत्रः तावत् अधोमुखो नियताचार्यपूर्वक्रमो वंशः समानम् आ साञ्जीवीपुत्रात् ; ब्रह्मणः प्रवचनाख्यस्य ; तच्चैतत् ब्रह्म प्रजापतिप्रबन्धपरम्परया आगत्य अस्मास्वनेकधा विप्रसृतम् अनाद्यनन्तं स्वयम्भु ब्रह्म नित्यम् ; तस्मै ब्रह्मणे नमः । नमस्तदनुवर्तिभ्यो गुरुभ्यः ॥१-२-३-४॥
आत्रेयीपुत्रादात्रेयीपुत्रो गौतमीपुत्राद्गौतमीपुत्रो भारद्वाजीपुत्राद्भारद्वाजीपुत्रः पाराशरीपुत्रात्पराशरीपुत्रो वात्सीपुत्राद्वात्सीपुत्रः पाराशरीपुत्रात्पाराशरीपुत्रो वार्कारुणीपुत्राद्वार्कारुणीपुत्रो वार्कारुणीपुत्राद्वार्कारुणीपुत्र आर्तभागीपुत्रादार्तभागीपुत्रः शौङ्गीपुत्राच्छौङ्गीपुत्रः साङ्कृतीपुत्रात्साङ्कृतीपुत्र आलम्बायनीपुत्रादालम्बायनीपुत्र आलम्बीपुत्रादालम्बीपुत्रो जायन्तीपुत्राज्जायन्तीपुत्रो माण्डूकायनीपुत्रान्माण्डूकायनीपुत्रो माण्डूकीपुत्रान्माण्डूकी पुत्रः शाण्डलीपुत्राच्छाण्डलीपुत्रो राथीतरीपुत्राद्राथीतरीपुत्रो भालुकीपुत्राद्भालुकीपुत्रः क्रौञ्चिकीपुत्राभ्यां क्रौञ्चिकीपुत्रौ वैदभृतीपुत्राद्वैदभृतीपुत्रः कार्शकेयीपुत्रात्कार्शकेयीपुत्रः प्राचीनयोगीपुत्रात्प्राचीनयोगीपुत्रः साञ्जीवीपुत्रात्साञ्जीवीपुत्रः प्राश्नीपुत्रादासुरिवासिनः प्राश्नीपुत्र आसुरायणादासुरायण आसुरेरासुरिः ॥ २ ॥
याज्ञवल्क्याद्याज्ञवल्क्य उद्दालकादुद्दालकोऽरुणादरुण उपवेशेरुपवेशिः कुश्रेः कुश्रिर्वाजश्रवसो वाजश्रवा जिह्वावतो बाध्योगाज्जिह्वावान्बाध्योगोऽसिताद्वार्षगणादसितो वार्षगणो हरितात्कश्यपाद्धरितः कश्यपः शिल्पात्कश्यपाच्छिल्पः कश्यपः कश्यपान्नैध्रुवेः कश्यपो नैध्रुविर्वाचो वागम्भिण्या अम्भिण्यादित्यादादित्यानीमानि शुक्लानि यजूंषि वाजसनेयेन याज्ञवल्क्येनाख्यायन्ते ॥ ३ ॥
समानमा साञ्जीवीपुत्रात्साञ्जीवीपुत्रो माण्डूकायनेर्माण्डूकायनिर्माण्डव्यान्माण्डव्यः कौत्सात्कौत्सो माहित्थेर्माहित्थिर्वामकक्षायणाद्वामकक्षायणः शाण्डिल्याच्छण्डिल्यो वात्स्याद्वात्स्यः कुश्रेः कुश्रिर्यज्ञवचसो राजस्तम्बायनाद्यज्ञवचा राजस्तम्बायनस्तुरात्कावषेयात्तुरः कावषेयः प्रजापतेः प्रजापतिर्ब्रह्मणो ब्रह्म स्वयम्भु ब्रह्मणे नमः ॥ ४ ॥
इति षष्ठाध्यायस्य पञ्चमं ब्राह्मणम् ॥