ओं खं ब्रह्म । खं पुराणं वायुरं खमिति ह स्माह कौरव्यायणीपुत्रो वेदोऽयं ब्राह्मणा विदुर्वेदैनेन यद्वेदितव्यम् ॥ १ ॥
पूर्णमद इत्यादि खिलकाण्डमारभ्यते । अध्यायचतुष्टयेन यदेव साक्षादपरोक्षाद्ब्रह्म, य आत्मा सर्वान्तरः निरुपाधिकः अशनायाद्यतीतः नेति नेतीति व्यपदेश्यः निर्धारितः, यद्विज्ञानं केवलममृतत्वसाधनम् — अधुना तस्यैव आत्मनः सोपाधिकस्य शब्दार्थादिव्यवहारविषयापन्नस्य पुरस्तादनुक्तानि उपासनानि कर्मभिरविरुद्धानि प्रकृष्टाभ्युदयसाधनानि क्रममुक्तिभाञ्जि च ; तानि वक्तव्यानीति परः सन्दर्भः ; सर्वोपासनशेषत्वेन ओङ्कारो दमं दानं दयाम् इत्येतानि च विधित्सितानि । पूर्णमदः — पूर्णम् न कुतश्चित् व्यावृत्तं व्यापीत्येतत् ; निष्ठा च कर्तरि द्रष्टव्या ; अद इति परोक्षाभिधायि सर्वनाम, तत् परं ब्रह्मेत्यर्थः ; तत् सम्पूर्णम् आकाशवद्व्यापि निरन्तरं निरुपाधिकं च ; तदेव इदं सोपाधिकं नामरूपस्थं व्यवहारापन्नं पूर्णं स्वेन रूपेण परमात्मना व्याप्येव, न उपाधिपरिच्छिन्नेन विशेषात्मना ; तदिदं विशेषापन्नं कार्यात्मकं ब्रह्म पूर्णात्कारणात्मनः उदच्यते उद्रिच्यते, उद्गच्छतीत्येतत् । यद्यपि कार्यात्मना उद्रिच्यते तथापि यत्स्वरूपं पूर्णत्वम् परमात्मभावं तन्न जहाति, पूर्णमेव उद्रिच्यते । पूर्णस्य कार्यात्मनो ब्रह्मणः, पूर्णं पूर्णत्वम् , आदाय गृहीत्वा आत्मस्वरूपैकरसत्वमापद्य विद्यया, अविद्याकृतं भूतमात्रोपाधिसंसर्गजम् अन्यत्वावभासं तिरस्कृत्य, पूर्णमेव अनन्तरमबाह्यं प्रज्ञानघनैकरसस्वभावं केवलं ब्रह्म अवशिष्यते । यदुक्तम् —
‘ब्रह्म वा इदमग्र आसीत् तदात्मानमेवावेत् तस्मात्तत्सर्वमभवत्’ (बृ. उ. १ । ४ । १०) इति — एषः अस्य मन्त्रस्यार्थः ; तत्र ‘ब्रह्म’ इत्यस्यार्थः ‘पूर्णमदः’ इति ; इदं पूर्णम् इति ‘ब्रह्म वा इदमग्र आसीत्’ इत्यस्यार्थः ; तथा च श्रुत्यन्तरम् —
‘यदेवेह तदमुत्र यदमुत्र तदन्विह’ (क. उ. २ । १ । १०) इति ; अतः अदःशब्दवाच्यं पूर्णं ब्रह्म, तदेव इदं पूर्णं कार्यस्थं नामरूपोपाधिसंयुक्तम् अविद्यया उद्रिक्तम् तस्मादेव परमार्थस्वरूपात् अन्यदिव प्रत्यवभासमानम् — तत् , यत् आत्मानमेव परं पूर्णं ब्रह्म विदित्वा — अहम् अदः पूर्णं ब्रह्मास्मि इत्येवम् , पूर्णमादाय, तिरस्कृत्य अपूर्णस्वरूपताम् अविद्याकृतां नामरूपोपाधिसम्पर्कजाम् एतया ब्रह्मविद्यया पूर्णमेव केवलम् अवशिष्यते ; तथा चोक्तम् ‘तस्मात्तत्सर्वमभवत्’ इति । यः सर्वोपनिषदर्थो ब्रह्म, स एषः अनेन मन्त्रेण अनूद्यते, उत्तरसम्बन्धार्थम् । ब्रह्मविद्यासाधनत्वेन हि वक्ष्यमाणानि साधनानि ओङ्कारदमदानदयाख्यानि विधित्सितानि, खिलप्रकरणसम्बन्धात् सर्वोपासनाङ्गभूतानि च ॥
अत्रैके वर्णयन्ति — पूर्णात् कारणात् पूर्णं कार्यम् उद्रिच्यते ; उद्रिक्तं कार्यं वर्तमानकालेऽपि पूर्णमेव परमार्थवस्तुभूतं द्वैतरूपेण ; पुनः प्रलयकाले पूर्णस्य कार्यस्य पूर्णताम् आदाय आत्मनि धित्वा पूर्णमेव अवशिष्यते कारणरूपम् ; एवम् उत्पत्तिस्थितिप्रलयेषु त्रिष्वपि कालेषु कार्यकारणयोः पूर्णतैव ; सा च एकैव पूर्णता कार्यकारणयोर्भेदेन व्यपदिश्यते ; एवं च द्वैताद्वैतात्मकमेकं ब्रह्म । यथा किल समुद्रो जलतरङ्गफेनबुद्बुदाद्यात्मक एव, यथा च जलं सत्यं तदुद्भवाश्च तरङ्गफेनबुद्बुदादयः समुद्रात्मभूता एव आविर्भावतिरोभावधर्माणः परमार्थसत्या एव — एवं सर्वमिदं द्वैतं परमार्थसत्यमेव जलतरङ्गादिस्थानीयम् , समुद्रजलस्थानीयं तु परं ब्रह्म । एवं च किल द्वैतस्य सत्यत्वे कर्मकाण्डस्य प्रामाण्यम् , यदा पुनर्द्वैतं द्वैतमिवाविद्याकृतं मृगतृष्णिकावदनृतम् , अद्वैतमेव परमार्थतः, तदा किल कर्मकाण्डं विषयाभावात् अप्रमाणं भवति ; तथा च विरोध एव स्यात् । वेदैकदेशभूता उपनिषत् प्रमाणम् , परमार्थाद्वैतवस्तुप्रतिपादकत्वात् ; अप्रमाणं कर्मकाण्डम् , असद्द्वैतविषयत्वात् । तद्विरोधपरिजिहीर्षया श्रुत्या एतदुक्तं कार्यकारणयोः सत्यत्वं समुद्रवत् ‘पूर्णमदः’ इत्यादिना इति । तदसत् , विशिष्टविषयापवादविकल्पयोरसम्भवात् । न हि इयं सुविवक्षिता कल्पना । कस्मात् ? यथा क्रियाविषये उत्सर्गप्राप्तस्य एकदेशे अपवादः क्रियते, यथा
‘अहिंसन्सर्वभूतान्यन्यत्र तीर्थेभ्यः’ (छा. उ. ८ । १५ । १) इति हिंसा सर्वभूतविषया उत्सर्गेण निवारिता तीर्थे विशिष्टविषये ज्योतिष्टोमादावनुज्ञायते, न च तथा वस्तुविषये इह अद्वैतं ब्रह्म उत्सर्गेण प्रतिपाद्य पुनः तदेकदेशे अपवदितुं शक्यते, ब्रह्मणः अद्वैतत्वादेव एकदेशानुपपत्तेः । तथा विकल्पानुपपत्तेश्च ; यथा
‘अतिरात्रे षोडशिनं गृह्णाति’ ( ? ) ‘नातिरात्रे षोडशिनं गृह्णाति’ ( ? ) इति ग्रहणाग्रहणयोः पुरुषाधीनत्वात् विकल्पो भवति ; न त्विह तथा वस्तुविषये द्वैतं वा स्यात् अद्वैतं वेति विकल्पः सम्भवति, अपुरुषतन्त्रत्वादात्मवस्तुनः, विरोधाच्च द्वैताद्वैतत्वयोरेकस्य । तस्मात् न सुविवक्षिता इयं कल्पना । श्रुतिन्यायविरोधाच्च । सैन्धवघनवत् प्रज्ञानैकरसघनं निरन्तरं पूर्वापरबाह्याभ्यन्तरभेदविवर्जितं सबाह्याभ्यन्तरम् अजं नेति नेति अस्थूलमनण्वह्रस्वमजरमभयममृतम् — इत्येवमाद्याः श्रुतयः निश्चितार्थाः संशयविपर्यासाशङ्कारहिताः सर्वाः समुद्रे प्रक्षिप्ताः स्युः, अकिञ्चित्करत्वात् । तथा न्यायविरोधोऽपि, सावयवस्यानेकात्मकस्य क्रियावतो नित्यत्वानुपपत्तेः ; नित्यत्वं च आत्मनः स्मृत्यादिदर्शनात् अनुमीयते ; तद्विरोधश्च प्राप्नोति अनित्यत्वे ; भवत्कल्पनानर्थक्यं च ; स्फुटमेव च अस्मिन्पक्षे कर्मकाण्डानर्थक्यम् , अकृताभ्यागमकृतविप्रणाशप्रसङ्गात् । ननु ब्रह्मणो द्वैताद्वैतात्मकत्वे समुद्रादिदृष्टान्ता विद्यन्ते ; कथमुच्यते भवता एकस्य द्वैताद्वैतत्वं विरुद्धमिति ? न, अन्यविषयत्वात् ; नित्यनिरवयववस्तुविषयं हि विरुद्धत्वम् अवोचाम द्वैताद्वैतत्वस्य, न कार्यविषये सावयवे । तस्मात् श्रुतिस्मृतिन्यायविरोधात् अनुपपन्नेयं कल्पना । अस्याः कल्पनायाः वरम् उपनिषत्परित्याग एव । अध्येयत्वाच्च न शास्त्रार्था इयं कल्पना ; न हि जननमरणाद्यनर्थशतसहस्रभेदसमाकुलं समुद्रवनादिवत् सावयवम् अनेकरसं ब्रह्म ध्येयत्वेन विज्ञेयत्वेन वा श्रुत्या उपदिश्यते ; प्रज्ञानघनतां च उपदिशति ;
‘एकधैवानुद्रष्टव्यम्’ (बृ. उ. ४ । ४ । २०) इति च ; अनेकधादर्शनापवादाच्च
‘मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति’ (बृ. उ. ४ । ४ । १९) इति ; यच्च श्रुत्या निन्दितम् , तन्न कर्तव्यम् ; यच्च न क्रियते, न स शास्त्रार्थः ; ब्रह्मणोऽनेकरसत्वम् अनेकधात्वं च द्वैतरूपं निन्दितत्वात् न द्रष्टव्यम् ; अतो न शास्त्रार्थः ; यत्तु एकरसत्वं ब्रह्मणः तत् द्रष्टव्यत्वात् प्रशस्तम् , प्रशस्तत्वाच्च शास्त्रार्थो भवितुमर्हति । यत्तूक्तं वेदैकदेशस्य अप्रामाण्यं कर्मविषये द्वैताभावात् , अद्वैते च प्रामाण्यमिति — तन्न, यथाप्राप्तोपदेशार्थत्वात् ; न हि द्वैतम् अद्वैतं वा वस्तु जातमात्रमेव पुरुषं ज्ञापयित्वा पश्चात्कर्म वा ब्रह्मविद्यां वा उपदिशति शास्त्रम् ; न च उपदेशार्हं द्वैतम् , जातमात्रप्राणिबुद्धिगम्यत्वात् ; न च द्वैतस्य अनृतत्वबुद्धिः प्रथममेव कस्यचित् स्यात् , येन द्वैतस्य सत्यत्वमुपदिश्य पश्चात् आत्मनः प्रामाण्यं प्रतिपादयेत् शास्त्रम् । नापि पाषण्डिभिरपि प्रस्थापिताः शास्त्रस्य प्रामाण्यं न गृह्णीयुः । तस्मात् यथाप्राप्तमेव द्वैतम् अविद्याकृतं स्वाभाविकम् उपादाय स्वाभाविक्यैव अविद्यया युक्ताय रागद्वेषादिदोषवते यथाभिमतपुरुषार्थसाधनं कर्म उपदिशत्यग्रे ; पश्चात् प्रसिद्धक्रियाकारकफलस्वरूपदोषदर्शनवते तद्विपरीतौदासीन्यस्वरूपावस्थानफलार्थिने तदुपायभूताम् आत्मैकत्वदर्शनात्मिकां ब्रह्मविद्याम् उपदिशति । अथैवं सति तदौदासीन्यस्वरूपावस्थाने फले प्राप्ते शास्त्रस्य प्रामाण्यं प्रति अर्थित्वं निवर्तते ; तदभावात् शास्त्रस्यापि शास्त्रत्वं तं प्रति निवर्तत एव । तथा प्रतिपुरुषं परिसमाप्तं शास्त्रम् इति न शास्त्रविरोधगन्धोऽपि अस्ति, अद्वैतज्ञानावसानत्वात् शास्त्रशिष्यशासनादिद्वैतभेदस्य ; अन्यतमावस्थाने हि विरोधः स्यात् अवस्थितस्य ; इतरेतरापेक्षत्वात्तु शास्त्रशिष्यशासनानां नान्यतमोऽपि अवतिष्ठते ; सर्वसमाप्तौ तु कस्य विरोध आशङ्क्येत अद्वैते केवले शिवे सिद्धे ; नाप्यविरोधता, अत एव । अथापि अभ्युपगम्य ब्रूमः — द्वैताद्वैतात्मकत्वेऽपि शास्त्रविरोधस्य तुल्यत्वात् ; यदापि समुद्रादिवत् द्वैताद्वैतात्मकमेकं ब्रह्म अभ्युपगच्छामः नान्यद्वस्त्वन्तरम् , तदापि भवदुक्तात् शास्त्रविरोधात् न मुच्यामहे ; कथम् ? एकं हि परं ब्रह्म द्वैताद्वैतात्मकम् ; तत् शोकमोहाद्यतीतत्वात् उपदेशं न काङ्क्षति ; न च उपदेष्टा अन्यः ब्रह्मणः ; द्वैताद्वैतरूपस्य ब्रह्मणः एकस्यैव अभ्युपगमात् । अथ द्वैतविषयस्य अनेकत्वात् अन्योन्योपदेशः, न ब्रह्मविषय उपदेश इति चेत् — तदा द्वैताद्वैतात्मकम् एकमेव ब्रह्म, नान्यदस्ति इति विरुध्यते । यस्मिन्द्वैतविषये अन्योन्योपदेशः, सः अन्यः द्वैतं च अन्यदेव इति समुद्रदृष्टान्तो विरुद्धः । न च समुद्रोदकैकत्ववत् विज्ञानैकत्वे ब्रह्मणः अन्यत्र उपदेशग्रहणादिकल्पना सम्भवति ; न हि हस्तादिद्वैताद्वैतात्मके देवदत्ते वाक्कर्णयोः देवदत्तैकदेशभूतयोः वाक् उपदेष्ट्री कर्णः केवल उपदेशस्य ग्रहीता, देवदत्तस्तु न उपदेष्टा नाप्युपदेशस्य ग्रहीता — इति कल्पयितुं शक्यते, समुद्रैकोदकात्मत्ववत् एकविज्ञानवत्त्वात् देवदत्तस्य । तस्मात् श्रुतिन्यायविरोधश्च अभिप्रेतार्थासिद्धिश्च एवंकल्पनायां स्यात् । तस्मात् यथाव्याख्यात एव अस्माभिः पूर्णमदः इत्यस्य मन्त्रस्य अर्थः ॥
ओं खं ब्रह्म इति मन्त्रः ; अयं च अन्यत्र अविनियुक्तः इह ब्राह्मणेन ध्यानकर्मणि विनियुज्यते । अत्र च ब्रह्मेति विशेष्याभिधानम् , खमिति विशेषणम् । विशेषणविशेष्ययोश्च सामानाधिकरण्येन निर्देशः नीलोत्पलवत् — खं ब्रह्मेति ब्रह्मशब्दो बृहद्वस्तुमात्रास्पदः अविशेषितः, अतः विशेष्यते — खं ब्रह्मेति ; यत्तत् खं ब्रह्म, तत् ओंशब्दवाच्यम् , ओंशब्दस्वरूपमेव वा ; उभयथापि सामानाधिकरण्यम् अविरुद्धम् । इह च ब्रह्मोपासनसाधनत्वार्थम् ओंशब्दः प्रयुक्तः, तथा च श्रुत्यन्तरात्
‘एतदालम्बनं श्रेष्ठमेतदालम्बनं परम्’ (क. उ. १ । २ । १७) ‘ओमित्यात्मानं युञ्जीत’ (तै. ना. २४ । १) ‘ओमित्येतेनैवाक्षरेण परं पुरुषमभिध्यायीत’ (प्र. उ. ५ । ५) ‘ओमित्येवं ध्यायथ आत्मानम्’ (मु. उ. २ । २ । ६) इत्यादेः । अन्यार्थासम्भवाच्च उपदेशस्य । यथा अन्यत्र
‘ओमिति शंसति ओमित्युद्गायति’ (छा. उ. १ । १ । ९) इत्येवमादौ स्वाध्यायारम्भापवर्गयोश्च ओङ्कारप्रयोगः विनियोगादवगम्यते, न च तथा अर्थान्तरम् इह अवगम्यते । तस्मात् ध्यानसाधनत्वेनैव इह ओङ्कारशब्दस्य उपदेशः । यद्यपि ब्रह्मात्मादिशब्दा ब्रह्मणो वाचकाः, तथापि श्रुतिप्रामाण्यात् ब्रह्मणो नेदिष्ठमभिधानम् ओङ्कारः । अत एव ब्रह्मप्रतिपत्तौ इदं परं साधनम् । तच्च द्विप्रकारेण, प्रतीकत्वेन अभिधानत्वेन च । प्रतीकत्वेन — यथा विष्ण्वादिप्रतिमा अभेदेन, एवम् ओङ्कारः ब्रह्मेति प्रतिपत्तव्यः । तथा ह्योङ्कारालम्बनस्य ब्रह्म प्रसीदति,
‘एतदालम्बनं श्रेष्ठमेतदालम्बनं परम् । एतदालम्बनं ज्ञात्वा ब्रह्मलोके महीयते’ (क. उ. १ । २ । १७) इति श्रुतेः ॥
तत्र खमिति भौतिके खे प्रतीतिर्मा भूत् इत्याह — खं पुराणं चिरन्तनं खं परमात्माकाशमित्यर्थः । यत्तत्परमात्माकाशं पुराणं खम् , तत् चक्षुराद्यविषयत्वात् निरालम्बनम् अशक्यं ग्रहीतुमिति श्रद्धाभक्तिभ्यां भावविशेषेण च ओङ्कारे आवेशयति — यथा विष्ण्वङ्गाङ्कितायां शिलादिप्रतिमायां विष्णुं लोकः, एवम् । वायुरं खम् , वायुः अस्मिन्विद्यत इति वायुरम् , खं खमात्रं खमित्युच्यते, न पुराणं खम् — इत्येवम् आह स्म । कोऽसौ ? कौरव्यायणीपुत्रः । वायुरे हि खे मुख्यः खशब्दव्यवहारः ; तस्मान्मुख्ये संप्रत्ययो युक्त इति मन्यते । तत्र यदि पुराणं खं ब्रह्म निरुपाधिस्वरूपम् , यदि वा वायुरं खं सोपाधिकं ब्रह्म, सर्वथापि ओङ्कारः प्रतीकत्वेनैव प्रतिमावत् साधनत्वं प्रतिपद्यते,
‘एतद्वै सत्यकाम परं चापरं च ब्रह्म यदोङ्कारः’ (प्र. उ. ५ । २) इति श्रुत्यन्तरात् । केवलं खशब्दार्थे विप्रतिपत्तिः । वेदोऽयम् ओङ्कारः, वेद विजानाति अनेन यद्वेदितव्यम् तस्माद्वेदः ओङ्कारः वाचकः अभिधानम् ; तेनाभिधानेन यद्वेदितव्यं ब्रह्म प्रकाश्यमानम् अभिधीयमानं वेद साधको विजानाति उपलभते, तस्मात् वेदोऽयमिति ब्राह्मणा विदुः ; तस्मात् ब्राह्मणानामभिधानत्वेन साधनत्वमभिप्रेतम् ओङ्कारस्य । अथवा वेदोऽयमित्यादि अर्थवादः ; कथम् ओङ्कारः ब्रह्मणः प्रतीकत्वेन विहितः ; ओं खं ब्रह्म इति सामानाधिकरण्यात् तस्य स्तुतिः इदानीं वेदत्वेन ; सर्वो हि अयं वेद ओङ्कार एव ; एतत्प्रभवः एतदात्मकः सर्वः ऋग्यजुःसामादिभेदभिन्नः एष ओङ्कारः,
‘तद्यथा शङ्कुना सर्वाणि पर्णानि’ (छा. उ. २ । २३ । ३) इत्यादिश्रुत्यन्तरात् ; इतश्चायं वेदः ओङ्कारः, यद्वेदितव्यम् , तत्सर्वं वेदितव्यम् ओङ्कारेणैव वेद एनेन ; अतः अयमोङ्कारो वेदः ; इतरस्यापि वेदस्य वेदत्वम् अत एव ; तस्मात् विशिष्टोऽयमोङ्कारः साधनत्वेन प्रतिपत्तव्य इति । अथवा वेदः सः ; कोऽसौ ? यं ब्राह्मणा विदुः ओङ्कारम् ; ब्राह्मणानां हि असौ प्रणवोद्गीथादिविकल्पैर्विज्ञेयः ; तस्मिन्हि प्रयुज्यमाने साधनत्वेन सर्वो वेदः प्रयुक्तो भवतीति ॥