श्रीमच्छङ्करभगवत्पूज्यपादविरचितम्

बृहदारण्यकोपनिषद्भाष्यम्

करतलकलिताद्वयात्मतत्त्वं क्षपितदुरन्तचिरन्तनप्रमोहम् ।
उपचितमुदितोदितैर्गुणौघैः उपनिषदामयमुज्जहार भाष्यम् ।।

ओं खं ब्रह्म । खं पुराणं वायुरं खमिति ह स्माह कौरव्यायणीपुत्रो वेदोऽयं ब्राह्मणा विदुर्वेदैनेन यद्वेदितव्यम् ॥ १ ॥
पूर्णमद इत्यादि खिलकाण्डमारभ्यते । अध्यायचतुष्टयेन यदेव साक्षादपरोक्षाद्ब्रह्म, य आत्मा सर्वान्तरः निरुपाधिकः अशनायाद्यतीतः नेति नेतीति व्यपदेश्यः निर्धारितः, यद्विज्ञानं केवलममृतत्वसाधनम् — अधुना तस्यैव आत्मनः सोपाधिकस्य शब्दार्थादिव्यवहारविषयापन्नस्य पुरस्तादनुक्तानि उपासनानि कर्मभिरविरुद्धानि प्रकृष्टाभ्युदयसाधनानि क्रममुक्तिभाञ्जि च ; तानि वक्तव्यानीति परः सन्दर्भः ; सर्वोपासनशेषत्वेन ओङ्कारो दमं दानं दयाम् इत्येतानि च विधित्सितानि । पूर्णमदः — पूर्णम् न कुतश्चित् व्यावृत्तं व्यापीत्येतत् ; निष्ठा च कर्तरि द्रष्टव्या ; अद इति परोक्षाभिधायि सर्वनाम, तत् परं ब्रह्मेत्यर्थः ; तत् सम्पूर्णम् आकाशवद्व्यापि निरन्तरं निरुपाधिकं च ; तदेव इदं सोपाधिकं नामरूपस्थं व्यवहारापन्नं पूर्णं स्वेन रूपेण परमात्मना व्याप्येव, न उपाधिपरिच्छिन्नेन विशेषात्मना ; तदिदं विशेषापन्नं कार्यात्मकं ब्रह्म पूर्णात्कारणात्मनः उदच्यते उद्रिच्यते, उद्गच्छतीत्येतत् । यद्यपि कार्यात्मना उद्रिच्यते तथापि यत्स्वरूपं पूर्णत्वम् परमात्मभावं तन्न जहाति, पूर्णमेव उद्रिच्यते । पूर्णस्य कार्यात्मनो ब्रह्मणः, पूर्णं पूर्णत्वम् , आदाय गृहीत्वा आत्मस्वरूपैकरसत्वमापद्य विद्यया, अविद्याकृतं भूतमात्रोपाधिसंसर्गजम् अन्यत्वावभासं तिरस्कृत्य, पूर्णमेव अनन्तरमबाह्यं प्रज्ञानघनैकरसस्वभावं केवलं ब्रह्म अवशिष्यते । यदुक्तम् — ‘ब्रह्म वा इदमग्र आसीत् तदात्मानमेवावेत् तस्मात्तत्सर्वमभवत्’ (बृ. उ. १ । ४ । १०) इति — एषः अस्य मन्त्रस्यार्थः ; तत्र ‘ब्रह्म’ इत्यस्यार्थः ‘पूर्णमदः’ इति ; इदं पूर्णम् इति ‘ब्रह्म वा इदमग्र आसीत्’ इत्यस्यार्थः ; तथा च श्रुत्यन्तरम् — ‘यदेवेह तदमुत्र यदमुत्र तदन्विह’ (क. उ. २ । १ । १०) इति ; अतः अदःशब्दवाच्यं पूर्णं ब्रह्म, तदेव इदं पूर्णं कार्यस्थं नामरूपोपाधिसंयुक्तम् अविद्यया उद्रिक्तम् तस्मादेव परमार्थस्वरूपात् अन्यदिव प्रत्यवभासमानम् — तत् , यत् आत्मानमेव परं पूर्णं ब्रह्म विदित्वा — अहम् अदः पूर्णं ब्रह्मास्मि इत्येवम् , पूर्णमादाय, तिरस्कृत्य अपूर्णस्वरूपताम् अविद्याकृतां नामरूपोपाधिसम्पर्कजाम् एतया ब्रह्मविद्यया पूर्णमेव केवलम् अवशिष्यते ; तथा चोक्तम् ‘तस्मात्तत्सर्वमभवत्’ इति । यः सर्वोपनिषदर्थो ब्रह्म, स एषः अनेन मन्त्रेण अनूद्यते, उत्तरसम्बन्धार्थम् । ब्रह्मविद्यासाधनत्वेन हि वक्ष्यमाणानि साधनानि ओङ्कारदमदानदयाख्यानि विधित्सितानि, खिलप्रकरणसम्बन्धात् सर्वोपासनाङ्गभूतानि च ॥
अत्रैके वर्णयन्ति — पूर्णात् कारणात् पूर्णं कार्यम् उद्रिच्यते ; उद्रिक्तं कार्यं वर्तमानकालेऽपि पूर्णमेव परमार्थवस्तुभूतं द्वैतरूपेण ; पुनः प्रलयकाले पूर्णस्य कार्यस्य पूर्णताम् आदाय आत्मनि धित्वा पूर्णमेव अवशिष्यते कारणरूपम् ; एवम् उत्पत्तिस्थितिप्रलयेषु त्रिष्वपि कालेषु कार्यकारणयोः पूर्णतैव ; सा च एकैव पूर्णता कार्यकारणयोर्भेदेन व्यपदिश्यते ; एवं च द्वैताद्वैतात्मकमेकं ब्रह्म । यथा किल समुद्रो जलतरङ्गफेनबुद्बुदाद्यात्मक एव, यथा च जलं सत्यं तदुद्भवाश्च तरङ्गफेनबुद्बुदादयः समुद्रात्मभूता एव आविर्भावतिरोभावधर्माणः परमार्थसत्या एव — एवं सर्वमिदं द्वैतं परमार्थसत्यमेव जलतरङ्गादिस्थानीयम् , समुद्रजलस्थानीयं तु परं ब्रह्म । एवं च किल द्वैतस्य सत्यत्वे कर्मकाण्डस्य प्रामाण्यम् , यदा पुनर्द्वैतं द्वैतमिवाविद्याकृतं मृगतृष्णिकावदनृतम् , अद्वैतमेव परमार्थतः, तदा किल कर्मकाण्डं विषयाभावात् अप्रमाणं भवति ; तथा च विरोध एव स्यात् । वेदैकदेशभूता उपनिषत् प्रमाणम् , परमार्थाद्वैतवस्तुप्रतिपादकत्वात् ; अप्रमाणं कर्मकाण्डम् , असद्द्वैतविषयत्वात् । तद्विरोधपरिजिहीर्षया श्रुत्या एतदुक्तं कार्यकारणयोः सत्यत्वं समुद्रवत् ‘पूर्णमदः’ इत्यादिना इति । तदसत् , विशिष्टविषयापवादविकल्पयोरसम्भवात् । न हि इयं सुविवक्षिता कल्पना । कस्मात् ? यथा क्रियाविषये उत्सर्गप्राप्तस्य एकदेशे अपवादः क्रियते, यथा ‘अहिंसन्सर्वभूतान्यन्यत्र तीर्थेभ्यः’ (छा. उ. ८ । १५ । १) इति हिंसा सर्वभूतविषया उत्सर्गेण निवारिता तीर्थे विशिष्टविषये ज्योतिष्टोमादावनुज्ञायते, न च तथा वस्तुविषये इह अद्वैतं ब्रह्म उत्सर्गेण प्रतिपाद्य पुनः तदेकदेशे अपवदितुं शक्यते, ब्रह्मणः अद्वैतत्वादेव एकदेशानुपपत्तेः । तथा विकल्पानुपपत्तेश्च ; यथा ‘अतिरात्रे षोडशिनं गृह्णाति’ ( ? ) ‘नातिरात्रे षोडशिनं गृह्णाति’ ( ? ) इति ग्रहणाग्रहणयोः पुरुषाधीनत्वात् विकल्पो भवति ; न त्विह तथा वस्तुविषये द्वैतं वा स्यात् अद्वैतं वेति विकल्पः सम्भवति, अपुरुषतन्त्रत्वादात्मवस्तुनः, विरोधाच्च द्वैताद्वैतत्वयोरेकस्य । तस्मात् न सुविवक्षिता इयं कल्पना । श्रुतिन्यायविरोधाच्च । सैन्धवघनवत् प्रज्ञानैकरसघनं निरन्तरं पूर्वापरबाह्याभ्यन्तरभेदविवर्जितं सबाह्याभ्यन्तरम् अजं नेति नेति अस्थूलमनण्वह्रस्वमजरमभयममृतम् — इत्येवमाद्याः श्रुतयः निश्चितार्थाः संशयविपर्यासाशङ्कारहिताः सर्वाः समुद्रे प्रक्षिप्ताः स्युः, अकिञ्चित्करत्वात् । तथा न्यायविरोधोऽपि, सावयवस्यानेकात्मकस्य क्रियावतो नित्यत्वानुपपत्तेः ; नित्यत्वं च आत्मनः स्मृत्यादिदर्शनात् अनुमीयते ; तद्विरोधश्च प्राप्नोति अनित्यत्वे ; भवत्कल्पनानर्थक्यं च ; स्फुटमेव च अस्मिन्पक्षे कर्मकाण्डानर्थक्यम् , अकृताभ्यागमकृतविप्रणाशप्रसङ्गात् । ननु ब्रह्मणो द्वैताद्वैतात्मकत्वे समुद्रादिदृष्टान्ता विद्यन्ते ; कथमुच्यते भवता एकस्य द्वैताद्वैतत्वं विरुद्धमिति ? न, अन्यविषयत्वात् ; नित्यनिरवयववस्तुविषयं हि विरुद्धत्वम् अवोचाम द्वैताद्वैतत्वस्य, न कार्यविषये सावयवे । तस्मात् श्रुतिस्मृतिन्यायविरोधात् अनुपपन्नेयं कल्पना । अस्याः कल्पनायाः वरम् उपनिषत्परित्याग एव । अध्येयत्वाच्च न शास्त्रार्था इयं कल्पना ; न हि जननमरणाद्यनर्थशतसहस्रभेदसमाकुलं समुद्रवनादिवत् सावयवम् अनेकरसं ब्रह्म ध्येयत्वेन विज्ञेयत्वेन वा श्रुत्या उपदिश्यते ; प्रज्ञानघनतां च उपदिशति ; ‘एकधैवानुद्रष्टव्यम्’ (बृ. उ. ४ । ४ । २०) इति च ; अनेकधादर्शनापवादाच्च ‘मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति’ (बृ. उ. ४ । ४ । १९) इति ; यच्च श्रुत्या निन्दितम् , तन्न कर्तव्यम् ; यच्च न क्रियते, न स शास्त्रार्थः ; ब्रह्मणोऽनेकरसत्वम् अनेकधात्वं च द्वैतरूपं निन्दितत्वात् न द्रष्टव्यम् ; अतो न शास्त्रार्थः ; यत्तु एकरसत्वं ब्रह्मणः तत् द्रष्टव्यत्वात् प्रशस्तम् , प्रशस्तत्वाच्च शास्त्रार्थो भवितुमर्हति । यत्तूक्तं वेदैकदेशस्य अप्रामाण्यं कर्मविषये द्वैताभावात् , अद्वैते च प्रामाण्यमिति — तन्न, यथाप्राप्तोपदेशार्थत्वात् ; न हि द्वैतम् अद्वैतं वा वस्तु जातमात्रमेव पुरुषं ज्ञापयित्वा पश्चात्कर्म वा ब्रह्मविद्यां वा उपदिशति शास्त्रम् ; न च उपदेशार्हं द्वैतम् , जातमात्रप्राणिबुद्धिगम्यत्वात् ; न च द्वैतस्य अनृतत्वबुद्धिः प्रथममेव कस्यचित् स्यात् , येन द्वैतस्य सत्यत्वमुपदिश्य पश्चात् आत्मनः प्रामाण्यं प्रतिपादयेत् शास्त्रम् । नापि पाषण्डिभिरपि प्रस्थापिताः शास्त्रस्य प्रामाण्यं न गृह्णीयुः । तस्मात् यथाप्राप्तमेव द्वैतम् अविद्याकृतं स्वाभाविकम् उपादाय स्वाभाविक्यैव अविद्यया युक्ताय रागद्वेषादिदोषवते यथाभिमतपुरुषार्थसाधनं कर्म उपदिशत्यग्रे ; पश्चात् प्रसिद्धक्रियाकारकफलस्वरूपदोषदर्शनवते तद्विपरीतौदासीन्यस्वरूपावस्थानफलार्थिने तदुपायभूताम् आत्मैकत्वदर्शनात्मिकां ब्रह्मविद्याम् उपदिशति । अथैवं सति तदौदासीन्यस्वरूपावस्थाने फले प्राप्ते शास्त्रस्य प्रामाण्यं प्रति अर्थित्वं निवर्तते ; तदभावात् शास्त्रस्यापि शास्त्रत्वं तं प्रति निवर्तत एव । तथा प्रतिपुरुषं परिसमाप्तं शास्त्रम् इति न शास्त्रविरोधगन्धोऽपि अस्ति, अद्वैतज्ञानावसानत्वात् शास्त्रशिष्यशासनादिद्वैतभेदस्य ; अन्यतमावस्थाने हि विरोधः स्यात् अवस्थितस्य ; इतरेतरापेक्षत्वात्तु शास्त्रशिष्यशासनानां नान्यतमोऽपि अवतिष्ठते ; सर्वसमाप्तौ तु कस्य विरोध आशङ्क्येत अद्वैते केवले शिवे सिद्धे ; नाप्यविरोधता, अत एव । अथापि अभ्युपगम्य ब्रूमः — द्वैताद्वैतात्मकत्वेऽपि शास्त्रविरोधस्य तुल्यत्वात् ; यदापि समुद्रादिवत् द्वैताद्वैतात्मकमेकं ब्रह्म अभ्युपगच्छामः नान्यद्वस्त्वन्तरम् , तदापि भवदुक्तात् शास्त्रविरोधात् न मुच्यामहे ; कथम् ? एकं हि परं ब्रह्म द्वैताद्वैतात्मकम् ; तत् शोकमोहाद्यतीतत्वात् उपदेशं न काङ्क्षति ; न च उपदेष्टा अन्यः ब्रह्मणः ; द्वैताद्वैतरूपस्य ब्रह्मणः एकस्यैव अभ्युपगमात् । अथ द्वैतविषयस्य अनेकत्वात् अन्योन्योपदेशः, न ब्रह्मविषय उपदेश इति चेत् — तदा द्वैताद्वैतात्मकम् एकमेव ब्रह्म, नान्यदस्ति इति विरुध्यते । यस्मिन्द्वैतविषये अन्योन्योपदेशः, सः अन्यः द्वैतं च अन्यदेव इति समुद्रदृष्टान्तो विरुद्धः । न च समुद्रोदकैकत्ववत् विज्ञानैकत्वे ब्रह्मणः अन्यत्र उपदेशग्रहणादिकल्पना सम्भवति ; न हि हस्तादिद्वैताद्वैतात्मके देवदत्ते वाक्कर्णयोः देवदत्तैकदेशभूतयोः वाक् उपदेष्ट्री कर्णः केवल उपदेशस्य ग्रहीता, देवदत्तस्तु न उपदेष्टा नाप्युपदेशस्य ग्रहीता — इति कल्पयितुं शक्यते, समुद्रैकोदकात्मत्ववत् एकविज्ञानवत्त्वात् देवदत्तस्य । तस्मात् श्रुतिन्यायविरोधश्च अभिप्रेतार्थासिद्धिश्च एवंकल्पनायां स्यात् । तस्मात् यथाव्याख्यात एव अस्माभिः पूर्णमदः इत्यस्य मन्त्रस्य अर्थः ॥
ओं खं ब्रह्म इति मन्त्रः ; अयं च अन्यत्र अविनियुक्तः इह ब्राह्मणेन ध्यानकर्मणि विनियुज्यते । अत्र च ब्रह्मेति विशेष्याभिधानम् , खमिति विशेषणम् । विशेषणविशेष्ययोश्च सामानाधिकरण्येन निर्देशः नीलोत्पलवत् — खं ब्रह्मेति ब्रह्मशब्दो बृहद्वस्तुमात्रास्पदः अविशेषितः, अतः विशेष्यते — खं ब्रह्मेति ; यत्तत् खं ब्रह्म, तत् ओंशब्दवाच्यम् , ओंशब्दस्वरूपमेव वा ; उभयथापि सामानाधिकरण्यम् अविरुद्धम् । इह च ब्रह्मोपासनसाधनत्वार्थम् ओंशब्दः प्रयुक्तः, तथा च श्रुत्यन्तरात् ‘एतदालम्बनं श्रेष्ठमेतदालम्बनं परम्’ (क. उ. १ । २ । १७) ‘ओमित्यात्मानं युञ्जीत’ (तै. ना. २४ । १) ‘ओमित्येतेनैवाक्षरेण परं पुरुषमभिध्यायीत’ (प्र. उ. ५ । ५) ‘ओमित्येवं ध्यायथ आत्मानम्’ (मु. उ. २ । २ । ६) इत्यादेः । अन्यार्थासम्भवाच्च उपदेशस्य । यथा अन्यत्र ‘ओमिति शंसति ओमित्युद्गायति’ (छा. उ. १ । १ । ९) इत्येवमादौ स्वाध्यायारम्भापवर्गयोश्च ओङ्कारप्रयोगः विनियोगादवगम्यते, न च तथा अर्थान्तरम् इह अवगम्यते । तस्मात् ध्यानसाधनत्वेनैव इह ओङ्कारशब्दस्य उपदेशः । यद्यपि ब्रह्मात्मादिशब्दा ब्रह्मणो वाचकाः, तथापि श्रुतिप्रामाण्यात् ब्रह्मणो नेदिष्ठमभिधानम् ओङ्कारः । अत एव ब्रह्मप्रतिपत्तौ इदं परं साधनम् । तच्च द्विप्रकारेण, प्रतीकत्वेन अभिधानत्वेन च । प्रतीकत्वेन — यथा विष्ण्वादिप्रतिमा अभेदेन, एवम् ओङ्कारः ब्रह्मेति प्रतिपत्तव्यः । तथा ह्योङ्कारालम्बनस्य ब्रह्म प्रसीदति, ‘एतदालम्बनं श्रेष्ठमेतदालम्बनं परम् । एतदालम्बनं ज्ञात्वा ब्रह्मलोके महीयते’ (क. उ. १ । २ । १७) इति श्रुतेः ॥
तत्र खमिति भौतिके खे प्रतीतिर्मा भूत् इत्याह — खं पुराणं चिरन्तनं खं परमात्माकाशमित्यर्थः । यत्तत्परमात्माकाशं पुराणं खम् , तत् चक्षुराद्यविषयत्वात् निरालम्बनम् अशक्यं ग्रहीतुमिति श्रद्धाभक्तिभ्यां भावविशेषेण च ओङ्कारे आवेशयति — यथा विष्ण्वङ्गाङ्कितायां शिलादिप्रतिमायां विष्णुं लोकः, एवम् । वायुरं खम् , वायुः अस्मिन्विद्यत इति वायुरम् , खं खमात्रं खमित्युच्यते, न पुराणं खम् — इत्येवम् आह स्म । कोऽसौ ? कौरव्यायणीपुत्रः । वायुरे हि खे मुख्यः खशब्दव्यवहारः ; तस्मान्मुख्ये संप्रत्ययो युक्त इति मन्यते । तत्र यदि पुराणं खं ब्रह्म निरुपाधिस्वरूपम् , यदि वा वायुरं खं सोपाधिकं ब्रह्म, सर्वथापि ओङ्कारः प्रतीकत्वेनैव प्रतिमावत् साधनत्वं प्रतिपद्यते, ‘एतद्वै सत्यकाम परं चापरं च ब्रह्म यदोङ्कारः’ (प्र. उ. ५ । २) इति श्रुत्यन्तरात् । केवलं खशब्दार्थे विप्रतिपत्तिः । वेदोऽयम् ओङ्कारः, वेद विजानाति अनेन यद्वेदितव्यम् तस्माद्वेदः ओङ्कारः वाचकः अभिधानम् ; तेनाभिधानेन यद्वेदितव्यं ब्रह्म प्रकाश्यमानम् अभिधीयमानं वेद साधको विजानाति उपलभते, तस्मात् वेदोऽयमिति ब्राह्मणा विदुः ; तस्मात् ब्राह्मणानामभिधानत्वेन साधनत्वमभिप्रेतम् ओङ्कारस्य । अथवा वेदोऽयमित्यादि अर्थवादः ; कथम् ओङ्कारः ब्रह्मणः प्रतीकत्वेन विहितः ; ओं खं ब्रह्म इति सामानाधिकरण्यात् तस्य स्तुतिः इदानीं वेदत्वेन ; सर्वो हि अयं वेद ओङ्कार एव ; एतत्प्रभवः एतदात्मकः सर्वः ऋग्यजुःसामादिभेदभिन्नः एष ओङ्कारः, ‘तद्यथा शङ्कुना सर्वाणि पर्णानि’ (छा. उ. २ । २३ । ३) इत्यादिश्रुत्यन्तरात् ; इतश्चायं वेदः ओङ्कारः, यद्वेदितव्यम् , तत्सर्वं वेदितव्यम् ओङ्कारेणैव वेद एनेन ; अतः अयमोङ्कारो वेदः ; इतरस्यापि वेदस्य वेदत्वम् अत एव ; तस्मात् विशिष्टोऽयमोङ्कारः साधनत्वेन प्रतिपत्तव्य इति । अथवा वेदः सः ; कोऽसौ ? यं ब्राह्मणा विदुः ओङ्कारम् ; ब्राह्मणानां हि असौ प्रणवोद्गीथादिविकल्पैर्विज्ञेयः ; तस्मिन्हि प्रयुज्यमाने साधनत्वेन सर्वो वेदः प्रयुक्तो भवतीति ॥
इति पञ्चमाध्यायस्य प्रथमं ब्राह्मणम् ॥
त्रयाः प्राजापत्याः प्रजापतौ पितरि ब्रह्मचर्यमूषुर्देवा मनुष्या असुरा उषित्वा ब्रह्मचर्यं देवा ऊचुर्ब्रवीतु नो भवानिति तेभ्यो हैतदक्षरमुवाच द इति व्यज्ञासिष्टा३ इति व्यज्ञासिष्मेति होचुर्दाम्यतेति न आत्थेत्योमिति होवाच व्यज्ञासिष्टेति ॥ १ ॥
अधुना दमादिसाधनत्रयविधानार्थोऽयमारम्भः — त्रयाः, त्रिसङ्ख्याकाः प्राजापत्याः प्रजापतेरपत्यानि प्राजापत्याः, ते किम् ? प्रजापतौ पितरि ब्रह्मचर्यं शिष्यत्ववृत्तेर्ब्रह्मचर्यस्य प्राधान्यात् शिष्याः सन्तो ब्रह्मचर्यम् ऊषुः उषितवन्त इत्यर्थः । के ते ? विशेषतः देवा मनुष्या असुराश्च । ते च उषित्वा ब्रह्मचर्यं किमकुर्वन्नित्युच्यते — तेषां देवा ऊचुः पितरं प्रजापतिम् । किमिति ? ब्रवीतु कथयतु, नः अस्मभ्यम् यदनुशासनं भवानिति । तेभ्यः एवमर्थिभ्यः ह एतदक्षरं वर्णमात्रम् उवाच — द इति । उक्त्वा च तान् पप्रच्छ पिता — किं व्यज्ञासिष्टा३ इति, मया उपदेशार्थमभिहितस्याक्षरस्य अर्थं विज्ञातवन्तः आहोस्विन्नेति । देवा ऊचुः — व्यज्ञासिष्मेति, विज्ञातवन्तो वयम् । यद्येवम् , उच्यतां किं मयोक्तमिति । देवा ऊचुः — दाम्यत, अदान्ता यूयं स्वभावतः अतो दान्ता भवतेति नः अस्मान् आत्थ कथयसि । इतर आह — ओमिति सम्यग्व्यज्ञासिष्टेति ॥
अथ हैनं मनुष्या ऊचुर्ब्रवीतु नो भवानिति तेभ्यो हैतदेवाक्षरमुवाच द इति व्यज्ञासिष्टा३ इति व्यज्ञासिष्मेति होचुर्दत्तेति न आत्थेत्योमिति होवाच व्यज्ञासिष्टेति ॥ २ ॥
समानमन्यत् । स्वभावतो लुब्धा यूयम् , अतो यथाशक्ति संविभजत दत्तेति नः अस्मान् आत्थ, किमन्यद्ब्रूयात् नो हितमिति मनुष्याः ॥
अथ हैनमसुरा ऊचुर्ब्रवीतु नो भवानिति तेभ्यो हैतदेवाक्षरमुवाच द इति व्यज्ञासिष्टा३ इति व्यज्ञासिष्मेति होचुर्दयध्वमिति न आत्थेत्योमिति होवाच व्यज्ञासिष्टेति तदेतदेवैषा दैवी वागनुवदति स्तनयित्नुर्द द द इति दाम्यत दत्त दयध्वमिति तदेतत्त्रयं शिक्षेद्दमं दानं दयामिति ॥ ३ ॥
तथा असुराः दयध्वमिति ; क्रूरा यूयं हिंसादिपराः, अतो दयध्वं प्राणिषु दयां कुरुतेति । तदेतत्प्रजापतेरनुशासनम् अद्याप्यनुवर्तत एव । यः पूर्वं प्रजापतिर्देवादीननुशशास सोऽद्यापि अनुशास्त्येव दैव्या स्तनयित्नुलक्षणया वाचा । कथमेषा श्रूयते दैवी वाक् ? कासौ स्तनयित्नुः ? द द द इति, दाम्यत दत्त दयध्वमिति — एषां वाक्यानामुपलक्षणाय त्रिर्दकार उच्चार्यते अनुकृतिः ; न तु स्तनयित्नुशब्दः त्रिरेव, सङ्ख्यानियमस्य लोके अप्रसिद्धत्वात् । यस्मात् अद्यापि प्रजापतिः दाम्यत दत्त दयध्वमित्यनुशास्त्येव, तस्मात्कारणात् एतत्त्रयम् ; किं तत् त्रयमित्युच्यते — दमं दानं दयामिति शिक्षेत् उपादद्यात् प्रजापतेरनुशासनमस्माभिः कर्तव्यमित्येवं मतिं कुर्यात् । तथा च स्मृतिः — ‘त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः । कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत्’ (भ. गी. १६ । २१) इति । अस्य हि विधेः शेषः पूर्वः । तथापि देवादीनुद्दिश्य किमर्थं दकारत्रयमुच्चारितवान् प्रजापतिः पृथगनुशासनार्थिभ्यः ; ते वा कथं विवेकेन प्रतिपन्नाः प्रजापतेर्मनोगतं समानेनैव दकारवर्णमात्रेणेति पराभिप्रायज्ञा विकल्पयन्ति । अत्रैके आहुः — अदान्तत्वादातृत्वादयालुत्वैः अपराधित्वमात्मनो मन्यमानाः शङ्किता एव प्रजापतावूषुः, किं नो वक्ष्यतीति ; तेषां च दकारश्रवणमात्रादेव आत्माशङ्कावशेन तदर्थप्रतिपत्तिरभूत् ; लोकेऽपि हि प्रसिद्धम् — पुत्राः शिष्याश्चानुशास्याः सन्तो दोषात् निवर्तयितव्या इति ; अतो युक्तं प्रजापतेर्दकारमात्रोच्चारणम् ; दमादित्रये च दकारान्वयात् आत्मनो दोषानुरूप्येण देवादीनां विवेकेन प्रतिपत्तुं चेति ; फलं तु एतत् आत्मदोषज्ञाने सति दोषात् निवर्तयितुं शक्यते अल्पेनाप्युपदेशेन, यथा देवादयो दकारमात्रेणेति । ननु एतत् त्रयाणां देवादीनामनुशासनं देवादिभिरपि एकैकमेव उपादेयम् , अद्यत्वेऽपि न तु त्रयं मनुष्यैः शिक्षितव्यमिति । अत्रोच्यते — पूर्वैर्देवादिभिर्विशिष्टैरनुष्ठितम् एतत्त्रयम् , तस्मात् मनुष्यैरेव शिक्षितव्यमिति । तत्र दयालुत्वस्याननुष्ठेयत्वं स्यात् , कथम् ? असुरैरप्रशस्तैरनुष्ठितत्वादिति चेत् — न, तुल्यत्वात् त्रयाणाम् ; अतः अन्योऽत्राभिप्रायः — प्रजापतेः पुत्रा देवादयस्त्रयः ; पुत्रेभ्यश्च हितमेव पित्रा उपदेष्टव्यम् ; प्रजापतिश्च हितज्ञः नान्यथा उपदिशति ; तस्मात् पुत्रानुशासनं प्रजापतेः परमम् एतत् हितम् ; अतो मनुष्यैरेव एतत् त्रयं शिक्षितव्यमिति । अथवा न देवाः असुरा वा अन्ये केचन विद्यन्ते मनुष्येभ्यः ; मनुष्याणामेव अदान्ताः ये अन्यैरुत्तमैर्गुणैः सम्पन्नाः ; ते देवाः ; लोभप्रधाना मनुष्याः ; तथा हिंसापराः क्रूरा असुराः ; ते एव मनुष्याः अदान्तत्वादिदोषत्रयमपेक्ष्य देवादिशब्दभाजो भवन्ति, इतरांश्च गुणान् सत्त्वरजस्तमांसि अपेक्ष्य ; अतः मनुष्यैरेव शिक्षितव्यम् एतत्त्रयमिति, तदपेक्षयैव प्रजापतिनोपदिष्टत्वात् ; तथा हि मनुष्या अदान्ता लुब्धाः क्रूराश्च दृश्यन्ते ; तथा च स्मृतिः — ‘कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत्’ (भ. गी. १६ । २१) इति ॥
इति पञ्चमाध्यायस्य द्वितीयं ब्राह्मणम् ॥
दमादिसाधनत्रयं सर्वोपासनशेषं विहितम् ; दान्तः अलुब्धः दयालुः सन् सर्वोपासनेष्वधिक्रियते । तत्र निरुपाधिकस्य ब्रह्मणो दर्शनम् अतिक्रान्तम् ; अथ अधुना सोपाधिकस्य तस्यैव अभ्युदयफलानि वक्तव्यानीत्येवमर्थोऽयमारम्भः —
एष प्रजापतिर्यद्धृदयमेतद्ब्रह्मैतत्सर्वं तदेतत्त्र्यक्षरं हृदयमिति हृ इत्येकमक्षरमभिहरन्त्यस्मै स्वाश्चान्ये च य एवं वेद द इत्येकमक्षरं ददत्यस्मै स्वाश्चान्ये च य एवं वेद यमित्येकमक्षरमेति स्वर्गं लोकं य एवं वेद ॥ १ ॥
एष प्रजापतिः यद्धृदयं प्रजापतिः अनुशास्तीत्यनन्तरमेवाभिहितम् । कः पुनरसौ अनुशास्ता प्रजापतिरित्युच्यते — एष प्रजापतिः ; कोसौ ? यद्धृदयम् , हृदयमिति हृदयस्था बुद्धिरुच्यते ; यस्मिन् शाकल्यब्राह्मणान्ते नामरूपकर्मणामुपसंहार उक्तो दिग्विभागद्वारेण, तदेतत् सर्वभूतप्रतिष्ठं सर्वभूतात्मभूतं हृदयं प्रजापतिः प्रजानां स्रष्टा ; एतत् ब्रह्म, बृहत्त्वात् सर्वात्मत्वाच्च ब्रह्म ; एतत्सर्वम् ; उक्तं पञ्चमाध्याये हृदयस्य सर्वत्वम् ; तत्सर्वं यस्मात् तस्मादुपास्यं हृदयं ब्रह्म । तत्र हृदयनामाक्षरविषयमेव तावत् उपासनमुच्यते ; तदेतत् हृदयमिति नाम त्र्यक्षरम् , त्रीणि अक्षराणि अस्येति त्र्यक्षरम् ; कानि पुनस्तानि त्रीण्यक्षराण्युच्यन्ते ; हृ इत्येकमक्षरम् ; अभिहरन्ति, हृतेराहृतिकर्मणः हृ इत्येतद्रूपमिति यो वेद, यस्मात् हृदयाय ब्रह्मणे स्वाश्च इन्द्रियाणि अन्ये च विषयाः शब्दादयः स्वं स्वं कार्यमभिहरन्ति, हृदयं च भोक्त्रर्थमभिहरति — अतः हृदयनाम्नः हृ इत्येतदक्षरमिति यो वेद — अस्मै विदुषे अभिहरन्ति स्वाश्च ज्ञातयः अन्ये चासम्बद्धाः, बलिमिति वाक्यशेषः । विज्ञानानुरूप्येण एतत्फलम् । तथा द इत्येतदप्येकमक्षरम् ; एतदपि दानार्थस्य ददातेः द इत्येतद्रूपं हृदयनामाक्षरत्वेन निबद्धम् । अत्रापि — हृदयाय ब्रह्मणे स्वाश्च करणानि अन्ये च विषयाः स्वं स्वं वीर्यं ददति, हृदयं भोक्त्रे ददाति स्वं वीर्यम् , अतो दकार इत्येवं यो वेद, अस्मै ददति स्वाश्च अन्ये च । तथा यमित्येतदप्येकमक्षरम् ; इणो गत्यर्थस्य यमित्येतद्रूपम् अस्मिन्नाम्नि निबद्धमिति यो वेद, स स्वर्गं लोकमेति । एवं नामाक्षरादपि ईदृशं विशिष्टं फलं प्राप्नोति, किमु वक्तव्यं हृदयस्वरूपोपासनात् — इति हृदयस्तुतये नामाक्षरोपन्यासः ॥
इति पञ्चमाध्यायस्य तृतीयं ब्राह्मणम् ॥
तद्वै तदेतदेव तदास सत्यमेव स यो हैतं महद्यक्षं प्रथमजं वेद सत्यं ब्रह्मेति जयतीमांल्लोकाञ्जित इन्न्वसावसद्य एवमेतन्महद्यक्षं प्रथमजं वेद सत्यं ब्रह्मेति सत्यं ह्येव ब्रह्म ॥ १ ॥
तस्यैव हृदयाख्यस्य ब्रह्मणः सत्यमित्युपासनं विधित्सन्नाह — तत् , तदिति हृदयं ब्रह्म परामृष्टम् ; वै इति स्मरणार्थम् ; तत् यत् हृदयं ब्रह्म स्मर्यत इत्येकः तच्छब्दः ; तदेतदुच्यते प्रकारान्तरेणेति द्वितीयः तच्छब्दः । किं पुनः तत्प्रकारान्तरम् ? एतदेव तदिति एतच्छब्देन सम्बध्यते तृतीयस्तच्छब्दः ; एतदिति वक्ष्यमाणं बुद्धौ सन्निधीकृत्य आह ; आस बभूव ; किं पुनः एतदेव आस ? यदुक्तं हृदयं ब्रह्मेति, तत् इति, तृतीयः तच्छब्दो विनियुक्तः । किं तदिति विशेषतो निर्दिशति ; सत्यमेव, सच्च त्यच्च मूर्तं चामूर्तं च सत्यं ब्रह्म, पञ्चभूतात्मकमित्येतत् । स यः कश्चित् सत्यात्मानम् एतम् , महत् महत्त्वात् , यक्षं पूज्यम् , प्रथमजं प्रथमजातम् , सर्वस्मात्संसारिण एतदेवाग्रे जातं ब्रह्म अतः प्रथमजम् , वेद विजानाति सत्यं ब्रह्मेति ; तस्येदं फलमुच्यते — यथा सत्येन ब्रह्मणा इमे लोका आत्मसात्कृता जिताः, एवं सत्यात्मानं ब्रह्म महद्यक्षं प्रथमजं वेद, स जयति इमान् लोकान् ; किं च जितो वशीकृतः, इन्नु इत्थम् , यथा ब्रह्मणा असौ शत्रुरिति वाक्यशेषः । असच्च असद्भवेत् असौ शत्रुः जितो भवेदित्यर्थः । कस्य एतत्फलमिति पुनर्निगमयति — य एवमेतन्महद्यक्षं प्रथमजं वेद सत्यं ब्रह्मेति । अतो विद्यानुरूपं फलं युक्तम् , सत्यं ह्येव यस्माद्ब्रह्म ॥
इति पञ्चमाध्यायस्य चतुर्थं ब्राह्मणम् ॥
आप एवेदमग्र आसुस्ता आपः सत्यमसृजन्त सत्यं ब्रह्म ब्रह्म प्रजापतिं प्रजापतिर्देवांस्ते देवाः सत्यमेवोपासते तदेतत्त्र्यक्षरं सत्यमिति स इत्येकमक्षरं तीत्येकमक्षरं यमित्येकमक्षरं प्रथमोत्तमे अक्षरे सत्यं मध्यतोऽनृतं तदेतदनृतमुभयतः सत्येन परिगृहीतं सत्यभूयमेव भवति नैवं विद्वांसमनृतं हिनस्ति ॥ १ ॥
सत्यस्य ब्रह्मणः स्तुत्यर्थमिदमाह । महद्यक्षं प्रथमजमित्युक्तम् , तत्कथं प्रथमजत्वमित्युच्यते — आप एवेदमग्र आसुः ; आप इति कर्मसमवायिन्यः अग्निहोत्राद्याहुतयः ; अग्निहोत्राद्याहुतेः द्रवात्मकत्वात् अप्त्वम् ; ताश्च आपः अग्निहोत्रादिकर्मापवर्गोत्तरकालं केनचिददृष्टेन सूक्ष्मेण आत्मना कर्मसमवायित्वमपरित्यजन्त्यः इतरभूतसहिता एव न केवलाः, कर्मसमवायित्वात्तु प्राधान्यमपाम् — इति सर्वाण्येव भूतानि प्रागुत्पत्तेः अव्याकृतावस्थानि कर्तृसहितानि निर्दिश्यन्ते ‘आपः’ इति ; ता आपः बीजभूता जगतः अव्याकृतात्मना अवस्थिताः ; ता एव इदं सर्वं नामरूपविकृतं जगत् अग्रे आसुः, नान्यत्किञ्चिद्विकारजातमासीत् ; ताः पुनः आपः सत्यमसृजन्त ; तस्मात्सत्यं ब्रह्म प्रथमजम् ; तदेतत् हिरण्यगर्भस्य सूत्रात्मनो जन्म, यदव्याकृतस्य जगतो व्याकरणम् , तत् सत्यं ब्रह्म कुतः ? महत्त्वात् ; कथं महत्त्वमित्याह — यस्मात् सर्वस्य स्रष्टृ ; कथम् ? यत्सत्यं ब्रह्म, तत् प्रजापतिं प्रजानां पतिं विराजं सूर्यादिकरणम् असृजतेत्यनुषङ्गः ; प्रजापतिः देवान् , स विराट् प्रजापतिः देवानसृजत ; यस्मात् सर्वमेवं क्रमेण सत्याद्ब्रह्मणो जातम् , तस्मान्महत्सत्यं ब्रह्म । कथं पुनर्यक्षमित्युच्यते — ते एवं सृष्टा देवाः पितरमपि विराजमतीत्य, तदेव सत्यं ब्रह्म उपासते ; अत एतत् प्रथमजं महत् यक्षम् ; तस्मात् सर्वात्मना उपास्यं तत् ; तस्यापि सत्यस्य ब्रह्मणो नाम सत्यमिति ; तदेतत् त्र्यक्षरम् ; कानि तान्यक्षराणीत्याह — स इत्येकमक्षरम् ; तीत्येकमक्षरम् , तीति ईकारानुबन्धो निर्देशार्थः ; यमित्येकमक्षरम् ; तत्र तेषां प्रथमोत्तमे अक्षरे सकारयकारौ सत्यम् , मृत्युरूपाभावात् ; मध्यतः मध्ये अनृतम् ; अनृतं हि मृत्युः मृत्य्वनृतयोः तकारसामान्यात् । तदेतत् अनृतं तकाराक्षरं मृत्युरूपम् उभयतः सत्येन सकारयकारलक्षणेन परिगृहीतं व्याप्तम् अन्तर्भावितं सत्यरूपाभ्याम् , अतः अकिञ्चित्करं तत् , सत्यभूयमेव सत्यबाहुल्यमेव भवति ; एवं सत्यबाहुल्यं सर्वस्य मृत्योरनृतस्य अकिञ्चित्करत्वं च यो विद्वान् , तमेवं विद्वांसम् अनृतं कदाचित् प्रमादोक्तं न हिनस्ति ॥
तद्यत्तत्सत्यमसौ स आदित्यो य एष एतस्मिन्मण्डले पुरुषो यश्चायं दक्षिणेऽक्षन्पुरुषस्तावेतावन्योन्यस्मिन्प्रतिष्ठितौ रश्मिभिरेषोऽस्मिन्प्रतिष्ठितः प्राणैरयममुष्मिन्स यदोत्क्रमिष्यन्भवति शुद्धमेवैतन्मण्डलं पश्यति नैनमेते रश्मयः प्रत्यायन्ति ॥ २ ॥
अस्याधुना सत्यस्य ब्रह्मणः संस्थानविशेषे उपासनमुच्यते — तद्यत् ; किं तत् ? सत्यं ब्रह्म प्रथमजम् ; किम् ? असौ सः ; कोऽसौ ? आदित्यः ; कः पुनरसावादित्यः ? य एषः ; क एषः ? यः एतस्मिन् आदित्यमण्डले पुरुषः अभिमानी, सोऽसौ सत्यं ब्रह्म । यश्चायम् अध्यात्मम् योऽयं दक्षिणेऽक्षन् अक्षणि पुरुषः ; च - शब्दात् स च सत्यं ब्रह्मेति सम्बन्धः । तावेतौ आदित्याक्षिस्थौ पुरुषौ एकस्य सत्यस्य ब्रह्मणः संस्थानविशेषौ यस्मात् , तस्मात् अन्योन्यस्मिन् इतरेतरस्मिन् आदित्यश्चाक्षुषे चाक्षुषश्च आदित्ये प्रतिष्ठितौ, अध्यात्माधिदैवतयोः अन्योन्योपकार्योपकारकत्वात् ; कथं प्रतिष्ठितावित्युच्यते — रश्मिभिः प्रकाशेन अनुग्रहं कुर्वन् एष आदित्यः अस्मिंश्चाक्षुषे अध्यात्मे प्रतिष्ठितः ; अयं च चाक्षुषः प्राणैरादित्यमनुगृह्णन् अमुष्मिन् आदित्ये अधिदैवे प्रतिष्ठितः ; सः अस्मिन् शरीरे विज्ञानमयो भोक्ता यदा यस्मिन्काले उत्क्रमिष्यन्भवति, तदा असौ चाक्षुष आदित्यपुरुषः रश्मीनुपसंहृत्य केवलेन औदासीन्येन रूपेण व्यवतिष्ठते ; तदा अयं विज्ञानमयः पश्यति शुद्धमेव केवलं विरश्मि एतन्मण्डलं चन्द्रमण्डलमिव ; तदेतत् अरिष्टदर्शनम् प्रासङ्गिकं प्रदर्श्यते, कथं नाम पुरुषः करणीये यत्नवान्स्यादिति ; न — एवं चाक्षुषं पुरुषमुररीकृत्य तं प्रत्यनुग्रहाय एते रश्मयः स्वामिकर्तव्यवशात्पूर्वमागच्छन्तोऽपि, पुनः तत्कर्मक्षयमनुरुध्यमाना इव नोपयन्ति न प्रत्यागच्छन्ति एनम् । अतोऽवगम्यते परस्परोपकार्योपकारकभावात् सत्यस्यैव एकस्य आत्मनः अंशौ एताविति ॥
य एष एतस्मिन्मण्डले पुरुषस्तस्य भूरिति शिर एकं शिर एकमेतदक्षरं भुव इति बाहू द्वौ बाहू द्वे एते अक्षरे स्वरिति प्रतिष्ठा द्वे प्रतिष्ठे द्वे एते अक्षरे तस्योपनिषदहरिति हन्ति पाप्मानं जहाति च य एवं वेद ॥ ३ ॥
तत्र यः, असौ कः ? यः एषः एतस्मिन्मण्डले पुरुषः सत्यनामा ; तस्य व्याहृतयः अवयवाः ; कथम् ? भूरिति येयं व्याहृतिः, सा तस्य शिरः, प्राथम्यात् ; तत्र सामान्यं स्वयमेवाह श्रुतिः — एकम् एकसङ्ख्यायुक्तं शिरः, तथा एतत् अक्षरम् एकं भूरिति । भुव इति बाहू, द्वित्वसामान्यात् ; द्वौ बाहू, द्वे एते अक्षरे । तथा स्वरिति प्रतिष्ठा ; द्वे प्रतिष्ठे द्वे एते अक्षरे ; प्रतिष्ठे पादौ प्रतितिष्ठत्याभ्यामिति । तस्यास्य व्याहृत्यवयवस्य सत्यस्य ब्रह्मण उपनिषत् रहस्यम् अभिधानम् , येनाभिधानेन अभिधीयमानं तद्ब्रह्म अभिमुखी भवति लोकवत् ; कासावित्याह — अहरिति ; अहरिति चैतत् रूपं हन्तेर्जहातेश्चेति यो वेद, स हन्ति जहाति च पाप्मानं य एवं वेद ॥
योऽयं दक्षिणेऽक्षन्पुरुषस्तस्य भूरिति शिर एकं शिर एकमेतदक्षरं भुव इति बाहू द्वौ बाहू द्वे एते अक्षरे स्वरिति प्रतिष्ठा द्वे प्रतिष्ठे द्वे एते अक्षरे तस्योपनिषदहमिति हन्ति पाप्मानं जहाति च य एवं वेद ॥ ४ ॥
एवं योऽयं दक्षिणेऽक्षन्पुरुषः, तस्य भूरिति शिर इत्यादि सर्वं समानम् । तस्योपनिषत् — अहमिति, प्रत्यगात्मभूतत्वात् । पूर्ववत् हन्तेः जहातेश्चेति ॥
इति पञ्चमाध्यायस्य पञ्चमं ब्राह्मणम् ॥
उपाधीनामनेकत्वादनेकविशेषणत्वाच्च तस्यैव प्रकृतस्य ब्रह्मणो मनउपाधिविशिष्टस्योपासनं विधित्सन्नाह —
मनोमयोऽयं पुरुषो भाः सत्यस्तस्मिन्नन्तर्हृदये यथा व्रीहिर्वा यवो वा स एष सर्वस्येशानः सर्वस्याधिपतिः सर्वमिदं प्रशास्ति यदिदं किं च ॥ १ ॥
मनोमयः मनःप्रायः, मनसि उपलभ्यमानत्वात् ; मनसा चोपलभत इति मनोमयोऽयं पुरुषः ; भाःसत्यः, भा एव सत्यं सद्भावः स्वरूपं यस्य सोऽयं भाःसत्यः, भास्वर इत्येतत् ; मनसः सर्वार्थावभासकत्वात् मनोमयत्वाच्च अस्य भास्वरत्वम् ; तस्मिन् अन्तर्हृदये हृदयस्यान्तः तस्मिन्नित्येतत् ; यथा व्रीहिर्वा यवो वा परिमाणतः, एवंपरिमाणः तस्मिन्नन्तर्हृदये योगिभिर्दृश्यत इत्यर्थः । स एषः सर्वस्येशानः सर्वस्य स्वभेदजातस्य ईशानः स्वामी ; स्वामित्वेऽपि सति कश्चिदमात्यादितन्त्रः, अयं तु न तथा ; किं तर्हि अधिपतिः अधिष्ठाय पालयिता ; सर्वमिदं प्रशास्ति, यदिदं किञ्च यत्किञ्चित्सर्वं जगत् , तत्सर्वं प्रशास्ति । एवं मनोमयस्योपासनात् तथारूपापत्तिरेव फलम् । ‘तं यथा यथोपासते तदेव भवति’ (शत. ब्रा. १० । ५ । २ । २०) इति ब्राह्मणम् ॥
इति पञ्चमाध्यायस्य षष्ठं ब्राह्मणम् ॥
विद्युद्ब्रह्मेत्याहुर्विदानाद्विद्युद्विद्यत्येनं पाप्मनो य एवं वेद विद्युद्ब्रह्मेति विद्युद्ध्येव ब्रह्म ॥ १ ॥
तथैव उपासनान्तरं सत्यस्य ब्रह्मणो विशिष्टफलमारभ्यते — विद्युद्ब्रह्मेत्याहुः । विद्युतो ब्रह्मणो निर्वचनमुच्यते — विदानात् अवखण्डनात् तमसो मेघान्धकारं विदार्य हि अवभासते, अतो विद्युत् ; एवंगुणं विद्युत् ब्रह्मेति यो वेद, असौ विद्यति अवखण्डयति विनाशयति पाप्मनः, एनमात्मानं प्रति प्रतिकूलभूताः पाप्मानो ये तान् सर्वान् पाप्मनः अवखण्डयतीत्यर्थः । य एवं वेद विद्युद्ब्रह्मेति तस्यानुरूपं फलम् , विद्युत् हि यस्मात् ब्रह्म ॥
इति पञ्चमाध्यायस्य सप्तमं ब्राह्मणम् ॥
वाचं धेनुमुपासीत तस्याश्चत्वारः स्तनाः स्वाहाकारो वषट्कारो हन्तकारः स्वधाकारस्तस्यै द्वौ स्तनौ देवा उपजीवन्ति स्वाहाकारं च वषट्कारं च हन्तकारं मनुष्याः स्वधाकारं पितरस्तस्याः प्राण ऋषभो मनो वत्सः ॥ १ ॥
पुनः उपासनान्तरम् तस्यैव ब्रह्मणः वाग्वै ब्रह्मेति ; वागिति शब्दः त्रयी ; तां वाचं धेनुम् , धेनुरिव धेनुः, यथा धेनुः चतुर्भिः स्तनैः स्तन्यं पयः क्षरति वत्साय एवं वाग्धेनुः वक्ष्यमाणैः स्तनैः पय इव अन्नं क्षरति देवादिभ्यः । के पुनः ते स्तनाः ? के वा ते, येभ्यः क्षरति ? तस्याः एतस्या वाचो धेन्वाः, द्वौ स्तनौ देवा उपजीवन्ति वत्सस्थानीयाः ; कौ तौ ? स्वाहाकारं च वषट्कारं च ; आभ्यां हि हविः दीयते देवेभ्यः । हन्तकारं मनुष्याः ; हन्तेति मनुष्येभ्यः अन्नं प्रयच्छन्ति । स्वधाकारं पितरः ; स्वधाकारेण हि पितृभ्यः स्वधां प्रयच्छन्ति । तस्या धेन्वा वाचः प्राणः ऋषभः ; प्राणेन हि वाक्प्रसूयते ; मनो वत्सः ; मनसा हि प्रस्राव्यते ; मनसा ह्यालोचिते विषये वाक् प्रवर्तते ; तस्मात् मनः वत्सस्थानीयम् । एवं वाग्धेनूपासकः ताद्भाव्यमेव प्रतिपद्यते ॥
इति पञ्चमाध्यायस्य अष्टमं ब्राह्मणम् ॥
अयमग्निर्वैश्वानरो योऽयमन्तः पुरुषे येनेदमन्नं पच्यते यदिदमद्यते तस्यैष घोषो भवति यमेतत्कर्णावपिधाय शृणोति स यदोत्क्रमिष्यन्भवति नैनं घोषं शृणोति ॥ १ ॥
अयमग्निर्वैश्वानरः, पूर्ववदुपासनान्तरम् ; अयम् अग्निः वैश्वानरः ; कोऽयमग्निरित्याह — योऽयमन्तः पुरुषे । किं शरीरारम्भकः ? नेत्युच्यते — येन अग्निना वैश्वानराख्येन इदमन्नं पच्यते । किं तदन्नम् ? यदिदम् अद्यते भुज्यते अन्नं प्रजाभिः, जाठरोऽग्निरित्यर्थः । तस्य साक्षादुपलक्षणार्थमिदमाह — तस्याग्नेः अन्नं पचतः जाठरस्य एष घोषो भवति ; कोऽसौ ? यं घोषम् , एतदिति क्रियाविशेषणम् , कर्णावपिधाय अङ्गुलीभ्यामपिधानं कृत्वा शृणोति । तं प्रजापतिमुपासीत वैश्वानरमग्निम् । अत्रापि ताद्भाव्यं फलम् । तत्र प्रासङ्गिकमिदमरिष्टलक्षणमुच्यते — सोऽत्र शरीरे भोक्ता यदा उत्क्रमिष्यन्भवति, नैनं घोषं शृणोति ॥
इति पञ्चमाध्यायस्य नवमं ब्राह्मणम् ॥
यदा वै पुरुषोऽस्माल्लोकात्प्रैति स वायुमागच्छति तस्मै स तत्र विजिहिते यथा रथचक्रस्य खं तेन स ऊर्ध्व आक्रमते स आदित्यमागच्छति तस्मै स तत्र विजिहीते यथा लम्बरस्य खं तेन स ऊर्ध्व आक्रमते स चन्द्रमसमागच्छति तस्मै स तत्र विजिहीते यथा दुन्दुभेः खं तेन स ऊर्ध्व आक्रमते स लोकमागच्छत्यशोकमहिमं तस्मिन्वसति शाश्वतीः समाः ॥ १ ॥
सर्वेषामस्मिन्प्रकरणे उपासनानां गतिरियं फलं चोच्यते — यदा वै पुरुषः विद्वान् अस्मात् लोकात् प्रैति शरीरं परित्यजति, सः तदा वायुम् आगच्छति, अन्तरिक्षे तिर्यग्भूतो वायुः स्तिमितः अभेद्यस्तिष्ठति ; स वायुः तत्र स्वात्मनि तस्मै सम्प्राप्ताय विजिहीते स्वात्मावयवान् विगमयति छिद्रीकरोत्यात्मानमित्यर्थः । किम्परिमाणं छिद्रमित्युच्यते — यथा रथचक्रस्य खं छिद्रं प्रसिद्धपरिमाणम् ; तेन छिद्रेण स विद्वान् ऊर्ध्वः आक्रमते ऊर्ध्वः सन् गच्छति । स आदित्यमागच्छति ; आदित्यः ब्रह्मलोकं जिगमिषोर्मार्गनिरोधं कृत्वा स्थितः ; सोऽपि एवंविदे उपासकाय द्वारं प्रयच्छति ; तस्मै स तत्र विजिहीते ; यथा लम्बरस्य खं वादित्रविशेषस्य छिद्रपरिमाणम् ; तेन स ऊर्ध्व आक्रमते । स चन्द्रमसम् आगच्छति ; सोऽपि तस्मै तत्र विजिहीते ; यथा दुन्दुभेः खं प्रसिद्धम् ; तेन स ऊर्ध्व आक्रमते । स लोकं प्रजापतिलोकम् आगच्छति ; किंविशिष्टम् ? अशोकं मानसेन दुःखेन विवर्जितमित्येतत् ; अहिमं हिमवर्जितं शारीरदुःखवर्जितमित्यर्थः ; तं प्राप्य तस्मिन् वसति शाश्वतीः नित्याः समाः संवत्सरानित्यर्थः ; ब्रह्मणो बहून्कल्पान् वसतीत्येतत् ॥
इति पञ्चमाध्यायस्य दशमं ब्राह्मणम् ॥
एतद्वै परमं तपो यद्व्याहितस्तप्यते परमं हैव लोकं जयति य एवं वेदैतद्वै परमं तपो यं प्रेतमरण्यं हरन्ति परमं हैव लोकं जयति य एवं वेदैतद्वै परमं तपो यं प्रेतमग्नावभ्यादधति परमं हैव लोकं जयति य एवं वेद ॥ १ ॥
एतद्वै परमं तपः ; किं तत् ? यत् व्याहितः व्याधितः ज्वरादिपरिगृहीतः सन् यत् तप्यते तदेतत् परमं तप इत्येवं चिन्तयेत् , दुःखसामान्यात् । तस्य एवं चिन्तयतो विदुषः कर्मक्षयहेतुः तदेव तपो भवति अनिन्दतः अविषीदतः । स एव च तेन विज्ञानतपसा दग्धकिल्बिषः परमं हैव लोकं जयति, य एवं वेद । तथा मुमूर्षुः आदावेव कल्पयति ; किम् ? एतद्वै परमं तपः, यं प्रेतं मां ग्रामादरण्यं हरन्ति ऋत्विजः अन्त्यकर्मणे, तत् ग्रामादरण्यगमनसामान्यात् परमं मम तत् तपो भविष्यति ; ग्रामादरण्यगमनं परमं तप इति हि प्रसिद्धम् । परमं हैव लोकं जयति, य एवं वेद । तथा एतद्वै परमं तपः यं प्रेतमग्नावभ्यादधति, अग्निप्रवेशसामान्यात् । परमं हैव लोकं जयति य एवं वेद ॥
इति पञ्चमाध्यायस्य एकादशं ब्राह्मणम् ॥
अन्नं ब्रह्मेत्येक आहुस्तन्न तथा पूयति वा अन्नमृते प्राणात्प्राणो ब्रह्मेत्येक आहुस्तन्न तथा शुष्यति वै प्राण ऋतेऽन्नादेते ह त्वेव देवते एकधाभूयं भूत्वा परमतां गच्छतस्तद्ध स्माह प्रातृदः पितरं किंस्विदेवैवं विदुषे साधु कुर्यां किमेवास्मा असाधु कुर्यामिति स ह स्माह पाणिना मा प्रातृद कस्त्वेनयोरेकधाभूयं भूत्वा परमतां गच्छतीति तस्मा उ हैतदुवाच वीत्यन्नं वै व्यन्ने हीमानि सर्वाणि भूतानि विष्टानि रमिति प्राणो वै रं प्राणे हीमानि सर्वाणि भूतानि रमन्ते सर्वाणि ह वा अस्मिन्भूतानि विशन्ति सर्वाणि भूतानि रमन्ते य एवं वेद ॥ १ ॥
अन्नं ब्रह्मेति, तथा एतत् उपासनान्तरं विधित्सन्नाह — अन्नं ब्रह्म, अन्नम् अद्यते यत् तत् ब्रह्मेत्येक आचार्या आहुः ; तत् न तथा ग्रहीतव्यम् अन्नं ब्रह्मेति । अन्ये चाहुः — प्राणो ब्रह्मेति ; तच्च तथा न ग्रहीतव्यम् । किमर्थं पुनः अन्नं ब्रह्मेति न ग्राह्यम् ? यस्मात् पूयति क्लिद्यते पूतिभावमापद्यते ऋते प्राणात् , तत्कथं ब्रह्म भवितुमर्हति ; ब्रह्म हि नाम तत् , यदविनाशि । अस्तु तर्हि प्राणो ब्रह्म ; नैवम् ; यस्मात् शुष्यति वै प्राणः शोषमुपैति ऋते अन्नात् ; अत्ता हि प्राणः ; अतः अन्नेन आद्येन विना न शक्नोति आत्मानं धारयितुम् ; तस्मात् शुष्यति वै प्राणः ऋतेऽन्नात् ; अतः एकैकस्य ब्रह्मता नोपपद्यते यस्मात् , तस्मात् एते ह तु एव अन्नप्राणदेवते एकधाभूयम् एकधाभावं भूत्वा गत्वा परमतां परमत्वं गच्छतः ब्रह्मत्वं प्राप्नुतः । तदेतत् एवमध्यवस्य ह स्म आह — स्म प्रातृदो नाम पितरमात्मनः ; किंस्वित् स्विदिति वितर्के ; यथा मया ब्रह्म परिकल्पितम् , एवं विदुषे किंस्वित् साधु कुर्याम् , साधु शोभनं पूजाम् , कां तु अस्मै पूजां कुर्यामित्यभिप्रायः ; किमेव अस्मै विदुषे असाधु कुर्याम् , कृतकृत्योऽसौ इत्यभिप्रायः । अन्नप्राणौ सहभूतौ ब्रह्मेति विद्वान् नासौ असाधुकरणेन खण्डितो भवति, नापि साधुकरणेन महीकृतः । तम् एवंवादिनं स पिता ह स्म आह पाणिना हस्तेन निवारयन् , मा प्रातृद मैवं वोचः । कस्तु एनयोः अन्नप्राणयोः एकधाभूयं भूत्वा परमतां कस्तु गच्छति ? न कश्चिदपि विद्वान् अनेन ब्रह्मदर्शनेन परमतां गच्छति ; तस्मात् नैवं वक्तुमर्हसि कृतकृत्योऽसाविति ; यद्येवम् , ब्रवीतु भवान् कथं परमतां गच्छतीति । तस्मै उ ह एतत् वक्ष्यमाणं वच उवाच । किं तत् ? वीति ; किं तत् वि इत्युच्यते — अन्नं वै वि ; अन्ने हि यस्मात् इमानि सर्वाणि भूतानि विष्टानि आश्रितानि, अतः अन्नं वि इत्युच्यते । किञ्च रम् इति ; रमिति च उक्तवान्पिता ; किं पुनस्तत् रम् ? प्राणो वै रम् ; कुत इत्याह ; प्राणे हि यस्मात् बलाश्रये सति सर्वाणि भूतानि रमन्ते, अतो रं प्राणः । सर्वभूताश्रयगुणमन्नम् , सर्वभूतरतिगुणश्च प्राणः । न हि कश्चिदनायतनः निराश्रयः रमते ; नापि सत्यप्यायतने अप्राणो दुर्बलो रमते ; यदा तु आयतनवान्प्राणी बलवांश्च तदा कृतार्थमात्मानं मन्यमानो रमते लोकः ; ‘युवा स्यात्साधुयुवाध्यायकः’ (तै. उ. २ । ८ । ३) इत्यादिश्रुतेः । इदानीम् एवंविदः फलमाह — सर्वाणि ह वै अस्मिन् भूतानि विशन्ति अन्नगुणज्ञानात् , सर्वाणि भूतानि रमन्ते प्राणगुणज्ञानात् , य एवं वेद ॥
इति पञ्चमाध्यायस्य द्वादशं ब्राह्मणम् ॥
उक्थं प्राणो वा उक्थं प्राणो हीदं सर्वमुत्थापयत्युद्धास्मादुक्थविद्वीरस्तिष्ठत्युक्थस्य सायुज्यं सलोकतां जयति य एवं वेद ॥ १ ॥
उक्थम् — तथा उपासनान्तरम् ; उक्थं शस्त्रम् ; तद्धि प्रधानं महाव्रते क्रतौ ; किं पुनस्तदुक्थम् ; प्राणो वै उक्थम् ; प्राणश्च प्रधान इन्द्रियाणाम् , उक्थं च शस्त्राणाम् , अत उक्थमित्युपासीत । कथं प्राण उक्थमित्याह — प्राणः हि यस्मात् इदं सर्वम् उत्थापयति ; उत्थापनात् उक्थं प्राणः ; न हि अप्राणः कश्चिदुत्तिष्ठति ; तदुपासनफलमाह — उत् ह अस्मात् एवंविदः उक्थवित् प्राणवित् वीरः पुत्रः उत्तिष्ठति ह — दृष्टम् एतत्फलम् ; अदृष्टं तु उक्थस्य सायुज्यं सलोकतां जयति, य एवं वेद ॥
यजुः प्राणो वै यजुः प्राणे हीमानि सर्वाणि भूतानि युज्यन्ते युज्यन्ते हास्मै सर्वाणि भूतानि श्रैष्ठ्याय यजुषः सायुज्यं सलोकतां जयति य एवं वेद ॥ २ ॥
यजुरिति चोपासीत प्राणम् ; प्राणो वै यजुः ; कथं यजुः प्राणः ? प्राणे हि यस्मात् सर्वाणि भूतानि युज्यन्ते ; न हि असति प्राणे केनचित् कस्यचित् योगसामर्थ्यम् ; अतो युनक्तीति प्राणो यजुः । एवंविदः फलमाह — युज्यन्ते उद्यच्छन्ते इत्यर्थः, ह अस्मै एवंविदे, सर्वाणि भूतानि, श्रैष्ठ्यं श्रेष्ठभावः तस्मै श्रैष्ठ्याय श्रेष्ठभावाय, अयं नः श्रेष्ठो भवेदिति ; यजुषः प्राणस्य सायुज्यमित्यादि सर्वं समानम् ॥
साम प्राणो वै साम प्राणे हीमानि सर्वाणि भूतानि सम्यञ्चि सम्यञ्चि हास्मै सर्वाणि भूतानि श्रैष्ठ्याय कल्पन्ते साम्नः सायुज्यं सलोकतां जयति य एवं वेद ॥ ३ ॥
सामेति चोपासीत प्राणम् । प्राणो वै साम ; कथं प्राणः साम ? प्राणे हि यस्मात् सर्वाणि भूतानि सम्यञ्चि सङ्गच्छन्ते, सङ्गमनात् साम्यापत्तिहेतुत्वात् साम प्राणः ; सम्यञ्चि सङ्गच्छन्ते ह अस्मै सर्वाणि भूतानि ; न केवलं सङ्गच्छन्त एव, श्रेष्ठभावाय च अस्मै कल्पन्ते समर्थ्यन्ते ; साम्नः सायुज्यमित्यादि पूर्ववत् ॥
क्षत्त्रं प्राणो वै क्षत्त्रं प्राणो हि वै क्षत्त्रं त्रायते हैनं प्राणः क्षणितोः प्र क्षत्त्रमत्रमाप्नोति क्षत्त्रस्य सायुज्यं सलोकतां जयति य एवं वेद ॥ ४ ॥
तं प्राणं क्षत्त्रमित्युपासीत । प्राणो वै क्षत्त्रम् ; प्रसिद्धम् एतत् — प्राणो हि वै क्षत्त्रम् । कथं प्रसिद्धतेत्याह — त्रायते पालयति एवं पिण्डं देहं प्राणः, क्षणितोः शस्त्रादिहिंसितात् पुनः मांसेन आपूरयति यस्मात् , तस्मात् क्षतत्राणात् प्रसिद्धं क्षत्त्रत्वं प्राणस्य । विद्वत्फलमाह — प्र क्षत्त्रमत्रम् , न त्रायते अन्येन केनचिदित्यत्रम् , क्षत्त्रं प्राणः, तम् अत्रं क्षत्त्रं प्राणं प्राप्नोतीत्यर्थः । शाखान्तरे वा पाठात् क्षत्त्रमात्रं प्राप्नोति, प्राणो भवतीत्यर्थः । क्षत्त्रस्य सायुज्यं सलोकतां जयति, य एवं वेद ॥
इति पञ्चमाध्यायस्य त्रयोदशं ब्राह्मणम् ॥
भूमिरन्तरिक्षं द्यौरित्यष्टावक्षराण्यष्टाक्षरं ह वा एकं गायत्र्यै पदमेतदु हैवास्या एतत्स यावदेषु त्रिषु लोकेषु तावद्धजयति योऽस्या एतदेवं पदं वेद ॥ १ ॥
ब्रह्मणो हृदयाद्यनेकोपाधिविशिष्टस्य उपासनमुक्तम् ; अथ इदानीं गायत्र्युपाधिविशिष्टस्य उपासनं वक्तव्यमित्यारभ्यते । सर्वच्छन्दसां हि गायत्रीछन्दः प्रधानभूतम् ; तत्प्रयोक्तृगयत्राणात् गायत्रीति वक्ष्यति ; न च अन्येषां छन्दसां प्रयोक्तृप्राणत्राणसामर्थ्यम् ; प्राणात्मभूता च सा ; सर्वच्छन्दसां च आत्मा प्राणः ; प्राणश्च क्षतत्राणात् क्षत्त्रमित्युक्तम् ; प्राणश्च गायत्री ; तस्मात् तदुपासनमेव विधित्स्यते ; द्विजोत्तमजन्महेतुत्वाच्च — ‘गायत्र्या ब्राह्मणमसृजत त्रिष्टुभा राजन्यं जगत्या वैश्यम्’ ( ? ) इति द्विजोत्तमस्य द्वितीयं जन्म गायत्रीनिमित्तम् ; तस्मात् प्रधाना गायत्री ; ‘ब्रह्मणा व्युत्थाय ब्राह्मणा अभिवदन्ति, स ब्राह्मणो विपापो विरजोऽविचिकित्सो ब्राह्मणो भवति’ (बृ. उ. ३ । ५ । १), (बृ. उ. ३ । ८ । ८), (बृ. उ. ३ । ८ । १०), (बृ. उ. ४ । ४ । २३) इत्युत्तमपुरुषार्थसम्बन्धं ब्राह्मणस्य दर्शयति ; तच्च ब्राह्मणत्वं गायत्रीजन्ममूलम् ; अतो वक्तव्यं गायत्र्याः सतत्त्वम् । गायत्र्या हि यः सृष्टो द्विजोत्तमः निरङ्कुश एव उत्तमपुरुषार्थसाधने अधिक्रियते ; अतः तन्मूलः परमपुरुषार्थसम्बन्धः । तस्मात् तदुपासनविधानाय आह — भूमिरन्तरिक्षं द्यौरित्येतानि अष्टावक्षराणि ; अष्टाक्षरम् अष्ठावक्षराणि यस्य तत् इदमष्टाक्षरम् ; ह वै प्रसिद्धावद्योतकौ ; एकं प्रथमम् , गायत्र्यै गायत्र्याः, पदम् ; यकारेणैव अष्टत्वपूरणम् । एतत् उ ह एव एतदेव अस्या गायत्र्याः पदं पादः प्रथमः भूम्यादिलक्षणः त्रैलोक्यात्मा, अष्टाक्षरत्वसामान्यात् । एवम् एतत् त्रैलोक्यात्मकं गायत्र्याः प्रथमं पदं यो वेद, तस्यैतत्फलम् — स विद्वान् यावत्किञ्चित् एषु त्रिषु लोकेषु जेतव्यम् , तावत्सर्वं ह जयति, यः अस्यै एतदेवं पदं वेद ॥
ऋचो यजूंषि सामानीत्यष्टावक्षराण्यष्टाक्षरं ह वा एकं गायत्र्यै पदमेतदु हैवास्या एतत्स यावतीयं त्रयी विद्या तावद्ध जयति योऽस्या एतदेवं पदं वेद ॥ २ ॥
तथा ऋचः यजूंषि सामानीति त्रयीविद्यानामाक्षराणि एतान्यपि अष्टावेव ; तथैव अष्टाक्षरं ह वै एकं गायत्र्यै पदं द्वितीयम् , एतत् उ ह एव अस्या एतत् ऋग्यजुःसामलक्षणम् अष्टाक्षरत्वसामान्यादेव । सः यावती इयं त्रयी विद्या त्रय्या विद्यया यावत्फलजातम् आप्यते, तावत् ह जयति, योऽस्या एतत् गायत्र्याः त्रैविद्यलक्षणं पदं वेद ॥
प्राणोऽपानो व्यान इत्यष्टावक्षराण्यष्टाक्षरं ह वा एकं गायत्र्यै पदमेतदु हैवास्या एतत्स यावदिदं प्राणि तावद्ध जयति योऽस्या एतदेवं पदं वेदाथास्या एतदेव तुरीयं दर्शतं पदं परोरजा य एषतपति यद्वै चतुर्थं तत्तुरीयं दर्शतं पदमिति ददृश इव ह्येष परोरजा इति सर्वमु ह्येवैष रज उपर्युपरि तपत्येवं हैव श्रिया यशसा तपति योऽस्या एतदेवं पदं वेद ॥ ३ ॥
तथा प्राणः अपानः व्यानः एतान्यपि प्राणाद्यभिधानाक्षराणि अष्टौ ; तच्च गायत्र्यास्तृतीयं पदम् ; यावदिदं प्राणिजातम् , तावत् ह जयति, योऽस्या एतदेवं गायत्र्यास्तृतीयं पदं वेद । अथ अनन्तरं गायत्र्यास्त्रिपदायाः शब्दात्मिकायास्तुरीयं पदमुच्यते अभिधेयभूतम् , अस्याः प्रकृताया गायत्र्याः एतदेव वक्ष्यमाणं तुरीयं दर्शतं पदं परोरजा य एष तपति ; तुरीयमित्यादिवाक्यपदार्थं स्वयमेव व्याचष्टे श्रुतिः — यद्वै चतुर्थं प्रसिद्धं लोके, तदिह तुरीयशब्देनाभिधीयते ; दर्शतं पदमित्यस्य कोऽर्थ इत्युच्यते — ददृशे इव दृश्यते इव हि एषः मण्डलान्तर्गतः पुरुषः ; अतो दर्शतं पदमुच्यते ; परोरजा इत्यस्य पदस्य कोऽर्थ इत्युच्यते — सर्वं समस्तम् उ हि एव एषः मण्डलस्थः पुरुषः रजः रजोजातं समस्तं लोकमित्यर्थः, उपर्युपरि आधिपत्यभावेन सर्वं लोकं रजोजातं तपति ; उपर्युपरीति वीप्सा सर्वलोकाधिपत्यख्यापनार्था ; ननु सर्वशब्देनैव सिद्धत्वात् वीप्सा अनर्थिका — नैष दोषः ; येषाम् उपरिष्टात् सविता दृश्यते तद्विषय एव सर्वशब्दः स्यादित्याशङ्कानिवृत्त्यर्था वीप्सा, ‘ये चामुष्मात्पराञ्चो लोकास्तेषां चेष्टे देवकामानां च’ (छा. उ. १ । ६ । ८) इति श्रुत्यन्तरात् ; तस्मात् सर्वावरोधार्था वीप्सा ; यथा असौ सविता सर्वाधिपत्यलक्षणया श्रिया यशसा च ख्यात्या तपति, एवं हैव श्रिया यशसा च तपति, योऽस्या एतदेवं तुरीयं दर्शतं पदं वेद ॥
सैषा गायत्र्येतस्मिंस्तुरीये दर्शते पदे परोरजसि प्रतिष्ठिता तद्वै तत्सत्ये प्रतिष्ठितं चक्षुर्वै सत्यं चक्षुर्हि वै सत्यं तस्माद्यदिदानीं द्वौ विवदमानावेयातामहमदर्शमहमश्रौषमिति य एवं ब्रूयादहमदर्शमिति तस्मा एव श्रद्दध्याम तद्वै तत्सत्यं बले प्रतिष्ठितं प्राणो वै बलं तत्प्राणे प्रतिष्ठितं तस्मादाहुर्बलं सत्यादोगीय इत्येवंवेषा गायत्र्यध्यात्मं प्रतिष्ठिता सा हैषा गयांस्तत्रे प्राणा वै गयास्तत्प्राणांस्तत्रे तद्यद्गयांस्तत्रे तस्माद्गायत्री नाम स यामेवामूं सावित्रीमन्वाहैषैव सा स यस्मा अन्वाह तस्य प्राणांस्त्रायते ॥ ४ ॥
सैषा त्रिपदा उक्ता या त्रैलोक्यत्रैविद्यप्राणलक्षणा गायत्री एतस्मिन् चतुर्थे तुरीये दर्शते पदे परोरजसि प्रतिष्ठिता, मूर्तामूर्तरसत्वात् आदित्यस्य ; रसापाये हि वस्तु नीरसम् अप्रतिष्ठितं भवति, यथा काष्ठादि दग्धसारम् , तद्वत् ; तथा मूर्तामूर्तात्मकं जगत् त्रिपदा गायत्री आदित्ये प्रतिष्ठिता तद्रसत्वात् सह त्रिभिः पादैः ; तद्वै तुरीयं पदं सत्ये प्रतिष्ठितम् ; किं पुनः तत् सत्यमित्युच्यते — चक्षुर्वै सत्यम् । कथं चक्षुः सत्यमित्याह — प्रसिद्धमेतत् , चक्षुर्हि वै सत्यम् । कथं प्रसिद्धतेत्याह — तस्मात् — यत् यदि इदानीमेव द्वौ विवदमानौ विरुद्धं वदमानौ एयाताम् आगच्छेयाताम् ; अहम् अदर्शं दृष्टवानस्मीति अन्य आह ; अहम् अश्रौषम् — त्वया दृष्टं न तथा तद्वस्त्विति ; तयोः य एवं ब्रूयात् — अहमद्राक्षमिति, तस्मै एव श्रद्दध्याम ; न पुनः यः ब्रूयात् अहमश्रौषमिति ; श्रोतुः मृषा श्रवणमपि सम्भवति ; न तु चक्षुषो मृषा दर्शनम् ; तस्मात् न अश्रौषमित्युक्तवते श्रद्दध्याम ; तस्मात् सत्यप्रतिपत्तिहेतुत्वात् सत्यं चक्षुः ; तस्मिन् सत्ये चक्षुषि सह त्रिभिः इतरैः पादैः तुरीयं पदं प्रतिष्ठितमित्यर्थः । उक्तं च ‘स आदित्यः कस्मिन्प्रतिष्ठित इति चक्षुषीति’ (बृ. उ. ३ । ९ । २०) । तद्वै तुरीयपदाश्रयं सत्यं बले प्रतिष्ठितम् ; किं पुनः तत् बलमित्याह — प्राणो वै बलम् ; तस्मिन्प्राणे बले प्रतिष्ठितं सत्यम् । तथा चोक्तम् — ‘सूत्रे तदोतं च प्रोतं च’ (बृ. उ. ३ । ७ । २) इति । यस्मात् बले सत्यं प्रतिष्ठितम् , तस्मादाहुः — बलं सत्यादोगीयः ओजीयः ओजस्तरमित्यर्थः ; लोकेऽपि यस्मिन्हि यदाश्रितं भवति, तस्मादाश्रितात् आश्रयस्य बलवत्तरत्वं प्रसिद्धम् ; न हि दुर्बलं बलवतः क्वचित् आश्रयभूतं दृष्टम् ; एवं उक्तन्यायेन उ एषा गायत्री अध्यात्मम् अध्यात्मे प्राणे प्रतिष्ठिता ; सैषा गायत्री प्राणः ; अतो गायत्र्यां जगत्प्रतिष्ठितम् ; यस्मिन्प्राणे सर्वे देवा एकं भवन्ति, सर्वे वेदाः, कर्माणि फलं च ; सैवं गायत्री प्राणरूपा सती जगत आत्मा । सा ह एषा गयान् तत्रे त्रातवती ; के पुनर्गयाः ? प्राणाः वागादयः वै गयाः, शब्दकरणात् ; तान् तत्रे सैषा गायत्री । तत् तत्र यत् यस्मात् गयान् तत्रे, तस्मात् गायत्री नाम ; गयत्राणात् गायत्रीति प्रथिता । सः आचार्यः उपनीयमाणवकमष्टवर्षं यामेव अमूं गायत्रीं सावित्रीं सवितृदेवताकाम् अन्वाह पच्छः अर्धर्चशः समस्तां च, एषैव स साक्षात् प्राणः जगत आत्मा माणवकाय समर्पिता इह इदानीं व्याख्याता, नान्या ; स आचार्यः यस्मै माणवकाय अन्वाह अनुवक्ति, तस्य माणवकस्य गयान् प्राणान् त्रायते नरकादिपतनात् ॥
तां हैतामेके सावित्रीमनुष्ठुभमन्वाहुर्वागनुष्टुबेतद्वाचमनुब्रूम इति न तथा कुर्याद्गायत्रीमेव सावित्रीमनुब्रूयाद्यदि ह वा अप्येवंविद्बह्विव प्रतिगृह्णाति न हैव तद्गायत्र्या एकञ्चन पदं प्रति ॥ ५ ॥
तामेतां सावित्रीं ह एके शाखिनः अनुष्टुभम् अनुष्टुप्प्रभवाम् अनुष्टुप्छन्दस्काम् अन्वाहुरुपनीताय । तदभिप्रायमाह — वाक् अनुष्टुप् , वाक्च शरीरे सरस्वती, तामेव हि वाचं सरस्वतीं माणवकायानुब्रूम इत्येतद्वदन्तः । न तथा कुर्यात् न तथा विद्यात् , यत् ते आहुः मृषैव तत् ; किं तर्हि गायत्रीमेव सावित्रीमनुब्रूयात् ; कस्मात् ? यस्मात् प्राणो गायत्रीत्युक्तम् ; प्राणे उक्ते, वाक्च सरस्वती च अन्ये च प्राणाः सर्वं माणवकाय समर्पितं भवति । किञ्चेदं प्रासङ्गिकमुक्त्वा गायत्रीविदं स्तौति — यदि ह वै अपि एवंवित् बह्विव — न हि तस्य सर्वात्मनो बहु नामास्ति किञ्चित् , सर्वात्मकत्वाद्विदुषः — प्रतिगृह्णाति, न हैव तत् प्रतिग्रहजातं गायत्र्या एकञ्चन एकमपि पदं प्रति पर्याप्तम् ॥
स य इमांस्त्रींल्लोकान्पूर्णान्प्रतिगृह्णीयात्सोऽस्या एतत्प्रथमं पदमाप्नुयादथ यावतीयं त्रयी विद्या यस्तावत्प्रतिगृह्णीयात्सोऽस्या एतद्द्वितीयं पदमाप्नुयादथ यावदिदं प्राणि यस्तावत्प्रतिगृह्णीयात्सोऽस्या एतत्तृतीयं पदमाप्नुयादथास्या एतदेव तुरीयं दर्शतं पदं परोरजा य एष तपति नैव केनचनाप्यं कुत उ एतावत्प्रतिगृह्णीयात् ॥ ६ ॥
स य इमांस्त्रीन् — स यः गायत्रीवित् इमान् भूरादीन् त्रीन् गोश्वादिधनपूर्णान् लोकान् प्रतिगृह्णीयात् , स प्रतिग्रहः, अस्या गायत्र्या एतत्प्रथमं पदं यद्व्याख्यातम् आप्नुयात् प्रथमपदविज्ञानफलम् , तेन भुक्तं स्यात् , न त्वधिकदोषोत्पादकः स प्रतिग्रहः । अथ पुनः यावती इयं त्रयी विद्या, यस्तावत् प्रतिगृह्णीयात् , सोऽस्या एतद्द्वितीयं पदमाप्नुयात् , द्वितीयपद विज्ञानफलं तेन भुक्तं स्यात् । तथा यावदिदं प्राणि, यस्तावत्प्रतिगृह्णीयात् , सोऽस्या एतत्तृतीयं पदमाप्नुयात् , तेन तृतीयपदविज्ञानफलं भुक्तं स्यात् । कल्पयित्वेदमुच्यते ; पादत्रयसममपि यदि कश्चित्प्रतिगृह्णीयात् , तत्पादत्रयविज्ञानफलस्यैव क्षयकारणम् , न त्वन्यस्य दोषस्य कर्तृत्वे क्षमम् ; न चैवं दाता प्रतिग्रहीता वा ; गायत्रीविज्ञानस्तुतये कल्प्यते ; दाता प्रतिग्रहीता च यद्यप्येवं सम्भाव्यते, नासौ प्रतिग्रहः अपराधक्षमः ; कस्मात् ? यतः अभ्यधिकमपि पुरुषार्थविज्ञानम् अवशिष्टमेव चतुर्थपादविषयं गायत्र्याः ; तद्दर्शयति — अथ अस्याः एतदेव तुरीयं दर्शतं पदं परोरजा य एष तपति ; यद्यैतत् नैव केनचन केनचिदपि प्रतिग्रहेण आप्यं नैव प्राप्यमित्यर्थः, यथा पूर्वोक्तानि त्रीणि पदानि ; एतान्यपि नैव आप्यानि केनचित् ; कल्पयित्वा एवमुक्तम् ; परमार्थतः कुत उ एतावत् प्रतिगृह्णीयात् त्रैलोक्यादिसमम् । तस्मात् गायत्री एवंप्रकारा उपास्येत्यर्थः ॥
तस्या उपस्थानं गायत्र्यस्येकपदी द्विपदी त्रिपदी चतुष्पद्यपदसि न हि पद्यसे । नमस्ते तुरीयाय दर्शताय पदाय परोरजसेऽसावदो मा प्रापदिति यं द्विष्यादसावस्मै कामो मा समृद्धीति वा न हैवास्मै स कामः समृध्यते यस्मा एवमुपतिष्ठतेऽहमदः प्रापमिति वा ॥ ७ ॥
तस्या उपस्थानम् — तस्या गायत्र्याः उपस्थानम् उपेत्य स्थानं नमस्करणम् अनेन मन्त्रेण । कोऽसौ मन्त्र इत्याह — हे गायत्रि असि भवसि त्रैलोक्यपादेन एकपदी, त्रयीविद्यारूपेण द्वितीयेन द्विपदी, प्राणादिना तृतीयेन त्रिपद्यसि, चतुर्थेन तुरीयेण चतुष्पद्यसि ; एवं चतुर्भिः पादैः उपासकैः पद्यसे ज्ञायसे ; अतः परं परेण निरुपाधिकेन स्वेन आत्मना अपदसि — अविद्यमानं पदं यस्यास्तव, येन पद्यसे — सा त्वं अपत् असि, यस्मात् न हि पद्यसे, नेति नेत्यात्मत्वात् । अतो व्यवहारविषयाय नमस्ते तुरीयाय दर्शताय पदाय परोरजसे । असौ शत्रुः पाप्मा त्वत्प्राप्तिविघ्नकरः, अदः तत् आत्मनः कार्यं यत् त्वत्प्राप्तिविघ्नकर्तृत्वम् , मा प्रापत् मैव प्राप्नोतु ; इति - शब्दो मन्त्रपरिसमाप्त्यर्थः ; यं द्विष्यात् यं प्रति द्वेषं कुर्यात् स्वयं विद्वान् , तं प्रति अनेनोपस्थानम् ; असौ शत्रुः अमुकनामेति नाम गृह्णीयात् ; अस्मै यज्ञदत्ताय अभिप्रेतः कामः मा समृद्धि समृद्धिं मा प्राप्नोत्विति वा उपतिष्ठते ; न हैवास्मै देवदत्ताय स कामः समृध्यते ; कस्मै ? यस्मै एवमुपतिष्ठते । अहं अदः देवदत्ताभिप्रेतं प्रापमिति वा उपतिष्ठते । असावदो मा प्रापदित्यादित्रयाणां मन्त्रपदानां यथाकामं विकल्पः ॥
एतद्ध वै तज्जनको वैदेहो बुडिलमाश्वतराश्विमुवाच यन्नु हो तद्गायत्रीविदब्रूथा अथ कथं हस्तीभूतो वहसीति मुखं ह्यस्याः सम्राण्न विदाञ्चकारेति होवाच तस्या अग्निरेव मुखं यदि ह वा अपि बह्विवाग्नावभ्यादधति सर्वमेव तत्सन्दहत्येवं हैवैवंविद्यद्यपि बह्विव पापं कुरुते सर्वमेव तत्सम्प्साय शुद्धः पूतोऽजरोऽमृतः सम्भवति ॥ ८ ॥
गायत्र्या मुखविधानाय अर्थवाद उच्यते — एतत् ह किल वै स्मर्यते, तत् तत्र गायत्रीविज्ञानविषये ; जनको वैदेहः, बुडिलो नामतः, अश्वतराश्वस्यापत्यम् आश्वतराश्विः, तं किल उक्तवान् ; यत् नु इति वितर्के, हो अहो इत्येतत् , तत् यत् त्वं गायत्रीविदब्रूथाः, गायत्रीविदस्मीति यदब्रूथाः, किमिदं तस्य वचसोऽननुरूपम् ; अथ कथम् , यदि गायत्रीवित् , प्रतिग्रहदोषेण हस्तीभूतो वहसीति । स प्रत्याह राज्ञा स्मारितः — मुखं गायत्र्याः हि यस्मात् अस्याः, हे सम्राट् , न विदाञ्चकार न विज्ञातवानस्मि — इति होवाच ; एकाङ्गविकलत्वात् गायत्रीविज्ञानं मम अफलं जातम् ।
शृणु तर्हि ; तस्या गायत्र्या अग्निरेव मुखम् ; यदि ह वै अपि बह्विवेन्धनम् अग्नावभ्यादधति लौकिकाः, सर्वमेव तत्सन्दहत्येवेन्धनम् अग्निः — एवं हैव एवंवित् गायत्र्या अग्निर्मुखमित्येवं वेत्तीत्येवंवित् स्यात् स्वयं गायत्र्यात्मा अग्निमुखः सन् । यद्यपि बह्विव पापं कुरुते प्रतिग्रहादिदोषम् , तत्सर्वं पापजातं सम्प्साय भक्षयित्वा शुद्धः अग्निवत् पूतश्च तस्मात्प्रतिग्रहदोषात् गायत्र्यात्मा अजरोऽमृतश्च सम्भवति ॥
इति पञ्चमाध्यायस्य चतुर्दशं ब्राह्मणम् ॥
हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम् । तत्त्वं पूषन्नपावृणु सत्यधर्माय दृष्टये । पूषन्नेकर्षे यम सूर्य प्राजापत्य व्यूह रश्मीन् । समूह तेजो यत्ते रूपं कल्याणतमं तत्ते पश्यामि । योऽसावसौ पुरुषः सोऽहमस्मि । वायुरनिलममृतमथेदं भस्मान्तं शरीरम् । ओं क्रतो स्मर कृतं स्मर क्रतो स्मर कृतं स्मर । अग्ने नय सुपथा राये अस्मान्विश्वानि देव वयुनानि विद्वान् । युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नमउक्तिं विधेम ॥ १ ॥
यो ज्ञानकर्मसमुच्चयकारी सः अन्तकाले आदित्यं प्रार्थयति ; अस्ति च प्रसङ्गः ; गायत्र्यास्तुरीयः पादो हि सः ; तदुपस्थानं प्रकृतम् ; अतः स एव प्रार्थ्यते । हिरण्मयेन ज्योतिर्मयेन पात्रेण, यथा पात्रेण इष्टं वस्तु अपिधीयते, एवमिदं सत्याख्यं ब्रह्म ज्योतिर्मयेन मण्डलेनापिहितमिव असमाहितचेतसामदृश्यत्वात् ; तदुच्यते — सत्यस्यापिहितं मुखं मुख्यं स्वरूपम् ; तत् अपिधानं पात्रमपिधानमिव दर्शनप्रतिबन्धकारणम् , तत् त्वम् , हे पूषन् , जगतः पोषणात्पूषा सविता, अपावृणु अपावृतं कुरु दर्शनप्रतिबन्धकारणमपनयेत्यर्थः ; सत्यधर्माय सत्यं धर्मोऽस्य मम सोऽहं सत्यधर्मा, तस्मै त्वदात्मभूतायेत्यर्थः ; दृष्टये दर्शनाय ; पूषन्नित्यादीनि नामानि आमन्त्रणार्थानि सवितुः ; एकर्षे, एकश्चासावृषिश्च एकर्षिः, दर्शनादृषिः ; स हि सर्वस्य जगत आत्मा चक्षुश्च सन् सर्वं पश्यति ; एको वा गच्छतीत्येकर्षिः, ‘सूर्य एकाकी चरति’ (तै. सं. ८ । ४ । १८) इति मन्त्रवर्णात् ; यम, सर्वं हि जगतः संयमनं त्वत्कृतम् ; सूर्य, सुष्ठु ईरयते रसान् रश्मीन् प्राणान् धियो वा जगत इति ; प्राजापत्य, प्रजापतेरीश्वरस्यापत्यं हिरण्यगर्भस्य वा, हे प्राजापत्य ; व्यूह विगमय रश्मीन् ; समूह सङ्क्षिप आत्मनस्तेजः, येनाहं शक्नुयां द्रष्टुम् ; तेजसा ह्यपहतदृष्टिः न शक्नुयां त्वत्स्वरूपमञ्जसा द्रष्टुम् , विद्योतन इव रूपाणाम् ; अत उपसंहर तेजः ; यत् ते तव रूपं सर्वकल्याणानामतिशयेन कल्याणं कल्याणतमम् ; तत् ते तव पश्यामि पश्यामो वयम् , वचनव्यत्ययेन । योऽसौ भूर्भुवःस्वर्व्याहृत्यवयवः पुरुषः, पुरुषाकृतित्वात्पुरुषः, सोऽहमस्मि भवामि ; ‘अहरहम्’ इति च उपनिषद उक्तत्वादादित्यचाक्षुषयोः तदेवेदं परामृश्यते ; सोऽहमस्म्यमृतमिति सम्बन्धः ; ममामृतस्य सत्यस्य शरीरपाते, शरीरस्थो यः प्राणो वायुः स अनिलं बाह्यं वायुमेव प्रतिगच्छतु ; तथा अन्या देवताः स्वां स्वां प्रकृतिं गच्छन्तु ; अथ इदमपि भस्मान्तं सत् पृथिवीं यातु शरीरम् । अथेदानीम् आत्मनः सङ्कल्पभूतां मनसि व्यवस्थिताम् अग्निदेवतां प्रार्थयते — ओं क्रतो ; ओमिति क्रतो इति च सम्बोधनार्थावेव ; ओङ्कारप्रतीकत्वात् ओं ; मनोमयत्वाच्च क्रतुः ; हे ओं, हे क्रतो, स्मर स्मर्तव्यम् ; अन्तकाले हि त्वत्स्मरणवशात् इष्टा गतिः प्राप्यते ; अतः प्रार्थ्यते — यत् मया कृतम् , तत् स्मर ; पुनरुक्तिः आदरार्था । किञ्च हे अग्ने, नय प्रापय, सुपथा शोभनेन मार्गेण, राये धनाय कर्मफलप्राप्तये इत्यर्थः ; न दक्षिणेन कृष्णेन पुनरावृत्तियुक्तेन, किं तर्हि शुक्लेनैव सुपथा ; अस्मान् विश्वानि सर्वाणि, हे देव, वयुनानि प्रज्ञानानि सर्वप्राणिनां विद्वान् ; किञ्च युयोधि अपनय वियोजय अस्मत् अस्मत्तः, जुहुराणं कुटिलम् , एनः पापं पापजातं सर्वम् ; तेन पापेन वियुक्ता वयम् एष्याम उत्तरेण पथा त्वत्प्रसादात् ; किं तु वयं तुभ्यम् परिचर्यां कर्तुं न शक्नुमः ; भूयिष्ठां बहुतमां ते तुभ्यं नमउक्तिं नमस्कारवचनं विधेम नमस्कारोक्त्या परिचरेमेत्यर्थः, अन्यत्कर्तुमशक्ताः सन्त इति ॥
इति पञ्चमाध्यायस्य पञ्चदशं ब्राह्मणम् ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ बृहदारण्यकोपनिषद्भाष्ये पञ्चमोऽध्यायः ॥