त्रयो धर्मस्कन्धा यज्ञोऽध्ययनं दानमिति प्रथमस्तप एव द्वितीयो ब्रह्मचार्याचार्यकुलवासी तृतीयोऽत्यन्तमात्मानमाचार्यकुलेऽवसादयन्सर्व एते पुण्यलोका भवन्ति ब्रह्मसंस्थोऽमृतत्वमेति ॥ १ ॥
ओङ्कारस्योपासनविध्यर्थं त्रयो धर्मस्कन्धा इत्याद्यारभ्यते । नैवं मन्तव्यं सामावयवभूतस्यैवोद्गीथादिलक्षणस्योङ्कारस्योपासनात्फलं प्राप्यत इति ; किं तर्हि, यत्सर्वैरपि सामोपासनैः कर्मभिश्चाप्राप्यं तत्फलममृतत्वं केवलादोङ्कारोपासनात्प्राप्यत इति । तत्स्तुत्यर्थं सामप्रकरणे तदुपन्यासः । त्रयः त्रिसङ्ख्याका धर्मस्य स्कन्धाः धर्मस्कन्धाः धर्मप्रविभागा इत्यर्थः ; के ते इति, आह — यज्ञः अग्निहोत्रादिः, अध्ययनं सनियमस्य ऋगादेरभ्यासः, दानं बहिर्वेदि यथाशक्ति द्रव्यसंविभागो भिक्षमाणेभ्यः, इति एषः प्रथमः धर्मस्कन्धः गृहस्थसमवेतत्वात् तन्निर्वर्तकेन गृहस्थेन निर्दिश्यते ; प्रथमः एक इत्यर्थः, द्वितीयतृतीयश्रवणात् न आद्यार्थः । तप एव द्वितीयः ; तप इति कृच्छ्रचान्द्रायणादि तद्वान् तापसः परिव्राड्वा, न ब्रह्मसंस्थः आश्रमधर्ममात्रसंस्थः, ब्रह्मसंस्थस्य तु अमृतत्वश्रवणात् ; द्वितीयः धर्मस्कन्धः । ब्रह्मचारी आचार्यकुले वस्तुं शीलमस्येत्याचार्यकुलवासी । अत्यन्तं यावज्जीवम् आत्मानं नियमैः आचार्यकुले अवसादयन् क्षपयन् देहं तृतीयः धर्मस्कन्धः । अत्यन्तमित्यादिविशेषणान्नैष्ठिक इति गम्यते । उपकुर्वाणस्य स्वाध्यायग्रहणार्थत्वात् न पुण्यलोकत्वं ब्रह्मचर्येण । सर्व एते त्रयोऽप्याश्रमिणः यथोक्तैर्धर्मैः पुण्यलोका भवन्ति ; पुण्यो लोको येषां त इमे पुण्यलोका आश्रमिणो भवन्ति । अवशिष्टस्त्वनुक्तः परिव्राट् तुरीयः ब्रह्मसंस्थाः ब्रह्मणि सम्यक्स्थितः, सोऽमृतत्वं पुण्यलोकविलक्षणममरणभावमात्यन्तिकम् एति, न आपेक्षिकम् , देवाद्यमृतत्ववत् , पुण्यलोकात्पृथक् अमृतत्वस्य विभागकरणात् ॥
यदि च पुण्यलोकातिशयमात्रममृतत्वमभविष्यत् , ततः पुण्यलोकत्वाद्विभक्तं नावक्ष्यत् । विभक्तोपदेशाच्च आत्यन्तिकममृतत्वमिति गम्यते । अत्र च आश्रमधर्मफलोपन्यासः प्रणवसेवास्तुत्यर्थः, न तत्फलविध्यर्थः, स्तुतये च प्रणवसेवायाः, आश्रमधर्मफलविधये च, इति हि भिद्येत वाक्यम् । तस्मात्स्मृतिप्रसिद्धाश्रमफलानुवादेन प्रणवसेवाफलममृतत्वं ब्रुवन् प्रणवसेवां स्तौति । यथा पूर्णवर्मणः सेवा भक्तपरिधानमात्रफला, राजवर्मणस्तु सेवा राज्यतुल्यफलेति — तद्वत् । प्रणवश्च तत्सत्यं परं ब्रह्म तत्प्रतीकत्वात् ।
‘एतद्ध्येवाक्षरं ब्रह्म एतद्ध्येवाक्षरं परम्’ (क. उ. १ । २ । १६) इत्याद्याम्नानात्काठके, युक्तं तत्सेवातोऽमृतत्वम् ॥
अत्र आहुः केचित् — चतुर्णामाश्रमिणामविशेषेण स्वधर्मानुष्ठानात्पुण्यलोकता इहोक्ता ज्ञानवर्जितानाम् ‘सर्व एते पुण्यलोका भवन्ति’ इति । नात्र परिव्राडवशेषितः ; परिव्राजकस्यापि ज्ञानं यमा नियमाश्च तप एवेति ; तप एव द्वितीय इत्यत्र तपः — शब्देन परिव्राट्तापसौ गृहीतौ । अतस्तेषामेव चतुर्णां यो ब्रह्मसंस्थः प्रणवसेवकः सोऽमृतत्वमेतीति चतुर्णामधिकृतत्वाविशेषात् , ब्रह्मसंस्थत्वेऽप्रतिषेधाच्च, स्वकर्मच्छिद्रे च ब्रह्मसंस्थतायां सामर्थ्योपपत्तेः । न च यववराहादिशब्दवत् ब्रह्मसंस्थशब्दः परिव्राजके रूढः, ब्रह्मणि संस्थितिनिमित्तमुपादाय प्रवृत्तत्वात् । न हि रूढिशब्दा निमित्तमुपाददते । सर्वेषां च ब्रह्मणि स्थितिरुपपद्यते । यत्र यत्र निमित्तमस्ति ब्रह्मणि संस्थितिः, तस्य तस्य निमित्तवतो वाचकं सन्तं ब्रह्मसंस्थशब्दं परिव्राडेकविषये सङ्कोचे कारणाभावात् निरोद्धुमयुक्तम् । न च पारिव्राज्याश्रमधर्ममात्रेणामृतत्वम् , ज्ञानानर्थक्यप्रसङ्गात् । पारिव्राज्यधर्मयुक्तमेव ज्ञानममृतत्वसाधनमिति चेत् , न, आश्रमधर्मत्वाविशेषात् । धर्मो वा ज्ञानविशिष्टोऽमृतत्वसाधनमित्येतदपि सर्वाश्रमधर्माणामविशिष्टम् । न च वचनमस्ति परिव्राजकस्यैव ब्रह्मसंस्थस्य मोक्षः, नान्येषाम् इति । ज्ञानान्मोक्ष इति च सर्वोपनिषदां सिद्धान्तः । तस्माद्य एव ब्रह्मसंस्थः स्वाश्रमविहितधर्मवताम् , सोऽमृतत्वमेतीति ॥
न, कर्मनिमित्तविद्याप्रत्यययोर्विरोधात् । कर्त्रादिकारकक्रियाफलभेदप्रत्ययवत्त्वं हि निमित्तमुपादाय इदं कुरु इदं मा कार्षीः इति कर्मविधयः प्रवृत्ताः । तच्च निमित्तं न शास्त्रकृतम् , सर्वप्राणिषु दर्शनात् ।
‘सत् . . . . . एकमेवाद्वितीयम्’ (छा. उ. ६ । २ । १) ‘आत्मैवेदं सर्वम्’ (छा. उ. ७ । २६ । २) ‘ब्रह्मैवेदं सर्वम्’ इति शास्त्रजन्यः प्रत्ययो विद्यारूपः स्वाभाविकं क्रियाकारकफलभेदप्रत्ययं कर्मविधिनिमित्तमनुपमृद्य न जायते, भेदाभेदप्रत्यययोर्विरोधात् । न हि तैमिरिकद्विचन्द्रादिभेदप्रत्ययमनुपमृद्य तिमिरापगमे चन्द्राद्येकत्वप्रत्यय उपजायते, विद्याविद्याप्रत्यययोर्विरोधात् । तत्रैवं सति यं भेदप्रत्ययमुपादाय कर्मविधयः प्रवृत्ताः, स यस्योपमर्दितः
‘सत् . . . एकमेवाद्वितीयम्’ (छा. उ. ६ । २ । १) ‘तत्सत्यम्’ (छा. उ. ६ । ८ । ७) ‘विकारभेदोऽनृतम्’ (छा. उ. ६ । १ । ४) इत्येतद्वाक्यप्रमाणजनितेनैकत्वप्रत्ययेन, स सर्वकर्मभ्यो निवृत्तः, निमित्तनिवृत्तेः ; स च निवृत्तकर्मा ब्रह्मसंस्थ उच्यते ; स च परिव्राडेव, अन्यस्यासम्भवात् , अन्यो हि अनिवृत्तभेदप्रत्ययः सोऽन्यत्पश्यञ्शृण्वन्मन्वानो विजानन्निदं कृत्वेदं प्राप्नुयामिति हि मन्यते । तस्यैवं कुर्वतो न ब्रह्मसंस्थता, वाचारम्भणमात्रविकारानृताभिसन्धिप्रत्ययवत्त्वात् । न च असत्यमित्युपमर्दिते भेदप्रत्यये सत्यमिदमनेन कर्तव्यं मयेति प्रमाणप्रमेयबुद्धिरुपपद्यते — आकाश इव तलमलबुद्धिर्विवेकिनः । उपमर्दितेऽपि भेदप्रत्यये कर्मभ्यो न निवर्तते चेत् , प्रागिव भेदप्रत्ययानुपमर्दनादेकत्वप्रत्ययविधायकं वाक्यमप्रमाणीकृतं स्यात् । अभक्ष्यभक्षणादिप्रतिषेधवाक्यानां प्रामाण्यवत् युक्तमेकत्ववाक्यस्यापि प्रामाण्यम् , सर्वोपनिषदां तत्परत्वात् । कर्मविधीनामप्रामाण्यप्रसङ्ग इति चेत् , न, अनुपमर्दितभेदप्रत्ययवत्पुरुषविषये प्रामाण्योपपत्तेः स्वप्नादिप्रत्यय इव प्राक्प्रबोधात् । विवेकिनामकरणात् कर्मविधिप्रामाण्योच्छेद इति चेत् , न, कांयविध्यनुच्छेददर्शनात् । न हि, कामात्मता न प्रशस्तेत्येवं विज्ञानवद्भिः कांयानि कर्माणि नानुष्ठीयन्त इति, कांयकर्मविधय उच्छिद्यन्ते, अनुष्ठीयन्त एव कामिभिरिति ; तथा ब्रह्मसंस्थैर्ब्रह्मविद्भिर्नानुष्ठीयन्ते कर्माणीति न तद्विधय उच्छिद्यन्ते, अब्रह्मविद्भिरनुष्ठीयन्त एवेति । परिव्राजकानां भिक्षाचरणादिवत् उत्पन्नैकत्वप्रत्ययानामपि गृहस्थादीनामग्रिहोत्रादिकर्मानिवृत्तिरिति चेत् , न, प्रामाण्यचिन्तायां पुरुषप्रवृत्तेरदृष्टान्तत्वात् — न हि, नाभिचरेदिति प्रतिषिद्धमप्यभिचरणं कश्चित्कुर्वन्दृष्ट इति, शत्रौ द्वेषरहितेनापि विवेकिना अभिचरणं क्रियते । न च कर्मविधिप्रवृत्तिनिमित्ते भेदप्रत्यये बाधिते अग्निहोत्रादौ प्रवर्तकं निमित्तमस्ति, परिव्राजकस्येव भिक्षाचरणादौ बुभुक्षादि प्रवर्तकम् । इहाप्यकरणे प्रत्यवायभयं प्रवर्तकमिति चेत् , न, भेदप्रत्ययवतोऽधिकृतत्वात् । भेदप्रत्ययवान् अनुपमर्दितभेदबुद्धिर्विद्यया यः, स कर्मण्यधिकृत इत्यवोचाम ; यो हि अधिकृतः कर्मणि, तस्य तदकरणे प्रत्यवायः ; न निवृत्ताधिकारस्य, गृहस्थस्येव, ब्रह्मचारिणो विशेषधर्माननुष्ठाने । एवं तर्हि सर्वः स्वाश्रमस्थः उत्पन्नैकत्वप्रत्ययः परिव्राडिति चेत् , न, स्वस्वामित्वभेदबुद्ध्यनिवृत्तेः, कर्मार्थत्वाच्च इतराश्रमाणाम् —
‘अथ कर्म कुर्वीय’ (बृ. उ. १ । ४ । १७) इति श्रुतेः । तस्मात् स्वस्वामित्वाभावात् भिक्षुरेक एव परिव्राट् , न गृहस्थादिः । एकत्वप्रत्ययविधिजनितेन प्रत्ययेन विधिनिमित्तभेदप्रत्ययस्योपमर्दितत्वात् यमनियमाद्यनुपपत्तिः परिव्राजकस्येति चेत् , न, बुभुक्षादिना एकत्वप्रत्ययात्प्रच्यावितस्योपपत्तेः, निवृत्त्यर्थत्वात् । न च प्रतिषिद्धसेवाप्राप्तिः, एकत्वप्रत्ययोत्पत्तेः प्रागेव प्रतिषिद्धत्वात् । न हि रात्रौ कूपे कण्टके वा पतितः उदितेऽपि सवितरि पतति तस्मिन्नेव । तस्मात् सिद्धं निवृत्तकर्मा भिक्षुक एव ब्रह्मसंस्थ इति । यत्पुनरुक्तं सर्वेषां ज्ञानवर्जितानां पुण्यलोकतेति — सत्यमेतत् । यच्चोक्तं तपःशब्देन परिव्राडप्युक्त इति — एतदसत् । कस्मात् ? परिव्राजकस्यैव निवृत्तभेदप्रत्ययस्य ब्रह्मसंस्थतासम्भवात् । स एव हि अवशेषित इत्यवोचाम । एकत्वविज्ञानवतोऽग्निहोत्रादिवत्तपोनिवृत्तेश्च । भेदबुद्धिमत एव हि तपःकर्तव्यता स्यात् । एतेन कर्मच्छिद्रे ब्रह्मसंस्थतासामर्थ्यम् , अप्रतिषेधश्च प्रत्युक्तः । तथा ज्ञानवानेव निवृत्तकर्मा परिव्राडिति ज्ञानवैयर्थ्यं प्रत्युक्तम् । यत्पुनरुक्तं यववराहादिशब्दवत्परिव्राजके न रूढो ब्रह्मसंस्थशब्द इति, तत्परिहृतम् ; तस्यैव ब्रह्मसंस्थतासम्भवान्नान्यस्येति । यत्पुनरुक्तं रूढशब्दाः निमित्तं नोपाददत इति, तन्न, गृहस्थतक्षपरिव्राजकादिशब्ददर्शनात् । गृहस्थितिपारिव्राज्यतक्षणादिनिमित्तोपादाना अपि, गृहस्थपरिव्राजकावाश्रमिविशेषे, विशिष्टजातिमति च तक्षेति, रूढा दृश्यन्ते शब्दाः । न यत्र यत्र निमित्तानि तत्र तत्र वर्तन्ते, प्रसिद्ध्यभावात् । तथा इहापि ब्रह्मसंस्थशब्दो निवृत्तसर्वकर्मतत्साधनपरिव्राडेकविषयेऽत्याश्रमिणि परमहंसाख्ये वृत्त इह भवितुमर्हति, मुख्यामृतत्वफलश्रवणात् । अतश्चेदमेवैकं वेदोक्तं पारिव्राज्यम् , न यज्ञोपवीतत्रिदण्डकमण्डल्वादिपरिग्रह इति ;
‘मुण्डोऽपरिग्रहोऽसङ्गः’ (जा. उ. ५) इति च । श्रुतिः
‘अत्याश्रमिभ्यः परमं पवित्रम्’ (श्वे. उ. ६ । २१) इत्यादि च श्वेताश्वतरीये ;
‘निस्तुतिर्निर्नमस्कारः’ (मो. ध. २४२ । ९) इत्यादिस्मृतिभ्यश्च ;
‘तस्मात्कर्म न कुर्वन्ति यतयः पारदर्शिनः । ’ (मो. ध. २४१ । ७)‘तस्मादलिङ्गो धर्मज्ञोऽव्यक्तलिङ्गः’ (अश्व. ४६ । ५१) (व. १० । १२) इत्यादिस्मृतिभ्यश्च ॥
यत्तु साङ्ख्यैः कर्मत्यागोऽभ्युपगम्यते, क्रियाकारकफलभेदबुद्धेः सत्यत्वाभ्युपगमात् , तन्मृषा । यच्च बौद्धैः शून्यताभ्युपगमात् अकर्तृत्वमभ्युपगम्यते, तदप्यसत् , तदभ्युपगन्तुः सत्त्वाभ्युपगमात् । यच्च अज्ञैरलसतया अकर्तृत्वाभ्युपगमः, सोऽप्यसत् , कारकबुद्धेरनिवर्तितत्वात्प्रमाणेन । तस्मात् वेदान्तप्रमाणजनितैकत्वप्रत्ययवत एव कर्मनिवृत्तिलक्षणं पारिव्राज्यं ब्रह्मसंस्थत्वं चेति सिद्धम् । एतेन गृहस्थस्यैकत्वविज्ञाने सति पारिव्राज्यमर्थसिद्धम् ॥
ननु अग्न्युत्सादनदोषभाक्स्यात् परिव्रजन् —
‘वीरहा वा एष देवानां योऽग्रिमुद्वासयते’ (तै. सं. १ । ५ । २) इति श्रुतेः, न, दैवोत्सादितत्वात् , उत्सन्न एव हि स एकत्वदर्शने जाते —
‘अपागादग्नेरग्नित्वम्’ (छा. उ. ६ । ४ । १) इति श्रुतेः । अतो न दोषभाक् गृहस्थः परिव्रजन्निति ॥