मघवन्मर्त्यं वा इदꣳ शरीरमात्तं मृत्युना तदस्यामृतस्याशरीरस्यात्मनोऽधिष्ठानमात्तो वै सशरीरः प्रियाप्रियाभ्यां न वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्त्यशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः ॥ १ ॥
मघवन् मर्त्यं वै मरणधर्मीदं शरीरम् । यन्मन्यसेऽक्ष्याधारादिलक्षणः सम्प्रसादलक्षण आत्मा मयोक्तो विनाशमेवापीतो भवतीति, शृणु तत्र कारणम् — यदिदं शरीरं वै यत्पश्यसि तदेतत् मर्त्यं विनाशि । तच्च आत्तं मृत्युना ग्रस्तं सततमेव । कदाचिदेव म्रियत इति मर्त्यमित्युक्ते न तथा सन्त्रासो भवति, यथा ग्रस्तमेव सदा व्याप्तमेव मृत्युनेत्युक्ते — इति वैराग्यार्थं विशेष इत्युच्यते — आत्तं मृत्युनेति । कथं नाम देहाभिमानतो विरक्तः सन् निवर्तत इति । शरीरमित्यत्र सहेन्द्रियमनोभिरुच्यते । तच्छरीरमस्य सम्प्रसादस्य त्रिस्थानतया गम्यमानस्य अमृतस्य मरणादिदेहेन्द्रियमनोधर्मवर्जितस्येत्येतत् ; अमृतस्येत्यनेनैव अशरीरत्वे सिद्धे पुनरशरीरस्येति वचनं वाय्वादिवत् सावयवत्वमूर्तिमत्त्वे मा भूतामिति ; आत्मनो भोगाधिष्ठानम् ; आत्मनो वा सत ईक्षितुः तेजोबन्नादिक्रमेण उत्पन्नमधिष्ठानम् ; जीव रूपेण प्रविश्य सदेवाधितिष्ठत्यस्मिन्निति वा अधिष्ठानम् । यस्येदमीदृशं नित्यमेव मृत्युग्रस्तं धर्माधर्मजनितत्वात्प्रियवदधिष्ठानम् , तदधिष्ठितः तद्वान् सशरीरो भवति । अशरीरस्वभावस्य आत्मनः तदेवाहं शरीरं शरीरमेव च अहम् — इत्यविवेकादात्मभावः सशरीरत्वम् ; अत एव सशरीरः सन् आत्तः ग्रस्तः प्रियाप्रियाभ्याम् । प्रसिद्धमेतत् । तस्य च न वै सशरीरस्य सतः प्रियाप्रिययोः बाह्यविषयसंयोगवियोगनिमित्तयोः बाह्यविषयसंयोगवियोगौ ममेति मन्यमानस्य अपहतिः विनाशः उच्छेदः सन्ततिरूपयोर्नास्तीति । तं पुनर्देहाभिमानादशरीरस्वरूपविज्ञानेन निवर्तिताविवेकज्ञानमशरीरं सन्तं प्रियाप्रिये न स्पृशतः । स्पृशिः प्रत्येकं सम्बध्यत इति प्रियं न स्पृशति अप्रियं न स्पृशतीति वाक्यद्वयं भवति । ‘न म्लेच्छाशुच्यधार्मिकैः सह सम्भाषेत’ (गौ. ध. १ । ९ । १७) इति यद्वत् । धर्माधर्मकार्ये हि ते ; अशरीरता तु स्वरूपमिति तत्र धर्माधर्मयोरसम्भवात् तत्कार्यभावो दूरत एवेत्यतो न प्रियाप्रिये स्पृशतः ॥
ननु यदि प्रियमप्यशरीरं न स्पृशतीति, यन्मघवतोक्तं सुषुप्तस्थो विनाशमेवापीतो भवतीति, तदेवेहाप्यापन्नम् । नैष दोषः, धर्माधर्मकार्ययोः शरीरसम्बन्धिनोः प्रियाप्रिययोः प्रतिषेधस्य विवक्षितत्वात् — अशरीरं न प्रियाप्रिये स्पृशत इति । आगमापायिनोर्हि स्पर्शशब्दो दृष्टः — यथा शीतस्पर्श उष्णस्पर्श इति, न त्वग्नेरुष्णप्रकाशयोः स्वभावभूतयोरग्निना स्पर्श इति भवति ; तथा अग्नेः सवितुर्वा उष्णप्रकाशवत् स्वरूपभूतस्य आनन्दस्य प्रियस्यापि नेह प्रतिषेधः,
‘विज्ञानमानन्दं ब्रह्म’ (बृ. उ. ३ । ९ । २८) ‘आनन्दो ब्रह्म’ (तै. उ. ३ । ६ । १) इत्यादिश्रुतिभ्यः । इहापि भूमैव सुखमित्युक्तत्वात् । ननु भूम्नः प्रियस्य एकत्वे असंवेद्यत्वात् स्वरूपेणैव वा नित्यसंवेद्यत्वात् निर्विशेषतेति न इन्द्रस्य तदिष्टम् ,
‘नाह खल्वयं संप्रत्यात्मानं जानात्ययमहमस्मीति नो एवेमानि भूतानि विनाशमेवापीतो भवति नाहमत्र भोग्यं पश्यामि’ (छा. उ. ७ । ११ । २) इत्युक्तत्वात् । तद्धि इन्द्रस्येष्टम् — यद्भूतानि च आत्मानं च जानाति, न च अप्रियं किञ्चिद्वेत्ति, स सर्वांश्च लोकानाप्नोति सर्वांश्च कामान् येन ज्ञानेन । सत्यमेतदिष्टमिन्द्रस्य — इमानि भूतानि मत्तोऽन्यानि, लोकाः कामाश्च सर्वे मत्तो अन्ये, अहमेषां स्वामीति । न त्वेतदिन्द्रस्य हितम् । हितं च इन्द्रस्य प्रजापतिना वक्तव्यम् । व्योमवदशरीरात्मतया सर्वभूतलोककामात्मत्वोपगमेन या प्राप्तिः, तद्धितमिन्द्राय वक्तव्यमिति प्रजापतिना अभिप्रेतम् । न तु राज्ञो राज्याप्तिवदन्यत्वेन । तत्रैवं सति कं केन विजानीयादात्मैकत्वे इमानि भूतान्ययमहमस्मीति । नन्वस्मिन्पक्षे
‘स्त्रीभिर्वा यानैर्वा’ (छा. उ. ८ । १२ । ३) ‘स यदि पितृलोककामः’ (छा. उ. ८ । २ । १) ‘स एकधा भवति’ (छा. उ. ७ । २६ । २) इत्याद्यैश्वर्यश्रुतयोऽनुपपन्नाः ; न, सर्वात्मनः सर्वफलसम्बन्धोपपत्तेरविरोधात् — मृद इव सर्वघटकरककुण्डाद्याप्तिः । ननु सर्वात्मत्वे दुःखसम्बन्धोऽपि स्यादिति चेत् , न, दुःखस्याप्यात्मत्वोपगमादविरोधः । आत्मन्यविद्याकल्पनानिमित्तानि दुःखानि — रज्ज्वामिव सर्पादिकल्पनानिमित्तानि । सा च अविद्या अशरीरात्मैकत्वस्वरूपदर्शनेन दुःखनिमित्ता उच्छिन्नेति दुःखसम्बन्धाशङ्का न सम्भवति । शुद्धसत्त्वसङ्कल्पनिमित्तानां तु कामानाम् ईश्वरदेहसम्बन्धः सर्वभूतेषु मानसानाम् । पर एव सर्वसत्त्वोपाधिद्वारेण भोक्तेति सर्वाविद्याकृतसंव्यवहाराणां पर एव आत्मा आस्पदं नान्योऽस्तीति वेदान्तसिद्धान्तः ॥
‘य एषोऽक्षिणि पुरुषो दृश्यते’ इति च्छायापुरुष एव प्रजापतिना उक्तः, स्वप्नसुषुप्तयोश्च अन्य एव, न परोऽपहतपाप्मत्वादिलक्षणः, विरोधात् इति केचिन्मन्यन्ते । छायाद्यात्मनां च उपदेशे प्रयोजनमाचक्षते । आदावेव उच्यमाने किल दुर्विज्ञेयत्वात्परस्य आत्मनः अत्यन्तबाह्यविषयासक्तचेतसः अत्यन्तसूक्ष्मवस्तुश्रवणे व्यामोहो मा भूदिति । यथा किल द्वितीयायां सूक्ष्मं चन्द्रं दिदर्शयिषुः वृक्षं कञ्चित्प्रत्यक्षमादौ दर्शयति — पश्य अमुमेष चन्द्र इति, ततोऽन्यं ततोऽप्यन्यं गिरिमूर्धानं च चन्द्रसमीपस्थम् — एष चन्द्र इति, ततोऽसौ चन्द्रं पश्यति, एवमेतत् ‘य एषोऽक्षिणि’ इत्याद्युक्तं प्रजापतिना त्रिभिः पर्यायैः, न पर इति । चतुर्थे तु पर्याये देहान्मर्त्यात्समुत्थाय अशरीरतामापन्नो ज्योतिःस्वरूपम् । यस्मिन्नुत्तमपुरुषे स्त्रयादिभिर्जक्षत्क्रीडन् रममाणो भवति, स उत्तमः पुरुषः पर उक्त इति च आहुः । सत्यम् , रमणीया तावदियं व्याख्या श्रोतुम् । न तु अर्थोऽस्य ग्रन्थस्य एवं सम्भवति । कथम् ? ‘अक्षिणि पुरुषो दृश्यते’ इत्युपन्यस्य शिष्याभ्यां छायात्मनि गृहीते तयोस्तद्विपरीतग्रहणं मत्वा तदपनयाय उदशरावोपन्यासः
‘किं पश्यथः’ (छा. उ. ८ । ८ । १) इति च प्रश्नः साध्वलङ्कारोपदेशश्च अनर्थकः स्यात् , यदि छायात्मैव प्रजापतिना ‘अक्षिणि दृश्यते’ इत्युपदिष्टः । किञ्च यदि स्वयमुपदिष्ट इति ग्रहणस्याप्यपनयनकारणं वक्तव्यं स्यात् । स्वप्नसुषुप्तात्मग्रहणयोरपि तदपनयकारणं च स्वयं ब्रूयात् । न च उक्तम् । तेन मन्यामहे न अक्षिणि च्छायात्मा प्रजापतिना उपदिष्टः । किं चान्यत् , अक्षिणि द्रष्टा चेत् ‘दृश्यते’ इत्युपदिष्टः स्यात् , तत इदं युक्तम् । ‘एतं त्वेव ते’ इत्युक्त्वा स्वप्नेऽपि द्रष्टुरेवोपदेशः । स्वप्ने न द्रष्टोपदिष्ट इति चेत् , न, ‘अपि रोदितीव’ ‘अप्रियवेत्तेव’ इत्युपदेशात् । न च द्रष्टुरन्यः कश्चित्स्वप्ने महीयमानश्चरति ।
‘अत्रायं पुरुषः स्वयञ्ज्योतिः’ (बृ. उ. ४ । ३ । ९) इति न्यायतः श्रुत्यन्तरे सिद्धत्वात् । यद्यपि स्वप्ने सधीर्भवति, तथापि न धीः स्वप्नभोगोपलब्धिं प्रति करणत्वं भजते । किं तर्हि, पटचित्रवज्जाग्रद्वासनाश्रया दृश्यैव धीर्भवतीति न द्रष्टुः स्वयञ्ज्योतिष्ट्वबाधः स्यात् । किञ्चान्यत् , जाग्रत्स्वप्नयोर्भूतानि च आत्मानं च जानाति — इमानि भूतान्ययमहमस्मीति । प्राप्तौ सत्यां प्रतिषेधो युक्तः स्यात् — नाह खल्वयमित्यादि । तथा चेतनस्यैव अविद्यानिमित्तयोः सशरीरत्वे सति प्रियाप्रिययोरपहतिर्नास्तीत्युक्त्वा तस्यैवाशरीरस्य सतो विद्यायां सत्यां सशरीरत्वे प्राप्तयोः प्रतिषेधो युक्तः
‘अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः’ (छा. उ. ८ । १२ । १) इति । एकश्चात्मा स्वप्नबुद्वान्तयोर्महामत्स्यवदसङ्गः सञ्चरतीति श्रुत्यन्तरे सिद्धम् । यच्चोक्तं सम्प्रसादः शरीरात्समुत्थाय यस्मिन्स्त्र्यादिभिः रममाणो भवति सोऽन्यः सम्प्रसादादधिकरणनिर्दिष्ट उत्तमः पुरुष इति, तदप्यसत् । चतुर्थेऽपि पर्याये ‘एतं त्वेव ते’ इति वचनात् । यदि ततोऽन्योऽभिप्रेतः स्यात् , पूर्ववत् ‘एतं त्वेव ते’ इति न ब्रूयान्मृषा प्रजापतिः । किञ्चान्यत् , तेजोबन्नादीनां स्रष्टुः सतः स्वविकारदेहशुङ्गे प्रवेशं दर्शयित्वा प्रविष्टाय पुनः तत्त्वमसीत्युपदेशः मृषा प्रसज्येत । तस्मिंस्त्वं स्त्र्यादिभिः रन्ता भविष्यसीति युक्त उपदेशोऽभविष्यत् यदि सम्प्रसादादन्य उत्तमः पुरुषो भवेत् । तथा भूम्नि
‘अहमेव’ (छा. उ. ७ । २५ । २) इत्यादिश्य ‘आत्मैवेदं सर्वम्’ इति नोपसमहरिष्यत् , यदि भूमा जीवादन्योऽभविष्यत् ,
‘नान्योऽतोऽस्ति द्रष्टा’ (बृ. उ. ३ । ७ । २३) इत्यादिश्रुत्यन्तराच्च । सर्वश्रुतिषु च परस्मिन्नात्मशब्दप्रयोगो नाभविष्यत् प्रत्यगात्मा चेत्सर्वजन्तूनां पर आत्मा न भवेत् । तस्मादेक एव आत्मा प्रकरणी सिद्धः ॥
न च आत्मनः संसारित्वम् , अविद्याध्यस्तत्वादात्मनि संसारस्य । न हि रज्जुशुक्तिकागगनादिषु सर्परजतमलादीनि मिथ्याज्ञानाध्यस्तानि तेषां भवन्तीति । एतेन सशरीरस्य प्रियाप्रिययोरपहतिर्नास्तीति व्याख्यातम् । यच्च स्थितमप्रियवेत्तेवेति नाप्रियवेत्तैवेति सिद्धम् । एवं च सति सर्वपर्यायेषु ‘एतदमृतमभयमेतद्ब्रह्म’ इति प्रजापतेर्वचनम् , यदि वा प्रजापतिच्छद्मरूपायाः श्रुतेर्वचनम् , सत्यमेव भवेत् । न च तत्कुतर्कबुद्ध्या मृषा कर्तुं युक्तम् , ततो गुरुतरस्य प्रमाणान्तरस्यानुपपत्तेः । ननु प्रत्यक्षं दुःखाद्यप्रियवेत्तृत्वमव्यभिचार्यनुभूयत इति चेत् , न, जरादिरहितो जीर्णोऽहं जातोऽहमायुष्मान्गौरः कृष्णो मृतः — इत्यादिप्रत्यक्षानुभववत्तदुपपत्तेः । सर्वमप्येतत्सत्यमिति चेत् , अस्त्येवैतदेवं दुरवगमम् , येन देवराजोऽप्युदशरावादिदर्शिताविनाशयुक्तिरपि मुमोहैवात्र ‘विनाशमेवापीतो भवति’ इति । तथा विरोचनो महाप्राज्ञः प्राजापत्योऽपि देहमात्रात्मदर्शनो बभूव । तथा इन्द्रस्य आत्मविनाशभयसागरे एव वैनाशिका न्यमज्जन् । तथा साङ्ख्या द्रष्टारं देहादिव्यतिरिक्तमवगम्यापि त्यक्तागमप्रमाणत्वात् मृत्युविषये एव अन्यत्वदर्शने तस्थुः । तथा अन्ये काणादादिदर्शनाः कषायरक्तमिव क्षारादिभिर्वस्त्रं नवभिरात्मगुणैर्युक्तमात्मद्रव्यं विशोधयितुं प्रवृत्ताः । तथा अन्ये कर्मिणो बाह्यविषयापहृतचेतसः वेदप्रमाणा अपि परमार्थसत्यमात्मैकत्वं सविनाशमिव इन्द्रवन्मन्यमाना घटीयन्त्रवत् आरोहावरोहप्रकारैरनिशं बम्भ्रमन्ति ; किमन्ये क्षुद्रजन्तवो विवेकहीनाः स्वभावत एव बहिर्विषयापहृतचेतसः । तस्मादिदं त्यक्तसर्वबाह्यैषणैः अनन्यशरणैः परमहंसपरिव्राजकैः अत्याश्रमिभिर्वेदान्तविज्ञानपरैरेव वेदनीयं पूज्यतमैः प्राजापत्यं च इमं सम्प्रदायमनुसरद्भिः उपनिबद्धं प्रकरणचतुष्टयेन । तथा अनुशासति अद्यापि ‘त एव नान्ये’ इति ॥
अशरीरो वायुरभ्रं विद्युत्स्तनयित्नुरशरीराण्येतानि तद्यथैतान्यमुष्मादाकाशात्समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यन्ते ॥ २ ॥
तत्र अशरीरस्य सम्प्रसादस्य अविद्यया शरीरेणाविशेषतां सशरीरतामेव सम्प्राप्तस्य शरीरात्समुत्थाय स्वेन रूपेण यथा अभिनिष्पत्तिः, तथा वक्तव्येति दृष्टान्त उच्यते — अशरीरो वायुः अविद्यमानं शिरःपाण्यादिमच्छरीरमस्येत्यशरीरः । किं च अभ्रं विद्युत्स्तनयित्नुरित्येतानि च अशरीराणि । तत् तत्रैवं सति वर्षादिप्रयोजनावसाने यथा, अमुष्मादिति भूमिष्ठा श्रुतिः द्युलोकसम्बन्धिनमाकाशदेशं व्यपदिशति, एतानि यथोक्तान्याकाशसमानरूपतामापन्नानि स्वेन वाय्वादिरूपेणागृह्यमाणानि आकाशाख्यतां गतानि — यथा सम्प्रसादः अविद्यावस्थायां शरीरात्मभावमेव आपन्नः, तानि च तथाभूतान्यमुष्मात् द्युलोकसम्बन्धिन आकाशदेशात्समुत्तिष्टन्ति वर्षणादिप्रयोजनाभिनिर्वृत्तये । कथम् ? शिशिरापाये सावित्रं परं ज्योतिः प्रकृष्टं ग्रैष्मकमुपसम्पद्य सावित्रमभितापं प्राप्येत्यथः । आदित्याभितापेन पृथग्भावमापादिताः सन्तः स्वेन स्वेन रूपेण पुरोवातादिवायुरूपेण स्तिमितभावं हित्वा अभ्रमपि भूमिपर्वतहस्त्यादिरूपेण विद्युदपि स्वेन ज्योतिर्लतादिचपलरूपेण स्तनयित्नुरपि स्वेन गर्जिताशनिरूपेणेत्येवं प्रावृडागमे स्वेन स्वेन रूपेणाभिनिष्पद्यन्ते ॥
एवमेवैष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते स उत्तमपुरुषः स तत्र पर्येति जक्षत्क्रीडन् रममाणः स्त्रीभिर्वा यानैर्वा ज्ञातिभिर्वा नोपजनꣳ स्मरन्निदꣳ शरीरꣳ स यथा प्रयोग्य आचरणे युक्त एवमेवायमस्मिञ्छरीरे प्राणो युक्तः ॥ ३ ॥
यथा अयं दृष्टान्तो वाय्वादीनामाकाशादिसाम्यगमनवदविद्यया संसारावस्थायां शरीरसाम्यमापन्नः अहममुष्य पुत्रो जातो जीर्णो मरिष्ये — इत्येवंप्रकारं प्रजापतिनेव मघवान् यथोक्तेन क्रमेण नासि त्वं देहेन्द्रियादिधर्मा तत्त्वमसीति प्रतिबोधितः सन् स एष सम्प्रसादो जीवोऽस्माच्छरीरादाकाशादिव वाय्वादयः समुत्थाय देहादिविलक्षणमात्मनो रूपमवगम्य देहात्मभावनां हित्वेत्येतत् , स्वेन रूपेण सदात्मनैवाभिनिष्पद्यत इति व्याख्यातं पुरस्तात् । स येन स्वेन रूपेण सम्प्रसादोऽभिनिष्पद्यते — प्राक्प्रतिबोधात् तद्भ्रान्तिनिमित्तात्सर्पो भवति यथा रज्जुः, पश्चात्कृतप्रकाशा रज्ज्वात्मना स्वेन रूपेणाभिनिष्पद्यते, एवं च स उत्तमपुरुषः उत्तमश्चासौ पुरुषश्चेत्युत्तमपुरुषः स एव उत्तमपुरुषः । अक्षिस्वप्नपुरुषौ व्यक्तौ अव्यक्तश्च सुषुप्तः समस्तः सम्प्रसन्नः अशरीरश्च स्वेन रूपेणेति । एषामेव स्वेन रूपेणावस्थितः क्षराक्षरौ व्याकृताव्याकृतावपेक्ष्य उत्तमपुरुषः ; कृतनिर्वचनो हि अयं गीतासु । सः सम्प्रसादः स्वेन रूपेण तत्र स्वात्मनि स्वस्थतया सर्वात्मभूतः पर्येति क्वचिदिन्द्राद्यात्मना जक्षत् हसन् भक्षयन् वा भक्ष्यान् उच्चावचान् ईप्सितान् क्वचिन्मनोमात्रैः सङ्कल्पादेव समुत्थितैर्ब्राह्मलौकिकैर्वा क्रीडन् स्त्र्यादिभिः रममाणश्च मनसैव, नोपजनम् , स्त्रीपुंसयोरन्योन्योपगमेन जायत इत्युपजनम् आत्मभावेन वा आत्मसामीप्येन जायत इत्युपजनमिदं शरीरम् , तन्न स्मरन् । तत्स्मरणे हि दुःखमेव स्यात् , दुःखात्मकत्वात् तस्य । नन्वनुभूतं चेत् न स्मरेत् असर्वज्ञत्वं मुक्तस्य ; नैष दोषः । येन मिथ्याज्ञानादिना जनितम् तच्च मिथ्याज्ञानादि विद्यया उच्छेदितम् , अतस्तन्नानुभूतमेवेति न तदस्मरणे सर्वज्ञत्वहानिः । न हि उन्मत्तेन ग्रहगृहीतेन वा यदनुभूतं तदुन्मादाद्यपगमेऽपि स्मर्तव्यं स्यात् ; तथेहापि संसारिभिरविद्यादोषवद्भिः यदनुभूयते तत्सर्वात्मानमशरीरं न स्पृशति, अविद्यानिमित्ताभावात् । ये तु उच्छिन्नदोषैर्मृदितकषायैः मानसाः सत्याः कामा अनृतापिधाना अनुभूयन्ते विद्याभिव्यङ्ग्यत्वात् , त एव मुक्तेन सर्वात्मभूतेन सम्बध्यन्त इति आत्मज्ञानस्तुतये निर्दिश्यन्ते ; अतः साध्वेतद्विशिनष्टि —
‘य एते ब्रह्मलोके’ (छा. उ. ८ । १२ । ५) इति । यत्र क्वचन भवन्तोऽपि ब्रह्मण्येव हि ते लोके भवन्तीति सर्वात्मत्वाद्ब्रह्मण उच्यन्ते ॥
ननु कथमेकः सन् नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमा कामांश्च ब्राह्मलौकिकान्पश्यन्रमते इति च विरुद्धम् , यथा एको यस्मिन्नेव क्षणे पश्यति स तस्मिन्नेव क्षणे न पश्यति च इति । नैष दोषः, श्रुत्यन्तरे परिहृतत्वात् । द्रष्टुर्दृष्टेरविपरिलोपात्पश्यन्नेव भवति ; द्रष्टुरन्यत्वेन कामानामभावान्न पश्यति च इति । यद्यपि सुषुप्ते तदुक्तम् , मुक्तस्यापि सर्वैकत्वात्समानो द्वितीयाभावः ।
‘केन कं पश्येत्’ (बृ. उ. २ । ४ । १४) इति च उक्तमेव । अशरीरस्वरूपोऽपहतपाप्मादिलक्षणः सन् कथमेष पुरुषोऽक्षिणि दृश्यत इत्युक्तः प्रजापतिना ? तत्र यथा असावक्षिणि साक्षाद्दृश्यते तद्वक्तव्यमितीदमारभ्यते । तत्र को हेतुरक्षिणि दर्शने इति, आह — स दृष्टान्तः यथा प्रयोग्यः, प्रयोग्यपरो वा स-शब्दः, प्रयुज्यत इति प्रयोगः, अश्वो बलीवर्दो वा यथा लोके आचरत्यनेनेत्याचरणः रथः अनो वा तस्मिन्नाचरणे युक्तः तदाकर्षणाय, एवमस्मिञ्छरीरे रथस्थानीये प्राणः पञ्चवृत्तिरिन्द्रियमनोबुद्धिसंयुक्तः प्रज्ञात्मा विज्ञानक्रियाशक्तिद्वयसंमूर्छितात्मा युक्तः स्वकर्मफलोपभोगनिमित्तं नियुक्तः,
‘कस्मिन्न्वहमुत्क्रान्ते उत्क्रान्तो भविष्यामि कस्मिन्वा प्रतिष्ठिते प्रतिष्ठास्यामीति’ (प्र. उ. ६ । ३) ईश्वरेण राज्ञेव सर्वाधिकारी दर्शनश्रवणचेष्टाव्यापारेऽधिकृतः । तस्यैव तु मात्रा एकदेशश्चक्षुरिन्द्रियं रूपोपलब्धिद्वारभूतम् ॥
अथ यत्रैतदाकाशमनुविषण्णं चक्षुः स चाक्षुषः पुरुषो दर्शनाय चक्षुरथ यो वेदेदं जिघ्राणीति स आत्मा गन्धाय घ्राणमथ यो वेदेदमभिव्याहराणीति स आत्माभिव्याहाराय वागथ यो वेदेदं शृणवानीति स आत्मा श्रवणाय श्रोत्रम् ॥ ४ ॥
अथ यत्र कृष्णतारोपलक्षितम् आकाशं देहच्छिद्रम् अनुविषण्णम् अनुषक्तम् अनुगतम् , तत्र स प्रकृतः अशरीर आत्मा चाक्षुषः चक्षुषि भव इति चाक्षुषः तस्य दर्शनाय रूपोपलब्धये चक्षुः करणम् ; यस्य तत् देहादिभिः संहतत्वात् परस्य द्रष्टुरर्थे, सोऽत्र चक्षुषि दर्शनेन लिङ्गेन दृश्यते परः अशरीरोऽसंहतः । ‘अक्षिणि दृश्यते’ इति प्रजापतिनोक्तं सर्वेन्द्रियद्वारोपलक्षणार्थम् ; सर्वविषयोपलब्धा हि स एवेति । स्फुटोपलब्धिहेतुत्वात्तु ‘अक्षिणि’ इति विशेषवचनं सर्वश्रुतिषु । ‘अहमदर्शमिति तत्सत्यं भवति’ इति च श्रुतेः । अथापि योऽस्मिन्देहे वेद ; कथम् ? इदं सुगन्धि दुर्गन्धि वा जिघ्राणीति अस्य गन्धं विजानीयामिति, स आत्मा, तस्य गन्धाय गन्धविज्ञानाय घ्राणम् । अथ यो वेद इदं वचनम् अभिव्याहराणीति वदिष्यामीति, स आत्मा, अभिव्याहरणक्रियासिद्धये करणं वागिन्द्रियम् । अथ यो वेद — इदं शृणवानीति, स आत्मा, श्रवणाय श्रोत्रम् ॥
अथ यो वेदेदं मन्वानीति स आत्मा मनोऽस्य दैवं चक्षुः स वा एष एतेन दैवेन चक्षुषा मनसैतान्कामान्पश्यन्रमते य एते ब्रह्मलोके ॥ ५ ॥
अथ यो वेद — इदं मन्वानीति मननव्यापारमिन्द्रियासंस्पृष्टं केवलं मन्वानीति वेद, स आत्मा, मननाय मनः । यो वेद स आत्मेत्येवं सर्वत्र प्रयोगात् वेदनमस्य स्वरूपमित्यवगम्यते — यथा यः पुरस्तात्प्रकाशयति स आदित्यः, यो दक्षिणतः यः पश्चात् उत्तरतो य ऊर्ध्वं प्रकाशयति स आदित्यः — इत्युक्ते प्रकाशस्वरूपः स इति गम्यते । दर्शनादिक्रियानिर्वृत्त्यर्थानि तु चक्षुरादिकरणानि । इदं च अस्य आत्मनः सामर्थ्यादवगम्यते — आत्मनः सत्तामात्र एव ज्ञानकर्तृत्वम् , न तु व्यापृततया — यथा सवितुः सत्तामात्र एव प्रकाशनकर्तृत्वम् , न तु व्यापृततयेति — तद्वत् । मनोऽस्य आत्मनो दैवमप्राकृतम् इतरेन्द्रियैरसाधारणं चक्षुः चष्टे पश्यत्यनेनेति चक्षुः । वर्तमानकालविषयाणि च इन्द्रियाणि अतो अदैवानि तानि । मनस्तु त्रिकालविषयोपलब्धिकरणं मृदितदोषं च सूक्ष्मव्यवहितादिसर्वोपलब्धिकरणं च इति दैवं चक्षुरुच्यते । स वै मुक्तः स्वरूपापन्नः अविद्याकृतदेहेन्द्रियमनोवियुक्तः सर्वात्मभावमापन्नः सन् एष व्योमवद्विशुद्धः सर्वेश्वरो मनउपाधिः सन् एतेनैवेश्वरेण मनसा एतान्कामान् सवितृप्रकाशवत् नित्यप्रततेन दर्शनेन पश्यन् रमते । कान्कामानिति विशिनष्टि — य एते ब्रह्मणि लोके हिरण्यनिधिवत् बाह्यविषयासङ्गानृतेनापिहिताः सङ्कल्पमात्रलभ्याः तानित्यर्थः ॥
तं वा एतं देवा आत्मानमुपासते तस्मात्तेषाꣳ सर्वेच लोका आत्ताः सर्वे च कामाः स सर्वाꣳश्च लोकानाप्नोति सर्वाꣳश्च कामान्यस्तमात्मानमनुविद्य विजानातीति ह प्रजापतिरुवाच प्रजापतिरुवाच ॥ ६ ॥
यस्मादेष इन्द्राय प्रजापतिनोक्त आत्मा, तस्मात् ततः श्रुत्वा तमात्मानमद्यत्वेऽपि देवा उपासते । तदुपासनाच्च तेषां सर्वे च लोका आत्ताः प्राप्ताः सर्वे च कामाः । यदर्थं हि इन्द्रः एकशतं वर्षाणि प्रजापतौ ब्रह्मचर्यमुवास, तत्फलं प्राप्तं देवैरित्यभिप्रायः । तद्युक्तं देवानां महाभाग्यत्वात् , न त्विदानीं मनुष्याणामल्पजीवितत्वान्मन्दतरप्रज्ञत्वाच्च सम्भवतीति प्राप्ते, इदमुच्यते — स सर्वांश्च लोकानाप्नोति सर्वांश्च कामान् इदानीन्तनोऽपि । कोऽसौ ? इन्द्रादिवत् यः तमात्मानमनुविद्य विजानातीति ह सामान्येन किल प्रजापतिरुवाच । अतः सर्वेषामात्मज्ञानं तत्फलप्राप्तिश्च तुल्यैव भवतीत्यर्थः । द्विर्वचनं प्रकरणसमाप्त्यर्थम् ॥