प्रथमः खण्डः
‘असौ वा आदित्यः’ इत्यादि अध्यायारम्भे सम्बन्धः । अतीतानन्तराध्यायान्ते उक्तम् ‘यज्ञस्य मात्रां वेद’ इति । यज्ञविषयाणि च सामहोममन्त्रोत्थानानि विशिष्टफलप्राप्तये यज्ञाङ्गभूतान्युपदिष्टानि । सर्वयज्ञानां च कार्यनिर्वृत्तिरूपः सविता महत्या श्रिया दीप्यते । स एष सर्वप्राणिकर्मफलभूतः प्रत्यक्षं सर्वैरुपजीव्यते । अतो यज्ञव्यपदेशानन्तरं तत्कार्यभूतसवितृविषयमुपासनं सर्वपुरुषार्थेभ्यः श्रेष्ठतमफलं विधास्यामीत्येवमारभते श्रुतिः —
असौ वा आदित्यो देवमधु तस्य द्यौरेव तिरश्चीनवꣳशोऽन्तरिक्षमपूपो मरीचयः पुत्राः ॥ १ ॥
असौ वा आदित्यो देवमध्वित्यादि । देवानां मोदनात् मध्विव मधु असौ आदित्यः । वस्वादीनां च मोदनहेतुत्वं वक्ष्यति सर्वयज्ञफलरूपत्वादादित्यस्य । कथं मधुत्वमिति, आह — तस्य मधुनः द्यौरेव भ्रामरस्येव मधुनः तिरश्चीनवंशः तिरश्चीनश्चासौ वंशश्चेति तिरश्चीनवंशः । तिर्यग्गतेव हि द्यौर्लक्ष्यते । अन्तरिक्षं च मध्वपूपः द्युवंशे लग्नः सन् लम्बत इव, अतो मध्वपूपसामान्यात् अन्तरिक्षं मध्वपूपः, मधुनः सवितुराश्रयत्वाच्च । मरीचयः रश्मयः रश्मिस्था आपो भौमाः सवित्राकृष्टाः । ‘एता वा आपः स्वराजो यन्मरीचयः’ ( ? ) इति हि विज्ञायन्ते । ता अन्तरिक्षमध्वपूपस्थरश्म्यन्तर्गतत्वात् भ्रमरबीजभूताः पुत्रा इव हिता लक्ष्यन्त इति पुत्रा इव पुत्राः, मध्वपूपनाड्यन्तर्गता हि भ्रमरपुत्राः ॥
तस्य ये प्राञ्चो रश्मयस्ता एवास्य प्राच्यो मधुनाड्यः । ऋच एव मधुकृत ऋग्वेद एव पुष्पं ता अमृता आपस्ता वा एता ऋचः ॥ २ ॥
तस्य सवितुः मध्वाश्रयस्य मधुनो ये प्राञ्चः प्राच्यां दिशि गताः रश्मयः, ता एव अस्य प्राच्यः प्रागञ्चनात् मधुनो नाड्यः मधुनाड्य इव मध्वाधारच्छिद्राणीत्यर्थः । तत्र ऋच एव मधुकृतः लोहितरूपं सवित्राश्रयं मधु कुर्वन्तीति मधुकृतः भ्रमरा इव ; यतो रसानादाय मधु कुर्वन्ति, तत्पुष्पमिव पुष्पम् ऋग्वेद एव । तत्र ऋग्ब्राह्मणसमुदायस्य ऋग्वेदाख्यत्वात् शब्दमात्राच्च भोग्यरूपरसनिस्रावासम्भवात् ऋग्वेदशब्देन अत्र ऋग्वेदविहितं कर्म, ततो हि कर्मफलभूतमधुरसनिस्रावसम्भवात् । मधुकरैरिव पुष्पस्थानीयादृग्वेदविहितात्कर्मणः अप आदाय ऋग्भिर्मधु निर्वर्त्यते । कास्ता आप इति, आह — ताः कर्मणि प्रयुक्ताः सोमाज्यपयोरूपाः अग्नौ प्रक्षिप्ताः तत्पाकाभिनिर्वृत्ता अमृताः अमृतार्थत्वादत्यन्तरसवत्यः आपो भवन्ति । तद्रसानादाय ता वा एता ऋचः पुष्पेभ्यो रसमाददाना इव भ्रमरा ऋचः ॥
एतमृग्वेदमभ्यतपꣳस्तस्याभितप्तस्य यशस्तेज इन्द्रियं वीर्यमन्नाद्यं रसोऽजायत ॥ ३ ॥
एतम् ऋग्वेदम् ऋग्वेदविहितं कर्म पुष्पस्थानीयम् अभ्यतपन् अभितापं कृतवत्य इव एता ऋचः कर्मणि प्रयुक्ताः । ऋग्भिर्हि मन्त्रैः शस्त्राद्यङ्गभावमुपगतैः क्रियमाणं कर्म मधुनिर्वर्तकं रसं मुञ्चतीत्युपपद्यते, पुष्पाणीव भ्रमरैराचूष्यमाणानि । तदेतदाह — तस्य ऋग्वेदस्य अभितप्तस्य । कोऽसौ रसः, यः ऋङ्मधुकराभितापनिःसृत इत्युच्यते ? यशः विश्रुतत्वं तेजः देहगता दीप्तिः इन्द्रियं सामर्थ्योपेतैरिन्द्रियैरवैकल्यं वीर्यं सामर्थ्यं बलमित्यर्थः, अन्नाद्यम् अन्नं च तदाद्यं च येनोपयुज्यमानेनाहन्यहनि देवानां स्थितिः स्यात् तदन्नाद्यम् एष रसः अजायत यागादिलक्षणात्कर्मणः ॥
तद्व्यक्षरत्तदादित्यमभितोऽश्रयत्तद्वा एतद्यदेतदादित्यस्य रोहितꣳ रूपम् ॥ ४ ॥
यश आद्यन्नाद्यपर्यन्तं तत् व्यक्षरत् विशेषेणाक्षरत् अगमत् । गत्वा च तदादित्यम् अभितः पार्श्वतः पूर्वभागं सवितुः अश्रयत् आश्रितवदित्यर्थः । अमुष्मिन्नादित्ये सञ्चितं कर्मफलाख्यं मधु भोक्ष्यामह इत्येवं हि यशआदिलक्षणफलप्राप्तये कर्माणि क्रियन्ते मनुष्यैः — केदारनिष्पादनमिव कर्षकैः । तत्प्रत्यक्षं प्रदर्श्यते श्रद्धाहेतोः । तद्वा एतत् ; किं तत् ? यदेतत् आदित्यस्य उद्यतो दृश्यते रोहितं रूपम् ॥
इति प्रथमखण्डभाष्यम् ॥
द्वितीयः खण्डः
अथ येऽस्य दक्षिणा रश्मयस्ता एवास्य दक्षिणा मधुनाड्यो यजूꣳष्येव मधुकृतो यजुर्वेद एव पुष्पं ता अमृता आपः ॥ १ ॥
अथ ये अस्य दक्षिणा रश्मय इत्यादि समानम् । यजूंष्येव मधुकृतः यजुर्वेदविहिते कर्मणि प्रयुक्तानि, पूर्ववन्मधुकृत इव । यजुर्वेदविहितं कर्म पुष्पस्थानीयं पुष्पमित्युच्यते । ता एव सोमाद्या अमृता आपः ॥
तानि वा एतानि यजूꣳष्येतं यजुर्वेदमभ्यतपꣳस्तस्याभितप्तस्य यशस्तेज इन्द्रियं वीर्यमन्नाद्यꣳ रसोऽजायत ॥ २ ॥
तद्व्यक्षरत्तदादित्यमभितोऽश्रयत्तद्वा एतद्यदेतदादित्यस्य शुक्लꣳ रूपम् ॥ ३ ॥
तानि वा एतानि यजूंष्येतं यजुर्वेदमभ्यतपन् इत्येवमादि सर्वं समानम् । मधु एतदादित्यस्य दृश्यते शुक्लं रूपम् ॥
इति द्वितीयखण्डभाष्यम् ॥
तृतीयः खण्डः
अथ येऽस्य प्रत्यञ्चो रश्मयस्ता एवास्य प्रतीच्यो मधुनाड्यः सामान्येव मधुकृतः सामवेद एव पुष्पं ता अमृता आपः ॥ १ ॥
तानि वा एतानि सामान्येतं सामवेदमभ्यतपंस्तस्याभितप्तस्य यशस्तेज इन्द्रियं वीर्यमन्नाद्यꣳ रसोऽजायत ॥ २ ॥
तद्व्यक्षरत्तदादित्यमभितोऽश्रयत्तद्वा एतद्यदेतदादित्यस्य कृष्णꣳ रूपम् ॥ ३ ॥
अथ येऽस्य प्रत्यञ्चो रश्मय इत्यादि समानम् । तथा साम्नां मधु, एतदादित्यस्य कृष्णं रूपम् ॥
इति तृतीयखण्डभाष्यम् ॥
चतुर्थः खण्डः
अथ येऽस्योदञ्चो रश्मयस्ता एवास्योदीच्यो मधुनाड्योऽथर्वाङ्गिरस एव मधुकृत इतिहासपुराणं पुष्पं ता अमृता आपः ॥ १ ॥
ते वा एतेऽथर्वाङ्गिरस एतदितिहासपुराणमभ्यतपꣳ स्तस्याभितप्तस्य यशस्तेज इन्द्रियं वीर्यमन्नाद्यꣳ रसोऽजायत ॥ २ ॥
तद्व्यक्षरत्तदादित्यमभितोऽश्रयत्तद्वा एतद्यदेतदादित्यस्य परं कृष्णꣳ रूपम् ॥ ३ ॥
अथ येऽस्योदञ्चो रश्मय इत्यादि समानम् । अथर्वाङ्गिरसः अथर्वणा अङ्गिरसा च दृष्टा मन्त्रा अथर्वाङ्गिरसः, कर्मणि प्रयुक्ता मधुकृतः । इतिहासपुराणं पुष्पम् । तयोश्चेतिहासपुराणयोरश्वमेधे पारिप्लवासु रात्रिषु कर्माङ्गत्वेन विनियोगः सिद्धः । मधु एतदादित्यस्य परं कृष्णं रूपम् अतिशयेन कृष्णमित्यर्थः ॥
इति चतुर्थखण्डभाष्यम् ॥
पञ्चमः खण्डः
अथ येऽस्योर्ध्वा रश्मयस्ता एवास्योर्ध्वा मधुनाड्यो गुह्या एवादेशा मधुकृतो ब्रह्मैव पुष्पं ता अमृता आपः ॥ १ ॥
ते वा एते गुह्या आदेशा एतद्ब्रह्माभ्यतपꣳ स्तस्याभितप्तस्य यशस्तेज इन्द्रियं वीर्यमन्नाद्यꣳ रसोऽजायत ॥ २ ॥
तद्व्यक्षरत्तदादित्यमभितोऽश्रयत्तद्वा एतद्यदेतदादित्यस्य मध्ये क्षोभत इव ॥ ३ ॥
अथ येऽस्योर्ध्वा रश्मय इत्यादि पूर्ववत् । गुह्या गोप्या रहस्या एव आदेशा लोकद्वारीयादिविधय उपासनानि च कर्माङ्गविषयाणि मधुकृतः, ब्रह्मैव शब्दाधिकारात्प्रणवाख्यं पुष्पम् । समानमन्यत् । मधु एतत् आदित्यस्य मध्ये क्षोभत इव समाहितदृष्टेर्दृश्यते सञ्चलतीव ॥
ते वा एते रसानाꣳ रसा वेदा हि रसास्तेषामेते रसास्तानि वा एतान्यमृतानाममृतानि वेदा ह्यमृतास्तेषामेतान्यमृतानि ॥ ४ ॥
ते वा एते यथोक्ता रोहितादिरूपविशेषा रसानां रसाः । केषां रसानामिति, आह — वेदा हि यस्माल्लोकनिष्यन्दत्वात्सारा इति रसाः, तेषां रसानां कर्मभावमापन्नानामप्येते रोहितादिविशेषा रसा अत्यन्तसारभूता इत्यर्थः । तथा अमृतानाममृतानि वेदा ह्यमृताः, नित्यत्वात् , तेषामेतानि रोहितादीनि रूपाण्यमृतानि । रसानां रसा इत्यादि कर्मस्तुतिरेषा — यस्यैवंविशिष्टान्यमृतानि फलमिति ॥
इति पञ्चमखण्डभाष्यम् ॥
षष्ठः खण्डः
तद्यत्प्रथमममृतं तद्वसव उपजीवन्त्यग्निना मुखेन न वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं दृष्ट्वा तृप्यन्ति ॥ १ ॥
तत् तत्र यत्प्रथमममृतं रोहितरूपलक्षणं तद्वसवः प्रातःसवनेशाना उपजीवन्ति अग्निना मुखेन अग्निना प्रधानभूतेन, अग्निप्रधानाः सन्त उपजीवन्तीत्यर्थः ।
‘अन्नाद्यं रसोऽजायत’ (छा. उ. ३ । १ । ३) (छा. उ. ३ । २ । २) (छा. उ. ३ । ३ । २) (छा. उ. ३ । ४ । २) (छा. उ. ३ । ५ । २) इति वचनात् कबलग्राहमश्नन्तीति प्राप्तम् , तत्प्रतिषिध्यते — न वै देवा अश्नन्ति न पिबन्तीति । कथं तर्हि उपजीवन्तीति, उच्यते — एतदेव हि यथोक्तममृतं रोहितं रूपं दृष्ट्वा उपलभ्य सर्वकरणैरनुभूय तृप्यन्ति, दृशेः सर्वकरणद्वारोपलब्ध्यर्थत्वात् । ननु रोहितं रूपं दृष्ट्वेत्युक्तम् ; कथमन्येन्द्रियविषयत्वं रूपस्येति ; न, यशआदीनां श्रोत्रादिगंयत्वात् । श्रोत्रग्राह्यं यशः । तेजोरूपं चाक्षुषम् । इन्द्रियं विषयग्रहणकार्यानुमेयं करणसामर्थ्यम् । वीर्यं बलं देहगत उत्साहः प्राणवत्ता । अन्नाद्यं प्रत्यहमुपजीव्यमानं शरीरस्थितिकरं यद्भवति । रसो ह्येवमात्मकः सर्वः । यं दृष्ट्वा तृप्यन्ति सर्वे । देवा दृष्ट्वा तृप्यन्तीति एतत्सर्वं स्वकरणैरनुभूय तृप्यन्तीत्यर्थः । आदित्यसंश्रयाः सन्तो वैगन्ध्यादिदेहकरणदोषरहिताश्च ॥
त एतदेव रूपमभिसंविशन्त्येतस्माद्रूपादुद्यन्ति ॥ २ ॥
किं ते निरुद्यमा अमृतमुपजीवन्ति ? न ; कथं तर्हि, एतदेव रूपम् अभिलक्ष्य अधुना भोगावसरो नास्माकमिति बुद्ध्वा अभिसंविशन्ति उदासते । यदा वै तस्यामृतस्य भोगावसरो भवेत् , तदैतस्मादमृतादमृतभोगनिमित्तमित्यर्थः ; एतस्माद्रूपात् उद्यन्ति उत्साहवन्तो भवन्तीत्यर्थः । न हि अनुत्साहवतामननुतिष्ठतामलसानां भोगप्राप्तिर्लोके दृष्टा ॥
स य एतदेवममृतं वेद वसूनामेवैको भूत्वाग्निनैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स एतदेव रूपमभिसंविशत्येतस्माद्रूपादुदेति ॥ ३ ॥
स यः कश्चित् एतदेवं यथोदितम् ऋङ्मधुकरतापरससङ्क्षरणम् ऋग्वेदविहितकर्मपुष्पात् तस्य च आदित्यसंश्रयणं रोहितरूपत्वं च अमृतस्य प्राचीदिग्गतरश्मिनाडीसंस्थतां वसुदेवभोग्यतां तद्विदश्च वसुभिः सहैकतां गत्वा अग्निना मुखेनोपजीवनं दर्शनमात्रेण तृप्तिं च स्वभोगावसरे उद्यमनं तत्कालापाये च संवेशनं वेद, सोऽपि वसुवत् सर्वं तथैवानुभवति ॥
स यावदादित्यः पुरस्तादुदेता पश्चादस्तमेता वसूनामेव तावदाधिपत्यꣳ स्वाराज्यं पर्येता ॥ ४ ॥
कियन्तं कालं विद्वांस्तदमृतमुपजीवतीति, उच्यते — स विद्वान् यावदादित्यः पुरस्तात् प्राच्यां दिशि उदेता पश्चात् प्रतीच्याम् अस्तमेता, तावद्वसूनां भोगकालः तावन्तमेव कालं वसूनामाधिपत्यं स्वाराज्यं पर्येता परितो गन्ता भवतीत्यर्थः । न यथा चन्द्रमण्डलस्थः केवलकर्मी परतन्त्रो देवानामन्नभूतः ; किं तर्हि, अयम् आधिपत्यं स्वाराज्यं स्वराड्भावं च अधिगच्छति ॥
इति षष्ठखण्डभाष्यम् ॥
सप्तमः खण्डः
अथ यद्द्वितीयममृतं तद्रुद्रा उपजीवन्तीन्द्रेण मुखेन न वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं दृष्ट्वा तृप्यन्ति ॥ १ ॥
त एतदेव रूपमभिसंविशन्त्येतस्माद्रूपादुद्यन्ति ॥ २ ॥
स य एतदेवममृतं वेद रुद्राणामेवैको भूत्वेन्द्रेणैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स एतदेव रूपमभिसंविशत्येतस्माद्रूपादुदेति ॥ ३ ॥
अथ यद्द्वितीयममृतं तद्रुद्रा उपजीवन्तीत्यादि समानम् ॥
स यावदादित्यः पुरस्तादुदेता पश्चादस्तमेता द्विस्तावद्दक्षिणत उदेतोत्तरतोऽस्तमेता रुद्राणामेव तावदाधिपत्यꣳ स्वाराज्यं पर्येता ॥ ४ ॥
स यावदादित्यः पुरस्तादुदेता पश्चादस्तमेता द्विस्तावत् ततो द्विगुणं कालं दक्षिणत उदेता उत्तरतोऽस्तमेता रुद्राणां तावद्भोगकालः ॥
इति सप्तमखण्डभाष्यम् ॥
अष्टमः खण्डः
अथ यत्तृतीयममृतं तदादित्या उपजीवन्ति वरुणेन मुखेन न वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं दृष्ट्वा तृप्यन्ति ॥ १ ॥
त एतदेव रूपमभिसंविशन्त्येतस्माद्रूपादुद्यन्ति ॥ २ ॥
स य एतदेवममृतं वेदादित्यानामेवैको भूत्वा वरुणेनैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स एतदेव रूपमभिसंविशत्येतस्माद्रूपादुदेति ॥ ३ ॥
स यावादादित्यो दक्षिणत उदेतोत्तरतोऽस्तमेता द्विस्तावत्पश्चादुदेता पुरस्तादस्तमेतादित्यानामेव तावदाधिपत्यं स्वाराज्यꣳ पर्येता ॥ ४ ॥
तथा पश्चात् उत्तरतः ऊर्ध्वमुदेता विपर्ययेण अस्तमेता । पूर्वस्मात्पूर्वस्माद्द्विगुणोत्तरोत्तरेण कालेनेत्यपौराणं दर्शनम् । सवितुः चतुर्दिशमिन्द्रयमवरुणसोमपुरीषु उदयास्तमयकालस्य तुल्यत्वं हि पौराणिकैरुक्तम् , मानसोत्तरस्य मूर्धनि मेरोः प्रदक्षिणावृत्तेस्तुल्यत्वादिति । अत्रोक्तः परिहारः आचार्यैः । अमरावत्यादीनां पुरीणां द्विगुणोत्तरोत्तरेण कालेनोद्वासः स्यात् । उदयश्च नाम सवितुः तन्निवासिनां प्राणिनां चक्षुर्गोचरापत्तिः, तदत्ययश्च अस्तमनम् ; न परमार्थत उदयास्तमने स्तः । तन्निवासिनां च प्राणिनामभावे तान्प्रति तेनैव मार्गेण गच्छन्नपि नैवोदेता नास्तमेतेति, चक्षुर्गोचरापत्तेस्तदत्ययस्य च अभावात् । तथा अमरावत्याः सकाशाद्द्विगुणं कालं संयमनी पुरी वसति, अतस्तन्निवासिनः प्राणिनः प्रति दक्षिणत इव उदेति उत्तरतोऽस्तमेति इत्युच्यतेऽस्मद्बुद्धिं च अपेक्ष्य । तथोत्तरास्वपि पुरीषु योजना सर्वेषां च मेरुरुत्तरतो भवति । यदा अमरावत्यां मध्याह्नगतः सविता, तदा संयमन्यामुद्यन्दृश्यते ; तत्र मध्याह्नगतो वारुण्यामुद्यन्दृश्यते ; तथोत्तरस्याम् , प्रदक्षिणावृत्तेस्तुल्यत्वात् । इलावृतवासिनां सर्वतः पर्वतप्राकारनिवारितादित्यरश्मीनां सविता ऊर्ध्व इव उदेता अर्वागस्तमेता दृश्यते, पर्वतोर्ध्वच्छिद्रप्रवेशात्सवितृप्रकाशस्य । तथा ऋगाद्यमृतोपजीविनाममृतानां च द्विगुणोत्तरोत्तरवीर्यवत्त्वमनुमीयते भोगकालद्वैगुण्यलिङ्गेन । उद्यमनसंवेशनादि देवानां रुद्रादीनां विदुषश्च समानम् ॥
इति अष्टमखण्डभाष्यम् ॥
नवमः खण्डः
अथ यच्चतुर्थममृतं तन्मरुत उपजीवन्ति सोमेन मुखेन न वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं दृष्ट्वा तृप्यन्ति ॥ १ ॥
त एतदेव रूपमभिसंविशन्त्येतस्माद्रूपादुद्यन्ति ॥ २ ॥
स य एतदेवममृतं देव मरुतामेवैको भूत्वा सोमेनैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स एतदेव रूपमभिसंविशत्येतस्माद्रूपादुदेति ॥ ३ ॥
स यावदादित्यः पश्चादुदेता पुरस्तादस्तमेता द्विस्तावदुत्तरत उदेता दक्षिणतोऽस्तमेता मरुतामेव तावदाधिपत्यं स्वाराज्यꣳ पर्येता ॥ ४ ॥
इति नवमः खण्डः ॥
दशमः खण्डः
अथ यत्पञ्चमममृतं तत्साध्या उपजीवन्ति ब्रह्मणा मुखेन न वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं दृष्ट्वा तृप्यन्ति ॥ १ ॥
त एतदेव रूपमभिसंविशन्त्येतस्माद्रूपादुद्यन्ति ॥ २ ॥
स य एतदेवममृतं वेद साध्यानामेवैको भूत्वा ब्रह्मणैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स एतदेव रूपमभिसंविशत्येतस्माद्रूपादुदेति ॥ ३ ॥
स यावदादित्य उत्तरत उदेता दक्षिणतोऽस्तमेता द्विस्तावदूर्ध्व उदेतार्वागस्तमेता साध्यानामेव तावदाधिपत्यं स्वाराज्यꣳ पर्येता ॥ ४ ॥
इति दशमः खण्डः ॥
एकादशः खण्डः
अथ तत ऊर्ध्व उदेत्य नैवोदेता नास्तमेतैकल एव मध्ये स्थाता तदेष श्लोकः ॥ १ ॥
कृत्वैवमुदयास्तमनेन प्राणिनां स्वकर्मफलभोगनिमित्तमनुग्रहम् , तत्कर्मफलभोगक्षये तानि प्राणिजातान्यात्मनि संहृत्य, अथ ततः तस्मादनन्तरं प्राण्यनुग्रहकालादूर्ध्वः सन् आत्मन्युदेत्य उद्गंय यान्प्रत्युदेति तेषां प्राणिनामभावात् स्वात्मस्थः नैवोदेता नास्तमेता एकलः अद्वितीयः अनवयवः मध्ये स्वात्मन्येव स्थाता । तत्र कश्चिद्विद्वान्वस्वादिसमानचरणः रोहिताद्यमृतभोगभागी यथोक्तक्रमेण स्वात्मानं सवितारमात्मत्वेनोपेत्य समाहितः सन् एतं मन्त्रं दृष्ट्वा उत्थितः अन्यस्मै पृष्टवते जगाद यतस्त्वमागतो ब्रह्मलोकात् किं तत्राप्यहोरात्राभ्यां परिवर्तमानः सविता प्राणिनामायुः क्षपयति यथेहास्माकम् ; इत्येवं पृष्टः प्रत्याह — तत् तत्र यथा पृष्टे यथोक्ते च अर्थे एष श्लोको भवति तेनोक्तो योगिनेति श्रुतेर्वचनमिदम् ॥
न वै तत्र न निंलोच नोदियाय कदाचन । देवास्तेनाहꣳ सत्येन मा विराधिषि ब्रह्मणेति ॥ २ ॥
न वै तत्र यतोऽहं ब्रह्मलोकादागतः तस्मिन्न वै तत्र एतदस्ति यत्पृच्छसि । न हि तत्र निंलोच अस्तमगमत्सविता न च उदियाय उद्गतः कुतश्चित् कदाचन कस्मिंश्चिदपि काले इति । उदयास्तमयवर्जितः ब्रह्मलोकः इत्यनुपपन्नम् इत्युक्तः शपथमिव प्रतिपेदे हे देवाः साक्षिणो यूयं शृणुत, यथा मयोक्तं सत्यं वचः तेन सत्येन अहं ब्रह्मणा ब्रह्मस्वरूपेण मा विराधिषि मा विरुध्येयम् , अप्राप्तिर्ब्रह्मणो मम मा भूदित्यर्थः ॥
सत्यं तेनोक्तमित्याह श्रुतिः —
न ह वा अस्मा उदेति न निंलोचति सकृद्दिवा हैवास्मै भवति य एतामेवं ब्रह्मोपनिषदं वेद ॥ ३ ॥
न ह वा अस्मै यथोक्तब्रह्मविदे न उदेति न निंलोचति नास्तमेति, किं तु ब्रह्मविदेऽस्मै सकृद्दिवा हैव सदैव अहर्भवति, स्वयञ्ज्योतिष्ट्वात् ; य एतां यथोक्तां ब्रह्मोपनिषदं वेदगुह्यं वेद, एवं तन्त्रेण वंशादित्रयं प्रत्यमृतसम्बन्धं च यच्च अन्यदवोचाम एवं जानातीत्यर्थः । विद्वान् उदयास्तमयकालापरिच्छेद्यं नित्यमजं ब्रह्म भवतीत्यर्थः ॥
तद्धैतद्ब्रह्मा प्रजापतय उवाच प्रजापतिर्मनवे मनुः प्रजाभ्यस्तद्धैतदुद्दालकायारुणये ज्येष्ठाय पुत्राय पिता ब्रह्म प्रोवाच ॥ ४ ॥
तद्धैतत् मधुज्ञानं ब्रह्मा हिरण्यगर्भः विराजे प्रजापतये उवाच ; सोऽपि मनवे ; मनुरिक्ष्वाक्वाद्याभ्यः प्रजाभ्यः प्रोवाचेति विद्यां स्तौति — ब्रह्मादिविशिष्टक्रमागतेति । किं च, तद्धैतत् मधुज्ञानम् उद्दालकाय आरुणये पिता ब्रह्मविज्ञानं ज्येष्ठाय पुत्राय प्रोवाच ॥
इदं वाव तज्ज्येष्ठाय पुत्राय पिता ब्रह्म प्रब्रूयात्प्रणाय्याय वान्तेवासिने ॥ ५ ॥
इदं वाव तद्यथोक्तम् अन्योऽपि ज्येष्ठाय पुत्राय सर्वप्रियार्हाय ब्रह्म प्रब्रूयात् । प्रणाय्याय वा योग्याय अन्तेवासिने शिष्याय ॥
नान्यस्मै कस्मैचन यद्यप्यस्मा इमामद्भिः परिगृहीतां धनस्य पूर्णां दद्यादेतदेव ततो भूय इत्येतदेव ततो भूय इति ॥ ६ ॥
नान्यस्मै कस्मैचन प्रब्रूयात् । तीर्थद्वयमनुज्ञातमनेकेषां प्राप्तानां तीर्थानामाचार्यादीनाम् । कस्मात्पुनस्तीर्थसङ्कोचनं विद्यायाः कृतमिति, आह — यद्यपि अस्मै आचार्याय इमां कश्चित्पृथिवीम् अद्भिः परिगृहीतां समुद्रपरिवेष्टितां समस्तामपि दद्यात् , अस्या विद्याया निष्क्रयार्थम् , आचार्याय धनस्य पूर्णां सम्पन्नां भोगोपकरणैः ; नासावस्य निष्क्रयः, यस्मात् ततोऽपि दानात् एतदेव यन्मधुविद्यादानं भूयः बहुतरफलमित्यर्थः । द्विरभ्यासः आदरार्थः ॥
इति एकादशखण्डभाष्यम् ॥
द्वादशः खण्डः
यत एवमतिशयफलैषा ब्रह्मविद्या, अतः सा प्रकारान्तरेणापि वक्तव्येति ‘गायत्री वा’ इत्याद्यारभ्यते । गायत्रीद्वारेण च उच्यते ब्रह्म, सर्वविशेषरहितस्य
‘नेति नेति’ (बृ. उ. २ । ३ । ६) इत्यादिविशेषप्रतिषेधगंयस्य दुर्बोधत्वात् । सत्स्वनेकेषु च्छन्दःसुगायत्र्या एव ब्रह्मज्ञानद्वारतयोपादानं प्राधान्यात् । सोमाहरणात् इतरच्छन्दोक्षराहरणेन इतरच्छन्दोव्याप्त्या च सर्वसवनव्यापकत्वाच्च यज्ञे प्राधान्यं गायत्र्याः । गायत्रीसारत्वाच्च ब्राह्मणस्य मातरमिव, हित्वा गुरुतरां गायत्रीं ततोऽन्यद्गुरुतरं न प्रतिपद्यते यथोक्तं ब्रह्मापीति, तस्यामत्यन्तगौरवस्य प्रसिद्धत्वात् । अतो गायत्रीमुखेनैव ब्रह्मोच्यते —
गायत्री वा इदं सर्वं भूतं यदिदं किञ्च वाग्वै गायत्री वाग्वा इदं सर्वं भूतं गायति च त्रायते च ॥ १ ॥
गायत्री वा इत्यवधारणार्थो वै - शब्दः । इदं सर्वं भूतं प्राणिजातं यत्किञ्च स्थावरं जङ्गमं वा तत्सर्वं गायत्र्येव । तस्याश्छन्दोमात्रायाः सर्वभूतत्वमनुपपन्नमिति गायत्रीकारणं वाचं शब्दरूपामापादयति गायत्रीं वाग्वै गायत्रीति । वाग्वा इदं सर्वं भूतम् । यस्मात् वाक् शब्दरूपा सती सर्वं भूतं गायति शब्दयति — असौ गौः असावश्व इति च, त्रायते च रक्षति — अमुष्मान्मा भैषीः किं ते भयमुत्थितम् इत्यादिना सर्वतो भयान्निवर्त्यमानः वाचा त्रातः स्यात् । यत् वाक् भूतं गायति च त्रायते च, गायत्र्येव तत् गायति च त्रायते च, वाचः अनन्यत्वाद्गायत्र्याः । गानात्त्राणाच्च गायत्र्या गायत्रीत्वम् ॥
या वै सा गायत्रीयं वाव सा येयं पृथिव्यस्याꣳ हीदꣳ सर्वं भूतं प्रतिष्ठितमेतामेव नातिशीयते ॥ २ ॥
या वै सा एवंलक्षणा सर्वभूतरूपा गायत्री, इयं वाव सा येयं पृथिवी । कथं पुनरियं पृथिवी गायत्रीति, उच्यते — सर्वभूतसम्बन्धात् । कथं सर्वभूतसम्बन्धः, अस्यां पृथिव्यां हि यस्मात् सर्वं स्थावरं जङ्गमं च भूतं प्रतिष्ठितम् , एतामेव पृथिवीं नातिशीयते नातिवर्तत इत्येतत् । यथा गानत्राणाभ्यां भूतसम्बन्धो गायत्र्याः, एवं भूतप्रतिष्ठानाद्भूतसम्बद्धा पृथिवी ; अतो गायत्री पृथिवी ॥
या वै सा पृथिवीयं वाव सा यदिदमस्मिन्पुरुषे शरीरमस्मिन्हीमे प्राणाः प्रतिष्ठिता एतदेव नातिशीयन्ते ॥ ३ ॥
या वै सा पृथिवी गायत्री इयं वाव सा इदमेव । तत्किम् ? यदिदमस्मिन्पुरुषे कार्यकरणसङ्घाते जीवति शरीरम् , पार्थिवत्वाच्छरीरस्य । कथं शरीरस्य गायत्रीत्वमिति, उच्यते — अस्मिन्हि इमे प्राणाः भूतशब्दवाच्याः प्रतिष्ठिताः, अतः पृथिवीवद्भूतशब्दवाच्यप्राणप्रतिष्ठानात् शरीरं गायत्री, एतदेव यस्माच्छरीरं नातिशीयन्ते प्राणाः ॥
यद्वै तत्पुरुषे शरीरमिदं वाव तद्यदिदमस्मिन्नन्तः पुरुषे हृदयमस्मिन्हीमे प्राणाः प्रतिष्ठिता एतदेव नातिशीयन्ते ॥ ४ ॥
सैषा चतुष्पदा षड्विधा गायत्री तदेतदृचाभ्यनूक्तम् ॥ ५ ॥
सैषा चतुष्पदा षडक्षरपदा छन्दोरूपा सती भवति गायत्री षड्विधा — वाग्भूतपृथिवीशरीरहृदयप्राणरूपा सती षड्विधा भवति । वाक्प्राणयोरन्यार्थनिर्दिष्टयोरपि गायत्रीप्रकारत्वम् , अन्यथा षड्विधसङ्ख्यापूरणानुपपत्तेः । तत् एतस्मिन्नर्थे एतत् गायत्र्याख्यं ब्रह्म गायत्र्यनुगतं गायत्रीमुखेनोक्तम् ऋचा अपि मन्त्रेणाभ्यनूक्तं प्रकाशितम् ॥
तावानस्य महिमा ततो ज्यायंश्च पूरुषः । पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवीति ॥ ६ ॥
तावान् अस्य गायत्र्याख्यस्य ब्रह्मणः समस्तस्य महिमा विभूतिविस्तारः, यावांश्चतुष्पात्षड्विधश्च ब्रह्मणो विकारः पादो गायत्रीति व्याख्यातः । अतः तस्माद्विकारलक्षणाद्गायत्र्याख्याद्वाचारम्भणमात्रात् ततो ज्यायन् महत्तरश्च परमार्थसत्यरूपोऽविकारः पूरुषः पुरुषः सर्वपूरणात् पुरि शयनाच्च । तस्य अस्य पादः सर्वा सर्वाणि भूतानि तेजोबन्नादीनि सस्थावरजङ्गमानि, त्रिपात् त्रयः पादा अस्य सोऽयं त्रिपात् ; त्रिपादमृतं पुरुषाख्यं समस्तस्य गायत्र्यात्मनो दिवि द्योतनवति स्वात्मन्यवस्थितमित्यर्थ इति ॥
यद्वै तद्ब्रह्मेतीदं वाव तद्योयं बहिर्धा पुरुषादाकाशो यो वै स बहिर्धा पुरुषादाकाशः ॥ ७ ॥
यद्वै तत् त्रिपादमृतं गायत्रीमुखेनोक्तं ब्रह्मेति, इदं वाव तत् इदमेव तत् ; योऽयं प्रसिद्धः बहिर्धा बहिः पुरुषादाकाशः भौतिको यो वै, स बहिर्धा पुरुषादाकाश उक्तः ॥
अयं वाव स योऽयमन्तः पुरुष आकाशो यो वै सोऽन्तः पुरुष आकाशः ॥ ८ ॥
अयं वाव सः, योऽयमन्तः पुरुषे शरीरे आकाशः । यो वै सोऽन्तः पुरुष आकाशः ॥
अयं वाव स योऽयमन्तर्हृदय आकाशस्तदेतत्पूर्णमप्रवर्ति पूर्णामप्रवर्तिनीं श्रियं लभते य एवं वेद ॥ ९ ॥
अयं वाव सः, योऽयमन्तर्हृदये हृदयपुण्डरीके आकाशः । कथमेकस्य सत आकाशस्य त्रिधा भेद इति, उच्यते — बाह्येन्द्रियविषये जागरितस्थाने नभसि दुःखबाहुल्यं दृश्यते । ततोऽन्तःशरीरे स्वप्नस्थानभूते मन्दतरं दुःखं भवति । स्वप्नान्पश्यतो हृदयस्थे पुनर्नभसि न कञ्चन कामं कामयते न कञ्चन स्वप्नं पश्यति । अतः सर्वदुःखनिवृत्तिरूपमाकाशं सुषुप्तस्थानम् । अतो युक्तमेकस्यापि त्रिधा भेदान्वाख्यानम् । बहिर्धा पुरुषादारभ्य आकाशस्य हृदये सङ्कोचकरणं चेतःसमाधानस्थानस्तुतये — यथा ‘त्रयाणामपि लोकानां कुरुक्षेत्रं विशिष्यते । अर्धतस्तु कुरुक्षेत्रमर्धतस्तु पृथूदकम्’ ( ? ) इति, तद्वत् । तदेतद्धार्दाकाशाख्यं ब्रह्म पूर्णं सर्वगतम् , न हृदयमात्रपरिच्छिन्नमिति मन्तव्यम् , यद्यपि हृदयाकाशे चेतः समाधीयते । अप्रवर्ति न कुतश्चित्क्वचित्प्रवर्तितुं शीलमस्येत्यप्रवर्ति, तदनुच्छित्तिधर्मकम् । यथा अन्यानि भूतानि परिच्छिन्नान्युच्छित्तिधर्मकाणि, न तथा हार्दं नभः । पूर्णामप्रवर्तिनीमनुच्छेदात्मिकां श्रियं विभूतिं गुणफलं लभते दृष्टम् । य एवं यथोक्तं पूर्णाप्रवर्तिगुणं ब्रह्म वेद जानाति इहैव जीवन् तद्भावं प्रतिपद्यत इत्यर्थः ॥
इति द्वादशखण्डभाष्यम् ॥
त्रयोदशः खण्डः
तस्य ह वा एतस्य हृदयस्य पञ्च देवसुषयः स योऽस्य प्राङ्सुषिः स प्राणस्तच्चक्षुः स आदित्यस्तदेतत्तेजोऽन्नाद्यमित्युपासीत तेजस्व्यन्नादो भवति य एवं वेद ॥ १ ॥
तस्य ह वा इत्यादिना गायत्र्याख्यस्य ब्रह्मणः उपासनाङ्गत्वेन द्वारपालादिगुणविधानार्थमारभ्यते । यथा लोके द्वारपालाः राज्ञ उपासनेन वशीकृता राजप्राप्त्यर्था भवन्ति, तथेहापीति । तस्य इति प्रकृतस्य हृदयस्येत्यर्थः । एतस्य अनन्तरनिर्दिष्टस्य पञ्च पञ्चसङ्ख्याकाः देवानां सुषयः देवसुषयः स्वर्गलोकप्राप्तिद्वारच्छिद्राणि, देवैः प्राणादित्यादिभिः रक्ष्यमाणानि इत्यतो देवसुषयः ; तस्य स्वर्गलोकभवनस्य हृदयस्य अस्य यः प्राङ्सुषिः पूर्वाभिमुखस्य प्राग्गतं यच्छिद्रं द्वारं स प्राणः ; तत्स्थः तेन द्वारेण यः सञ्चरति वायुविशेषः स प्रागनितीति प्राणः । तेनैव सम्बद्धमव्यतिरिक्तं तच्चक्षुः ; तथैव स आदित्यः
‘आदित्यो ह वै ब्राह्मप्राणः’ (प्र. उ. ३ । ८) इति श्रुतेः चक्षुरूपप्रतिष्ठाक्रमेण हृदि स्थितः ;
‘स आदित्यः कस्मिन्प्रतिष्ठित इति चक्षुषि’ (बृ. उ. ३ । ९ । २०) इत्यादि हि वाजसनेयके । प्राणवायुदेवतैव हि एका चक्षुरादित्यश्च सहाश्रयेण । वक्ष्यति च — प्राणाय स्वाहेति हुतं हविः सर्वमेतत्तर्पयतीति । तदेतत् प्राणाख्यं स्वर्गलोकद्वारपालत्वात् ब्रह्म । स्वर्गलोकं प्रतिपित्सुः तेजस्वी एतत् चक्षुरादित्यस्वरूपेण अन्नाद्यत्वाच्च सवितुः तेजः अन्नाद्यम् इत्याभ्यां गुणाभ्याम् उपासीत । ततः तेजस्व्यन्नादश्च आमयावित्वरहितो भवति ; य एवं वेद तस्यैतद्गुणफलम् । उपासनेन वशीकृतो द्वारपः स्वर्गलोकप्राप्तिहेतुर्भवतीति मुख्यं च फलम् ॥
अथ योऽस्य दक्षिणः सुषिः स व्यानस्तच्छ्रोत्रꣳ स चन्द्रमास्तदेतच्छ्रीश्च यशश्चेत्युपासीत श्रीमान्यशस्वी भवति य एवं वेद ॥ २ ॥
अथ योऽस्य दक्षिणः सुषिः तत्स्थो वायुविशेषः स वीर्यवत्कर्म कुर्वन् विगृह्य वा प्राणापानौ नाना वा अनितीति व्यानः । तत्सम्बद्धमेव च तच्छ्रोत्रमिन्द्रियम् । तथा स चन्द्रमाः — श्रोत्रेण सृष्टा दिशश्च चन्द्रमाश्च इति श्रुतेः । सहाश्रयौ पूर्ववत् ; तदेतत् श्रीश्च विभूतिः श्रोत्रचन्द्रमसोर्ज्ञानान्नहेतुत्वम् ; अतस्ताभ्यां श्रीत्वम् । ज्ञानान्नवतश्च यशः ख्यातिर्भवतीति यशोहेतुत्वात् यशस्त्वम् । अतस्ताभ्यां गुणाभ्यामुपासीतेत्यादि समानम् ॥ २ ॥
अथ योऽस्य प्रत्यङ्सुषिः सोऽपानः सा वाक्योऽग्निस्तदेतद्ब्रह्मवर्चसमन्नाद्यमित्युपासीत ब्रह्मवर्चस्यन्नादो भवति य एवं वेद ॥ ३ ॥
अथ योऽस्य प्रत्यङ्सुषिः पश्चिमः तत्स्थो वायुविशेषः स मूत्रपुरीषाद्यपनयन् अधोऽनितीत्यपानः । सा तथा वाक् , तत्सम्बन्धात् ; तथा अग्निः ; तदेतद्ब्रह्मवर्चसं वृत्तस्वाध्यायनिमित्तं तेजः ब्रह्मवर्चसम् , अग्निसम्बन्धाद्वृत्तस्वाध्यायस्य । अन्नग्रसनहेतुत्वात् अपानस्य अन्नाद्यत्वम् । समानमन्यत् ॥
अथ योऽस्योदङ्सुषिः स समानस्तन्मनः स पर्जन्यस्तदेतत्कीर्तिश्च व्युष्टिश्चेत्युपासीत कीर्तिमान्व्युष्टिमान्भवति य एवं वेद ॥ ४ ॥
अथ योऽस्योदङ् सुषिः उदग्गतः सुषिः तत्स्थो वायुविशेषः सोऽशितपीते समं नयतीति समानः । तत्सम्बद्धं मनोऽन्तःकरणम् , स पर्जन्यो वृष्ट्यात्मको देवः पर्जन्यनिमित्ताश्च आप इति, ‘मनसा सृष्टा आपश्च वरुणश्च’ (ऐ. आ. २ । १) इति श्रुतेः । तदेतत्कीर्तिश्च, मनसो ज्ञानस्य कीर्तिहेतुत्वात् । आत्मपरोक्षं विश्रुतत्वं कीर्तिर्यशः । स्वकरणसंवेद्यं विश्रुतत्वं व्युष्टिः कान्तिर्देहगतं लावण्यम् । ततश्च कीर्तिसम्भवात्कीर्तिश्चेति । समानमन्यत् ॥
अथ योऽस्योर्ध्वः सुषिः स उदानः स वायुः स आकाशस्तदेतदोजश्च महश्चेत्युपासीतौजस्वी महस्वान्भवति य एवं वेद ॥ ५ ॥
अथ योऽस्योर्ध्वः सुषिः स उदानः आ पादतलादारभ्योर्ध्वमुत्क्रमणात् उत्कर्षार्थं च कर्म कुर्वन् अनितीत्युदानः । स वायुः तदाधारश्च आकाशः । तदेतत् वाय्वाकाशयोरोजोहेतुत्वादोजः बलं महत्वाच्च मह इति । समानमन्यत् ॥
ते वा एते पञ्च ब्रह्मपुरुषाः स्वर्गस्य लोकस्य द्वारपाः स य एतानेवं पञ्च ब्रह्मपुरुषान्स्वर्गस्य लोकस्य द्वारपान्वेदास्य कुले वीरो जायते प्रतिपद्यते स्वर्गं लोकं य एतानेवं पञ्च ब्रह्मपुरुषान्स्वर्गस्य लोकस्य द्वारपान्वेद ॥ ६ ॥
ते वा एते यथोक्ताः पञ्चसुषिसम्बन्धात् पञ्च ब्रह्मणो हार्दस्य पुरुषाः राजपुरुषा इव द्वारस्थाः स्वर्गस्य हार्दस्य लोकस्य द्वारपाः द्वारपालाः । एतैर्हि चक्षुःश्रोत्रवाङ्मनःप्राणैर्बहिर्मुखप्रवृत्तैर्ब्रह्मणो हार्दस्य प्राप्तिद्वाराणि निरुद्धानि । प्रत्यक्षं हि एतदजितकरणतया बाह्यविषयासङ्गानृतप्ररूढत्वात् न हार्दे ब्रह्मणि मनस्तिष्ठति । तस्मात्सत्यमुक्तमेते पञ्च ब्रह्मपुरुषाः स्वर्गस्य लोकस्य द्वारपा इति । अतः स य एतानेवं यथोक्तगुणविशिष्टान् स्वर्गस्य लोकस्य द्वारपान् वेद उपास्ते उपासनया वशीकरोति, स राजद्वारपालानिवोपासनेन वशीकृत्य तैरनिवारितः प्रतिपद्यते स्वर्गं लोकं राजानमिव हार्दं ब्रह्म । किं च अस्य विदुषः कुले वीरः पुत्रो जायते वीरपुरुषसेवनात् । तस्य च ऋणापाकरणेन ब्रह्मोपासनप्रवृत्तिहेतुत्वम् । ततश्च स्वर्गलोकप्रतिपत्तये पारम्पर्येण भवतीति स्वर्गलोकप्रतिपत्तिरेवैकं फलम् ॥
अथ यदतः परो दिवो ज्योतिर्दीप्यते विश्वतः पृष्ठेषु सर्वतः पृष्ठेष्वनुत्तमेषूत्तमेषु लोकेष्विदं वाव तद्यदिदमस्मिन्नन्तः पुरुषे ज्योतिः ॥ ७ ॥
अथ यत् असौ विद्वान् स्वर्गं लोकं वीरपुरुषसेवनात्प्रतिपद्यते, यच्चोक्तं त्रिपादस्यामृतं दिवीति, तदिदं लिङ्गेन चक्षुःश्रोत्रेन्द्रियगोचरमापादयितव्यम् , यथा अग्न्यादि धूमादिलिङ्गेन । तथा हि एवमेवेदमिति यथोक्ते अर्थे दृढा प्रतीतिः स्यात् — अनन्यत्वेन च निश्चय इति । अत आह — यदतः अमुष्मात् दिवः द्युलोकात् , परः परमिति लिङ्गव्यत्ययेन, ज्योतिर्दीप्यते, स्वयम्प्रभं सदाप्रकाशत्वाद्दीप्यत इव दीप्यत इत्युच्यते, अग्न्यादिवज्ज्वलनलक्षणाया दीप्तेरसम्भवात् । विश्वतः पृष्ठेष्वित्येतस्य व्याख्यानं सर्वतः पृष्ठेष्विति, संसारादुपरीत्यर्थः ; संसार एव हि सर्वः, असंसारिणः एकत्वान्निर्भेदत्वाच्च । अनुत्तमेषु, तत्पुरुषसमासाशङ्कानिवृत्तये आह उत्तमेषु लोकेष्विति ; सत्यलोकादिषु हिरण्यगर्भादिकार्यरूपस्य परस्येश्वरस्य आसन्नत्वादुच्यते उत्तमेषु लोकेष्विति । इदं वाव इदमेव तत् यदिदमस्मिन्पुरुषे अन्तः मध्ये ज्योतिः चक्षुःश्रोत्रग्राह्येण लिङ्गेनोष्णिम्ना शब्देन च अवगम्यते । यत् त्वचा स्पर्शरूपेण गृह्यते तच्चक्षुषैव, दृढप्रतीतिकरत्वात्त्वचः, अविनाभूतत्वाच्च रूपस्पर्शयोः ॥
तस्यैषा दृष्टिर्यत्रैतदस्मिञ्छरीरे सꣳस्पर्शेनोष्णिमानं विजानाति तस्यैषा श्रुतिर्यत्रैतत्कर्णावपिगृह्य निनदमिव नदथुरिवाग्नेरिव ज्वलत उपशृणोति तदेतद्दृष्टं च श्रुतं चेत्युपासीत चक्षुष्यः श्रुतो भवति य एवं वेद य एवं वेद ॥ ८ ॥
कथं पुनः तस्य ज्योतिषः लिङ्गं त्वग्दृष्टिगोचरत्वमापद्यत इति, आह — यत्र यस्मिन्काले, एतदिति क्रियाविशेषणम् , अस्मिञ्शरीरे हस्तेन आलभ्य संस्पर्शेन उष्णिमानं रूपसहभाविनमुष्णस्पर्शभावं विजानाति, स हि उष्णिमा नामरूपव्याकरणाय देहमनुप्रविष्टस्य चैतन्यात्मज्योतिषः लिङ्गम् , अव्यभिचारात् । न हि जीवन्तमात्मानमुष्णिमा व्यभिचरति । उष्ण एव जीविष्यन् शीतो मरिष्यन् इति हि विज्ञायते । मरणकाले च तेजः परस्यां देवतायामिति परेणाविभागत्वोपगमात् । अतः असाधारणं लिङ्गमौष्ण्यमग्नेरिव धूमः । अतस्तस्य परस्यैषा दृष्टिः साक्षादिव दर्शनं दर्शनोपाय इत्यर्थः । तथा तस्य ज्योतिषः एषा श्रुतिः श्रवणं श्रवणोपायोऽप्युच्यमानः । यत्र यदा पुरुषः ज्योतिषो लिङ्गं शुश्रूषति श्रोतुमिच्छति, तदा एतत् कर्णावपिगृह्य, एतच्छब्दः क्रियाविशेषणम् , अपिगृह्य अपिधायेत्यर्थः, अङ्गुलिभ्यां प्रोर्णुत्य निनदमिव रथस्येव घोषो निनदः तमिव शृणोति, नदथुरिव ऋषभकूजितमिव शब्दः, यथा च अग्नेर्बहिर्ज्वलतः एवं शब्दमन्तःशरीरे उपशृणोति, तदेतत् ज्योतिः दृष्टश्रुतलिङ्गत्वात् दृष्टं च श्रुतं च इत्युपासीत । तथोपासनात् चक्षुष्यः दर्शनीयः श्रुतः विश्रुतश्च । यत् स्पर्शगुणोपासननिमित्तं फलं तत् रूपे सम्पादयति चक्षुष्य इति, रूपस्पर्शयोः सहभावित्वात् , इष्टत्वाच्च दर्शनीयतायाः । एवं च विद्यायाः फलमुपपन्नं स्यात् , न तु मृदुत्वादिस्पर्शवत्त्वे । य एवं यथोक्तौ गुणौ वेद । स्वर्गलोकप्रतिपत्तिस्तु उक्तमदृष्टं फलम् । द्विरभ्यासः आदरार्थः ॥
इति त्रयोदशखण्डभाष्यम् ॥
चतुर्दशः खण्डः
पुनस्तस्यैव त्रिपादमृतस्य ब्रह्मणोऽनन्तगुणवतोऽनन्तशक्तेरनेकभेदोपास्यस्य विशिष्टगुणशक्तिमत्त्वेनोपासनं विधित्सन् आह —
स+क्रतुं+कुर्वीत
सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत । अथ खलु क्रतुमयः पुरुषो यथाक्रतुरस्मिंल्लोके पुरुषो भवति तथेतः प्रेत्य भवति स क्रतुं कुर्वीत ॥ १ ॥
सर्वं समस्तम् , खल्विति वाक्यालङ्कारार्थो निपातः । इदं जगत् नामरूपविकृतं प्रत्यक्षादिविषयं ब्रह्म कारणम् ; वृद्धतमत्वात् ब्रह्म । कथं सर्वस्य ब्रह्मत्वमित्यत आह — तज्जलानिति ; तस्माद्ब्रह्मणो जातं तेजोबन्नादिक्रमेण सर्वम् ; अतः तज्जम् ; तथा तेनैव जननक्रमेण प्रतिलोमतया तस्मिन्नेव ब्रह्मणि लीयते तदात्मतया श्लिष्यत इति तल्लम् ; तथा तस्मिन्नेव स्थितिकाले, अनिति प्राणिति चेष्टत इति । एवं ब्रह्मात्मतया त्रिषु कालेष्वविशिष्टम् , तद्व्यतिरेकेणाग्रहणात् । अतः तदेवेदं जगत् । यथा च इदं तदेवैकमद्वितीयं तथा षष्ठे विस्तरेण वक्ष्यामः । यस्माच्च सर्वमिदं ब्रह्म, अतः शान्तः रागद्वेषादिदोषरहितः संयतः सन् , यत् तत्सर्वं ब्रह्म तत् वक्ष्यमाणैर्गुणैरुपासीत । कथमुपासीत ? क्रतुं कुर्वीत — क्रतुः निश्चयोऽध्यवसायः एवमेव नान्यथेत्यविचलः प्रत्ययः, तं क्रतुं कुर्वीत उपासीत इत्यनेन व्यवहितेन सम्बन्धः । किं पुनः क्रतुकरणेन कर्तव्यं प्रयोजनम् ? कथं वा क्रतुः कर्तव्यः ? क्रतुकरणं च अभिप्रेतार्थसिद्धिसाधनं कथम् ? इत्यस्यार्थस्य प्रतिपादनार्थम् अथेत्यादिग्रन्थः । अथ खल्विति हेत्वर्थः । यस्मात्क्रतुमयः क्रतुप्रायोऽध्यवसायात्मकः पुरुषः जीवः ; यथाक्रतुः यादृशः क्रतुः अस्य सोऽयं यथाक्रतुः यथाध्यवसायः यादृङ्निश्चयः अस्मिंल्लोके जीवन् इह पुरुषो भवति, तथा इतः अस्माद्देहात् प्रेत्य मृत्वा भवति ; क्रत्वनुरूपफलात्मको भवतीत्यर्थः । एवं हि एतच्छास्त्रतो दृष्टम् —
‘यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेबरम्’ (भ. गी. ८ । ६) इत्यादि । यत एवं व्यवस्था शास्त्रदृष्टा, अतः सः एवं जानन् क्रतुं कुर्वीत ; यादृशं क्रतुं वक्ष्यामः तम् । यत एवं शास्त्रप्रामाण्यादुपपद्यते क्रत्वनुरूपं फलम् , अतः स कर्तव्यः क्रतुः ॥
मनोमयः प्राणशरीरो भारूपः सत्यसङ्कल्प आकाशात्मा सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः सर्वमिदमभ्यात्तोऽवाक्यनादरः ॥ २ ॥
कथम् ? मनोमयः मनःप्रायः ; मनुतेऽनेनेति मनः तत् स्ववृत्त्या विषयेषु प्रवृत्तं भवति, तेन मनसा तन्मयः ; तथा प्रवृत्त इव तत्प्रायो निवृत्त इव च । अत एव प्राणशरीरः प्राणो लिङ्गात्मा विज्ञानक्रियाशक्तिद्वयसंमूर्छितः,
‘यो वै प्राणः सा प्रज्ञा या वा प्रज्ञा स प्राणः’ (कौ. उ. ३ । ३) इति श्रुतेः । सः शरीरं यस्य, स प्राणशरीरः,
‘मनोमयः प्राणशरीरनेता’ (मु. उ. २ । २ । ८) इति च श्रुत्यन्तरात् । भारूपः भा दीप्तिः चैतन्यलक्षणं रूपं यस्य सः भारूपः । सत्यसङ्कल्पः सत्या अवितथाः सङ्कल्पाः यस्य, सोऽयं सत्यसङ्कल्पः ; न यथा संसारिण इवानैकान्तिकफलः सङ्कल्प ईश्वरस्येत्यर्थः । संसारिणः अनृतेन मिथ्याफलत्वहेतुना प्रत्यूढत्वात् सङ्कल्पस्य मिथ्याफलत्वं वक्ष्यति —
‘अनृतेन हि प्रत्यूढाः’ (छा. उ. ८ । ३ । २) इति । आकाशात्मा आकाश इव आत्मा स्वरूपं यस्य सः आकाशात्मा । सर्वगतत्वं सूक्ष्मत्वं रूपादिहीनत्वं च आकाशतुल्यता ईश्वरस्य । सर्वकर्मा सर्वं विश्वं तेनेश्वरेण क्रियत इति जगत्सर्वं कर्म यस्य स सर्वकर्मा,
‘स हि सर्वस्य कर्ता’ (बृ. उ. ४ । ४ । १३) इति श्रुतेः । सर्वकामः सर्वे कामा दोषरहिता अस्येति सर्वकामः,
‘धर्माविरुद्धो भूतेषु कामोऽस्मि’ (भ. गी. ७ । ११) इति स्मृतेः । ननु कामोऽस्मीति वचनात् इह बहुव्रीहिर्न सम्भवति सर्वकाम इति । न, कामस्य कर्तव्यत्वात् शब्दादिवत्पारार्थ्यप्रसङ्गाच्च देवस्य । तस्मात् यथेह सर्वकाम इति बहुव्रीहिः, तथा कामोऽस्मीति स्मृत्यर्थो वाच्यः । सर्वगन्धः सर्वे गन्धाः सुखकरा अस्य सोऽयं सर्वगन्धः,
‘पुण्यो गन्धः पृथिव्याम्’ (भ. गी. ७ । ९) इति स्मृतेः । तथा रसा अपि विज्ञेयाः ; अपुण्यगन्धरसग्रहणस्य पाप्मसम्बन्धनिमित्तत्वश्रवणात् ,
‘तस्मात्तेनोभयं जिघ्रति सुरभि च दुर्गन्धि च । पाप्मना ह्येष विद्धः’ (छा. उ. १ । २ । २) इति श्रुतेः । न च पाप्मसंसर्ग ईश्वरस्य, अविद्यादिदोषस्यानुपपत्तेः । सर्वमिदं जगत् अभ्यात्तः अभिव्याप्तः । अततेर्व्याप्त्यर्थस्य कर्तरि निष्ठा । तथा अवाकी — उच्यते अनयेति वाक् वागेव वाकः, यद्वा वचेर्घञन्तस्य करणे वाकः, स यस्य विद्यते स वाकी, न वाकी अवाकी । वाक्प्रतिषेधश्च अत्र उपलक्षणार्थः । गन्धरसादिश्रवणात् ईश्वरस्य प्राप्तानि घ्राणादीनि करणानि गन्धादिग्रहणाय ; अतः वाक्प्रतिषेधेन प्रतिषिध्यन्ते तानि ;
‘अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्णः’ (श्वे. उ. ३ । १९) इत्यादिमन्त्रवर्णात् । अनादरः असम्भ्रमः ; अप्राप्तप्राप्तौ हि सम्भ्रमः स्यादनाप्तकामस्य । न तु आप्तकामत्वात् नित्यतृप्तस्येश्वरस्य सम्भ्रमोऽस्ति क्वचित् ॥
एष म आत्मान्तर्हृदयेऽणीयान्व्रीहेर्वा यवाद्वा सर्षपाद्वा श्यामाकाद्वा श्यामाकतण्डुलाद्वैष म आत्मान्तर्हृदये ज्यायान्पृथिव्या ज्यायानन्तरिक्षाज्ज्यायान्दिवो ज्यायानेभ्यो लोकेभ्यः ॥ ३ ॥
एषः यथोक्तगुणः मे मम आत्मा अन्तर्हृदये हृदयपुण्डरीकस्यान्तः मध्ये अणीयान् अणुतरः, व्रीहेर्वा यवाद्वा इत्यादि अत्यन्तसूक्ष्मत्वप्रदर्शनार्थम् । श्यामाकाद्वा श्यामाकतण्डुलाद्वा इति परिच्छिन्नपरिमाणात् अणीयानित्युक्तेऽणुपरिमाणत्वं प्राप्तमाशङ्क्य, अतः तत्प्रतिषेधायारभते — एष म आत्मान्तर्हृदये ज्यायान्पृथिव्या इत्यादिना । ज्यायःपरिमाणाच्च ज्यायस्त्वं दर्शयन् अनन्तपरिमाणत्वं दर्शयति — मनोमय इत्यादिना ज्यायानेभ्यो लोकेभ्य इत्यन्तेन ॥
सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः सर्वमिदमभ्यात्तोऽवाक्यनादर एष म आत्मान्तर्हृदय एतद्ब्रह्मैतमितः प्रेत्याभिसम्भवितास्मीति यस्य स्यादद्धा न विचिकित्सास्तीति ह स्माह शाण्डिल्यः शाण्डिल्यः ॥ ४ ॥
यथोक्तगुणलक्षणः ईश्वरः ध्येयः, न तु तद्गुणविशिष्ट एव — यथा राजपुरुषमानय चित्रगुं वा इत्युक्ते न विशेषणस्याप्यानयने व्याप्रियते, तद्वदिहापि प्राप्तम् ; अतस्तन्निवृत्त्यर्थं सर्वकर्मेत्यादि पुनर्वचनम् । तस्मात् मनोमयत्वादिगुणविशिष्ट एवेश्वरो ध्येयः । अत एव षष्ठसप्तमयोरिव
‘तत्त्वमसि’ (छा. उ. ६ । ८ । ७) ‘आत्मैवेदं सर्वम्’ (छा. उ. ७ । २५ । २) इति नेह स्वाराज्येऽभिषिञ्चति, एष म आत्मा एतद्ब्रह्मैतमितः प्रेत्याभिसम्भवितास्मि इति लिङ्गात् ; न तु आत्मशब्देन प्रत्यगात्मैव उच्यते, ममेति षष्ठ्याः सम्बन्धार्थप्रत्यायकत्वात् , एतमभिसम्भवितास्मीति च कर्मकर्तृत्वनिर्देशात् । ननु षष्ठेऽपि
‘अथ सम्पत्स्ये’ (छा. उ. ६ । १४ । २) इति सत्सम्पत्तेः कालान्तरितत्वं दर्शयति । न, आरब्धसंस्कारशेषस्थित्यर्थपरत्वात् ; न कालान्तरितार्थता, अन्यथा तत्त्वमसीत्येतस्यार्थस्य बाधप्रसङ्गात् । यद्यपि आत्मशब्दस्य प्रत्यगर्थत्वं सर्वं खल्विदं ब्रह्मेति च प्रकृतम् एष म आत्मान्तर्हृदय एतद्ब्रह्मेत्युच्यते, तथापि अन्तर्धानमीषदपरित्यज्यैव एतमात्मानं इतः अस्माच्छरीरात् प्रेत्य अभिसम्भवितास्मीत्युक्तम् । यथाक्रतुरूपस्य आत्मनः प्रतिपत्तास्मीति यस्यैवंविदः स्यात् भवेत् अद्धा सत्यम् एवं स्यामहं प्रेत्य, एवं न स्यामिति न च विचिकित्सा अस्ति इत्येतस्मिन्नर्थे क्रतुफलसम्बन्धे, स तथैवेश्वरभावं प्रतिपद्यते विद्वान् , इत्येतदाह स्म उक्तवान्किल शाण्डिल्यो नाम ऋषिः । द्विरभ्यासः आदरार्थः ॥
इति चतुर्दशखण्डभाष्यम् ॥
पञ्चदशः खण्डः
अन्तरिक्षोदरः कोशो भूमिबुध्नो न जीर्यति दीशो ह्यस्य स्रक्तयो द्यौरस्योत्तरं बिलꣳ स एष कोशो वसुधानस्तस्मिन्विश्वमिदꣳ श्रितम् ॥ १ ॥
अन्तरिक्षम् उदरम् अन्तःसुषिरं यस्य सोऽयम् अन्तरिक्षोदरः, कोशः कोश इव अनेकधर्मसादृश्यात्कोशः ; स च भूमिबुध्नः भूमिर्बुध्नो मूलं यस्य स भूमिबुध्नः, न जीर्यति न विनश्यति, त्रैलोक्यात्मकत्वात् । सहस्रयुगकालावस्थायी हि सः । दिशो हि अस्य सर्वाः स्रक्तयः कोणाः । द्यौरस्य कोशस्य उत्तरम् ऊर्ध्वं बिलम् ; स एष यथोक्तगुणः कोशः वसुधानः वसु धीयतेऽस्मिन्प्राणिनां कर्मफलाख्यम् , अतो वसुधानः । तस्मिन्नन्तः विश्वं समस्तं प्राणिकर्मफलं सह तत्साधनैः इदं यद्गृह्यते प्रत्यक्षादिप्रमाणैः श्रितम् आश्रितं स्थितमित्यर्थः ॥
तस्य प्राची दिग्जुहूर्नाम सहमाना नाम दक्षिणा राज्ञी नाम प्रतीची सुभूता नामोदीची तासां वायुर्वत्सः स य एतमेवं वायुं दिशां वत्सं वेद न पुत्ररोदं रोदिति सोऽहमेतमेवं वायुं दिशां वत्सं वेद मा पुत्ररोदं रुदम् ॥ २ ॥
तस्यास्य प्राची दिक् प्राग्गतो भागः जुहूर्नाम जुह्वत्यस्यां दिशि कर्मिणः प्राङ्मुखाः सन्त इति जुहूर्नाम । सहमाना नाम सहन्तेऽस्यां पापकर्मफलानि यमपुर्यां प्राणिन इति सहमाना नाम दक्षिणा दिक् । तथा राज्ञी नाम प्रतीची पश्चिमा दिक् , राज्ञी राज्ञा वरुणेनाधिष्ठिता, सन्ध्यारागयोगाद्वा । सुभूता नाम भूतिमद्भिरीश्वरकुबेरादिभिरधिष्ठितत्वात् सुभूता नाम उदीची । तासां दिशां वायुः वत्सः, दिग्जत्वाद्वायोः, पुरोवात इत्यादिदर्शनात् । स यः कश्चित् पुत्रदीर्घजीवितार्थी एवं यथोक्तगुणं वायुं दिशां वत्सम् अमृतं वेद, स न पुत्ररोदं पुत्रनिमित्तं रोदनं न रोदिति, पुत्रो न म्रियत इत्यर्थः । यत एवं विशिष्टं कोशदिग्वत्सविषयं विज्ञानम् , अतः सोऽहं पुत्रजीवितार्थी एवमेतं वायुं दिशां वत्सं वेद जाने । अतः पुत्ररोदं मा रुदं पुत्रमरणनिमित्तं पुत्ररोदो मम मा भूदित्यर्थः ॥
अरिष्टं कोशं प्रपद्येऽमुनामुनामुना प्राणं प्रपद्येऽमुनामुनामुना भूः प्रपद्येऽमुनामुनामुना भुवः प्रपद्येऽमुनामुनामुना स्वः प्रपद्येऽमुनामुनामुना ॥ ३ ॥
अरिष्टम् अविनाशिनं कोशं यथोक्तं प्रपद्ये प्रपन्नोऽस्मि पुत्रायुषे । अमुनामुनामुनेति त्रिर्नाम गृह्णाति पुत्रस्य । तथा प्राणं प्रपद्येऽमुनामुनामुना, भूः प्रपद्येऽमुनामुनामुना, भुवः प्रपद्येऽमुनामुनामुना, स्वः प्रपद्येऽमुनामुनामुना, सर्वत्र प्रपद्ये इति त्रिर्नाम गृह्णाति पुनः पुनः ॥
स यदवोचं प्राणं प्रपद्य इति प्राणो वा इदꣳ सर्वं भूतं यदिदं किञ्च तमेव तत्प्रापत्सि ॥ ४ ॥
स यदवोचं प्राणं प्रपद्य इति व्याख्यानार्थमुपन्यासः । प्राणो वा इदꣳ सर्वं भूतं यदिदं जगत् ।
‘यथा वा अरा नाभौ’ (छा. उ. ७ । १३ । १) इति वक्ष्यति । अतस्तमेव सर्वं तत् तेन प्राणप्रतिपादनेन प्रापत्सि प्रपन्नोऽभूवम् ॥
अथ यदवोचं भूः प्रपद्य इति पृथिवीं प्रपद्येऽन्तरिक्षं प्रपद्ये दिवं प्रपद्य इत्येव तदवोचम् ॥ ५ ॥
तथा भूः प्रपद्ये इति त्रींल्लोकान्भूरादीन्प्रपद्ये इति तदवोचम् ॥
अथ यदवोचं भुवः प्रपद्य इत्यग्निं प्रपद्ये वायुं प्रपद्य आदित्यं प्रपद्य इत्येव तदवोचम् ॥ ६ ॥
अथ यदवोचं भुवः प्रपद्ये इति, अग्न्यादीन्प्रपद्ये इति तदवोचम् ॥
अथ यदवोचं स्वः प्रपद्य इत्यृग्वेदं प्रपद्ये यजुर्वेदं प्रपद्ये सामवेदं प्रपद्य इत्येव तदवोचं तदवोचम् ॥ ७ ॥
अथ यदवोचं स्वः प्रपद्ये इति, ऋग्वेदादीन्प्रपद्ये इत्येव तदवोचमिति । उपरिष्टान्मन्त्रान् जपेत् ततः पूर्वोक्तमजरं कोशं सदिग्वत्सं यथावद्ध्यात्वा । द्विर्वचनमादरार्थम् ॥
इति पञ्चदशखण्डभाष्यम् ॥
षोडशः खण्डः
पुत्रायुष उपासनमुक्तं जपश्च । अथेदानीमात्मनः दीर्घजीवनायेदमुपासनं जपं च विदधदाह ; जीवन्हि स्वयं पुत्रादिफलेन युज्यते, नान्यथा । इत्यतः आत्मानं यज्ञं सम्पादयति पुरुषः —
पुरुषो वाव यज्ञस्तस्य यानि चतुर्विंशति वर्षाणि तत्प्रातःसवनं चतुर्विंशत्यक्षरा गायत्री गायत्रं प्रातःसवनं तदस्य वसवोऽन्वायत्ताः प्राणा वाव वसव एते हीदं सर्वं वासयन्ति ॥ १ ॥
पुरुषः जीवनविशिष्टः कार्यकरणसङ्घातः यथाप्रसिद्ध एव ; वावशब्दोऽवधारणार्थः ; पुरुष एव यज्ञ इत्यर्थः । तथा हि सामान्यैः सम्पादयति यज्ञत्वम् । कथम् ? तस्य पुरुषस्य यानि चतुर्विंशतिवर्षाण्यायुषः, तत्प्रातःसवनं पुरुषाख्यस्य यज्ञस्य । केन सामान्येनेति, आह — चतुर्विंशत्यक्षरा गायत्री छन्दः, गायत्रं गायत्रीछन्दस्कं हि विधियज्ञस्य प्रातःसवनम् ; अतः प्रातःसवनसम्पन्नेन चतुर्विंशतिवर्षायुषा युक्तः पुरुषः अतो विधियज्ञसादृश्यात् यज्ञः । तथोत्तरयोरप्यायुषोः सवनद्वयसम्पत्तिः त्रिष्टुब्जगत्यक्षरसङ्ख्यासामान्यतो वाच्या । किञ्च, तदस्य पुरुषयज्ञस्य प्रातःसवनं विधियज्ञस्येव वसवः देवा अन्वायत्ताः अनुगताः ; सवनदेवतात्वेन स्वामिन इत्यर्थः । पुरुषयज्ञेऽपि विधियज्ञ इव अग्न्यादयो वसवः देवाः प्राप्ता इत्यतो विशिनष्टि — प्राणा वाव वसवः वागादयो वायवश्च । एते हि यस्मात् इदं पुरुषादिप्राणिजातम् एते वासयन्ति । प्राणेषु हि देहे वसत्सु सर्वमिदं वसति, नान्यथा । इत्यतो वसनाद्वासनाच्च वसवः ॥
तं चेदेतस्मिन्वयसि किञ्चिदुपतपेत्स ब्रूयात्प्रा वसव इदं मे प्रातःसवनं माध्यंन्दिनꣳ सवनमनुसन्तनुतेति माहं प्राणानां वसूनां मध्ये यज्ञो विलोप्सीयेत्युद्धैव तत एत्यगदो ह भवति ॥ २ ॥
तं चेत् यज्ञसम्पादिनम् एतस्मिन् प्रातःसवनसम्पन्ने वयसि किञ्चित् व्याध्यादि मरणशङ्काकारणम् उपतपेत् दुःखमुत्पादयेत् , स तदा यज्ञसम्पादी पुरुषः आत्मानं यज्ञं मन्यमानः ब्रूयात् जपेदित्यर्थः इमं मन्त्रम् — हे प्राणाः वसवः इदं मे प्रातःसवनं मम यज्ञस्य वर्तते, तत् माध्यन्दिनं सवनम् अनुसन्तनुतेति माध्यन्दिनेन सवनेन आयुषा सहितं एकीभूतं सन्ततं कुरुतेत्यर्थः । मा अहं यज्ञः युष्माकं प्राणानां वसूनां प्रातःसवनेशानां मध्ये विलोप्सीय विलुप्येय विच्छिद्येयेत्यर्थः । इतिशब्दो मन्त्रपरिसमाप्त्यर्थः । स तेन जपेन ध्यानेन च ततः तस्मादुपतापात् उत् एति उद्गच्छति । उद्गंय विमुक्तः सन् अगदो ह अनुपतापो भवत्येव ॥
अथ यानि चतुश्चत्वारिंशद्वर्षाणि तन्माध्यन्दिनं सवनं चतुश्चत्वारिंशदक्षरा त्रिष्टुप्त्रैष्टुभं माध्यंन्दिनꣳ सवनं तदस्य रुद्रा अन्वायत्ताः प्राणा वाव रुद्रा एते हीदं सर्वꣳ रोदयन्ति ॥ ३ ॥
अथ यानि चतुश्चत्वारिंशद्वर्षाणीत्यादि समानम् । रुदन्ति रोदयन्तीति प्राणा रुद्राः । क्रूरा हि ते मध्यमे वयसि, अतो रुद्राः ॥
तं चेदेतस्मिन्वयसि किञ्चिदुपतपेत्सब्रूयात्प्राणा रुद्रा इदं मे माध्यंन्दिनꣳ सवनं तृतीयसवनमनुसन्तनुतेति माहं प्राणानां रुद्राणां मध्ये यज्ञो विलोप्सीयेत्युद्धैव तत एत्यगदो ह भवति ॥ ४ ॥
अथ यान्यष्टाचत्वारिꣳशद्वर्षाणि तत्तृतीयसवनमष्टाचत्वारिꣳशदक्षरा जगती जागतं तृतीयसवनं तदस्यादित्या अन्वायत्ताः प्राणा वावादित्या एते हीदं सर्वमाददते ॥ ५ ॥
तं चेदस्मिन्वयसि किञ्चिदुपतपेत्स ब्रूयात्प्राणा आदित्या इदं मे तृतीयसवनमायुरनुसन्तनुतेति माहं प्राणानामादित्यानां मध्ये यज्ञो विलोप्सीयेत्युद्धैव तत एत्यगदो हैव भवति ॥ ६ ॥
तथा आदित्याः प्राणाः । ते हि इदं शब्दादिजातम् आददते, अत आदित्याः । तृतीयसवनमायुः षोडशोत्तरवर्षशतं समापयत अनुसन्तनुत यज्ञं समापयतेत्यर्थः । समानमन्यत् ॥
निश्चिता हि विद्या फलायेत्येतद्दर्शयन् उदाहरति —
एतद्ध स्म वै तद्विद्वानाह महिदास ऐतरेयः स किं म एतदुपतपसि योऽहमनेन न प्रेष्यामीति स ह षोडशं वर्षशतमजीवत्प्र ह षोडशं वर्षशतं जीवति य एवं वेद ॥ ७ ॥
एतत् यज्ञदर्शनं ह स्म वै किल तद्विद्वानाह महिदासो नामतः ; इतराया अपत्यम् ऐतरेयः । किं कस्मात् मे मम एतत् उपतपनम् उपतपसि स त्वं हे रोग ; योऽहं यज्ञः अनेन त्वत्कृतेनोपतापेन न प्रेष्यामि न मरिष्यामि ; अतो वृथा तव श्रम इत्यर्थः । इत्येवमाह स्म — इति पूर्वेण सम्बन्धः । स एवंनिश्चयः सन् षोडशं वर्षशतमजीवत् । अन्योऽप्येवंनिश्चयः षोडशं वर्षशतं प्रजीवति, य एवं यथोक्तं यज्ञसम्पादनं वेद जानाति, स इत्यर्थः ॥
इति षोडशखण्डभाष्यम् ॥
सप्तदशः खण्डः
स यदशिशिषति यत्पिपासति यन्न रमते ता अस्य दीक्षाः ॥ १ ॥
स यदशिशिषतीत्यादियज्ञसामान्यनिर्देशः पुरुषस्य पूर्वेणैव सम्बध्यते । यदशिशिषति अशितुमिच्छति ; तथा पिपासति पातुमिच्छति ; यन्न रमते इष्टाद्यप्राप्तिनिमित्तम् ; यदेवंजातीयकं दुःखमनुभवति, ता अस्य दीक्षाः ; दुःखसामान्याद्विधियज्ञस्येव ॥
अथ यदश्नाति यत्पिबति यद्रमते तदुपसदैरेति ॥ २ ॥
अथ यदश्नाति यत्पिबति यद्रमते रतिं च अनुभवति इष्टादिसंयोगात् , तत् उपसदैः समानतामेति । उपसदां च पयोव्रतत्वनिमित्तं सुखमस्ति । अल्पभोजनीयानि च अहान्यासन्नानि इति प्रश्वासः ; अतोऽशनादीनामुपसदां च सामान्यम् ॥
अथ यद्धसति यज्जक्षति यन्मैथुनं चरति स्तुतशस्त्रैरेव तदेति ॥ ३ ॥
अथ यद्धसति यज्जक्षति भक्षयति यन्मैथुनं चरति, स्तुतशस्त्रैरेव तत्समानतामेति ; शब्दवत्त्वसामान्यात् ॥
अथ यत्तपो दानमार्जवमहिंसा सत्यवचनमिति ता अस्य दक्षिणाः ॥ ४ ॥
अथ यत्तपो दानमार्जवमहिंसा सत्यवचनमिति, ता अस्य दक्षिणाः, धर्मपुष्टिकरत्वसामान्यात् ॥
तस्मादाहुः सोष्यत्यसोष्टेति पुनरुत्पादनमेवास्य तन्मरणमेवावभृथः ॥ ५ ॥
यस्माच्च यज्ञः पुरुषः, तस्मात् तं जनयिष्यति माता यदा, तदा आहुरन्ये सोष्यतीति तस्य मातरम् ; यदा च प्रसूता भवति, तदा असोष्ट पूर्णिकेति ; विधियज्ञे इव सोष्यति सोमं देवदत्तः, असोष्ट सोमं यज्ञदत्त इति ; अतः शब्दसामान्याद्वा पुरुषो यज्ञः । पुनरुत्पादनमेवास्य तत् पुरुषाख्यस्य यज्ञस्य, यत्सोष्यत्यसोष्टेति शब्दसम्बन्धित्वं विधियज्ञस्येव । किञ्च तन्मरणमेव अस्य पुरुषयज्ञस्य अवभृथः, समाप्तिसामान्यात् ॥
तद्धैतद्घोर आङ्गिरसः कृष्णाय देवकीपुत्रायोक्त्वोवाचापिपास एव स बभूव सोऽन्तवेलायामेतत्त्रयं प्रतिपद्येताक्षितमस्यच्युतमसि प्राणसं शितमसीति तत्रैते द्वे ऋचौ भवतः ॥ ६ ॥
तद्धैतत् यज्ञदर्शनं घोरः नामतः, आङ्गिरसः गोत्रतः, कृष्णाय देवकीपुत्राय शिष्याय उक्त्वा, उवाच तदेतत्त्रयम् इत्यादिव्यवहितेन सम्बन्धः । स च एतद्दर्शनं श्रुत्वा अपिपास एवान्याभ्यो विद्याभ्यो बभूव । इत्थं च विशिष्टा इयम् , यत्कृष्णस्य देवकीपुत्रस्य अन्यां विद्यां प्रति तृड्विच्छेदकरी इति पुरुषयज्ञविद्यां स्तौति । घोर आङ्गिरसः कृष्णायोक्त्वेमां विद्यां किमुवाचेति, तदाह — स एवं यथोक्तयज्ञवित् अन्तवेलायां मरणकाले एतत् मन्त्रत्रयं प्रतिपद्येत जपेदित्यर्थः । किं तत् ? अक्षितम् अक्षीणम् अक्षतं वा असि इत्येकं यजुः । सामर्थ्यादादित्यस्थं प्राणं च एकीकृत्य आह । तथा तमेव आह, अच्युतं स्वरूपादप्रच्युतमसि इति द्वितीयं यजुः । प्राणसंशितं प्राणश्च स संशितं संयक्तनूकृतं च सूक्ष्मं तत् त्वमसि इति तृतीयं यजुः । तत्र एतस्मिन्नर्थे विद्यास्तुतिपरे द्वे ऋचौ मन्त्रौ भवतः, न जपार्थे, त्रयं प्रतिपद्येत इति त्रित्वसङ्ख्याबाधनात् ; पञ्चसङ्ख्या हि तदा स्यात् ॥
आदित्प्रत्नस्य रेतसः । उद्वयं तमसस्परि ज्योतिः पश्यन्त उत्तरꣳस्वः पश्यन्ति उत्तरं देवं देवत्रा सूर्यमगन्म ज्योतिरुत्तममिति ज्योतिरुत्तममिति ॥ ७ ॥
आदित् इत्यत्र आकारस्यानुबन्धस्तकारः अनर्थक इच्छब्दश्च । प्रत्नस्य चिरन्तनस्य पुराणस्येत्यर्थः ; रेतसः कारणस्य बीजभूतस्य जगतः, सदाख्यस्य ज्योतिः प्रकाशं पश्यन्ति । आशब्द उत्सृष्टानुबन्धः पश्यन्तीत्यनेन सम्बध्यते ; किं तज्ज्योतिः पश्यन्ति ; वासरम् अहः अहरिव तत् सर्वतो व्याप्तं ब्रह्मणो ज्योतिः ; निवृत्तचक्षुषो ब्रह्मविदः ब्रह्मचर्यादिनिवृत्तिसाधनैः शुद्धान्तःकरणाः आ समन्ततः ज्योतिः पश्यन्तीत्यर्थः । परः परमिति लिङ्गव्यत्ययेन, ज्योतिष्परत्वात् , यत् इध्यते दीप्यते दिवि द्योतनवति परस्मिन्ब्रह्मणि वर्तमानम् येन ज्योतिषेद्धः सविता तपति चन्द्रमा भाति विद्युद्विद्योतते ग्रहतारागणा विभासन्ते । किं च, अन्यो मन्त्रदृगाह यथोक्तं ज्योतिः पश्यन् — उद्वयं तमसः अज्ञानलक्षणात् परि परस्तादिति शेषः ; तमसो वा अपनेतृ यज्ज्योतिः उत्तरम् — आदित्यस्थं परिपश्यन्तः वयम् उत् अगन्म इति व्यवहितेन सम्बन्धः ; तज्ज्योतिः स्वः स्वम् आत्मीयमस्मद्धृदि स्थितम् , आदित्यस्थं च तदेकं ज्योतिः ; यत् उत्तरम् उत्कृष्टतरमूर्ध्वतरं वा अपरं ज्योतिरपेक्ष्य, पश्यन्तः उदगन्म वयम् । कमुदगन्मेति, आह । देवं द्योतनवन्तं देवत्रा देवेषु सर्वेषु, सूर्यं रसानां रश्मीनां प्राणानां च जगतः ईरणात्सूर्यः तमुदगन्म गतवन्तः, ज्योतिरुत्तमं सर्वज्योतिर्भ्य उत्कृष्टतमम् अहो प्राप्ता वयमित्यर्थः । इदं तज्ज्योतिः, यत् ऋग्भ्यां स्तुतं यद्यजुस्त्रयेण प्रकाशितम् । द्विरभ्यासो यज्ञकल्पनापरिसमाप्त्यर्थः ॥
इति सप्तदशखण्डभाष्यम् ॥
अष्टादशः खण्डः
मनो ब्रह्मेत्युपसीतेत्यध्यात्ममथाधिदैवतमाकाशो ब्रह्मेत्युभयमादिष्टं भवत्यध्यात्मं चाधिदैवतं च ॥ १ ॥
मनोमय ईश्वर उक्तः आकाशात्मेति च ब्रह्मणो गुणैकदेशत्वेन । अथेदानीं मनआकाशयोः समस्तब्रह्मदृष्टिविधानार्थ आरम्भः मनो ब्रह्मेत्यादि । मनः मनुतेऽनेनेत्यन्तःकरणं तद्ब्रह्म परमित्युपासीतेति एतदात्मविषयं दर्शनम् अध्यात्मम् । अथ अधिदैवतं देवताविषयमिदं वक्ष्यामः । आकाशो ब्रह्मेत्युपासीत ; एवमुभयमध्यात्ममधिदैवतं च उभयं ब्रह्मदृष्टिविषयम् आदिष्टम् उपदिष्टं भवति ; आकाशमनसोः सूक्ष्मत्वात् मनसोपलभ्यत्वाच्च ब्रह्मणः, योग्यं मनो ब्रह्मदृष्टेः, आकाशश्च, सर्वगतत्वात्सूक्ष्मत्वादुपाधिहीनत्वाच्च ॥
तदेतच्चतुष्पाद्ब्रह्म वाक्पादः प्राणः पादश्चक्षुः पादः श्रोत्रं पाद इत्यध्यात्ममथाधिदैवतमग्निः पादो वायुः पाद आदित्यः पादो दिशः पाद इत्युभयमेवादिष्टं भवत्यध्यात्मं चैवाधिदैवतं च ॥ २ ॥
तदेतत् मनआख्यं चतुष्पाद्ब्रह्म, चत्वारः पादा अस्येति । कथं चतुष्पात्त्वं मनसो ब्रह्मण इति, आह — वाक्प्राणश्चक्षुःश्रोत्रमित्येते पादाः इत्यध्यात्मम् । अथाधिदैवतम् आकाशस्य ब्रह्मणोऽग्निर्वायुरादित्यो दिश इत्येते । एवमुभयमेव चतुष्पाद्ब्रह्म आदिष्टं भवति अध्यात्मं चैवाधिदैवतं च । तत्र वागेव मनसो ब्रह्मणश्चतुर्थः पाद इतरपादत्रयापेक्षया — वाचा हि पादेनेव गवादि वक्तव्यविषयं प्रति तिष्ठति ; अतो मनसः पाद इव वाक् । तथा प्राणो घ्राणः पादः ; तेनापि गन्धविषयं प्रति च क्रामति । तथा चक्षुः पादः श्रोत्रं पाद इत्येवमध्यात्मं चतुष्पात्त्वं मनसो ब्रह्मणः । अथाधिदैवतम् अग्निवाय्वादित्यदिशः आकाशस्य ब्रह्मण उदर इव गोः पादा इव लग्ना उपलभ्यन्ते ; तेन तस्य आकाशस्य अग्न्यादयः पादा उच्यन्ते । एवमुभयमध्यात्मं चैवाधिदैवतं च चतुष्पादादिष्टं भवति ॥
वागेव ब्रह्मणश्चतुर्थः पादः सोऽग्निना ज्योतिषा भाति च तपति च भाति च तपति च कीर्त्या यशसा ब्रह्मवर्चसेन य एवं वेद ॥ ३ ॥
तत्र वागेव मनसो ब्रह्मणश्चतुर्थः पादः । सोऽग्निना अधिदैवतेन ज्योतिषा भाति च दीप्यते तपति च सन्तापं च औष्ण्यं करोति । अथवा तैलघृताद्याग्नेयाशनेन इद्धा वाग्भाति च तपति च वदनायोत्साहवती स्यादित्यर्थः । विद्वत्फलम् , भाति च तपति च कीर्त्या यशसा ब्रह्मवर्चसेन, य एवं यथोक्तं वेद ॥
प्राण एव ब्रह्मणश्चतुर्थः पादः स वायुना ज्योतिषा भाति च तपति च भाति च तपति च कीर्त्या यशसा ब्रह्मवर्चसेन य एवं वेद ॥ ४ ॥
चक्षुरेव ब्रह्मणश्चतुर्थः पादः स आदित्येन ज्योतिषा भाति च तपति च भाति च तपति च कीर्त्या यशसा ब्रह्मवर्चसेन य एवं वेद ॥ ५ ॥
श्रोत्रमेव ब्रह्मणश्चतुर्थः पादः स दिग्भिर्ज्योतिषा भाति च तपति च भाति च तपति च कीर्त्या यशसा ब्रह्मवर्चसेन य एवं वेद य एवं वेद ॥ ६ ॥
तथा प्राण एव ब्रह्मणश्चतुर्थः पादः । स वायुना गन्धाय भाति च तपति च । तथा चक्षुः आदित्येन रूपग्रहणाय, श्रोत्रं दिग्भिः शब्दग्रहणाय । विद्याफलं समानं सर्वत्र ब्रह्मसम्पत्तिरदृष्टं फलं य एवं वेद । द्विरुक्तिर्दर्शनसमाप्त्यर्था ॥
इति अष्टादशखण्डभाष्यम् ॥
एकोनविंशः खण्डः
आदित्यो ब्रह्मणः पाद उक्त इति तस्मिन्सकलब्रह्मदृष्ट्यर्थमिदमारभ्यते —
आदित्यो ब्रह्मेत्यादेशस्तस्योपव्याख्यानमसदेवेदमग्र आसीत् । तत्सदासीत्तत्समभवत्तदाण्डं निरवर्तत तत्संवत्सरस्य मात्रामशयत तन्निरभिद्यत ते आण्डकपाले रजतं च सुवर्णं चाभवताम् ॥ १ ॥
आदित्यो ब्रह्मेत्यादेशः उपदेशः ; तस्योपव्याख्यानं क्रियते स्तुत्यर्थम् । असत् अव्याकृतनामरूपम् इदं जगत् अशेषमग्रे प्रागवस्थायामुत्पत्तेः आसीत् , न त्वसदेव ;
‘कथमसतः सज्जायेत’ (छा. उ. ६ । २ । २) इति असत्कार्यत्वस्य प्रतिषेधात् । ननु इहासदेवेति विधानाद्विकल्पः स्यात् । न, क्रियास्विव वस्तुनि विकल्पानुपपत्तेः । कथं तर्हि इदमसदेवेति ? नन्ववोचाम अव्याकृतनामरूपत्वादसदिवासदिति । नन्वेवशब्दोऽवधारणार्थः ; सत्यमेवम् , न तु सत्त्वाभावमवधारयति ; किं तर्हि, व्याकृतनामरूपाभावमवधारयति ; नामरूपव्याकृतविषये सच्छब्दप्रयोगो दृष्टः । तच्च नामरूपव्याकरणमादित्यायत्तं प्रायशो जगतः । तदभावे हि अन्धं तम इव इदं न प्रज्ञायेत किञ्चन इत्यतः तत्स्तुतिपरे वाक्ये सदपीदं प्रागुत्पत्तेर्जगदसदेवेत्यादित्यं स्तौति ब्रह्मदृष्ट्यर्हत्वाय ; आदित्यनिमित्तो हि लोके सदिति व्यवहारः — यथा असदेवेदं राज्ञः कुलं सर्वगुणसम्पन्ने पूर्णवर्मणि राजन्यसतीति तद्वत् । न च सत्त्वमसत्त्वं वा इह जगतः प्रतिपिपादयिषितम् , आदित्यो ब्रह्मेत्यादेशपरत्वात् । उपसंहरिष्यत्यन्ते आदित्यं ब्रह्मेत्युपास्त इति । तत्सदासीत् तत् असच्छब्दवाच्यं प्रागुत्पत्तेः स्तिमितम् अनिस्पन्दमसदिव सत्कार्याभिमुखम् ईषदुपजातप्रवृत्ति सदासीत् ; ततो लब्धपरिस्पन्दं तत्समभवत् अल्पतरनामरूपव्याकरणेन अङ्कुरीभूतमिव बीजम् । ततोऽपि क्रमेण स्थूलीभवत् अद्भ्यः आण्डं समवर्तत संवृत्तम् । आण्डमिति दैर्घ्यं छान्दसम् । तदण्डं संवत्सरस्य कालस्य प्रसिद्धस्य मात्रां परिमाणम् । अभिन्नस्वरूपमेव अशयत स्थितं बभूव । तत् ततः संवत्सरपरिमाणात्कालादूर्ध्वं निरभिद्यत निर्भिन्नम् — वयसामिवाण्डम् । तस्य निर्भिन्नस्याण्डस्य कपाले द्वे रजतं च सुवर्णं च अभवतां संवृत्ते ॥
तद्यद्रजतं सेयं पृथिवी यत्सुवर्णं सा द्यौर्यज्जरायु ते पर्वता यदुल्बं समेघो नीहारो या धमनयस्ता नद्यो यद्वास्तेयमुदकं स समुद्रः ॥ २ ॥
तत् तयोः कपालयोः यद्रजतं कपालमासीत् , सेयं पृथिवी पृथिव्युपलक्षितमधोऽण्डकपालमित्यर्थः । यत्सुवर्णं कपालं सा द्यौः द्युलोकोपलक्षितमूर्ध्वं कपालमित्यर्थः । यज्जरायु गर्भपरिवेष्टनं स्थूलम् अण्डस्य द्विशकलीभावकाले आसीत् , ते पर्वता बभूवुः । यदुल्बं सूक्ष्मं गर्भपरिवेष्टनम् , तत् सह मेघैः समेघः नीहारोऽवश्यायः बभूवेत्यर्थः । या गर्भस्य जातस्य देहे धमनयः शिराः, तानद्यो बभूवुः । यत् तस्य वस्तौ भवं वास्तेयमुदकम् , स समुद्रः ॥
अथ यत्तदजायत सोऽसावादित्यस्तं जायमानं घोषा उलूलवोऽनूदतिष्ठन्सर्वाणि च भूतानि सर्वे च कामास्तस्मात्तस्योदयं प्रति प्रत्यायनं प्रति घोषा उलूलवोऽनूत्तिष्ठन्ति सर्वाणि च भूतानि सर्वे च कामाः ॥ ३ ॥
अथ यत्तदजायत गर्भरूपं तस्मिन्नण्डे, सोऽसावादित्यः ; तमादित्यं जायमानं घोषाः शब्दाः उलूलवः उरूरवो विस्तीर्णरवाः उदतिष्ठन् उत्थिवन्तः ईश्वरस्येवेह प्रथमपुत्रजन्मनि सर्वाणि च स्थावरजङ्गमानि भूतानि सर्वे च तेषां भूतानां कामाः कांयन्त इति विषयाः स्त्रीवस्त्रान्नादयः । यस्मादादित्यजन्मनिमित्ता भूतकामोत्पत्तिः, तस्मादद्यत्वेऽपि तस्यादित्यस्योदयं प्रति प्रत्यायनं प्रति अस्तगमनं च प्रति, अथवा पुनः पुनः प्रत्यागमनं प्रत्यायनं तत्प्रति तन्निमित्तीकृत्येत्यर्थः ; सर्वाणि च भूतानि सर्वे च कामा घोषा उलूलवश्चानुतिष्ठन्ति । प्रसिद्धं हि एतदुदयादौ सवितुः ॥
स य एतमेवं विद्वानादित्यं ब्रह्मेत्युपास्तेऽभ्याशो ह यदेनं साधवो घोषा आ च गच्छेयुरुप च निम्रेडेरन्निम्रेजेरन् ॥ ४ ॥
स यः कश्चित् एतमेवं यथोक्तमहिमानं विद्वान्सन् आदित्यं ब्रह्मेत्युपास्ते, स तद्भावं प्रतिपद्यत इत्यर्थः । किञ्च दृष्टं फलम् अभ्याशः क्षिप्रं तद्विदः, यदिति क्रियाविशेषणम् , एनमेवंविदं साधवः शोभना घोषाः, साधुत्वं घोषादीनां यदुपभोगे पापानुबन्धाभावः, आ च गच्छेयुः आगच्छेयुश्च, उप च निम्रेडेरन् उपनिम्रेडेरंश्च — न केवलमागमनमात्रं घोषाणाम् उपसुखयेयुश्च उपसुखं च कुर्युरित्यर्थः । द्विरभ्यासः अध्यायपरिसमाप्त्यर्थः आदरार्थश्च ॥
इति एकोनविंशखण्डभाष्यम् ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ छान्दोग्योपनिषद्भाष्ये तृतीयोऽध्यायः समाप्तः ॥