श्रीमच्छङ्करभगवत्पूज्यपादविरचितम्

छान्दोग्योपनिषद्भाष्यम्

करतलकलिताद्वयात्मतत्त्वं क्षपितदुरन्तचिरन्तनप्रमोहम् ।
उपचितमुदितोदितैर्गुणौघैः उपनिषदामयमुज्जहार भाष्यम् ।।

सगुणब्रह्मविद्याया उत्तरा गतिरुक्ता । अथेदानीं पञ्चमेऽध्याये पञ्चाग्निविदो गृहस्थस्य ऊर्ध्वरेतसां च श्रद्धालूनां विद्यान्तरशीलिनां तामेव गतिमनूद्य अन्या दक्षिणादिक्सम्बन्धिनी केवलकर्मिणां धूमादिलक्षणा, पुनरावृत्तिरूपा तृतीया च ततः कष्टतरा संसारगतिः, वैराग्यहेतोः वक्तव्येत्यारभ्यते । प्राणः श्रेष्ठो वागादिभ्यः प्राणो वाव संवर्ग इत्यादि च बहुशोऽतीते ग्रन्थे प्राणग्रहणं कृतम् , स कथं श्रेष्ठो वागादिषु सर्वैः संहत्यकारित्वाविशेषे, कथं च तस्योपासनमिति तस्य श्रेष्ठत्वादिगुणविधित्सया इदमनन्तरमारभ्यते —
यो ह वै ज्येष्ठं च श्रेष्ठं च वेद ज्येष्ठश्च ह वै श्रेष्ठश्च भवति प्राणो वाव ज्येष्ठश्च श्रेष्ठश्च ॥ १ ॥
यो ह वै कश्चित् ज्येष्ठं च प्रथमं वयसा श्रेष्ठं च गुणैरभ्यधिकं वेद, स ज्येष्ठश्च ह वै श्रेष्ठश्च भवति । फलेन पुरुषं प्रलोभ्याभिमुखीकृत्य आह — प्राणो वाव ज्येष्ठश्च वयसा वागादिभ्यः ; गर्भस्थे हि पुरुषे प्राणस्य वृत्तिर्वागादिभ्यःपूर्वं लब्धात्मिका भवति, यया गर्भो विवर्धते । चक्षुरादिस्थानावयवनिष्पत्तौ सत्यां पश्चाद्वागादीनां वृत्तिलाभ इति प्राणो ज्येष्ठो वयसा भवति । श्रेष्ठत्वं तु प्रतिपादयिष्यति — ‘सुहय’ इत्यादिनिदर्शनेन । अतः प्राण एव ज्येष्ठश्च श्रेष्ठश्च अस्मिन्कार्यकरणसङ्घाते ॥
यो ह वै वसिष्ठं वेद वसिष्ठो ह स्वानां भवति वाग्वाव वसिष्ठः ॥ २ ॥
यो ह वै वसिष्ठं वसितृतममाच्छादयितृतमं वसुमत्तमं वा यो वेद, स तथैव वसिष्ठो ह भवति स्वानां ज्ञातीनाम् । कस्तर्हि वसिष्ठ इति, आह — वाग्वाव वसिष्ठः, वाग्मिनो हि पुरुषा वसन्ति अभिभवन्त्यन्यान् वसुमत्तमाश्च, अतो वाग्वसिष्ठः ॥
यो ह वै प्रतिष्ठां वेद प्रति ह तिष्ठत्यस्मिꣳश्च लोकेऽमुष्मिꣳश्च चक्षुर्वाव प्रतिष्ठा ॥ ३ ॥
यो ह वै प्रतिष्ठां वेद, स अस्मिंल्लोके अमुष्मिंश्च परे प्रतितिष्ठति ह । का तर्हि प्रतिष्ठेति, आह — चक्षुर्वाव प्रतिष्ठा । चक्षुषा हि पश्यन् समे च दुर्गे च प्रतितिष्ठति यस्मात् , अतः प्रतिष्ठा चक्षुः ॥
यो ह वै सम्पदं वेद सꣳहास्मै कामाः पद्यन्ते दैवाश्च मानुषाश्च श्रोत्रं वाव सम्पत् ॥ ४ ॥
यो ह वै सम्पदं वेद, तस्मा अस्मै दैवाश्च मानुषाश्च कामाः सम्पद्यन्ते ह । का तर्हि सम्पदिति, आह — श्रोत्रं वाव सम्पत् । यस्माच्छ्रोत्रेण वेदा गृह्यन्ते तदर्थविज्ञानं च, ततः कर्माणि क्रियन्ते ततः कामसम्पदित्येवम् , कामसम्पद्धेतुत्वाच्छ्रोत्रं वाव सम्पत् ॥
यो ह वा आयतनं वेदायतनꣳ ह स्वानां भवति मनो ह वा आयतनम् ॥ ५ ॥
यो ह वा आयतनं वेद, आयतनं ह म्वानां भवतीत्यर्थः । किं तदायतनमिति, आह — मनो ह वा आयतनम् । इन्द्रियोपहृतानां विषयाणां भोक्त्रर्थानां प्रत्ययरूपाणां मन आयतनमाश्रयः । अतो मनो ह वा आयतनमित्युक्तम् ॥
अथ ह प्राणा अहꣳ श्रेयसि व्यूदिरेऽहꣳ श्रेयानस्म्यहꣳ श्रेयानस्मीति ॥ ६ ॥
अथ ह प्राणाः एवं यथोक्तगुणाः सन्तः अहंश्रेयसि अहं श्रेयानस्मि अहं श्रेयानस्मि इत्येतस्मिन्प्रयोजने व्यूदिरेनाना विरुद्धं चोदिरे उक्तवन्तः ॥
ते ह प्राणाः प्रजापतिं पितरमेत्योचुर्भगवन्को नः श्रेष्ठ इति तान्होवाच यस्मिन्व उत्क्रान्ते शरीरं पापिष्ठतरमिव दृश्येत स वः श्रेष्ठ इति ॥ ७ ॥
ते ह ते हैवं विवदमाना आत्मनः श्रेष्ठत्वविज्ञानाय प्रजापतिं पितरं जनयितारं कञ्चिदेत्य ऊचुः उक्तवन्तः — हे भगवन् कः नः अस्माकं मध्ये श्रेष्ठः अभ्यधिकः गुणैः ? इत्येवं पृष्टवन्तः । तान् पितोवाच ह — यस्मिन् वः युष्माकं मध्ये उत्क्रान्ते शरीरमिदं पापिष्ठमिवातिशयेन जीवतोऽपि समुत्क्रान्तप्राणं ततोऽपि पापिष्ठतरमिवातिशयेन दृश्येत कुणपमस्पृश्यमशुचिं दृश्येत, सः वः युष्माकं श्रेष्ठ इत्यवोचत् काक्वा तद्दुःखं परिजिहीर्षुः ॥
सा ह वागुच्चक्राम सा संवत्सरं प्रोष्य पर्येत्योवाच कथमशकतर्ते मज्जीवितुमिति यथा कला अवदन्तः प्राणन्तः प्राणेन पश्यन्तश्चक्षुषा शृण्वन्तः श्रोत्रेण ध्यायन्तो मनसैवमिति प्रविवेश ह वाक् ॥ ८ ॥
चक्षुर्होच्चक्राम तत्संवत्सरं प्रोष्य पर्येत्योवाच कथमशकतर्ते मज्जीवितुमिति यथान्धा अपश्यन्तः प्राणन्तः प्राणेन वदन्तो वाचा शृण्वन्तः श्रोत्रेण ध्यायन्तो मनसैवमिति प्रविवेश ह चक्षुः ॥ ९ ॥
श्रोत्रं होच्चक्राम तत्संवत्सरं प्रोष्य पर्येत्योवाच कथमशकतर्ते मज्जीवितुमिति यथा बधिरा अशृण्वन्तः प्राणन्तः प्राणेन वदन्तो वाचा पश्यन्तश्चक्षुषा ध्यायन्तो मनसैवमिति प्रविवेश ह श्रोत्रम् ॥ १० ॥
मनो होच्चक्राम तत्संवत्सरं प्रोष्य पर्येत्योवाच कथमशकतर्ते मज्जीवितुमिति यथा बाला अमनसः प्राणन्तः प्राणेन वदन्तो वाचा पश्यन्तश्चक्षुषा शृण्वन्तः श्रोत्रेणैवमिति प्रविवेश ह मनः ॥ ११ ॥
तथोक्तेषु पित्रा प्राणेषु सा ह वाक् उच्चक्राम उत्क्रान्तवती ; सा च उत्क्रम्य संवत्सरमात्रं प्रोष्य स्वव्यापारान्निवृत्ता सती पुनः पर्येत्य इतरान्प्राणानुवाच — कथं केन प्रकारेणाशकत शक्तवन्तो यूयं मदृते मां विना जीवितुं धारयितुमात्मानमिति ; ते ह ऊचुः — यथा कला इत्यादि, कलाः मूकाः यथा लोकेऽवदन्तो वाचा जीवन्ति । कथम् । प्राणन्तः प्राणेन पश्यन्तश्चक्षुषा शृण्वन्तः श्रोत्रेण ध्यायन्तो मनसा, एवं सर्वकरणचेष्टां कुर्वन्त इत्यर्थः । एवं वयमजीविष्मेत्यर्थः । आत्मनोऽश्रेष्ठतां प्राणेषु बुद्ध्वा प्रविवेश ह वाक् पुनः स्वव्यापारे प्रवृत्ता बभूवेत्यर्थः । समानमन्यत् चक्षुर्होच्चक्राम श्रोत्रं होच्चक्राम मनो होच्चक्रामेत्यादि । यथा बाला अमनसः अप्ररूढमनस इत्यर्थः ॥
अथ ह प्राण उच्चिक्रमिषन्स यथा सुहयः पड्वीशशङ्कून्सङ्खिदेदेवमितरान्प्राणान्समखिदत्तं हाभिसमेत्योचुर्भगवन्नेधि त्वं नः श्रेष्ठोऽसि मोत्क्रमीरिति ॥ १२ ॥
एवं परीक्षितेषु वागादिषु, अथ अनन्तरं ह स मुख्यः प्राणः उच्चिक्रमिषन् उत्क्रमितुमिच्छन् किमकरोदिति, उच्यते — यथा लोके सुहयः शोभनोऽश्वः पड्वीशशङ्कून् पादबन्धनकीलान् परीक्षणाय आरूढेन कशया हतः सन् सङ्खिदेत् समुत्खनेत् समुत्पाटयेत् , एवमितरान्वागादीन्प्राणान् समखिदत् समुद्धृतवान् । ते प्राणाः सञ्चालिताः सन्तः स्वस्थाने स्थातुमनुत्सहमानाः अभिसमेत्य मुख्यं प्राणं तमूचुः — हे भगवन् एधि भव नः स्वामी, यस्मात् त्वं नः श्रेष्ठोऽसि ; मा च अस्माद्देहादुत्क्रमीरिति ॥
अथ हैनं वागुवाच यदहं वसिष्ठोऽस्मि त्वं तद्वसिष्ठोऽसीत्यथ हैनं चक्षुरुवाच यदहं प्रतिष्ठास्मि त्वं तत्प्रतिष्ठासीति ॥ १३ ॥
अथ हैनं श्रोत्रमुवाच यदहं सम्पदस्मि त्वं तत्सम्पदसीत्यथ हैनं मन उवाच यदहमायतनमस्मि त्वं तदायतनमसीति ॥ १४ ॥
अथ हैनं वागादयः प्राणस्य श्रेष्ठत्वं कार्येण आपादयन्तः आहुः — बलिमिव हरन्तो राज्ञे विशः । कथम् ? वाक् तावदुवाच — यदहं वसिष्ठोऽस्मि, यदिति क्रियाविशेषणम् , यद्वसिष्ठत्वगुणास्मीत्यर्थः ; त्वं तद्वसिष्ठः तेन वसिष्ठत्वगुणेन त्वं तद्वसिष्ठोऽसि तद्गुणस्त्वमित्यर्थः । अथवा तच्छब्दोऽपि क्रियाविशेषणमेव । त्वत्कृतस्त्वदीयोऽसौ वसिष्ठत्वगुणोऽज्ञानान्ममेति मया अभिमत इत्येतत् । तथोत्तरेषु योज्यं चक्षुःश्रोत्रमनःसु ॥
न वै वाचो न चक्षूंषि न श्रोत्राणि न मनांसीत्याचक्षते प्राणा इत्येवाचक्षते प्राणो ह्येवैतानि सर्वाणि भवति ॥ १५ ॥
श्रुतेरिदं वचः — युक्तमिदं वागादिभिर्मुख्यं प्राणं प्रत्यभिहितम् ; यस्मान्न वै लोके वाचो न चक्षूंषि न श्रोत्राणि न मनांसीति वागादीनि करणान्याचक्षते लौकिका आगमज्ञा वा ; किं तर्हि, प्राणा इत्येव आचक्षते कथयन्ति ; यस्मात्प्राणो ह्येवैतानि सर्वाणि वागादीनि करणजातानि भवति ; अतो मुख्यं प्राणं प्रत्यनुरूपमेव वागादिभिरुक्तमिति प्रकरणार्थमुपसञ्जिहीर्षति ॥
ननु कथमिदं युक्तं चेतनावन्त इव पुरुषा अहंश्रेष्ठतायै विवदन्तः अन्योन्यं स्पर्धेरन्निति ; न हि चक्षुरादीनां वाचं प्रत्याख्याय प्रत्येकं वदनं सम्भवति ; तथा अपगमो देहात् पुनः प्रवेशो ब्रह्मगमनं प्राणस्तुतिर्वोपपद्यते । तत्र अग्न्यादिचेतनावद्देवताधिष्ठितत्वात् वागादीनां चेतनावत्त्वं तावत् सिद्धमागमतः । तार्किकसमयविरोध इति चेत् देहे एकस्मिन्ननेकचेतनावत्त्वे, न, ईश्वरस्य निमित्तकारणत्वाभ्युपगमात् । ये तावदीश्वरमभ्युपगच्छन्ति तार्किकाः, ते मनआदिकार्यकरणानामाध्यात्मिकानां बाह्यानां च पृथिव्यादीनामीश्वराधिष्ठितानामेव नियमेन प्रवृत्तिमिच्छन्ति — रथादिवत् । न च अस्माभिः अग्न्याद्याश्चेतनावत्योऽपि देवता अध्यात्मं भोक्त्र्यः अभ्युपगम्यन्ते ; किं तर्हि, कार्यकरणवतीनां हि तासां प्राणैकदेवताभेदानामध्यात्माधिभूताधिदैवभेदकोटिविकल्पानामध्यक्षतामात्रेण नियन्ता ईश्वरोऽभ्युपगम्यते । स ह्यकरणः, ‘अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्णः’ (श्वे. उ. ३ । १९) इत्यादिमन्त्रवर्णात् ; ‘हिरण्यगर्भं पश्यत जायमानम्’ (श्वे. उ. ४ । १२) ‘हिरण्यगर्भं जनयामास पूर्वम्’ (श्वे. उ. ३ । ४) इत्यादि च श्वेताश्वतरीयाः पठन्ति । भोक्ता कर्मफलसम्बन्धी देहे तद्विलक्षणो जीव इति वक्ष्यामः । वागादीनां च इह संवादः कल्पितः विदुषोऽन्वयव्यतिरेकाभ्यां प्राणश्रेष्ठतानिर्धारणार्थम्— यथा लोके पुरुषा अन्योन्यमात्मनः श्रेष्ठतायै विवदमानाः कञ्चिद्गुणविशेषाभिज्ञं पृच्छन्ति को नः श्रेष्ठो गुणैरिति ; तेनोक्ता ऐकैकश्येन अदः कार्यं साधयितुमुद्यच्छत, येनादः कार्यं साध्यते, स वः श्रेष्ठः — इत्युक्ताः तथैवोद्यच्छन्तः आत्मनोऽन्यस्य वा श्रेष्ठतां निर्धारयन्ति — तथेमं संव्यवहारं वागादिषु कल्पितवती श्रुतिः — कथं नाम विद्वान् वागादीनामेकैकस्याभावेऽपि जीवनं दृष्टं न तु प्राणस्येति प्राणश्रेष्ठतां प्रतिपद्येतेति । तथा च श्रुतिः कौषीतकिनाम् — ‘जीवति वागपेतो मूकान्हि पश्यामो जीवति चक्षुरपेतोऽन्धान्हि पश्यामो जीवति श्रोत्रापेतो बधिरान्हि पश्यामो जीवति मनोपेतो बालान्हि पश्यामो जीवति बाहुच्छिन्नो जीवत्यूरुच्छिन्नः’ (शां. आ. ५ । ३) इत्याद्या ॥
इति प्रथमखण्डभाष्यम् ॥
स होवाच किं मेऽन्नं भविष्यतीति यत्किञ्चिदिदमा श्वभ्य आ शकुनिभ्य इति होचुस्तद्वा एतदनस्यान्नमनो ह वै नाम प्रत्यक्षं न ह वा एवंविदि किञ्चनानन्नं भवतीति ॥ १ ॥
स होवाच मुख्यः प्राणः — किं मेऽन्नं भविष्यतीति । मुख्यं प्राणं प्रष्टारमिव कल्पयित्वा वागादीन्प्रतिवक्तॄनिव कल्पयन्ती श्रुतिराह — यदिदं लोकेऽन्नजातं प्रसिद्धम् आ श्वभ्यः श्वभिः सह आ शकुनिभ्यः सह शकुनिभिः सर्वप्राणिनां यदन्नम् , तत् तवान्नमिति होचुर्वागादय इति । प्राणस्यसर्वमन्नं प्राणोऽत्ता सर्वस्यान्नस्येत्येवं प्रतिपत्तये कल्पिताख्यायिकारूपाद्व्यावृत्य स्वेन श्रुतिरूपेण आह — तद्वै एतत् यत्किञ्चिल्लोके प्राणिभिरन्नमद्यते, अनस्य प्राणस्य तदन्नं प्राणेनैव तदद्यत इत्यर्थः । सर्वप्रकारचेष्टाव्याप्तिगुणप्रदर्शनार्थम् अन इति प्राणस्य प्रत्यक्षं नाम । प्राद्युपसर्गपूर्वत्वे हि विशेषगतिरेव स्यात् । तथा च सर्वान्नानामत्तुर्नामग्रहणमितीदं प्रत्यक्षं नाम अन इति सर्वान्नानामत्तुः साक्षादभिधानम् । न ह वा एवंविदि यथोक्तप्राणविदि प्राणोऽहमस्मि सर्वभूतस्थः सर्वान्नानामत्तेति, तस्मिन्नेवंविदि ह वै किञ्चन किञ्चिदपि प्राणिभिरद्यं सर्वैः अनन्नम् अनद्यं न भवति, सर्वमेवंविद्यन्नं भवतीत्यर्थः, प्राणभूतत्वाद्विदुषः, ‘प्राणाद्वा एष उदेति प्राणेऽस्तमेति’ इत्युपक्रम्य ‘एवंविदो ह वा उदेति सूर्य एवंविद्यस्तमेति’ ( ? ) इति श्रुत्यन्तरात् ॥
स होवाच किं मे वासो भविष्यतीत्याप इति होचुस्तस्माद्वा एतदशिष्यन्तः पुरस्ताच्चोपरिष्टाच्चाद्भिः परिदधति लम्भुको ह वासो भवत्यनग्नो ह भवति ॥ २ ॥
स ह उवाच पुनः प्राणः — पूर्ववदेव कल्पना । किं मे वासो भविष्यतीति । आप इति होचुर्वागादयः । यस्मात्प्राणस्य वासः आपः, तस्माद्वा एतदशिष्यन्तः भोक्ष्यमाणा भुक्तवन्तश्च ब्राह्मणा विद्वांसः एतत्कुर्वन्ति । किम् ? अद्भिः वासस्थानीयाभिः पुरस्तात् भोजनात्पूर्वम् उपरिष्टाच्च भोजनादूर्ध्वं च परिदधति परिधानं कुर्वन्ति मुख्यस्य प्राणस्य । लम्भुको लम्भनशीलो वासो ह भवति ; वाससो लब्धैव भवतीत्यर्थः । अनग्नो ह भवति । वाससो लम्भुकत्वेनार्थसिद्धैवानग्नतेति अनग्नो ह भवतीत्युत्तरीयवान्भवतीत्येतत् ॥
भोक्ष्यमाणस्य भुक्तवतश्च यदाचमनं शुद्ध्यर्थं विज्ञातम् , तस्मिन् प्राणस्य वास इति दर्शनमात्रमिह विधीयते — अद्भिः परिदधतीति ; न आचमनान्तरम् — यथा लौकिकैः प्राणिभिरद्यमानमन्नं प्राणस्येति दर्शनमात्रम् , तद्वत् ; किं मेऽन्नं किं मे वास इत्यादिप्रश्नप्रतिवचनयोस्तुल्यत्वात् । यद्याचमनमपूर्वं तादर्थ्येन क्रियेत, तदा कृम्याद्यन्नमपि प्राणस्य भक्ष्यत्वेन विहितं स्यात् । तुल्ययोर्विज्ञानार्थयोः प्रश्नप्रतिवचनयोः प्रकरणस्य विज्ञानार्थत्वादर्धजरतीयो न्यायो न युक्तः कल्पयितुम् । यत्तु प्रसिद्धमाचमनं प्रायत्यार्थं प्राणस्यानग्नतार्थं च न भवतीत्युच्यते, न तथा वयमाचमनमुभयार्थं ब्रूमः । किं तर्हि, प्रायत्यार्थाचमनसाधनभूता आपः प्राणस्य वास इति दर्शनं चोद्यत इति ब्रूमः । तत्र आचमनस्योभयार्थत्वप्रसङ्गदोषचोदना अनुपपन्ना । वासोऽर्थ एव आचमने तद्दर्शनं स्यादिति चेत् , न, वासोज्ञानार्थवाक्ये वासोर्थापूर्वाचमनविधाने तत्रानग्नतार्थत्वदृष्टिविधाने च वाक्यभेदः । आचमनस्य तदर्थत्वमन्यार्थत्वं चेति प्रमाणाभावात् ॥
तद्धैतत्सत्यकामो जाबालो गोश्रुतये वैयाघ्रपद्यायोक्त्वोवाच यद्यप्येनच्छुष्काय स्थाणवे ब्रूयाज्जायेरन्नेवास्मिञ्छाखाः प्ररोहेयुः पलाशानीति ॥ ३ ॥
तदेतत्प्राणदर्शनं स्तूयते । कथम् ? तद्धैतत्प्राणदर्शनं सत्यकामो जाबालो गोश्रुतये नाम्ना वैयाघ्रपद्याय व्याघ्रपदोऽपत्यं वैयाघ्रपद्यः तस्मै गोश्रुत्याख्याय उक्त्वा उवाच अन्यदपि वक्ष्यमाणं वचः । किं तदुवाचेति, आह — यद्यपि शुष्काय स्थाणवे एतद्दर्शनं ब्रूयात्प्राणवित् , जायेरन् उत्पद्येरन्नेव अस्मिन्स्थाणौ शाखाः प्ररोहेयुश्च पलाशानि पत्राणि, किमु जीवते पुरुषाय ब्रूयादिति ॥
यथोक्तप्राणदर्शनविदः इदं मन्थाख्यं कर्म आरभ्यते —
अथ यदि महज्जिगमिषेदमावास्यायां दीक्षित्वा पौर्णमास्यां रात्रौ सर्वौषधस्य मन्थं दधिमधुनोरुपमथ्य ज्येष्ठाय श्रेष्ठाय स्वाहेत्यग्नावाज्यस्य हुत्वा मन्थे सम्पातमवनयेत् ॥ ४ ॥
अथ अनन्तरं यदि महत् महत्त्वं जिगमिषेत् गन्तुमिच्छेत् , महत्त्वं प्राप्तुं यदि कामयेतेत्यर्थः, तस्येदं कर्म विधीयते । महत्त्वे हि सति श्रीरुपनमते । श्रीमतो हि अर्थप्राप्तं धनम् , ततः कर्मानुष्ठानम् , ततश्च देवयानं पितृयाणं वा पन्थानं प्रतिपत्स्यत इत्येतत्प्रयोजनमुररीकृत्य महत्त्वप्रेप्सोरिदं कर्म, न विषयोपभोगकामस्य । तस्यायं कालादिविधिरुच्यते — अमावास्यायां दीक्षित्वा दीक्षित इव भूमिशयनादिनियमं कृत्वा तपोरूपं सत्यवचनं ब्रह्मचर्यमित्यादिधर्मवान्भूत्वेत्यर्थः । न पुनर्दैक्षमेव कर्मजातं सर्वमुपादत्ते, अतद्विकारत्वान्मन्थाख्यस्य कर्मणः । ‘उपसद्व्रती’ (बृ. उ. ६ । ३ । १) इति श्रुत्यन्तरात् पयोमात्रभक्षणं च शुद्धिकारणं तप उपादत्ते । पौर्णमास्यां रात्रौ कर्म आरभते — सर्वौषधस्य ग्राम्यारण्यानामोषधीनां यावच्छक्त्यल्पमल्पमुपादाय तद्वितुषीकृत्य आममेव पिष्टं दधिमधुनोरौदुम्बरे कंसाकारे चमसाकारे वा पात्रे श्रुत्यन्तरात्प्रक्षिप्य उपमथ्य अग्रतः स्थापयित्वा ज्येष्ठाय श्रेष्ठाय स्वाहेत्यग्नावावसथ्ये आज्यस्य आवापस्थाने हुत्वा स्रुवसंलग्नं मन्थे सम्पातमवनयेत् संस्रवमधः पातयेत् ॥
वसिष्ठाय स्वाहेत्यग्नावाज्यस्य हुत्वा मन्थे सम्पातमवनयेत्प्रतिष्ठायै स्वाहेत्यग्नावाज्यस्य हुत्वा मन्थे सम्पातमवनयेत्सम्पदे स्वाहेत्यग्नावाज्यस्य हुत्वा मन्थे सम्पातमवनयेदायतनाय स्वाहेत्यग्नावाज्यस्य हुत्वा मन्थे सम्पातमवनयेत् ॥ ५ ॥
समानमन्यत् , वसिष्ठाय प्रतिष्ठायै सम्पदे आयतनाय स्वाहेति, प्रत्येकं तथैव सम्पातमवनयेत् हुत्वा ॥
अथ प्रतिसृप्याञ्जलौ मन्थमाधाय जपत्यमो नामास्यमा हि ते सर्वमिदं स हि ज्येष्ठः श्रेष्ठो राजाधिपतिः स मा ज्यैष्ठ्यꣳ श्रैष्ठ्यꣳ राज्यमाधिपत्यं गमयत्वहमेवेदं सर्वमसानीति ॥ ६ ॥
अथ प्रतिसृप्य अग्नेरीषदपसृत्य अञ्जलौ मन्थमाधाय जपति इमं मन्त्रम् — अमो नामास्यमा हि ते ; अम इति प्राणस्य नाम । अन्नेन हि प्राणः प्राणिति देहे इत्यतो मन्थद्रव्यं प्राणस्य अन्नत्वात् प्राणत्वेन स्तूयते अमो नामासीति ; कुतः ? यतः अमा सह हि यस्मात्ते तव प्राणभूतस्य सर्वं समस्तं जगदिदम् , अतः । स हि प्राणभूतो मन्थो ज्येष्ठः श्रेष्ठश्च ; अत एव च राजा दीप्तिमान् अधिपतिश्च अधिष्ठाय पालयिता सर्वस्य । सः मा मामपि मन्थः प्राणो ज्यैष्ठ्यादिगुणपूगमात्मनः गमयतु, अहमेवेदं सर्वं जगदसानि भवानि प्राणवत् । इति - शब्दो मन्त्रपरिसमाप्त्यर्थः ॥
अथ खल्वेतयर्चा पच्छ आचामति तत्सवितुर्वृणीमह इत्याचामति वयं देवस्य भोजनमित्याचामति श्रेष्ठं सर्वधातममित्याचामति तुरं भगस्य धीमहीति सर्वं पिबति निर्णिज्य कंसं चमसं वा पश्चादग्नेः संविशति चर्मणि वा स्थण्डिले वा वाचंयमोऽप्रसाहः स यदि स्त्रियं पश्येत्समृद्धं कर्मेति विद्यात् ॥ ७ ॥
अथ अनन्तरं खलु एतया वक्ष्यमाणया ऋचा पच्छः पादशः आचामति भक्षयति, मन्त्रस्यैकैकेन पादेनैकैकं ग्रासं भक्षयति । तत् भोजनं सवितुः सर्वस्य प्रसवितुः, प्राणमादित्यं च एकीकृत्योच्यते, आदित्यस्य वृणीमहे प्रार्थयेमहि मन्थरूपम् ; येनान्नेन सावित्रेण भोजनेनोपभुक्तेन वयं सवितृस्वरूपापन्ना भवेमेत्यभिप्रायः । देवस्य सवितुरिति पूर्वेण सम्बन्धः । श्रेष्ठं प्रशस्यतमं सर्वान्नेभ्यः सर्वधातमं सर्वस्य जगतो धारयितृतमम् अतिशयेन विधातृतममिति वा ; सर्वथा भोजनविशेषणम् । तुरं त्वरं तूर्णं शीघ्रमित्येतत् , भगस्य देवस्य सवितुः स्वरूपमिति शेषः ; धीमहि चिन्तयेमहि विशिष्टभोजनेन संस्कृताः शुद्धात्मानः सन्त इत्यभिप्रायः । अथवा भगस्य श्रियः कारणं महत्त्वं प्राप्तुं कर्म कृतवन्तो वयं तद्धीमहि चिन्तयेमहीति सर्वं च मन्थलेपं पिबति । निर्णिज्य प्रक्षाल्य कंसं कंसाकारं चमसं चमसाकारं वा औदुम्बरं पात्रम् ; पीत्वा आचम्य पश्चादग्नेः प्राक्शिराः संविशति चर्मणि वा अजिने स्थण्डिले केवलायां वा भूमौ, वाचंयमो वाग्यतः सन्नित्यर्थः, अप्रसाहो न प्रसह्यते नाभिभूयते स्त्र्याद्यनिष्टस्वप्नदर्शनेन यथा, तथा संयतचित्तः सन्नित्यर्थः । स एवंभूतो यदि स्त्रियं पश्येत्स्वप्नेषु तदा विद्यात्समृद्धं ममेदं कर्मेति ॥
तदेष श्लोको यदा कर्मसु काम्येषु स्त्रियꣳ स्वप्नेषु पश्यति समृद्धिं तत्र जानीयात्तस्मिन्स्वप्ननिदर्शने तस्मिन्स्वप्ननिदर्शने ॥ ८ ॥
तदेतस्मिन्नर्थे एष श्लोको मन्त्रोऽपि भवति — यदा कर्मसु काम्येषु कामार्थेषु स्त्रियं स्वप्नेषु स्वप्नदर्शनेषु स्वप्नकालेषु वा पश्यति, समृद्धिं तत्र जानीयात् , कर्मणां फलनिष्पत्तिर्भविष्यतीति जानीयादित्यर्थः ; तस्मिंस्त्र्यादिप्रशस्तस्वप्नदर्शने सतीत्यभिप्रायः । द्विरुक्तिः कर्मसमाप्त्यर्था ॥
इति द्वितीयखण्डभाष्यम् ॥
ब्रह्मादिस्तम्बपर्यन्ताः संसारगतयो वक्तव्याः वैराग्यहेतोर्मुमुक्षूणाम् इत्यत आख्यायिका आरभ्यते —
श्वेतकेतुर्हारुणेयः पञ्चालानाꣳ समितिमेयाय तꣳ ह प्रवाहणो जैवलिरुवाच कुमारानु त्वाशिषत्पितेत्यनु हि भगव इति ॥ १ ॥
श्वेतकेतुर्नामतः, ह इति ऐतिह्यार्थः, अरुणस्यापत्यमारुणिः तस्यापत्यमारुणेयः पञ्चालानां जनपदानां समितिं सभाम् एयाय आजगाम । तमागतवन्तं ह प्रवाहणो नामतः जीवलस्यापत्यं जैवलिः उवाच उक्तवान् — हे कुमार अनु त्वा त्वाम् अशिषत् अन्वशिषत् पिता ? किमनुशिष्टस्त्वं पित्रेत्यर्थः । इत्युक्तः स आह — अनु हि अनुशिष्टोऽस्मि भगव इति सूचयन्नाह ॥
वेत्थ यदितोऽधि प्रजाः प्रयन्तीति न भगव इति वेत्थ यथा पुनरावर्तन्त३ इति न भगव इति वेत्थ पथोर्देवयानस्य पितृयाणस्य च व्यावर्तना३ इति न भगव इति ॥ २ ॥
तं ह उवाच — यद्यनुशिष्टोऽसि, वेत्थ यदितः अस्माल्लोकात् अधि ऊर्ध्वं यत्प्रजाः प्रयन्ति यद्गच्छन्ति, तत्किं जानीषे इत्यर्थः । न भगव इत्याह इतरः, न जानेऽहं तत् यत्पृच्छसि । एवं तर्हि, वेत्थ जानीषे यथा येन प्रकारेण पुनरावर्तन्त इति । न भगव इति प्रत्याह । वेत्थ पथोर्मार्गयोः सहप्रयाणयोर्देवयानस्य पितृयाणस्य च व्यावर्तना व्यावर्तनमितरेतरवियोगस्थानं सह गच्छतामित्यर्थः ॥
वेत्थ यथासौ लोको न सम्पूर्यत३ इति न भगव इति वेत्थ यथा पञ्चम्यामाहुतावापः पुरुषवचसो भवन्तीति नैव भगव इति ॥ ३ ॥
वेत्थ यथा असौ लोकः पितृसम्बन्धी — यं प्राप्य पुनरावर्तन्ते, बहुभिः प्रयद्भिरपि येन कारणेन न सम्पूर्यते इति । न भगव इति प्रत्याह । वेत्थ यथा येन क्रमेण पञ्चम्यां पञ्चसङ्ख्याकायामाहुतौ हुतायाम् आहुतिनिर्वृत्ता आहुतिसाधनाश्च आपः पुरुषवचसः पुरुष इत्येवं वचोऽभिधानं यासां हूयमानानां क्रमेण षष्ठाहुतिभूतानां ताः पुरुषवचसः पुरुषशब्दवाच्या भवन्ति पुरुषाख्यां लभन्त इत्यर्थः । इत्युक्तो नैव भगव इत्याह ; नैवाहमत्र किञ्चन जानामीत्यर्थः ॥
अथानु किमनुशिष्टोऽवोचथा यो हीमानि न विद्यात्कथꣳ सोऽनुशिष्टो ब्रुवीतेति स हायस्तः पितुरर्धमेयाय तꣳ होवाचाननुशिष्य वाव किल मा भगवान्ब्रवीदनु त्वाशिषमिति ॥ ४ ॥
अथ एवमज्ञः सन् किमनु कस्मात्त्वम् अनुशिष्टोऽस्मीति — अवोचथा उक्तवानसि ; यो हि इमानि मया पृष्टान्यर्थजातानि न विद्यात् न विजानीयात् , कथं स विद्वत्सु अनुशिष्टोऽस्मीति ब्रुवीत । इत्येवं स श्वेतकेतुः राज्ञा आयस्तः आयासितः सन् पितुरर्धं स्थानम् एयाय आगतवान् , तं च पितरमुवाच — अननुशिष्य अनुशासनमकृत्वैव मा मां किल भगवान् समावर्तनकालेऽब्रवीत् उक्तवान् अनु त्वाशिषम् अन्वशिषं त्वामिति ॥
पञ्च मा राजन्यबन्धुः प्रश्नानप्राक्षीत्तेषां नैकञ्चनाशकं विवक्तुमिति स होवाच यथा मा त्वं तदैतानवदो यथाहमेषां नैकञ्चन वेद यद्यहमिमानवेदिष्यं कथं ते नावक्ष्यमिति ॥ ५ ॥
स ह गौतमो राज्ञोऽर्धमेयाय तस्मै ह प्राप्तायार्हां चकार स ह प्रातः सभाग उदेयाय तं होवाच मानुषस्य भगवन्गौतम वित्तस्य वरं वृणीथा इति स होवाच तवैव राजन्मानुषं वित्तं यामेव कुमारस्यान्ते वाचमभाषथास्तामेव मे ब्रूहीति स ह कृच्छ्री बभूव ॥ ६ ॥
यतः पञ्च पञ्चसङ्ख्याकान्प्रश्नान् राजन्यबन्धुः राजन्या बन्धवोऽस्येति राजन्यबन्धुः स्वयं दुर्वृत्त इत्यर्थः, अप्राक्षीत् पृष्टवान् । तेषां प्रश्नानां नैकञ्चन एकमपि नाशकं न शक्तवानहं विवक्तुं विशेषेणार्थतो निर्णेतुमित्यर्थः । स ह उवाच पिता — यथा मा मां वत्स त्वं तदा आगतमात्र एव एतान्प्रश्नान् अवद उक्तवानसि — तेषां नैकञ्चन अशकं विवक्तुमिति, तथा मां जानीहि, त्वदीयाज्ञानेन लिङ्गेन मम तद्विषयमज्ञानं जानीहीत्यर्थः । कथम् । यथा अहमेषां प्रश्नानाम् एकं चन एकमपि न वेद न जाने इति — यथा त्वमेवाङ्ग एतान्प्रश्नान् न जानीषे, तथा अहमपि एतान्न जाने इत्यर्थः । अतो मय्यन्यथाभावो न कर्तव्यः । कुत एतदेवम् । यतो न जाने ; यद्यहमिमान्प्रश्नान् अवेदिष्यं विदितवानास्मि, कथं ते तुभ्यं प्रियाय पुत्राय समावर्तनकाले पुरा नावक्ष्यं नोक्तवानस्मि — इत्युक्त्वा स ह गौतमः गोत्रतः राज्ञः जैवलेः अर्धं स्थानम् एयाय गतवान् । तस्मै ह गौतमाय प्राप्ताय अर्हाम् अर्हणां चकार कृतवान् । स च गौतमः कृतातिथ्यः उषित्वा परेद्युः प्रातःकाले सभागे सभां गते राज्ञि उदेयाय । भजनं भागः पूजा सेवा सह भागेन वर्तमानो वा सभागः पूज्यमानोऽन्यैः स्वयं गोतमः उदेयाय राजानमुद्गतवान् । तं होवाच गौतमं राजा — मानुषस्य भगवन्गौतम मनुष्यसम्बन्धिनो वित्तस्य ग्रामादेः वरं वरणीयं कामं वृणीथाः प्रार्थयेथाः । स ह उवाच गौतमः — तवैव तिष्ठतु राजन् मानुषं वित्तम् ; यामेव कुमारस्य मम पुत्रस्य अन्ते समीपे वाचं पञ्चप्रश्नलक्षणाम् अभाषथाः उक्तवानसि, तामेव वाचं मे मह्यं ब्रूहि कथय — इत्युक्तो गौतमेन राजा स ह कृच्छ्री दुःखी बभूव — कथं त्विदमिति ॥
तं ह चिरं वसेत्याज्ञापयाञ्चकार तं होवाच यथा मा त्वं गौतमावदो यथेयं न प्राक्त्वत्तः पुरा विद्या ब्राह्मणान्गच्छति तस्मादु सर्वेषु लोकेषु क्षत्रस्यैव प्रशासनमभूदिति तस्मै होवाच ॥ ७ ॥
स ह कृच्छ्रीभूतः अप्रत्याख्येयं ब्राह्मणं मन्वानः न्यायेन विद्या वक्तव्येति मत्वा तं ह गौतमं चिरं दीर्घकालं वस — इत्येवमाज्ञापयाञ्चकार आज्ञप्तवान् । यत्पूर्वं प्रख्यातवान् राजा विद्याम् , यच्च पश्चाच्चिरं वसेत्याज्ञप्तवान् , तन्निमित्तं ब्राह्मणं क्षमापयति हेतुवचनोक्त्या । तं ह उवाच राजा — सर्वविद्यो ब्राह्मणोऽपि सन् यथा येन प्रकारेण मा मां हे गौतम अवदः त्वम् — तामेव विद्यालक्षणां वाचं मे ब्रूहि — इत्यज्ञानात् , तेन त्वं जानीहि । तत्रास्ति वक्तव्यम् — यथा येन प्रकारेण इयं विद्या प्राक् त्वत्तो ब्राह्मणान् न गच्छति न गतवती, न च ब्राह्मणा अनया विद्यया अनुशासितवन्तः, तथा एतत्प्रसिद्धं लोके यतः, तस्मादु पुरा पूर्वं सर्वेषु लोकेषु क्षत्त्रस्यैव क्षत्त्रजातेरेव अनया विद्यया प्रशासनं प्रशास्तृत्वं शिष्याणामभूत् बभूव ; क्षत्त्रियपरम्परयैवेयं विद्या एतावन्तं कालमागता ; तथाप्यहेतां तुभ्यं वक्ष्यामि ; त्वत्सम्प्रदानादूर्ध्वं ब्राह्मणान्गमिष्यति ; अतो मया यदुक्तम् , तत्क्षन्तुमर्हसीत्युक्त्वा तस्मै ह उवाच विद्यां राजा ॥
इति तृतीयखण्डभाष्यम् ॥
‘पञ्चम्यामाहुतावापः’ इत्ययं प्रश्नः प्राथम्येनापाक्रियते, तदपाकरणमनु इतरेषामपाकरणमनुकूलं भवेदिति । अग्निहोत्राहुत्योः कार्यारम्भो यः, स उक्तो वाजसनेयके — तं प्रति प्रश्नाः । उत्क्रान्तिराहुत्योर्गतिः प्रतिष्ठा तृप्तिः पुनरावृत्तिर्लोकं प्रत्युत्थायी इति । तेषां च अपाकरणमुक्तं तत्रैव — ‘ते वा एते आहुती हुते उत्क्रामतस्ते अन्तरिक्षमाविशतस्ते अन्तरिक्षमेवाहवनीयं कुर्वाते वायुं समिधं मरीचीरेव शुक्लामाहुतिं ते अन्तरिक्षं तर्पयतस्ते तत उत्क्रामत’ (शत. ब्रा. ११ । ६ । २ । ६) इत्यादि ; एवमेव पूर्ववद्दिवं तर्पयतस्ते तत आवर्तेते । इमामाविश्य तर्पयित्वा पुरुषमाविशतः । ततः स्त्रियमाविश्य लोकं प्रत्युत्थायी भवति इति । तत्र अग्निहोत्राहुत्योः कार्यारम्भमात्रमेवंप्रकारं भवतीत्युक्तम् , इह तु तं कार्यारम्भमग्निहोत्रापूर्वविपरिणामलक्षणं पञ्चधा प्रविभज्य अग्नित्वेनोपासनमुत्तरमार्गप्रतिपत्तिसाधनं विधित्सन् आह —
असौ वाव लोको गौतमाग्निस्तस्यादित्य एव समिद्रश्मयो धूमोऽहरर्चिश्चन्द्रमा अङ्गारा नक्षत्राणि विस्फुलिङ्गाः ॥ १ ॥
असौ वाव लोको गौतमाग्निरित्यादि । इह सायम्प्रातरग्निहोत्राहुती हुते पयआदिसाधने श्रद्धापुरःसरे आहवनीयाग्निसमिद्धूमार्चिरङ्गारविस्फुलिङ्गभाविते कर्त्रादिकारकभाविते च अन्तरिक्षक्रमेणोत्क्रम्य द्युलोकं प्रविशन्त्यौ सूक्ष्मभूते अप्समवायित्वादप्शब्दवाच्ये श्रद्धाहेतुत्वाच्च श्रद्धाशब्दवाच्ये । तयोरधिकरणः अग्निः अन्यच्च तत्सम्बन्धं समिदादीत्युच्यते । या च असावग्न्यादिभावना आहुत्योः, सापि तथैव निर्दिश्यते । असौ वाव लोकोऽग्निः हे गौतम — यथाग्निहोत्राधिकरणमाहवनीय इह । तस्याग्नेर्द्युलोकाख्यस्य आदित्य एव समित् , तेन हि इद्धः असौ लोको दीप्यते, अतः समिन्धनात् समिदादित्यः रश्मयो धूमः, तदुत्थानात् ; समिधो हि धूम उत्तिष्ठति । अहरर्चिः प्रकाशसामान्यात् , आदित्यकार्यत्वाच्च । चन्द्रमा अङ्गाराः, अह्नः प्रशमेऽभिव्यक्तेः ; अर्चिषो हि प्रशमेऽङ्गारा अभिव्यज्यन्ते । नक्षत्राणि विस्फुलिङ्गाः, चन्द्रमसोऽवयवा इव विप्रकीर्णत्वसामान्यात् ॥
तस्मिन्नेतस्मिन्नग्नौ देवाः श्रद्धां जुह्वति तस्या आहुतेः सोमो राजा सम्भवति ॥ २ ॥
तस्मिन्नेतस्मिन् यथोक्तलक्षणेऽग्नौ देवा यजमानप्राणा अग्न्यादिरूपा अधिदैवतम् । श्रद्धाम् अग्निहोत्राहुतिपरिणामावस्थारूपाः सूक्ष्मा आपः श्रद्धाभाविताः श्रद्धा उच्यन्ते, ‘पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति’ (छा. उ. ५ । ३ । ३) इत्यपां होम्यतया प्रश्ने श्रुतत्वात् ; ‘श्रद्धा वा आपः श्रद्धामेवारभ्य प्रणीय प्रचरन्ति’ (तै. ब्रा. ३ । २ । ४ । २८) इति च विज्ञायते । तां श्रद्धाम् अब्रूपां जुह्वति ; तस्या आहुतेः सोमो राजा अपां श्रद्धाशब्दवाच्यानां द्युलोकाग्रौ हुतानां परिणामः सोमो राजा सम्भवति — यथा ऋग्वेदादिपुष्परसा ऋगादिमधुकरोपनीतास्ते आदित्ये यशआदिकार्यं रोहितादिरूपलक्षणमारभन्ते इत्युक्तम् — तथेमा अग्निहोत्राहुतिसमवायिन्यः सूक्ष्माः श्रद्धाशब्दवाच्या आपः द्युलोकमनुप्रविश्य चान्द्रं कार्यमारभन्ते फलरूपमग्निहोत्राहुत्योः । यजमानाश्च तत्कर्तार आहुतिमया आहुतिभावना भाविता आहुतिरूपेण कर्मणा आकृष्टाः श्रद्धाप्समवायिनो द्युलोकमनुप्रविशय सोमभूता भवन्ति । तदर्थं हि तैरग्निहोत्रं हुतम् । अत्र तु आहुतिपरिणाम एव पञ्चाग्निसम्बन्धक्रमेण प्राधान्येन विवक्षित उपासनार्थं न यजमानानां गतिः । तां त्वविदुषां धूमादिक्रमेणोत्तरत्र वक्ष्यति, विदुषां च उत्तरा विद्याकृताम् ॥
इति चतुर्थखण्डभाष्यम् ॥
पर्जन्यो वाव गौतमाग्निस्तस्य वायुरेव समिदभ्रं धूमो विद्युदर्चिरशनिरङ्गारा ह्रादनयो विस्फुलिङ्गाः ॥ १ ॥
द्वितीयहोमपर्यायार्थमाह — पर्जन्यो वाव पर्जन्य एव गौतमाग्निः पर्जन्यो नाम वृष्ट्युपकरणाभिमानी देवताविशेषः । तस्य वायुरेव समित् , वायुना हि पर्जन्योऽग्निः समिध्यते ; पुरोवातादिप्राबल्ये वृष्टिदर्शनात् । अभ्रं धूमः, धूमकार्यत्वाद्धूमवच्च लक्ष्यमाणत्वात् । विद्युदर्चिः, प्रकाशसामान्यात् । अशनिः अङ्गाराः, काठिन्याद्विद्युत्सम्बन्धाद्वा । ह्रादनयो विस्फुलिङ्गाः ह्रादनयः गर्जितशब्दाः मेघानाम् , विप्रकीर्णत्वसामान्यात् ॥
तस्मिन्नेतस्मिन्नग्नौ देवाः सोमं राजानं जुह्वति तस्या आहुतेर्वर्षं सम्भवति ॥ २ ॥
तस्मिन्नेतस्मिन्नग्नौ देवाः पूर्ववत्सोमं राजानं जुह्वति । तस्या आहुतेर्वर्षं सम्भवति ; श्रद्धाख्या आपः सोमाकारपरिणता द्वितीये पर्याये पर्जन्याग्निं प्राप्य वृष्टित्वेन परिणमन्ते ॥
इति पञ्चमखण्डभाष्यम् ॥
पृथिवी वाव गौतमाग्निस्तस्याः संवत्सर एव समिदाकाशो धूमो रात्रिरर्चिर्दिशोऽङ्गारा अवान्तरदिशो विस्फुलिङ्गाः ॥ १ ॥
पृथिवी वाव गौतमाग्निरित्यादि पूर्ववत् । तस्याः पृथिव्याख्यस्याग्नेः संवत्सर एव समित् , संवत्सरेण हि कालेन समिद्धा पृथिवी व्रीह्यादिनिष्पत्तये भवति । आकाशो धूमः, पृथिव्या इवोत्थित आकाशो दृश्यते — यथा अग्नेर्धूमः । रात्रिरर्चिः, पृथिव्या हि अप्रकाशात्मिकाया अनुरूपा रात्रिः, तमोरूपत्वात् — अग्नेरिवानुरूपमर्चिः । दिशः अङ्गाराः, उपशान्तत्वसामान्यात् । अवान्तरदिशः विस्फुलिङ्गाः, क्षुद्रत्वसामान्यात् ॥
तस्मिन्नेतस्मिन्नग्नौ देवा वर्षं जुह्वति तस्या आहुतेरन्नं सम्भवति ॥ २ ॥
तस्मिन्नित्यादि समानम् । तस्या आहुतेरन्नं व्रीहियवादि सम्भवति ॥
इति षष्ठखण्डभाष्यम् ॥
पुरुषो वाव गौतमाग्निस्तस्य वागेव समित्प्राणो धूमो जिह्वार्चिश्चक्षुरङ्गाराः श्रोत्रं विस्फुलिङ्गाः ॥ १ ॥
पुरुषो वाव गौतमाग्निः । तस्य वागेव समित् , वाचा हि मुखेन समिध्यते पुरुषो न मूकः । प्राणो धूमः, धूम इव मुखान्निर्गमनात् । जिह्वा अर्चिः, लोहितत्वात् । चक्षुः अङ्गाराः, भास आश्रयत्वात् । श्रोत्रं विस्फुलिङ्गाः, विप्रकीर्णत्वसाम्यात् ॥
तस्मिन्नेतस्मिन्नग्नौ देवा अन्नं जुह्वति तस्या आहुते रेतः सम्भवति ॥ २ ॥
समानमन्यत् । अन्नं जुह्वति व्रीह्यादिसंस्कृतम् । तस्या आहुते रेतः सम्भवति ॥
इति सप्तमखण्डभाष्यम् ॥
योषा वाव गौतमाग्निस्तस्या उपस्थ एव समिद्यदुपमन्त्रयते स धूमो योनिरर्चिर्यदन्तः करोति तेऽङ्गारा अभिनन्दा विस्फुलिङ्गाः ॥ १ ॥
योषा वाव गौतमाग्निः । तस्या उपस्थ एव समित् , तेन हि सा पुत्राद्युत्पादनाय समिध्यते । यदुपमन्त्रयते स धूमः, स्त्रीसम्भवादुपमन्त्रणस्य । योनिरर्चिः लोहितत्वात् । यदन्तः करोति तेऽङ्गाराः, अग्निसम्बन्धात् । अभिनन्दाः सुखलवाः विस्फुलिङ्गाः, क्षुद्रत्वात् ॥
तस्मिन्नेतस्मिन्नग्नौ देवा रेतो जुह्वति तस्या आहुतेर्गर्भः सम्भवति ॥ २ ॥
तस्मिन्नेतस्मिन्नग्नौ देवा रेतो जुह्वति । तस्या आहुतेर्गर्भः सम्भवतीति । एवं श्रद्धासोमवर्षान्नरेतोहवनपर्यायक्रमेण आप एव गर्भीभूतास्ताः । तत्र अपामाहुतिसमवायित्वात् प्राधान्यविवक्षा — आपः पञ्चम्यामाहुतौ पुरुषवचसो भवन्तीति । न त्वाप एव केवलाः सोमादिकार्यमारभन्ते । न च आपोऽत्रिवृत्कृताः सन्तीति । त्रिवृत्कृतत्वेऽपि विशेष संज्ञालाभो दृष्टः — पृथिवीयमिमा आपोऽयमग्निरित्यन्यतमबाहुल्यनिमित्तः । तस्मात्समुदितान्येव भूतान्यब्बाहुल्यात्कर्मसमवायीनि सोमादिकार्यारम्भकारण्याप इत्युच्यन्ते । दृश्यते च द्रवबाहुल्यं सोमवृष्ट्यन्नरेतोदेहेषु । बहुद्रवं च शरीरं यद्यपि पार्थिवम् । तत्र पञ्चम्यामाहुतौ हुतायां रेतोरूपा आपो गर्भीभूताः ॥
इति अष्टमखण्डभाष्यम् ॥
इति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्तीति स उल्बावृतो गर्भो दश वा नव वा मासानन्तः शयित्वा यावद्वाथ जायते ॥ १ ॥
इति तु एवं तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्तीति व्याख्यातः एकः प्रश्नः । यत्तु द्युलोकादिमां प्रत्यावृत्तयोराहुत्योः पृथिवीं पुरुषं स्त्रियं क्रमेण आविश्य लोकं प्रत्युत्थायी भवतीति वाजसनेयके उक्तम् , तत्प्रासङ्गिकमिहोच्यते । इह च प्रथमे प्रश्ने उक्तम् — वेत्थ यदितोऽधि प्रजाः प्रयन्तीति । तस्य च अयमुपक्रमः — स गर्भोऽपां पञ्चमः परिणामविशेष आहुतिकर्मसमवायिनीनां श्रद्धाशब्दवाच्यानाम् उल्बावृतः उल्बेन जरायुणा आवृतः वेष्टितः दश वा नव वा मासान् अन्तः मातुः कुक्षौ शयित्वा यावद्वा यावता कालेन न्यूनेनातिरिक्तेन वा अथ अनन्तरं जायते ॥
उल्बावृत इत्यादि वैराग्यहेतोरिदमुच्यते । कष्टं हि मातुः कुक्षौ मूत्रपूरीषवातपित्तश्लेष्मादिपूर्णे तदनुलिप्तस्य गर्भस्योल्बाशुचिपटावृतस्य लोहितसरेतोशुचिबीजस्य मातुरशितपीतरसानुप्रवेशेन विवर्धमानस्य निरुद्धशक्तिबलवीर्यतेजःप्रज्ञाचेष्टस्य शयनम् । ततो योनिद्वारेण पीड्यमानस्य कष्टतरा निःसृतिर्जन्मेति वैराग्यं ग्राहयति, मुहूर्तमप्यसह्यं दश वा नव वा मासानतिदीर्घकालमन्तः शयित्वेति च ॥
स जातो यावदायुषं जीवति तं प्रेतं दिष्टमितोऽग्नय एव हरन्ति यत एवेतो यतः सम्भूतो भवति ॥ २ ॥
स एवं जातः यावदायुषं पुनः पुनर्घटीयन्त्रवद्गमनागमनाय कर्म कुर्वन् कुलालचक्रवद्वा तिर्यग्भ्रमणाय यावत्कर्मणोपात्तमायुः तावज्जीवति । तमेनं क्षीणायुषं प्रेतं मृतं दिष्टं कर्मणा निर्दिष्टं परलोकं प्रति — यदि चेज्जीवन् वैदिके कर्मणि ज्ञाने वा अधिकृतः — तमेनं मृतम् इतः अस्माद्ग्रामात् अग्नये अग्न्यर्थम् ऋत्विजो हरन्ति पुत्रा वा अन्त्यकर्मणे । यत एव इत आगतः अग्नेः सकाशात् श्रद्धाद्याहुतिक्रमेण, यतश्च पञ्चभ्योऽग्निभ्यः सम्भूतः उत्पन्नः भवति, तस्मै एव अग्नये हरन्ति स्वामेव योनिम् अग्निम् आपादयन्तीत्यर्थः ॥
इति नवमखण्डभाष्यम् ॥
तद्य इत्थं विदुः । ये चेमेऽरण्ये श्रद्धा तप इत्युपासते तेऽर्चिषमभिसम्भवन्त्यर्चिषोऽहरह्न आपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान्षडुदङ्ङेति मासाꣳस्तान् ॥ १ ॥
मासेभ्यः संवत्सरꣳ संवत्सरादादित्यमादित्याच्चन्द्रमसं चन्द्रमसो विद्युतं तत्पुरुषोऽमानवः स एनान्ब्रह्म गमयत्येष देवयानः पन्था इति ॥ २ ॥
‘वेत्थ यदितोऽधि प्रजाः प्रयन्ति’ (छा. उ. ५ । ३ । २) इत्ययं प्रश्नः प्रत्युपस्थितोऽपाकर्तव्यतया । तत् तत्र लोकं प्रति उत्थितानाम् अधिकृतानां गृहमेधिनां ये इत्थम् एवं यथोक्तं पञ्चाग्निदर्शनम् — द्युलोकाद्यग्निभ्यो वयं क्रमेण जाता अग्निस्वरूपाः पञ्चाग्न्यात्मानः — इत्येवं विदुः जानीयुः । कथमवगम्यते इत्थं विदुरिति गृहस्था एव उच्यन्ते नान्य इति । गृहस्थानां ये त्वनित्थंविदः केवलेष्टापूर्तदत्तपराः ते धूमादिना चन्द्रं गच्छन्तीति वक्ष्यति । ये च अरण्योपलक्षिता वैखानसाः परिव्राजकाश्च श्रद्धा तप इत्युपासते, तेषां च इत्थंविद्भिः सह अर्चिरादिना गमनं वक्ष्यति, पारिशेष्यादग्निहोत्राहुतिसम्बन्धाच्च गृहस्था एव गृह्यन्ते — इत्थं विदुरिति । ननु ब्रह्मचारिणोऽप्यगृहीता ग्रामश्रुत्या अरण्यश्रुत्या च अनुपलक्षिता विद्यन्ते, कथं पारिशेष्यसिद्धिः ? नैष दोषः । पुराणस्मृतिप्रामाण्यात् ऊर्ध्वरेतसां नैष्ठिकब्रह्मचारिणाम् उत्तरेणार्यम्णः पन्थाः प्रसिद्धः, अतः तेऽप्यरण्यवासिभिः सह गमिष्यन्ति । उपकुर्वाणकास्तु स्वाध्यायग्रहणार्था इति न विशेषनिर्देशार्हाः । ननु ऊर्ध्वरेतस्त्वं चेत् उत्तरमार्गप्रतिपत्तिकारणं पुराणस्मृतिप्रामाण्यादिष्यते, इत्थंवित्त्वमनर्थकं प्राप्तम् । न, गृहस्थान्प्रत्यर्थवत्त्वात् । ये गृहस्था अनित्थंविदः, तेषां स्वभावतो दक्षिणो धूमादिः पन्थाः प्रसिद्धः, तेषां य इत्थं विदुः सगुणं वा अन्यद्ब्रह्म विदुः, ‘अथ यदु चैवास्मिञ्शव्यं कुर्वन्ति यदि च नार्चिषमेव’ (छा. उ. ४ । १५ । ५) इति लिङ्गात् उत्तरेण ते गच्छन्ति । ननु ऊर्ध्वरेतसां गृहस्थानां च समाने आश्रमित्वे ऊर्ध्वरेतसामेव उत्तरेण पथा गमनं न गृहस्थानामिति न युक्तम् अग्निहोत्रादिवैदिककर्मबाहुल्ये च सति ; नैष दोषः, अपूता हि ते — शत्रुमित्रसंयोगनिमित्तौ हि तेषां रागद्वेषौ, तथा धर्माधर्मौ हिंसानुग्रहनिमित्तौ, हिंसानृतमायाब्रह्मचर्यादि च बह्वशुद्धिकारणमपरिहार्यं तेषाम् , अतोऽपूताः । अपूतत्वात् न उत्तरेण पथा गमनम् । हिंसानृतमायाब्रह्मचर्यादिपरिहाराच्च शुद्धात्मानो हि इतरे, शत्रुमित्ररागद्वेषादिपरिहाराच्च विरजसः ; तेषां युक्त उत्तरः पन्थाः । तथा च पौराणिकाः — ‘ये प्रजामीषिरेऽधीरास्ते श्मशानानि भेजिरे । ये प्रजां नेषिरे धीरास्तेऽमृतत्वं हि भेजिरे’ ( ? ) इत्याहुः । इत्थंविदां गृहस्थानामरण्यवासिनां च समानमार्गत्वेऽमृतत्वफले च सति, अरण्यवासिनां विद्यानर्थक्यं प्राप्तम् ; तथा च श्रुतिविरोधः — ‘न तत्र दक्षिणा यन्ति नाविद्वांसस्तपस्विनः’ (शत. ब्रा. १० । ५ । ४ । १६) इति, ‘स एनमविदितो न भुनक्ति’ (बृ. उ. १ । ४ । १५) इति च विरुद्धम् । न, आभूतसम्प्लवस्थानस्यामृतत्वेन विवक्षितत्वात् । तत्रैवोक्तं पौराणिकैः — ‘आभूतसम्प्लवं स्थानममृतत्वं हि भाष्यते’ (वि. पु. २ । ८ । ९७) इति । यच्च आत्यन्तिकममृतत्वम् , तदपेक्षया ‘न तत्र दक्षिणा यन्ति’ ‘स एनमविदितो न भुनक्ति’ इत्याद्याः श्रुतयः — इत्यतो न विरोधः । ‘न च पुनरावर्तन्ते’ (छा. उ. ८ । १५ । १) इति ‘इमं मानवमावर्तं नावर्तन्ते’ (छा. उ. ४ । १५ । ५) इत्यादि श्रुतिविरोध इति चेत् , न ; ‘इमं मानवम्’ इति विशेषणात् ‘तेषामिह न पुनरावृत्तिरस्ति’ (बृ. मा. ६ । १ । १८) इति च । यदि हि एकान्तेनैव नावर्तेरन् , इमं मानवम् इह इति च विशेषणमनर्थकं स्यात् । इममिह इत्याकृतिमात्रमुच्यत इति चेत् , न ; अनावृत्तिशब्देनैव नित्यानावृत्त्यर्थस्य प्रतीतत्वात् आकृतिकल्पना अनर्थिका । अतः इममिह इति च विशेषणार्थवत्त्वाय अन्यत्र आवृत्तिः कल्पनीया । न च सदेकमेवाद्वितीयमित्येवं प्रत्ययवतां मूर्धन्यनाड्या अर्चिरादिमार्गेण गमनम् , ‘ब्रह्मैव सन्ब्रह्माप्येति’ (बृ. उ. ४ । ४ । ६) ‘तस्मात्तत्सर्वमभवत्’ (बृ. उ. १ । ४ । ९) ‘न तस्य प्राणा उत्क्रामन्ति । ’ (बृ. उ. ४ । ४ । ६)‘अत्रैव समवलीयन्ते’ (बृ. उ. ३ । २ । ११) इत्यादिश्रुतिशतेभ्यः । ननु तस्माज्जीवादुच्चिक्रमिषोः प्राणा नोत्क्रामन्ति सहैव गच्छन्तीत्ययमर्थः कल्प्यत इति चेत् ; न, ‘अत्रैव समवलीयन्ते’ इति विशेषणानर्थक्यात् , ‘सर्वे प्राणा अनूत्क्रामन्ति’ (बृ. उ. ४ । ४ । २) इति च प्राणैर्गमनस्य प्राप्तत्वात् । तस्मादुत्क्रामन्तीत्यनाशङ्कैवैषा । यदापि मोक्षस्य संसारगतिवैलक्षण्यात्प्राणानां जीवेन सह आगमनमाशङ्क्य तस्मान्नोत्क्रामन्तीत्युच्यते, तदापि ‘अत्रैव समवलीयन्ते’ इति विशेषणमनर्थकं स्यात् । न च प्राणैर्वियुक्तस्य गतिरुपपद्यते जीवत्वं वा, सर्वगतत्वात्सदात्मनो निरवयवत्वात् प्राणसम्बन्धमात्रमेव हि अग्निविस्फुलिङ्गवज्जीवत्वभेदकारणमित्यतः तद्वियोगे जीवत्वं गतिर्वा न शक्या परिकल्पयितुम् , श्रुतयश्चेत्प्रमाणम् । न च सतोऽणुरवयवः स्फुटितो जीवाख्यः सद्रूपं छिद्रीकुर्वन् गच्छतीति शक्यं कल्पयितुम् । तस्मात् ‘तयोर्ध्वमायन्नमृतत्वमेति’ (छा. उ. ८ । ६ । ६) इति सगुणब्रह्मोपासकस्य प्राणैः सह नाड्या गमनम् , सापेक्षमेव च अमृतत्वम् , न साक्षान्मोक्ष इति गम्यते, ‘तदपराजिता पूस्तदैरं मदीयं सरः’ (छा. उ. ८ । ५ । ३) इत्याद्युक्त्वा ‘तेषामेवैष ब्रह्मलोकः’ (छा. उ. ८ । ५ । ४) इति विशेषणात् ॥
अतः पञ्चाग्निविदो गृहस्थाः, ये च इमे अरण्ये वानप्रस्थाः परिव्राजकाश्च सह नैष्ठिकब्रह्मचारिभिः श्रद्धा तप इत्येवमाद्युपासते श्रद्धधानास्तपस्विनश्चेत्यर्थः ; उपासनशब्दस्तात्पर्यार्थः ; इष्टापूर्ते दत्तमित्युपासत इति यद्वत् । श्रुत्यन्तरात् ये च सत्यं ब्रह्म हिरण्यगर्भाख्यमुपासते, ते सर्वे अर्चिषम् अर्चिरभिमानिनीं देवताम् अभिसम्भवन्ति प्रतिपद्यन्ते । समानमन्यत् चतुर्थगतिव्याख्यानेन । एष देवयानः पन्था व्याख्यातः सत्यलोकावसानः, न अण्डाद्बहिः, ‘यदन्तरापितरं मातरं च’ (ऋ. १० । ८८ । १५) इति मन्त्रवर्णात् ॥
अथ य इमे ग्राम इष्टापूर्ते दत्तमित्युपासते ते धूममभिसम्भवन्ति धूमाद्रात्रिं रात्रेरपरपक्षमपरपक्षाद्यान्षड्दक्षिणैति मासांस्तान्नैते संवत्सरमभिप्राप्नुवन्ति ॥ ३ ॥
अथेत्यर्थान्तरप्रस्तावनार्थः, य इमे गृहस्थाः ग्रामे, ग्राम इति गृहस्थानामसाधारणं विशेषणम् अरण्यवासिभ्यो व्यावृत्त्यर्थम् — यथा वानप्रस्थपरिव्राजकानामरण्यं विशेषणं गृहस्थेभ्यो व्यावृत्त्यर्थम् , तद्वत् ; इष्टापूर्ते इष्टमग्निहोत्रादि वैदिकं कर्म, पूर्तं वापीकूपतडागारामादिकरणम् ; दत्तं बहिर्वेदि यथाशक्त्यर्हेभ्यो द्रव्यसंविभागो दत्तम् ; इति एवंविधं परिचरणपरित्राणादि उपासते, इति—शब्दस्य प्रकारदर्शनार्थत्वात् । ते दर्शनवर्जितत्वाद्धूमं धूमाभिमानिनीं देवताम् अभिसम्भवन्ति प्रतिपद्यन्ते । तया अतिवाहिता धूमाद्रात्रिं रात्रिदेवतां रात्रेरपरपक्षदेवताम् एवमेव कृष्णपक्षाभिमानिनीम् अपरपक्षात् यान्षण्मासान् दक्षिणा दक्षिणां दिशमेति सविता, तान्मासान् दक्षिणायनषण्मासाभिमानिनीर्देवताः प्रतिपद्यन्त इत्यर्थः । सङ्घचारिण्यो हि षण्मासदेवता इति मासानिति बहुवचनप्रयोगः तासु । नैते कर्मिणः प्रकृताः संवत्सरं संवत्सराभिमानिनीं देवतामभिप्राप्नुवन्ति । कुतः पुनः संवत्सरप्राप्तिप्रसङ्गः, यतः प्रतिषिध्यते ? अस्ति हि प्रसङ्गः — संवत्सरस्य हि एकस्यावयवभूते दक्षिणोत्तरायणे, तत्र अर्चिरादिमार्गप्रवृत्तानामुदगयनमासेभ्योऽवयविनः संवत्सरस्य प्राप्तिरुक्ता ; अतः इहापि तदवयवभूतानां दक्षिणायनमासानां प्राप्तिं श्रुत्वा तदवयविनः संवत्सरस्यापि पूर्ववत्प्राप्तिरापन्नेति । अतः तत्प्राप्तिः प्रतिविध्यते — नैते संवत्सरमभिप्राप्नुवन्तीति ॥
मासेभ्यः पितृलोकं पितृलोकादाकाशमाकाशाच्चन्द्रमसमेष सोमो राजा तद्देवानामन्नं तं देवा भक्षयन्ति ॥ ४ ॥
मासेभ्यः पितृलोकं पितृलोकादाकाशम् आकाशाच्चन्द्रमसम् । कोऽसौ, यस्तैः प्राप्यते चन्द्रमाः ? य एष दृश्यतेऽन्तरिक्षे सोमो राजा ब्राह्मणानाम् , तदन्नं देवानाम् , तं चन्द्रमसमन्नं देवा इन्द्रादयो भक्षयन्ति । अतस्ते धूमादिना गत्वा चन्द्रभूताः कर्मिणो देवैर्भक्ष्यन्ते । ननु अनर्थाय इष्टादिकरणम् , यद्यन्नभूता देवैर्भक्ष्येरन् । नैष दोषः, अन्नमित्युपकरणमात्रस्य विवक्षितत्वात् — न हि ते कबलोत्क्षेपेण देवैर्भक्ष्यन्ते कं तर्हि, उपकरणमात्रं देवानां भवन्ति ते, स्त्रीपशुभृत्यादिवत् , दृष्टश्चान्नशब्द उपकरणेषु — स्त्रियोऽन्नं पशवोऽन्नं विशोऽन्नं राज्ञामित्यादि । न च तेषां स्त्र्यादीनां पुरुषोपभोग्यत्वेऽप्युपभोगो नास्ति । तस्मात्कर्मिणो देवानामुपभोग्या अपि सन्तः सुखिनो देवैः क्रीडन्ति । शरीरं च तेषां सुखोपभोगयोग्यं चन्द्रमण्डले आप्यमारभ्यते । तदुक्तं पुरस्तात् — श्रद्धाशब्दा आपो द्युलोकाग्नौ हुताः सोमो राजा सम्भवतीति । ता आपः कर्मसमवायिन्यः इतरैश्च भूतैरनुगता द्युलोकं प्राप्य चन्द्रत्वमापन्नाः शरीराद्यारम्भिका इष्टाद्युपासकानां भवन्ति । अन्त्यायां च शरीराहुतावग्नौ हुतायामग्निना दह्यमाने शरीरे तदुत्था आपो धूमेन सह ऊर्ध्वं यजमानमावेष्ट्य चन्द्रमण्डलं प्राप्य कुशमृत्तिकास्थानीया बाह्यशरीरारम्भिका भवन्ति । तदारब्धेन च शरीरेण इष्टादिफलमुपभुञ्जाना आसते ॥
तस्मिन्यावत्सम्पातमुषित्वाथैतमेवाध्वानं पुनर्निवर्तन्ते यथेतमाकाशमाकाशाद्वायुं वायुर्भूत्वा धूमो भवति धूमो भूत्वाभ्रं भवति ॥ ५ ॥
यावत् तदुपभोगनिमित्तस्य कर्मणः क्षयः, सम्पतन्ति येनेति सम्पातः कर्मणः क्षयः यावत्सम्पातं यावत्कर्मणः क्षय इत्यर्थः, तावत् तस्मिंश्चन्द्रमण्डले उषित्वा अथ अनन्तरम् एतमेव वक्ष्यमाणमध्वानं मार्गं पुनर्निवर्तन्ते । पुनर्निवर्तन्त इति प्रयोगात्पूर्वमप्यसकृच्चन्द्रमण्डलं गता निवृत्ताश्च आसन्निति गम्यते । तस्मादिह लोके इष्टादिकर्मोपचित्य चन्द्रं गच्छन्ति ; तत्क्षये च आवर्तन्ते ; क्षणमात्रमपि तत्र स्थातुं न लभ्यते, स्थितिनिमित्तकर्मक्षयात् — स्नेहक्षयादिव प्रदीपस्य ॥
तत्र किं येन कर्मणा चन्द्रमण्डलमारूढास्तस्य सर्वस्यक्षये तस्मादवरोहणम् , किं वा सावशेष इति । किं ततः ? यदि सर्वस्यैव क्षयः कर्मणः, चन्द्रमण्डलस्थस्यैव मोक्षः प्राप्नोति ; तिष्ठतु तावत्तत्रैव, मोक्षः स्यात् , न वेति ; तत आगतस्य इह शरीरोपभोगादि न सम्भवति । ‘ततः शेषेण’ (गौ. ध. २ । २ । २९) इत्यादिस्मृतिविरोधश्च स्यात् । नन्विष्टापूर्तदत्तव्यतिरेकेणापि मनुष्यलोके शरीरोपभोगनिमित्तानि कर्माण्यनेकानि सम्भवन्ति, न च तेषां चन्द्रमण्डले उपभोगः, अतोऽक्षीणानि तानि ; यन्निमित्तं चन्द्रमण्डलमारूढः, तान्येव क्षीणानीत्यविरोधः ; शेषशब्दश्च सर्वेषां कर्मत्वसामान्यादविरुद्धः ; अत एव च तत्रैव मोक्षः स्यादिति दोषाभावः ; विरुद्धानेकयोन्युपभोगफलानां च कर्मणाम् एकैकस्य जन्तोरारम्भकत्वसम्भवात् । न च एकस्मिञ्जन्मनि सर्वकर्मणां क्षय उपपद्यते, ब्रह्महत्यादेश्च एकैकस्य कर्मण अनेकजन्मारम्भकत्वस्मरणात् , स्थावरादिप्राप्तानां च अत्यन्तमूढानामुत्कर्षहेतोः कर्मण आरम्भकत्वासम्भवात् । गर्भभूतानां च स्रंसमानानां कर्मासम्भवे संसारानुपपत्तिः । तस्मात् न एकस्मिञ्जन्मनि सर्वेषां कर्मणामुपभोगः ॥
यत्तु कैश्चिदुच्यते — सर्वकर्माश्रयोपमर्देन प्रायेण कर्मणां जन्मारम्भकत्वम् । तत्र कानिचित्कर्माण्यनारम्भकत्वेनैव तिष्ठन्ति कानिचिज्जन्म आरभन्त इति नोपपद्यते, मरणस्य सर्वकर्माभिव्यञ्जकत्वात् , स्वगोचराभिव्यञ्जकप्रदीपवदिति । तदसत् , सर्वस्य सर्वात्मकत्वाभ्युपगमात् — न हि सर्वस्य सर्वात्मकत्वे देशकालनिमित्तावरुद्धत्वात्सर्वात्मनोपमर्दः कस्यचित्क्वचिदभिव्यक्तिर्वा सर्वात्मनोपपद्यते, तथा कर्मणामपि साश्रयाणां भवेत् — यथा च पूर्वानुभूतमनुष्यमयूरमर्कटादिजन्माभिसंस्कृताः विरुद्धानेकवासनाः मर्कटत्वप्रापकेन कर्मणा मर्कटजन्म आरभमाणेन नोपमृद्यन्ते — तथा कर्मण्यप्यन्यजन्मप्राप्तिनिमित्तानि नोपमृद्यन्त इति युक्तम् । यदि हि सर्वाः पूर्वजन्मानुभववासनाः उपमृद्येरन् , मर्कटजन्मनिमित्तेन कर्मणा मर्कटजन्मन्यारब्धे मर्कटस्य जातमात्रस्य मातुः शाखायाः शाखान्तरगमने मातुरुदरसंलग्नत्वादिकौशलं न प्राप्नोति, इह जन्मन्यनभ्यस्तत्वात् । न च अतीतानन्तरजन्मनि मर्कटत्वमेव आसीत्तस्येति शक्यं वक्तुम् , ‘तं विद्याकर्मणी समन्वारभेते पूर्वप्रज्ञा च’ (बृ. उ. ४ । ४ । २) इति श्रुतेः । तस्माद्वासनावन्नाशेषकर्मोपमर्द इति शेषकर्मसम्भवः । यत एवम् , तस्माच्छेषेणोपभुक्तात्कर्मणः संसार उपपद्यत इति न कश्चिद्विरोधः ॥
कोऽसावध्वा यं प्रति निवर्तन्त इति, उच्यते — यथेतं यथागतं निवर्तन्ते । ननु मासेभ्यः पितृलोकं पितृलोकादाकाशमाकाशाच्चन्द्रमसमिति गमनक्रम उक्तः, न तथा निवृत्तिः ; किं तर्हि, आकाशाद्वायुमित्यादि ; कथं यथेतमित्युच्यते । नैष दोषः, आकाशप्राप्तेस्तुल्यत्वात्पृथिवीप्राप्तेश्च । न च अत्र यथेतमेवेति नियमः, अनेवंविधमपि निवर्तन्ते ; पुनर्निवर्तन्त इति तु नियमः । अत उपलक्षणार्थमेतत् — यद्यथे तमिति । अतो भौतिकमाकाशं तावत्प्रतिपद्यन्ते — यास्तेषां चन्द्रमण्डले शरीरारम्भिका आप आसन् , तास्तेषां तत्रोपभोगनिमित्तानां कर्मणां क्षये विलीयन्ते — घृतसंस्थानमिवाग्निसंयोगे, ता विलीना अन्तरिक्षस्था आकाशभूता इति सूक्ष्माः भवन्ति । ता अन्तरिक्षाद्वायुर्भवन्ति, वायुप्रतिष्टा वायुभूता इतश्चामुतश्च ऊह्यमानाः ताभिः सह क्षीणकर्मा वायुभूतो भवति । वायुर्भूत्वा ताभिः सहैव धूमो भवति । धूमो भूत्वा अभ्रम् अब्भरणमात्ररूपो भवति ॥
अभ्रं भूत्वा मेघो भवति मेघो भूत्वा प्रवर्षति त इह व्रीहियवा ओषधिवनस्पतयस्तिलमाषा इति जायन्तेऽतो वै खलु दुर्निष्प्रपतरं यो यो ह्यन्नमत्ति यो रेतः सिञ्चति तद्भूय एव भवति ॥ ६ ॥
अभ्रं भूत्वा ततः सेचनसमर्थो मेघो भवति ; मेघो भूत्वा उन्नतेषु प्रदेशेष्वथ प्रवर्षति ; वर्षधारारूपेण शेषकर्मा पततीत्यर्थः । त इह व्रीहियवा ओषधिवनस्पतयस्तिलमाषा इत्येवंप्रकारा जायन्ते ; क्षीणकर्मणामनेकत्वात् बहुवचननिर्देशः । मेघादिषु पूर्वेष्वेकरूपत्वात् एकवचननिर्देशः । यस्माद्गिरितटदुर्गनदीसमुद्रारण्यमरुदेशादिसंनिवेशसहस्राणि वर्षधाराभिः पतितानाम् , अतः तस्माद्धेतोः वै खलु दुर्निष्प्रपतरं दुर्निष्क्रमणं दुर्निःसरणम् — यतो गिरितटादुदकस्रोतसोह्यमाना नदीः प्राप्नुवन्ति, ततः समुद्रम् , ततो मकरादिभिर्भक्ष्यन्ते ; तेऽप्यन्येन ; तत्रैव च सह मकरेण समुद्रे विलीनाः समुद्राम्भोभिर्जलधरैराकृष्टाः पुनर्वर्षधाराम्भिर्मरुदेशे शिलातटे वा अगम्ये पतितास्तिष्ठन्ति, कदाचिद्व्यालमृगादिपीता भक्षिताश्चान्यैः तेऽप्यन्यैरित्येवंप्रकाराः परिवर्तेरन् ; कदाचिदभक्ष्येषु स्थावरेषु जातास्तत्रैव शुष्येरन् ; भक्ष्येष्वपि स्थावरेषु जातानां रेतःसिग्देहसम्बन्धो दुर्लभ एव, बहुत्वात्स्थावराणाम् — इत्यतो दुर्निष्क्रमणत्वम् । अथवा अतः अस्माद्व्रीहियवादिभावात् दुर्निष्प्रपतरं दुर्निर्गमतरम् । दुर्निष्प्रपरमिति तकार एको लुप्तो द्रष्टव्यः ; व्रीहियवादिभावो दुर्निष्प्रपतः, तस्मादपि दुर्निष्प्रपताद्रेतःसिग्देहसम्बन्धो दुर्निष्प्रपततर इत्यर्थः ; यस्मादूर्ध्वरेतोभिर्बालैः पुंस्त्वरहितैः स्थविरैर्वा भक्षिता अन्तराले शीर्यन्ते, अनेकत्वादन्नादानाम् । कदाचित्काकतालीयवृत्त्या रेतःसिग्भिर्भक्ष्यन्ते यदा, तदा रेतःसिग्भावं गतानां कर्मणो वृत्तिलाभः । कथम् ? यो यो हि अन्नमत्ति अनुशयिभिः संश्लिष्टं रेतःसिक् , यश्च रेतः सिञ्चति ऋतुकाले योषिति, तद्भूय एव तदाकृतिरेव भवति ; तदवयवाकृतिभूयस्त्वं भूय इत्युच्यते रेतोरूपेण योषितो गर्भाशयेऽन्तः प्रविष्टोऽनुशयी, रेतसो रेतःसिगाकृतिभावितत्वात् , ‘सर्वेभ्योऽङ्गेभ्यस्तेजः सम्भूतम्’ (ऐ. उ. २ । १ । १) इति हि श्रुत्यन्तरात् । अतो रेतःसिगाकृतिरेव भवतीत्यर्थः । तथा हि पुरुषात्पुरुषो जायते गोर्गवाकृतिरेव न जात्यन्तराकृतिः, तस्माद्युक्तं तद्भूय एव भवतीति ॥
ये त्वन्ये अनुशयिभ्यश्चन्द्रमण्डलमनारुह्य इहैव पापकर्मभिर्घोरैर्व्रीहियवादिभावं प्रतिपद्यन्ते, पुनर्मनुष्यादिभावम् , तेषां नानुशयिनामिव दुर्निष्प्रपतरम् । कस्मात् ? कर्मणा हि तैर्व्रीहियवादिदेह उपात्त इति तदुपभोगनिमित्तक्षये व्रीह्यादिस्तम्बदेहविनाशे यथाकर्मार्जितं देहान्तरं नवं नवं जलूकावत्सङ्क्रमन्ते सविज्ञाना एव ‘सविज्ञानो भवति सविज्ञानमेवान्ववक्रामति’ (बृ. उ. ४ । ४ । २) इति श्रुत्यन्तरात् । यद्यप्युपसंहृतकरणाः सन्तो देहान्तरं गच्छन्ति, तथापि स्वप्नवत् देहान्तरप्राप्तिनिमित्तकर्मोद्भावितवासनाज्ञानेन सविज्ञाना एव देहान्तरं गच्छन्ति, श्रुतिप्रामाण्यात् । तथा अर्चिरादिना धूमादिना च गमनं स्वप्नं इवोद्भूतविज्ञानेन, लब्धवृत्तिकर्मनिमित्तत्वाद्गमनस्य । न तथा अनुशयिनां व्रीह्यादिभावेन जातानां सविज्ञानमेव रेतःसिग्योषिद्देहसम्बन्ध उपपद्यते, न हि व्रीह्यादिलवनकण्डनपेषणादौ च सविज्ञानानां स्थितिरस्ति । ननु चन्द्रमण्डलादप्यवरोहतां देहान्तरगमनस्य तुल्यत्वात् जलूकावत्सविज्ञानतैव युक्ता, तथा सति घोरो नरकानुभव इष्टापूर्तादिकारिणां चन्द्रमण्डलादारभ्य प्राप्तो यावद्ब्राह्मणादिजन्म ; तथा च सति, अनर्थायैव इष्टापूर्ताद्युपासनं विहितं स्यात् ; श्रुतेश्च अप्रामाण्यं प्राप्तम् , वैदिकानां कर्मणाम् अनर्थानुबन्धित्वात् । न, वृक्षारोहणपतनवद्विशेषसम्भवात् — देहाद्देहान्तरं प्रतिपित्सोः कर्मणो लब्धवृत्तित्वात् कर्मणोद्भावितेन विज्ञानेन सविज्ञानत्वं युक्तम् — वृक्षाग्रमारोहत इव फलं जिघृक्षोः । तथा अर्चिरादिना गच्छतां सविज्ञानत्वं भवेत् ; धूमादिना च चन्द्रमण्डलमारुरुक्षताम् । न तथा चन्द्रमण्डलादवरुरुक्षतां वृक्षाग्रादिव पततां सचेतनत्वम् — यथा च मुद्गराद्यभिहतानां तदभिघातवेदनानिमित्तसंमूर्छितप्रतिबद्धकरणानां स्वदेहेनैव देशाद्देशान्तरं नीयमानानां विज्ञानशून्यता दृष्टा, तथा चन्द्रमण्डलात् मानुषादिदेहान्तरं प्रति अवरुरुक्षतां स्वर्गभोगनिमित्तकर्मक्षयात् मृदिताब्देहानां प्रतिबद्धकरणानाम् । अतः ते अपरित्यक्तदेहबीजभूताभिरद्भिः मूर्छिता इव आकाशादिक्रमेण इमामवरुह्य कर्मनिमित्तजातिस्थावरदेहैः संश्लिष्यन्ते प्रतिबद्धकरणतया अनुद्भूतविज्ञाना एव । तथा लवनकण्डनपेषणसंस्कारभक्षणरसादिपरिणामरेतःसेककालेषु मूर्छितवदेव, देहान्तरारम्भकस्य कर्मणोऽलब्धवृत्तित्वात् । देहबीजभूताप्सम्बन्धापरित्यागेनैव सर्वास्ववस्थासु वर्तन्त इति जलूकावत् चेतनावत्त्वं न विरुध्यते । अन्तराले त्वविज्ञानं मूर्छितवदेवेत्यदोषः । न च वैदिकानां कर्मणां हिंसायुक्तत्वेनोभयहेतुत्वं शक्यमनुमातुम् , हिंसायाः शास्त्रचोदितत्वात् । ‘अहिंसन्सर्वभूतान्यन्यत्र तीर्थेभ्यः’ (छा. उ. ८ । १५ । १) इति श्रुतेः शास्त्रचोदिताया हिंसाया न अधर्महेतुत्वमभ्युपगम्यते । अभ्युपगतेऽप्यधर्महेतुत्वे मन्त्रैर्विषादिवत् तदपनयोपपत्तेः न दुःखकार्यारम्भणोपपत्तिः वैदिकानां कर्मणाम् — मन्त्रेणेव विषभक्षणस्येति ॥
तद्य इह रमणीयचरणा अभ्याशो ह यत्ते रमणीयां योनिमापद्येरन्ब्राह्मणयोनिं वा क्षत्रिययोनिं वा वैश्ययोनिं वाथ य इह कपूयचरणा अभ्याशो ह यत्ते कपूयां योनिमापद्येरञ्श्वयोनिं वा सूकरयोनिं वा चण्डालयोनिं वा ॥ ७ ॥
तत् तत्र तेष्वनुशयिनां ये इह लोके रमणीयं शोभनं चरणं शीलं येषां ते रमणीयचरणेनोपलक्षितः शोभनोऽनुशयः पुण्यं कर्म येषां ते — रमणीयचरणाः उच्यन्ते ; क्रौर्यानृतमायावर्जितानां हि शक्य उपलक्षयितुं शुभानुशयसद्भावः ; तेनानुशयेन पुण्येन कर्मणा चन्द्रमण्डले भुक्तशेषेण अभ्याशो ह क्षिप्रमेव, यदिति क्रियाविशेषणम् , ते रमणीयां क्रौर्यादिवर्जितां योनिमापद्येरन् प्राप्नुयुः ब्राह्मणयोनिं वा क्षत्रिययोनिं वा वैश्ययोनिं वा स्वकर्मानुरूपेण । अथ पुनर्येतद्विपरीताः कपूयचरणोपलक्षितकर्माणः अशुभानुशया अभ्याशो ह यत्ते कपूयां यथाकर्म योनिमापद्येरन् कपूयामेव धर्मसम्बन्धवर्जितां जुगुप्सितां योनिमापद्येरन् श्वयोनिं वा सूकरयोनिं वा चण्डालयोनिं वा स्वकर्मानुरूपेणैव ॥
अथैतयोः पथोर्न कतरेणचन तानीमानि क्षुद्राण्यसकृतावर्तीनि भूतानि भवन्ति जायस्व म्रियस्वेत्येतत्तृतीयꣳ स्थानं तेनासौ लोको न सम्पूर्यते तस्माज्जुगुप्सेत तदेष श्लोकः ॥ ८ ॥
ये तु रमणीयचरणा द्विजातयः, ते स्वकर्मस्थाश्चेदिष्टादिकारिणः, ते धूमादिगत्या गच्छन्त्यागच्छन्ति च पुनः पुनः, घटीयन्त्रवत् । विद्यां चेत्प्राप्नुयुः, तदा अर्चिरादिना गच्छन्ति ; यदा तु न विद्यासेविनो नापि इष्टादिकर्म सेवंते, तदा अथैतयोः पथोः यथोक्तयोरर्चिर्धूमादिलक्षणयोः न कतरेण अन्यतरेण चनापि यन्ति । तानीमानि भूतानि क्षुद्राणि दंशमशककीटादीन्यसकृदावर्तीनि भवन्ति । अतः उभयमार्गपरिभ्रष्टा हि असकृज्जायन्ते म्रियन्ते च इत्यर्थः । तेषां जननमरणसन्ततेरनुकरणमिदमुच्यते । जायस्व म्रियस्व इति ईश्वरनिमित्तचेष्टा उच्यते । जननमरणलक्षणेनैव कालयापना भवति, न तु क्रियासु शोभनेषु भोगेषु वा कालोऽस्तीत्यर्थः । एतत् क्षुद्रजन्तुलक्षणं तृतीयं पूर्वोक्तौ पन्थानावपेक्ष्य स्थानं संसरताम् , येनैवं दक्षिणमार्गगा अपि पुनरागच्छन्ति, अनधिकृतानां ज्ञानकर्मणोरगमनमेव दक्षिणेन पथेति, तेनासौ लोको न सम्पूर्यते । पञ्चमस्तु प्रश्नः पञ्चाग्निविद्यया व्याख्यातः । प्रथमो दक्षिणोत्तरमार्गाभ्यामपाकृतः । दक्षिणोत्तरयोः पथोर्व्यावर्तनापि — मृतानामग्नौ प्रक्षेपः समानः, ततो व्यावर्त्य अन्येऽर्चिरादिना यन्ति, अन्ये धूमादिना, पुनरुत्तरदक्षिणायने षण्मासान्प्राप्नुवन्तः संयुज्य पुनर्व्यावर्तन्ते, अन्ये संवत्सरमन्ये मासेभ्यः पितृलोकम् —
इति व्याख्याता । पुनरावृत्तिरपि क्षीणानुशयानां चन्द्रमण्डलादाकाशादिक्रमेण उक्ता । अमुष्य लोकस्यापूरणं स्वशब्देनैवोक्तम् — तेनासौ लोको न सम्पूर्यत इति । यस्मादेवं कष्टा संसारगतिः, तस्माज्जुगुप्सेत । यस्माच्च जन्ममरणजनितवेदनानुभवकृतक्षणाः क्षुद्रजन्तवो ध्वान्ते च घोरे दुस्तरे प्रवेशिताः — सागर इव अगाधेऽप्लवे निराशाश्चोत्तरणं प्रति, तस्माच्चैवंविधां संसारगति जुगुप्सेत बीभत्सेत घृणी भवेत् — मा भूदेवंविधे संसारमहोदधौ घोरे पात इति । तदेतस्मिन्नर्थे एषः श्लोकः पञ्चाग्निविद्यास्तुतये ॥
स्तेनो हिरण्यस्य सुरां पिबꣳश्च गुरोस्तल्पमावसन्ब्रह्महा चैते पतन्ति चत्वारः पञ्चमश्चाचरꣳस्तैरिति ॥ ९ ॥
स्तेनो हिरण्यस्य ब्राह्मणसुवर्णस्य हर्ता, सुरां पिबन् , ब्राह्मणः सन् , गुरोश्च तल्पं दारानावसन् , ब्रह्महा ब्राह्मणस्य हन्ता चेत्येते पतन्ति चत्वारः । पञ्चमश्च तैः सह आचरन्निति ॥
अथ ह य एतानेवं पञ्चाग्नीन्वेद न सह तैरप्याचरन्पाप्मना लिप्यते शुद्धः पूतः पुण्यलोको भवति य एवं वेद य एवं वेद ॥ १० ॥
अथ ह पुनः यो यथोक्तान्पञ्चाग्नीन्वेद, स तैरप्याचरन् महापातकिभिः सह न पाप्मना लिप्यते, शुद्ध एव । तेन पञ्चाग्निदर्शनेन पावितः यस्मात्पूतः, पुण्यो लोकः प्राजापत्यादिर्यस्य सोऽयं पुण्यलोकः भवति ; य एवं वेद यथोक्तं समस्तं पञ्चभिः प्रश्नैः पृष्टमर्थजातं वेद । द्विरुक्तिः समस्तप्रश्ननिर्णयप्रदर्शनार्था ॥
इति दशमखण्डभाष्यम् ॥
दक्षिणेन पथा गच्छतामन्नभाव उक्तः — ‘तद्देवानामन्नम् तं देवा भक्षयन्ति’ (छा. उ. ५ । १० । ४) इति ; क्षुद्रजन्तुलक्षणा च कष्टा संसारगतिरुक्ता । तदुभयदोषपरिजिहीर्षया वैश्वानरात्तृभावप्रतिपत्त्यर्थमुत्तरो ग्रन्थ आरभ्यते, ‘अत्स्यन्नं पश्यसि प्रियम्’ (छा. उ. ५ । १२ । २) इत्यादिलिङ्गात् । आख्यायिका तु सुखावबोधार्था विद्यासम्प्रदानन्यायप्रदर्शनार्था च —
प्राचीनशाल औपमन्यवः सत्ययज्ञः पौलुषिरिन्द्रद्युम्नो भाल्लवेयो जनः शार्कराक्ष्यो बुडिल आश्वतराश्विस्ते हैते महाशाला महाश्रोत्रियाः समेत्य मीमाꣳसां चक्रुः को न आत्मा किं ब्रह्मेति ॥ १ ॥
प्राचीनशाल इति नामतः, उपमन्योरपत्यमौपमन्यवः । सत्ययज्ञो नामतः, पुलुषस्यापत्यं पौलुषिः । तथेन्द्रद्युम्नो नामतः, भल्लवेरपत्यं भाल्लविः तस्यापत्यं भाल्लवेयः । जन इति नामतः, शर्कराक्षस्यापत्यं शार्कराक्ष्यः । बुडिलो नामतः, अश्वतराश्वस्यापत्यमाश्वतराश्विः । पञ्चापि ते हैते महाशालाः महागृहस्था विस्तीर्णाभिः शालाभिर्युक्ताः सम्पन्ना इत्यर्थः, महाश्रोत्रियाः श्रुताध्ययनवृत्तसम्पन्ना इत्यर्थः, ते एवंभूताः सन्तः समेत्य सम्भूय क्वचित् मीमांसां विचारणां चक्रुः कृतवन्त इत्यर्थः । कथम् ? को नः अस्माकमात्मा किं ब्रह्म — इति ; आत्मब्रह्मशब्दयोरितरेतरविशेषणविशेष्यत्वम् । ब्रह्मेति अध्यात्मपरिच्छिन्नमात्मानं निवर्तयति, आत्मेति च आत्मव्यतिरिक्तस्य आदित्यादिब्रह्मण उपास्यत्वं निवर्तयति । अभेदेन आत्मैव ब्रह्म ब्रह्मैव आत्मेत्येवं सर्वात्मा वैश्वानरो ब्रह्म स आत्मेत्येतत्सिद्धं भवति, ‘मूर्धा ते व्यपतिष्यत्’ ‘अन्धोऽभविष्यः’ इत्यादिलिङ्गात् ॥
ते ह सम्पादयाञ्चक्रुरुद्दालको वै भगवन्तोऽयमारुणिः सम्प्रतीममात्मानं वैश्वानरमध्येति तꣳ हन्ताभ्यागच्छामेति तं हाभ्याजग्मुः ॥ २ ॥
ते ह मीमांसन्तोऽपि निश्चयमलभमानाः सम्पादयाञ्चक्रुः सम्पादितवन्तः आत्मन उपदेष्टारम् । उद्दालको वै प्रसिद्धो नामतः, भगवन्तः पूजावन्तः, अयमारुणिः अरुणस्यापत्यं सम्प्रति सम्यगिममात्मानं वैश्वानरम् अस्मदभिप्रेतमध्येति स्मरति । तं हन्त इदानीमभ्यागच्छाम इत्येवं निश्चित्य तं ह अभ्याजग्मुः गतवन्तः तम् आरुणिम् ॥
स ह सम्पादयाञ्चकार प्रक्ष्यन्ति मामिमे महाशाला महाश्रोत्रियास्तेभ्यो न सर्वमिव प्रतिपत्स्ये हन्ताहमन्यमभ्यनुशासानीति ॥ ३ ॥
स ह तान् दृष्ट्वैव तेषामागमनप्रयोजनं बुद्ध्वा सम्पादयाञ्चकार । कथम् ? प्रक्ष्यन्ति मां वैश्वानरम् इमे महाशालाः महाश्रोत्रियाः, तेभ्योऽहं न सर्वमिव पृष्टं प्रतिपत्स्ये वक्तुं नोत्सहे ; अतः हन्ताहमिदानीमन्यम् एषामभ्यनुशासानि वक्ष्याम्युपदेष्टारमिति ॥
तान्होवाचाश्वपतिर्वै भगवन्तोऽयं कैकेयः सम्प्रतीममात्मानं वैश्वानरमध्येति तं हन्ताभ्यागच्छामेति तꣳ हाभ्याजग्मुः ॥ ४ ॥
एवं सम्पाद्य तान् ह उवाच — अश्वपतिर्वै नामतः भगवन्तः अयं केकयस्यापत्यं कैकेयः सम्प्रति सम्यगिममात्मानं वैश्वानरमध्येतीत्यादि समानम् ॥
तेभ्यो ह प्राप्तेभ्यः पृथगर्हाणि कारयाञ्चकार स ह प्रातः सञ्जिहान उवाच न मे स्तेनो जनपदे न कदर्यो न मद्यपो नानाहिताग्निर्नाविद्वान्न स्वैरी स्वैरिणी कुतोयक्ष्यमाणो वै भगवन्तोऽहमस्मि यावदेकैकस्मा ऋत्विजे धनं दास्यामि तावद्भगवद्भ्यो दास्यामि वसन्तु भगवन्त इति ॥ ५ ॥
तेभ्यो ह राजा प्राप्तेभ्यः पृथक्पृथगर्हाणि अर्हणानि पुरोहितैर्भृत्यैश्च कारयाञ्चकार कारितवान् । स ह अन्येद्युः राजा प्रातः सञ्जिहान उवाच विनयेन उपगम्य — एतद्धनं मत्त उपादध्वमिति । तैः प्रत्याख्यातो मयि दोषं पश्यन्ति नूनम् , यतो न प्रतिगृह्णन्ति मत्तो धनम् इति मन्वानः आत्मनः सद्वृत्ततां प्रतिपिपादयिषन्नाह — न मे मम जनपदे स्तेनः परस्वहर्ता विद्यते ; न कदर्यः अदाता सति विभवे ; न मद्यपः द्विजोत्तमः सन् ; न अनाहिताग्निः शतगुः ; न अविद्वान् अधिकारानुरूपम् ; न स्वैरी परदारेषु गन्ताः ; अत एव स्वैरिणी कुतः दुष्टचारिणी न सम्भवतीत्यर्थः । तैश्च न वयं धनेनार्थिन इत्युक्तः आह — अल्पं मत्वा एते धनं न गृह्णन्तीति, यक्ष्यमाणो वै कतिभिरहोभिरहं हे भगवन्तोऽस्मि । तदर्थं क्लृप्तं धनं मया यावदेकैकस्मै यथोक्तम् ऋत्विजे धनं दास्यामि, तावत् प्रत्येकं भगवद्भयोऽपि दास्यामि । वसन्तु भगवन्तः, पश्यन्तु च मम यागम् ॥
ते होचुर्येन हैवार्थेन पुरुषश्चरेत्तं हैव वदेदात्मानमेवेमं वैश्वानरं संप्रत्यध्येषितमेव नो ब्रूहीति ॥ ६ ॥
इत्युक्ताः ते ह ऊचुः — येन ह एव अर्थेन प्रयोजनेन यं प्रति चरेत् गच्छेत् पुरुषः, तं ह एवार्थं वदेत् । इदमेव प्रयोजनमागमनस्येत्ययं न्यायः सताम् । वयं च वैश्वानरज्ञानार्थिनः । आत्मानमेवेमं वैश्वानरं संप्रत्यध्येषि सम्यग्जानासि । अतस्तमेव नः अस्मभ्यं ब्रूहि ॥
तान्होवाच प्रातर्वः प्रतिवक्तास्मीति ते ह समित्पाणयः पूर्वाह्णे प्रतिचक्रमिरे तान्हानुपनीयैवैतदुवाच ॥ ७ ॥
इत्युक्तः तान् ह उवाच । प्रातः वः युष्मभ्यं प्रतिवक्तास्मि प्रतिवाक्यं दातास्मीत्युक्ताः ते ह राज्ञोऽभिप्रायज्ञाः समित्पाणयः समिद्भारहस्ताः अपरेद्युः पूर्वाह्णे राजानं प्रतिचक्रमिरे गतवन्तः । यत एवं महाशालाः महाश्रोत्रियाः ब्राह्मणाः सन्तः महाशालत्वाद्यभिमानं हित्वा समिद्भारहस्ताः जातितो हीनं राजानं विद्यार्थिनः विनयेनोपजग्मुः । तथा अन्यैर्विद्योपादित्सुभिर्भवितव्यम् । तेभ्यश्च अदाद्विद्याम् अनुपनीयैव उपनयनमकृत्वैव तान् । यथा योग्येभ्यो विद्यामदात् , तथा अन्येनापि विद्या दातव्येति आख्यायिकार्थः । एतद्वैश्वानरविज्ञानमुवाचेति वक्ष्यमाणेन सम्बन्धः ॥
इति एकादशखण्डभाष्यम् ॥
औपमन्यव कं त्वमात्मानमुपास्स इति दिवमेव भगवो राजन्निति होवाचैष वै सुतेजा आत्मा वैश्वानरो यं त्वमात्मानमुपास्से तस्मात्तव सुतं प्रसुतमासुतं कुले दृश्यते ॥ १ ॥
स कथमुवाचेति, आह — औपमन्यव हे कम् आत्मानं वैश्वानरं त्वमुपास्से इति पप्रच्छ । नन्वयमन्यायः — आचार्यः सन् शिष्यं पृच्छतीति । नैष दोषः, ‘यद्वेत्थ तेन मोपसीद ततस्त ऊर्ध्वं वक्ष्यामि’ (छा. उ. ७ । १ । १) इति न्यायदर्शनात् । अन्यत्राप्याचार्यस्य अप्रतिभावनवति शिष्ये प्रतिभोत्पादनार्थः प्रश्नो दृष्टोऽजातशत्रोः, ‘क्वैष तदाभूत्कुत एतदागात्’ (बृ. उ. २ । १ । १६) इति । दिवमेव द्युलोकमेव वैश्वानरमुपासे भगवो राजन् इति ह उवाच । एष वै सुतेजाः शोभनं तेजो यस्य सोऽयं सुतेजा इति प्रसिद्धो वैश्वानर आत्मा, आत्मनः अवयवभूतत्वात् । यं त्वम् आत्मानम् आत्मैकदेशम् उपास्से, तस्मात् सुतेजसो वैश्वानरस्य उपासनात् तव सुतमभिषुतं सोमरूपं कर्मणि प्रसुतं प्रकर्षेण च सुतम् आसुतं च अहर्गणादिषु तव कुले दृश्यते ; अतीव कर्मिणस्त्वत्कुलीना इत्यर्थः ॥
अत्स्यन्नं पश्यसि प्रियमत्त्यन्नं पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वानरमुपास्ते मूर्धा त्वेष आत्मन इति होवाच मूर्धा ते व्यपतिष्यद्यन्मां नागमिष्य इति ॥ २ ॥
अत्स्यन्नं दीप्ताग्निः सन् पश्यसि च पुत्रपौत्रादि प्रियमिष्टम् । अन्योऽप्यत्त्यन्नं पश्यति च प्रियं भवत्यस्य सुतं प्रसुतमासुतमित्यादि कर्मित्वं ब्रह्मवर्चसं कुले, यः कश्चित् एतं यथोक्तम् एवं वैश्वानरमुपास्ते । मूर्धा त्वात्मनो वैश्वानरस्य एष न समस्तो वैश्वानरः । अतः समस्तबुद्ध्या वैश्वानरस्योपासनात् मूर्धा शिरस्ते विपरीतग्राहिणो व्यपतिष्यत् विपतितमभविष्यत् यत् यदि मां नागतोऽभविष्यः । साध्वकार्षीः यन्मामागतोऽसीत्यभिप्रायः ॥
इति द्वादशखण्डभाष्यम् ॥
अथ होवाच सत्ययज्ञं पौलुषिं प्राचीनयोग्य कं त्वमात्मानमुपास्स इत्यादित्यमेव भगवो राजन्निति होवाचैष वै विश्वरूप आत्मा वैश्वानरो यं त्वमात्मानमुपास्से तस्मात्तव बहु विश्वरूपं कुले दृश्यते ॥ १ ॥
अथ होवाच सत्ययज्ञं पौलुषिम् — हे प्राचीनयोग्य कं त्वमात्मानमुपास्से इति ; आदित्यमेव भगवो राजन् इति ह उवाच । शुक्लनीलादिरूपत्वाद्विश्वरूपत्वमादित्यस्य, सर्वरूपत्वाद्वा, सर्वाणि रूपाणि हि त्वाष्ट्राणी यतः, अतो वा विश्वरूप आदित्यः ; तदुपासनात् तव बहु विश्वरूपमिहामुत्रार्थमुपकरणं दृश्यते कुले ॥
प्रवृत्तोऽश्वतरीरथो दासीनिष्कोऽत्स्यन्नं पश्यसि प्रियमत्त्यन्नं पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वानरमुपास्ते चक्षुष्ट्वेतदात्मन इति होवाचान्धोऽभविष्यो यन्मां नागमिष्य इति ॥ २ ॥
किञ्च त्वामनु प्रवृत्तः अश्वतरीभ्यां युक्तो रथोऽश्वतरीरथः दासीनिष्को दासीभिर्युक्तो निष्को हारो दाशीनिष्कः । अत्स्यन्नमित्यादि समानम् । चक्षुर्वैश्वानरस्य तु सविता । तस्य समस्तबुद्ध्योपासनात् अन्धोऽभविष्यः चक्षुर्हीनोऽभविष्यः यन्मां नागमिष्य इति पूर्ववत् ॥
इति त्रयोदशखण्डभाष्यम् ॥
अथ होवाचेन्द्रद्युम्नं भाल्लवेयं वैयाघ्रम्पद्य कं त्वमात्मानमुपास्स इति वायुमेव भगवो राजन्निति होवाचैष वै पृथग्वर्त्मात्मा वैश्वानरो यं त्वमात्मानमुपास्से तस्मात्त्वां पृथग्बलय आयन्ति पृथग्रथश्रेणयोऽनुयन्ति ॥ १ ॥
अथ ह उवाच इन्द्रद्युम्नं भाल्लवेयम् — वैयाघ्रपद्य कं त्वमात्मानमुपास्से इत्यादि समानम् । पृथग्वर्त्मा नाना वर्त्मानियस्य वायोरावहोद्वहादिभिर्भेदैः वर्तमानस्य सोऽयं पृथग्वर्त्मा वायुः । तस्मात् पृथग्वर्त्मात्मनो वैश्वानरस्योपासनात् पृथक् नानादिक्काः त्वां बलयः वस्त्रान्नादिलक्षणा बलयः आयन्ति आगच्छन्ति । पृथग्रथश्रेणयः रथपङ्क्तयोऽपि त्वामनुयन्ति ॥
अत्स्यन्नं पश्यसि प्रियमत्त्यन्नं पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वानरमुपास्ते प्राणस्त्वेष आत्मन इति होवाच प्राणस्य उदक्रमिष्यद्यन्मां नागमिष्य इति ॥ २ ॥
अत्स्यन्नमित्यादि समानम् । प्राणस्त्वेष आत्मन इति ह उवाच । प्राणस्ते तव उदक्रमिष्यत् उत्क्रान्तोऽभविष्यत् , यन्मां नागमिष्य इति ॥
इति चतुर्दशखण्डभाष्यम् ॥
अथ होवाच जनं शार्कराक्ष्य कं त्वमात्मानमुपास्स इत्याकाशमेव भगवो राजन्निति होवाचैष वै बहुल आत्मा वैश्वानरो यं त्वमात्मानमुपास्से तस्मात्त्वं बहुलोऽसि प्रजया च धनेन च ॥ १ ॥
अथ ह उवाच जनमित्यादि समानम् । एष वै बहुल आत्मा वैश्वानरः । बहुलत्वमाकाशस्य सर्वगतत्वात् बहुलगुणोपासनाच्च । त्वं बहुलोऽसि प्रजया च पुत्रपौत्रादिलक्षणया धनेन च हिरण्यादिना ॥
अत्स्यन्नं पश्यसि प्रियमत्त्यन्नं पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वानरमुपास्ते सन्देहस्त्वेष आत्मन इति होवाच सन्देहस्ते व्यशीर्यद्यन्मां नागमिष्य इति ॥ २ ॥
सन्देहस्त्वेष सन्देहः मध्यमं शरीरं वैश्वानरस्य । दिहेरुपचयार्थत्वात् मांसरुधिरास्थ्यादिभिश्च बहुलं शरीरं तत्सन्देहः ते तव शरीरं व्यशीर्यत् शीर्णमभविष्यत् यन्मां नागमिष्य इति ॥
इति पञ्चदशखण्डभाष्यम् ॥
अथ होवाच बुडिलमाश्वतराश्विं वैयाघ्रपद्य कं त्वमात्मानमुपास्स इत्यप एव भगवो राजन्निति होवाचैष वै रयिरात्मा वैश्वानरो यं त्वमात्मानमुपास्से तस्मात्त्वं रयिमान्पुष्टिमानसि ॥ १ ॥
अथ ह उवाच बुडिलमाश्वतराश्विमित्यादि समानम् । एष वै रयिरात्मा वैश्वानरो धनरूपः । अद्भ्योऽन्नं ततो धनमिति । तस्माद्रयिमान् धनवान् त्वं पुष्टिमांश्च शरीरेण पुष्टेश्चान्ननिमित्तत्वात् ॥
अत्स्यन्नं पश्यसि प्रियमत्त्यन्नं पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वानरमुपास्ते बस्तिस्त्वेष आत्मन इत होवाच बस्तिस्ते व्यभेत्स्यद्यन्मां नागमिष्य इति ॥ २ ॥
बस्तिस्त्वेष आत्मनो वैश्वानरस्य, बस्तिः मूत्रसङ्ग्रहस्थानम् , बस्तिस्ते व्यभेत्स्यत् भिन्नोऽभविष्यत् यन्मां नागमिष्य इति ॥
इति षोडशखण्डभाष्यम् ॥
अथ होवाचोद्दालकमारुणिं गौतम कं त्वमात्मानमुपास्स इति पृथिवीमेव भगवो राजन्निति होवाचैष वै प्रतिष्ठात्मा वैश्वानरो यं त्वमात्मानमुपास्से तस्मात्त्वं प्रतिष्ठितोऽसि प्रजया च पशुभिश्च ॥ १ ॥
अत्स्यन्नं पश्यसि प्रियमत्त्यन्नं पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वानरमुपास्ते पादौ त्वेतावात्मन इति होवाच पादौ ते व्यम्लास्येतां यन्मां नागमिष्य इति ॥ २ ॥
अथ ह उवाच उद्दालकमित्यादि समानम् । पृथिवीमेव भगवो राजन्निति ह उवाच । एष वै प्रतिष्ठा पादौ वैश्वानरस्य । पादौ ते व्यम्लास्येतां विम्लानावभविष्यतां श्लथीभूतौ यन्मां नागमिष्य इति ॥
इति सप्तदशखण्डभाष्यम् ॥
तान्होवाचैते वै खलु यूयं पृथगिवेममात्मानं वैश्वानरं विद्वांसोऽन्नमत्थ यस्त्वेतमेवं प्रादेशमात्रमभिविमानमात्मानं वैश्वानरमुपास्ते स सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मस्वन्नमत्ति ॥ १ ॥
तान् यथोक्तवैश्वानरदर्शनवतो ह उवाच — एते यूयम् , वै खल्वित्यनर्थकौ, यूयं पृथगिव अपृथक्सन्तमिममेकं वैश्वानरमात्मानं विद्वांसः अन्नमत्थ, परिच्छिन्नात्मबुद्ध्येत्येतत् —हस्तिदर्शन इव जात्यन्धाः । यस्त्वेतमेवं यथोक्तावयवैः द्युमूर्धादिभिः पृथिवीपादन्तैर्विशिष्टमेकं प्रादेशमात्रं प्रादेशैः द्युमूर्धादिभिः पृथिवीपादान्तैः अध्यात्मं मीयते ज्ञायत इति प्रादेशमात्रम् । मुखादिषु वा करणेष्वत्तृत्वेन मीयत इति प्रादेशमात्रः । द्युलोकादिपृथिव्यन्तप्रदेशपरिमाणो वा प्रादेशमात्रः । प्रकर्षेण शास्त्रेण आदिश्यन्त इति प्रादेशा द्युलोकादय एव तावत्परिमाणः प्रादेशमात्रः । शाखान्तरे तु मूर्धादिश्चिबुकप्रतिष्ठ इति प्रादेशमात्रं कल्पयन्ति । इह तु न तथा अभिप्रेतः, ‘तस्य ह वा एतस्यात्मनः’ (छा. उ. ५ । १८ । २) इत्याद्युपसंहारात् । प्रत्यगात्मतया अभिविमीयतेऽहमिति ज्ञायत इत्यभिविमानः तमेतमात्मानं वैश्वानरम् — विश्वान्नरान्नयति पुण्यपापानुरूपां गतिं सर्वात्सैष ईश्वरो वैश्वानरः, विश्वो नर एव वा सर्वात्मत्वात् , विश्वैर्वा नरैः प्रत्यगात्मतया प्रविभज्य नीयत इति वैश्वानरः तमेवमुपास्ते यः, सोऽदन् अन्नादी सर्वेषु लोकेषु द्युलोकादिषु सर्वेषु भूतेषु चराचरेषु सर्वेष्वात्मसु शरीरेन्द्रियमनोबुद्धिषु, तेषु हि आत्मकल्पनाव्यपदेशः, प्राणिनामन्नमत्ति, वैश्वानरवित्सर्वात्मा सन् अन्नमत्ति । न यथा अज्ञाः पिण्डमात्राभिमानः सन् इत्यर्थः ॥
तस्य ह वा एतस्यात्मनो वैश्वानरस्य मूर्धैव सुतेजाश्चक्षुर्विश्वरूपः प्राणः पृथग्वर्त्मात्मा सन्देहो बहुलो बस्तिरेव रयिः पृथिव्येव पादावुर एव वेदिर्लोमानि बर्हिर्हृदयं गार्हपत्यो मनोऽन्वाहार्यपचन आस्यमाहवनीयः ॥ २ ॥
कस्मादेवम् ? यस्मात्तस्य ह वै प्रकृतस्यैव एतस्य आत्मनो वैश्वानरस्य मूर्धैव सुतेजाः चक्षुर्विश्वरूपः प्राणः पृथग्वर्त्मात्मा सन्देहः बहुलो बस्तिरेव रयिः पृथिव्येव पादौ । अथवा विध्यर्थमेतद्वचनम् — एवमुपास्य इति । अथेदानीं वैश्वानरविदो भोजनेऽग्निहोत्रं सम्पिपादयिषन् आह — एतस्य वैश्वानरस्य भोक्तुः उर एव वेदिः, आकारसामान्यात् । लोमानि बर्हिः, वेद्यामिवोरसि लोमान्यास्तीर्णानि दृश्यन्ते । हृदयं गार्हपत्यः, हृदयाद्धि मनः प्रणीतमिवानन्तरी भवति ; अतोऽन्वाहार्यपचनोऽग्निः मनः । आस्यं मुखमाहवनीय इव आहवनीयो हूयतेऽस्मिन्नन्नमिति ॥
इति अष्टादशखण्डभाष्यम् ॥
तद्यद्भक्तं प्रथममागच्छेत्तद्धोमीयं स यां प्रथमामाहुतिं जुहुयात्तां जुहुयात्प्राणाय स्वाहेति प्राणस्तृप्यति ॥ १ ॥
तत् तत्रैवं सति यद्भक्तं प्रथमं भोजनकाले आगच्छेद्भोजनार्थम् , तद्धोमीयं तद्धोतव्यम् , अग्निहोत्रसम्पन्मात्रस्य विवक्षितत्वान्नाग्निहोत्राङ्गेतिकर्तव्यताप्राप्तिरिह ; स भोक्ता यां प्रथमामाहुतिं जुहुयात् , तां कथं जुहुयादिति, आह — प्राणाय स्वाहेत्यनेन मन्त्रेण ; आहुतिशब्दात् अवदानप्रमाणमन्नं प्रक्षिपेदित्यर्थः । तेन प्राणस्तृप्यति ॥
प्राणे तृप्यति चक्षुस्तृप्यति चक्षुषि तृप्यत्यादित्यस्तृप्यत्यादित्ये तृप्यति द्यौस्तृप्यति दिवि तृप्यन्त्यां यत्किञ्च द्यौश्चादित्यश्चाधितिष्ठतस्तत्तृप्यति तस्यानुतृप्तिं तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा ब्रह्मवर्चसेनेति ॥ २ ॥
प्राणे तृप्यति चक्षुस्तृप्यति, चक्षुषि तृप्यति आदित्यो द्यौश्चेत्यादि तृप्यति, यच्चान्यत् द्यौश्च आदित्यश्च स्वामित्वेनाधितिष्ठतः तच्च तृप्यति, तस्य तृप्तिमनु स्वयं भुञ्जानः तृप्यति एवं प्रत्यक्षम् । किं च प्रजादिभिश्च । तेजः शरीरस्था दीप्तिः उज्ज्वलत्वं प्रागल्भ्यं वा, ब्रह्मवर्चसं वृत्तस्वाध्यायनिमित्तं तेजः ॥
इति एकोनविंशखण्डभाष्यम् ॥
अथ यां द्वितीयां जुहुयात्तां जुहुयाद्व्यानाय स्वाहेति व्यानस्तृप्यति ॥ १ ॥
व्याने तृप्यति श्रोत्रं तृप्यति श्रोत्रे तृप्यति चन्द्रमास्तृप्यति चन्द्रमसि तृप्यति दिशस्तृप्यन्ति दिक्षु तृप्यन्तीषु यत्किञ्च दिशश्च चन्द्रमाश्चाधितिष्ठन्ति तत्तृप्यति तस्यानु तृप्तिं तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा ब्रह्मवर्चसेनेति ॥ २ ॥
इति विंशः खण्डः ॥
अथ यां तृतीयां जुहुयात्तां जुहुयादपानाय स्वाहेत्यपानस्तृप्यति ॥ १ ॥
अपाने तृप्यति वाक्तृप्यति वाचि तृप्यन्त्यामग्निस्तृप्यत्यग्नौ तृप्यति पृथिवी तृप्यति पृथिव्यां तृप्यन्त्यां यत्किञ्च पृथिवी चाग्निश्चाधितिष्ठतस्तत्तृप्यति तस्यानु तृप्तिं तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा ब्रह्मवर्चसेनेति ॥ २ ॥
इति एकविंशः खण्डः ॥
अथ यां चतुर्थीं जुहुयात्तां जुहुयात्समानाय स्वाहेति समानस्तृप्यति ॥ १ ॥
समाने तृप्यति मनस्तृप्यति मनसि तृप्यति पर्जन्यस्तृप्यति पर्जन्ये तृप्यति विद्युत्तृप्यति विद्युति तृप्यन्त्यां यत्किञ्च विद्युच्च पर्जन्यश्चाधितिष्ठतस्तत्तृप्यति तस्यानु तृप्तिं तृप्यति प्रजया पसुभिरन्नाद्येन तेजसा ब्रह्मवर्चसेनेति ॥ २ ॥
इति द्वाविंशः खण्डः ॥
अथ यां पञ्चमीं जुहुयात्तां जुहुयादुदानाय स्वाहेत्युदानस्तृप्यति ॥ १ ॥
उदाने तृप्यति त्वक्तृप्यति त्वचि तृप्यन्त्यां वायुस्तृप्यति वायौ तृप्यत्याकाशस्तृप्यत्याकाशे तृप्यति यत्किञ्च वायुश्चाकाशश्चाधितिष्ठतस्तत्तृप्यति तस्यानु तृप्तिं प्रजया पशुभिरन्नाद्येन तेजसा ब्रह्मवर्चसेन ॥ २ ॥
अथ यां द्वितीयां तृतीयां चतुर्थीं पञ्चमीमिति समानम् ॥
इति त्रयोविंशखण्डभाष्यम् ॥
स य इदमविद्वानग्निहोत्रं जुहोति यथाङ्गारानपोह्य भस्मनि जुहुयात्तादृक्तत्स्यात् ॥ १ ॥
स यः कश्चित् इदं वैश्वानरदर्शनं यथोक्तम् अविद्वान्सन् अग्निहोत्रं प्रसिद्धं जुहोति, यथा अङ्गारानाहुतियोग्यानपोह्यानाहुतिस्थाने भस्मनि जुहुयात् , तादृक् तत्तुल्यं तस्य तदग्निहोत्रहवनं स्यात् , वैश्वानरविदः अग्निहोत्रमपेक्ष्य — इति प्रसिद्धाग्निहोत्रनिन्दया वैश्वानरविदोऽग्निहोत्रं स्तूयते ॥
अथ य एतदेवं विद्वानग्निहोत्रं जुहोति तस्य सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मसु हुतं भवति ॥ २ ॥
अतश्च एतद्विशिष्टमग्निहोत्रम् । कथम् ? अथ य एतदेवं विद्वान् अग्निहोत्रं जुहोति, तस्य यथोक्तवैश्वानरविज्ञानवतः सर्वेषु लोकेष्वित्याद्युक्तार्थम् , हुतम् अन्नमत्ति इत्यनयोरेकार्थत्वात् ॥
तद्यथेषीकातूलमग्नौ प्रोतं प्रदूयेतैवं हास्य सर्वे पाप्मानः प्रदूयन्ते य एतदेवं विद्वानग्निहोत्रं जुहोति ॥ ३ ॥
किञ्च तद्यथा इषीकायास्तूलम् अग्नौ प्रोतं प्रक्षिप्तं प्रदूयेत प्रदह्येत क्षिप्रम् , एवं ह अस्य विदुषः सर्वात्मभूतस्य सर्वान्नानामत्तुः सर्वे निरवशिष्टाः पाप्मानः धर्माधर्माख्याः अनेकजन्मसञ्चिताः इह च प्राग्ज्ञानोत्पत्तेः ज्ञानसहभाविनश्च प्रदूयन्ते प्रदह्येरन् वर्तमानशरीरारम्भकपाप्मवर्जम् ; लक्ष्यं प्रति मुक्तेषुवत् प्रवृत्तफलत्वात् तस्य न दाहः । य एतदेवं विद्वान् अग्निहोत्रं जुहोति भुङ्क्ते ॥
तस्मादु हैवंविद्यद्यपि चण्डालायोच्छिष्टं प्रयच्छेदात्मनि हैवास्य तद्वैश्वानरे हुतं स्यादिति तदेष श्लोकः ॥ ४ ॥
स यद्यपि चण्डालाय उच्छिष्टानर्हाय उच्छिष्टं दद्यात् प्रतिषिद्धमुच्छिष्टदानं यद्यपि कुर्यात् , आत्मनि हैव अस्य चण्डालदेहस्थे वैश्वानरे तद्धुतं स्यात् न अधर्मनिमित्तम् —इति विद्यामेव स्तौति । तदेतस्मिन्स्तुत्यर्थे श्लोकः मन्त्रोऽप्येष भवति ॥
यथेह क्षुधिता बाला मातरं पर्युपासत एवं सर्वाणि भूतान्यग्निहोत्रमुपासत इत्यग्निहोत्रमुपासत इति ॥ ५ ॥
यथा इह लोके क्षुधिता बुभुक्षिता बाला मातरं पर्युपासते — कदा नो माता अन्नं प्रयच्छतीति, एवं सर्वाणि भूतान्यन्नादानि एवंविदः अग्निहोत्रं भोजनमुपासते — कदा त्वसौ भोक्ष्यत इति, जगत्सर्वं विद्वद्भोजनेन तृप्तं भवतीत्यर्थः । द्विरुक्तिरध्यायपरिसमाप्त्यर्था ॥
इति चतुर्विंशखण्डभाष्यम् ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ छान्दोग्योपनिषद्भाष्ये पञ्चमोऽध्यायः समाप्तः ॥