श्रीमच्छङ्करभगवत्पूज्यपादविरचितम्

छान्दोग्योपनिषद्भाष्यम्

करतलकलिताद्वयात्मतत्त्वं क्षपितदुरन्तचिरन्तनप्रमोहम् ।
उपचितमुदितोदितैर्गुणौघैः उपनिषदामयमुज्जहार भाष्यम् ।।

यद्यपि दिग्देशकालादिभेदशून्यं ब्रह्म ‘सत् . . . एकमेवाद्वितीयम्’ ‘आत्मैवेदं सर्वम्’ इति षष्ठसप्तमयोरधिगतम् , तथापि इह मन्दबुद्धीनां दिग्देशादिभेदवद्वस्त्विति एवंभाविता बुद्धिः न शक्यते सहसा परमार्थाविषया कर्तुमिति, अनधिगम्य च ब्रह्म न पुरुषार्थसिद्धिरिति, तदधिगमाय हृदयपुण्डरीकदेशः उपदेष्टव्यः । यद्यपि सत्सम्यक्प्रत्ययैकविषयं निर्गुणं च आत्मतत्त्वम् , तथापि मन्दबुद्धीनां गुणवत्त्वस्येष्टत्वात् सत्यकामादिगुणवत्त्वं च वक्तव्यम् । तथा यद्यपि ब्रह्मविदां स्त्र्यादिविषयेभ्यः स्वयमेवोपरमो भवति, तथाप्यानेकजन्मविषयसेवाभ्यासजनिता विषयविषया तृष्णा न सहसा निवर्तयितुं शक्यत इति ब्रह्मचर्यादिसाधनविशेषो विधातव्यः । तथा यद्यप्यात्मैकत्वविदां गन्तृगमनगन्तव्याभावादविद्यादिशेषस्थितिनिमित्तक्षये गगन इव विद्युदुद्भूत इव वायुः दग्धेन्धन इव अग्निः स्वात्मन्येव निवृत्तिः, तथापि गन्तृगमनादिवासितबुद्धीनां हृदयदेशगुणविशिष्टब्रह्मोपासकानां मूर्धन्यया नाड्या गतिर्वक्तव्येत्यष्टमः प्रपाठक आरभ्यते । दिग्देशगुणगतिफलभेदशून्यं हि परमार्थसदद्वयं ब्रह्म मन्दबुद्धीनामसदिव प्रतिभाति । सन्मार्गस्थास्तावद्भवन्तु ततः शनैः परमार्थसदपि ग्राहयिष्यामीति मन्यते श्रुतिः —
अथ यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाशस्तस्मिन्यदन्तस्तदन्वेष्टव्यं तद्वाव विजिज्ञासितव्यमिति ॥ १ ॥
अथ अनन्तरं यदिदं वक्ष्यमाणं दहरम् अल्पं पुण्डरीकं पुण्डरीकसदृशं वेश्मेव वेश्म, द्वारपालादिमत्त्वात् । अस्मिन् ब्रह्मपुरे ब्रह्मणः परस्य पुरम् — राज्ञोऽनेकप्रकृतिमद्यथा पुरम् , तथेदमनेकेन्द्रियमनोबुद्धिभिः स्वाम्यर्थकारिभिर्युक्तमिति ब्रह्मपुरम् । पुरे च वेश्म राज्ञो यथा, तथा तस्मिन्ब्रह्मपुरे शरीरे दहरं वेश्म, ब्रह्मण उपलब्ध्यधिष्ठानमित्यर्थः । यथा विष्णोः सालग्रामः । अस्मिन्हि स्वविकारशुङ्गे देहे नामरूपव्याकरणाय प्रविष्टं सदाख्यं ब्रह्म जीवेन आत्मनेत्युक्तम् । तस्मादस्मिन्हृदयपुण्डरीके वेश्मनि उपसंहृतकरणैर्ब्राह्मविषयविरक्तैः विशेषतो ब्रह्मचर्यसत्यसाधनाभ्यां युक्तैः वक्ष्यमाणगुणवद्ध्यायमानैः ब्रह्मोपलभ्यत इति प्रकरणार्थः । दहरः अल्पतरः अस्मिन्दहरे वेश्मनि वेश्मनः अल्पत्वात्तदन्तर्वर्तिनोऽल्पतरत्वं वेश्मनः । अन्तराकाशः आकाशाख्यं ब्रह्म । ‘आकाशो वै नाम’ (छा. उ. ८ । १४ । १) इति हि वक्ष्यति । आकाश इव अशरीरत्वात् सूक्ष्मत्वसर्वगतत्वसामान्याच्च । तस्मिन्नाकाशाख्ये यदन्तः मध्ये तदन्वेष्टव्यम् । तद्वाव तदेव च विशेषेण जिज्ञासितव्यं गुर्वाश्रयश्रवणाद्युपायैरन्विष्य च साक्षात्करणीयमित्यर्थः ॥
तं चेद्ब्रूयुर्यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाशः किं तदत्र विद्यते यदन्वेष्टव्यं यद्वाव विजिज्ञासितव्यमिति स ब्रूयात् ॥ २ ॥
तं चेत् एवमुक्तवन्तमाचार्यं यदि ब्रूयुः अन्तेवासिनश्चोदयेयुः ; कथम् ? यदिदमस्मिन्ब्रह्मपुरे परिच्छिन्ने अन्तः दहरं पुण्डरीकं वेश्म, ततोऽप्यन्तः अल्पतर एव आकाशः । पुण्डरीक एव वेश्मनि तावत्किं स्यात् । किं ततोऽल्पतरे खे यद्भवेदित्याहुः । दहरोऽस्मिन्नन्तराकाशः किं तदत्र विद्यते, न किञ्चन विद्यत इत्यभिप्रायः । यदि नाम बदरमात्रं किमपि विद्यते, किं तस्यान्वेषणेन विजिज्ञासनेन वा फलं विजिज्ञासितुः स्यात् ? अतः यत्तत्रान्वेष्टव्यं विजिज्ञासितव्यं वा न तेन प्रयोजनमित्युक्तवतः स आचार्यो ब्रूयादिति श्रुतेर्वचनम् ॥
यावान्वा अयमाकाशस्तावानेषोऽन्तर्हृदय आकाश उभे अस्मिन्द्यावापृथिवी अन्तरेव समाहिते उभावग्निश्च वायुश्च सूर्याचन्द्रमसावुभौ विद्युन्नक्षत्राणि यच्चास्येहास्ति यच्च नास्ति सर्वं तदस्मिन्समाहितमिति ॥ ३ ॥
शृणुत — तत्र यद्ब्रूथ पुण्डरीकान्तःस्थस्य खस्याल्पत्वात् तत्स्थमल्पतरं स्यादिति, तदसत् । न हि खं पुण्डरीकवेश्मगतं पुण्डरीकादल्पतरं मत्वा अवोचं दहरोऽस्मिन्नन्तराकाश इति । किं तर्हि, पुण्डरीकमल्पं तदनुविधायि तत्स्थमन्तःकरणं पुण्डरीकाकाशपरिच्छिन्नं तस्मिन्विशुद्धे संहृतकरणानां योगिनां स्वच्छ इवोदके प्रतिबिम्बरूपमादर्श इव च शुद्धे स्वच्छं विज्ञानज्योतिःस्वरूपावभासं तावन्मात्रं ब्रह्मोपलभ्यत इति दहरोऽस्मिन्नन्तराकाश इत्यवोचाम अन्तःकरणोपाधिनिमित्तम् । स्वतस्तु यावान्वै प्रसिद्धः परिमाणतोऽयमाकाशः भौतिकः, तावानेषोऽन्तर्हृदये आकाशः यस्मिन्नन्वेष्टव्यं विजिज्ञासितव्यं च अवोचाम । नाप्याकाशतुल्यपरिमाणत्वमभिप्रेत्य तावानित्युच्यते । किं तर्हि, ब्रह्मणोऽनुरूपस्य दृष्टान्तान्तरस्याभावात् । कथं पुनर्न आकाशसममेव ब्रह्मेत्यवगम्यते, ‘येनावृतं खं च दिवं महीं च’ (तै. ना. १), ‘तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः’ (तै. उ. २ । १ । १), ‘एतस्मिन्नु खल्वक्षरे गार्ग्याकाशः’ (बृ. उ. ३ । ८ । ११) इत्यादिश्रुतिभ्यः । किं च उभे अस्मिन्द्यावापृथिवी ब्रह्माकाशे बुद्ध्युपाधिविशिष्टे अन्तरेव समाहिते सम्यगाहिते स्थिते । ‘यथा वा अरा नाभौ’ (छा. उ. ७ । १५ । १) इत्युक्तं हि ; तथा उभावग्निश्च वायुश्चेत्यादि समानम् । यच्च अस्य आत्मन आत्मीयत्वेन देहवतोऽस्ति विद्यते इह लोके । तथा यच्च आत्मीयत्वेन न विद्यते । नष्टं भविष्यच्च नास्तीत्युच्यते । न तु अत्यन्तमेवासत् , तस्य हृद्याकाशे समाधानानुपपत्तेः ॥
तं चेद्ब्रूयुरस्मिꣳश्चेदिदं ब्रह्मपुरे सर्वꣳ समाहितꣳ सर्वाणि च भूतानि सर्वे च कामा यदैतज्जरा वाप्नोति प्रध्वंसते वा किं ततोऽतिशिष्यत इति ॥ ४ ॥
तं चेत् एवमुक्तवन्तं ब्रूयुः पुनरन्तेवासिनः — अस्मिंश्चेत् यथोक्ते चेत् यदि ब्रह्मपुरे ब्रह्मपुरोपलक्षितान्तराकाशे इत्यर्थः । इदं सर्वं समाहितं सर्वाणि च भूतानि सर्वे च कामाः । कथमाचार्येणानुक्ताः कामा अन्तेवासिभिरुच्यन्ते ? नैष दोषः । यच्च अस्य इहास्ति यच्च नास्तीत्युक्ता एव हि आचार्येण कामाः । अपि च सर्वशब्देन च उक्ता एव कामाः । यदा यस्मिन्काले एतच्छरीरं ब्रह्मपुराख्यं जरा वलीपलितादिलक्षणा वयोहानिर्वा आप्नोति, शस्त्रादिना वा वृक्णं प्रध्वंसते विस्रंसते विनश्यति, किं ततोऽन्यदतिशिष्यते ? घटाश्रितक्षीरदधिस्नेहादिवत् घटनाशे देहनाशेऽपि देहाश्रयमुत्तरोत्तरं पूर्वपूर्वनाशान्नश्यतीत्यभिप्रायः । एवं प्राप्ते नाशे किं ततोऽन्यत् यथोक्तादतिशिष्यते अवतिष्ठते, न किञ्चनावतिष्ठत इत्यभिप्रायः ॥
स ब्रूयान्नास्य जरयैतज्जीर्यति न वधेनास्य हन्यत एतत्सत्यं ब्रह्मपुरमस्मिन्कामाः समाहिता एष आत्मापहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः सत्यकामः सत्यसङ्कल्पो यथा ह्येवेह प्रजा अन्वाविशन्ति यथानुशासनं यं यमन्तमभिकामा भवन्ति यं जनपदं यं क्षेत्रभागं तं तमेवोपजीवन्ति ॥ ५ ॥
एवमन्तेवासिभिश्चोदितः स आचार्यो ब्रूयात् तन्मतिमपनयन् । कथम् ? अस्य देहस्य जरया एतत् यथोक्तमन्तराकाशाख्यं ब्रह्म यस्मिन्सर्वं समाहितं न जीर्यति देहवन्न विक्रियत इत्यर्थः । न च अस्य वधेन शस्त्रादिघातेन एतद्धन्यते, यथा आकाशम् ; किमु ततोऽपि सूक्ष्मतरमशब्दमस्पर्शं ब्रह्म देहेन्द्रियादिदोषैर्न स्पृश्यत इत्यर्थः । कथं देहेन्द्रियादिदोषैर्न स्पृश्यत इति एतस्मिन्नवसरे वक्तव्यं प्राप्तम् , तत्प्रकृतव्यासङ्गो मा भूदिति नोच्यते । इन्द्रविरोचनाख्यायिकायामुपरिष्टाद्वक्ष्यामो युक्तितः । एतत्सत्यमवितथं ब्रह्मपुरं ब्रह्मैव पुरं ब्रह्मपुरम् ; शरीराख्यं तु ब्रह्मपुरं ब्रह्मोपलक्षणार्थत्वात् । तत्तु अनृतमेव, ‘वाचारम्भणं विकारो नामधेयम्’ (छा. उ. ६ । १ । ४), (छा. उ. ६ । १ । ५), (छा. उ. ६ । १ । ६) इति श्रुतेः । तद्विकारो अनृतेऽपरि देहशुङ्गे ब्रह्मोपलभ्यत इति ब्रह्मपुरमित्युक्तं व्यावहारिकम् । सत्यं तु ब्रह्मपुरमेतदेव ब्रह्म, सर्वव्यवहारास्पदत्वात् । अतः अस्मिन्पुण्डरीकोपलक्षिते ब्रह्मपुरे सर्वे कामाः, ये बहिर्भवद्भिः प्रार्थ्यन्ते, ते अस्मिन्नेव स्वात्मनि समाहिताः । अतः तत्प्राप्त्युपायमेवानुतिष्ठत, बाह्यविषयतृष्णां त्यजत इत्यभिप्रायः । एष आत्मा भवतां स्वरूपम् । शृणुत तस्य लक्षणम् — अपहतपाप्मा, अपहतः पाप्मा धर्माधर्माख्यो यस्य सोऽयमपहतपाप्मा । तथा विजरः विगतजरः विमृत्युश्च । तदुक्तं पूर्वमेव न वधेनास्य हन्यत इति ; किमर्थं पुनरुच्यते ? यद्यपि देहसम्बन्धिभ्यां जरामृत्युभ्यां न सम्बन्ध्यते, अन्यथापि सम्बन्धस्ताभ्यां स्यादित्याशङ्कानिवृत्त्यर्थम् । विशोकः विगतशोकः । शोको नाम इष्टादिवियोगनिमित्तो मानसः सन्तापः । विजिघत्सः विगताशनेच्छः । अपिपासः अपानेच्छः । ननु अपहतपाप्मत्वेन जरादयः शोकान्ताः प्रतिषिद्धा एव भवन्ति, कारणप्रतिषेधात् । धर्माधर्मकार्या हि ते इति । जरादिप्रतिषेधेन वा धर्माधर्मयोः कार्याभावे विद्यमानयोरप्यसत्समत्वमिति पृथक्प्रतिषेधोऽनर्थकः स्यात् । सत्यमेवम् , तथापि धर्मकार्यानन्दव्यतिरेकेण स्वाभाविकानन्दो यथेश्वरे, ‘विज्ञानमानन्दं ब्रह्म’ (बृ. उ. ३ । ९ । २८) इति श्रुतेः, तथा अधर्मकार्यजरादिव्यतिरेकेणापि जरादिदुःखस्वरूपं स्वाभाविकं स्यादित्याशङ्क्येत । अतः युक्तस्तन्निवृत्तये जरादीनां धर्माधर्माभ्यां पृथक्प्रतिषेधः । जरादिग्रहणं सर्वदुःखोपलक्षणार्थम् । पापनिमित्तानां तु दुःखानामानन्त्यात्प्रत्येकं च तत्प्रतिषेधस्य अशक्यत्वात् सर्वदुःखप्रतिषेधार्थं युक्तमेवापहतपाप्मत्ववचनम् । सत्याः अवितथाः कामाः यस्य सोऽयं सत्यकामः । वितथा हि संसारिणां कामाः ; ईश्वरस्य तद्विपरीताः । तथा कामहेतवः सङ्कल्पा अपि सत्याः यस्य स सत्यसङ्कल्पः । सङ्कल्पाः कामाश्च सुद्घसत्त्वोपाधिनिमित्ताः ईश्वरस्य, चित्रगुवत् ; न स्वतः ‘नेति नेति’ (बृ. उ. २ । ३ । ६) इत्युक्तत्वात् । यथोक्तलक्षण एष आत्मा विज्ञेयो गुरुभ्यः शास्त्रतश्च आत्मसंवेद्यतया च स्वाराज्यकामैः । न चेद्विज्ञायते को दोषः स्यादिति, शृणुत अत्र दोषं दृष्टान्तेन — यथा ह्येव इह लोके प्रजाः अन्वाविशन्ति अनुवर्तन्ते यथानुशासनम् ; यथेह प्रजाः अन्यं स्वामिनं मन्यमानाः तस्य स्वामिनो यथा यथानुशासनं तथा तथान्वाविशन्ति । किम् ? यं यमन्तं प्रत्यन्तं जनपदं क्षेत्रभागं च अभिकामाः अर्थिन्यः भवन्ति आत्मबुद्ध्यनुरूपम् , तं तमेव च प्रत्यन्तादिम् उपजीवन्तीति । एष दृष्टान्तः अस्वातन्त्र्यदोषं प्रति पुण्यफलोपभोगे ॥
तद्यथेह कर्मजितो लोकः क्षीयत एवमेवामुत्र पुण्यजितो लोकः क्षीयते तद्य इहात्मानमननुविद्य व्रजन्त्येताꣳश्च सत्यान्कामाꣳस्तेषाꣳ सर्वेषु लोकेष्वकामचारो भवत्यथ य इहात्मानमनुविद्य व्रजन्त्येताꣳश्च सत्यान्कामांस्तेषाꣳ सर्वेषु लोकेषु कामचारो भवति ॥ ६ ॥
अथ अन्यो दृष्टान्तः तत्क्षयं प्रति तद्यथेहेत्यादिः । तत् तत्र यथा इह लोके तासामेव स्वाम्यनुशासनानुवर्तिनीनां प्रजानां सेवादिजितो लोकः पराधीनोपभोगः क्षीयते अन्तवान्भवति । अथ इदानीं दार्ष्टान्तिकमुपसंहरति — एवमेव अमुत्र अग्निहोत्रादिपुण्यजितो लोकः पराधीनोपभोगः क्षीयत एवेति । उक्तः दोषः एषामिति विषयं दर्शयति — तद्य इत्यादिना । तत् तत्र ये इह अस्मिंल्लोके ज्ञानकर्मणोरधिकृताः योग्याः सन्तः आत्मानं यथोक्तलक्षणं शास्त्राचार्योपदिष्टमननुविद्य यथोपदेशमनु स्वसंवेद्यतामकृत्वा व्रजन्ति देहादस्मात्प्रयन्ति, य एतांश्च यथोक्तान् सत्यान् सत्यसङ्कल्पकार्यांश्च स्वात्मस्थान्कामान् अननुविद्य व्रजन्ति, तेषां सर्वेषु लोकेषु अकामचारः अस्वतन्‍त्रता भवति — यथा राजानुशासनानुवर्तिनीनां प्रजानामित्यर्थः । अथ ये अन्ये इह लोके आत्मानं शास्त्राचार्योपदेशमनुविद्य स्वात्मसंवेद्यतामापाद्य व्रजन्ति यथोक्तांश्च सत्यान्कामान् , तेषां सर्वेषु लोकेषु कामचारो भवति — राज्ञ इव सार्वभौमस्य इह लोके ॥
इति प्रथमखण्डभाष्यम् ॥
स यदि पितृलोककामो भवति सङ्कल्पादेवास्य पितरः समुत्तिष्ठन्ति तेन पितृलोकेन सम्पन्नो महीयते ॥ १ ॥
कथं सर्वेषु लोकेषु कामचारो भवतीति, उच्यते — य आत्मानं यथोक्तलक्षणं हृदि साक्षात्कृतवान् वक्ष्यमाणब्रह्मचर्यादिसाधनसम्पन्नः सन् तत्स्थांश्च सत्यान्कामान् ; स त्यक्तदेहः यदि पितृलोककामः पितरो जनयितारः त एव सुखहेतुत्वेन भोग्यत्वात् लोका उच्यन्ते, तेषु कामो यस्य तैः पितृभिः सम्बन्धेच्छा यस्य भवति, तस्य सङ्कल्पमात्रादेव पितरः समुत्तिष्ठन्ति आत्मसम्बन्धितामापद्यन्ते, विशुद्धसत्त्वतया सत्यसङ्कल्पत्वात् ईश्वरस्येव । तेन पितृलोकेन भोगेन सम्पन्नः सम्पत्तिः इष्टप्राप्तिः तया समृद्धः महीयते पूज्यते वर्धते वा महिमानमनुभवति ॥
अथ यदि मातृलोककामो भवति सङ्कल्पादेवास्य मातरः समुत्तिष्ठन्ति तेन मातृलोकेन सम्पन्नो महीयते ॥ २ ॥
अथ यदि भ्रातृलोककामो भवति सङ्कल्पादेवास्य भ्रातरः समुत्तिष्ठन्ति तेन भ्रातृलोकेन सम्पन्नो महीयते ॥ ३ ॥
अथ यदि स्वसृलोककामो भवति सङ्कल्पादेवास्य स्वसारः समुत्तिष्ठन्ति तेन स्वसृलोकेन सम्पन्नो महीयते ॥ ४ ॥
अथ यदि सखिलोककामो भवति सङ्कल्पादेवास्य सखायः समुत्तिष्ठन्ति तेन सखिलोकेन सम्पन्नो महीयते ॥ ५ ॥
अथ यदि गन्धमाल्यलोककामो भवति सङ्कल्पादेवास्य गन्धमाल्ये समुत्तिष्ठतस्तेन गन्धमाल्यलोकेन सम्पन्नो महीयते ॥ ६ ॥
अथ यद्यन्नपानलोककामो भवति सङ्कल्पादेवास्यान्नपाने समुत्तिष्ठतस्तेनान्नपानलोकेन सम्पन्नो महीयते ॥ ७ ॥
अथ यदि गीतवादित्रलोककामो भवति सङ्कल्पादेवास्य गीतवादित्रे समुत्तिष्ठतस्तेन गीतवादित्रलोकेन सम्पन्नो महीयते ॥ ८ ॥
अथ यदि स्त्रीलोककामो भवति सङ्कल्पादेवास्य स्त्रियः समुत्तिष्ठन्ति तेन स्त्रीलोकेन सम्पन्नो महीयते ॥ ९ ॥
समानमन्यत् । मातरो जनयित्र्यः अतीताः सुखहेतुभूताः सामर्थ्यात् । न हि दुःखहेतुभूतासु ग्रामसूकरादिजन्मनिमित्तासु मातृषु विशुद्धसत्त्वस्य योगिनः इच्छा तत्सम्बन्धो वा युक्तः ॥
यं यमन्तमभिकामो भवति यं कामं कामयते सोऽस्य सङ्कल्पादेव समुत्तिष्ठति तेन सम्पन्नो महीयते ॥ १० ॥
यं यमन्तं प्रदेशमभिकामो भवति, यं च कामं कामयते यथोक्तव्यतिरेकेणापि, सः अस्यान्तः प्राप्तुमिष्टः कामश्च सङ्कल्पादेव समुत्तिष्ठत्यस्य । तेन इच्छाविघाततया अभिप्रेतार्थप्राप्त्या च सम्पन्नो महीयते इत्युक्तार्थम् ॥
इति द्वितीयखण्डभाष्यम् ॥
त इमे सत्याः कामा अनृतापिधानास्तेषां सत्यानां सतामनृतमपिधानं यो यो ह्यस्येतः प्रैति न तमिह दर्शनाय लभते ॥ १ ॥
यथोक्तात्मध्यानसाधनानुष्ठानं प्रति साधकानामुत्साहजननार्थमनुक्रोशन्त्याह — कष्टमिदं खलु वर्तते, यत्स्वात्मस्थाः शक्यप्राप्या अपि त इमे सत्याः कामाः अनृतापिधानाः, तेषामात्मस्थानां स्वाश्रयाणामेव सतामनृतं बाह्यविषयेषु स्त्र्यन्नभोजनाच्छादनादिषु तृष्णा तन्निमित्तं च स्वेच्छाप्रचारत्वं मिथ्याज्ञाननिमित्तत्वादनृतमित्युच्यते । तन्निमित्तं सत्यानां कामानामप्राप्तिरिति अपिधानमिवापिधानम् । कथमनृतापिधाननिमित्तं तेषामलाभ इति, उच्यते — यो यो हि यस्मादस्य जन्तोः पुत्रो भ्राता वा इष्टः इतः अस्माल्लोकात् पॆति प्रगच्छति म्रियते, तमिष्टं पुत्रं भ्रातरं वा स्वहृदयाकाशे विद्यमानमपि इह पुनर्दर्शनायेच्छन्नपि न लभते ॥
अथ ये चास्येह जीवा ये च प्रेता यच्चान्यदिच्छन्न लभते सर्वं तदत्र गत्वा विन्दतेऽत्र ह्यस्यैते सत्याः कामा अनृतापिधानास्तद्यथापि हिरण्यनिधिं निहितमक्षेत्रज्ञा उपर्युपरि सञ्चरन्तो न विन्देयुरेवमेवेमाः सर्वाः प्रजा अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्त्यनृतेन हि प्रत्यूढाः ॥ २ ॥
अथ पुनः ये च अस्य विदुषः जन्तोर्जीवाः जीवन्तीह पुत्राः भ्रात्रादयो वा, ये च प्रेताः मृताः इष्टाः सम्बन्धिनः, यच्चान्यदिह लोके वस्त्रान्नपानादि रत्नानि वा वस्त्विच्छन् न लभते, तत्सर्वमत्र हृदयाकाशाख्ये ब्रह्मणि गत्वा यथोक्तेन विधिना विन्दते लभते । अत्र अस्मिन्हार्दाकाशे हि यस्मात् अस्य ते यथोक्ताः सत्याः कामाः वर्तन्ते अनृतापिधानाः । कथमिव तदन्याय्यमिति, उच्यते — तत् तत्र यथा हिरण्यनिधिं हिरण्यमेव पुनर्ग्रहणाय निधातृभिः निधीयत इति निधिः तं हिरण्यनिधिं निहितं भूमेरधस्तान्निक्षिप्तम् अक्षेत्रज्ञाः निधिशास्त्रैर्निधिक्षेत्रमजानन्तः ते निधेः उपर्युपरि सञ्चरन्तोऽपि निधिं न विन्देयुः शक्यवेदनमपि, एवमेव इमाः अविद्यावत्यः सर्वा इमाः प्रजाः यथोक्तं हृदयाकाशाख्यं ब्रह्मलोकं ब्रह्मैव लोकः ब्रह्मलोकः तम् अहरहः प्रत्यहं गच्छन्त्योऽपि सुषुप्तकाले न विन्दन्ति न लभन्ते — एषोऽहं ब्रह्मलोकभावमापन्नोऽस्म्यद्येति । अनृतेन हि यथोक्तेन हि यस्मात् प्रत्यूढाः हृताः, स्वरूपादविद्यादिदोषैर्बहिरपकृष्टा इत्यर्थः । अतः कष्टमिदं वर्तते जन्तूनां यत्स्वायत्तमपि ब्रह्म न लभ्यते इत्यभिप्रायः ॥
स वा एष आत्मा हृदि तस्यैतदेव निरुक्तं हृद्ययमिति तस्माद्धृदयमहरहर्वा एवंवित्स्वर्गं लोकमेति ॥ ३ ॥
स वै यः ‘आत्मापहतपाप्मा’ इति प्रकृतः, वै - शब्देन तं स्मारयति । एषः विवक्षित आत्मा हृदि हृदयपुण्डरीके आकाशशब्देनाभिहितः । तस्य एतस्य हृदयस्य एतदेव निरुक्तं निर्वचनम् , नान्यत् । हृदि अयमात्मा वर्तत इति यस्मात् , तस्माद्धृदयम् , हृदयनामनिर्वचनप्रसिद्ध्यापि स्वहृदये आत्मेत्यवगन्तव्यमित्यभिप्रायः । अहरहर्वै प्रत्यहम् एवंवित् हृदि अयमात्मेति जानन् स्वर्गं लोकं हार्दं ब्रह्म एति प्रतिपद्यते । ननु अनेवंविदपि सुषुप्तकाले हार्दं ब्रह्म प्रतिपद्यते एव, ‘सता सोम्य तदा सम्पन्नः’ (छा. उ. ६ । ८ । १) इत्युक्तत्वात् । बाढमेवम् , तथाप्यस्ति विशेषः — यथा जानन्नजानंश्च सर्वो जन्तुः सद्ब्रह्मैव, तथापि तत्त्वमसीति प्रतिबोधितः विद्वान् — सदेव नान्योऽस्मि — इति जानन् सदेव भवति ; एवमेव विद्वानविद्वांश्च सुषुप्ते यद्यपि सत्सम्पद्यते, तथाप्येवंविदेव स्वर्गं लोकमेतीत्युच्यते । देहपातेऽपि विद्याफलस्यावश्यम्भावित्वादित्येष विशेषः ॥
अथ य एष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यत एष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेति तस्य ह वा एतस्य ब्रह्मणो नाम सत्यमिति ॥ ४ ॥
सुषुप्तकाले स्वेन आत्मना सता सम्पन्नः सन् सम्यक्प्रसीदतीति जाग्रत्स्वप्नयोर्विषयेन्द्रियसंयोगजातं कालुष्यं जहातीति सम्प्रसादशब्दो यद्यपि सर्वजन्तूनां साधारणः, तथापि एवंवित् स्वर्गं लोकमेतीति प्रकृतत्वात् एष सम्प्रसाद इति संनिहितवद्यत्नविशेषात् सः अथेदं शरीरं हित्वा अस्माच्छरीरात्समुत्थाय शरीरात्मभावनां परित्यज्येत्यर्थः । न तु आसनादिव समुत्थायेति इह युक्तम् , स्वेन रूपेणेति विशेषणात् — न हि अन्यत उत्थाय स्वरूपं सम्पत्तव्यम् । स्वरूपमेव हि तन्न भवति प्रतिपत्तव्यं चेत्स्यात् । परं परमात्मलक्षणं विज्ञप्तिस्वभावं ज्योतिरुपसम्पद्य स्वास्थ्यमुपगम्येत्येतत् । स्वेन आत्मीयेन रूपेण अभिनिष्पद्यते, प्रागेतस्याः स्वरूपसम्पत्तेरविद्यया देहमेव अपरं रूपम् आत्मत्वेनोपगत इति तदपेक्षया इदमुच्यते — स्वेन रूपेणेति । अशरीरता हि आत्मनः स्वरूपम् । यत्स्वं परं ज्योतिः स्वरूपमापद्यते सम्प्रसादः, एष आत्मेति ह उवाच — स ब्रूयादिति यः श्रुत्या नियुक्तः अन्तेवासिभ्यः । किं च एतदमृतम् अविनाशि भूमा ‘यो वै भूमा तदमृतम्’ (छा. उ. ७ । २४ । १) इत्युक्तम् । अत एवाभयम् , भूम्नो द्वितीयाभावात् । अत एतद्ब्रह्मेति । तस्य ह वा एतस्य ब्रह्मणो नाम अभिधानम् । किं तत् ? सत्यमिति । सत्यं हि अवितथं ब्रह्म । ‘तत्सत्यं स आत्मा’ (छा. उ. ६ । ८ । ७) इति हि उक्तम् । अथ किमर्थमिदं नाम पुनरुच्यते ? तदुपासनविधिस्तुत्यर्थम् ॥
तानि ह वा एतानि त्रीण्यक्षराणि सतीयमिति तद्यत्सत्तदमृतमथ यत्ति तन्मर्त्यमथ यद्यं तेनोभे यच्छति यदनेनोभे यच्छति तस्माद्यमहरहर्वा एवंवित्स्वर्गं लोकमेति ॥ ५ ॥
तानि ह वा एतानि ब्रह्मणो नामाक्षराणि त्रीण्येतानि सतीयमिति, सकारस्तकारो यमिति च । ईकारस्तकारे उच्चारणार्थोऽनुबन्धः, ह्रस्वेनैवाक्षरेण पुनः प्रतिनिर्देशात् । तेषां तत् तत्र यत् सत् सकारः तदमृतं सद्ब्रह्म — अमृतवाचकत्वादमृत एव सकारस्तकारान्तो निर्दिष्ठः । अथ यत्ति तकारः तन्मर्त्यम् । अथ यत् यम् अक्षरम् , तेनाक्षरेणामृतमर्त्याख्ये पूर्वे उभे अक्षरे यच्छति नियमयति वशीकरोत्यात्मनेत्यर्थः । यत् यस्मात् अनेन यमित्येतेन उभे यच्छति, तस्मात् यम् । संयते इव हि एतेन यमा लक्ष्येते । ब्रह्मनामाक्षरस्यापि इदममृतत्वादिधर्मवत्त्वं महाभाग्यम् , किमुत नामवतः — इत्युपस्यत्वाय स्तूयते ब्रह्म नामनिर्वचनेन । एवं नामवतो वेत्ता एवंवित् । अहरहर्वा एवंवित्स्वर्गं लोकमेतीत्युक्तार्थम् ॥
इति तृतीयखण्डभाष्यम् ॥
अथ य आत्मा स सेतुर्विधृतिरेषां लोकानामसम्भेदाय नैतꣳ सेतुमहोरात्रे तरतो न जरा न मृत्युर्न शोको न सुकृतं न दुष्कृतꣳ सर्वे पाप्मानोऽतो निवर्तन्तेऽपहतपाप्मा ह्येष ब्रह्मलोकः ॥ १ ॥
अथ य आत्मेति । उक्तलक्षणो यः सम्प्रसादः, तस्य स्वरूपं वक्ष्यमाणैरुक्तैरनुक्तैश्च गुणैः पुनः स्तूयते, ब्रह्मचर्यसाधनसम्बन्धार्थम् । य एषः यथोक्तलक्षणः आत्मा, स सेतुरिव सेतुः । विधृतिः विधरणः । अनेन हि सर्वं जगद्वर्णाश्रमादिक्रियाकारकफलादिभेदनियमैः कर्तुरनुरूपं विदधता विधृतम् । अध्रियमाणं हि ईश्वरेणेदं विश्वं विनश्येद्यतः, तस्मात्स सेतुः विधृतिः । किमर्थं स सेतुरिति, आह — एषां भूरादीनां लोकानां कर्तृकर्मफलाश्रयाणाम् असम्भेदाय अविदारणाय अविनाशायेत्येतत् । किंविशिष्टश्चासौ सेतुरिति, आह — नैतम् , सेतुमात्मानमहोरात्रे सर्वस्य जनिमतः परिच्छेदके सती नैतं तरतः । यथा अन्ये संसारिणः कालेन अहोरात्रादिलक्षणेन परिच्छेद्या, न तथा अयं काल परिच्छेद्य इत्यभिप्रायः, ‘यस्मादर्वाक्संवत्सरोऽहोभिः परिवर्तते’ (छा. उ. ६ । ८ । ७) इति श्रुत्यन्तरात् । अत एव एनं न जरा तरति न प्राप्नोति । तथा न मृत्युः न शोकः न सुकृतं न दुष्कृतम् , सुकृतदुष्कृते धर्माधर्मौ । प्राप्तिरत्र तरणशब्देन अभिप्रेता, नातिक्रमणम् । कारणं हि आत्मा । न शक्यं हि कारणातिक्रमणं कर्तुं कार्येण । अहोरात्रादि च सर्वं सतः कार्यम् । अन्येन हि अन्यस्य प्राप्तिः अतिक्रमणं वा क्रियेत, न तु तेनैव तस्य । न हि घटेन मृत्प्राप्यते अतिक्रम्यते वा । यद्यपि पूर्वम् ‘य आत्मापहतपाप्मा’ (छा. उ. ८ । ७ । १) इत्यादिना पाप्मादिप्रतिषेध उक्त एव, तथापिहायं विशेषः — न तरतीति प्राप्तिविषयत्वं प्रतिषिध्यते । तत्र अविशेषेण जराद्यभावमात्रमुक्तम् । अहोरात्राद्या उक्ता अनुक्ताश्च अन्ये सर्वे पाप्मानः उच्यन्ते ; अतः अस्मादात्मनः सेतोः निवर्तन्ते अप्राप्यैवेत्यर्थः । अपहतपाप्मा हि एष ब्रह्मैव लोकः ब्रह्मलोकः उक्तः ॥
तस्माद्वा एतꣳ सेतुं तीर्त्वान्धः सन्ननन्धो भवति विद्धः सन्नविद्धो भवत्युपतापी सन्ननुपतापी भवति तस्माद्वा एतꣳ सेतुं तीर्त्वापि नक्तमहरेवाभिनिष्पद्यते सकृद्विभातो ह्येवैष ब्रह्मलोकः ॥ २ ॥
यस्माच्च पाप्मकार्यमान्ध्यादि शरीरवतः स्यात् न त्वशरीरस्य, तस्माद्वा एतमात्मानं सेतुं तीर्त्वा प्राप्य अनन्धो भवति देहवत्त्वे पूर्वमन्धोऽपि सन् । तथा विद्धः सन् देहवत्त्वे स देहवियोगे सेतुं प्राप्य अविद्धो भवति । तथोपतापी रोगाद्युपतापवान्सन् अनुपतापी भवति । किञ्च यस्मादहोरात्रे न स्तः सेतौ, तस्माद्वा एतं सेतुं तीर्त्वा प्राप्य नक्तमपि तमोरूपं रात्रिरपि सर्वमहरेवाभिनिष्पद्यते ; विज्ञप्त्यात्मज्योतिःस्वरूपमहरिवाहः सदैकरूपं विदुषः सम्पद्यत इत्यर्थः । सकृद्विभातः सदा विभातः सदैकरूपः स्वेन रूपेण एष ब्रह्मलोकः ॥
तद्य एवैतं ब्रह्मलोकं ब्रह्मचर्येणानुविन्दन्ति तेषामेवैष ब्रह्मलोकस्तेषाꣳ सर्वेषु लोकेषु कामचारो भवति ॥ ३ ॥
तत् तत्रैवं सति एवं यथोक्तं ब्रह्मलोकं ब्रह्मचर्येण स्त्रीविषयतृष्णात्यागेन शास्त्राचार्योपदेशमनुविन्दन्ति स्वात्मसंवेद्यतामापादयन्ति ये, तेषामेव ब्रह्मचर्यसाधनवतां ब्रह्मविदाम् एष ब्रह्मलोकः, नान्येषां स्त्रीविषयसम्पर्कजाततृष्णानां ब्रह्मविदामपीत्यर्थः । तेषां सर्वेषु लोकेषु कामचारो भवतीत्युक्तार्थम् । तस्मात्परमम् एतत्साधनं ब्रह्मचर्यं ब्रह्मविदामित्यभिप्रायः ॥
इति चतुर्थखण्डभाष्यम् ॥
य आत्मा सेतुत्वादिगुणैः स्तुतः, तत्प्राप्तये ज्ञानसहकारिसाधनान्तरं ब्रह्मचर्याख्यं विधातव्यमित्याह । यज्ञादिभिश्च तत्स्तौति कर्तव्यार्थम् —
अथ यद्यज्ञ इत्याचक्षते ब्रह्मचर्यमेव तद्ब्रह्मचर्येण ह्येव यो ज्ञाता तं विन्दतेऽथ यदिष्टमित्याचक्षते ब्रह्मचर्यमेव तद्ब्रह्मचर्येण ह्येवेष्ट्वात्मानमनुविन्दते ॥ १ ॥
अथ यद्यज्ञ इत्याचक्षते लोके परमपुरुषार्थसाधनं कथयन्ति शिष्टाः, तद्ब्रह्मचर्यमेव । यज्ञस्यापि यत्फलं तत् ब्रह्मचर्यवाल्लम्भते ; अतः यज्ञोऽपि ब्रह्मचर्यमेवेति प्रतिपत्तव्यम् । कथं ब्रह्मचर्यं यज्ञ इति, आह — ब्रह्मचर्येणैव हि यस्मात् यो ज्ञाता स तं ब्रह्मलोकं यज्ञस्यापि पारम्पर्येण फलभूतं विन्दते लभते, ततो यज्ञोऽपि ब्रह्मचर्यमेवेति । यो ज्ञाता — इत्यक्षरानुवृत्तेः यज्ञो ब्रह्मचर्यमेव । अथ यदिष्टमित्याचक्षते, ब्रह्मचर्यमेव तत् । कथम् ? ब्रह्मचर्येणैव साधनेन तम् ईश्वरम् इष्ट्वा पूजयित्वा अथवा एषणाम् आत्मविषयां कृत्वा तमात्मानमनुविन्दते । एषणादिष्टमपि ब्रह्मचर्यमेव ॥
अथ यत्सत्त्रायणमित्याचक्षते ब्रह्मचर्यमेव तद्ब्रह्मचर्येण ह्येव सत आत्मनस्त्राणं विन्दतेऽथ यन्मौनमित्याचक्षते ब्रह्मचर्यमेव तद्ब्रह्मचर्येण ह्येवात्मानमनुविद्य मनुते ॥ २ ॥
अथ यत्सत्त्रायणमित्याचक्षते, ब्रह्मचर्यमेव तत् । तथा सतः परस्मादात्मनः आत्मनस्त्राणं रक्षणं ब्रह्मचर्यसाधनेन विन्दते । अतः सत्त्रायणशब्दमपि ब्रह्मचर्यमेव तत् । अथ यन्मौनमित्याचक्षते, ब्रह्मचर्यमेव तत् ; ब्रह्मचर्येणैव साधनेन युक्तः सन् आत्मानं शास्त्राचार्याभ्यामनुविद्य पश्चात् मनुते ध्यायति । अतो मौनशब्दमपि ब्रह्मचर्यमेव ॥
अथ यदनाशकायनमित्याचक्षते ब्रह्मचर्यमेव तदेष ह्यात्मा न नश्यति यं ब्रह्मचर्येणानुविन्दतेऽथ यदरण्यायनमित्याचक्षते ब्रह्मचर्यमेव तदस्श्च ह वै ण्यश्चार्णवौ ब्रह्मलोके तृतीयस्यामितो दिवि तदैरं मदीयꣳ सरस्तदश्वत्थः सोमसवनस्तदपराजिता पूर्ब्रह्मणः प्रभुविमितꣳ हिरण्मयम् ॥ ३ ॥
अथ यदनाशकायनमित्याचक्षते, ब्रह्मचर्यमेव तत् । यमात्मानं ब्रह्मचर्येण अनुविन्दते, स एष हि आत्मा ब्रह्मचर्यसाधनवतो न नश्यति ; तस्मादनाशकायनमपि ब्रह्मचर्यमेव । अथ यदरण्यायनमित्याचक्षते, ब्रह्मचर्यमेव तत् । अरण्यशब्द्ययोरर्णवयोर्ब्रह्मचर्यवतोऽयनादरण्यायनं ब्रह्मचर्यम् । यो ज्ञानाद्यज्ञः एषणादिष्टं सतस्त्राणात्सत्त्रयणं मननान्मौनम् अनशनादनाशकायनम् अरण्ययोर्गमनादरण्यायनम् इत्यादिभिर्महद्भिः पुरुषार्थसाधनैः स्तुतत्वात् ब्रह्मचर्यं परमं ज्ञानस्य सहकारिकारणं साधनम् — इत्यतो ब्रह्मविदा यत्नतो रक्षणीयमित्यर्थः । तत् तत्र हि ब्रह्मलोके अरश्च ह वै प्रसिद्धो ण्यश्च अर्णवौ समुद्रौ समुद्रोपमे वा सरसी, तृतीयस्यां भुवमन्तरिक्षं च अपेक्ष्य तृतीया द्यौः तस्यां तृतीयस्याम् इतः अस्माल्लोकादारभ्य गण्यमानायां दिवि । तत् तत्रैव च ऐरम् इरा अन्नं तन्मयः ऐरः मण्डः तेन पूर्णम् ऐरं मदीयं तदुपयोगिनां मदकरं हर्षोत्पादकं सरः । तत्रैव च अश्वत्थो वृक्षः सोमसवनो नामतः सोमोऽमृतं तन्निस्रवः अमृतस्रव इति वा । तत्रैव च ब्रह्मलोके ब्रह्मचर्यसाधनरहितैर्ब्रह्मचर्यसाधनवद्भ्यः अन्यैः न जीयत इति अपराजिता नाम पूः पुरी ब्रह्मणो हिरण्यगर्भस्य । ब्रह्मणा च प्रभुणा विशेषेण मितं निर्मितं तच्च हिरण्मयं सौवर्णं प्रभुविमितं मण्डपमिति वाक्यशेषः ॥
तद्य एवैतावरं च ण्यं चार्णवौ ब्रह्मलोके ब्रह्मचर्येणानुविन्दन्ति तेषामेवैष ब्रह्मलोकस्तेषाꣳ सर्वेषु लोकेषु कामचारो भवति ॥ ४ ॥
तत् तत्र ब्रह्मलोके एतावर्णवौ यावरण्याख्यावुक्तौ ब्रह्मचर्येण साधनेन अनुविन्दन्ति ये, तेषामेव एषः यो व्याख्यातः ब्रह्मलोकः । तेषां च ब्रह्मचर्यसाधनवतां ब्रह्मविदां सर्वेषु लोकेषु कामचारो भवति, नान्येषामब्रह्मचर्यपराणां बाह्यविषयासक्तबुद्धीनां कदाचिदपीत्यर्थः ॥
नन्वत्र ‘त्वमिन्द्रस्त्वं यमस्त्वं वरुणः’ इत्यादिभिर्यथा कश्चित्स्तूयते महार्हः, एवमिष्टादिभिः शब्दैः न स्त्र्यादिविषयतृष्णानिवृत्तिमात्रं स्तुत्यर्हम् ; किं तर्हि, ज्ञानस्य मोक्षसाधनत्वात् तदेवेष्टादिभिः स्तूयत इति केचित । न, स्त्र्यादिबाह्यविषयतृष्णापहृतचित्तानां प्रत्यगात्मविवेकविज्ञानानुपपत्तेः, ‘पराञ्चि खानि व्यतृणत्स्वयम्भूस्तस्मात्पराङ्पश्यति नान्तरात्मन्’ (का. २ । १ । १) इत्यादिश्रुतिस्मृतिशतेभ्यः । ज्ञानसहकारिकारणं स्त्र्यादिविषयतृष्णानिवृत्तिसाधनं विधातव्यमेवेति युक्तैव तत्स्तुतिः । ननु च यज्ञादिभिः स्तुतं ब्रह्मचर्यमिति यज्ञादीनां पुरुषार्थसाधनत्वं गम्यते । सत्यं गम्यते, न त्विह ब्रह्मलोकं प्रति यज्ञादीनां साधनत्वमभिप्रेत्य यज्ञादिभिर्ब्रह्मचर्यं स्तूयते ; किं तर्हि, तेषां प्रसिद्धं पुरुषार्थसाधनत्वमपेक्ष्य । यथेन्द्रादिभिः राजा, न तु यत्रेन्द्रादीनां व्यापारः तत्रैव राज्ञ इति — तद्वत् ॥
य इमेऽर्णवादयो ब्राह्मलौकिकाः सङ्कल्पजाश्च पित्रादयो भोगाः, ते किं प्रार्थिवा आप्याश्च यथेह लोके दृश्यन्ते तद्वदर्णववृक्षपूःस्वर्णमण्डपानि, आहोम्वित् मानसप्रत्ययमात्राणीति । किञ्चातः ? यदि पार्थिवा आप्याश्च स्थूलाः स्युः, हृद्याकाशे समाधानानुपपत्तिः । पुराणे च मनोमयानि ब्रह्मलोके शरीरादीनीति वाक्यं विरुध्येत ; ‘अशोकमहिमम्’ (बृ. उ. ५ । १० । १) इत्याद्याश्च श्रुतयः । ननु समुद्राः सरितः सरांसि वाप्यः कूपा यज्ञा वेदा मन्त्रादयश्च मूर्तिमन्तः ब्रह्माणमुपतिष्ठन्ते इति मानसत्वे विरुध्येत पुराणस्मृतिः । न, मूर्तिमत्त्वे प्रसिद्धरूपाणामेव तत्र गमनानुपपत्तेः । तस्मात्प्रसिद्धमूर्तिव्यतिरेकेण सागरादीनां मूर्त्यन्तरं सागरादिभिरुपात्तं ब्रह्मलोकगन्तृ कल्पनीयम् । तुल्यायां च कल्पनायां यथाप्रसिद्धा एव मानस्यः आकारवत्यः पुंस्त्र्याद्या मूर्तयो युक्ताः कल्पयितुम् , मानसदेहानुरूप्यसम्बन्धोपपत्तेः । दृष्टा हि मानस्य एव आकारवत्यः पुंस्त्र्याद्या मूर्तयः स्वप्ने । ननु ता अनृता एव ; ‘त इमे सत्याः कामाः’ (छा. उ. ८ । ३ । १) इति श्रुतिः तथा सति विरुध्येत । न, मानसप्रत्ययस्य सत्त्वोपपत्तेः । मानसा हि प्रत्ययाः स्त्रीपुरुषाद्याकाराः स्वप्ने दृश्यन्ते । ननु जाग्रद्वासनारूपाः स्वप्नदृश्याः, न तु तत्र स्त्र्यादयः स्वप्ने विद्यन्ते । अत्यल्पमिदमुच्यते । जाग्रद्विषया अपि मानसप्रत्ययाभिनिर्वृत्ता एव, सदीक्षाभिनिर्वृत्ततेजोबन्नमयत्वाज्जाग्रद्विषयाणाम् । सङ्कल्पमूला हि लोका इति च उक्तम् ‘समक्लृप्तां द्यावापृथिवी’ (छा. उ. ७ । ४ । २) इत्यत्र । सर्वश्रुतिषु च प्रत्यगात्मन उत्पत्तिः प्रलयश्च तत्रैव स्थितिश्च ‘यथा वा अरा नाभौ’ (छा. उ. ७ । १५ । १) इत्यादिना उच्यते । तस्मान्मानसानां बाह्यानां च विषयाणाम् इतरेतरकार्यकारणत्वमिष्यत एव बीजाङ्कुरवत् । यद्यपि बाह्या एव मानसाः मानसा एव च बाह्याः, नानृतत्वं तेषां कदाचिदपि स्वात्मनि भवति । ननु स्वप्ने दृष्टाः प्रतिबुद्धस्यानृता भवन्ति विषयाः । सत्यमेव । जाग्राद्बोधापेक्षं तु तदनृतत्वं न स्वतः । तथा स्वप्नबोधापेक्षं च जाग्रद्दृष्टविषयानृतत्वं न स्वतः । विशेषाकारमात्रं तु सर्वेषां मिथ्याप्रत्ययनिमित्तमिति वाचारम्भणं विकारो नामधेयमनृतम् , त्रीणि रूपाणीत्येव सत्यम् । तान्यप्याकारविशेषतोऽनृतं स्वतः सन्मात्ररूपतया सत्यम् । प्राक्सदात्मप्रतिबोधात्स्वविषयेऽपि सर्वं सत्यमेव स्वप्नदृश्या इवेति न कश्चिद्विरोधः । तस्मान्मानसा एव ब्राह्मलौकिका अरण्यादयः सङ्कल्पजाश्च पित्रादयः कामाः । बाह्यविषयभोगवदशुद्धिरहितत्वाच्छुद्धसत्त्वसङ्कल्पजन्या इति निरतिशयसुखाः सत्याश्च ईश्वराणां भवन्तीत्यर्थः । सत्सत्यात्मप्रतिबोधेऽपि रज्ज्वामिव कल्पिताः सर्पादयः सदात्मस्वरूपतामेव प्रतिपद्यन्त इति सदात्मना सत्या एव भवन्ति ॥
इति पञ्चमखण्डभाष्यम् ॥
यस्तु हृदयपुण्डरीकगतं यथोक्तगुणविशिष्टं ब्रह्म ब्रह्मचर्यादिसाधनसम्पन्नः त्यक्तबाह्यविषयानृततृष्णः सन् उपास्ते, तस्येयं मूर्धन्यया नाड्या गतिर्वक्तव्येति नाडीखण्ड आरभ्यते —
अथ या एता हृदयस्य नाड्यस्ताः पिङ्गलस्याणिम्नस्तिष्ठन्ति शुक्लस्य नीलस्य पीतस्य लोहितस्येत्यसौ वा आदित्यः पिङ्गल एष शुक्ल एष नील एष पीत एष लोहितः ॥ १ ॥
अथ या एताः वक्ष्यमाणाः हृदयस्य पुण्डरीकाकारस्य ब्रह्मोपासनस्थानस्य सम्बन्धिन्यः नाड्यः हृदयमांसपिण्डात्सर्वतो विनिःसृताः आदित्यमण्डलादिव रश्मयः, ताश्चैताः पिङ्गलस्य वर्णविशेषविशिष्टस्य अणिम्नः सूक्ष्मरसस्य रसेन पूर्णाः तदाकारा एव तिष्टन्ति वर्तन्त इत्यर्थः । तथा शुक्लस्य नीलस्य पीतस्य लोहितस्य च रसस्य पूर्णा इति सर्वत्र अध्याहार्यम् । सौरेण तेजसा पित्ताख्येन पाकाभिनिर्वृत्तेन कफेन अल्पेन सम्पर्कात् पिङ्गलं भवति सौरं तेजः पित्ताख्यम् । तदेव च वातभूयस्त्वात् नीलं भवति । तदेव च कफभूयस्त्वात् शुक्लम् । कफेन समतायां पीतम् । शोणितबाहुल्येन लोहितम् । वैद्यकाद्वा वर्णविशेषा अन्वेष्टव्याः कथं भवन्तीति । श्रुतिस्त्वाह — आदित्यसम्बन्धादेव तत्तेजसो नाडीष्वनुगतस्यैते वर्णविशेषा इति । कथम् ? असौ वा आदित्यः पिङ्गलो वर्णतः, एष आदित्यः शुक्लोऽप्येष नील एष पीत एष लोहित आदित्य एव ॥
तद्यथा महापथ आतत उभौ ग्रामौ गच्छतीमं चामुं चैवमेवैता आदित्यस्य रश्मय उभौ लोकौ गच्छन्तीमं चामुं चामुष्मादादित्यात्प्रतायन्ते ता आसु नाडीषु सृप्ता आभ्यो नाडीभ्यः प्रतायन्ते तेऽमुष्मिन्नादित्ये सृप्ताः ॥ २ ॥
तस्याध्यात्मं नाडीभिः कथं सम्बन्ध इति, अत्र दृष्टान्तमाह — तत् तत्र यथा लोके महान् विस्तीर्णः पन्था महापथः आततः व्याप्तः उभौ ग्रामौ गच्छति इमं च संनिहितम् अमुं च विप्रकृष्टं दूरस्थम् , एवं यथा दृष्टान्तः महापथः उभौ ग्रामौ प्रविष्टः, एवमेवैताः आदित्यस्य रश्मयः उभौ लोकौ अमुं च आदित्यमण्डलम् इमं च पुरुषं गच्छन्ति उभयत्र प्रविष्टाः । यथा महापथः । कथम् ? अमुष्मादादित्यमण्डलात् प्रतायन्ते सन्तता भवन्ति । ता अध्यात्ममासु पिङ्गलादिवर्णासु यथोक्तासु नाडीषु सृप्ताः गताः प्रविष्टा इत्यर्थः । आभ्यो नाडीभ्यः प्रतायन्ते प्रवृत्ताः सन्तानभूताः सत्यः ते अमुष्मिन् । रश्मीनामुभयलिङ्गत्वात् ते इत्युच्यन्ते ॥
तद्यत्रैतत्सुप्तः समस्तः सम्प्रसन्नः स्वप्नं न विजानात्यासु तदा नाडीषु सृप्तो भवति तं न कश्चन पाप्मा स्पृशति तेजसा हि तदा सम्पन्नो भवति ॥ ३ ॥
तत् तत्र एवं सति यत्र यस्मिन्काले एतत् स्वपनम् अयं जीवः सुप्तो भवति । स्वापस्य द्विप्रकारत्वाद्विशेषणं समस्त इति । उपसंहृतसर्वकरणवृत्तिरित्येतत् । अतः बाह्यविषयसम्पर्कजनितकालुष्याभावात् सम्यक् प्रसन्नः सम्प्रसन्नो भवति । अत एव स्वप्नं विषयाकाराभासं मानसं स्वप्नप्रत्ययं न विजानाति नानुभवतीत्यर्थः । यदैवं सुप्तो भवति, आसु सौरतेजःपूर्णासु यथोक्तासु नाडीषु तदा सृप्तः प्रविष्टः, नाडीभिर्द्वारभूताभिः हृदयाकाशं गतो भवतीत्यर्थः । न हि अन्यत्र सत्सम्पत्तेः स्वप्नादर्शनमस्तीति सामर्थ्यात् नाडीष्विति सप्तमी तृतीयया परिणम्यते । तं सता सम्पन्नं न कश्चन न कश्चिदपि धर्माधर्मरूपः पाप्मा स्पृशतीति, स्वरूपावस्थितत्वात् तदा आत्मनः । देहेन्द्रियविशिष्टं हि सुखदुःखकार्यप्रदानेन पाप्मा स्पृशतीति, न तु सत्सम्पन्नं स्वरूपावस्थं कश्चिदपि पाप्मा स्प्रष्टुमुत्सहते, अविषयत्वात् । अन्यो हि अन्यस्य विषयो भवति, न त्वन्यत्वं केनचित्कुतश्चिदपि सत्सम्पन्नस्य । स्वरूपप्रच्यवनं तु आत्मनो जाग्रत्स्वप्नावस्थां प्रति गमनं बाह्यविषयप्रतिबोधः अविद्याकामकर्मबीजस्य ब्रह्मविद्याहुताशादाहनिमित्तमित्यवोचाम षष्ठे एव ; तदिहापि प्रत्येतव्यम् । यदैवं सुप्तः सौरेण तेजसा हि नाड्यन्तर्गतेन सर्वतः सम्पन्नः व्याप्तः भवति । अतः विशेषेण चक्षुरादिनाडीद्वारैर्बाह्यविषयभोगाय अप्रसृतानि करणानि अस्य तदा भवन्ति । तस्मादयं करणानां निरोधात् स्वात्मन्येवावस्थितः स्वप्नं न विजानातीति युक्तम् ॥
अथ यत्रैतदबलिमानं नीतो भवति तमभित आसीना आहुर्जानासि मां जानासि मामिति स यावदस्माच्छरीरादनुत्क्रान्तो भवति तावज्जानाति ॥ ४ ॥
तत्र एवं सति, अथ यत्र यस्मिन्काले अबलिमानम् अबलभावं देहस्य रोगादिनिमित्तं जरादिनिमित्तं वा कृशीभावम् एतत् नयनं नीतः प्रापितः देवदत्तो भवति मुमूर्षुर्यदा भवतीत्यर्थः । तमभितः सर्वतो वेष्टयित्वा आसीना ज्ञातयः आहुः — जानासि मां तव पुत्रं जानासि मां पितरं च इत्यादि । स मुमूर्षुः यावदस्माच्छरीरादनुत्क्रान्तः अनिर्गतः भवति तावत्पुत्रादीञ्जानाति ॥
अथ यत्रैतदस्माच्छरीरादुत्क्रामत्यथैतैरेव रश्मिभिरूर्ध्वमाक्रमते स ओमिति वा होद्वा मीयते स यावत्क्षिप्येन्मनस्तावदादित्यं गच्छत्येतद्वै खलु लोकद्वारं विदुषां प्रपदनं निरोधोऽविदुषाम् ॥ ५ ॥
अथ यत्र यदा, एतत्क्रियाविशेषणमिति, अस्माच्छरीरादुत्क्रामति, अथ तदा एतैरेव यथोक्ताभिः रश्मिभिः ऊर्ध्वमाक्रमते यथाकर्मजितं लोकं पॆति अविद्वान् । इतरस्तु विद्वान् यथोक्तसाधनसम्पन्नः स ओमिति ओङ्कारेण आत्मानं ध्यायन् यथापूर्वं वा ह एव, उद्वा ऊर्ध्वं वा विद्वांश्चेत् इतरस्तिर्यङ्वेत्यभिप्रायः । मीयते प्रमीयते गच्छतीत्यर्थः । स विद्वान् उत्क्रमिष्यन्यावत्क्षिप्येन्मनः यावता कालेन मनसः क्षेपः स्यात् , तावता कालेन आदित्यं गच्छति प्राप्नोति क्षिप्रं गच्छतीत्यर्थः, न तु तावतैव कालेनेति विवक्षितम् । किमर्थमादित्यं गच्छतीति, उच्यते — एतद्वै खलु प्रसिद्धं ब्रह्मलोकस्य द्वारं य आदित्यः ; तेन द्वारभूतेन ब्रह्मलोकं गच्छति विद्वान् । अतः विदुषां प्रपदनम् , प्रपद्यते ब्रह्मलोकमनेन द्वारेणेति प्रपदनम् । निरोधनं निरोधः अस्मादादित्यादविदुषां भवतीति निरोधः, सौरेण तेजसा देहे एव निरुद्धाः सन्तः मूर्धन्यया नाड्या नोत्क्रमन्त एवेत्यर्थः, ‘विष्वङ्ङन्या’ (छा. उ. ८ । ६ । ६) इति श्लोकात् ॥
तदेष श्लोकः । शतं चैका च हृदयस्य नाड्यस्तासां मूर्धानमभिनिःसृतैका तयोर्ध्वमायन्नमृतत्वमेव विष्वङ्ङन्या उत्क्रमणे भवन्त्युत्क्रमणे भवन्ति ॥ ६ ॥
तत् तस्मिन् यथोक्तेऽर्थे एष श्लोको मन्त्रो भवति — शतं च एका एकोत्तरशतं नाड्यः हृदयस्य मांसपिण्डभूतस्य सम्बन्धिन्यः प्रधानतो भवन्ति, आनन्त्याद्देहनाडीनाम् । तासामेका मूर्धानमभिनिःसृता विनिर्गता । तयोर्ध्वमायन् गच्छन् अमृतत्वम् अमृतभावमेति । विष्वक् नानागतयः तिर्यग्विसर्पिण्य ऊर्ध्वगाश्च अन्या नाड्यः भवन्ति संसारगमनद्वारभूताः ; न त्वमृतत्वाय ; किं तर्हि, उत्क्रमणे एव उत्क्रान्त्यर्थमेव भवन्तीत्यर्थः । द्विरभ्यासः प्रकरणसमाप्त्यर्थः ॥
इति षष्ठखण्डभाष्यम् ॥
‘अथ य एष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यत एष आत्मेति होवाचैतदमृतभयमेतद्ब्रह्म’ (छा. उ. ८ । ३ । ४) इत्युक्तम् । तत्र कोऽसौ सम्प्रसादः ? कथं वा तस्याधिगमः, यथा सोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते ? येन स्वरूपेणाभिनिष्पद्यते सं किंलक्षण आत्मा ? सम्प्रसादस्य च देहसम्बन्धीनि पररूपाणि, ततो यदन्यत्कथं स्वरूपम् ? इति एतेऽर्था वक्तव्या इत्युत्तरो ग्रन्थ आरभ्यते । आख्यायिका तु विद्याग्रहणसम्प्रदानविधिप्रदर्शनार्था विद्यास्तुत्यर्था च — राजसेवितं पानीयमितिवत् ।
य आत्मापहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः सत्यकामः सत्यसङ्कल्पः सोऽन्वेष्टव्यः स विजिज्ञासितव्यः स सर्वाꣳश्च लोकानाप्नोति सर्वाꣳश्च कामान्यस्तमात्मानमनुविद्य विजानातीति ह प्रजापतिरुवाच ॥ १ ॥
य आत्मा अपहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः सत्यकामः सत्यसङ्कल्पः, यस्योपासनाय उपलब्ध्यर्थं हृदयपुण्डरीकमभिहितम् , यस्मिन्कामाः समाहिताः सत्याः अनृतापिधानाः, यदुपासनसहभावि ब्रह्मचर्यं साधनमुक्तम् , उपासनफलभूतकामप्रतिपत्तये च मूर्धन्यया नाड्या गतिरभिहिता, सोऽन्वेष्टव्यः शास्त्राचार्योपदेशैर्ज्ञातव्यः स विशेषेण ज्ञातुमेष्टव्यः विजिज्ञासितव्यः स्वसंवेद्यतामापादयितव्यः । किं तस्यान्वेषणाद्विजिज्ञासनाच्च स्यादिति, उच्यते — स सर्वांश्च लोकानाप्नोति सर्वांश्च कामान् ; यः तमात्मानं यथोक्तेन प्रकारेण शास्त्राचार्योपदेशेन अन्विष्य विजानाति स्वसंवेद्यतामापादयति, तस्य एतत्सर्वलोककामावाप्तिः सर्वात्मता फलं भवतीति ह किल प्रजापतिरुवाच । अन्वेष्टव्यः विजिज्ञासितव्य इति च एष नियमविधिरेव, न अपूर्वविधिः । एवमन्वेष्टव्यो विजिज्ञासितव्य इत्यर्थः, दृष्टार्थत्वादन्वेषणविजिज्ञासनयोः । दृष्टार्थत्वं च दर्शयिष्यति ‘नाहमत्र भोग्यं पश्यामि’ (छा. उ. ८ । ९ । १), (छा. उ. ८ । १० । २), (छा. उ. ८ । ११ । २) इत्यनेन असकृत् । पररूपेण च देहादिधर्मैरवगम्यमानस्य आत्मनः स्वरूपाधिगमे विपरीताधिगमनिवृत्तिर्दृष्टं फलमिति नियमार्थतैव अस्य विधेर्युक्ता, न त्वग्निहोत्रादीनामिव अपूर्वविधित्वमिह सम्भवति ॥
तद्धोभये देवासुरा अनुबुबुधिरे ते होचुर्हन्त तमात्मानमन्विच्छामो यमात्मानमन्विष्य सर्वाꣳश्च लोकानाप्नोति सर्वाꣳश्च कामानितीन्द्रो हैव देवानामभिप्रवव्राज विरोचनोऽसुराणां तौ हासंविदानावेव समित्पाणी प्रजापतिसकाशमाजग्मतुः ॥ २ ॥
तद्धोभये इत्याद्याख्यायिकाप्रयोजनमुक्तम् । तद्ध किल प्रजापतेर्वचनम् उभये देवासुराः देवाश्चासुराश्च देवासुराः अनु परम्परागतं स्वकर्णगोचरापन्नम् अनुबुबुधिरे अनुबुद्धवन्तः । ते च एतत्प्रजापतिवचो बुद्ध्वा किमकुर्वन्निति, उच्यते ते ह ऊचुः उक्तवन्तः अन्योन्यं देवाः स्वपरिषदि असुराश्च — हन्त यदि अनुमतिर्भवताम् , प्रजापतिनोक्तं तमात्मानमन्विच्छामः अन्वेषणं कुर्मः, यमात्मानमन्विष्य सर्वांश्च लोकानाप्नोति सर्वांश्च कामान् इत्युक्त्वा इन्द्रः हैव राजैव स्वयं देवानाम् इतरान्देवांश्च भोगपरिच्छदं च सर्वं स्थापयित्वा शरीरमात्रेणैव प्रजापतिं प्रति अभिप्रवव्राज प्रगतवान् , तथा विरोचनः असुराणाम् । विनयेन गुरवः अभिगन्तव्या इत्येतद्दर्शयति, त्रैलोक्य राज्याच्च गुरुतरा विद्येति, यतः देवासुरराजौ महार्हभोगार्हौ सन्तौ तथा गुरुमभ्युपगतवन्तौ । तौ ह किल असंविदानावेव अन्योन्यं संविदमकुर्वाणौ विद्याफलं प्रति अन्योन्यमीर्ष्यां दर्शयन्तौ समित्पाणी समिद्भारहस्तौ प्रजापतिसकाशमाजग्मतुः आगतवन्तौ ॥
तौ ह द्वात्रिꣳशतं वर्षाणि ब्रह्मचर्यमूषतुस्तौ ह प्रजापतिरुवाच किमिच्छन्ताववास्तमिति तौ होचतुर्य आत्मापहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः सत्यकामः सत्यसङ्कल्पः सोऽन्वेष्टव्यः स विजिज्ञासितव्यः स सर्वाꣳश्च लोकानाप्नोति सर्वाꣳश्च कामान्यस्तमात्मानमनुविद्य विजानातीति भगवतो वचो वेदयन्ते तमिच्छन्ताववास्तमिति ॥ ३ ॥
तौ ह गत्वा द्वात्रिंशतं वर्षाणि शुश्रूषापरौ भूत्वा ब्रह्मचर्यम् ऊषतुः उषितवन्तौ । अभिप्रायज्ञः प्रजापतिः तावुवाच — किमिच्छन्तौ किं प्रयोजनमभिप्रेत्य इच्छन्तौ अवास्तम् उषितवन्तौ युवामिति । इत्युक्तौ तौ ह ऊचतुः — य आत्मेत्यादि भगवतो वचो वेदयन्ते शिष्टाः, अतः तमात्मानं ज्ञातुमिच्छन्तौ अवास्तमिति । यद्यपि प्राक्प्रजापतेः समीपागमनात् अन्योन्यमीर्ष्यायुक्तावभूताम् , तथापि विद्याप्राप्तिप्रयोजनगौरवात् त्यक्तरागद्वेषमोहेर्ष्यादिदोषावेव भूत्वा ऊषतुः ब्रह्मचर्यं प्रजापतौ । तेनेदं प्रख्यापितमात्मविद्यागौरवम् ॥
तौ ह प्रजापतिरुवाच य एषोऽक्षिणि पुरुषो दृश्यत एष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेत्यथ योऽयं भगवोऽप्सु परिख्यायते यश्चायमादर्शे कतम एष इत्येष उ एवैषु सर्वेष्वन्तेषु परिख्यायत इति होवाच ॥ ४ ॥
तौ एवं तपस्विनौ शुद्धकल्मषौ योग्यौ उपलक्ष्य प्रजापतिरुवाच ह — य एषोऽक्षिणि पुरुषः निवृत्तचक्षुर्भिर्मृदितकषायैः दृश्यते योगिभिर्द्रष्टा, एष आत्मापहतपाप्मादिगुणः, यमवोचं पुरा अहं यद्विज्ञानात्सर्वलोककामावाप्तिः एतदमृतं भूमाख्यम् अत एवाभयम् , अत एव ब्रह्म वृद्धतममिति । अथैतत्प्रजापतिनोक्तम् अक्षिणि पुरुषो दृश्यते इति वचः श्रुत्वा छायारूपं पुरुषं जगृहतुः । गृहीत्वा च दृढीकरणाय प्रजापतिं पृष्टवन्तौ — अथ योऽयं हे भगवः अप्सु परिख्यायते परि समन्तात् ज्ञायते, यश्चायमादर्शे आत्मनः प्रतिबिम्बाकारः परिख्यायते खङ्गादौ च, कतम एष एषां भगवद्भिरुक्तः, किं वा एक एव सर्वेष्विति । एवं पृष्टः प्रजापतिरुवाच — एष उ एव यश्चक्षुषि द्रष्टा मयोक्त इति । एतन्मनसि कृत्वा एषु सर्वेष्वन्तेषु मध्येषु परिख्यायत इति ह उवाच ॥
ननु कथं युक्तं शिष्ययोर्विपरीतग्रहणमनुज्ञातुं प्रजापतेः विगतदोषस्य आचार्यस्य सतः ? सत्यमेवम् , नानुज्ञातम् । कथम् ? आत्मन्यध्यारोपितपाण्डित्यमहत्त्वबोद्धृत्वौ हि इन्द्रविरोचनौ, तथैव च प्रथितौ लोके ; तौ यदि प्रजापतिना ‘मूढौ युवां विपरीतग्राहिणौ’ इत्युक्तौ स्याताम् ; ततः तयोश्चित्ते दुःखं स्यात् ; तज्जनिताच्च चित्तावसादात् पुनःप्रश्नश्रवणग्रहणावधारणं प्रति उत्साहविघातः स्यात् ; अतो रक्षणीयौ शिष्याविति मन्यते प्रजापतिः । गृह्णीतां तावत् , तदुदशरावदृष्टान्तेन अपनेष्यामीति च । ननु न युक्तम् एष उ एव इत्यनृतं वक्तुम् । न च अनृतमुक्तम् । कथम् ? आत्मनोक्तः अक्षिपुरुषः मनसि संनिहिततरः शिष्यगृहीताच्छायात्मनः ; सर्वेषां चाभ्यन्तरः ‘सर्वान्तरः’ (बृ. उ. ३ । ५ । १) इति श्रुतेः ; तमेवावोचत् एष उ एव इति ; अतो नानृतमुक्तं प्रजापतिना ॥
इति सप्तमखण्डभाष्यम् ॥
तथा च तयोर्विपरीतग्रहणनिवृत्त्यर्थं हि आह —
उदशराव आत्मानमवेक्ष्य यदात्मनो न विजानीथस्तन्मे प्रब्रूतमिति तौ होदशरावेऽवेक्षाञ्चक्राते तौ ह प्रजापतिरुवाच किं पश्यथ इति तौ होचतुः सर्वमेवेदमावां भगव आत्मानं पश्याव आ लोमभ्य आ नखेभ्यः प्रतिरूपमिति ॥ १ ॥
उदशरावे उदकपूर्णे शरावादौ आत्मानमवेक्ष्य अनन्तरं यत् तत्र आत्मानं पश्यन्तौ न विजानीथः तन्मे मम प्रब्रूतम् आचक्षीयाथाम् — इत्युक्तौ तौ ह तथैव उदशरावे अवेक्षाञ्चक्राते अवेक्षणं चक्रतुः । तथा कृतवन्तौ तौ ह प्रजापतिरुवाच — किं पश्यथः इति । ननु तन्मे प्रब्रूतम् इत्युक्ताभ्याम् उदशरावे अवेक्षणं कृत्वा प्रजापतये न निवेदितम् — इदमावाभ्यां न विदितमिति, अनिवेदिते च अज्ञानहेतौ ह प्रजापतिरुवाच — किं पश्यथ इति, तत्र कोऽभिप्राय इति ; उच्यते — नैव तयोः इदमावयोरविदितमित्याशङ्का अभूत् , छायात्मन्यात्मप्रत्ययो निश्चित एव आसीत् । येन वक्ष्यति ‘तौ ह शान्तहृदयौ प्रवव्रजतुः’ (छा. उ. ८ । ८ । ३) इति । न हि अनिश्चिते अभिप्रेतार्थे प्रशान्तहृदयत्वमुपपद्यते । तेन नोचतुः इदमावाभ्यामविदितमिति । विपरीतग्राहिणौ च शिष्यौ अनुपेक्षणीयौ इति स्वयमेव पप्रच्छ — किं पश्यथः इति ; विपरीतनिश्चयापनयाय च वक्ष्यति ‘साध्वलङ्कृतौ’ (छा. उ. ८ । ८ । २) इत्येवमादि । तौ ह ऊचतुः — सर्वमेवेदम् आवां भगवः आत्मानं पश्यावः आ लोमभ्य आ नखेभ्यः प्रतिरूपमिति, यथैव आवां हे भगवः लोमनखादिमन्तौ स्वः, एवमेवेदं लोमनखादिसहितमावयोः प्रतिरूपमुदशरावे पश्याव इति ॥
तौ ह प्रजापतिरुवाच साध्वलङ्कृतौ सुवसनौ परिष्कृतौ भूत्वोदशरावेऽवेक्षेथामिति तौ ह साध्वलङ्कृतौ सुवसनौ परिष्कृतौ भूत्वोदशरावेऽवेक्षाञ्चक्राते तौ ह प्रजापतिरुवाच किं पश्यथ इति ॥ २ ॥
तौ ह पुनः प्रजापतिरुवाच च्छायात्मनिश्चयापनयाय — साध्वलङ्कृतौ यथा स्वगृहे सुवसनौ महार्हवस्त्रपरिधानौ परिष्कृतौ च्छिन्नलोमनखौ च भूत्वा उदशरावे पुनरीक्षेथामिति । इह च न आदिदेश — यदज्ञातं तन्मे प्रब्रूतम् इति । कथं पुनरनेन साध्वलङ्कारादि कृत्वा उदशरावे अवेक्षणेन तयोश्छायात्मग्रहोऽपनीतः स्यात् ? साध्वलङ्कारसुवसनादी नामागन्तुकानां छायाकरत्वमुदशरावे यथा शरीरसम्बद्धानाम् , एवं शरीरस्यापि च्छायाकरत्वं पूर्वं बभूवेति गम्यते ; शरीरैकदेशानां च लोमनखादीनां नित्यत्वेन अभिप्रेतानामखण्डितानां छायाकरत्वं पूर्वमासीत् ; छिन्नेषु च नैव लोमनखादिच्छाया दृश्यते ; अतः लोमनखादिवच्छरीरस्याप्यागमापायित्वं सिद्धमिति उदशरावादौ दृश्यमानस्य तन्निमित्तस्य च देहस्य अनात्मत्वं सिद्धम् ; उदशरावादौ छायाकरत्वात् , देहसम्बद्धालङ्कारादिवत् । न केवलमेतावत् , एतेन यावत्किञ्चिदात्मीयत्वाभिमतं सुखदुःखरागद्वेषमोहादि च कादाचित्कत्वात् नखलोमादिवदनात्मेति प्रत्येतव्यम् । एवमशेषमिथ्याग्रहापनयनिमित्ते साध्वलङ्कारादिदृष्टान्ते प्रजापतिनोक्ते, श्रुत्वा तथा कृतवतोरपि च्छायात्मविपरीतग्रहो नापजगाम यस्मात् , तस्मात् स्वदोषेणैव केनचित्प्रतिबद्धविवेकविज्ञानौ इन्द्रविरोचनौ अभूतामिति गम्यते । तौ पूर्ववदेव दृढनिश्चयौ पप्रच्छ — किं पश्यथः इति ॥
तौ होचतुर्यथैवेदमावां भगवः साध्वलङ्कृतौ सुवसनौ परिष्कृतौ स्व एवमेवेमौ भगवः साध्वलङ्कृतौ सुवसनौ परिष्कृतावित्येष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेति तौ ह शान्तहृदयौ प्रवव्रजतुः ॥ ३ ॥
तौ तथैव प्रतिपन्नौ, यथैवेदमिति पूर्ववत् , यथा साध्वलङ्कारादिविशिष्टौ आवां स्वः, एवमेवेमौ छायात्मानौ — इति सुतरां विपरीतनिश्चयौ बभूवतुः । यस्य आत्मनो लक्षणम् ‘य आत्मापहतपाप्मा’ (छा. उ. ८ । ७ । १) इत्युक्त्वा पुनस्तद्विशेषमन्विष्यमाणयोः ‘य एषोऽक्षिणि पुरुषो दृश्यते’ (छा. उ. ८ । ७ । ४) इति साक्षादात्मनि निर्दिष्टे, तद्विपरीतग्रहापनयाय उदशरावमसाध्वलङ्कारदृष्टान्तेऽप्यभिहिते, आत्मस्वरूपबोधाद्विपरीतग्रहो नापगतः । अतः स्वदोषेण केनचित्प्रतिबद्धविवेकविज्ञानसामर्थ्याविति मत्वा यथाभिप्रेतमेव आत्मानं मनसि निधाय एष आत्मेति ह उवाच एतदमृतमभयमेतद्ब्रह्मेति प्रजापतिः पूर्ववत् । न तु तदभिप्रेतमात्मानम् । ‘य आत्मा’ (छा. उ. ८ । ७ । १) इत्याद्यात्मलक्षणश्रवणेन अक्षिपुरुषश्रुत्या च उदशरावाद्युपपत्त्या च संस्कृतौ तावत् । मद्वचनं सर्वं पुनः पुनः स्मरतोः प्रतिबन्धक्षयाच्च स्वयमेव आत्मविषये विवेको भविष्यतीति मन्वानः पुनर्ब्रह्मचर्यादेशे च तयोश्चित्तदुःखोत्पत्तिं परिजिहीर्षन् कृतार्थबुद्धितया गच्छन्तावप्युपेक्षितवान्प्रजापतिः । तौ ह इन्द्रविरोचनौ शान्तहृदयौ तुष्टहृदयौ कृतार्थबुद्धी इत्यर्थः ; न तु शम एव ; शमश्चेत् तयोर्जातः विपरीतग्रहो विगतोऽभविष्यत् ; प्रवव्रजतुः गतवन्तौ ॥
तौ हान्वीक्ष्य प्रजापतिरुवाचानुपलभ्यात्मानमननुविद्य व्रजतो यतर एतदुपनिषदो भविष्यन्ति देवा वासुरा वा ते पराभविष्यन्तीति स ह शान्तहृदय एव विरोचनोऽसुराञ्जगाम तेभ्यो हैतामुपनिषदं प्रोवाचात्मैवेह महय्य आत्मा परिचर्य आत्मानमेवेह महयन्नात्मानं परिचरन्नुभौ लोकाववाप्नोतीमं चामुं चेति ॥ ४ ॥
एवं तयोः गतयोः इन्द्रविरोचनयोः राज्ञोः भोगासक्तयोः यथोक्तविस्मरणं स्यात् इत्याशङ्क्य अप्रत्यक्षं प्रत्यक्षवचनेन च चित्तदुःखं परिजिहीर्षुः तौ दूरं गच्छन्तौ अन्वीक्ष्य य आत्मापहतपाप्मा इत्यादिवचनवत् एतदप्यनयोः श्रवणगोचरत्वमेष्यतीति मत्वा उवाच प्रजापतिः — अनुपलभ्य यथोक्तलक्षणमात्मानम् अननुविद्य स्वात्मप्रत्यक्षं च अकृत्वा विपरीतनिश्चयौ च भूत्वा इन्द्रविरोचनावेतौ व्रजतः गच्छेयाताम् । अतः यतरे देवा वा असुरा वा किं विशेषितेन, एतदुपनिषदः आभ्यां या गृहीता आत्मविद्या सेयमुपनिषत् येषां देवानामसुराणां वा, त एतदुपनिषदः एवंविज्ञानाः एतन्निश्चयाः भविष्यन्तीत्यर्थः । ते किम् ? पराभविष्यन्ति श्रेयोमार्गात्पराभूता बहिर्भूता विनष्टा भविष्यन्तीत्यर्थः । स्वगृहं गच्छतोः सुरासुरराजयोः योऽसुरराजः, स ह शान्तहृदय एव सन् विरोचनः असुराञ्जगाम । गत्वा च तेभ्योऽसुरेभ्यः शरीरात्मबुद्धिः योपनिषत् तामेतामुपनिषदं प्रोवाच उक्तवान् — देहमात्रमेव आत्मा पित्रोक्त इति । तस्मादात्मैव देहः इह लोके महय्यः पूजनीयः, तथा परिचर्यः परिचर्यणीयः, तथा आत्मानमेव इह लोके देहं महयन् परिचरंश्च उभौ लोकौ अवाप्नोति इमं च अमुं च । इहलोकपरलोकयोरेव सर्वे लोकाः कामाश्च अन्तर्भवन्तीति राज्ञोऽभिप्रायः ॥
तस्मादप्यद्येहाददानमश्रद्दधानमयजमानमाहुरासुरो बतेत्यसुराणाꣳ ह्येषोपनिषत्प्रेतस्य शरीरं भिक्षया वसनेनालङ्कारेणेति सꣳस्कुर्वन्त्येतेन ह्यमुं लोकं जेष्यन्तो मन्यन्ते ॥ ५ ॥
तस्मात् तत्सम्प्रदायः अद्याप्यनुवर्तत इति इह लोके अददानं दानमकुर्वाणम् अविभागशीलम् अश्रद्दधानं सत्कार्येषु श्रद्धारहितं यथाशक्त्ययजमानम् अयजनस्वभावम् आहुः आसुरः खल्वयं यत एवंस्वभावः बत इति खिद्यमाना आहुः शिष्टाः । असुराणां हि यस्मात् अश्रद्दधानतादिलक्षणैषोपनिषत् । तयोपनिषदा संस्कृताः सन्तः प्रेतस्य शरीरं कुणपं भिक्षया गन्धमाल्यान्नादिलक्षणया वसनेन वस्त्रादिनाच्छादनादिप्रकारेणालङ्कारेण ध्वजपताकादिकरणेनेत्येवं संस्कुर्वन्ति । एतेन कुणपसंस्कारेण अमुं प्रेत्य प्रतिपत्तव्यं लोकं जेष्यन्तो मन्यन्ते ॥
इति अष्टमखण्डभाष्यम् ॥
अथ हेन्द्रोऽप्राप्यैव देवानेतद्भयं ददर्श यथैव खल्वयमस्मिञ्छरीरे साध्वलङ्कृते साध्वलङ्कृतो भवति सुवसने सुवसनः परिष्कृते परिष्कृत एवमेवायमस्मिन्नन्धेऽन्धो भवति स्रामे स्रामः परिवृक्णे परिवृक्णोऽस्यैव शरीरस्य नाशमन्वेष नश्यति नाहमत्र भोग्यं पश्यामीति ॥ १ ॥
अथ ह किल इन्द्रः अप्राप्यैव देवान् दैव्या अक्रौर्यादिसम्पदा युक्तत्वात् गुरोर्वचनं पुनः पुनः स्मरन्नेव गच्छन् एतद्वक्ष्यमाणं भयं स्वात्मग्रहणनिमित्तं ददर्श दृष्टवान् । उदशरावदृष्टान्तेन प्रजापतिना यदर्थो न्याय उक्तः, तदेकदेशो मघवतः प्रत्यभात् बुद्धौ, येन च्छायत्मग्रहणे दोषं ददर्श । कथम् ? यथैव खलु अयमस्मिञ्छरीरे साध्वलङ्कृते छायात्मापि साध्वलङ्कृतो भवति, सुवसने च सुवसनः परिष्कृते परिष्कृतः यथा नखलोमादिदेहावयवापगमे छायात्मापि परिष्कृतो भवति नखलोमादिरहितो भवति, एवमेवायं छायात्मापि अस्मिञ्छरीरे नखलोमादिभिर्देहावयवत्वस्य तुल्यत्वात् अन्धे चक्षुषोऽपगमे अन्धो भवति, स्रामे स्रामः । स्रामः किल एकनेत्रः तस्यान्धत्वेन गतत्वात् । चक्षुर्नासिका वा यस्य सदा स्रवति स स्रामः । परिवृक्णः छिन्नहस्तः छिन्नपादो वा । स्रामे परिवृक्णे वा देहे छायात्मापि तथा भवति । तथा अस्य देहस्य नाशमनु एष नश्यति । अतः नाहमत्र अस्मिंश्छायात्मदर्शने देहात्मदर्शने वा भोग्यं फलं पश्यामीति ॥
स समित्पाणिः पुनरेयाय तꣳ ह प्रजापतिरुवाच मघवन्यच्छान्तहृदयः प्राव्राजीः सार्धं विरोचनेन किमिच्छन्पुनरागम इति स होवाच यथैव खल्वयं भगवोऽस्मिञ्छरीरे साध्वलङ्कृते साध्वलङ्कृतो भवति सुवसने सुवसनः परिष्कृते परिष्कृत एवमेवायमस्मिन्नन्धेऽन्धो भवति स्रामे स्रामः परिवृक्णे परिवृक्णोऽस्यैव शरीरस्य नाशमन्वेष नश्यति नाहमत्र भोग्यं पश्यामीति ॥ २ ॥
एवं दोषं देहच्छायात्मदर्शने अध्यवस्य स समित्पाणिः ब्रह्मचर्यं वस्तुं पुनरेयाय । तं ह प्रजापतिरुवाच — मघवन् यत् शान्तहृदयः प्राव्राजीः प्रगतवानसि विरोचनेन सार्धं किमिच्छन्पुनरागम इति । विजानन्नपि पुनः पप्रच्छ इन्द्राभिप्रायाभिव्यक्तये — ‘यद्वेत्थ तेन मोपसीद’ (छा. उ. ७ । १ । १) इति यद्वत् । तथा च स्वाभिप्रायं प्रकटमकरोत् — यथैव खल्वयमित्यादि ; एवमेवेति च अन्वमोदत प्रजापतिः ॥
ननु तुल्येऽक्षिपुरुषश्रवणे, देहच्छायाम् इन्द्रोऽग्रहीदात्मेति देहमेव तु विरोचनः, तत्किंनिमित्तम् ? तत्र मन्यते । यथा इन्द्रस्य उदशरावादिप्रजापतिवचनं स्मरतो देवानप्राप्तस्यैव आचार्योक्तबुद्ध्या छायात्मग्रहणं तत्र दोषदर्शनं च अभूत् , न तथा विरोचनस्य ; किं तर्हि, देहे एव आत्मदर्शनम् ; नापि तत्र दोषदर्शनं बभूव । तद्वदेव विद्याग्रहणसामर्थ्यप्रतिबन्धदोषाल्पत्वबहुत्वापेक्षम् इन्द्रविरोचनयोश्छायात्मदेहयोर्ग्रहणम् । इन्द्रोऽल्पदोषत्वात् ‘दृश्यते’ इति श्रुत्यर्थमेव श्रद्दधानतया जग्राह ; इतरः छायानिमित्तं देहं हित्वा श्रुत्यर्थं लक्षणया जग्राह — प्रजापतिनोक्तोऽयमिति, दोषभूयस्त्वात् । यथा किल नीलानीलयोरादर्शे दृश्यमानयोर्वाससोर्यन्नीलं तन्महार्हमिति च्छायानिमित्तं वास एवोच्यते न च्छया — तद्वदिति विरोचनाभिप्रायः । स्वचित्तगुणदोषवशादेव हि शब्दार्थावधारणं तुल्येऽपि श्रवणे ख्यापितं ‘दाम्यत दत्त दयध्वम्’ इति दकारमात्रश्रवणाच्छ्रुत्यन्तरे । निमित्तान्यपि तदनुगुणान्येव सहकारीणि भवन्ति ॥
एवमेवैष मघवन्निति होवाचैतं त्वेव ते भूयोऽनुव्याख्यास्यामि वसापराणि द्वात्रिंशतं वर्षाणीति स हापराणि द्वात्रिंशतं वर्षाण्युवास तस्मै होवाच ॥ ३ ॥
एवमेवैष मघवन् , सम्यक्त्वया अवगतम् , न च्छाया आत्मा — इत्युवाच प्रजापतिः । यो मयोक्त आत्मा प्रकृतः, एतमेवात्मानं तु ते भूयः पूर्वं व्याख्यातमपि अनुव्याख्यास्यामि । यस्मात्सकृद्व्याख्यातं दोषरहितानामवधारणविषयं प्राप्तमपि नाग्रहीः, अतः केनचिद्दोषेण प्रतिबद्धग्रहणसामर्थ्यस्त्वम् । अतस्तत्क्षपणाय वस अपराणि द्वात्रिंशतं वर्षाणि — इत्युक्त्वा तथोषितवते क्षपितदोषाय तस्मै ह उवाच ॥
इति नवमखण्डभाष्यम् ॥
य एष स्वप्ने महीयमानश्चरत्येष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेति स ह शान्तहृदयः प्रवव्राज स हाप्राप्यैव देवानेतद्भयं ददर्श तद्यद्यपीदꣳ शरीरमन्धं भवत्यनन्धः स भवति यदि स्राममस्रामो नैवैषोऽस्य दोषेण दुष्यति ॥ १ ॥
य आत्मापहतपाप्मादिलक्षणः ‘य एषोऽक्षिणि’ (छा. उ. ८ । ७ । ४) इत्यादिना व्याख्यात एष सः । कोऽसौ ? यः स्वप्ने महीयमानः स्त्र्यादिभिः पूज्यमानश्चरति अनेकविधान्स्वप्नभोगाननुभवतीत्यर्थः । एष आत्मेति ह उवाच इत्यादि समानम् । स ह एवमुक्तः इन्द्रः शान्तहृदयः प्रवव्राज । स ह अप्राप्यैव देवान् पूर्ववदस्मिन्नप्यात्मनि भयं ददर्श । कथम् ? तदिदं शरीरं यद्यप्यन्धं भवति, स्वप्नात्मा यः अनन्धः स भवति । यदि स्राममिदं शरीरम् , अस्रामश्च स भवति । नैवैष स्वप्नात्मा अस्य देहस्य दोषेण दुष्यति ॥
न वधेनास्य हन्यते नास्य स्राम्येण स्रामो घ्नन्ति त्वेवैनं विच्छादयन्तीवाप्रियवेत्तेव भवत्यपि रोदितीव नाहमत्र भोग्यं पश्यामीति ॥ २ ॥
स समित्पाणिः पुनरेयाय तꣳ ह प्रजापतिरुवाच मघवन्यच्छान्तहृदयः प्राव्राजीः किमिच्छन्पुनरागम इति स होवाच तद्यद्यपीदं भगवः शरीरमन्धं भवत्यनन्धः स भवति यदि स्राममस्रामो नैवैषोऽस्य दोषेण दुष्यति ॥ ३ ॥
न वधेनास्य हन्यते नास्य स्राम्येण स्रामो घ्नन्ति त्वेवैनं विच्छादयन्तीवाप्रियवेत्तेव भवत्यपि रोदितीव नाहमत्र भोग्यं पश्यामीत्येवमेवैष मघवन्निति होवाचैतं त्वेव ते भूयोऽनुव्याख्यास्यामि वसापराणि द्वात्रिंशतं वर्षाणीति स हापराणि द्वात्रिंशतं वर्षाण्युवास तस्मै होवाच ॥ ४ ॥
नापि अस्य वधेन स हन्यते छायात्मवत् । न च अस्य स्राम्येण स्रामः स्वप्नात्मा भवति । यदध्यायादौ आगममात्रेणोपन्यस्तम् — ‘नास्य जरयैतज्जीर्यति’ (छा. उ. ८ । १ । ५) इत्यादि, तदिह न्यायेनोपपादयितुमुपन्यस्तम् । न तावदयं छायात्मवद्देहदोषयुक्तः, किं तु घ्नन्ति त्वेव एनम् । एव - शब्दः इवार्थे । घ्नन्तीवैनं केचनेति द्रष्टव्यम् , न तु घ्नन्त्येवेति, उत्तरेषु सर्वेष्विवशब्ददर्शनात् । नास्य वधेन हन्यत इति विशेषणात् घ्नन्ति त्वेवेति चेत् , नैवम् । प्रजापतिं प्रमाणीकुर्वतः अनृतवादित्वापादनानुपपत्तेः । ‘एतदमृतम्’ इत्येतत्प्रजापतिवचनं कथं मृषा कुर्यादिन्द्रः तं प्रमाणीकुर्वन् । ननु च्छायापुरुषे प्रजापतिनोक्ते ‘अस्य शरीरस्य नाशमन्वेष नश्यति’ (छा. उ. ८ । ९ । २) इति दोषमभ्यदधात् , तथेहापि स्यात् । नैवम् । कस्मात् ? ‘य एषोऽक्षिणि पुरुषो दृश्यते’ (छा. उ. ८ । ७ । ४) इति न च्छायात्मा प्रजापतिनोक्त इति मन्यते मघवान् । कथम् ? अपहतपाप्मादिलक्षणे पृष्टे यदि च्छायात्मा प्रजापतिनोक्त इति मन्यते, तदा कथं प्रजापतिं प्रमाणीकृत्य पुनः श्रवणाय समित्पाणिर्गच्छेत् ? जगाम च । तस्मात् न च्छायात्मा प्रजापतिनोक्त इति मन्यते । तथा च व्याख्यातम् — द्रष्टा अक्षिणि दृश्यत इति । तथा विच्छादयन्तीव विद्रावयन्तीव, तथा च पुत्रादिमरणनिमित्तमप्रियवेत्तेव भवति । अपि च स्वयमपि रोदितीव । ननु अप्रियं वेत्त्येव, कथं वेत्तेवेति, उच्यते — न, अमृताभयत्ववचनानुपपत्तेः, ‘ध्यायतीव’ (बृ. उ. ४ । ३ । ७) इति च श्रुत्यन्तरात् । ननु प्रत्यक्षविरोध इति चेत् , न, शरीरात्मत्वप्रत्यक्षवद्भ्रान्तिसम्भवात् । तिष्ठतु तावदप्रियवेत्तेव न वेति । नाहमत्र भोग्यं पश्यामि । स्वप्नात्मज्ञानेऽपि इष्टं फलं नोपलभे इत्यभिप्रायः । एवमेवैषः तवाभिप्रायेणेति वाक्यशेषः, आत्मनोऽमृताभयगुणवत्त्वस्याभिप्रेतत्वात् । द्विरुक्तमपि न्यायतो मया यथावन्नावधारयति ; तस्मात्पूर्ववत् अस्य अद्यापि प्रतिबन्धकारणमस्तीति मन्वानः तत्क्षपणाय वस अपराणि द्वात्रिंशतं वर्षाणि ब्रह्मचर्यम् इत्यादिदेश प्रजापतिः । तथा उषितवते क्षपितकल्मषाय आह ॥
इति दशमखण्डभाष्यम् ॥
तद्यत्रैतत्सुप्तः समस्तः सम्प्रसन्नः स्वप्नं न विजानात्येष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेति स ह शान्तहृदयः प्रवव्राज स हाप्राप्यैव देवानेतद्भयं ददर्श नाह खल्वयमेवꣳ संप्रत्यात्मानं जानात्ययमहमस्मीति नो एवेमानि भूतानि विनाशमेवापीतो भवति नाहमत्र भोग्यं पश्यामीति ॥ १ ॥
स समित्पाणिः पुनरेयाय तꣳ ह प्रजापतिरुवाच मघवन्यच्छान्तहृदयः प्राव्राजीः किमिच्छन्पुनरागम इति स होवाच नाह खल्वयं भगव एवꣳ संप्रत्यात्मानं जानात्ययमहमस्मीति नो एवेमानि भूतानि विनाशमेवापीतो भवति नाहमत्र भोग्यं पश्यामीति ॥ २ ॥
पूर्ववदेतं त्वेव त इत्याद्युक्त्वा तद्यत्रैतत्सुप्त इत्यादि व्याख्यातं वाक्यम् । अक्षिणि यो द्रष्टा स्वप्ने च महीयमानश्चरति स एषः सुप्तः समस्तः सम्प्रसन्नः स्वप्नं न विजानाति, एष आत्मेति ह उवाच एतदमृतमभयमेतद्ब्रह्मेति स्वाभिप्रेतमेव । मघवान् तत्रापि दोषं ददर्श । कथम् ? नाह नैव सुषुप्तस्थोऽप्यात्मा खल्वयं सम्प्रति सम्यगिदानीं च आत्मानं जानाति नैवं जानाति । कथम् ? अयमहमस्मीति नो एवेमानि भूतानि चेति । यथा
जाग्रति स्वप्ने वा । अतो विनाशमेव विनाशमिवेति पूर्ववद्द्रष्टव्यम् । अपीतः अपिगतो भवति, विनष्ट इव भवतीत्यभिप्रायः । ज्ञाने हि सति ज्ञातुः सद्भावोऽवगम्यते, न असति ज्ञाने । न च सुषुप्तस्य ज्ञानं दृश्यते ; अतो विनष्ट इवेत्यभिप्रायः । न तु विनाशमेव आत्मनो मन्यते अमृताभयवचनस्य प्रामाण्यमिच्छन् ॥
एवमेवैष मघवन्निति होवाचैतं त्वेव ते भूयोऽनुव्याख्यास्यामि नो एवान्यत्रैतस्माद्वसापराणि पञ्च वर्षाणीति स हापराणि पञ्च वर्षाण्युवास तान्येकशतꣳ सम्पेदुरेतत्तद्यदाहुरेकशतं ह वै वर्षाणि मघवान्प्रजापतौ ब्रह्मचर्यमुवास तस्मै होवाच ॥ ३ ॥
पूर्ववदेवमेवेत्युक्त्वा आह — यो मया उक्तः त्रिभिः पर्यायैः तमेवैतं नो एवान्यत्रैतस्मादात्मनः अन्यं कञ्चन, किं तर्हि, एतमेव व्याख्यास्यामि । स्वल्पस्तु दोषस्तवावशिष्टः, तत्क्षपणाय वस अपराणि अन्यानि पञ्च वर्षाणि — इत्युक्तः सः तथा चकार । तस्मै मृदितकषायादिदोषाय स्थानत्रयदोषसम्बन्धरहितमात्मनः स्वरूपम् अपहतपाप्मत्वादिलक्षणं मघवते तस्मै ह उवाच । तान्येकशतं वर्षाणि सम्पेदुः सम्पन्नानि बभूवुः । यदाहुर्लोके शिष्टाः — एकशतं ह वै वर्षाणि मघवान्प्रजापतौ ब्रह्मचर्यमुवास इति । तदेतद्द्वात्रिंशतमित्यादिना दर्शितमित्याख्यायिकातः अपसृत्य श्रुत्या उच्यते । एवं किल तदिन्द्रत्वादपि गुरुतरम् इन्द्रेणापि महता यत्नेन एकोत्तरवर्षशतकृतायासेन प्राप्तमात्मज्ञानम् । अतो नातः परं पुरुषार्थान्तरमस्तीत्यात्मज्ञानं स्तौति ॥
इति एकादशखण्डभाष्यम् ॥
मघवन्मर्त्यं वा इदꣳ शरीरमात्तं मृत्युना तदस्यामृतस्याशरीरस्यात्मनोऽधिष्ठानमात्तो वै सशरीरः प्रियाप्रियाभ्यां न वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्त्यशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः ॥ १ ॥
मघवन् मर्त्यं वै मरणधर्मीदं शरीरम् । यन्मन्यसेऽक्ष्याधारादिलक्षणः सम्प्रसादलक्षण आत्मा मयोक्तो विनाशमेवापीतो भवतीति, शृणु तत्र कारणम् — यदिदं शरीरं वै यत्पश्यसि तदेतत् मर्त्यं विनाशि । तच्च आत्तं मृत्युना ग्रस्तं सततमेव । कदाचिदेव म्रियत इति मर्त्यमित्युक्ते न तथा सन्त्रासो भवति, यथा ग्रस्तमेव सदा व्याप्तमेव मृत्युनेत्युक्ते — इति वैराग्यार्थं विशेष इत्युच्यते — आत्तं मृत्युनेति । कथं नाम देहाभिमानतो विरक्तः सन् निवर्तत इति । शरीरमित्यत्र सहेन्द्रियमनोभिरुच्यते । तच्छरीरमस्य सम्प्रसादस्य त्रिस्थानतया गम्यमानस्य अमृतस्य मरणादिदेहेन्द्रियमनोधर्मवर्जितस्येत्येतत् ; अमृतस्येत्यनेनैव अशरीरत्वे सिद्धे पुनरशरीरस्येति वचनं वाय्वादिवत् सावयवत्वमूर्तिमत्त्वे मा भूतामिति ; आत्मनो भोगाधिष्ठानम् ; आत्मनो वा सत ईक्षितुः तेजोबन्नादिक्रमेण उत्पन्नमधिष्ठानम् ; जीव रूपेण प्रविश्य सदेवाधितिष्ठत्यस्मिन्निति वा अधिष्ठानम् । यस्येदमीदृशं नित्यमेव मृत्युग्रस्तं धर्माधर्मजनितत्वात्प्रियवदधिष्ठानम् , तदधिष्ठितः तद्वान् सशरीरो भवति । अशरीरस्वभावस्य आत्मनः तदेवाहं शरीरं शरीरमेव च अहम् — इत्यविवेकादात्मभावः सशरीरत्वम् ; अत एव सशरीरः सन् आत्तः ग्रस्तः प्रियाप्रियाभ्याम् । प्रसिद्धमेतत् । तस्य च न वै सशरीरस्य सतः प्रियाप्रिययोः बाह्यविषयसंयोगवियोगनिमित्तयोः बाह्यविषयसंयोगवियोगौ ममेति मन्यमानस्य अपहतिः विनाशः उच्छेदः सन्ततिरूपयोर्नास्तीति । तं पुनर्देहाभिमानादशरीरस्वरूपविज्ञानेन निवर्तिताविवेकज्ञानमशरीरं सन्तं प्रियाप्रिये न स्पृशतः । स्पृशिः प्रत्येकं सम्बध्यत इति प्रियं न स्पृशति अप्रियं न स्पृशतीति वाक्यद्वयं भवति । ‘न म्लेच्छाशुच्यधार्मिकैः सह सम्भाषेत’ (गौ. ध. १ । ९ । १७) इति यद्वत् । धर्माधर्मकार्ये हि ते ; अशरीरता तु स्वरूपमिति तत्र धर्माधर्मयोरसम्भवात् तत्कार्यभावो दूरत एवेत्यतो न प्रियाप्रिये स्पृशतः ॥
ननु यदि प्रियमप्यशरीरं न स्पृशतीति, यन्मघवतोक्तं सुषुप्तस्थो विनाशमेवापीतो भवतीति, तदेवेहाप्यापन्नम् । नैष दोषः, धर्माधर्मकार्ययोः शरीरसम्बन्धिनोः प्रियाप्रिययोः प्रतिषेधस्य विवक्षितत्वात् — अशरीरं न प्रियाप्रिये स्पृशत इति । आगमापायिनोर्हि स्पर्शसब्दो दृष्टः — यथा शीतस्पर्श उष्णस्पर्श इति, न त्वग्नेरुष्णप्रकाशयोः स्वभावभूतयोरग्निना स्पर्श इति भवति ; तथा अग्नेः सवितुर्वा उष्णप्रकाशवत् स्वरूपभूतस्य आनन्दस्य प्रियस्यापि नेह प्रतिषेधः, ‘विज्ञानमानन्दं ब्रह्म’ (बृ. उ. ३ । ९ । २८) ‘आनन्दो ब्रह्म’ (तै. उ. ३ । ६ । १) इत्यादिश्रुतिभ्यः । इहापि भूमैव सुखमित्युक्तत्वात् । ननु भूम्नः प्रियस्य एकत्वे असंवेद्यत्वात् स्वरूपेणैव वा नित्यसंवेद्यत्वात् निर्विशेषतेति न इन्द्रस्य तदिष्टम् , ‘नाह खल्वयं संप्रत्यात्मानं जानात्ययमहमस्मीति नो एवेमानि भूतानि विनाशमेवापीतो भवति नाहमत्र भोग्यं पश्यामि’ (छा. उ. ७ । ११ । २) इत्युक्तत्वात् । तद्धि इन्द्रस्येष्टम् — यद्भूतानि च आत्मानं च जानाति, न च अप्रियं किञ्चिद्वेत्ति, स सर्वांश्च लोकानाप्नोति सर्वांश्च कामान् येन ज्ञानेन । सत्यमेतदिष्टमिन्द्रस्य — इमानि भूतानि मत्तोऽन्यानि, लोकाः कामाश्च सर्वे मत्तो अन्ये, अहमेषां स्वामीति । न त्वेतदिन्द्रस्य हितम् । हितं च इन्द्रस्य प्रजापतिना वक्तव्यम् । व्योमवदशरीरात्मतया सर्वभूतलोककामात्मत्वोपगमेन या प्राप्तिः, तद्धितमिन्द्राय वक्तव्यमिति प्रजापतिना अभिप्रेतम् । न तु राज्ञो राज्याप्तिवदन्यत्वेन । तत्रैवं सति कं केन विजानीयादात्मैकत्वे इमानि भूतान्ययमहमस्मीति । नन्वस्मिन्पक्षे ‘स्त्रीभिर्वा यानैर्वा’ (छा. उ. ८ । १२ । ३) ‘स यदि पितृलोककामः’ (छा. उ. ८ । २ । १) ‘स एकधा भवति’ (छा. उ. ७ । २६ । २) इत्याद्यैश्वर्यश्रुतयोऽनुपपन्नाः ; न, सर्वात्मनः सर्वफलसम्बन्धोपपत्तेरविरोधात् — मृद इव सर्वघटकरककुण्डाद्याप्तिः । ननु सर्वात्मत्वे दुःखसम्बन्धोऽपि स्यादिति चेत् , न, दुःखस्याप्यात्मत्वोपगमादविरोधः । आत्मन्यविद्याकल्पनानिमित्तानि दुःखानि — रज्ज्वामिव सर्पादिकल्पनानिमित्तानि । सा च अविद्या अशरीरात्मैकत्वस्वरूपदर्शनेन दुःखनिमित्ता उच्छिन्नेति दुःखसम्बन्धाशङ्का न सम्भवति । शुद्धसत्त्वसङ्कल्पनिमित्तानां तु कामानाम् ईश्वरदेहसम्बन्धः सर्वभूतेषु मानसानाम् । पर एव सर्वसत्त्वोपाधिद्वारेण भोक्तेति सर्वाविद्याकृतसंव्यवहाराणां पर एव आत्मा आस्पदं नान्योऽस्तीति वेदान्तसिद्धान्तः ॥
‘य एषोऽक्षिणि पुरुषो दृश्यते’ इति च्छायापुरुष एव प्रजापतिना उक्तः, स्वप्नसुषुप्तयोश्च अन्य एव, न परोऽपहतपाप्मत्वादिलक्षणः, विरोधात् इति केचिन्मन्यन्ते । छायाद्यात्मनां च उपदेशे प्रयोजनमाचक्षते । आदावेव उच्यमाने किल दुर्विज्ञेयत्वात्परस्य आत्मनः अत्यन्तबाह्यविषयासक्तचेतसः अत्यन्तसूक्ष्मवस्तुश्रवणे व्यामोहो मा भूदिति । यथा किल द्वितीयायां सूक्ष्मं चन्द्रं दिदर्शयिषुः वृक्षं कञ्चित्प्रत्यक्षमादौ दर्शयति — पश्य अमुमेष चन्द्र इति, ततोऽन्यं ततोऽप्यन्यं गिरिमूर्धानं च चन्द्रसमीपस्थम् — एष चन्द्र इति, ततोऽसौ चन्द्रं पश्यति, एवमेतत् ‘य एषोऽक्षिणि’ इत्याद्युक्तं प्रजापतिना त्रिभिः पर्यायैः, न पर इति । चतुर्थे तु पर्याये देहान्मर्त्यात्समुत्थाय अशरीरतामापन्नो ज्योतिःस्वरूपम् । यस्मिन्नुत्तमपुरुषे स्त्रयादिभिर्जक्षत्क्रीडन् रममाणो भवति, स उत्तमः पुरुषः पर उक्त इति च आहुः । सत्यम् , रमणीया तावदियं व्याख्या श्रोतुम् । न तु अर्थोऽस्य ग्रन्थस्य एवं सम्भवति । कथम् ? ‘अक्षिणि पुरुषो दृश्यते’ इत्युपन्यस्य शिष्याभ्यां छायात्मनि गृहीते तयोस्तद्विपरीतग्रहणं मत्वा तदपनयाय उदशरावोपन्यासः ‘किं पश्यथः’ (छा. उ. ८ । ८ । १) इति च प्रश्नः साध्वलङ्कारोपदेशश्च अनर्थकः स्यात् , यदि छायात्मैव प्रजापतिना ‘अक्षिणि दृश्यते’ इत्युपदिष्टः । किञ्च यदि स्वयमुपदिष्ट इति ग्रहणस्याप्यपनयनकारणं वक्तव्यं स्यात् । स्वप्नसुषुप्तात्मग्रहणयोरपि तदपनयकारणं च स्वयं ब्रूयात् । न च उक्तम् । तेन मन्यामहे न अक्षिणि च्छायात्मा प्रजापतिना उपदिष्टः । किं चान्यत् , अक्षिणि द्रष्टा चेत् ‘दृश्यते’ इत्युपदिष्टः स्यात् , तत इदं युक्तम् । ‘एतं त्वेव ते’ इत्युक्त्वा स्वप्नेऽपि द्रष्टुरेवोपदेशः । स्वप्ने न द्रष्टोपदिष्ट इति चेत् , न, ‘अपि रोदितीव’ ‘अप्रियवेत्तेव’ इत्युपदेशात् । न च द्रष्टुरन्यः कश्चित्स्वप्ने महीयमानश्चरति । ‘अत्रायं पुरुषः स्वयञ्ज्योतिः’ (बृ. उ. ४ । ३ । ९) इति न्यायतः श्रुत्यन्तरे सिद्धत्वात् । यद्यपि स्वप्ने सधीर्भवति, तथापि न धीः स्वप्नभोगोपलब्धिं प्रति करणत्वं भजते । किं तर्हि, पटचित्रवज्जाग्रद्वासनाश्रया दृश्यैव धीर्भवतीति न द्रष्टुः स्वयञ्ज्योतिष्ट्वबाधः स्यात् । किञ्चान्यत् , जाग्रत्स्वप्नयोर्भूतानि च आत्मानं च जानाति — इमानि भूतान्ययमहमस्मीति । प्राप्तौ सत्यां प्रतिषेधो युक्तः स्यात् — नाह खल्वयमित्यादि । तथा चेतनस्यैव अविद्यानिमित्तयोः सशरीरत्वे सति प्रियाप्रिययोरपहतिर्नास्तीत्युक्त्वा तस्यैवाशरीरस्य सतो विद्यायां सत्यां सशरीरत्वे प्राप्तयोः प्रतिषेधो युक्तः ‘अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः’ (छा. उ. ८ । १२ । १) इति । एकश्चात्मा स्वप्नबुद्वान्तयोर्महामत्स्यवदसङ्गः सञ्चरतीति श्रुत्यन्तरे सिद्धम् । यच्चोक्तं सम्प्रसादः शरीरात्समुत्थाय यस्मिन्‌स्त्र्यादिभिः रममाणो भवति सोऽन्यः सम्प्रसादादधिकरणनिर्दिष्ट उत्तमः पुरुष इति, तदप्यसत् । चतुर्थेऽपि पर्याये ‘एतं त्वेव ते’ इति वचनात् । यदि ततोऽन्योऽभिप्रेतः स्यात् , पूर्ववत् ‘एतं त्वेव ते’ इति न ब्रूयान्मृषा प्रजापतिः । किञ्चान्यत् , तेजोबन्नादीनां स्रष्टुः सतः स्वविकारदेहशुङ्गे प्रवेशं दर्शयित्वा प्रविष्टाय पुनः तत्त्वमसीत्युपदेशः मृषा प्रसज्येत । तस्मिंस्त्वं स्त्र्यादिभिः रन्ता भविष्यसीति युक्त उपदेशोऽभविष्यत् यदि सम्प्रसादादन्य उत्तमः पुरुषो भवेत् । तथा भूम्नि ‘अहमेव’ (छा. उ. ७ । २५ । २) इत्यादिश्य ‘आत्मैवेदं सर्वम्’ इति नोपसमहरिष्यत् , यदि भूमा जीवादन्योऽभविष्यत् , ‘नान्योऽतोऽस्ति द्रष्टा’ (बृ. उ. ३ । ७ । २३) इत्यादिश्रुत्यन्तराच्च । सर्वश्रुतिषु च परस्मिन्नात्मशब्दप्रयोगो नाभविष्यत् प्रत्यगात्मा चेत्सर्वजन्तूनां पर आत्मा न भवेत् । तस्मादेक एव आत्मा प्रकरणी सिद्धः ॥
न च आत्मनः संसारित्वम् , अविद्याध्यस्तत्वादात्मनि संसारस्य । न हि रज्जुशुक्तिकागगनादिषु सर्परजतमलादीनि मिथ्याज्ञानाध्यस्तानि तेषां भवन्तीति । एतेन सशरीरस्य प्रियाप्रिययोरपहतिर्नास्तीति व्याख्यातम् । यच्च स्थितमप्रियवेत्तेवेति नाप्रियवेत्तैवेति सिद्धम् । एवं च सति सर्वपर्यायेषु ‘एतदमृतमभयमेतद्ब्रह्म’ इति प्रजापतेर्वचनम् , यदि वा प्रजापतिच्छद्मरूपायाः श्रुतेर्वचनम् , सत्यमेव भवेत् । न च तत्कुतर्कबुद्ध्या मृषा कर्तुं युक्तम् , ततो गुरुतरस्य प्रमाणान्तरस्यानुपपत्तेः । ननु प्रत्यक्षं दुःखाद्यप्रियवेत्तृत्वमव्यभिचार्यनुभूयत इति चेत् , न, जरादिरहितो जीर्णोऽहं जातोऽहमायुष्मान्गौरः कृष्णो मृतः — इत्यादिप्रत्यक्षानुभववत्तदुपपत्तेः । सर्वमप्येतत्सत्यमिति चेत् , अस्त्येवैतदेवं दुरवगमम् , येन देवराजोऽप्युदशरावादिदर्शिताविनाशयुक्तिरपि मुमोहैवात्र ‘विनाशमेवापीतो भवति’ इति । तथा विरोचनो महाप्राज्ञः प्राजापत्योऽपि देहमात्रात्मदर्शनो बभूव । तथा इन्द्रस्य आत्मविनाशभयसागरे एव वैनाशिका न्यमज्जन् । तथा साङ्ख्या द्रष्टारं देहादिव्यतिरिक्तमवगम्यापि त्यक्तागमप्रमाणत्वात् मृत्युविषये एव अन्यत्वदर्शने तस्थुः । तथा अन्ये काणादादिदर्शनाः कषायरक्तमिव क्षारादिभिर्वस्त्रं नवभिरात्मगुणैर्युक्तमात्मद्रव्यं विशोधयितुं प्रवृत्ताः । तथा अन्ये कर्मिणो बाह्यविषयापहृतचेतसः वेदप्रमाणा अपि परमार्थसत्यमात्मैकत्वं सविनाशमिव इन्द्रवन्मन्यमाना घटीयन्‍त्रवत् आरोहावरोहप्रकारैरनिशं बम्भ्रमन्ति ; किमन्ये क्षुद्रजन्तवो विवेकहीनाः स्वभावत एव बहिर्विषयापहृतचेतसः । तस्मादिदं त्यक्तसर्वबाह्यैषणैः अनन्यशरणैः परमहंसपरिव्राजकैः अत्याश्रमिभिर्वेदान्तविज्ञानपरैरेव वेदनीयं पूज्यतमैः प्राजापत्यं च इमं सम्प्रदायमनुसरद्भिः उपनिबद्धं प्रकरणचतुष्टयेन । तथा अनुशासति अद्यापि ‘त एव नान्ये’ इति ॥
अशरीरो वायुरभ्रं विद्युत्स्तनयित्नुरशरीराण्येतानि तद्यथैतान्यमुष्मादाकाशात्समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यन्ते ॥ २ ॥
तत्र अशरीरस्य सम्प्रसादस्य अविद्यया शरीरेणाविशेषतां सशरीरतामेव सम्प्राप्तस्य शरीरात्समुत्थाय स्वेन रूपेण यथा अभिनिष्पत्तिः, तथा वक्तव्येति दृष्टान्त उच्यते — अशरीरो वायुः अविद्यमानं शिरःपाण्यादिमच्छरीरमस्येत्यशरीरः । किं च अभ्रं विद्युत्स्तनयित्नुरित्येतानि च अशरीराणि । तत् तत्रैवं सति वर्षादिप्रयोजनावसाने यथा, अमुष्मादिति भूमिष्ठा श्रुतिः द्युलोकसम्बन्धिनमाकाशदेशं व्यपदिशति, एतानि यथोक्तान्याकाशसमानरूपतामापन्नानि स्वेन वाय्वादिरूपेणागृह्यमाणानि आकाशाख्यतां गतानि — यथा सम्प्रसादः अविद्यावस्थायां शरीरात्मभावमेव आपन्नः, तानि च तथाभूतान्यमुष्मात् द्युलोकसम्बन्धिन आकाशदेशात्समुत्तिष्टन्ति वर्षणादिप्रयोजनाभिनिर्वृत्तये । कथम् ? शिशिरापाये सावित्रं परं ज्योतिः प्रकृष्टं गॆष्मकमुपसम्पद्य सावित्रमभितापं प्राप्येत्यथः । आदित्याभितापेन पृथग्भावमापादिताः सन्तः स्वेन स्वेन रूपेण पुरोवातादिवायुरूपेण स्तिमितभावं हित्वा अभ्रमपि भूमिपर्वतहस्त्यादिरूपेण विद्युदपि स्वेन ज्योतिर्लतादिचपलरूपेण स्तनयित्नुरपि स्वेन गर्जिताशनिरूपेणेत्येवं प्रावृडागमे स्वेन स्वेन रूपेणाभिनिष्पद्यन्ते ॥
एवमेवैष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते स उत्तमपुरुषः स तत्र पर्येति जक्षत्क्रीडन् रममाणः स्त्रीभिर्वा यानैर्वा ज्ञातिभिर्वा नोपजनꣳ स्मरन्निदꣳ शरीरꣳ स यथा प्रयोग्य आचरणे युक्त एवमेवायमस्मिञ्छरीरे प्राणो युक्तः ॥ ३ ॥
यथा अयं दृष्टान्तो वाय्वादीनामाकाशादिसाम्यगमनवदविद्यया संसारावस्थायां शरीरसाम्यमापन्नः अहममुष्य पुत्रो जातो जीर्णो मरिष्ये — इत्येवंप्रकारं प्रजापतिनेव मघवान् यथोक्तेन क्रमेण नासि त्वं देहेन्द्रियादिधर्मा तत्त्वमसीति प्रतिबोधितः सन् स एष सम्प्रसादो जीवोऽस्माच्छरीरादाकाशादिव वाय्वादयः समुत्थाय देहादिविलक्षणमात्मनो रूपमवगम्य देहात्मभावनां हित्वेत्येतत् , स्वेन रूपेण सदात्मनैवाभिनिष्पद्यत इति व्याख्यातं पुरस्तात् । स येन स्वेन रूपेण सम्प्रसादोऽभिनिष्पद्यते — प्राक्प्रतिबोधात् तद्भ्रान्तिनिमित्तात्सर्पो भवति यथा रज्जुः, पश्चात्कृतप्रकाशा रज्ज्वात्मना स्वेन रूपेणाभिनिष्पद्यते, एवं च स उत्तमपुरुषः उत्तमश्चासौ पुरुषश्चेत्युत्तमपुरुषः स एव उत्तमपुरुषः । अक्षिस्वप्नपुरुषौ व्यक्तौ अव्यक्तश्च सुषुप्तः समस्तः सम्प्रसन्नः अशरीरश्च स्वेन रूपेणेति । एषामेव स्वेन रूपेणावस्थितः क्षराक्षरौ व्याकृताव्याकृतावपेक्ष्य उत्तमपुरुषः ; कृतनिर्वचनो हि अयं गीतासु । सः सम्प्रसादः स्वेन रूपेण तत्र स्वात्मनि स्वस्थतया सर्वात्मभूतः पर्येति क्वचिदिन्द्राद्यात्मना जक्षत् हसन् भक्षयन् वा भक्ष्यान् उच्चावचान् ईप्सितान् क्वचिन्मनोमातॆः सङ्कल्पादेव समुत्थितैर्ब्राह्मलौकिकैर्वा क्रीडन् स्त्र्यादिभिः रममाणश्च मनसैव, नोपजनम् , स्त्रीपुंसयोरन्योन्योपगमेन जायत इत्युपजनम् आत्मभावेन वा आत्मसामीप्येन जायत इत्युपजनमिदं शरीरम् , तन्न स्मरन् । तत्स्मरणे हि दुःखमेव स्यात् , दुःखात्मकत्वात् तस्य । नन्वनुभूतं चेत् न स्मरेत् असर्वज्ञत्वं मुक्तस्य ; नैष दोषः । येन मिथ्याज्ञानादिना जनितम् तच्च मिथ्याज्ञानादि विद्यया उच्छेदितम् , अतस्तन्नानुभूतमेवेति न तदस्मरणे सर्वज्ञत्वहानिः । न हि उन्मत्तेन ग्रहगृहीतेन वा यदनुभूतं तदुन्मादाद्यपगमेऽपि स्मर्तव्यं स्यात् ; तथेहापि संसारिभिरविद्यादोषवद्भिः यदनुभूयते तत्सर्वात्मानमशरीरं न स्पृशति, अविद्यानिमित्ताभावात् । ये तु उच्छिन्नदोषैर्मृदितकषायैः मानसाः सत्याः कामा अनृतापिधाना अनुभूयन्ते विद्याभिव्यङ्ग्यत्वात् , त एव मुक्तेन सर्वात्मभूतेन सम्बध्यन्त इति आत्मज्ञानस्तुतये निर्दिश्यन्ते ; अतः साध्वेतद्विशिनष्टि — ‘य एते ब्रह्मलोके’ (छा. उ. ८ । १२ । ५) इति । यत्र क्वचन भवन्तोऽपि ब्रह्मण्येव हि ते लोके भवन्तीति सर्वात्मत्वाद्ब्रह्मण उच्यन्ते ॥
ननु कथमेकः सन् नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमा कामांश्च ब्राह्मलौकिकान्पश्यन्रमते इति च विरुद्धम् , यथा एको यस्मिन्नेव क्षणे पश्यति स तस्मिन्नेव क्षणे न पश्यति च इति । नैष दोषः, श्रुत्यन्तरे परिहृतत्वात् । द्रष्टुर्दृष्टेरविपरिलोपात्पश्यन्नेव भवति ; द्रष्टुरन्यत्वेन कामानामभावान्न पश्यति च इति । यद्यपि सुषुप्ते तदुक्तम् , मुक्तस्यापि सर्वैकत्वात्समानो द्वितीयाभावः । ‘केन कं पश्येत्’ (बृ. उ. २ । ४ । १४) इति च उक्तमेव । अशरीरस्वरूपोऽपहतपाप्मादिलक्षणः सन् कथमेष पुरुषोऽक्षिणि दृश्यत इत्युक्तः प्रजापतिना ? तत्र यथा असावक्षिणि साक्षाद्दृश्यते तद्वक्तव्यमितीदमारभ्यते । तत्र को हेतुरक्षिणि दर्शने इति, आह — स दृष्टान्तः यथा प्रयोग्यः, प्रयोग्यपरो वा स - शब्दः, प्रयुज्यत इति प्रयोगः, अश्वो बलीवर्दो वा यथा लोके आचरत्यनेनेत्याचरणः रथः अनो वा तस्मिन्नाचरणे युक्तः तदाकर्षणाय, एवमस्मिञ्छरीरे रथस्थानीये प्राणः पञ्चवृत्तिरिन्द्रियमनोबुद्धिसंयुक्तः प्रज्ञात्मा विज्ञानक्रियाशक्तिद्वयसंमूर्छितात्मा युक्तः स्वकर्मफलोपभोगनिमित्तं नियुक्तः, ‘कस्मिन्न्वहमुत्क्रान्ते उत्क्रान्तो भविष्यामि कस्मिन्वा प्रतिष्ठिते प्रतिष्ठास्यामीति’ (प्र. उ. ६ । ३) ईश्वरेण राज्ञेव सर्वाधिकारी दर्शनश्रवणचेष्टाव्यापारेऽधिकृतः । तस्यैव तु मात्रा एकदेशश्चक्षुरिन्द्रियं रूपोपलब्धिद्वारभूतम् ॥
अथ यत्रैतदाकाशमनुविषण्णं चक्षुः स चाक्षुषः पुरुषो दर्शनाय चक्षुरथ यो वेदेदं जिघ्राणीति स आत्मा गन्धाय घ्राणमथ यो वेदेदमभिव्याहराणीति स आत्माभिव्याहाराय वागथ यो वेदेदं शृणवानीति स आत्मा श्रवणाय श्रोत्रम् ॥ ४ ॥
अथ यत्र कृष्णतारोपलक्षितम् आकाशं देहच्छिद्रम् अनुविषण्णम् अनुषक्तम् अनुगतम् , तत्र स प्रकृतः अशरीर आत्मा चाक्षुषः चक्षुषि भव इति चाक्षुषः तस्य दर्शनाय रूपोपलब्धये चक्षुः करणम् ; यस्य तत् देहादिभिः संहतत्वात् परस्य द्रष्टुरर्थे, सोऽत्र चक्षुषि दर्शनेन लिङ्गेन दृश्यते परः अशरीरोऽसंहतः । ‘अक्षिणि दृश्यते’ इति प्रजापतिनोक्तं सर्वेन्द्रियद्वारोपलक्षणार्थम् ; सर्वविषयोपलब्धा हि स एवेति । स्फुटोपलब्धिहेतुत्वात्तु ‘अक्षिणि’ इति विशेषवचनं सर्वश्रुतिषु । ‘अहमदर्शमिति तत्सत्यं भवति’ इति च श्रुतेः । अथापि योऽस्मिन्देहे वेद ; कथम् ? इदं सुगन्धि दुर्गन्धि वा जिघ्राणीति अस्य गन्धं विजानीयामिति, स आत्मा, तस्य गन्धाय गन्धविज्ञानाय घ्राणम् । अथ यो वेद इदं वचनम् अभिव्याहराणीति वदिष्यामीति, स आत्मा, अभिव्याहरणक्रियासिद्धये करणं वागिन्द्रियम् । अथ यो वेद — इदं शृणवानीति, स आत्मा, श्रवणाय श्रोत्रम् ॥
अथ यो वेदेदं मन्वानीति स आत्मा मनोऽस्य दैवं चक्षुः स वा एष एतेन दैवेन चक्षुषा मनसैतान्कामान्पश्यन्रमते य एते ब्रह्मलोके ॥ ५ ॥
अथ यो वेद — इदं मन्वानीति मननव्यापारमिन्द्रियासंस्पृष्टं केवलं मन्वानीति वेद, स आत्मा, मननाय मनः । यो वेद स आत्मेत्येवं सर्वत्र प्रयोगात् वेदनमस्य स्वरूपमित्यवगम्यते — यथा यः पुरस्तात्प्रकाशयति सअदित्यः, यो दक्षिणतः यः पश्चात् उत्तरतो य ऊर्ध्वं प्रकाशयति स आदित्यः — इत्युक्ते प्रकाशस्वरूपः स इति गम्यते । दर्शनादिक्रियानिर्वृत्त्यर्थानि तु चक्षुरादिकरणानि । इदं च अस्य आत्मनः सामर्थ्यादवगम्यते — आत्मनः सत्तामात्र एव ज्ञानकर्तृत्वम् , न तु व्यापृततया — यथा सवितुः सत्तामात्र एव प्रकाशनकर्तृत्वम् , न तु व्यापृततयेति — तद्वत् । मनोऽस्य आत्मनो दैवमप्राकृतम् इतरेन्द्रियैरसाधारणं चक्षुः चष्टे पश्यत्यनेनेति चक्षुः । वर्तमानकालविषयाणि च इन्द्रियाणि अतो अदैवानि तानि । मनस्तु त्रिकालविषयोपलब्धिकरणं मृदितदोषं च सूक्ष्मव्यवहितादिसर्वोपलब्धिकरणं च इति दैवं चक्षुरुच्यते । स वै मुक्तः स्वरूपापन्नः अविद्याकृतदेहेन्द्रियमनोवियुक्तः सर्वात्मभावमापन्नः सन् एष व्योमवद्विशुद्धः सर्वेश्वरो मनउपाधिः सन् एतेनैवेश्वरेण मनसा एतान्कामान् सवितृप्रकाशवत् नित्यप्रततेन दर्शनेन पश्यन् रमते । कान्कामानिति विशिनष्टि — य एते ब्रह्मणि लोके हिरण्यनिधिवत् बाह्यविषयासङ्गानृतेनापिहिताः सङ्कल्पमात्रलभ्याः तानित्यर्थः ॥
तं वा एतं देवा आत्मानमुपासते तस्मात्तेषाꣳ सर्वेच लोका आत्ताः सर्वे च कामाः स सर्वाꣳश्च लोकानाप्नोति सर्वाꣳश्च कामान्यस्तमात्मानमनुविद्य विजानातीति ह प्रजापतिरुवाच प्रजापतिरुवाच ॥ ६ ॥
यस्मादेष इन्द्राय प्रजापतिनोक्त आत्मा, तस्मात् ततः श्रुत्वा तमात्मानमद्यत्वेऽपि देवा उपासते । तदुपासनाच्च तेषां सर्वे च लोका आत्ताः प्राप्ताः सर्वे च कामाः । यदर्थं हि इन्द्रः एकशतं वर्षाणि प्रजापतौ ब्रह्मचर्यमुवास, तत्फलं प्राप्तं देवैरित्यभिप्रायः । तद्युक्तं देवानां महाभाग्यत्वात् , न त्विदानीं मनुष्याणामल्पजीवितत्वान्मन्दतरप्रज्ञत्वाच्च सम्भवतीति प्राप्ते, इदमुच्यते — स सर्वांश्च लोकानाप्नोति सर्वांश्च कामान् इदानीन्तनोऽपि । कोऽसौ ? इन्द्रादिवत् यः तमात्मानमनुविद्य विजानातीति ह सामान्येन किल प्रजापतिरुवाच । अतः सर्वेषामात्मज्ञानं तत्फलप्राप्तिश्च तुल्यैव भवतीत्यर्थः । द्विर्वचनं प्रकरणसमाप्त्यर्थम् ॥
इति द्वादशखण्डभाष्यम् ॥
श्यामाच्छबलं प्रपद्ये शबलाच्छ्यामं प्रपद्येऽश्व इव रोमाणि विधूय पापं चन्द्रं इव राहोर्मुखात्प्रमुच्य धूत्वा शरीरमकृतं कृतात्मा ब्रह्मलोकमभिसम्भवामीत्यभिसम्भवामीति ॥ १ ॥
श्यामात् शबलं प्रपद्ये इत्यादिमन्त्राम्नायः पावनः जपार्थश्च ध्यानार्थो वा । श्यामः गम्भीरो वर्णः श्याम इव श्यामः हार्दं ब्रह्म अत्यन्तदुरवगाह्यत्वात् तत् हार्दं ब्रह्म ज्ञात्वा ध्यानेन तस्माच्छ्यामात् शबलं शबल इव शबलः अरण्याद्यनेककाममिश्रत्वाद्ब्रह्मलोकस्य शाबल्यं तं ब्रह्मलोकं शबलं प्रपद्ये मनसा शरीरपाताद्वा ऊर्ध्वं गच्छेयम् । यस्मादहं शबलाद्ब्रह्मलोकात् नामरूपव्याकरणाय श्यामं प्रपद्ये हार्दभावं प्रपन्नोऽस्मीत्यभिप्रायः । अतः तमेव प्रकृतिस्वरूपमात्मानं शबलं प्रपद्य इत्यर्थः । कथं शबलं ब्रह्मलोकं प्रपद्ये इति, उच्यते — अश्व इव स्वानि लोमानि विधूय कम्पनेन श्रमं पांस्वादि च रोमतः अपनीय यथा निर्मलो भवति, एवं हार्दब्रह्मज्ञानेन विधूय पापं धर्माधर्माख्यं चन्द्र इव च राहुग्रस्तः तस्माद्राहोर्मुखात्प्रमुच्य भास्वरो भवति यथा — एवं धूत्वा प्रहाय शरीरं सर्वानर्थाश्रयम् इहैव ध्यानेन कृतात्मा कृतकृत्यः सन् अकृतं नित्यं ब्रह्मलोकम् अभिसम्भवामीति । द्विर्वचनं मन्‍त्रसमाप्त्यर्थम् ॥
इति त्रयोदशखण्डभाष्यम् ॥
आकाशो वै नाम नामरूपयोर्निर्वहिता ते यदन्तरा तद्ब्रह्म तदमृतꣳ स आत्मा प्रजापतेः सभां वेश्म प्रपद्ये यशोऽहं भवामि ब्राह्मणानां यशो राज्ञां यशो विशां यशोऽहमनुप्रापत्सि स हाहं यशसां यशः श्येतमदत्कमदत्कꣳ श्येतं लिन्दु माभिगां लिन्दु माभिगाम् ॥ १ ॥
आकाशो वा इत्यादि ब्रह्मणो लक्षणनिर्देशार्थम् आध्यानाय । आकाशो वै नाम श्रुतिषु प्रसिद्ध आत्मा । आकाश इव अशरीरत्वात्सूक्ष्मत्वाच्च । स च आकाशः नामरूपयोः स्वात्मस्थयोर्जगद्बीजभूतयोः सलिलस्येव फेनस्थानीययोः निर्वहिता निर्वोढा व्याकर्ता । ते नामरूपे यदन्तरा यस्य ब्रह्मणो अन्तरा मध्ये वर्तेते, तयोर्वा नामरूपयोरन्तरा मध्ये यन्नामरूपाभ्यामस्पृष्टं यदित्येतत् , तद्ब्रह्म नामरूपविलक्षणं नामरूपाभ्यामस्पृष्टं तथापि तयोर्निर्वोढृ एवंलक्षणं ब्रह्मेत्यर्थः । इदमेव मैत्रेयीब्राह्मणेनोक्तम् ; चिन्मात्रानुगमात्सर्वत्र चित्स्वरूपतैवेति गम्यते एकवाक्यता । कथं तदवगम्यत इति, आह — स आत्मा । आत्मा हि नाम सर्वजन्तूनां प्रत्यक्चेतनः स्वसंवेद्यः प्रसिद्धः तेनैव स्वरूपेणोन्नीय अशरीरो व्योमवत्सर्वगत आत्मा ब्रह्मेत्यवगन्तव्यम् । तच्च आत्मा ब्रह्म अमृतम् अमरणधर्मा । अत ऊर्ध्वं मन्‍त्रः । प्रजापतिः चतुर्मुखः तस्य सभां वेश्म प्रभुविमितं वेश्म प्रपद्ये गच्छेयम् । किञ्च यशोऽहं यशो नाम आत्मा अहं भवामि ब्राह्मणानाम् । ब्राह्मणा एव हि विशेषतस्तमुपासते ततस्तेषां यशो भवामि । तथा राज्ञां विशां च । तेऽप्यधिकृता एवेति तेषामप्यात्मा भवामि । तद्यशोऽहमनुप्रापत्सि अनुप्राप्तुमिच्छामि । स ह अहं यशसामात्मनां देहेन्द्रियमनोबुद्धिलक्षणानामात्मा । किमर्थमहमेवं प्रपद्य इति, उच्यते — श्येतं वर्णतः पक्वबदरसमं रोहितम् । तथा अदत्कं दन्तरहितमप्यदत्कं भक्षयितृ स्त्रीव्यञ्जनं तत्सेविनां तेजोबलवीर्यविज्ञानधर्माणाम् अपहन्तृ विनाशयित्रित्येतत् । यदेवंलक्षणं श्येतं लिन्दु पिच्छलं तन्मा अभिगां मा अभिगच्छेयम् । द्विर्वचनमत्यन्तानर्थहेतुत्वप्रदर्शनार्थम् ॥
इति चतुर्दशखण्डभाष्यम् ॥
तद्धैतद्ब्रह्मा प्रजापतय उवाच प्रजापतिर्मनवे मनुः प्रजाभ्य आचार्यकुलाद्वेदमधीत्य यथाविधानं गुरोः कर्मातिशेषेणाभिसमावृत्य कुटुम्बे शुचौ देशे स्वाध्यायमधीयानो धार्मिकान्विदधदात्मनि सर्वेन्द्रियाणि सम्प्रतिष्ठाप्याहिंसन्सर्वभूतान्यन्यत्र तीर्थेभ्यः स खल्वेवं वर्तयन्यावदायुषं ब्रह्मलोकमभिसम्पद्यते न च पुनरावर्तते न च पुनरावर्तते ॥ १ ॥
तद्धैतत् आत्मज्ञानं सोपकरणम् ‘ओमित्येतदक्षरम्’ इत्याद्यैः सहोपासनैः तद्वाचकेन ग्रन्थेन अष्टाध्यायीलक्षणेन सह ब्रह्मा हिरण्यगर्भः परमेश्वरो वा तद्द्वारेण प्रजापतये कश्यपाय उवाच ; असावपि मनवे स्वपुत्राय ; मनुः प्रजाभ्यः इत्येवं श्रुत्यर्थसम्प्रदायपरम्परयागतम् उपनिषद्विज्ञानम् अद्यापि विद्वत्सु अवगम्यते । यथेह षष्ठाद्यध्यायत्रये प्रकाशिता आत्मविद्या सफला अवगम्यते, तथा कर्मणां न कश्चनार्थ इति प्राप्ते, तदानर्थक्यप्राप्तिपरिजिहीर्षया इदं कर्मणो विद्वद्भिरनुष्ठीयमानस्य विशिष्टफलवत्त्वेन अर्थवत्त्वमुच्यते — आचार्यकुलाद्वेदमधीत्य सहार्थतः अध्ययनं कृत्वा यथाविधानं यथास्मृत्युक्तैर्नियमैर्युक्तः सन् इत्यर्थः । सर्वस्यापि विधेः स्मृत्युक्तस्य उपकुर्वाणकं प्रति कर्तव्यत्वे गुरुशुश्रूषायाः प्राधान्यप्रदर्शनार्थमाह — गुरोः कर्म यत्कर्तव्यं तत्कृत्वा कर्मशून्यो योऽतिशिष्टः कालः तेन कालेन वेदमधीत्येत्यर्थः । एवं हि नियमवता अधीतो वेदः कर्मज्ञानफलप्राप्तये भवति, नान्यथेत्यभिप्रायः । अभिसमावृत्य धर्मजिज्ञासां समापयित्वा गुरुकुलान्निवृत्य न्यायतो दारानाहृत्य कुटुम्बे स्थित्वा गार्हस्थ्ये विहिते कर्मणि तिष्ठन् इत्यर्थः । तत्रापि गार्हस्थ्यविहितानां कर्मणां स्वाध्यायस्य प्राधान्यप्रदर्शनार्थमुच्यते — शुचौ विविक्ते अमेध्यादिरहिते देशे यथावदासीनः स्वाध्यायमधीयानः नैत्यकमधिकं च यथाशक्ति ऋगाद्यभ्यासं च कुर्वन् धार्मिकान्पुत्राञ्शिष्यांश्च धर्मयुक्तान्विदधत् धार्मिकत्वेन तान्नियमयन् आत्मनि स्वहृदये हार्दे ब्रह्मणि सर्वेन्द्रियाणि सम्प्रतिष्ठाप्य उपसंहृत्य इन्द्रियग्रहणात्कर्माणि च संन्यस्य अहिंसन् हिंसां परपीडामकुर्वन् सर्वभूतानि स्थावरजङ्गमानि भूतान्यपीडयन् इत्यर्थः । भिक्षानिमित्तमटनादिनापि परपीडा स्यादित्यत आह — अन्यत्र तीर्थेभ्यः । तीर्थं नाम शास्त्रानुज्ञाविषयः, ततोऽन्यत्रेत्यर्थः । सर्वाश्रमिणां च एतत्समानम् । तीर्थेभ्योऽन्यत्र अहिंसैवेत्यन्ये वर्णयन्ति । कुटुम्बे एवैतत्सर्वं कुर्वन् , स खल्वधिकृतः, यावदायुषं यावज्जीवम् एवं यथोक्तेन प्रकारेणैव वर्तयन् ब्रह्मलोकमभिसम्पद्यते देहान्ते । न च पुनरावर्तते शरीरग्रहणाय, पुनरावृत्तेः प्राप्तायाः प्रतिषेधात् । अर्चिरादिना मार्गेण कार्यब्रह्मलोकमभिसम्पद्य यावद्ब्रह्मलोकस्थितिः तावत्तत्रैव तिष्ठति प्राक्ततो नावर्तत इत्यर्थः । द्विरभ्यासः उपनिषद्विद्यापरिसमाप्त्यर्थः ॥
इति पञ्चदशखण्डभाष्यम् ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमत्छङ्करभगवतः कृतौ छान्दोग्योपनिषद्भाष्ये अष्टमोऽध्यायः समाप्तः ॥