अर्जुन उवाच —
किं तद्ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम ।
अधिभूतं च किं प्रोक्तमधिदैवं किमुच्यते ॥ १ ॥
अधियज्ञः कथं कोऽत्र देहेऽस्मिन्मधुसूदन ।
प्रयाणकाले च कथं ज्ञेयोऽसि नियतात्मभिः ॥ २ ॥
एषां प्रश्नानां यथाक्रमं निर्णयाय श्रीभगवानुवाच —
श्रीभगवानुवाच —
अक्षरं ब्रह्म परमं स्वभावोऽध्यात्ममुच्यते ।
भूतभावोद्भवकरो विसर्गः कर्मसंज्ञितः ॥ ३ ॥
अक्षरं न क्षरतीति अक्षरं परमात्मा,
‘एतस्य वा अक्षरस्य प्रशासने गार्गि’ (बृ. उ. ३ । ८ । ९) इति श्रुतेः ।
ओङ्कारस्य च ‘ओमित्येकाक्षरं ब्रह्म’ (भ. गी. ८ । १३) इति परेण विशेषणात् अग्रहणम् ।
परमम् इति च निरतिशये ब्रह्मणि अक्षरे उपपन्नतरम् विशेषणम् ।
तस्यैव परस्य ब्रह्मणः प्रतिदेहं प्रत्यगात्मभावः स्वभावः,
स्वो भावः स्वभावः अध्यात्मम् उच्यते ।
आत्मानं देहम् अधिकृत्य प्रत्यगात्मतया प्रवृत्तं परमार्थब्रह्मावसानं वस्तु स्वभावः अध्यात्मम् उच्यते अध्यात्मशब्देन अभिधीयते ।
भूतभावोद्भवकरः भूतानां भावः भूतभावः तस्य उद्भवः भूतभावोद्भवः तं करोतीति भूतभावोद्भवकरः,
भूतवस्तूत्पत्तिकर इत्यर्थः ।
विसर्गः विसर्जनं देवतोद्देशेन चरुपुरोडाशादेः द्रव्यस्य परित्यागः ;
स एष विसर्गलक्षणो यज्ञः कर्मसंज्ञितः कर्मशब्दित इत्येतत् ।
एतस्मात् हि बीजभूतात् वृष्ट्यादिक्रमेण स्थावरजङ्गमानि भूतानि उद्भवन्ति ॥ ३ ॥
अधिभूतं क्षरो भावः पुरुषश्चाधिदैवतम् ।
अधियज्ञोऽहमेवात्र देहे देहभृतां वर ॥ ४ ॥
अधिभूतं प्राणिजातम् अधिकृत्य भवतीति । कोऽसौ ? क्षरः क्षरतीति क्षरः विनाशी, भावः यत्किञ्चित् जनिमत् वस्तु इत्यर्थः । पुरुषः पूर्णम् अनेन सर्वमिति, पुरि शयनात् वा, पुरुषः आदित्यान्तर्गतो हिरण्यगर्भः, सर्वप्राणिकरणानाम् अनुग्राहकः, सः अधिदैवतम् । अधियज्ञः सर्वयज्ञाभिमानिनी विष्ण्वाख्या देवता, ‘यज्ञो वै विष्णुः’ (तै. सं. १ । ७ । ४) इति श्रुतेः । स हि विष्णुः अहमेव ; अत्र अस्मिन् देहे यो यज्ञः तस्य अहम् अधियज्ञः ; यज्ञो हि देहनिर्वर्त्यत्वेन देहसमवायी इति देहाधिकरणो भवति, देहभृतां वर ॥ ४ ॥
अन्तकाले च मामेव स्मरन्मुक्त्वा कलेबरम् ।
यः प्रयाति स मद्भावं याति नास्त्यत्र संशयः ॥ ५ ॥
अन्तकाले मरणकाले च मामेव परमेश्वरं विष्णुं स्मरन् मुक्त्वा परित्यज्य कलेबरं शरीरं यः प्रयाति गच्छति, सः मद्भावं वैष्णवं तत्त्वं याति । नास्ति न विद्यते अत्र अस्मिन् अर्थे संशयः — याति वा न वा इति ॥ ५ ॥
न मद्विषय एव अयं नियमः । किं तर्हि ? —
यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेबरम् ।
तं तमेवैति कौन्तेय सदा तद्भावभावितः ॥ ६ ॥
यं यं वापि यं यं भावं देवताविशेषं स्मरन् चिन्तयन् त्यजति परित्यजति अन्ते अन्तकाले प्राणवियोगकाले कलेबरं शरीरं तं तमेव स्मृतं भावमेव एति नान्यं कौन्तेय, सदा सर्वदा तद्भावभावितः तस्मिन् भावः तद्भावः स भावितः स्मर्यमाणतया अभ्यस्तः येन सः तद्भावभावितः सन् ॥ ६ ॥
यस्मात् एवम् अन्त्या भावना देहान्तरप्राप्तौ कारणम् —
तस्मात्सर्वेषु कालेषु मामनुस्मर युध्य च ।
मय्यर्पितमनोबुद्धिर्मामेवैष्यस्यसंशयः ॥ ७ ॥
तस्मात् सर्वेषु कालेषु माम् अनुस्मर यथाशास्त्रम् । युध्य च युद्धं च स्वधर्मं कुरु । मयि वासुदेवे अर्पिते मनोबुद्धी यस्य तव स त्वं मयि अर्पितमनोबुद्धिः सन् मामेव यथास्मृतम् एष्यसि आगमिष्यसि ; असंशयः न संशयः अत्र विद्यते ॥ ७ ॥
किञ्च—
अभ्यासयोगयुक्तेन चेतसा नान्यगामिना ।
परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन् ॥ ८ ॥
अभ्यासयोगयुक्तेन मयि चित्तसमर्पणविषयभूते एकस्मिन् तुल्यप्रत्ययावृत्तिलक्षणः विलक्षणप्रत्ययानन्तरितः अभ्यासः स चाभ्यासो योगः तेन युक्तं तत्रैव व्यापृतं योगिनः चेतः तेन, चेतसा नान्यगामिना न अन्यत्र विषयान्तरे गन्तुं शीलम् अस्येति नान्यगामि तेन नान्यगामिना, परमं निरतिशयं पुरुषं दिव्यं दिवि सूर्यमण्डले भवं याति गच्छति हे पार्थ अनुचिन्तयन् शास्त्राचार्योपदेशम् अनुध्यायन् इत्येतत् ॥ ८ ॥
किंविशिष्टं च पुरुषं याति इति उच्यते —
कविं पुराणमनुशासितारमणोरणीयांसमनुस्मरेद्यः ।
सर्वस्य धातारमचिन्त्यरूपमादित्यवर्णं तमसः परस्तात् ॥ ९ ॥
कविं क्रान्तदर्शिनं सर्वज्ञं पुराणं चिरन्तनम् अनुशासितारं सर्वस्य जगतः प्रशासितारम् अणोः सूक्ष्मादपि अणीयांसं सूक्ष्मतरम् अनुस्मरेत् अनुचिन्तयेत् यः कश्चित् , सर्वस्य कर्मफलजातस्य धातारं विधातारं विचित्रतया प्राणिभ्यो विभक्तारम् , अचिन्त्यरूपं न अस्य रूपं नियतं विद्यमानमपि केनचित् चिन्तयितुं शक्यते इति अचिन्त्यरूपः तम् , आदित्यवर्णम् आदित्यस्येव नित्यचैतन्यप्रकाशो वर्णो यस्य तम् आदित्यवर्णम् , तमसः परस्तात् अज्ञानलक्षणात् मोहान्धकारात् परं तम् अनुचिन्तयन् याति इति पूर्वेण सम्बन्धः ॥ ९ ॥
किञ्च —
प्रयाणकाले मनसाचलेन
भक्त्या युक्तो योगबलेन चैव ।
भ्रुवोर्मध्ये प्राणमावेश्य सम्य
क्स तं परं पुरुषमुपैति दिव्यम् ॥ १० ॥
प्रयाणकाले मरणकाले मनसा अचलेन चलनवर्जितेन भक्त्या युक्तः भजनं भक्तिः तया युक्तः योगबलेन चैव योगस्य बलं योगबलं समाधिजसंस्कारप्रचयजनितचित्तस्थैर्यलक्षणं योगबलं तेन च युक्तः इत्यर्थः,
पूर्वं हृदयपुण्डरीके वशीकृत्य चित्तं ततः ऊर्ध्वगामिन्या नाड्या भूमिजयक्रमेण भ्रुवोः मध्ये प्राणम् आवेश्य स्थापयित्वा सम्यक् अप्रमत्तः सन् ,
सः एवं विद्वान् योगी ‘कविं पुराणम्’ (भ. गी. ८ । ९) इत्यादिलक्षणं तं परं परतरं पुरुषम् उपैति प्रतिपद्यते दिव्यं द्योतनात्मकम् ॥ १० ॥
पुनरपि वक्ष्यमाणेन उपायेन प्रतिपित्सितस्य ब्रह्मणो वेदविद्वदनादिविशेषणविशेष्यस्य अभिधानं करोति भगवान् —
यदक्षरं वेदविदो वदन्ति
विशन्ति यद्यतयो वीतरागाः ।
यदिच्छन्तो ब्रह्मचर्यं चरन्ति
तत्ते पदं सङ्ग्रहेण प्रवक्ष्ये ॥ ११ ॥
यत् अक्षरं न क्षरतीति अक्षरम् अविनाशि वेदविदः वेदार्थज्ञाः वदन्ति,
‘तद्वा एतदक्षरं गार्गि ब्राह्मणा अभिवदन्ति’ (बृ. उ. ३ । ८ । ८) इति श्रुतेः,
सर्वविशेषनिवर्तकत्वेन अभिवदन्ति ‘
अस्थूलमनणु’
इत्यादि ।
किञ्च —
विशन्ति प्रविशन्ति सम्यग्दर्शनप्राप्तौ सत्यां यत् यतयः यतनशीलाः संन्यासिनः वीतरागाः वीतः विगतः रागः येभ्यः ते वीतरागाः ।
यच्च अक्षरमिच्छन्तः —
ज्ञातुम् इति वाक्यशेषः —
ब्रह्मचर्यं गुरौ चरन्ति आचरन्ति,
तत् ते पदं तत् अक्षराख्यं पदं पदनीयं ते तव सङ्ग्रहेण सङ्ग्रहः सङ्क्षेपः तेन सङ्क्षेपेण प्रवक्ष्ये कथयिष्यामि ॥ ११ ॥
सर्वद्वाराणि संयम्य मनो हृदि निरुध्य च ।
मूर्ध्न्याधायात्मनः प्राणमास्थितो योगधारणाम् ॥ १२ ॥
सर्वद्वाराणि सर्वाणि च तानि द्वाराणि च सर्वद्वाराणि उपलब्धौ, तानि सर्वाणि संयम्य संयमनं कृत्वा मनः हृदि हृदयपुण्डरीके निरुध्य निरोधं कृत्वा निष्प्रचारमापाद्य, तत्र वशीकृतेन मनसा हृदयात् ऊर्ध्वगामिन्या नाड्या ऊर्ध्वमारुह्य मूर्ध्नि आधाय आत्मनः प्राणम् आस्थितः प्रवृत्तः योगधारणां धारयितुम् ॥ १२ ॥
तत्रैव च धारयन् —
ओमित्येकाक्षरं ब्रह्म
व्याहरन्मामनुस्मरन् ।
यः प्रयाति त्यजन्देहं
स याति परमां गतिम् ॥ १३ ॥
ओमिति एकाक्षरं ब्रह्म ब्रह्मणः अभिधानभूतम् ओङ्कारं व्याहरन् उच्चारयन् , तदर्थभूतं माम् ईश्वरम् अनुस्मरन् अनुचिन्तयन् यः प्रयाति म्रियते, सः त्यजन् परित्यजन् देहं शरीरम् — ‘त्यजन् देहम्’ इति प्रयाणविशेषणार्थम् देहत्यागेन प्रयाणम् आत्मनः, न स्वरूपनाशेनेत्यर्थः — सः एवं याति गच्छति परमां प्रकृष्टां गतिम् ॥ १३ ॥
किञ्च —
अनन्यचेताः सततं यो मां स्मरति नित्यशः ।
तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः ॥ १४ ॥
अनन्यचेताः न अन्यविषये चेतः यस्य सोऽयम् अनन्यचेताः, योगी सततं सर्वदा यः मां परमेश्वरं स्मरति नित्यशः । सततम् इति नैरन्तर्यम् उच्यते, नित्यशः इति दीर्घकालत्वम् उच्यते । न षण्मासं संवत्सरं वा ; किं तर्हि ? यावज्जीवं नैरन्तर्येण यः मां स्मरतीत्यर्थः । तस्य योगिनः अहं सुलभः सुखेन लभ्यः हे पार्थ, नित्ययुक्तस्य सदा समाहितचित्तस्य योगिनः । यतः एवम् , अतः अनन्यचेताः सन् मयि सदा समाहितः भवेत् ॥ १४ ॥
तव सौलभ्येन किं स्यात् इत्युच्यते ; शृणु तत् मम सौलभ्येन यत् भवति —
मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतम् ।
नाप्नुवन्ति महात्मानः संसिद्धिं परमां गताः ॥ १५ ॥
माम् उपेत्य माम् ईश्वरम् उपेत्य मद्भावमापद्य पुनर्जन्म पुनरुत्पत्तिं नाप्नुवन्ति न प्राप्नुवन्ति । किंविशिष्टं पुनर्जन्म न प्राप्नुवन्ति इति, तद्विशेषणमाह — दुःखालयं दुःखानाम् आध्यात्मिकादीनां आलयम् आश्रयम् आलीयन्ते यस्मिन् दुःखानि इति दुःखालयं जन्म । न केवलं दुःखालयम् , अशाश्वतम् अनवस्थितस्वरूपं च । नाप्नुवन्ति ईदृशं पुनर्जन्म महात्मानः यतयः संसिद्धिं मोक्षाख्यां परमां प्रकृष्टां गताः प्राप्ताः । ये पुनः मां न प्राप्नुवन्ति ते पुनः आवर्तन्ते ॥ १५ ॥
किं पुनः त्वत्तः अन्यत् प्राप्ताः पुनरावर्तन्ते इति, उच्यते —
आ ब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽर्जुन ।
मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते ॥ १६ ॥
आ ब्रह्मभुवनात् भवन्ति अस्मिन् भूतानि इति भुवनम् , ब्रह्मणो भुवनं ब्रह्मभुवनम् , ब्रह्मलोक इत्यर्थः, आ ब्रह्मभुवनात् सह ब्रह्मभुवनेन लोकाः सर्वे पुनरावर्तिनः पुनरावर्तनस्वभावाः हे अर्जुन । माम् एकम् उपेत्य तु कौन्तेय पुनर्जन्म पुनरुत्पत्तिः न विद्यते ॥ १६ ॥
ब्रह्मलोकसहिताः लोकाः कस्मात् पुनरावर्तिनः ? कालपरिच्छिन्नत्वात् । कथम् ? —
सहस्रयुगपर्यन्तमहर्यद्ब्रह्मणो विदुः ।
रात्रिं युगसहस्रान्तां तेऽहोरात्रविदो जनाः ॥ १७ ॥
सहस्रयुगपर्यन्तं सहस्राणि युगानि पर्यन्तः पर्यवसानं यस्य अह्नः तत् अहः सहस्रयुगपर्यन्तम् , ब्रह्मणः प्रजापतेः विराजः विदुः, रात्रिम् अपि युगसहस्रान्तां अहःपरिमाणामेव । के विदुरित्याह — ते अहोरात्रविदः कालसङ्ख्याविदो जनाः इत्यर्थः । यतः एवं कालपरिच्छिन्नाः ते, अतः पुनरावर्तिनो लोकाः ॥ १७ ॥
प्रजापतेः अहनि यत् भवति रात्रौ च, तत् उच्यते —
अव्यक्ताद्व्यक्तयः सर्वाः प्रभवन्त्यहरागमे ।
रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसंज्ञके ॥ १८ ॥
अव्यक्तात् अव्यक्तं प्रजापतेः स्वापावस्था तस्मात् अव्यक्तात् व्यक्तयः व्यज्यन्त इति व्यक्तयः स्थावरजङ्गमलक्षणाः सर्वाः प्रजाः प्रभवन्ति अभिव्यज्यन्ते, अह्नः आगमः अहरागमः तस्मिन् अहरागमे काले ब्रह्मणः प्रबोधकाले । तथा रात्र्यागमे ब्रह्मणः स्वापकाले प्रलीयन्ते सर्वाः व्यक्तयः तत्रैव पूर्वोक्ते अव्यक्तसंज्ञके ॥ १८ ॥
अकृताभ्यागमकृतविप्रणाशदोषपरिहारार्थम् , बन्धमोक्षशास्त्रप्रवृत्तिसाफल्यप्रदर्शनार्थम् अविद्यादिक्लेशमूलकर्माशयवशाच्च अवशः भूतग्रामः भूत्वा भूत्वा प्रलीयते इत्यतः संसारे वैराग्यप्रदर्शनार्थं च इदमाह —
भूतग्रामः स एवायं भूत्वा भूत्वा प्रलीयते ।
रात्र्यागमेऽवशः पार्थ प्रभवत्यहरागमे ॥ १९ ॥
भूतग्रामः भूतसमुदायः स्थावरजङ्गमलक्षणः यः पूर्वस्मिन् कल्पे आसीत् स एव अयं नान्यः । भूत्वा भूत्वा अहरागमे, प्रलीयते पुनः पुनः रात्र्यागमे अह्नः क्षये अवशः अस्वतन्त्र एव, हे पार्थ, प्रभवति जायते अवश एव अहरागमे ॥ १९ ॥
यत् उपन्यस्तम् अक्षरम् ,
तस्य प्राप्त्युपायो निर्दिष्टः ‘ओमित्येकाक्षरं ब्रह्म’ (भ. गी. ८ । १३) इत्यादिना ।
अथ इदानीम् अक्षरस्यैव स्वरूपनिर्दिदिक्षया इदम् उच्यते,
अनेन योगमार्गेण इदं गन्तव्यमिति —
परस्तस्मात्तु भावोऽन्योऽव्यक्तोऽव्यक्तात्सनातनः ।
यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति ॥ २० ॥
परः व्यतिरिक्तः भिन्नः ; कुतः ? तस्मात् पूर्वोक्तात् । तु—शब्दः अक्षरस्य विवक्षितस्य अव्यक्तात् वैलक्षण्यविशेषणार्थः । भावः अक्षराख्यं परं ब्रह्म । व्यतिरिक्तत्वे सत्यपि सालक्षण्यप्रसङ्गोऽस्तीति तद्विनिवृत्त्यर्थम् आह — अन्यः इति । अन्यः विलक्षणः । स च अव्यक्तः अनिन्द्रियगोचरः । ‘परस्तस्मात्’ इत्युक्तम् ; कस्मात् पुनः परः ? पूर्वोक्तात् भूतग्रामबीजभूतात् अविद्यालक्षणात् अव्यक्तात् । अन्यः विलक्षणः भावः इत्यभिप्रायः । सनातनः चिरन्तनः यः सः भावः सर्वेषु भूतेषु ब्रह्मादिषु नश्यत्सु न विनश्यति ॥ २० ॥
अव्यक्तोऽक्षर इत्युक्तस्तमाहुः परमां गतिम् ।
यं प्राप्य न निवर्तन्ते तद्धाम परमं मम ॥ २१ ॥
योऽसौ अव्यक्तः अक्षरः इत्युक्तः, तमेव अक्षरसंज्ञकम् अव्यक्तं भावम् आहुः परमां प्रकृष्टां गतिम् । यं परं भावं प्राप्य गत्वा न निवर्तन्ते संसाराय, तत् धाम स्थानं परमं प्रकृष्टं मम, विष्णोः परमं पदमित्यर्थः ॥ २१ ॥
तल्लब्धेः उपायः उच्यते —
पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया ।
यस्यान्तःस्थानि भूतानि येन सर्वमिदं ततम् ॥ २२ ॥
पुरुषः पुरि शयनात् पूर्णत्वाद्वा, स परः पार्थ, परः निरतिशयः, यस्मात् पुरुषात् न परं किञ्चित् । सः भक्त्या लभ्यस्तु ज्ञानलक्षणया अनन्यया आत्मविषयया । यस्य पुरुषस्य अन्तःस्थानि मध्यस्थानि भूतानि कार्यभूतानि ; कार्यं हि कारणस्य अन्तर्वर्ति भवति । येन पुरुषेण सर्वं इदं जगत् ततं व्याप्तम् आकाशेनेव घटादि ॥ २२ ॥
प्रकृतानां योगिनां प्रणवावेशितब्रह्मबुद्धीनां कालान्तरमुक्तिभाजां ब्रह्मप्रतिपत्तये उत्तरो मार्गो वक्तव्य इति ‘यत्र काले’ इत्यादि विवक्षितार्थसमर्पणार्थम् उच्यते, आवृत्तिमार्गोपन्यासः इतरमार्गस्तुत्यर्थः —
यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिनः ।
प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ ॥ २३ ॥
यत्र काले प्रयाताः इति व्यवहितेन सम्बन्धः ।
यत्र यस्मिन् काले तु अनावृत्तिम् अपुनर्जन्म आवृत्तिं तद्विपरीतां चैव ।
योगिनः इति योगिनः कर्मिणश्च उच्यन्ते,
कर्मिणस्तु गुणतः —
‘कर्मयोगेन योगिनाम्’ (भ. गी. ३ । ३) इति विशेषणात् —
योगिनः ।
यत्र काले प्रयाताः मृताः योगिनः अनावृत्तिं यान्ति,
यत्र काले च प्रयाताः आवृत्तिं यान्ति,
तं कालं वक्ष्यामि भरतर्षभ ॥ २३ ॥
तं कालमाह —
अग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरायणम् ।
तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः ॥ २४ ॥
अग्निः कालाभिमानिनी देवता ।
तथा ज्योतिरपि देवतैव कालाभिमानिनी ।
अथवा,
अग्निज्योतिषी यथाश्रुते एव देवते ।
भूयसा तु निर्देशो ‘
यत्र काले’ ‘
तं कालम्’
इति आम्रवणवत् ।
तथा अहः देवता अहरभिमानिनी ;
शुक्लः शुक्लपक्षदेवता ;
षण्मासा उत्तरायणम् ,
तत्रापि देवतैव मार्गभूता इति स्थितः अन्यत्र अयं न्यायः ।
तत्र तस्मिन् मार्गे प्रयाताः मृताः गच्छन्ति ब्रह्म ब्रह्मविदो ब्रह्मोपासकाः ब्रह्मोपासनपरा जनाः । ‘
क्रमेण’
इति वाक्यशेषः ।
न हि सद्योमुक्तिभाजां सम्यग्दर्शननिष्ठानां गतिः आगतिर्वा क्वचित् अस्ति,
‘न तस्य प्राणा उत्क्रामन्ति’ (बृ. उ. ४ । ४ । ६) इति श्रुतेः ।
ब्रह्मसंलीनप्राणा एव ते ब्रह्ममया ब्रह्मभूता एव ते ॥ २४ ॥
धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम् ।
तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते ॥ २५ ॥
धूमो रात्रिः धूमाभिमानिनी रात्र्यभिमानिनी च देवता । तथा कृष्णः कृष्णपक्षदेवता । षण्मासा दक्षिणायनम् इति च पूर्ववत् देवतैव । तत्र चन्द्रमसि भवं चान्द्रमसं ज्योतिः फलम् इष्टादिकारी योगी कर्मी प्राप्य भुक्त्वा तत्क्षयात् इह पुनः निवर्तते ॥ २५ ॥
शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते ।
एकया यात्यनावृत्तिमन्ययावर्तते पुनः ॥ २६ ॥
शुक्लकृष्णे शुक्ला च कृष्णा च शुक्लकृष्णे, ज्ञानप्रकाशकत्वात् शुक्ला, तदभावात् कृष्णा ; एते शुक्लकृष्णे हि गती जगतः इति अधिकृतानां ज्ञानकर्मणोः, न जगतः सर्वस्यैव एते गती सम्भवतः ; शाश्वते नित्ये, संसारस्य नित्यत्वात् , मते अभिप्रेते । तत्र एकया शुक्लया याति अनावृत्तिम् , अन्यया इतरया आवर्तते पुनः भूयः ॥ २६ ॥
नैते सृती पार्थ जानन्योगी मुह्यति कश्चन ।
तस्मात्सर्वेषु कालेषु योगयुक्तो भवार्जुन ॥ २७ ॥
न एते यथोक्ते सृती मार्गौ पार्थ जानन् संसाराय एका, अन्या मोक्षाय इति, योगी न मुह्यति कश्चन कश्चिदपि । तस्मात् सर्वेषु कालेषु योगयुक्तः समाहितो भव अर्जुन ॥ २७ ॥
शृणु तस्य योगस्य माहात्म्यम् —
वेदेषु यज्ञेषु तपःसु चैव
दानेषु यत्पुण्यफलं प्रदिष्टम् ।
अत्येति तत्सर्वमिदं विदित्वा
योगी परं स्थानमुपैति चाद्यम् ॥ २८ ॥
वेदेषु सम्यगधीतेषु यज्ञेषु च साद्गुण्येन अनुष्ठितेषु तपःसु च सुतप्तेषु दानेषु च सम्यग्दत्तेषु, एतेषु यत् पुण्यफलं प्रदिष्टं शास्त्रेण, अत्येति अतीत्य गच्छति तत् सर्वं फलजातम् ; इदं विदित्वा सप्तप्रश्ननिर्णयद्वारेण उक्तम् अर्थं सम्यक् अवधार्य अनुष्ठाय योगी, परम् उत्कृष्टम् ऐश्वरं स्थानम् उपैति च प्रतिपद्यते आद्यम् आदौ भवम् , कारणं ब्रह्म इत्यर्थः ॥ २८ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ श्रीमद्भगवद्गीताभाष्ये अष्टमोऽध्यायः ॥