श्रीमच्छङ्करभगवत्पूज्यपादविरचितम्

श्रीमद्भगवद्गीताभाष्यम्

ततो महाभारतसारभूताः स व्याकरोद्भागवतीश्च गीताः ।
 

change script to

सर्वम् उत्पद्यमानं क्षेत्रक्षेत्रज्ञसंयोगात् उत्पद्यते इति उक्तम् । तत् कथमिति, तत्प्रदर्शनार्थम्परं भूयःइत्यादिः अध्यायः आरभ्यते । अथवा, ईश्वरपरतन्त्रयोः क्षेत्रक्षेत्रज्ञयोः जगत्कारणत्वं तु साङ्ख्यानामिव स्वतन्त्रयोः इत्येवमर्थम् । प्रकृतिस्थत्वं गुणेषु सङ्गः संसारकारणम् इति उक्तम् । कस्मिन् गुणे कथं सङ्गः ? के वा गुणाः ? कथं वा ते बध्नन्ति इति ? गुणेभ्यश्च मोक्षणं कथं स्यात् ? मुक्तस्य लक्षणं वक्तव्यम् , इत्येवमर्थं भगवान् उवाच
श्रीभगवानुवाच —
परं भूयः प्रवक्ष्यामि
ज्ञानानां ज्ञानमुत्तमम् ।
यज्ज्ञात्वा मुनयः सर्वे
परां सिद्धिमितो गताः ॥ १ ॥
परं ज्ञानम् इति व्यवहितेन सम्बन्धः, भूयः पुनः पूर्वेषु सर्वेष्वध्यायेषु असकृत् उक्तमपि प्रवक्ष्यामि । तच्च परं परवस्तुविषयत्वात् । किं तत् ? ज्ञानं सर्वेषां ज्ञानानाम् उत्तमम् , उत्तमफलत्वात् । ज्ञानानाम् इति अमानित्वादीनाम् ; किं तर्हि ? यज्ञादिज्ञेयवस्तुविषयाणाम् इति । तानि मोक्षाय, इदं तु मोक्षाय इति परोत्तमशब्दाभ्यां स्तौति श्रोतृबुद्धिरुच्युत्पादनार्थम् । यत् ज्ञात्वा यत् ज्ञानं ज्ञात्वा प्राप्य मुनयः संन्यासिनः मननशीलाः सर्वे परां सिद्धिं मोक्षाख्याम् इतः अस्मात् देहबन्धनात् ऊर्ध्वं गताः प्राप्ताः ॥ १ ॥
अस्याश्च सिद्धेः ऐकान्तिकत्वं दर्शयति
इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः ।
सर्गेऽपि नोपजायन्ते प्रलये व्यथन्ति ॥ २ ॥
इदं ज्ञानं यथोक्तमुपाश्रित्य, ज्ञानसाधनम् अनुष्ठाय इत्येतत् , मम परमेश्वरस्य साधर्म्यं मत्स्वरूपताम् आगताः प्राप्ताः इत्यर्थः । तु समानधर्मता साधर्म्यम् , क्षेत्रज्ञेश्वरयोः भेदानभ्युपगमात् गीताशास्त्रे । फलवादश्च अयं स्तुत्यर्थम् उच्यते । सर्गेऽपि सृष्टिकालेऽपि उपजायन्ते । उत्पद्यन्ते । प्रलये ब्रह्मणोऽपि विनाशकाले व्यथन्ति व्यथां आपद्यन्ते, च्यवन्ति इत्यर्थः ॥ २ ॥
क्षेत्रक्षेत्रज्ञसंयोगः ईदृशः भूतकारणम् इत्याह
मम योनिर्महद्ब्रह्म तस्मिन्गर्भं दधाम्यहम् ।
सम्भवः सर्वभूतानां ततो भवति भारत ॥ ३ ॥
मम स्वभूता मदीया माया त्रिगुणात्मिका प्रकृतिः योनिः सर्वभूतानां कारणम् । सर्वकार्येभ्यो महत्त्वात् भरणाच्च स्वविकाराणां महत् ब्रह्म इति योनिरेव विशिष्यते । तस्मिन् महति ब्रह्मणि योनौ गर्भं हिरण्यगर्भस्य जन्मनः बीजं सर्वभूतजन्मकारणं बीजं दधामि निक्षिपामि क्षेत्रक्षेत्रज्ञप्रकृतिद्वयशक्तिमान् ईश्वरः अहम् , अविद्याकामकर्मोपाधिस्वरूपानुविधायिनं क्षेत्रज्ञं क्षेत्रेण संयोजयामि इत्यर्थः । सम्भवः उत्पत्तिः सर्वभूतानां हिरण्यगर्भोत्पत्तिद्वारेण ततः तस्मात् गर्भाधानात् भवति हे भारत ॥ ३ ॥
सर्वयोनिषु कौन्तेय मूर्तयः सम्भवन्ति याः ।
तासां ब्रह्म महद्योनिरहं बीजप्रदः पिता ॥ ४ ॥
देवपितृमनुष्यपशुमृगादिसर्वयोनिषु कौन्तेय, मूर्तयः देहसंस्थानलक्षणाः मूर्छिताङ्गावयवाः मूर्तयः सम्भवन्ति याः, तासां मूर्तीनां ब्रह्म महत् सर्वावस्थं योनिः कारणम् अहम् ईश्वरः बीजप्रदः गर्भाधानस्य कर्ता पिता ॥ ४ ॥
के गुणाः कथं बध्नन्तीति, उच्यते
सत्त्वं रजस्तम इति गुणाः प्रकृतिसम्भवाः ।
निबध्नन्ति महाबाहो देहे देहिनमव्ययम् ॥ ५ ॥
सत्त्वं रजः तमः इति एवंनामानः । गुणाः इति पारिभाषिकः शब्दः, रूपादिवत् द्रव्याश्रिताः गुणाः । गुणगुणिनोः अन्यत्वमत्र विवक्षितम् । तस्मात् गुणा इव नित्यपरतन्त्राः क्षेत्रज्ञं प्रति अविद्यात्मकत्वात् क्षेत्रज्ञं निबध्नन्तीव । तम् आस्पदीकृत्य आत्मानं प्रतिलभन्ते इति निबध्नन्ति इति उच्यते । ते प्रकृतिसम्भवाः भगवन्मायासम्भवाः निबध्नन्ति इव हे महाबाहो, महान्तौ समर्थतरौ आजानुप्रलम्बौ बाहू यस्य सः महाबाहुः, हे महाबाहो देहे शरीरे देहिनं देहवन्तम् अव्ययम् , अव्ययत्वं उक्तम् अनादित्वात्’ (भ. गी. १३ । ३१) इत्यादिश्लोकेन । ननु देही लिप्यते’ (भ. गी. १३ । ३१) इत्युक्तम् । तत् कथम् इह निबध्नन्ति इति अन्यथा उच्यते ? परिहृतम् अस्माभिः इवशब्देन निबध्नन्ति इव इति ॥ ५ ॥
तत्र सत्त्वादीनां सत्त्वस्यैव तावत् लक्षणम् उच्यते
तत्र सत्त्वं निर्मलत्वात्प्रकाशकमनामयम् ।
सुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानघ ॥ ६ ॥
निर्मलत्वात् स्फटिकमणिरिव प्रकाशकम् अनामयं निरुपद्रवं सत्त्वं तन्निबध्नाति । कथम् ? सुखसङ्गेनसुखी अहम्इति विषयभूतस्य सुखस्य विषयिणि आत्मनि संश्लेषापादनं मृषैव सुखे सञ्जनम् इति । सैषा अविद्या । हि विषयधर्मः विषयिणः भवति । इच्छादि धृत्यन्तं क्षेत्रस्यैव विषयस्य धर्मः इति उक्तं भगवता । अतः अविद्ययै स्वकीयधर्मभूतया विषयविषय्यविवेकलक्षणया अस्वात्मभूते सुखे सञ्जयति इव, आसक्तमिव करोति, असङ्गं सक्तमिव करोति, असुखिनं सुखिनमिव । तथा ज्ञानसङ्गेन , ज्ञानमिति सुखसाहचर्यात् क्षेत्रस्यैव विषयस्य अन्तःकरणस्य धर्मः, आत्मनः ; आत्मधर्मत्वे सङ्गानुपपत्तेः, बन्धानुपपत्तेश्च । सुखे इव ज्ञानादौ सङ्गः मन्तव्यः । हे अनघ अव्यसन ॥ ६ ॥
रजो रागात्मकं विद्धि तृष्णासङ्गसमुद्भवम् ।
तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम् ॥ ७ ॥
रजः रागात्मकं रञ्जनात् रागः गैरिकादिवद्रागात्मकं विद्धि जानीहि । तृष्णासङ्गसमुद्भवं तृष्णा अप्राप्ताभिलाषः, आसङ्गः प्राप्ते विषये मनसः प्रीतिलक्षणः संश्लेषः, तृष्णासङ्गयोः समुद्भवं तृष्णासङ्गसमुद्भवम् । तन्निबध्नाति तत् रजः निबध्नाति कौन्तेय कर्मसङ्गेन, दृष्टादृष्टार्थेषु कर्मसु सञ्जनं तत्परता कर्मसङ्गः, तेन निबध्नाति रजः देहिनम् ॥ ७ ॥
तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम् ।
प्रमादालस्यनिद्राभिस्तन्निबध्नाति भारत ॥ ८ ॥
तमः तृतीयः गुणः अज्ञानजम् अज्ञानात् जातम् अज्ञानजं विद्धि मोहनं मोहकरम् अविवेककरं सर्वदेहिनां सर्वेषां देहवताम् । प्रमादालस्यनिद्राभिः प्रमादश्च आलस्यं निद्रा प्रमादालस्यनिद्राः ताभिः प्रमादालस्यनिद्राभिः तत् तमः निबध्नाति भारत ॥ ८ ॥
पुनः गुणानां व्यापारः सङ्क्षेपतः उच्यते
सत्त्वं सुखे सञ्जयति रजः कर्मणि भारत ।
ज्ञानमावृत्य तु तमः प्रमादे सञ्जयत्युत ॥ ९ ॥
सत्त्वं सुखे सञ्जयति संश्लेषयति, रजः कर्मणि हे भारत सञ्जयति इति अनुवर्तते । ज्ञानं सत्त्वकृतं विवेकम् आवृत्य आच्छाद्य तु तमः स्वेन आवरणात्मना प्रमादे सञ्जयति उत प्रमादः नाम प्राप्तकर्तव्याकरणम् ॥ ९ ॥
उक्तं कार्यं कदा कुर्वन्ति गुणा इति उच्यते
रजस्तमश्चाभिभूय सत्त्वं भवति भारत ।
रजः सत्त्वं तमश्चैव तमः सत्त्वं रजस्तथा ॥ १० ॥
रजः तमश्च उभावपि अभिभूय सत्त्‌वं भवति उद्भवति वर्धते यदा, तदा लब्धात्मकं सत्त्वं स्वकार्यं ज्ञानसुखादि आरभते हे भारत । तथा रजोगुणः सत्त्वं तमश्च एव उभावपि अभिभूय वर्धते यदा, तदा कर्म कृष्यादि स्वकार्यम् आरभते । तमआख्यो गुणः सत्त्वं रजश्च उभावपि अभिभूय तथैव वर्धते यदा, तदा ज्ञानावरणादि स्वकार्यम् आरभते ॥ १० ॥
यदा यो गुणः उद्भूतः भवति, तदा तस्य किं लिङ्गमिति उच्यते
सर्वद्वारेषु देहेऽस्मिन्प्रकाश उपजायते ।
ज्ञानं यदा तदा विद्याद्विवृद्धं सत्त्वमित्युत ॥ ११ ॥
सर्वद्वारेषु, आत्मनः उपलब्धिद्वाराणि श्रोत्रादीनि सर्वाणि करणानि, तेषु सर्वद्वारेषु अन्तःकरणस्य बुद्धेः वृत्तिः प्रकाशः देहे अस्मिन् उपजायते । तदेव ज्ञानम् । यदा एवं प्रकाशो ज्ञानाख्यः उपजायते, तदा ज्ञानप्रकाशेन लिङ्गेन विद्यात् विवृद्धम् उद्भूतं सत्त्वम् इति उत अपि ॥ ११ ॥
रजसः उद्भूतस्य इदं चिह्नम्
लोभः प्रवृत्तिरारम्भः कर्मणामशमः स्पृहा ।
रजस्येतानि जायन्ते विवृद्धे भरतर्षभ ॥ १२ ॥
लोभः परद्रव्यादित्सा, प्रवृत्तिः प्रवर्तनं सामान्यचेष्टा, आरम्भः ; कस्य ? कर्मणाम् । अशमः अनुपशमः, हर्षरागादिप्रवृत्तिः, स्पृहा सर्वसामान्यवस्तुविषया तृष्णारजसि गुणे विवृद्धे एतानि लिङ्गानि जायन्ते हे भरतर्षभ ॥ १२ ॥
अप्रकाशोऽप्रवृत्तिश्च प्रमादो मोह एव  ।
तमस्येतानि जायन्ते विवृद्धे कुरुनन्दन ॥ १३ ॥
अप्रकाशः अविवेकः, अत्यन्तम् अप्रवृत्तिश्च प्रवृत्त्यभावः तत्कार्यं प्रमादो मोह एव अविवेकः मूढता इत्यर्थः । तमसि गुणे विवृद्धे एतानि लिङ्गानि जायन्ते हे कुरुनन्दन ॥ १३ ॥
मरणद्वारेणापि यत् फलं प्राप्यते, तदपि सङ्गरागहेतुकं सर्वं गौणमेव इति दर्शयन् आह
यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देहभृत् ।
तदोत्तमविदां लोकानमलान्प्रतिपद्यते ॥ १४ ॥
यदा सत्त्वे प्रवृद्धे उद्भूते तु प्रलयं मरणं याति प्रतिपद्यते देहभृत् आत्मा, तदा उत्तमविदां महदादितत्त्वविदाम् इत्येतत् , लोकान् अमलान् मलरहितान् प्रतिपद्यते प्राप्नोति इत्येतत् ॥ १४ ॥
रजसि प्रलयं गत्वा कर्मसङ्गिषु जायते ।
तथा प्रलीनस्तमसि मूढयोनिषु जायते ॥ १५ ॥
रजसि गुणे विवृद्धे प्रलयं मरणं गत्वा प्राप्य कर्मसङ्गिषु कर्मासक्तियुक्तेषु मनुष्येषु जायते । तथा तद्वदे प्रलीनः मृतः तमसि विवृद्धे मूढयोनिषु पश्वादियोनिषु जायते ॥ १५ ॥
अतीतश्लोकार्थस्यैव सङ्क्षेपः उच्यते
कर्मणः सुकृतस्याहुः सात्त्विकं निर्मलं फलम् ।
रजसस्तु फलं दुःखमज्ञानं तमसः फलम् ॥ १६ ॥
कर्मणः सुकृतस्य सात्त्विकस्य इत्यर्थः, आहुः शिष्टाः सात्त्विकम् एव निर्मलं फलम् इति । रजसस्तु फलं दुःखं राजसस्य कर्मणः इत्यर्थः, कर्माधिकारात् फलम् अपि दुःखम् एव, कारणानुरूप्यात् राजसमेव । तथा अज्ञानं तमसः तामसस्य कर्मणः अधर्मस्य पूर्ववत् ॥ १६ ॥
किञ्च गुणेभ्यो भवति
सत्त्वात्सञ्जायते ज्ञानं रजसो लोभ एव  ।
प्रमादमोहौ तमसो भवतोऽज्ञानमेव ॥ १७ ॥
सत्त्वात् लब्धात्मकात् सञ्जायते समुत्पद्यते ज्ञानम् , रजसो लोभ एव , प्रमादमोहौ उभौ तमसो भवतः, अज्ञानमेव भवति ॥ १७ ॥
किञ्च
ऊर्ध्वं गच्छन्ति सत्त्वस्था
मध्ये तिष्ठन्ति राजसाः ।
जघन्यगुणवृत्तस्था
अधो गच्छन्ति तामसाः ॥ १८ ॥
ऊर्ध्वं गच्छन्ति देवलोकादिषु उत्पद्यन्ते सत्त्वस्थाः सत्त्वगुणवृत्तस्थाः । मध्ये तिष्ठन्ति मनुष्येषु उत्पद्यन्ते राजसाः । जघन्यगुणवृत्तस्थाः जघन्यश्च असौ गुणश्च जघन्यगुणः तमः, तस्य वृत्तं निद्रालस्यादि, तस्मिन् स्थिताः जघन्यगुणवृत्तस्थाः मूढाः अधः गच्छन्ति पश्वादिषु उत्पद्यन्ते तामसाः ॥ १८ ॥
पुरुषस्य प्रकृतिस्थत्वरूपेण मिथ्याज्ञानेन युक्तस्य भोग्येषु गुणेषु सुखदुःखमोहात्मकेषुसुखी दुःखी मूढः अहम् अस्मिइत्येवंरूपः यः सङ्गः तत्कारणं पुरुषस्य सदसद्योनिजन्मप्राप्तिलक्षणस्य संसारस्य इति समासेन पूर्वाध्याये यत् उक्तम् , तत् इह सत्त्वं रजस्तम इति गुणाः प्रकृतिसम्भवाः’ (भ. गी. १४ । ५) इति आरभ्य गुणस्वरूपम् , गुणवृत्तम् , स्ववृत्तेन गुणानां बन्धकत्वम् , गुणवृत्तनिबद्धस्य पुरुषस्य या गतिः, इत्येतत् सर्वं मिथ्याज्ञानमूलं बन्धकारणं विस्तरेण उक्त्वा, अधुना सम्यग्दर्शनान्मोक्षो वक्तव्यः इत्यत आह भगवान्
नान्यं गुणेभ्यः कर्तारं यदा द्रष्टानुपश्यति ।
गुणेभ्यश्च परं वेत्ति मद्भावं सोऽधिगच्छति ॥ १९ ॥
अन्यं कार्यकरणविषयाकारपरिणतेभ्यः गुणेभ्यः कर्तारम् अन्यं यदा द्रष्टा विद्वान् सन् अनुपश्यति, गुणा एव सर्वावस्थाः सर्वकर्मणां कर्तारः इत्येवं पश्यति, गुणेभ्यश्च परं गुणव्यापारसाक्षिभूतं वेत्ति, मद्भावं मम भावं सः द्रष्टा अधिगच्छति ॥ १९ ॥
कथम् अधिगच्छति इति, उच्यते
गुणानेतानतीत्य त्रीन्देही देहसमुद्भवान् ।
जन्ममृत्युजरादुःखैर्विमुक्तोऽमृतमश्नुते ॥ २० ॥
गुणान् एतान् यथोक्तान् अतीत्य जीवन्नेव अतिक्रम्य मायोपाधिभूतान् त्रीन् देही देहसमुद्भवान् देहोत्पत्तिबीजभूतान् जन्ममृत्युजरादुःखैः जन्म मृत्युश्च जरा दुःखानि जन्ममृत्युजरादुःखानि तैः जीवन्नेव विमुक्तः सन् विद्वान् अमृतम् अश्नुते, एवं मद्भावम् अधिगच्छति इत्यर्थः ॥ २० ॥
जीवन्नेव गुणान् अतीत्य अमृतम् अश्नुते इति प्रश्नबीजं प्रतिलभ्य, अर्जुन उवाच
अर्जुन उवाच —
कैर्लिङ्गैस्त्रीन्गुणानेतानतीतो भवति प्रभो ।
किमाचारः कथं चैतांस्त्रीन्गुणानतिवर्तते ॥ २१ ॥
कैः लिङ्गैः चिह्नैः त्रीन् एतान् व्याख्यातान् गुणान् अतीतः अतिक्रान्तः भवति प्रभो, किमाचारः कः अस्य आचारः इति किमाचारः कथं केन प्रकारेण एतान् त्रीन् गुणान् अतिवर्तते अतीत्य वर्तते ॥ २१ ॥
गुणातीतस्य लक्षणं गुणातीतत्वोपायं अर्जुनेन पृष्टः अस्मिन् श्लोके प्रश्नद्वयार्थं प्रतिवचनं भगवान् उवाच । यत् तावत्कैः लिङ्गैः युक्तो गुणातीतो भवतिइति, तत् शृणु
श्रीभगवानुवाच —
प्रकाशं प्रवृत्तिं मोहमेव पाण्डव ।
द्वेष्टि सम्प्रवृत्तानि निवृत्तानि काङ्क्षति ॥ २२ ॥
प्रकाशं सत्त्वकार्यं प्रवृत्तिं रजःकार्यं मोहमेव तमःकार्यम् इत्येतानि द्वेष्टि सम्प्रवृत्तानि सम्यग्विषयभावेन उद्भूतानि — ‘मम तामसः प्रत्ययो जातः, तेन अहं मूढः ; तथा राजसी प्रवृत्तिः मम उत्पन्ना दुःखात्मिका, तेन अहं रजसा प्रवर्तितः प्रचलितः स्वरूपात् ; कष्टं मम वर्तते यः अयं मत्स्वरूपावस्थानात् भ्रंशः ; तथा सात्त्विको गुणः प्रकाशात्मा मां विवेकित्वम् आपादयन् सुखे सञ्जयन् बध्नातिइति तानि द्वेष्टि असम्यग्दर्शित्वेन । तत् एवं गुणातीतो द्वेष्टि सम्प्रवृत्तानि । यथा सात्त्विकादिपुरुषः सत्त्वादिकार्याणि आत्मानं प्रति प्रकाश्य निवृत्तानि काङ्क्षति, तथा गुणातीतो निवृत्तानि काङ्क्षति इत्यर्थः । एतत् परप्रत्यक्षं लिङ्गम् । किं तर्हि ? स्वात्मप्रत्यक्षत्वात् आत्मार्थमेव एतत् लक्षणम् । हि स्वात्मविषयं द्वेषमाकाङ्क्षां वा परः पश्यति ॥ २२ ॥
अथ इदानीम्गुणातीतः किमाचारः ? ’ इति प्रश्नस्य प्रतिवचनम् आह
उदासीनवदासीनो गुणैर्यो विचाल्यते ।
गुणा वर्तन्त इत्येव योऽवतिष्ठति नेङ्गते ॥ २३ ॥
उदासीनवत् यथा उदासीनः कस्यचित् पक्षं भजते, तथा अयं गुणातीतत्वोपायमार्गेऽवस्थितः आसीनः आत्मवित् गुणैः यः संन्यासी विचाल्यते विवेकदर्शनावस्थातः । तदेतत् स्फुटीकरोतिगुणाः कार्यकरणविषयाकारपरिणताः अन्योऽन्यस्मिन् वर्तन्ते इति यः अवतिष्ठति । छन्दोभङ्गभयात् परस्मैपदप्रयोगः । योऽनुतिष्ठतीति वा पाठान्तरम् । इङ्गते चलति, स्वरूपावस्थ एव भवति इत्यर्थः ॥ २३ ॥
किञ्च
समदुःखसुखः स्वस्थः समलोष्टाश्मकाञ्चनः ।
तुल्यप्रियाप्रियो धीरस्तुल्यनिन्दात्मसंस्तुतिः ॥ २४ ॥
समदुःखसुखः समे दुःखसुखे यस्य सः समदुःखसुखः, स्वस्थः स्वे आत्मनि स्थितः प्रसन्नः, समलोष्टाश्मकाञ्चनः लोष्टं अश्मा काञ्चनं लोष्टाश्मकाञ्चनानि समानि यस्य सः समलोष्टाश्मकाञ्चनः, तुल्यप्रियाप्रियः प्रियं अप्रियं प्रियाप्रिये तुल्ये समे यस्य सोऽयं तुल्यप्रियाप्रियः, धीरः धीमान् , तुल्यनिन्दात्मसंस्तुतिः निन्दा आत्मसंस्तुतिश्च निन्दात्मसंस्तुती, तुल्ये निन्दात्मसंस्तुती यस्य यतेः सः तुल्यनिन्दात्मसंस्तुतिः ॥ २४ ॥
किञ्च
मानापमानयोस्तुल्यस्तुल्यो मित्रारिपक्षयोः ।
सर्वारम्भपरित्यागी गुणातीतः उच्यते ॥ २५ ॥
मानापमानयोः तुल्यः समः निर्विकारः ; तुल्यः मित्रारिपक्षयोः, यद्यपि उदासीना भवन्ति केचित् स्वाभिप्रायेण, तथापि पराभिप्रायेण मित्रारिपक्षयोरिव भवन्ति इति तुल्यो मित्रारिपक्षयोः इत्याह । सर्वारम्भपरित्यागी, दृष्टादृष्टार्थानि कर्माणि आरभ्यन्ते इति आरम्भाः, सर्वान् आरम्भान् परित्यक्तुं शीलम् अस्य इति सर्वारम्भपरित्यागी, देहधारणमात्रनिमित्तव्यतिरेकेण सर्वकर्मपरित्यागी इत्यर्थः । गुणातीतः सः उच्यते उदासीनवत्’ (भ. गी. १४ । २३) इत्यादि गुणातीतः उच्यते’ (भ. गी. १४ । २५) इत्येतदन्तम् उक्तं यावत् यत्नसाध्यं तावत् संन्यासिनः अनुष्ठेयं गुणातीतत्वसाधनं मुमुक्षोः ; स्थिरीभूतं तु स्वसंवेद्यं सत् गुणातीतस्य यतेः लक्षणं भवति इति । ॥ २५ ॥
अधुना कथं त्रीन्गुणानतिवर्तते ? ’ (भ. गी. १४ । २१) इत्यस्य प्रश्नस्य प्रतिवचनम् आह
मां योऽव्यभिचारेण भक्तियोगेन सेवते ।
गुणान्समतीत्यैतान्ब्रह्मभूयाय कल्पते ॥ २६ ॥
मां ईश्वरं नारायणं सर्वभूतहृदयाश्रितं यो यतिः कर्मी वा अव्यभिचारेण कदाचित् यो व्यभिचरति भक्तियोगेन भजनं भक्तिः सैव योगः तेन भक्तियोगेन सेवते, सः गुणान् समतीत्य एतान् यथोक्तान् ब्रह्मभूयाय, भवनं भूयः, ब्रह्मभूयाय ब्रह्मभवनाय मोक्षाय कल्पते समर्थो भवति इत्यर्थः ॥ २६ ॥
कुत एतदिति उच्यते
ब्रह्मणो हि प्रतिष्ठाहममृतस्याव्ययस्य  ।
शाश्वतस्य धर्मस्य सुखस्यैकान्तिकस्य ॥ २७ ॥
ब्रह्मणः परमात्मनः हि यस्मात् प्रतिष्ठा अहं प्रतितिष्ठति अस्मिन् इति प्रतिष्ठा अहं प्रत्यगात्मा । कीदृशस्य ब्रह्मणः ? अमृतस्य अविनाशिनः अव्ययस्य अविकारिणः शाश्वतस्य नित्यस्य धर्मस्य धर्मज्ञानस्य ज्ञानयोगधर्मप्राप्यस्य सुखस्य आनन्दरूपस्य ऐकान्तिकस्य अव्यभिचारिणः अमृतादिस्वभावस्य परमानन्दरूपस्य परमात्मनः प्रत्यगात्मा प्रतिष्ठा, सम्यग्ज्ञानेन परमात्मतया निश्चीयते । तदेतत् ब्रह्मभूयाय कल्पते’ (भ. गी. १४ । २६) इति उक्तम् । यया ईश्वरशक्त्या भक्तानुग्रहादिप्रयोजनाय ब्रह्म प्रतिष्ठते प्रवर्तते, सा शक्तिः ब्रह्मैव अहम् , शक्तिशक्तिमतोः अनन्यत्वात् इत्यभिप्रायः । अथवा, ब्रह्मशब्दवाच्यत्वात् सविकल्पकं ब्रह्म । तस्य ब्रह्मणो निर्विकल्पकः अहमेव नान्यः प्रतिष्ठा आश्रयः । किंविशिष्टस्य ? अमृतस्य अमरणधर्मकस्य अव्ययस्य व्ययरहितस्य । किञ्च, शाश्वतस्य नित्यस्य धर्मस्य ज्ञाननिष्ठालक्षणस्य सुखस्य तज्जनितस्य ऐकान्तिकस्य एकान्तनियतस्य , ‘प्रतिष्ठा अहम्इति वर्तते ॥ २७ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ श्रीमद्भगवद्गीताभाष्ये चतुर्दशोऽध्यायः ॥