श्रीमच्छङ्करभगवत्पूज्यपादविरचितम्

श्रीमद्भगवद्गीताभाष्यम्

ततो महाभारतसारभूताः स व्याकरोद्भागवतीश्च गीताः ।
 

change script to

भगवतो विभूतय उक्ताः । तत्र विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत्’ (भ. गी. १० । ४२) इति भगवता अभिहितं श्रुत्वा, यत् जगदात्मरूपम् आद्यमैश्वरं तत् साक्षात्कर्तुमिच्छन् , अर्जुन उवाच
अर्जुन उवाच —
मदनुग्रहाय परमं गुह्यमध्यात्मसंज्ञितम् ।
यत्त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम ॥ १ ॥
मदनुग्रहाय ममानुग्रहार्थं परमं निरतिशयं गुह्यं गोप्यम् अध्यात्मसंज्ञितम् आत्मानात्मविवेकविषयं यत् त्वया उक्तं वचः वाक्यं तेन ते वचसा मोहः अयं विगतः मम, अविवेकबुद्धिः अपगता इत्यर्थः ॥ १ ॥
किञ्च
भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया ।
त्वत्तः कमलपत्राक्ष माहात्म्यमपि चाव्ययम् ॥ २ ॥
भवः उत्पत्तिः अप्ययः प्रलयः तौ भवाप्ययौ हि भूतानां श्रुतौ विस्तरशः मया, सङ्क्षेपतः, त्वत्तः त्वत्सकाशात् , कमलपत्राक्ष कमलस्य पत्रं कमलपत्रं तद्वत् अक्षिणी यस्य तव त्वं कमलपत्राक्षः हे कमलपत्राक्ष, महात्मनः भावः माहात्म्यमपि अव्ययम् अक्षयम्श्रुतम्इति अनुवर्तते ॥ २ ॥
एवमेतद्यथात्थ त्वमात्मानं परमेश्वर ।
द्रष्टुमिच्छामि ते रूपमैश्वरं पुरुषोत्तम ॥ ३ ॥
एवमेतत् नान्यथा यथा येन प्रकारेण आत्थ कथयसि त्वम् आत्मानं परमेश्वर । तथापि द्रष्टुमिच्छामि ते तव ज्ञानैश्वर्यशक्तिबलवीर्यतेजोभिः सम्पन्नम् ऐश्वरं वैष्णवं रूपं पुरुषोत्तम ॥ ३ ॥
मन्यसे यदि तच्छक्यं मया द्रष्टुमिति प्रभो ।
योगेश्वर ततो मे त्वं दर्शयात्मानमव्ययम् ॥ ४ ॥
मन्यसे चिन्तयसि यदि मया अर्जुनेन तत् शक्यं द्रष्टुम् इति प्रभो, स्वामिन् , योगेश्वर योगिनो योगाः, तेषां ईश्वरः योगेश्वरः, हे योगेश्वर । यस्मात् अहम् अतीव अर्थी द्रष्टुम् , ततः तस्मात् मे मदर्थं दर्शय त्वम् आत्मानम् अव्ययम् ॥ ४ ॥
एवं चोदितः अर्जुनेन भगवान् उवाच
श्रीभगवानुवाच —
पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रशः ।
नानाविधानि दिव्यानि नानावर्णाकृतीनि ॥ ५ ॥
पश्य मे पार्थ, रूपाणि शतशः अथ सहस्रशः, अनेकशः इत्यर्थः । तानि नानाविधानि अनेकप्रकाराणि दिवि भवानि दिव्यानि अप्राकृतानि नानावर्णाकृतीनि नाना विलक्षणाः नीलपीतादिप्रकाराः वर्णाः तथा आकृतयश्च अवयवसंस्थानविशेषाः येषां रूपाणां तानि नानावर्णाकृतीनि ॥ ५ ॥
पश्यादित्यान्वसून्रुद्रानश्विनौ मरुतस्तथा ।
बहून्यदृष्टपूर्वाणि पश्याश्चर्याणि भारत ॥ ६ ॥
पश्य आदित्यान् द्वादश, वसून् अष्टौ, रुद्रान् एकादश, अश्विनौ द्वौ, मरुतः सप्त सप्त गणाः ये तान् । तथा बहूनि अन्यान्यपि अदृष्टपूर्वाणि मनुष्यलोके त्वया, त्वत्तः अन्येन वा केनचित् , पश्य आश्चर्याणि अद्भुतानि भारत ॥ ६ ॥
केवलम् एतावदेव
इहैकस्थं जगत्कृत्स्नं पश्याद्य सचराचरम् ।
मम देहे गुडाकेश यच्चान्यद्द्रष्टुमिच्छसि ॥ ७ ॥
इह एकस्थम् एकस्मिन्नेव स्थितं जगत् कृत्स्नं समस्तं पश्य अद्य इदानीं सचराचरं सह चरेण अचरेण वर्तते मम देहे गुडाकेश । यच्च अन्यत् जयपराजयादि, यत् शङ्कसे, यद्वा जयेम यदि वा नो जयेयुः’ (भ. गी. २ । ६) इति यत् अवोचः, तदपि द्रष्टुं यदि इच्छसि ॥ ७ ॥
किं तु
तु मां शक्यसे द्रष्टुमनेनैव स्वचक्षुषा ।
दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरम् ॥ ८ ॥
तु मां विश्वरूपधरं शक्यसे द्रष्टुम् अनेनैव प्राकृतेन स्वचक्षुषा स्वकीयेन चक्षुषा । येन तु शक्यसे द्रष्टुं दिव्येन, तत् दिव्यं ददामि ते तुभ्यं चक्षुः । तेन पश्य मे योगम् ऐश्वरम् ईश्वरस्य मम ऐश्वरं योगं योगशक्त्यतिशयम् इत्यर्थः ॥ ८ ॥
सञ्जय उवाच
एवमुक्त्वा ततो राजन्महायोगेश्वरो हरिः ।
दर्शयामास पार्थाय परमं रूपमैश्वरम् ॥ ९ ॥
एवं यथोक्तप्रकारेण उक्त्वा ततः अनन्तरं राजन् धृतराष्ट्र, महायोगेश्वरः महांश्च असौ योगेश्वरश्च हरिः नारायणः दर्शयामास दर्शितवान् पार्थाय पृथासुताय परमं रूपं विश्वरूपम् ऐश्वरम् ॥ ९ ॥
अनेकवक्त्रनयनमनेकाद्भुतदर्शनम् ।
अनेकदिव्याभरणं दिव्यानेकोद्यतायुधम् ॥ १० ॥
अनेकवक्त्रनयनम् अनेकानि वक्त्राणि नयनानि यस्मिन् रूपे तत् अनेकवक्त्रनयनम् , अनेकाद्भुतदर्शनम् अनेकानि अद्भुतानि विस्मापकानि दर्शनानि यस्मिन् रूपे तत् अनेकाद्भुतदर्शनं रूपम् , तथा अनेकदिव्याभरणम् अनेकानि दिव्यानि आभरणानि यस्मिन् तत् अनेकदिव्याभरणम् , तथा दिव्यानेकोद्यतायुधं दिव्यानि अनेकानि अस्यादीनि उद्यतानि आयुधानि यस्मिन् तत् दिव्यानेकोद्यतायुधम् , ‘दर्शयामासइति पूर्वेण सम्बन्धः ॥ १० ॥
किञ्च
दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् ।
सर्वाश्चर्यमयं देवमनन्तं विश्वतोमुखम् ॥ ११ ॥
दिव्यमाल्याम्बरधरं दिव्यानि माल्यानि पुष्पाणि अम्बराणि वस्त्राणि ध्रियन्ते येन ईश्वरेण तं दिव्यमाल्याम्बरधरम् , दिव्यगन्धानुलेपनं दिव्यं गन्धानुलेपनं यस्य तं दिव्यगन्धानुलेपनम् , सर्वाश्चर्यमयं सर्वाश्चर्यप्रायं देवम् अनन्तं अस्य अन्तः अस्ति इति अनन्तः तम् , विश्वतोमुखं सर्वतोमुखं सर्वभूतात्मभूतत्वात् , तं दर्शयामास । ‘अर्जुनः ददर्शइति वा अध्याह्रियते ॥ ११ ॥
या पुनर्भगवतः विश्वरूपस्य भाः, तस्या उपमा उच्यते
दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता ।
यदि भाः सदृशी सा स्याद्भासस्तस्य महात्मनः ॥ १२ ॥
दिवि अन्तरिक्षे तृतीयस्यां वा दिवि सूर्याणां सहस्रं सूर्यसहस्रं तस्य युगपदुत्थितस्य सूर्यसहस्रस्य या युगपदुत्थिता भाः, सा यदि, सदृशी स्यात् तस्य महात्मनः विश्वरूपस्यैव भासः । यदि वा स्यात् , ततः विश्वरूपस्यैव भाः अतिरिच्यते इत्यभिप्रायः ॥ १२ ॥
किञ्च
तत्रैकस्थं जगत्कृत्स्नं प्रविभक्तमनेकधा ।
अपश्यद्देवदेवस्य शरीरे पाण्डवस्तदा ॥ १३ ॥
तत्र तस्मिन् विश्वरूपे एकस्मिन् स्थितम् एकस्थं जगत् कृत्स्नं प्रविभक्तम् अनेकधा देवपितृमनुष्यादिभेदैः अपश्यत् दृष्टवान् देवदेवस्य हरेः शरीरे पाण्डवः अर्जुनः तदा ॥ १३ ॥
ततः विस्मयाविष्टो हृष्टरोमा धनञ्जयः ।
प्रणम्य शिरसा देवं कृताञ्जलिरभाषत ॥ १४ ॥
ततः तं दृष्ट्वा सः विस्मयेन आविष्टः विस्मयाविष्टः हृष्टानि रोमाणि यस्य सः अयं हृष्टरोमा अभवत् धनञ्जयः । प्रणम्य प्रकर्षेण नमनं कृत्वा प्रह्वीभूतः सन् शिरसा देवं विश्वरूपधरं कृताञ्जलिः नमस्कारार्थं सम्पुटीकृतहस्तः सन् अभाषत उक्तवान् ॥ १४ ॥
कथम् ? यत् त्वया दर्शितं विश्वरूपम् , तत् अहं पश्यामीति स्वानुभवमाविष्कुर्वन् अर्जुन उवाच
अर्जुन उवाच —
पश्यामि देवांस्तव देव देहे सर्वांस्तथा भूतविशेषसङ्घान् ।
ब्रह्माणमीशं कमलासनस्थमृषींश्च सर्वानुरगांश्च दिव्यान् ॥ १५ ॥
पश्यामि उपलभे हे देव, तव देहे देवान् सर्वान् , तथा भूतविशेषसङ्घान् भूतविशेषाणां स्थावरजङ्गमानां नानासंस्थानविशेषाणां सङ्घाः भूतविशेषसङ्घाः तान् , किञ्चब्रह्माणं चतुर्मुखम् ईशम् ईशितारं प्रजानां कमलासनस्थं पृथिवीपद्ममध्ये मेरुकर्णिकासनस्थमित्यर्थः, ऋषींश्च वसिष्ठादीन् सर्वान् , उरगांश्च वासुकिप्रभृतीन् दिव्यान् दिवि भवान् ॥ १५ ॥
अनेकबाहूदरवक्त्रनेत्रं
पश्यामि त्वा सर्वतोऽनन्तरूपम् ।
नान्तं मध्यं पुनस्तवादिं
पश्यामि विश्वेश्वर विश्वरूप ॥ १६ ॥
अनेकबाहूदरवक्त्रनेत्रम् अनेके बाहवः उदराणि वक्त्राणि नेत्राणि यस्य तव सः त्वम् अनेकबाहूदरवक्त्रनेत्रः तम् अनेकबाहूदरवक्त्रनेत्रम् । पश्यामि त्वा त्वां सर्वतः सर्वत्र अनन्तरूपम् अनन्तानि रूपाणि अस्य इति अनन्तरूपः तम् अनन्तरूपम् । अन्तम् , अन्तः अवसानम् , मध्यम् , मध्यं नाम द्वयोः कोट्योः अन्तरम् , पुनः तव आदिम् देवस्य अन्तं पश्यामि, मध्यं पश्यामि, पुनः आदिं पश्यामि, हे विश्वेश्वर विश्वरूप ॥ १६ ॥
किञ्च
किरीटिनं गदिनं चक्रिणं तेजोराशिं सर्वतोदीप्तिमन्तम् ।
पश्यामि त्वां दुर्निरीक्ष्यं समन्ताद्दीप्तानलार्कद्युतिमप्रमेयम् ॥ १७ ॥
किरीटिनं किरीटं नाम शिरोभूषणविशेषः तत् यस्य अस्ति सः किरीटी तं किरीटिनम् , तथा गदिनं गदा अस्य विद्यते इति गदी तं गदिनम् , तथा चक्रिणं चक्रम् अस्य अस्तीति चक्री तं चक्रिणं , तेजोराशिं तेजःपुञ्जं सर्वतोदीप्तिमन्तं सर्वतोदीप्तिः अस्य अस्तीति सर्वतोदीप्तिमान् , तं सर्वतोदीप्तिमन्तं पश्यामि त्वां दुर्निरीक्ष्यं दुःखेन निरीक्ष्यः दुर्निरीक्ष्यः तं दुर्निरीक्ष्यं समन्तात् समन्ततः सर्वत्र दीप्तानलार्कद्युतिम् अनलश्च अर्कश्च अनलार्कौ दीप्तौ अनलार्कौ दीप्तानलार्कौ तयोः दीप्तानलार्कयोः द्युतिरिव द्युतिः तेजः यस्य तव त्वं दीप्तानलार्कद्युतिः तं त्वां दीप्तानलार्कद्युतिम् , अप्रमेयं प्रमेयम् अशक्यपरिच्छेदम् इत्येतत् ॥ १७ ॥
इत एव ते योगशक्तिदर्शनात् अनुमिनोमि
त्वमक्षरं परमं वेदितव्यं
त्वमस्य विश्वस्य परं निधानम् ।
त्वमव्ययः शाश्वतधर्मगोप्ता
सनातनस्त्वं पुरुषो मतो मे ॥ १८ ॥
त्वम् अक्षरं क्षरतीति, परमं ब्रह्म वेदितव्यं ज्ञातव्यं मुमुक्षुभिः । त्वम् अस्य विश्वस्य समस्तस्य जगतः परं प्रकृष्टं निधानं निधीयते अस्मिन्निति निधानं परः आश्रयः इत्यर्थः । किञ्च, त्वम् अव्ययः तव व्ययो विद्यते इति अव्ययः, शाश्वतधर्मगोप्ता शश्वद्भवः शाश्वतः नित्यः धर्मः तस्य गोप्ता शाश्वतधर्मगोप्ता । सनातनः चिरन्तनः त्वं पुरुषः परमः मतः अभिप्रेतः मे मम ॥ १८ ॥
किञ्च
अनादिमध्यान्तमनन्तवीर्यमनन्तबाहुं शशिसूर्यनेत्रम् ।
पश्यामि त्वां दीप्तहुताशवक्त्रं स्वतेजसा विश्वमिदं तपन्तम् ॥ १९ ॥
अनादिमध्यान्तम् आदिश्च मध्यं अन्तश्च विद्यते यस्य सः अयम् अनादिमध्यान्तः तं त्वां अनादिमध्यान्तम् , अनन्तवीर्यं तव वीर्यस्य अन्तः अस्ति इति अनन्तवीर्यः तं त्वाम् अनन्तवीर्यम् , तथा अनन्तबाहुम् अनन्ताः बाहवः यस्य तव सः त्वम् , अनन्तबाहुः तं त्वाम् अनन्तबाहुम् , शशिसूर्यनेत्रं शशिशूर्यौ नेत्रे यस्य तव सः त्वं शशिसूर्यनेत्रः तं त्वां शशिसूर्यनेत्रं चन्द्रादित्यनयनम् , पश्यामि त्वां दीप्तहुताशवक्त्रं दीप्तश्च असौ हुताशश्च वक्त्रं यस्य तव सः त्वं दीप्तहुताशवक्त्रः तं त्वां दीप्तहुताशवक्त्रम् , स्वतेजसा विश्वम् इदं समस्तं तपन्तम् ॥ १९ ॥
द्यावापृथिव्योरिदमन्तरं हि
व्याप्तं त्वयैकेन दिशश्च सर्वाः ।
दृष्ट्वाद्भुतं रूपमिदं तवोग्रं
लोकत्रयं प्रव्यथितं महात्मन् ॥ २० ॥
द्यावापृथिव्योः इदम् अन्तरं हि अन्तरिक्षं व्याप्तं त्वया एकेन विश्वरूपधरेण दिशश्च सर्वाः व्याप्ताः । दृष्ट्वा उपलभ्य अद्भुतं विस्मापकं रूपम् इदं तव उग्रं क्रूरं लोकानां त्रयं लोकत्रयं प्रव्यथितं भीतं प्रचलितं वा हे महात्मन् अक्षुद्रस्वभाव ॥ २० ॥
अथ अधुना पुरा यद्वा जयेम यदि वा नो जयेयुः’ (भ. गी. २ । ६) इति अर्जुनस्य यः संशयः आसीत् , तन्निर्णयाय पाण्डवजयम् ऐकान्तिकं दर्शयामि इति प्रवृत्तो भगवान् । तं पश्यन् आहकिञ्च
अमी हि त्वा सुरसङ्घा विशन्ति
केचिद्भीताः प्राञ्जलयो गृणन्ति ।
स्वस्तीत्युक्त्वा महर्षिसिद्धसङ्घाः
स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः ॥ २१ ॥
अमी हि युध्यमाना योद्धारः त्वा त्वां सुरसङ्घाः ये अत्र भूभारावताराय अवतीर्णाः वस्वादिदेवसङ्घाः मनुष्यसंस्थानाः त्वां विशन्ति प्रविशन्तः दृश्यन्ते । तत्र केचित् भीताः प्राञ्जलयः सन्तो गृणन्ति स्तुवन्ति त्वाम् अन्ये पलायनेऽपि अशक्ताः सन्तः । युद्धे प्रत्युपस्थिते उत्पातादिनिमित्तानि उपलक्ष्य स्वस्ति अस्तु जगतः इति उक्त्वा महर्षिसिद्धसङ्घाः महर्षीणां सिद्धानां सङ्घाः स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः सम्पूर्णाभिः ॥ २१ ॥
किञ्चान्यत्
रुद्रादित्या वसवो ये साध्या
विश्वेऽश्विनौ मरुतश्चोष्मपाश्च ।
गन्धर्वयक्षासुरसिद्धसङ्घा
वीक्षन्ते त्वां विस्मिताश्चैव सर्वे ॥ २२ ॥
रुद्रादित्याः वसवो ये साध्याः रुद्रादयः गणाः विश्वेदेवाः अश्विनौ देवौ मरुतश्च ऊष्मपाश्च पितरः, गन्धर्वयक्षासुरसिद्धसङ्घाः गन्धर्वाः हाहाहूहूप्रभृतयः यक्षाः कुबेरप्रभृतयः असुराः विरोचनप्रभृतयः सिद्धाः कपिलादयः तेषां सङ्घाः गन्धर्वयक्षासुरसिद्धसङ्घाः, ते वीक्षन्ते पश्यन्ति त्वां विस्मिताः विस्मयमापन्नाः सन्तः ते एव सर्वे ॥ २२ ॥
यस्मात्
रूपं महत्ते बहुवक्त्रनेत्रं
महाबाहो बहुबाहूरुपादम् ।
बहूदरं बहुदंष्ट्राकरालं
दृष्ट्वा लोकाः प्रव्यथितास्तथाहम् ॥ २३ ॥
रूपं महत् अतिप्रमाणं ते तव बहुवक्त्रनेत्रं बहूनि वक्त्राणि मुखानि नेत्राणि चक्षूंषि यस्मिन् तत् रूपं बहुवक्त्रनेत्रम् , हे महाबाहो, बहुबाहूरुपादं बहवो बाहवः ऊरवः पादाश्च यस्मिन् रूपे तत् बहुबाहूरुपादम् , किञ्च, बहूदरं बहूनि उदराणि यस्मिन्निति बहूदरम् , बहुदंष्ट्राकरालं बह्वीभिः दंष्ट्राभिः करालं विकृतं तत् बहुदंष्ट्राकरालम् , दृष्ट्वा रूपम् ईदृशं लोकाः लौकिकाः प्राणिनः प्रव्यथिताः प्रचलिताः भयेन ; तथा अहमपि ॥ २३ ॥
तत्रेदं कारणम्
नभःस्पृशं दीप्तमनेकवर्णं
व्यात्ताननं दीप्तविशालनेत्रम् ।
दृष्ट्वा हि त्वां प्रव्यथितान्तरात्मा
धृतिं विन्दामि शमं विष्णो ॥ २४ ॥
नभःस्पृशं द्युस्पर्शम् इत्यर्थः, दीप्तं प्रज्वलितम् , अनेकवर्णम् अनेके वर्णाः भयङ्कराः नानासंस्थानाः यस्मिन् त्वयि तं त्वाम् अनेकवर्णम् , व्यात्ताननं व्यात्तानि विवृतानि आननानि मुखानि यस्मिन् त्वयि तं त्वां व्यात्ताननम् , दीप्तविशालनेत्रं दीप्तानि प्रज्वलितानि विशालानि विस्तीर्णानि नेत्राणि यस्मिन् त्वयि तं त्वां दीप्तविशालनेत्रं दृष्ट्वा हि त्वां प्रव्यथितान्तरात्मा प्रव्यथितः प्रभीतः अन्तरात्मा मनः यस्य मम सः अहं प्रव्यथितान्तरात्मा सन् धृतिं धैर्यं विन्दामि लभे शमं उपशमनं मनस्तुष्टिं हे विष्णो ॥ २४ ॥
कस्मात्
दंष्ट्राकरालानि ते मुखानि
दृष्ट्वैव कालानलसंनिभानि ।
दिशो जाने लभे शर्म
प्रसीद देवेश जगन्निवास ॥ २५ ॥
दंष्ट्राकरालानि दंष्ट्राभिः करालानि विकृतानि ते तव मुखानि दृष्ट्वैव उपलभ्य कालानलसंनिभानि प्रलयकाले लोकानां दाहकः अग्निः कालानलः तत्सदृशानि कालानलसंनिभानि मुखानि दृष्ट्वेत्येतत् । दिशः पूर्वापरविवेकेन जाने दिङ्मूढो जातः अस्मि । अतः लभे उपलभे शर्म सुखम् । अतः प्रसीद प्रसन्नो भव हे देवेश, जगन्निवास ॥ २५ ॥
येभ्यो मम पराजयाशङ्का या आसीत् सा अपगता । यतः
अमी त्वां धृतराष्ट्रस्य पुत्राः
सर्वे सहैवावनिपालसङ्घैः ।
भीष्मो द्रोणः सूतपुत्रस्तथासौ
सहास्मदीयैरपि योधमुख्यैः ॥ २६ ॥
अमी त्वां धृतराष्ट्रस्य पुत्राः दुर्योधनप्रभृतयः — ‘त्वरमाणाः विशन्तिइति व्यवहितेन सम्बन्धःसर्वे सहैव सहिताः अवनिपालसङ्घैः अवनिं पृथ्वीं पालयन्तीति अवनिपालाः तेषां सङ्घैः, किञ्च भीष्मो द्रोणः सूतपुत्रः कर्णः तथा असौ सह अस्मदीयैरपि धृष्टद्युम्नप्रभृतिभिः योधमुख्यैः योधानां मुख्यैः प्रधानैः सह ॥ २६ ॥
किञ्च
वक्त्राणि ते त्वरमाणा विशन्ति
दंष्ट्राकरालानि भयानकानि ।
केचिद्विलग्ना दशनान्तरेषु
सन्दृश्यन्ते चूर्णितैरुत्तमाङ्गैः ॥ २७ ॥
वक्त्राणि मुखानि ते तव त्वरमाणाः त्वरायुक्ताः सन्तः विशन्ति, किंविशिष्टानि मुखानि ? दंष्ट्राकरालानि भयानकानि भयङ्कराणि । किञ्च, केचित् मुखानि प्रविष्टानां मध्ये विलग्नाः दशनान्तरेषु मांसमिव भक्षितं सन्दृश्यन्ते उपलभ्यन्ते चूर्णितैः चूर्णीकृतैः उत्तमाङ्गैः शिरोभिः ॥ २७ ॥
कथं प्रविशन्ति मुखानि इत्याह
यथा नदीनां बहवोऽम्बुवेगाः
समुद्रमेवाभिमुखा द्रवन्ति ।
तथा तवामी नरलोकवीरा
विशन्ति वक्त्राण्यभिविज्वलन्ति ॥ २८ ॥
यथा नदीनां स्रवन्तीनां बहवः अनेके अम्बूनां वेगाः अम्बुवेगाः त्वराविशेषाः समुद्रमेव अभिमुखाः प्रतिमुखाः द्रवन्ति प्रविशन्ति, तथा तद्वत् तव अमी भीष्मादयः नरलोकवीराः मनुष्यलोके शूराः विशन्ति वक्त्राणि अभिविज्वलन्ति प्रकाशमानानि ॥ २८ ॥
ते किमर्थं प्रविशन्ति कथं इत्याह
यथा प्रदीप्तं ज्वलनं पतङ्गा विशन्ति नाशाय समृद्धवेगाः ।
तथैव नाशाय विशन्ति लोकास्तवापि वक्त्राणि समृद्धवेगाः ॥ २९ ॥
यथा प्रदीप्तं ज्वलनम् अग्निं पतङ्गाः पक्षिणः विशन्ति नाशाय विनाशाय समृद्धवेगाः समृद्धः उद्भूतः वेगः गतिः येषां ते समृद्धवेगाः, तथैव नाशाय विशन्ति लोकाः प्राणिनः तवापि वक्त्राणि समृद्धवेगाः ॥ २९ ॥
त्वं पुनः
लेलिह्यसे ग्रसमानः समन्ताल्लोकान्समग्रान्वदनैर्ज्वलद्भिः ।
तेजोभिरापूर्य जगत्समग्रं भासस्तवोग्राः प्रतपन्ति विष्णो ॥ ३० ॥
लेलिह्यसे आस्वादयसि ग्रसमानः अन्तः प्रवेशयन् समन्तात् समन्ततः लोकान् समग्रान् समस्तान् वदनैः वक्त्रैः ज्वलद्भिः दीप्यमानैः तेजोभिः आपूर्य संव्याप्य जगत् समग्रं सह अग्रेण समस्तम् इत्येतत् । किञ्च, भासः दीप्तयः तव उग्राः क्रूराः प्रतपन्ति प्रतापं कुर्वन्ति हे विष्णो व्यापनशील ॥ ३० ॥
यतः एवमुग्रस्वभावः, अतः
आख्याहि मे को भवानुग्ररूपो नमोऽस्तु ते देववर प्रसीद ।
विज्ञातुमिच्छामि भवन्तमाद्यं हि प्रजानामि तव प्रवृत्तिम् ॥ ३१ ॥
आख्याहि कथय मे मह्यं कः भवान् उग्ररूपः क्रूराकारः, नमः अस्तु ते तुभ्यं हे देववर देवानां प्रधान, प्रसीद प्रसादं कुरु । विज्ञातुं विशेषेण ज्ञातुम् इच्छामि भवन्तम् आद्यम् आदौ भवम् आद्यम् , हि यस्मात् प्रजानामि तव त्वदीयां प्रवृत्तिं चेष्टाम् ॥ ३१ ॥
श्रीभगवानुवाच
कालोऽस्मि लोकक्षयकृत्प्रवृद्धो लोकान्समाहर्तुमिह प्रवृत्तः ।
ऋतेऽपि त्वा भविष्यन्ति सर्वे येऽवस्थिताः प्रत्यनीकेषु योधाः ॥ ३२ ॥
कालः अस्मि लोकक्षयकृत् लोकानां क्षयं करोतीति लोकक्षयकृत् प्रवृद्धः वृद्धिं गतः । यदर्थं प्रवृद्धः तत् शृणुलोकान् समाहर्तुं संहर्तुम् इह अस्मिन् काले प्रवृत्तः । ऋतेऽपि विनापि त्वा त्वां भविष्यन्ति भीष्मद्रोणकर्णप्रभृतयः सर्वे, येभ्यः तव आशङ्का, ये अवस्थिताः प्रत्यनीकेषु अनीकमनीकं प्रति प्रत्यनीकेषु प्रतिपक्षभूतेषु अनीकेषु योधाः योद्धारः ॥ ३२ ॥
यस्मात् एवम्
तस्मात्त्वमुत्तिष्ठ यशो लभस्व
जित्वा शत्रून्भुङ्क्ष्व राज्यं समृद्धम् ।
मयैवैते निहताः पूर्वमेव
निमित्तमात्रं भव सव्यसाचिन् ॥ ३३ ॥
तस्मात् त्वम् उत्तिष्ठभीष्मप्रभृतयः अतिरथाः अजेयाः देवैरपि, अर्जुनेन जिताःइति यशः लभस्व ; केवलं पुण्यैः हि तत् प्राप्यते । जित्वा शत्रून् दुर्योधनप्रभृतीन् भुङ्क्ष्व राज्यं समृद्धम् असपत्नम् अकण्टकम् । मया एव एते निहताः निश्चयेन हताः प्राणैः वियोजिताः पूर्वमेव । निमित्तमात्रं भव त्वं हे सव्यसाचिन् , सव्येन वामेनापि हस्तेन शराणां क्षेप्ता सव्यसाची इति उच्यते अर्जुनः ॥ ३३ ॥
द्रोणं भीष्मं जयद्रथं
कर्णं तथान्यानपि योधवीरान् ।
मया हतांस्त्वं जहि मा व्यथिष्ठा
युध्यस्व जेतासि रणे सपत्नान् ॥ ३४ ॥
द्रोणं , येषु येषु योधेषु अर्जुनस्य आशङ्का तांस्तान् व्यपदिशति भगवान् , मया हतानिति । तत्र द्रोणभीष्मयोः तावत् प्रसिद्धम् आशङ्काकारणम् । द्रोणस्तु धनुर्वेदाचार्यः दिव्यास्त्रसम्पन्नः, आत्मनश्च विशेषतः गुरुः गरिष्ठः । भीष्मश्च स्वच्छन्दमृत्युः दिव्यास्त्रसम्पन्नश्च परशुरामेण द्वन्द्वयुद्धम् अगमत् , पराजितः । तथा जयद्रथः, यस्य पिता तपः चरतिमम पुत्रस्य शिरः भूमौ निपातयिष्यति यः, तस्यापि शिरः पतिष्यतिइति । कर्णोऽपि वासवदत्तया शक्त्या त्वमोघया सम्पन्नः सूर्यपुत्रः कानीनः यतः, अतः तन्नाम्नैव निर्देशः । मया हतान् त्वं जहि निमित्तमात्रेण । मा व्यथिष्ठाः तेभ्यः भयं मा कार्षीः । युध्यस्व जेतासि दुर्योधनप्रभृतीन् रणे युद्धे सपत्नान् शत्रून् ॥ ३४ ॥
सञ्जय उवाच
एतच्छ्रुत्वा वचनं केशवस्य
कृताञ्जलिर्वेपमानः किरीटी ।
नमस्कृत्वा भूय एवाह कृष्णं
सगद्गदं भीतभीतः प्रणम्य ॥ ३५ ॥
एतत् श्रुत्वा वचनं केशवस्य पूर्वोक्तं कृताञ्जलिः सन् वेपमानः कम्पमानः किरीटी नमस्कृत्वा, भूयः पुनः एव आह उक्तवान् कृष्णं सगद्गदं भयाविष्टस्य दुःखाभिघातात् स्नेहाविष्टस्य हर्षोद्भवात् , अश्रुपूर्णनेत्रत्वे सति श्लेष्मणा कण्ठावरोधः ; ततश्च वाचः अपाटवं मन्दशब्दत्वं यत् गद्गदः तेन सह वर्तत इति सगद्गदं वचनम् आह इति वचनक्रियाविशेषणम् एतत् । भीतभीतः पुनः पुनः भयाविष्टचेताः सन् प्रणम्य प्रह्वः भूत्वा, ‘आहइति व्यवहितेन सम्बन्धः
अत्र अवसरे सञ्जयवचनं साभिप्रायम् । कथम् ? द्रोणादिषु अर्जुनेन निहतेषु अजेयेषु चतुर्षु, निराश्रयः दुर्योधनः निहतः एव इति मत्वा धृतराष्ट्रः जयं प्रति निराशः सन् सन्धिं करिष्यति, ततः शान्तिः उभयेषां भविष्यति इति । तदपि अश्रौषीत् धृतराष्ट्रः भवितव्यवशात् ॥ ३५ ॥
अर्जुन उवाच
स्थाने हृषीकेश तव प्रकीर्त्या
जगत्प्रहृष्यत्यनुरज्यते  ।
रक्षांसि भीतानि दिशो द्रवन्ति
सर्वे नमस्यन्ति सिद्धसङ्घाः ॥ ३६ ॥
स्थाने युक्तम् । किं तत् ? तव प्रकीर्त्या त्वन्माहात्म्यकीर्तनेन श्रुतेन, हे हृषीकेश, यत् जगत् प्रहृष्यति प्रहर्षम् उपैति, तत् स्थाने युक्तम् , इत्यर्थः । अथवा विषयविशेषणं स्थाने इति । युक्तः हर्षादिविषयः भगवान् , यतः ईश्वरः सर्वात्मा सर्वभूतसुहृच्च इति । तथा अनुरज्यते अनुरागं उपैति ; तच्च विषये इति व्याख्येयम् । किञ्च, रक्षांसि भीतानि भयाविष्टानि दिशः द्रवन्ति गच्छन्ति ; तच्च स्थाने विषये । सर्वे नमस्यन्ति नमस्कुर्वन्ति सिद्धसङ्घाः सिद्धानां समुदायाः कपिलादीनाम् , तच्च स्थाने ॥ ३६ ॥
भगवतो हर्षादिविषयत्वे हेतुं दर्शयति
कस्माच्च ते नमेरन्महात्मन्गरीयसे ब्रह्मणोऽप्यादिकर्त्रे ।
अनन्त देवेश जगन्निवास त्वमक्षरं सदसत्तत्परं यत् ॥ ३७ ॥
कस्माच्च हेतोः ते तुभ्यं नमेरन् नमस्कुर्युः हे महात्मन् , गरीयसे गुरुतराय ; यतः ब्रह्मणः हिरण्यगर्भस्य अपि आदिकर्ता कारणम् अतः तस्मात् आदिकर्त्रे । कथम् एते नमस्कुर्युः ? अतः हर्षादीनां नमस्कारस्य स्थानं त्वं अर्हः विषयः इत्यर्थः । हे अनन्त देवेश हे जगन्निवास त्वम् अक्षरं तत् परम् , यत् वेदान्तेषु श्रूयते । किं तत् ? सदसत् इति । सत् विद्यमानम् , असत् यत्र नास्ति इति बुद्धिः ; ते उपधानभूते सदसती यस्य अक्षरस्य, यद्द्वारेण सदसती इति उपचर्यते । परमार्थतस्तु सदसतोः परं तत् अक्षरं यत् अक्षरं वेदविदः वदन्ति । तत् त्वमेव, अन्यत् इति अभिप्रायः ॥ ३७ ॥
पुनरपि स्तौति
त्वमादिदेवः पुरुषः पुराणस्त्वमस्य विश्वस्य परं निधानम् ।
वेत्तासि वेद्यं परं धाम त्वया ततं विश्वमनन्तरूप ॥ ३८ ॥
त्वम् आदिदेवः, जगतः स्रष्टृत्वात् । पुरुषः, पुरि शयनात् पुराणः चिरन्तनः त्वम् एव अस्य विश्वस्य परं प्रकृष्टं निधानं निधीयते अस्मिन् जगत् सर्वं महाप्रलयादौ इति । किञ्च, वेत्ता असि, वेदिता असि सर्वस्यैव वेद्यजातस्य । यत् वेद्यं वेदनार्हं तच्च असि परं धाम परमं पदं वैष्णवम् । त्वया ततं व्याप्तं विश्वं समस्तम् , हे अनन्तरूप अन्तो विद्यते तव रूपाणाम् ॥ ३८ ॥
किञ्च
वायुर्यमोऽग्निर्वरुणः शशाङ्कः
प्रजापतिस्त्वं प्रपितामहश्च ।
नमो नमस्तेऽस्तु सहस्रकृत्वः
पुनश्च भूयोऽपि नमो नमस्ते ॥ ३९ ॥
वायुः त्वं यमश्च अग्निः वरुणः अपां पतिः शशाङ्कः चन्द्रमाः प्रजापतिः त्वं कश्यपादिः प्रपितामहश्च पितामहस्यापि पिता प्रपितामहः, ब्रह्मणोऽपि पिता इत्यर्थः । नमो नमः ते तुभ्यम् अस्तु सहस्रकृत्वः । पुनश्च भूयोऽपि नमो नमः ते । बहुशो नमस्कारक्रियाभ्यासावृत्तिगणनं कृत्वसुचा उच्यते । ‘पुनश्च’ ‘भूयोऽपिइति श्रद्धाभक्त्यतिशयात् अपरितोषम् आत्मनः दर्शयति ॥ ३९ ॥
तथा
नमः पुरस्तादथ पृष्ठतस्ते
नमोऽस्तु ते सर्वत एव सर्व ।
अनन्तवीर्यामितविक्रमस्त्वं
सर्वं समाप्नोषि ततोऽसि सर्वः ॥ ४० ॥
नमः पुरस्तात् पूर्वस्यां दिशि तुभ्यम् , अथ पृष्ठतः ते पृष्ठतः अपि ते नमोऽस्तु, ते सर्वत एव सर्वासु दिक्षु सर्वत्र स्थिताय हे सर्व । अनन्तवीर्यामितविक्रमः अनन्तं वीर्यम् अस्य, अमितः विक्रमः अस्य । वीर्यं सामर्थ्यं विक्रमः पराक्रमः । वीर्यवानपि कश्चित् शत्रुवधादिविषये पराक्रमते, मन्दपराक्रमो वा । त्वं तु अनन्तवीर्यः अमितविक्रमश्च इति अनन्तवीर्यामितविक्रमः । सर्वं समस्तं जगत् समाप्तोषि सम्यक् एकेन आत्मना व्याप्नोषि यतः, ततः तस्मात् असि भवसि सर्वः त्वम् , त्वया विनाभूतं किञ्चित् अस्ति इति अभिप्रायः ॥ ४० ॥
यतः अहं त्वन्माहात्म्यापरिज्ञानात् अपराद्धः, अतः
सखेति मत्वा प्रसभं यदुक्तं
हे कृष्ण हे यादव हे सखेति ।
अजानता महिमानं तवेदं
मया प्रमादात्प्रणयेन वापि ॥ ४१ ॥
सखा समानवयाः इति मत्वा ज्ञात्वा विपरीतबुद्ध्या प्रसभम् अभिभूय प्रसह्य यत् उक्तं हे कृष्ण हे यादव हे सखेति अजानता अज्ञानिना मूढेन ; किम् अजानता इति आहमहिमानं महात्म्यं तव इदम् ईश्वरस्य विश्वरूपम् । ‘तव इदं महिमानम् अजानताइति वैयधिकरण्येन सम्बन्धः । ‘तवेमम्इति पाठः यदि अस्ति, तदा सामानाधिकरण्यमेव । मया प्रमादात् विक्षिप्तचित्ततया, प्रणयेन वापि, प्रणयो नाम स्नेहनिमित्तः विस्रम्भः तेनापि कारणेन यत् उक्तवान् अस्मि ॥ ४१ ॥
यच्चावहासार्थमसत्कृतोऽसि
विहारशय्यासनभोजनेषु ।
एकोऽथवाप्यच्युत तत्समक्षं
तत्क्षामये त्वामहमप्रमेयम् ॥ ४२ ॥
यच्च अवहासार्थं परिहासप्रयोजनाय असत्कृतः परिभूतः असि भवसि ; क्व ? विहारशय्यासनभोजनेषु, विहरणं विहारः पादव्यायामः, शयनं शय्या, आसनम् आस्थायिका, भोजनम् अदनम् , इति एतेषु विहारशय्यासनभोजनेषु, एकः परोक्षः सन् असत्कृतः असि परिभूतः असि ; अथवापि हे अच्युत, तत् समक्षम् , तच्छब्दः क्रियाविशेषणार्थः, प्रत्यक्षं वा असत्कृतः असि तत् सर्वम् अपराधजातं क्षामये क्षमां कारये त्वाम् अहम् अप्रमेयं प्रमाणातीतम् ॥ ४२ ॥
यतः त्वम्
पितासि लोकस्य चराचरस्य
त्वमस्य पूज्यश्च गुरुर्गरीयान् ।
त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो
लोकत्रयेऽप्यप्रतिमप्रभाव ॥ ४३ ॥
पिता असि जनयिता असि लोकस्य प्राणिजातस्य चराचरस्य स्थावरजङ्गमस्य । केवलं त्वम् अस्य जगतः पिता, पूज्यश्च पूजार्हः, यतः गुरुः गरीयान् गुरुतरः । कस्मात् गुरुतरः त्वम् इति आह त्वत्समः त्वत्तुल्यः अस्ति । हि ईश्वरद्वयं सम्भवति, अनेकेश्वरत्वे व्यवहारानुपपत्तेः । त्वत्सम एव तावत् अन्यः सम्भवति ; कुतः एव अन्यः अभ्यधिकः स्यात् लोकत्रयेऽपि सर्वस्मिन् ? अप्रतिमप्रभाव प्रतिमीयते यया सा प्रतिमा, विद्यते प्रतिमा यस्य तव प्रभावस्य सः त्वम् अप्रतिमप्रभावः, हे अप्रतिमप्रभाव निरतिशयप्रभाव इत्यर्थः ॥ ४३ ॥
यतः एवम्
तस्मात्प्रणम्य प्रणिधाय कायं
प्रसादये त्वामहमीशमीड्यम् ।
पितेव पुत्रस्य सखेव सख्युः
प्रियः प्रियायार्हसि देव सोढुम् ॥ ४४ ॥
तस्मात् प्रणम्य नमस्कृत्य, प्रणिधाय प्रकर्षेण नीचैः धृत्वा कायं शरीरम् , प्रसादये प्रसादं कारये त्वाम् अहम् ईशम् ईशितारम् , ईड्यं स्तुत्यम् । त्वं पुनः पुत्रस्य अपराधं पिता यथा क्षमते, सर्वं सखा इव सख्युः अपराधम् , यथा वा प्रियः प्रियायाः अपराधं क्षमते, एवम् अर्हसि हे देव सोढुं प्रसहितुम् क्षन्तुम् इत्यर्थः ॥ ४४ ॥
अदृष्टपूर्वं हृषितोऽस्मि दृष्ट्वा
भयेन प्रव्यथितं मनो मे ।
तदेव मे दर्शय देव रूपं
प्रसीद देवेश जगन्निवास ॥ ४५ ॥
अदृष्टपूर्वं कदाचिदपि दृष्टपूर्वम् इदं विश्वरूपं तव मया अन्यैर्वा, तत् अहं दृष्ट्वा हृषितः अस्मि । भयेन प्रव्यथितं मनः मे । अतः तदेव मे मम दर्शय हे देव रूपं यत् मत्सखम् । प्रसीद देवेश, जगन्निवास जगतो निवासो जगन्निवासः, हे जगन्निवास ॥ ४५ ॥
किरीटिनं गदिनं चक्रहस्तमिच्छामि त्वां द्रष्टुमहं तथैव ।
तेनैव रूपेण चतुर्भुजेन सहस्रबाहो भव विश्वमूर्ते ॥ ४६ ॥
किरीटिनं किरीटवन्तं तथा गदिनं गदावन्तं चक्रहस्तम् इच्छामि त्वां प्रार्थये त्वां द्रष्टुम् अहं तथैव, पूर्ववत् इत्यर्थः । यतः एवम् , तस्मात् तेनैव रूपेण वसुदेवपुत्ररूपेण चतुर्भुजेन, सहस्रबाहो वार्तमानिकेन विश्वरूपेण, भव विश्वमूर्ते ; उपसंहृत्य विश्वरूपम् , तेनैव रूपेण भव इत्यर्थः ॥ ४६ ॥
अर्जुनं भीतम् उपलभ्य, उपसंहृत्य विश्वरूपम् , प्रियवचनेन आश्वासयन् श्रीभगवान् उवाच
श्रीभगवानुवाच —
मया प्रसन्नेन तवार्जुनेदं
रूपं परं दर्शितमात्मयोगात् ।
तेजोमयं विश्वमनन्तमाद्यं
यन्मे त्वदन्येन दृष्टपूर्वम् ॥ ४७ ॥
मया प्रसन्नेन, प्रसादो नाम त्वयि अनुग्रहबुद्धिः, तद्वता प्रसन्नेन मया तव हे अर्जुन, इदं परं रूपं विश्वरूपं दर्शितम् आत्मयोगात् आत्मनः ऐश्वर्यस्य सामर्थ्यात् । तेजोमयं तेजःप्रायं विश्वं समस्तम् अनन्तम् अन्तरहितं आदौ भवम् आद्यं यत् रूपं मे मम त्वदन्येन त्वत्तः अन्येन केनचित् दृष्टपूर्वम् ॥ ४७ ॥
आत्मनः मम रूपदर्शनेन कृतार्थ एव त्वं संवृत्तः इति तत् स्तौति
वेदयज्ञाध्ययनैर्न दानैर्न क्रियाभिर्न तपोभिरुग्रैः ।
एवंरूपः शक्य अहं नृलोके द्रष्टुं त्वदन्येन कुरुप्रवीर ॥ ४८ ॥
वेदयज्ञाध्ययनैः चतुर्णामपि वेदानाम् अध्ययनैः यथावत् यज्ञाध्ययनैश्चवेदाध्ययनैरेव यज्ञाध्ययनस्य सिद्धत्वात् पृथक् यज्ञाध्ययनग्रहणं यज्ञविज्ञानोपलक्षणार्थम्तथा दानैः तुलापुरुषादिभिः, क्रियाभिः अग्निहोत्रादिभिः श्रौतादिभिः, अपि तपोभिः उग्रैः चान्द्रायणादिभिः उग्रैः घोरैः, एवंरूपः यथादर्शितं विश्वरूपं यस्य सोऽहम् एवंरूपः शक्यः अहं नृलोके मनुष्यलोके द्रष्टुं त्वदन्येन त्वत्तः अन्येन कुरुप्रवीर ॥ ४८ ॥
मा ते व्यथा मा विमूढभावो
दृष्ट्वा रूपं घोरमीदृङ्ममेदम् ।
व्यपेतभीः प्रीतमनाः पुनस्त्वं
तदेव मे रूपमिदं प्रपश्य ॥ ४९ ॥
मा ते व्यथा मा भूत् ते भयम् , मा विमूढभावः विमूढचित्तता, दृष्ट्वा उपलभ्य रूपं घोरम् ईदृक् यथादर्शितं मम इदम् । व्यपेतभीः विगतभयः, प्रीतमनाश्च सन् पुनः भूयः त्वं तदेव चतुर्भुजं रूपं शङ्खचक्रगदाधरं तव इष्टं रूपम् इदं प्रपश्य ॥ ४९ ॥
सञ्जय उवाच
इत्यर्जुनं वासुदेवस्तथोक्त्वा
स्वकं रूपं दर्शयामास भूयः ।
आश्वासयामास भीतमेनं
भूत्वा पुनःसौम्यवपुर्महात्मा ॥ ५० ॥
इति एवम् अर्जुनं वासुदेवः तथाभूतं वचनम् उक्त्वा, स्वकं वसुदेवस्य गृहे जातं रूपं दर्शयामास दर्शितवान् भूयः पुनः । आश्वासयामास आश्वासितवान् भीतम् एनम् , भूत्वा पुनः सौम्यवपुः प्रसन्नदेहः महात्मा ॥ ५० ॥
अर्जुन उवाच
दृष्ट्वेदं मानुषं रूपं
तव सौम्यं जनार्दन ।
इदानीमस्मि संवृत्तः
सचेताः प्रकृतिं गतः ॥ ५१ ॥
दृष्ट्वा इदं मानुषं रूपं मत्सखं प्रसन्नं तव सौम्यं जनार्दन, इदानीम् अधुना अस्मि संवृत्तः सञ्जातः । किम् ? सचेताः प्रसन्नचित्तः प्रकृतिं स्वभावं गतश्च अस्मि ॥ ५१ ॥
श्रीभगवानुवाच
सुदुर्दर्शमिदं रूपं
दृष्टवानसि यन्मम ।
देवा अप्यस्य रूपस्य
नित्यं दर्शनकाङ्क्षिणः ॥ ५२ ॥
सुदुर्दर्शं सुष्ठु दुःखेन दर्शनम् अस्य इति सुदुर्दर्शम् , इदं रूपं दृष्टवान् असि यत् मम, देवादयः अपि अस्य मम रूपस्य नित्यं सर्वदा दर्शनकाङ्क्षिणः ; दर्शनेप्सवोऽपि त्वमिव दृष्टवन्तः, द्रक्ष्यन्ति इति अभिप्रायः ॥ ५२ ॥
कस्मात् ? —
नाहं वेदैर्न तपसा
दानेन चेज्यया ।
शक्य एवंविधो द्रष्टुं
दृष्टवानसि मां यथा ॥ ५३ ॥
अहं वेदैः ऋग्यजुःसामाथर्ववेदैः चतुर्भिरपि, तपसा उग्रेण चान्द्रायणादिना, दानेन गोभूहिरण्यादिना, इज्यया यज्ञेन पूजया वा शक्यः एवंविधः यथादर्शितप्रकारः द्रष्टुं दृष्टावान् असि मां यथा त्वम् ॥ ५३ ॥
कथं पुनः शक्यः इति उच्यते
भक्त्या त्वनन्यया शक्य
अहमेवंविधोऽर्जुन ।
ज्ञातुं द्रष्टुं तत्त्वेन
प्रवेष्टुं परन्तप ॥ ५४ ॥
भक्त्या तु किंविशिष्टया इति आहअनन्यया अपृथग्भूतया, भगवतः अन्यत्र पृथक् कदाचिदपि या भवति सा त्वनन्या भक्तिः । सर्वैरपि करणैः वासुदेवादन्यत् उपलभ्यते यया, सा अनन्या भक्तिः, तया भक्त्या शक्यः अहम् एवंविधः विश्वरूपप्रकारः हे अर्जुन, ज्ञातुं शास्त्रतः । केवलं ज्ञातुं शास्त्रतः, द्रष्टुं साक्षात्कर्तुं तत्त्वेन तत्त्वतः, प्रवेष्टुं मोक्षं गन्तुं परन्तप ॥ ५४ ॥
अधुना सर्वस्य गीताशास्त्रस्य सारभूतः अर्थः निःश्रेयसार्थः अनुष्ठेयत्वेन समुच्चित्य उच्यते
मत्कर्मकृन्मत्परमो
मद्भक्तः सङ्गवर्जितः ।
निर्वैरः सर्वभूतेषु
यः मामेति पाण्डव ॥ ५५ ॥
मत्कर्मकृत् मदर्थं कर्म मत्कर्म, तत् करोतीति मत्कर्मकृत् । मत्परमःकरोति भृत्यः स्वामिकर्म, तु आत्मनः परमा प्रेत्य गन्तव्या गतिरिति स्वामिनं प्रतिपद्यते ; अयं तु मत्कर्मकृत् मामेव परमां गतिं प्रतिपद्यते इति मत्परमः, अहं परमः परा गतिः यस्य सोऽयं मत्परमः । तथा मद्भक्तः मामेव सर्वप्रकारैः सर्वात्मना सर्वोत्साहेन भजते इति मद्भक्तः । सङ्गवर्जितः धनपुत्रमित्रकलत्रबन्धुवर्गेषु सङ्गवर्जितः सङ्गः प्रीतिः स्नेहः तद्वर्जितः । निर्वैरः निर्गतवैरः सर्वभूतेषु शत्रुभावरहितः आत्मनः अत्यन्तापकारप्रवृत्तेष्वपि । यः ईदृशः मद्भक्तः सः माम् एति, अहमेव तस्य परा गतिः, अन्या गतिः काचित् भवति । अयं तव उपदेशः इष्टः मया उपदिष्टः हे पाण्डव इति ॥ ५५ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ श्रीमद्भगवद्गीताभाष्ये एकादशोऽध्यायः ॥