श्रीमच्छङ्करभगवत्पूज्यपादविरचितम्

श्रीमद्भगवद्गीताभाष्यम्

ततो महाभारतसारभूताः स व्याकरोद्भागवतीश्च गीताः ।
 

सर्वम् उत्पद्यमानं क्षेत्रक्षेत्रज्ञसंयोगात् उत्पद्यते इति उक्तम् । तत् कथमिति, तत्प्रदर्शनार्थम् ‘परं भूयः’ इत्यादिः अध्यायः आरभ्यते । अथवा, ईश्वरपरतन्त्रयोः क्षेत्रक्षेत्रज्ञयोः जगत्कारणत्वं न तु साङ्ख्यानामिव स्वतन्त्रयोः इत्येवमर्थम् । प्रकृतिस्थत्वं गुणेषु च सङ्गः संसारकारणम् इति उक्तम् । कस्मिन् गुणे कथं सङ्गः ? के वा गुणाः ? कथं वा ते बध्नन्ति इति ? गुणेभ्यश्च मोक्षणं कथं स्यात् ? मुक्तस्य च लक्षणं वक्तव्यम् , इत्येवमर्थं च भगवान् उवाच —
श्रीभगवानुवाच —
परं भूयः प्रवक्ष्यामि
ज्ञानानां ज्ञानमुत्तमम् ।
यज्ज्ञात्वा मुनयः सर्वे
परां सिद्धिमितो गताः ॥ १ ॥
परं ज्ञानम् इति व्यवहितेन सम्बन्धः, भूयः पुनः पूर्वेषु सर्वेष्वध्यायेषु असकृत् उक्तमपि प्रवक्ष्यामि । तच्च परं परवस्तुविषयत्वात् । किं तत् ? ज्ञानं सर्वेषां ज्ञानानाम् उत्तमम् , उत्तमफलत्वात् । ज्ञानानाम् इति न अमानित्वादीनाम् ; किं तर्हि ? यज्ञादिज्ञेयवस्तुविषयाणाम् इति । तानि न मोक्षाय, इदं तु मोक्षाय इति परोत्तमशब्दाभ्यां स्तौति श्रोतृबुद्धिरुच्युत्पादनार्थम् । यत् ज्ञात्वा यत् ज्ञानं ज्ञात्वा प्राप्य मुनयः संन्यासिनः मननशीलाः सर्वे परां सिद्धिं मोक्षाख्याम् इतः अस्मात् देहबन्धनात् ऊर्ध्वं गताः प्राप्ताः ॥ १ ॥
अस्याश्च सिद्धेः ऐकान्तिकत्वं दर्शयति —
इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः ।
सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च ॥ २ ॥
इदं ज्ञानं यथोक्तमुपाश्रित्य, ज्ञानसाधनम् अनुष्ठाय इत्येतत् , मम परमेश्वरस्य साधर्म्यं मत्स्वरूपताम् आगताः प्राप्ताः इत्यर्थः । न तु समानधर्मता साधर्म्यम् , क्षेत्रज्ञेश्वरयोः भेदानभ्युपगमात् गीताशास्त्रे । फलवादश्च अयं स्तुत्यर्थम् उच्यते । सर्गेऽपि सृष्टिकालेऽपि न उपजायन्ते । न उत्पद्यन्ते । प्रलये ब्रह्मणोऽपि विनाशकाले न व्यथन्ति च व्यथां न आपद्यन्ते, न च्यवन्ति इत्यर्थः ॥ २ ॥
क्षेत्रक्षेत्रज्ञसंयोगः ईदृशः भूतकारणम् इत्याह —
मम योनिर्महद्ब्रह्म तस्मिन्गर्भं दधाम्यहम् ।
सम्भवः सर्वभूतानां ततो भवति भारत ॥ ३ ॥
मम स्वभूता मदीया माया त्रिगुणात्मिका प्रकृतिः योनिः सर्वभूतानां कारणम् । सर्वकार्येभ्यो महत्त्वात् भरणाच्च स्वविकाराणां महत् ब्रह्म इति योनिरेव विशिष्यते । तस्मिन् महति ब्रह्मणि योनौ गर्भं हिरण्यगर्भस्य जन्मनः बीजं सर्वभूतजन्मकारणं बीजं दधामि निक्षिपामि क्षेत्रक्षेत्रज्ञप्रकृतिद्वयशक्तिमान् ईश्वरः अहम् , अविद्याकामकर्मोपाधिस्वरूपानुविधायिनं क्षेत्रज्ञं क्षेत्रेण संयोजयामि इत्यर्थः । सम्भवः उत्पत्तिः सर्वभूतानां हिरण्यगर्भोत्पत्तिद्वारेण ततः तस्मात् गर्भाधानात् भवति हे भारत ॥ ३ ॥
सर्वयोनिषु कौन्तेय मूर्तयः सम्भवन्ति याः ।
तासां ब्रह्म महद्योनिरहं बीजप्रदः पिता ॥ ४ ॥
देवपितृमनुष्यपशुमृगादिसर्वयोनिषु कौन्तेय, मूर्तयः देहसंस्थानलक्षणाः मूर्छिताङ्गावयवाः मूर्तयः सम्भवन्ति याः, तासां मूर्तीनां ब्रह्म महत् सर्वावस्थं योनिः कारणम् अहम् ईश्वरः बीजप्रदः गर्भाधानस्य कर्ता पिता ॥ ४ ॥
के गुणाः कथं बध्नन्तीति, उच्यते —
सत्त्वं रजस्तम इति गुणाः प्रकृतिसम्भवाः ।
निबध्नन्ति महाबाहो देहे देहिनमव्ययम् ॥ ५ ॥
सत्त्वं रजः तमः इति एवंनामानः । गुणाः इति पारिभाषिकः शब्दः, न रूपादिवत् द्रव्याश्रिताः गुणाः । न च गुणगुणिनोः अन्यत्वमत्र विवक्षितम् । तस्मात् गुणा इव नित्यपरतन्त्राः क्षेत्रज्ञं प्रति अविद्यात्मकत्वात् क्षेत्रज्ञं निबध्नन्तीव । तम् आस्पदीकृत्य आत्मानं प्रतिलभन्ते इति निबध्नन्ति इति उच्यते । ते च प्रकृतिसम्भवाः भगवन्मायासम्भवाः निबध्नन्ति इव हे महाबाहो, महान्तौ समर्थतरौ आजानुप्रलम्बौ बाहू यस्य सः महाबाहुः, हे महाबाहो देहे शरीरे देहिनं देहवन्तम् अव्ययम् , अव्ययत्वं च उक्तम् ‘अनादित्वात्’ (भ. गी. १३ । ३१) इत्यादिश्लोकेन । ननु ‘देही न लिप्यते’ (भ. गी. १३ । ३१) इत्युक्तम् । तत् कथम् इह निबध्नन्ति इति अन्यथा उच्यते ? परिहृतम् अस्माभिः इवशब्देन निबध्नन्ति इव इति ॥ ५ ॥
तत्र सत्त्वादीनां सत्त्वस्यैव तावत् लक्षणम् उच्यते —
तत्र सत्त्वं निर्मलत्वात्प्रकाशकमनामयम् ।
सुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानघ ॥ ६ ॥
निर्मलत्वात् स्फटिकमणिरिव प्रकाशकम् अनामयं निरुपद्रवं सत्त्वं तन्निबध्नाति । कथम् ? सुखसङ्गेन ‘सुखी अहम्’ इति विषयभूतस्य सुखस्य विषयिणि आत्मनि संश्लेषापादनं मृषैव सुखे सञ्जनम् इति । सैषा अविद्या । न हि विषयधर्मः विषयिणः भवति । इच्छादि च धृत्यन्तं क्षेत्रस्यैव विषयस्य धर्मः इति उक्तं भगवता । अतः अविद्ययैव स्वकीयधर्मभूतया विषयविषय्यविवेकलक्षणया अस्वात्मभूते सुखे सञ्जयति इव, आसक्तमिव करोति, असङ्गं सक्तमिव करोति, असुखिनं सुखिनमिव । तथा ज्ञानसङ्गेन च, ज्ञानमिति सुखसाहचर्यात् क्षेत्रस्यैव विषयस्य अन्तःकरणस्य धर्मः, न आत्मनः ; आत्मधर्मत्वे सङ्गानुपपत्तेः, बन्धानुपपत्तेश्च । सुखे इव ज्ञानादौ सङ्गः मन्तव्यः । हे अनघ अव्यसन ॥ ६ ॥
रजो रागात्मकं विद्धि तृष्णासङ्गसमुद्भवम् ।
तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम् ॥ ७ ॥
रजः रागात्मकं रञ्जनात् रागः गैरिकादिवद्रागात्मकं विद्धि जानीहि । तृष्णासङ्गसमुद्भवं तृष्णा अप्राप्ताभिलाषः, आसङ्गः प्राप्ते विषये मनसः प्रीतिलक्षणः संश्लेषः, तृष्णासङ्गयोः समुद्भवं तृष्णासङ्गसमुद्भवम् । तन्निबध्नाति तत् रजः निबध्नाति कौन्तेय कर्मसङ्गेन, दृष्टादृष्टार्थेषु कर्मसु सञ्जनं तत्परता कर्मसङ्गः, तेन निबध्नाति रजः देहिनम् ॥ ७ ॥
तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम् ।
प्रमादालस्यनिद्राभिस्तन्निबध्नाति भारत ॥ ८ ॥
तमः तृतीयः गुणः अज्ञानजम् अज्ञानात् जातम् अज्ञानजं विद्धि मोहनं मोहकरम् अविवेककरं सर्वदेहिनां सर्वेषां देहवताम् । प्रमादालस्यनिद्राभिः प्रमादश्च आलस्यं च निद्रा च प्रमादालस्यनिद्राः ताभिः प्रमादालस्यनिद्राभिः तत् तमः निबध्नाति भारत ॥ ८ ॥
पुनः गुणानां व्यापारः सङ्क्षेपतः उच्यते —
सत्त्वं सुखे सञ्जयति रजः कर्मणि भारत ।
ज्ञानमावृत्य तु तमः प्रमादे सञ्जयत्युत ॥ ९ ॥
सत्त्वं सुखे सञ्जयति संश्लेषयति, रजः कर्मणि हे भारत सञ्जयति इति अनुवर्तते । ज्ञानं सत्त्वकृतं विवेकम् आवृत्य आच्छाद्य तु तमः स्वेन आवरणात्मना प्रमादे सञ्जयति उत प्रमादः नाम प्राप्तकर्तव्याकरणम् ॥ ९ ॥
उक्तं कार्यं कदा कुर्वन्ति गुणा इति उच्यते —
रजस्तमश्चाभिभूय सत्त्वं भवति भारत ।
रजः सत्त्वं तमश्चैव तमः सत्त्वं रजस्तथा ॥ १० ॥
रजः तमश्च उभावपि अभिभूय सत्त्‌वं भवति उद्भवति वर्धते यदा, तदा लब्धात्मकं सत्त्वं स्वकार्यं ज्ञानसुखादि आरभते हे भारत । तथा रजोगुणः सत्त्वं तमश्च एव उभावपि अभिभूय वर्धते यदा, तदा कर्म कृष्यादि स्वकार्यम् आरभते । तमआख्यो गुणः सत्त्वं रजश्च उभावपि अभिभूय तथैव वर्धते यदा, तदा ज्ञानावरणादि स्वकार्यम् आरभते ॥ १० ॥
यदा यो गुणः उद्भूतः भवति, तदा तस्य किं लिङ्गमिति उच्यते —
सर्वद्वारेषु देहेऽस्मिन्प्रकाश उपजायते ।
ज्ञानं यदा तदा विद्याद्विवृद्धं सत्त्वमित्युत ॥ ११ ॥
सर्वद्वारेषु, आत्मनः उपलब्धिद्वाराणि श्रोत्रादीनि सर्वाणि करणानि, तेषु सर्वद्वारेषु अन्तःकरणस्य बुद्धेः वृत्तिः प्रकाशः देहे अस्मिन् उपजायते । तदेव ज्ञानम् । यदा एवं प्रकाशो ज्ञानाख्यः उपजायते, तदा ज्ञानप्रकाशेन लिङ्गेन विद्यात् विवृद्धम् उद्भूतं सत्त्वम् इति उत अपि ॥ ११ ॥
रजसः उद्भूतस्य इदं चिह्नम् —
लोभः प्रवृत्तिरारम्भः कर्मणामशमः स्पृहा ।
रजस्येतानि जायन्ते विवृद्धे भरतर्षभ ॥ १२ ॥
लोभः परद्रव्यादित्सा, प्रवृत्तिः प्रवर्तनं सामान्यचेष्टा, आरम्भः ; कस्य ? कर्मणाम् । अशमः अनुपशमः, हर्षरागादिप्रवृत्तिः, स्पृहा सर्वसामान्यवस्तुविषया तृष्णा — रजसि गुणे विवृद्धे एतानि लिङ्गानि जायन्ते हे भरतर्षभ ॥ १२ ॥
अप्रकाशोऽप्रवृत्तिश्च प्रमादो मोह एव च ।
तमस्येतानि जायन्ते विवृद्धे कुरुनन्दन ॥ १३ ॥
अप्रकाशः अविवेकः, अत्यन्तम् अप्रवृत्तिश्च प्रवृत्त्यभावः तत्कार्यं प्रमादो मोह एव च अविवेकः मूढता इत्यर्थः । तमसि गुणे विवृद्धे एतानि लिङ्गानि जायन्ते हे कुरुनन्दन ॥ १३ ॥
मरणद्वारेणापि यत् फलं प्राप्यते, तदपि सङ्गरागहेतुकं सर्वं गौणमेव इति दर्शयन् आह —
यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देहभृत् ।
तदोत्तमविदां लोकानमलान्प्रतिपद्यते ॥ १४ ॥
यदा सत्त्वे प्रवृद्धे उद्भूते तु प्रलयं मरणं याति प्रतिपद्यते देहभृत् आत्मा, तदा उत्तमविदां महदादितत्त्वविदाम् इत्येतत् , लोकान् अमलान् मलरहितान् प्रतिपद्यते प्राप्नोति इत्येतत् ॥ १४ ॥
रजसि प्रलयं गत्वा कर्मसङ्गिषु जायते ।
तथा प्रलीनस्तमसि मूढयोनिषु जायते ॥ १५ ॥
रजसि गुणे विवृद्धे प्रलयं मरणं गत्वा प्राप्य कर्मसङ्गिषु कर्मासक्तियुक्तेषु मनुष्येषु जायते । तथा तद्वदेव प्रलीनः मृतः तमसि विवृद्धे मूढयोनिषु पश्वादियोनिषु जायते ॥ १५ ॥
अतीतश्लोकार्थस्यैव सङ्क्षेपः उच्यते —
कर्मणः सुकृतस्याहुः सात्त्विकं निर्मलं फलम् ।
रजसस्तु फलं दुःखमज्ञानं तमसः फलम् ॥ १६ ॥
कर्मणः सुकृतस्य सात्त्विकस्य इत्यर्थः, आहुः शिष्टाः सात्त्विकम् एव निर्मलं फलम् इति । रजसस्तु फलं दुःखं राजसस्य कर्मणः इत्यर्थः, कर्माधिकारात् फलम् अपि दुःखम् एव, कारणानुरूप्यात् राजसमेव । तथा अज्ञानं तमसः तामसस्य कर्मणः अधर्मस्य पूर्ववत् ॥ १६ ॥
किञ्च गुणेभ्यो भवति —
सत्त्वात्सञ्जायते ज्ञानं रजसो लोभ एव च ।
प्रमादमोहौ तमसो भवतोऽज्ञानमेव च ॥ १७ ॥
सत्त्वात् लब्धात्मकात् सञ्जायते समुत्पद्यते ज्ञानम् , रजसो लोभ एव च, प्रमादमोहौ च उभौ तमसो भवतः, अज्ञानमेव च भवति ॥ १७ ॥
किञ्च —
ऊर्ध्वं गच्छन्ति सत्त्वस्था
मध्ये तिष्ठन्ति राजसाः ।
जघन्यगुणवृत्तस्था
अधो गच्छन्ति तामसाः ॥ १८ ॥
ऊर्ध्वं गच्छन्ति देवलोकादिषु उत्पद्यन्ते सत्त्वस्थाः सत्त्वगुणवृत्तस्थाः । मध्ये तिष्ठन्ति मनुष्येषु उत्पद्यन्ते राजसाः । जघन्यगुणवृत्तस्थाः जघन्यश्च असौ गुणश्च जघन्यगुणः तमः, तस्य वृत्तं निद्रालस्यादि, तस्मिन् स्थिताः जघन्यगुणवृत्तस्थाः मूढाः अधः गच्छन्ति पश्वादिषु उत्पद्यन्ते तामसाः ॥ १८ ॥
पुरुषस्य प्रकृतिस्थत्वरूपेण मिथ्याज्ञानेन युक्तस्य भोग्येषु गुणेषु सुखदुःखमोहात्मकेषु ‘सुखी दुःखी मूढः अहम् अस्मि’ इत्येवंरूपः यः सङ्गः तत्कारणं पुरुषस्य सदसद्योनिजन्मप्राप्तिलक्षणस्य संसारस्य इति समासेन पूर्वाध्याये यत् उक्तम् , तत् इह ‘सत्त्वं रजस्तम इति गुणाः प्रकृतिसम्भवाः’ (भ. गी. १४ । ५) इति आरभ्य गुणस्वरूपम् , गुणवृत्तम् , स्ववृत्तेन च गुणानां बन्धकत्वम् , गुणवृत्तनिबद्धस्य च पुरुषस्य या गतिः, इत्येतत् सर्वं मिथ्याज्ञानमूलं बन्धकारणं विस्तरेण उक्त्वा, अधुना सम्यग्दर्शनान्मोक्षो वक्तव्यः इत्यत आह भगवान् —
नान्यं गुणेभ्यः कर्तारं यदा द्रष्टानुपश्यति ।
गुणेभ्यश्च परं वेत्ति मद्भावं सोऽधिगच्छति ॥ १९ ॥
न अन्यं कार्यकरणविषयाकारपरिणतेभ्यः गुणेभ्यः कर्तारम् अन्यं यदा द्रष्टा विद्वान् सन् न अनुपश्यति, गुणा एव सर्वावस्थाः सर्वकर्मणां कर्तारः इत्येवं पश्यति, गुणेभ्यश्च परं गुणव्यापारसाक्षिभूतं वेत्ति, मद्भावं मम भावं सः द्रष्टा अधिगच्छति ॥ १९ ॥
कथम् अधिगच्छति इति, उच्यते —
गुणानेतानतीत्य त्रीन्देही देहसमुद्भवान् ।
जन्ममृत्युजरादुःखैर्विमुक्तोऽमृतमश्नुते ॥ २० ॥
गुणान् एतान् यथोक्तान् अतीत्य जीवन्नेव अतिक्रम्य मायोपाधिभूतान् त्रीन् देही देहसमुद्भवान् देहोत्पत्तिबीजभूतान् जन्ममृत्युजरादुःखैः जन्म च मृत्युश्च जरा च दुःखानि च जन्ममृत्युजरादुःखानि तैः जीवन्नेव विमुक्तः सन् विद्वान् अमृतम् अश्नुते, एवं मद्भावम् अधिगच्छति इत्यर्थः ॥ २० ॥
जीवन्नेव गुणान् अतीत्य अमृतम् अश्नुते इति प्रश्नबीजं प्रतिलभ्य, अर्जुन उवाच —
अर्जुन उवाच —
कैर्लिङ्गैस्त्रीन्गुणानेतानतीतो भवति प्रभो ।
किमाचारः कथं चैतांस्त्रीन्गुणानतिवर्तते ॥ २१ ॥
कैः लिङ्गैः चिह्नैः त्रीन् एतान् व्याख्यातान् गुणान् अतीतः अतिक्रान्तः भवति प्रभो, किमाचारः कः अस्य आचारः इति किमाचारः कथं केन च प्रकारेण एतान् त्रीन् गुणान् अतिवर्तते अतीत्य वर्तते ॥ २१ ॥
गुणातीतस्य लक्षणं गुणातीतत्वोपायं च अर्जुनेन पृष्टः अस्मिन् श्लोके प्रश्नद्वयार्थं प्रतिवचनं भगवान् उवाच । यत् तावत् ‘कैः लिङ्गैः युक्तो गुणातीतो भवति’ इति, तत् शृणु —
श्रीभगवानुवाच —
प्रकाशं च प्रवृत्तिं च मोहमेव च पाण्डव ।
न द्वेष्टि सम्प्रवृत्तानि न निवृत्तानि काङ्क्षति ॥ २२ ॥
प्रकाशं च सत्त्वकार्यं प्रवृत्तिं च रजःकार्यं मोहमेव च तमःकार्यम् इत्येतानि न द्वेष्टि सम्प्रवृत्तानि सम्यग्विषयभावेन उद्भूतानि — ‘मम तामसः प्रत्ययो जातः, तेन अहं मूढः ; तथा राजसी प्रवृत्तिः मम उत्पन्ना दुःखात्मिका, तेन अहं रजसा प्रवर्तितः प्रचलितः स्वरूपात् ; कष्टं मम वर्तते यः अयं मत्स्वरूपावस्थानात् भ्रंशः ; तथा सात्त्विको गुणः प्रकाशात्मा मां विवेकित्वम् आपादयन् सुखे च सञ्जयन् बध्नाति’ इति तानि द्वेष्टि असम्यग्दर्शित्वेन । तत् एवं गुणातीतो न द्वेष्टि सम्प्रवृत्तानि । यथा च सात्त्विकादिपुरुषः सत्त्वादिकार्याणि आत्मानं प्रति प्रकाश्य निवृत्तानि काङ्क्षति, न तथा गुणातीतो निवृत्तानि काङ्क्षति इत्यर्थः । एतत् न परप्रत्यक्षं लिङ्गम् । किं तर्हि ? स्वात्मप्रत्यक्षत्वात् आत्मार्थमेव एतत् लक्षणम् । न हि स्वात्मविषयं द्वेषमाकाङ्क्षां वा परः पश्यति ॥ २२ ॥
अथ इदानीम् ‘गुणातीतः किमाचारः ? ’ इति प्रश्नस्य प्रतिवचनम् आह —
उदासीनवदासीनो गुणैर्यो न विचाल्यते ।
गुणा वर्तन्त इत्येव योऽवतिष्ठति नेङ्गते ॥ २३ ॥
उदासीनवत् यथा उदासीनः न कस्यचित् पक्षं भजते, तथा अयं गुणातीतत्वोपायमार्गेऽवस्थितः आसीनः आत्मवित् गुणैः यः संन्यासी न विचाल्यते विवेकदर्शनावस्थातः । तदेतत् स्फुटीकरोति — गुणाः कार्यकरणविषयाकारपरिणताः अन्योऽन्यस्मिन् वर्तन्ते इति यः अवतिष्ठति । छन्दोभङ्गभयात् परस्मैपदप्रयोगः । योऽनुतिष्ठतीति वा पाठान्तरम् । न इङ्गते न चलति, स्वरूपावस्थ एव भवति इत्यर्थः ॥ २३ ॥
किञ्च —
समदुःखसुखः स्वस्थः समलोष्टाश्मकाञ्चनः ।
तुल्यप्रियाप्रियो धीरस्तुल्यनिन्दात्मसंस्तुतिः ॥ २४ ॥
समदुःखसुखः समे दुःखसुखे यस्य सः समदुःखसुखः, स्वस्थः स्वे आत्मनि स्थितः प्रसन्नः, समलोष्टाश्मकाञ्चनः लोष्टं च अश्मा च काञ्चनं च लोष्टाश्मकाञ्चनानि समानि यस्य सः समलोष्टाश्मकाञ्चनः, तुल्यप्रियाप्रियः प्रियं च अप्रियं च प्रियाप्रिये तुल्ये समे यस्य सोऽयं तुल्यप्रियाप्रियः, धीरः धीमान् , तुल्यनिन्दात्मसंस्तुतिः निन्दा च आत्मसंस्तुतिश्च निन्दात्मसंस्तुती, तुल्ये निन्दात्मसंस्तुती यस्य यतेः सः तुल्यनिन्दात्मसंस्तुतिः ॥ २४ ॥
किञ्च —
मानापमानयोस्तुल्यस्तुल्यो मित्रारिपक्षयोः ।
सर्वारम्भपरित्यागी गुणातीतः स उच्यते ॥ २५ ॥
मानापमानयोः तुल्यः समः निर्विकारः ; तुल्यः मित्रारिपक्षयोः, यद्यपि उदासीना भवन्ति केचित् स्वाभिप्रायेण, तथापि पराभिप्रायेण मित्रारिपक्षयोरिव भवन्ति इति तुल्यो मित्रारिपक्षयोः इत्याह । सर्वारम्भपरित्यागी, दृष्टादृष्टार्थानि कर्माणि आरभ्यन्ते इति आरम्भाः, सर्वान् आरम्भान् परित्यक्तुं शीलम् अस्य इति सर्वारम्भपरित्यागी, देहधारणमात्रनिमित्तव्यतिरेकेण सर्वकर्मपरित्यागी इत्यर्थः । गुणातीतः सः उच्यते ‘उदासीनवत्’ (भ. गी. १४ । २३) इत्यादि ‘गुणातीतः स उच्यते’ (भ. गी. १४ । २५) इत्येतदन्तम् उक्तं यावत् यत्नसाध्यं तावत् संन्यासिनः अनुष्ठेयं गुणातीतत्वसाधनं मुमुक्षोः ; स्थिरीभूतं तु स्वसंवेद्यं सत् गुणातीतस्य यतेः लक्षणं भवति इति । ॥ २५ ॥
अधुना ‘कथं च त्रीन्गुणानतिवर्तते ? ’ (भ. गी. १४ । २१) इत्यस्य प्रश्नस्य प्रतिवचनम् आह —
मां च योऽव्यभिचारेण भक्तियोगेन सेवते ।
स गुणान्समतीत्यैतान्ब्रह्मभूयाय कल्पते ॥ २६ ॥
मां च ईश्वरं नारायणं सर्वभूतहृदयाश्रितं यो यतिः कर्मी वा अव्यभिचारेण न कदाचित् यो व्यभिचरति भक्तियोगेन भजनं भक्तिः सैव योगः तेन भक्तियोगेन सेवते, सः गुणान् समतीत्य एतान् यथोक्तान् ब्रह्मभूयाय, भवनं भूयः, ब्रह्मभूयाय ब्रह्मभवनाय मोक्षाय कल्पते समर्थो भवति इत्यर्थः ॥ २६ ॥
कुत एतदिति उच्यते —
ब्रह्मणो हि प्रतिष्ठाहममृतस्याव्ययस्य च ।
शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च ॥ २७ ॥
ब्रह्मणः परमात्मनः हि यस्मात् प्रतिष्ठा अहं प्रतितिष्ठति अस्मिन् इति प्रतिष्ठा अहं प्रत्यगात्मा । कीदृशस्य ब्रह्मणः ? अमृतस्य अविनाशिनः अव्ययस्य अविकारिणः शाश्वतस्य च नित्यस्य धर्मस्य धर्मज्ञानस्य ज्ञानयोगधर्मप्राप्यस्य सुखस्य आनन्दरूपस्य ऐकान्तिकस्य अव्यभिचारिणः अमृतादिस्वभावस्य परमानन्दरूपस्य परमात्मनः प्रत्यगात्मा प्रतिष्ठा, सम्यग्ज्ञानेन परमात्मतया निश्चीयते । तदेतत् ‘ब्रह्मभूयाय कल्पते’ (भ. गी. १४ । २६) इति उक्तम् । यया च ईश्वरशक्त्या भक्तानुग्रहादिप्रयोजनाय ब्रह्म प्रतिष्ठते प्रवर्तते, सा शक्तिः ब्रह्मैव अहम् , शक्तिशक्तिमतोः अनन्यत्वात् इत्यभिप्रायः । अथवा, ब्रह्मशब्दवाच्यत्वात् सविकल्पकं ब्रह्म । तस्य ब्रह्मणो निर्विकल्पकः अहमेव नान्यः प्रतिष्ठा आश्रयः । किंविशिष्टस्य ? अमृतस्य अमरणधर्मकस्य अव्ययस्य व्ययरहितस्य । किञ्च, शाश्वतस्य च नित्यस्य धर्मस्य ज्ञाननिष्ठालक्षणस्य सुखस्य तज्जनितस्य ऐकान्तिकस्य एकान्तनियतस्य च, ‘प्रतिष्ठा अहम्’ इति वर्तते ॥ २७ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ श्रीमद्भगवद्गीताभाष्ये चतुर्दशोऽध्यायः ॥