श्रीमच्छङ्करभगवत्पूज्यपादविरचितम्

श्रीमद्भगवद्गीताभाष्यम्

ततो महाभारतसारभूताः स व्याकरोद्भागवतीश्च गीताः ।
 

‘तस्माच्छास्त्रं प्रमाणं ते’ (भ. गी. १६ । २४) इति भगवद्वाक्यात् लब्धप्रश्नबीजः अर्जुन उवाच —
अर्जुन उवाच —
ये शास्त्रविधिमुत्सृज्य
यजन्ते श्रद्धयान्विताः ।
तेषां निष्ठा तु का कृष्ण
सत्त्वमाहो रजस्तमः ॥ १ ॥
ये केचित् अविशेषिताः शास्त्रविधिं शास्त्रविधानं श्रुतिस्मृतिशास्त्रचोदनाम् उत्सृज्य परित्यज्य यजन्ते देवादीन् पूजयन्ति श्रद्धया अन्विताः श्रद्धया आस्तिक्यबुद्ध्या अन्विताः संयुक्ताः सन्तः — श्रुतिलक्षणं स्मृतिलक्षणं वा कञ्चित् शास्त्रविधिम् अपश्यन्तः वृद्धव्यवहारदर्शनादेव श्रद्दधानतया ये देवादीन् पूजयन्ति, ते इह ‘ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विताः’ इत्येवं गृह्यन्ते । ये पुनः कञ्चित् शास्त्रविधिं उपलभमाना एव तम् उत्सृज्य अयथाविधि देवादीन् पूजयन्ति, ते इह ‘ये शास्त्रविधिमुत्सृज्य यजन्ते’ इति न परिगृह्यन्ते । कस्मात् ? श्रद्धया अन्वितत्वविशेषणात् । देवादिपूजाविधिपरं किञ्चित् शास्त्रं पश्यन्त एव तत् उत्सृज्य अश्रद्दधानतया तद्विहितायां देवादिपूजायां श्रद्धया अन्विताः प्रवर्तन्ते इति न शक्यं कल्पयितुं यस्मात् , तस्मात् पूर्वोक्ता एव ‘ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विताः’ इत्यत्र गृह्यन्ते तेषाम् एवंभूतानां निष्ठा तु का कृष्ण सत्त्वम् आहो रजः तमः, किं सत्त्वं निष्ठा अवस्थानम् , आहोस्वित् रजः, अथवा तमः इति । एतत् उक्तं भवति — या तेषां देवादिविषया पूजा, सा किं सात्त्विकी, आहोस्वित् राजसी, उत तामसी इति ॥ १ ॥
सामान्यविषयः अयं प्रश्नः न अप्रविभज्यं प्रतिवचनम् अर्हतीति श्रीभगवानुवाच —
श्रीभगवानुवाच —
त्रिविधा भवति श्रद्धा
देहिनां सा स्वभावजा ।
सात्त्विकी राजसी चैव
तामसी चेति तां शृणु ॥ २ ॥
त्रिविधा त्रिप्रकारा भवति श्रद्धा, यस्यां निष्ठायां त्वं पृच्छसि, देहिनां शरीरिणां सा स्वभावजा ; जन्मान्तरकृतः धर्मादिसंस्कारः मरणकाले अभिव्यक्तः स्वभावः उच्यते, ततो जाता स्वभावजा । सात्त्विकी सत्त्वनिर्वृत्ता देवपूजादिविषया ; राजसी रजोनिर्वृत्ता यक्षरक्षःपूजादिविषया ; तामसी तमोनिर्वृत्ता प्रेतपिशाचादिपूजाविषया ; एवं त्रिविधां ताम् उच्यमानां श्रद्धां शृणु अवधारय ॥ २ ॥
सा इयं त्रिविधा भवति —
सत्त्वानुरूपा सर्वस्य
श्रद्धा भवति भारत ।
श्रद्धामयोऽयं पुरुषो
यो यच्छ्रद्धः स एव सः ॥ ३ ॥
सत्त्वानुरूपा विशिष्टसंस्कारोपेतान्तःकरणानुरूपा सर्वस्य प्राणिजातस्य श्रद्धा भवति भारत । यदि एवं ततः किं स्यादिति, उच्यते — श्रद्धामयः अयं श्रद्धाप्रायः पुरुषः संसारी जीवः । कथम् ? यः यच्छ्रद्धः या श्रद्धा यस्य जीवस्य सः यच्छ्रद्धः स एव तच्छ्रद्धानुरूप एव सः जीवः ॥ ३ ॥
ततश्च कार्येण लिङ्गेन देवादिपूजया सत्त्वादिनिष्ठा अनुमेया इत्याह —
यजन्ते सात्त्विका देवान्यक्षरक्षांसि राजसाः ।
प्रेतान्भूतगणांश्चान्ये यजन्ते तामसा जनाः ॥ ४ ॥
यजन्ते पूजयन्ति सात्त्विकाः सत्त्वनिष्ठाः देवान् , यक्षरक्षांसि राजसाः, प्रेतान् भूतगणांश्च सप्तमातृकादींश्च अन्ये यजन्ते तामसाः जनाः ॥ ४ ॥
एवं कार्यतो निर्णीताः सत्त्वादिनिष्ठाः शास्त्रविध्युत्सर्गे । तत्र कश्चिदेव सहस्रेषु देवपूजादिपरः सत्त्वनिष्ठो भवति, बाहुल्येन तु रजोनिष्ठाः तमोनिष्ठाश्चैव प्राणिनो भवन्ति । कथम् ? —
अशास्त्रविहितं घोरं तप्यन्ते ये तपो जनाः ।
दम्भाहङ्कारसंयुक्ताः कामरागबलान्विताः ॥ ५ ॥
अशास्त्रविहितं न शास्त्रविहितम् अशास्त्रविहितं घोरं पीडाकरं प्राणिनाम् आत्मनश्च तपः तप्यन्ते निर्वर्तयन्ति ये जनाः ते च दम्भाहङ्कारसंयुक्ताः, दम्भश्च अहङ्कारश्च दम्भाहङ्कारौ, ताभ्यां संयुक्ताः दम्भाहङ्कारसंयुक्ताः, कामरागबलान्विताः कामश्च रागश्च कामरागौ तत्कृतं बलं कामरागबलं तेन अन्विताः कामरागबलान्विताः ॥ ५ ॥
कर्शयन्तः शरीरस्थं
भूतग्राममचेतसः ।
मां चैवान्तःशरीरस्थं
तान्विद्ध्यासुरनिश्चयान् ॥ ६ ॥
कर्शयन्तः कृशीकुर्वन्तः शरीरस्थं भूतग्रामं करणसमुदायम् अचेतसः अविवेकिनः मां चैव तत्कर्मबुद्धिसाक्षिभूतम् अन्तःशरीरस्थं नारायणं कर्शयन्तः, मदनुशासनाकरणमेव मत्कर्शनम् , तान् विद्धि आसुरनिश्चयान् आसुरो निश्चयो येषां ते आसुरनिश्चयाः तान् परिहरणार्थं विद्धि इति उपदेशः ॥ ६ ॥
आहाराणां च रस्यस्निग्धादिवर्गत्रयरूपेण भिन्नानां यथाक्रमं सात्त्विकराजसतामसपुरुषप्रियत्वदर्शनम् इह क्रियते रस्यस्निग्धादिषु आहारविशेषेषु आत्मनः प्रीत्यतिरेकेण लिङ्गेन सात्त्विकत्वं राजसत्वं तामसत्वं च बुद्ध्वा रजस्तमोलिङ्गानाम् आहाराणां परिवर्जनार्थं सत्त्वलिङ्गानां च उपादानार्थम् । तथा यज्ञादीनामपि सत्त्वादिगुणभेदेन त्रिविधत्वप्रतिपादनम् इह ‘राजसतामसान् बुद्ध्वा कथं नु नाम परित्यजेत् , सात्त्विकानेव अनुतिष्ठेत्’ इत्येवमर्थम् । आह —
आहारस्त्वपि सर्वस्य त्रिविधो भवति प्रियः ।
यज्ञस्तपस्तथा दानं तेषां भेदमिमं शृणु ॥ ७ ॥
आहारस्त्वपि सर्वस्य भोक्तुः प्राणिनः त्रिविधो भवति प्रियः इष्टः, तथा यज्ञः, तथा तपः, तथा दानम् । तेषाम् आहारादीनां भेदम् इमं वक्ष्यमाणं शृणु ॥ ७ ॥
आयुःसत्त्वबलारोग्यसुखप्रीतिविवर्धनाः ।
रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियाः ॥ ८ ॥
आयुश्च सत्त्वं च बलं च आरोग्यं च सुखं च प्रीतिश्च आयुःसत्त्वबलारोग्यसुखप्रीतयः तासां विवर्धनाः आयुःसत्त्वबलारोग्यसुखप्रीतिविवर्धनाः, ते च रस्याः रसोपेताः, स्निग्धाः स्नेहवन्तः, स्थिराः चिरकालस्थायिनः देहे, हृद्याः हृदयप्रियाः आहाराः सात्त्विकप्रियाः सात्त्विकस्य इष्टाः ॥ ८ ॥
कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः ।
आहारा राजसस्येष्टा दुःखशोकामयप्रदाः ॥ ९ ॥
कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः इत्यत्र अतिशब्दः कट्वादिषु सर्वत्र योज्यः, अतिकटुः अतितीक्ष्णः इत्येवम् । कटुश्च अम्लश्च लवणश्च अत्युष्णश्च तीक्ष्णश्च रूक्षश्च विदाही च ते आहाराः राजसस्य इष्टाः, दुःखशोकामयप्रदाः दुःखं च शोकं च आमयं च प्रयच्छन्तीति दुःखशोकामयप्रदाः ॥ ९ ॥
यातयामं गतरसं पूति पर्युषितं च यत् ।
उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम् ॥ १० ॥
यातयामं मन्दपक्वम् , निर्वीर्यस्य गतरसशब्देन उक्तत्वात् । गतरसं रसवियुक्तम् , पूति दुर्गन्धि, पर्युषितं च पक्वं सत् रात्र्यन्तरितं च यत् , उच्छिष्टमपि भुक्तशिष्टम् उच्छिष्टम् , अमेध्यम् अयज्ञार्हम् , भोजनम् ईदृशं तामसप्रियम् ॥ १० ॥
अथ इदानीं यज्ञः त्रिविधः उच्यते —
अफलाकाङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते ।
यष्टव्यमेवेति मनः समाधाय स सात्त्विकः ॥ ११ ॥
अफलाकाङ्क्षिभिः अफलार्थिभिः यज्ञः विधिदृष्टः शास्त्रचोदनादृष्टो यः यज्ञः इज्यते निर्वर्त्यते, यष्टव्यमेवेति यज्ञस्वरूपनिर्वर्तनमेव कार्यम् इति मनः समाधाय, न अनेन पुरुषार्थो मम कर्तव्यः इत्येवं निश्चित्य, सः सात्त्विकः यज्ञः उच्यते ॥ ११ ॥
अभिसन्धाय तु फलं दम्भार्थमपि चैव यत् ।
इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम् ॥ १२ ॥
अभिसन्धाय तु उद्दिश्य फलं दम्भार्थमपि चैव यत् इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम् ॥ १२ ॥
विधिहीनमसृष्टान्नं मन्त्रहीनमदक्षिणम् ।
श्रद्धाविरहितं यज्ञं तामसं परिचक्षते ॥ १३ ॥
विधिहीनं यथाचोदितविपरीतम् , असृष्टान्नं ब्राह्मणेभ्यो न सृष्टं न दत्तम् अन्नं यस्मिन् यज्ञे सः असृष्टान्नः तम् असृष्टान्नम् , मन्त्रहीनं मन्त्रतः स्वरतो वर्णतो वा वियुक्तं मन्त्रहीनम् , अदक्षिणम् उक्तदक्षिणारहितम् , श्रद्धाविरहितं यज्ञं तामसं परिचक्षते तमोनिर्वृत्तं कथयन्ति ॥ १३ ॥
अथ इदानीं तपः त्रिविधम् उच्यते —
देवद्विजगुरुप्राज्ञपूजनं शौचमार्जवम् ।
ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते ॥ १४ ॥
देवाश्च द्विजाश्च गुरवश्च प्राज्ञाश्च देवद्विजगुरुप्राज्ञाः तेषां पूजनं देवद्विजगुरुप्राज्ञपूजनम् , शौचम् , आर्जवम् ऋजुत्वम् , ब्रह्मचर्यम् अहिंसा च शरीरनिर्वर्त्यं शारीरं शरीरप्रधानैः सर्वैरेव कार्यकरणैः कर्त्रादिभिः साध्यं शारीरं तपः उच्यते । ‘पञ्चैते तस्य हेतवः’ (भ. गी. १८ । १५) इति हि वक्ष्यति ॥ १४ ॥
अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत् ।
स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते ॥ १५ ॥
अनुद्वेगकरं प्राणिनाम् अदुःखकरं वाक्यं सत्यं प्रियहितं च यत् प्रियहिते दृष्टादृष्टार्थे । अनुद्वेगकरत्वादिभिः धर्मैः वाक्यं विशेष्यते । विशेषणधर्मसमुच्चयार्थः च—शब्दः । परप्रत्ययार्थं प्रयुक्तस्य वाक्यस्य सत्यप्रियहितानुद्वेगकरत्वानाम् अन्यतमेन द्वाभ्यां त्रिभिर्वा हीनता स्याद्यदि, न तद्वाङ्मयं तपः । तथा सत्यवाक्यस्य इतरेषाम् अन्यतमेन द्वाभ्यां त्रिभिर्वा विहीनतायां न वाङ्मयतपस्त्वम् । तथा प्रियवाक्यस्यापि इतरेषाम् अन्यतमेन द्वाभ्यां त्रिभिर्वा विहीनस्य न वाङ्मयतपस्त्वम् । तथा हितवाक्यस्यापि इतरेषाम् अन्यतमेन द्वाभ्यां त्रिभिर्वा विहीनस्य न वाङ्मयतपस्त्वम् । किं पुनः तत् तपः ? यत् सत्यं वाक्यम् अनुद्वेगकरं प्रियं हितं च, तत् तपः वाङ्मयम् ; यथा ‘शान्तो भव वत्स, स्वाध्यायं योगं च अनुतिष्ठ, तथा ते श्रेयो भविष्यति’ इति । स्वाध्यायाभ्यसनं चैव यथाविधि वाङ्मयं तपः उच्यते ॥ १५ ॥
मनःप्रसादः सौम्यत्वं मौनमात्मविनिग्रहः ।
भावसंशुद्धिरित्येतत्तपो मानसमुच्यते ॥ १६ ॥
मनःप्रसादः मनसः प्रशान्तिः, स्वच्छतापादनं प्रसादः, सौम्यत्वं यत् सौमनस्यम् आहुः — मुखादिप्रसादादिकार्योन्नेया अन्तःकरणस्य वृत्तिः । मौनं वाङ्‌नियमोऽपि मनःसंयमपूर्वको भवति इति कार्येण कारणम् उच्यते मनःसंयमो मौनमिति । आत्मविनिग्रहः मनोनिरोधः सर्वतः सामान्यरूपः आत्मविनिग्रहः, वाग्विषयस्यैव मनसः संयमः मौनम् इति विशेषः । भावसंशुद्धिः परैः व्यवहारकाले अमायावित्वं भावसंशुद्धिः । इत्येतत् तपः मानसम् उच्यते ॥ १६ ॥
यथोक्तं कायिकं वाचिकं मानसं च तपः तप्तं नरैः सत्त्वादिगुणभेदेन कथं त्रिविधं भवतीति, उच्यते —
श्रद्धया परया तप्तं तपस्तत्त्रिविधं नरैः ।
अफलकाङ्क्षिभिर्युक्तैः सात्त्विकं परिचक्षते ॥ १७ ॥
श्रद्धया आस्तिक्यबुद्ध्या परया प्रकृष्टया तप्तम् अनुष्ठितं तपः तत् प्रकृतं त्रिविधं त्रिप्रकारं त्र्यधिष्ठानं नरैः अनुष्ठातृभिः अफलाकाङ्क्षिभिः फलाकाङ्क्षारहितैः युक्तैः समाहितैः — यत् ईदृशं तपः, तत् सात्त्विकं सत्त्वनिर्वृत्तं परिचक्षते कथयन्ति शिष्टाः ॥ १७ ॥
सत्कारमानपूजार्थं तपो दम्भेन चैव यत् ।
क्रियते तदिह प्रोक्तं राजसं चलमध्रुवम् ॥ १८ ॥
सत्कारः साधुकारः ‘साधुः अयं तपस्वी ब्राह्मणः’ इत्येवमर्थम् , मानो माननं प्रत्युत्थानाभिवादनादिः तदर्थम् , पूजा पादप्रक्षालनार्चनाशयितृत्वादिः तदर्थं च तपः सत्कारमानपूजार्थम् , दम्भेन चैव यत् क्रियते तपः तत् इह प्रोक्तं कथितं राजसं चलं कादाचित्कफलत्वेन अध्रुवम् ॥ १८ ॥
मूढग्राहेणात्मनो यत्पीडया क्रियते तपः ।
परस्योत्सादनार्थं वा तत्तामसमुदाहृतम् ॥ १९ ॥
मूढग्राहेण अविवेकनिश्चयेन आत्मनः पीडया यत् क्रियते तपः परस्य उत्सादनार्थं विनाशार्थं वा, तत् तामसं तपः उदाहृतम् ॥ १९ ॥
इदानीं दानत्रैविध्यम् उच्यते —
दातव्यमिति यद्दानं
दीयतेऽनुपकारिणे ।
देशे काले च पात्रे च
तद्दानं सात्त्विकं स्मृतम् ॥ २० ॥
दातव्यमिति एवं मनः कृत्वा यत् दानं दीयते अनुपकारिणे प्रत्युपकारासमर्थाय, समर्थायापि निरपेक्षं दीयते, देशे पुण्ये कुरुक्षेत्रादौ, काले सङ्क्रान्त्यादौ, पात्रे च षडङ्गविद्वेदपारग इत्यादौ, तत् दानं सात्त्विकं स्मृतम् ॥ २० ॥
यत्तु प्रत्युपकारार्थं
फलमुद्दिश्य वा पुनः ।
दीयते च परिक्लिष्टं
तद्दानं राजसं स्मृतम् ॥ २१ ॥
यत्तु दानं प्रत्युपकारार्थं काले तु अयं मां प्रत्युपकरिष्यति इत्येवमर्थम् , फलं वा अस्य दानस्य मे भविष्यति अदृष्टम् इति, तत् उद्दिश्य पुनः दीयते च परिक्लिष्टं खेदसंयुक्तम् , तत् दानं राजसं स्मृतम् ॥ २१ ॥
अदेशकाले यद्दानमपात्रेभ्यश्च दीयते ।
असत्कृतमवज्ञातं तत्तामसमुदाहृतम् ॥ २२ ॥
अदेशकाले अदेशे अपुण्यदेशे म्लेच्छाशुच्यादिसङ्कीर्णे अकाले पुण्यहेतुत्वेन अप्रख्याते सङ्क्रान्त्यादिविशेषरहिते अपात्रेभ्यश्च मूर्खतस्करादिभ्यः, देशादिसम्पत्तौ वा असत्कृतं प्रियवचनपादप्रक्षालनपूजादिरहितम् अवज्ञातं पात्रपरिभवयुक्तं च यत् दानम् , तत् तामसम् उदाहृतम् ॥ २२ ॥
यज्ञदानतपःप्रभृतीनां साद्गुण्यकरणाय अयम् उपदेशः उच्यते —
ओं तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः ।
ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पुरा ॥ २३ ॥
ओं तत् सत् इति एवं निर्देशः, निर्दिश्यते अनेनेति निर्देशः, त्रिविधो नामनिर्देशः ब्रह्मणः स्मृतः चिन्तितः वेदान्तेषु ब्रह्मविद्भिः । ब्राह्मणाः तेन निर्देशेन त्रिविधेन वेदाश्च यज्ञाश्च विहिताः निर्मिताः पुरा पूर्वम् इति निर्देशस्तुत्यर्थम् उच्यते ॥ २३ ॥
तस्मादोमित्युदाहृत्य यज्ञदानतपःक्रियाः ।
प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम् ॥ २४ ॥
तस्मात् ‘ओम् इति उदाहृत्य’ उच्चार्य यज्ञदानतपःक्रियाः यज्ञादिस्वरूपाः क्रियाः प्रवर्तन्ते विधानोक्ताः शास्त्रचोदिताः सततं सर्वदा ब्रह्मवादिनां ब्रह्मवदनशीलानाम् ॥ २४ ॥
तदित्यनभिसन्धाय
फलं यज्ञतपःक्रियाः ।
दानक्रियाश्च विविधाः
क्रियन्ते मोक्षकाङ्क्षिभिः ॥ २५ ॥
तत् इति अनभिसन्धाय, ‘तत्’ इति ब्रह्माभिधानम् उच्चार्य अनभिसन्धाय च यज्ञादिकर्मणः फलं यज्ञतपःक्रियाः यज्ञक्रियाश्च तपःक्रियाश्च यज्ञतपःक्रियाः दानक्रियाश्च विविधाः क्षेत्रहिरण्यप्रदानादिलक्षणाः क्रियन्ते निर्वर्त्यन्ते मोक्षकाङ्क्षिभिः मोक्षार्थिभिः मुमुक्षुभिः ॥ २५ ॥
ओन्तच्छब्दयोः विनियोगः उक्तः । अथ इदानीं सच्छब्दस्य विनियोगः कथ्यते —
सद्भावे साधुभावे च सदित्येतत्प्रयुज्यते ।
प्रशस्ते कर्मणि तथा सच्छब्दः पार्थ युज्यते ॥ २६ ॥
सद्भावे, असतः सद्भावे यथा अविद्यमानस्य पुत्रस्य जन्मनि, तथा साधुभावे च असद्वृत्तस्य असाधोः सद्वृत्तता साधुभावः तस्मिन् साधुभावे च सत् इत्येतत् अभिधानं ब्रह्मणः प्रयुज्यते अभिधीयते । प्रशस्ते कर्मणि विवाहादौ च तथा सच्छब्दः पार्थ, युज्यते प्रयुज्यते इत्येतत् ॥ २६ ॥
यज्ञे तपसि दाने च स्थितिः सदिति चोच्यते ।
कर्म चैव तदर्थीयं सदित्येवाभिधीयते ॥ २७ ॥
यज्ञे यज्ञकर्मणि या स्थितिः, तपसि च या स्थितिः, दाने च या स्थितिः, सा सत् इति च उच्यते विद्वद्भिः । कर्म च एव तदर्थीयं यज्ञदानतपोर्थीयम् ; अथवा, यस्य अभिधानत्रयं प्रकृतं तदर्थीयं यज्ञदानतपोर्थीयम् ईश्वरार्थीयम् इत्येतत् ; सत् इत्येव अभिधीयते । तत् एतत् यज्ञदानतपआदि कर्म असात्त्विकं विगुणमपि श्रद्धापूर्वकं ब्रह्मणः अभिधानत्रयप्रयोगेण सगुणं सात्त्विकं सम्पादितं भवति ॥ २७ ॥
तत्र च सर्वत्र श्रद्धाप्रधानतया सर्वं सम्पाद्यते यस्मात् , तस्मात् —
अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् ।
असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह ॥ २८ ॥
अश्रद्धया हुतं हवनं कृतम् , अश्रद्धया दत्तं ब्राह्मणेभ्यः, अश्रद्धया तपः तप्तम् अनुष्ठितम् , तथा अश्रद्धयैव कृतं यत् स्तुतिनमस्कारादि, तत् सर्वम् असत् इति उच्यते, मत्प्राप्तिसाधनमार्गबाह्यत्वात् पार्थ । न च तत् बहुलायासमपि प्रेत्य फलाय नो अपि इहार्थम् , साधुभिः निन्दितत्वात् इति ॥ २८ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ श्रीमद्भगवद्गीताभाष्ये सप्तदशोऽध्यायः ॥