श्रीमच्छङ्करभगवत्पूज्यपादविरचितम्

श्रीमद्भगवद्गीताभाष्यम्

ततो महाभारतसारभूताः स व्याकरोद्भागवतीश्च गीताः ।
 

अष्टमे नाडीद्वारेण धारणायोगः सगुणः उक्तः । तस्य च फलम् अग्न्यर्चिरादिक्रमेण कालान्तरे ब्रह्मप्राप्तिलक्षणमेव अनावृत्तिरूपं निर्दिष्टम् । तत्र ‘अनेनैव प्रकारेण मोक्षप्राप्तिफलम् अधिगम्यते, न अन्यथा’ इति तदाशङ्काव्याविवर्तयिषया श्रीभगवान् उवाच —
श्रीभगवानुवाच —
इदं तु ते गुह्यतमं
प्रवक्ष्याम्यनसूयवे ।
ज्ञानं विज्ञानसहितं
यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ॥ १ ॥
इदं ब्रह्मज्ञानं वक्ष्यमाणम् उक्तं च पूर्वेषु अध्यायेषु,
तत् बुद्धौ संनिधीकृत्य इदम् इत्याह । तु—शब्दो विशेषनिर्धारणार्थः । इदमेव तु सम्यग्ज्ञानं साक्षात् मोक्षप्राप्तिसाधनम् ‘वासुदेवः सर्वमिति’ (भ. गी. ७ । १९) ‘आत्मैवेदं सर्वम्’ (छा. उ. ७ । २५ । २) ‘एकमेवाद्वितीयम्’ (छा. उ. ६ । २ । १) इत्यादिश्रुतिस्मृतिभ्यः ; नान्यत् , ‘अथ ते येऽन्यथातो विदुः अन्यराजानः ते क्षय्यलोका भवन्ति’ (छा. उ. ७ । २५ । २) इत्यादिश्रुतिभ्यश्च । ते तुभ्यं गुह्यतमं गोप्यतमं प्रवक्ष्यामि कथयिष्यामि अनसूयवे असूयारहिताय । किं तत् ? ज्ञानम् । किंविशिष्टम् ? विज्ञानसहितम् अनुभवयुक्तम् , यत् ज्ञात्वा प्राप्य मोक्ष्यसे अशुभात् संसारबन्धनात् ॥ १ ॥
तच्च —
राजविद्या राजगुह्यं पवित्रमिदमुत्तमम् ।
प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम् ॥ २ ॥
राजविद्या विद्यानां राजा, दीप्त्यतिशयवत्त्वात् ; दीप्यते हि इयम् अतिशयेन ब्रह्मविद्या सर्वविद्यानाम् । तथा राजगुह्यं गुह्यानां राजा । पवित्रं पावनं इदम् उत्तमं सर्वेषां पावनानां शुद्धिकारणं ब्रह्मज्ञानम् उत्कृष्टतमम् । अनेकजन्मसहस्रसञ्चितमपि धर्माधर्मादि समूलं कर्म क्षणमात्रादेव भस्मीकरोति इत्यतः किं तस्य पावनत्वं वक्तव्यम् । किञ्च — प्रत्यक्षावगमं प्रत्यक्षेण सुखादेरिव अवगमो यस्य तत् प्रत्यक्षावगमम् । अनेकगुणवतोऽपि धर्मविरुद्धत्वं दृष्टम् , न तथा आत्मज्ञानं धर्मविरोधि, किन्तु धर्म्यं धर्मादनपेतम् । एवमपि, स्याद्दुःखसम्पाद्यमित्यत आह — सुसुखं कर्तुम् , यथा रत्नविवेकविज्ञानम् । तत्र अल्पायासानामन्येषां कर्मणां सुखसम्पाद्यानाम् अल्पफलत्वं दुष्कराणां च महाफलत्वं दृष्टमिति, इदं तु सुखसम्पाद्यत्वात् फलक्षयात् व्येति इति प्राप्ते, आह — अव्ययम् इति । न अस्य फलतः कर्मवत् व्ययः अस्तीति अव्ययम् । अतः श्रद्धेयम् आत्मज्ञानम् ॥ २ ॥
ये पुनः —
अश्रद्दधानाः पुरुषा धर्मस्यास्य परन्तप ।
अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि ॥ ३ ॥
अश्रद्दधानाः श्रद्धाविरहिताः आत्मज्ञानस्य धर्मस्य अस्य स्वरूपे तत्फले च नास्तिकाः पापकारिणः, असुराणाम् उपनिषदं देहमात्रात्मदर्शनमेव प्रतिपन्नाः असुतृपः पापाः पुरुषाः अश्रद्दधानाः, परन्तप, अप्राप्य मां परमेश्वरम् , मत्प्राप्तौ नैव आशङ्का इति मत्प्राप्तिमार्गभेदभक्तिमात्रमपि अप्राप्य इत्यर्थः । निवर्तन्ते निश्चयेन वर्तन्ते ; क्व ? — मृत्युसंसारवर्त्मनि मृत्युयुक्तः संसारः मृत्युसंसारः तस्य वर्त्म नरकतिर्यगादिप्राप्तिमार्गः, तस्मिन्नेव वर्तन्ते इत्यर्थः ॥ ३ ॥
स्तुत्या अर्जुनमभिमुखीकृत्य आह —
मया ततमिदं सर्वं जगतदव्यक्तमूर्तिना ।
मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः ॥ ४ ॥
मया मम यः परो भावः तेन ततं व्याप्तं सर्वम् इदं जगत् अव्यक्तमूर्तिना न व्यक्ता मूर्तिः स्वरूपं यस्य मम सोऽहमव्यक्तमूर्तिः तेन मया अव्यक्तमूर्तिना, करणागोचरस्वरूपेण इत्यर्थः । तस्मिन् मयि अव्यक्तमूर्तौ स्थितानि मत्स्थानि, सर्वभूतानि ब्रह्मादीनि स्तम्बपर्यन्तानि । न हि निरात्मकं किञ्चित् भूतं व्यवहाराय अवकल्पते । अतः मत्स्थानि मया आत्मना आत्मवत्त्वेन स्थितानि, अतः मयि स्थितानि इति उच्यन्ते । तेषां भूतानाम् अहमेव आत्मा इत्यतः तेषु स्थितः इति मूढबुद्धीनां अवभासते ; अतः ब्रवीमि — न च अहं तेषु भूतेषु अवस्थितः, मूर्तवत् संश्लेषाभावेन आकाशस्यापि अन्तरतमो हि अहम् । न हि असंसर्गि वस्तु क्वचित् आधेयभावेन अवस्थितं भवति ॥ ४ ॥
अत एव असंसर्गित्वात् मम —
न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम् ।
भूतभृन्न च भूतस्थो ममात्मा भूतभावनः ॥ ५ ॥
न च मत्स्थानि भूतानि ब्रह्मादीनि । पश्य मे योगं युक्तिं घटनं मे मम ऐश्वरम् ईश्वरस्य इमम् ऐश्वरम् , योगम् आत्मनो याथात्म्यमित्यर्थः । तथा च श्रुतिः असंसर्गित्वात् असङ्गतां दर्शयति — ‘ असङ्गो न हि सज्जते’ (बृ. उ. ३ । ९ । २६) इति । इदं च आश्चर्यम् अन्यत् पश्य — भूतभृत् असङ्गोऽपि सन् भूतानि बिभर्ति ; न च भूतस्थः, यथोक्तेन न्यायेन दर्शितत्वात् भूतस्थत्वानुपपत्तेः । कथं पुनरुच्यते ‘असौ मम आत्मा’ इति ? विभज्य देहादिसङ्घातं तस्मिन् अहङ्कारम् अध्यारोप्य लोकबुद्धिम् अनुसरन् व्यपदिशति ‘मम आत्मा’ इति, न पुनः आत्मनः आत्मा अन्यः इति लोकवत् अजानन् । तथा भूतभावनः भूतानि भावयति उत्पादयति वर्धयतीति वा भूतभावनः ॥ ५ ॥
यथोक्तेन श्लोकद्वयेन उक्तम् अर्थं दृष्टान्तेन उपपादयन् आह —
यथाकाशस्थितो नित्यं वायुः सर्वत्रगो महान् ।
तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय ॥ ६ ॥
यथा लोके आकाशस्थितः आकाशे स्थितः नित्यं सदा वायुः सर्वत्र गच्छतीति सर्वत्रगः महान् परिमाणतः, तथा आकाशवत् सर्वगते मयि असंश्लेषेणैव स्थितानि इत्येवम् उपधारय विजानीहि ॥ ६ ॥
एवं वायुः आकाशे इव मयि स्थितानि सर्वभूतानि स्थितिकाले ; तानि —
सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम् ।
कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् ॥ ७ ॥
सर्वभूतानि कौन्तेय प्रकृतिं त्रिगुणात्मिकाम् अपरां निकृष्टां यान्ति मामिकां मदीयां कल्पक्षये प्रलयकाले । पुनः भूयः तानि भूतानि उत्पत्तिकाले कल्पादौ विसृजामि उत्पादयामि अहं पूर्ववत् ॥ ७ ॥
एवम् अविद्यालक्षणाम् —
प्रकृतिं स्वामवष्टभ्य विसृजामि पुनः पुनः ।
भूतग्राममिमं कृत्स्नमवशं प्रकृतेर्वशात् ॥ ८ ॥
प्रकृतिं स्वां स्वीयाम् अवष्टभ्य वशीकृत्य विसृजामि पुनः पुनः प्रकृतितो जातं भूतग्रामं भूतसमुदायम् इमं वर्तमानं कृत्स्नं समग्रम् अवशम् अस्वतन्त्रम् , अविद्यादिदोषैः परवशीकृतम् , प्रकृतेः वशात् स्वभाववशात् ॥ ८ ॥
तर्हि तस्य ते परमेश्वरस्य, भूतग्रामम् इमं विषमं विदधतः, तन्निमित्ताभ्यां धर्माधर्माभ्यां सम्बन्धः स्यादिति, इदम् आह भगवान् —
न च मां तानि कर्माणि निबध्नन्ति धनञ्जय ।
उदासीनवदासीनमसक्तं तेषु कर्मसु ॥ ९ ॥
न च माम् ईश्वरं तानि भूतग्रामस्य विषमसर्गनिमित्तानि कर्माणि निबध्नन्ति धनञ्जय । तत्र कर्मणां असम्बन्धित्वे कारणमाह — उदासीनवत् आसीनं यथा उदासीनः उपेक्षकः कश्चित् तद्वत् आसीनम् , आत्मनः अविक्रियत्वात् , असक्तं फलासङ्गरहितम् , अभिमानवर्जितम् ‘अहं करोमि’ इति तेषु कर्मसु । अतः अन्यस्यापि कर्तृत्वाभिमानाभावः फलासङ्गाभावश्च असम्बन्धकारणम् , अन्यथा कर्मभिः बध्यते मूढः कोशकारवत् इत्यभिप्रायः ॥ ९ ॥
तत्र ‘भूतग्राममिमं विसृजामि’ (भ. गी. ९ । ८) ‘उदासीनवदासीनम्’ (भ. गी. ९ । ९) इति च विरुद्धम् उच्यते, इति तत्परिहारार्थम् आह —
मयाध्यक्षेण प्रकृतिः सूयते सचराचरम् ।
हेतुनानेन कौन्तेय जगद्विपरिवर्तते ॥ १० ॥
मया अध्यक्षेण सर्वतो दृशिमात्रस्वरूपेण अविक्रियात्मना अध्यक्षेण मया, मम माया त्रिगुणात्मिका अविद्यालक्षणा प्रकृतिः सूयते उत्पादयति सचराचरं जगत् । तथा च मन्त्रवर्णः — ‘एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा । कर्माध्यक्षः सर्वभूताधिवासः साक्षी चेता केवलो निर्गुणश्च’ (श्वे. उ. ६ । ११) इति । हेतुना निमित्तेन अनेन अध्यक्षत्वेन कौन्तेय जगत् सचराचरं व्यक्ताव्यक्तात्मकं विपरिवर्तते सर्वावस्थासु । दृशिकर्मत्वापत्तिनिमित्ता हि जगतः सर्वा प्रवृत्तिः — अहम् इदं भोक्ष्ये, पश्यामि इदम् , शृणोमि इदम् , सुखमनुभवामि, दुःखमनुभवामि, तदर्थमिदं करिष्ये, इदं ज्ञास्यामि, इत्याद्या अवगतिनिष्ठा अवगत्यवसानैव । ‘यो अस्याध्यक्षः परमे व्योमन्’ (ऋ. १० । १२९ । ७), (तै. ब्रा. २ । ८ । ९) इत्यादयश्च मन्त्राः एतमर्थं दर्शयन्ति । ततश्च एकस्य देवस्य सर्वाध्यक्षभूतचैतन्यमात्रस्य परमार्थतः सर्वभोगानभिसम्बन्धिनः अन्यस्य चेतनान्तरस्य अभावे भोक्तुः अन्यस्य अभावात् । किंनिमित्ता इयं सृष्टिः इत्यत्र प्रश्नप्रतिवचने अनुपपन्ने, ‘को अद्धा वेद क इह प्रवोचत् । कुत आजाता कुत इयं विसृष्टिः’ (ऋ. १० । १२९ । ६), (तै. ब्रा. २ । ८ । ९) इत्यादिमन्त्रवर्णेभ्यः । दर्शितं च भगवता — ‘अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः’ (भ. गी. ५ । १५) इति ॥ १० ॥
एवं मां नित्यशुद्धबुद्धमुक्तस्वभावं सर्वज्ञं सर्वजन्तूनाम् आत्मानमपि सन्तम् —
अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् ।
परं भावमजानन्तो मम भूतमहेश्वरम् ॥ ११ ॥
अवजानन्ति अवज्ञां परिभवं कुर्वन्ति मां मूढाः अविवेकिनः मानुषीं मनुष्यसम्बन्धिनीं तनुं देहम् आश्रितम् , मनुष्यदेहेन व्यवहरन्तमित्येतत् , परं प्रकृष्टं भावं परमात्मतत्त्वम् आकाशकल्पम् आकाशादपि अन्तरतमम् अजानन्तो मम भूतमहेश्वरं सर्वभूतानां महान्तम् ईश्वरं स्वात्मानम् । ततश्च तस्य मम अवज्ञानभावनेन आहताः ते वराकाः ॥ ११ ॥
कथम् ? —
मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः ।
राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः ॥ १२ ॥
मोघाशाः वृथा आशाः आशिषः येषां ते मोघाशाः, तथा मोघकर्माणः यानि च अग्निहोत्रादीनि तैः अनुष्ठीयमानानि कर्माणि तानि च, तेषां भगवत्परिभवात् , स्वात्मभूतस्य अवज्ञानात् , मोघान्येव निष्फलानि कर्माणि भवन्तीति मोघकर्माणः । तथा मोघज्ञानाः मोघं निष्फलं ज्ञानं येषां ते मोघज्ञानाः, ज्ञानमपि तेषां निष्फलमेव स्यात् । विचेतसः विगतविवेकाश्च ते भवन्ति इत्यभिप्रायः । किञ्च — ते भवन्ति राक्षसीं रक्षसां प्रकृतिं स्वभावम् आसुरीम् असुराणां च प्रकृतिं मोहिनीं मोहकरीं देहात्मवादिनीं श्रिताः आश्रिताः, छिन्द्धि, भिन्द्धि, पिब, खाद, परस्वमपहर, इत्येवं वदनशीलाः क्रूरकर्माणो भवन्ति इत्यर्थः, ‘असुर्या नाम ते लोकाः’ (ई. उ. ३) इति श्रुतेः ॥ १२ ॥
ये पुनः श्रद्दधानाः भगवद्भक्तिलक्षणे मोक्षमार्गे प्रवृत्ताः —
महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः ।
भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् ॥ १३ ॥
महात्मानस्तु अक्षुद्रचित्ताः माम् ईश्वरं पार्थ दैवीं देवानां प्रकृतिं शमदमदयाश्रद्धादिलक्षणाम् आश्रिताः सन्तः भजन्ति सेवंते अनन्यमनसः अनन्यचित्ताः ज्ञात्वा भूतादिं भूतानां वियदादीनां प्राणिनां च आदिं कारणम् अव्ययम् ॥ १३ ॥
कथम् ? —
सततं कीर्तयन्तो मां यतन्तश्च दृढव्रताः ।
नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते ॥ १४ ॥
सततं सर्वदा भगवन्तं ब्रह्मस्वरूपं मां कीर्तयन्तः, यतन्तश्च इन्द्रियोपसंहारशमदमदयाहिंसादिलक्षणैः धर्मैः प्रयतन्तश्च, दृढव्रताः दृढं स्थिरम् अचाल्यं व्रतं येषां ते दृढव्रताः नमस्यन्तश्च मां हृदयेशयम् आत्मानं भक्त्या नित्ययुक्ताः सन्तः उपासते सेवंते ॥ १४ ॥
ते केन केन प्रकारेण उपासते इत्युच्यते —
ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते ।
एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम् ॥ १५ ॥
ज्ञानयज्ञेन ज्ञानमेव भगवद्विषयं यज्ञः तेन ज्ञानयज्ञेन, यजन्तः पूजयन्तः माम् ईश्वरं च अपि अन्ये अन्याम् उपासनां परित्यज्य उपासते । तच्च ज्ञानम् — एकत्वेन ‘एकमेव परं ब्रह्म’ इति परमार्थदर्शनेन यजन्तः उपासते । केचिच्च पृथक्त्वेन ‘आदित्यचन्द्रादिभेदेन स एव भगवान् विष्णुः अवस्थितः’ इति उपासते । केचित् ‘बहुधा अवस्थितः स एव भगवान् सर्वतोमुखः विश्वरूपः’ इति तं विश्वरूपं सर्वतोमुखं बहुधा बहुप्रकारेण उपासते ॥ १५ ॥
यदि बहुभिः प्रकारैः उपासते, कथं त्वामेव उपासते इति, अत आह —
अहं क्रतुरहं यज्ञः स्वधाहमहमौषधम् ।
मन्त्रोऽहमहमेवाज्यमहमग्निरहं हुतम् ॥ १६ ॥
अहं क्रतुः श्रौतकर्मभेदः अहमेव । अहं यज्ञः स्मार्तः । किञ्च स्वधा अन्नम् अहम् , पितृभ्यो यत् दीयते । अहम् औषधं सर्वप्राणिभिः यत् अद्यते तत् औषधशब्दशब्दितं व्रीहियवादिसाधारणम् । अथवा स्वधा इति सर्वप्राणिसाधारणम् अन्नम् , औषधम् इति व्याध्युपशमनार्थं भेषजम् । मन्त्रः अहम् , येन पितृभ्यो देवताभ्यश्च हविः दीयते । अहमेव आज्यं हविश्च । अहम् अग्निः, यस्मिन् हूयते हविः सः अग्निः अहम् । अहं हुतं हवनकर्म च ॥ १६ ॥
किञ्च —
पिताहमस्य जगतो माता धाता पितामहः ।
वेद्यं पवित्रमोङ्कार ऋक्साम यजुरेव च ॥ १७ ॥
पिता जनयिता अहम् अस्य जगतः, माता जनयित्री, धाता कर्मफलस्य प्राणिभ्यो विधाता, पितामहः पितुः पिता, वेद्यं वेदितव्यम् , पवित्रं पावनम् ओङ्कारः, ऋक् साम यजुः एव च ॥ १७ ॥
किञ्च—
गतिर्भर्ता प्रभुः साक्षी निवासः शरणं सुहृत् ।
प्रभवः प्रलयः स्थानं निधानं बीजमव्ययम् ॥ १८ ॥
गतिः कर्मफलम् , भर्ता पोष्टा, प्रभुः स्वामी, साक्षी प्राणिनां कृताकृतस्य, निवासः यस्मिन् प्राणिनो निवसन्ति, शरणम् आर्तानाम् , प्रपन्नानामार्तिहरः । सुहृत् प्रत्युपकारानपेक्षः सन् उपकारी, प्रभवः उत्पत्तिः जगतः, प्रलयः प्रलीयते अस्मिन् इति, तथा स्थानं तिष्ठति अस्मिन् इति, निधानं निक्षेपः कालान्तरोपभोग्यं प्राणिनाम् , बीजं प्ररोहकारणं प्ररोहधर्मिणाम् , अव्ययं यावत्संसारभावित्वात् अव्ययम् , न हि अबीजं किञ्चित् प्ररोहति ; नित्यं च प्ररोहदर्शनात् बीजसन्ततिः न व्येति इति गम्यते ॥ १८ ॥
किञ्च —
तपाम्यहमहं वर्षं निगृह्णाम्युत्सृजामि च ।
अमृतं चैव मृत्युश्च सदसच्चाहमर्जुन ॥ १९ ॥
तपामि अहम् आदित्यो भूत्वा कैश्चित् रश्मिभिः उल्बणैः । अहं वर्षं कैश्चित् रश्मिभिः उत्सृजामि । उत्सृज्य पुनः निगृह्णामि कैश्चित् रश्मिभिः अष्टभिः मासैः पुनः उत्सृजामि प्रावृषि । अमृतं चैव देवानाम् , मृत्युश्च मर्त्यानाम् । सत् यस्य यत् सम्बन्धितया विद्यमानं तत् , तद्विपरीतम् असच्च एव अहम् अर्जुन । न पुनः अत्यन्तमेव असत् भगवान् , स्वयं कार्यकारणे वा सदसती ये पूर्वोक्तैः निवृत्तिप्रकारैः एकत्वपृथक्त्वादिविज्ञानैः यज्ञैः मां पूजयन्तः उपासते ज्ञानविदः, ते यथाविज्ञानं मामेव प्राप्नुवन्ति ॥ १९ ॥
ये पुनः अज्ञाः कामकामाः —
त्रैविद्या मां सोमपाः पूतपापा यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते ।
ते पुण्यमासाद्य सुरेन्द्रलोकमश्नन्ति दिव्यान्दिवि देवभोगान् ॥ २० ॥
त्रैविद्याः ऋग्यजुःसामविदः मां वस्वादिदेवरूपिणं सोमपाः सोमं पिबन्तीति सोमपाः, तेनैव सोमपानेन पूतपापाः शुद्धकिल्बिषाः, यज्ञैः अग्निष्टोमादिभिः इष्ट्वा पूजयित्वा स्वर्गतिं स्वर्गगमनं स्वरेव गतिः स्वर्गतिः ताम् , प्रार्थयन्ते । ते च पुण्यं पुण्यफलम् आसाद्य सम्प्राप्य सुरेन्द्रलोकं शतक्रतोः स्थानम् अश्नन्ति भुञ्जते दिव्यान् दिवि भवान् अप्राकृतान् देवभोगान् देवानां भोगान् ॥ २० ॥
ते तं भुक्त्वा स्वर्गलोकं विशालं
क्षीणे पुण्ये मर्त्यलोकं विशन्ति ।
एवं त्रयीधर्ममनुप्रपन्ना
गतागतं कामकामा लभन्ते ॥ २१ ॥
ते तं भुक्त्वा स्वर्गलोकं विशालं विस्तीर्णं क्षीणे पुण्ये मर्त्यलोकं विशन्ति आविशन्ति । एवं यथोक्तेन प्रकारेण त्रयीधर्मं केवलं वैदिकं कर्म अनुप्रपन्नाः गतागतं गतं च आगतं च गतागतं गमनागमनं कामकामाः कामान् कामयन्ते इति कामकामाः लभन्ते गतागतमेव, न तु स्वातन्त्र्यं क्वचित् लभन्ते इत्यर्थः ॥ २१ ॥
ये पुनः निष्कामाः सम्यग्दर्शिनः —
अनन्याश्चिन्तयन्तो मां
ये जनाः पर्युपासते ।
तेषां नित्याभियुक्तानां
योगक्षेमं वहाम्यहम् ॥ २२ ॥
अनन्याः अपृथग्भूताः परं देवं नारायणम् आत्मत्वेन गताः सन्तः चिन्तयन्तः मां ये जनाः संन्यासिनः पर्युपासते, तेषां परमार्थदर्शिनां नित्याभियुक्तानां सतताभियोगिनां योगक्षेमं योगः अप्राप्तस्य प्रापणं क्षेमः तद्रक्षणं तदुभयं वहामि प्रापयामि अहम् ; ‘ज्ञानी त्वात्मैव मे मतम्’ (भ. गी. ७ । १८) ‘स च मम प्रियः’ (भ. गी. ७ । १७) यस्मात् , तस्मात् ते मम आत्मभूताः प्रियाश्च इति ॥
ननु अन्येषामपि भक्तानां योगक्षेमं वहत्येव भगवान् । सत्यं वहत्येव ; किन्तु अयं विशेषः — अन्ये ये भक्ताः ते आत्मार्थं स्वयमपि योगक्षेमम् ईहन्ते ; अनन्यदर्शिनस्तु न आत्मार्थं योगक्षेमम् ईहन्ते ; न हि ते जीविते मरणे वा आत्मनः गृद्धिं कुर्वन्ति ; केवलमेव भगवच्छरणाः ते ; अतः भगवानेव तेषां योगक्षेमं वहतीति ॥ २२ ॥
ननु अन्या अपि देवताः त्वमेव चेत् , तद्भक्ताश्च त्वामेव यजन्ते । सत्यमेवम् —
येऽप्यन्यदेवताभक्ता
यजन्ते श्रद्धयान्विताः ।
तेऽपि मामेव कौन्तेय
यजन्त्यविधिपूर्वकम् ॥ २३ ॥
येऽपि अन्यदेवताभक्ताः अन्यासु देवतासु भक्ताः अन्यदेवताभक्ताः सन्तः यजन्ते पूजयन्ति श्रद्धया आस्तिक्यबुद्ध्या अन्विताः अनुगताः, तेऽपि मामेव कौन्तेय यजन्ति अविधिपूर्वकम् अविधिः अज्ञानं तत्पूर्वकं यजन्ते इत्यर्थः ॥ २३ ॥
कस्मात् ते अविधिपूर्वकं यजन्ते इत्युच्यते ; यस्मात् —
अहं हि सर्वयज्ञानां
भोक्ता च प्रभुरेव च ।
न तु मामभिजानन्ति
तत्त्वेनातश्च्यवन्ति ते ॥ २४ ॥
अहं हि सर्वयज्ञानां श्रौतानां स्मार्तानां च सर्वेषां यज्ञानां देवतात्मत्वेन भोक्ता च प्रभुः एव च । मत्स्वामिको हि यज्ञः, ‘अधियज्ञोऽहमेवात्र’ (भ. गी. ८ । ४) इति हि उक्तम् । तथा न तु माम् अभिजानन्ति तत्त्वेन यथावत् । अतश्च अविधिपूर्वकम् इष्ट्वा यागफलात् च्यवन्ति प्रच्यवन्ते ते ॥ २४ ॥
येऽपि अन्यदेवताभक्तिमत्त्वेन अविधिपूर्वकं यजन्ते, तेषामपि यागफलं अवश्यंभावि । कथम् ? —
यान्ति देवव्रता देवान्पितॄन्यान्ति पितृव्रताः ।
भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि माम् ॥ २५ ॥
यान्ति गच्छन्ति देवव्रताः देवेषु व्रतं नियमो भक्तिश्च येषां ते देवव्रताः देवान् यान्ति । पितॄन् अग्निष्वात्तादीन् यान्ति पितृव्रताः श्राद्धादिक्रियापराः पितृभक्ताः । भूतानि विनायकमातृगणचतुर्भगिन्यादीनि यान्ति भूतेज्याः भूतानां पूजकाः । यान्ति मद्याजिनः मद्यजनशीलाः वैष्णवाः मामेव यान्ति । समाने अपि आयासे मामेव न भजन्ते अज्ञानात् , तेन ते अल्पफलभाजः भवन्ति इत्यर्थः ॥ २५ ॥
न केवलं मद्भक्तानाम् अनावृत्तिलक्षणम् अनन्तफलम् , सुखाराधनश्च अहम् । कथम् ? —
पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति ।
तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः ॥ २६ ॥
पत्रं पुष्पं फलं तोयम् उदकं यः मे मह्यं भक्त्या प्रयच्छति, तत् अहं पत्रादि भक्त्या उपहृतं भक्तिपूर्वकं प्रापितं भक्त्युपहृतम् अश्नामि गृह्णामि प्रयतात्मनः शुद्धबुद्धेः ॥ २६ ॥
यतः एवम् , अतः —
यत्करोषि यदश्नासि
यज्जुहोषि ददासि यत् ।
यत्तपस्यसि कौन्तेय
तत्कुरुष्व मदर्पणम् ॥ २७ ॥
यत् करोषि स्वतः प्राप्तम् , यत् अश्नासि, यच्च जुहोषि हवनं निर्वर्तयसि श्रौतं स्मार्तं वा, यत् ददासि प्रयच्छसि ब्राह्मणादिभ्यः हिरण्यान्नाज्यादि, यत् तपस्यसि तपः चरसि कौन्तेय, तत् कुरुष्व मदर्पणं मत्समर्पणम् ॥ २७ ॥
एवं कुर्वतः तव यत् भवति, तत् शृणु —
शुभाशुभफलैरेवं
मोक्ष्यसे कर्मबन्धनैः ।
संन्यासयोगयुक्तात्मा
विमुक्तो मामुपैष्यसि ॥ २८ ॥
शुभाशुभफलैः शुभाशुभे इष्टानिष्टे फले येषां तानि शुभाशुभफलानि कर्माणि तैः शुभाशुभफलैः कर्मबन्धनैः कर्माण्येव बन्धनानि कर्मबन्धनानि तैः कर्मबन्धनैः एवं मदर्पणं कुर्वन् मोक्ष्यसे । सोऽयं संन्यासयोगो नाम, संन्यासश्च असौ मत्समर्पणतया कर्मत्वात् योगश्च असौ इति, तेन संन्यासयोगेन युक्तः आत्मा अन्तःकरणं यस्य तव सः त्वं संन्यासयोगयुक्तात्मा सन् विमुक्तः कर्मबन्धनैः जीवन्नेव पतिते चास्मिन् शरीरे माम् उपैष्यसि आगमिष्यसि ॥ २८ ॥
रागद्वेषवान् तर्हि भगवान् , यतो भक्तान् अनुगृह्णाति, न इतरान् इति । तत् न —
समोऽहं सर्वभूतेषु
न मे द्वेष्योऽस्ति न प्रियः ।
ये भजन्ति तु मां भक्त्या
मयि ते तेषु चाप्यहम् ॥ २९ ॥
समः तुल्यः अहं सर्वभूतेषु । न मे द्वेष्यः अस्ति न प्रियः । अग्निवत् अहम् — दूरस्थानां यथा अग्निः शीतं न अपनयति, समीपम् उपसर्पतां अपनयति ; तथा अहं भक्तान् अनुगृह्णामि, न इतरान् । ये भजन्ति तु माम् ईश्वरं भक्त्या मयि ते — स्वभावत एव, न मम रागनिमित्तम् — वर्तन्ते । तेषु च अपि अहं स्वभावत एव वर्ते, न इतरेषु । न एतावता तेषु द्वेषो मम ॥ २९ ॥
शृणु मद्भक्तेर्माहात्म्यम् —
अपि चेत्सुदुराचारो
भजते मामनन्यभाक् ।
साधुरेव स मन्तव्यः
सम्यग्व्यवसितो हि सः ॥ ३० ॥
अपि चेत् यद्यपि सुदुराचारः सुष्ठु दुराचारः अतीव कुत्सिताचारोऽपि भजते माम् अनन्यभाक् अनन्यभक्तिः सन् , साधुरेव सम्यग्वृत्त एव सः मन्तव्यः ज्ञातव्यः ; सम्यक् यथावत् व्यवसितो हि सः, यस्मात् साधुनिश्चयः सः ॥ ३० ॥
उत्सृज्य च बाह्यां दुराचारतां अन्तः सम्यग्व्यवसायसामर्थ्यात् —
क्षिप्रं भवति धर्मात्मा
शश्वच्छान्तिं निगच्छति ।
कौन्तेय प्रतिजानीहि
न मे भक्तः प्रणश्यति ॥ ३१ ॥
क्षिप्रं शीघ्रं भवति धर्मात्मा धर्मचित्तः एव । शश्वत् नित्यं शान्तिं च उपशमं निगच्छति प्राप्नोति । शृणु परमार्थम् , कौन्तेय प्रतिजानीहि निश्चितां प्रतिज्ञां कुरु, न मे मम भक्तः मयि समर्पितान्तरात्मा मद्भक्तः न प्रणश्यति इति ॥ ३१ ॥
किञ्च —
मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः ।
स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम् ॥ ३२ ॥
मां हि यस्मात् पार्थ व्यपाश्रित्य माम् आश्रयत्वेन गृहीत्वा येऽपि स्युः भवेयुः पापयोनयः पापा योनिः येषां ते पापयोनयः पापजन्मानः । के ते इति, आह — स्त्रियः वैश्याः तथा शूद्राः तेऽपि यान्ति गच्छन्ति परां प्रकृष्टां गतिम् ॥ ३२ ॥
किं पुनर्ब्राह्मणाः पुण्या भक्ता राजर्षयस्तथा ।
अनित्यमसुखं लोकमिमं प्राप्य भजस्व माम् ॥ ३३ ॥
किं पुनः ब्राह्मणाः पुण्याः पुण्ययोनयः भक्ताः राजर्षयः तथा । राजानश्च ते ऋषयश्च राजर्षयः । यतः एवम् , अतः अनित्यं क्षणभङ्गुरम् असुखं च सुखवर्जितम् इमं लोकं मनुष्यलोकं प्राप्य पुरुषार्थसाधनं दुर्लभं मनुष्यत्वं लब्ध्वा भजस्व सेवस्व माम् ॥ ३३ ॥
कथम् —
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ।
मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः ॥ ३४ ॥
मयि वासुदेवे मनः यस्य तव स त्वं मन्मनाः भव । तथा मद्भक्तः भव मद्याजी मद्यजनशीलः भव । माम् एव च नमस्कुरु । माम् एव ईश्वरम् एष्यसि आगमिष्यसि युक्त्वा समाधाय चित्तम् । एवम् आत्मानम् , अहं हि सर्वेषां भूतानाम् आत्मा, परा च गतिः, परम् अयनम् , तं माम् एवंभूतम् , एष्यसि इति अतीतेन सम्बन्धः, मत्परायणः सन् इत्यर्थः ॥ ३४ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ श्रीमद्भगवद्गीताभाष्ये नवमोऽध्यायः ॥