श्रीमच्छङ्करभगवत्पूज्यपादविरचितम्

श्रीमद्भगवद्गीताभाष्यम्

ततो महाभारतसारभूताः स व्याकरोद्भागवतीश्च गीताः ।
 

अष्टमे नाडीद्वारेण धारणायोगः सगुणः उक्तः । तस्य फलम् अग्न्यर्चिरादिक्रमेण कालान्तरे ब्रह्मप्राप्तिलक्षणमेव अनावृत्तिरूपं निर्दिष्टम् । तत्रअनेनैव प्रकारेण मोक्षप्राप्तिफलम् अधिगम्यते, अन्यथाइति तदाशङ्काव्याविवर्तयिषया श्रीभगवान् उवाच
श्रीभगवानुवाच —
इदं तु ते गुह्यतमं
प्रवक्ष्याम्यनसूयवे ।
ज्ञानं विज्ञानसहितं
यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ॥ १ ॥
इदं ब्रह्मज्ञानं वक्ष्यमाणम् उक्तं पूर्वेषु अध्यायेषु,
तत् बुद्धौ संनिधीकृत्य इदम् इत्याह । तु—शब्दो विशेषनिर्धारणार्थः । इदमेव तु सम्यग्ज्ञानं साक्षात् मोक्षप्राप्तिसाधनम् वासुदेवः सर्वमिति’ (भ. गी. ७ । १९) आत्मैवेदं सर्वम्’ (छा. उ. ७ । २५ । २) एकमेवाद्वितीयम्’ (छा. उ. ६ । २ । १) इत्यादिश्रुतिस्मृतिभ्यः ; नान्यत् , अथ ते येऽन्यथातो विदुः अन्यराजानः ते क्षय्यलोका भवन्ति’ (छा. उ. ७ । २५ । २) इत्यादिश्रुतिभ्यश्च । ते तुभ्यं गुह्यतमं गोप्यतमं प्रवक्ष्यामि कथयिष्यामि अनसूयवे असूयारहिताय । किं तत् ? ज्ञानम् । किंविशिष्टम् ? विज्ञानसहितम् अनुभवयुक्तम् , यत् ज्ञात्वा प्राप्य मोक्ष्यसे अशुभात् संसारबन्धनात् ॥ १ ॥
तच्च
राजविद्या राजगुह्यं पवित्रमिदमुत्तमम् ।
प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम् ॥ २ ॥
राजविद्या विद्यानां राजा, दीप्त्यतिशयवत्त्वात् ; दीप्यते हि इयम् अतिशयेन ब्रह्मविद्या सर्वविद्यानाम् । तथा राजगुह्यं गुह्यानां राजा । पवित्रं पावनं इदम् उत्तमं सर्वेषां पावनानां शुद्धिकारणं ब्रह्मज्ञानम् उत्कृष्टतमम् । अनेकजन्मसहस्रसञ्चितमपि धर्माधर्मादि समूलं कर्म क्षणमात्रादेव भस्मीकरोति इत्यतः किं तस्य पावनत्वं वक्तव्यम् । किञ्चप्रत्यक्षावगमं प्रत्यक्षेण सुखादेरिव अवगमो यस्य तत् प्रत्यक्षावगमम् । अनेकगुणवतोऽपि धर्मविरुद्धत्वं दृष्टम् , तथा आत्मज्ञानं धर्मविरोधि, किन्तु धर्म्यं धर्मादनपेतम् । एवमपि, स्याद्दुःखसम्पाद्यमित्यत आहसुसुखं कर्तुम् , यथा रत्नविवेकविज्ञानम् । तत्र अल्पायासानामन्येषां कर्मणां सुखसम्पाद्यानाम् अल्पफलत्वं दुष्कराणां महाफलत्वं दृष्टमिति, इदं तु सुखसम्पाद्यत्वात् फलक्षयात् व्येति इति प्राप्ते, आहअव्ययम् इति । अस्य फलतः कर्मवत् व्ययः अस्तीति अव्ययम् । अतः श्रद्धेयम् आत्मज्ञानम् ॥ २ ॥
ये पुनः
अश्रद्दधानाः पुरुषा धर्मस्यास्य परन्तप ।
अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि ॥ ३ ॥
अश्रद्दधानाः श्रद्धाविरहिताः आत्मज्ञानस्य धर्मस्य अस्य स्वरूपे तत्फले नास्तिकाः पापकारिणः, असुराणाम् उपनिषदं देहमात्रात्मदर्शनमेव प्रतिपन्नाः असुतृपः पापाः पुरुषाः अश्रद्दधानाः, परन्तप, अप्राप्य मां परमेश्वरम् , मत्प्राप्तौ नैव आशङ्का इति मत्प्राप्तिमार्गभेदभक्तिमात्रमपि अप्राप्य इत्यर्थः । निवर्तन्ते निश्चयेन वर्तन्ते ; क्व ? — मृत्युसंसारवर्त्मनि मृत्युयुक्तः संसारः मृत्युसंसारः तस्य वर्त्म नरकतिर्यगादिप्राप्तिमार्गः, तस्मिन्नेव वर्तन्ते इत्यर्थः ॥ ३ ॥
स्तुत्या अर्जुनमभिमुखीकृत्य आह
मया ततमिदं सर्वं जगतदव्यक्तमूर्तिना ।
मत्स्थानि सर्वभूतानि चाहं तेष्ववस्थितः ॥ ४ ॥
मया मम यः परो भावः तेन ततं व्याप्तं सर्वम् इदं जगत् अव्यक्तमूर्तिना व्यक्ता मूर्तिः स्वरूपं यस्य मम सोऽहमव्यक्तमूर्तिः तेन मया अव्यक्तमूर्तिना, करणागोचरस्वरूपेण इत्यर्थः । तस्मिन् मयि अव्यक्तमूर्तौ स्थितानि मत्स्थानि, सर्वभूतानि ब्रह्मादीनि स्तम्बपर्यन्तानि । हि निरात्मकं किञ्चित् भूतं व्यवहाराय अवकल्पते । अतः मत्स्थानि मया आत्मना आत्मवत्त्वेन स्थितानि, अतः मयि स्थितानि इति उच्यन्ते । तेषां भूतानाम् अहमेव आत्मा इत्यतः तेषु स्थितः इति मूढबुद्धीनां अवभासते ; अतः ब्रवीमि अहं तेषु भूतेषु अवस्थितः, मूर्तवत् संश्लेषाभावेन आकाशस्यापि अन्तरतमो हि अहम् । हि असंसर्गि वस्तु क्वचित् आधेयभावेन अवस्थितं भवति ॥ ४ ॥
अत एव असंसर्गित्वात् मम
मत्स्थानि भूतानि पश्य मे योगमैश्वरम् ।
भूतभृन्न भूतस्थो ममात्मा भूतभावनः ॥ ५ ॥
मत्स्थानि भूतानि ब्रह्मादीनि । पश्य मे योगं युक्तिं घटनं मे मम ऐश्वरम् ईश्वरस्य इमम् ऐश्वरम् , योगम् आत्मनो याथात्म्यमित्यर्थः । तथा श्रुतिः असंसर्गित्वात् असङ्गतां दर्शयतिअसङ्गो हि सज्जते’ (बृ. उ. ३ । ९ । २६) इति । इदं आश्चर्यम् अन्यत् पश्यभूतभृत् असङ्गोऽपि सन् भूतानि बिभर्ति ; भूतस्थः, यथोक्तेन न्यायेन दर्शितत्वात् भूतस्थत्वानुपपत्तेः । कथं पुनरुच्यतेअसौ मम आत्माइति ? विभज्य देहादिसङ्घातं तस्मिन् अहङ्कारम् अध्यारोप्य लोकबुद्धिम् अनुसरन् व्यपदिशतिमम आत्माइति, पुनः आत्मनः आत्मा अन्यः इति लोकवत् अजानन् । तथा भूतभावनः भूतानि भावयति उत्पादयति वर्धयतीति वा भूतभावनः ॥ ५ ॥
यथोक्तेन श्लोकद्वयेन उक्तम् अर्थं दृष्टान्तेन उपपादयन् आह
यथाकाशस्थितो नित्यं वायुः सर्वत्रगो महान् ।
तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय ॥ ६ ॥
यथा लोके आकाशस्थितः आकाशे स्थितः नित्यं सदा वायुः सर्वत्र गच्छतीति सर्वत्रगः महान् परिमाणतः, तथा आकाशवत् सर्वगते मयि असंश्लेषेणैव स्थितानि इत्येवम् उपधारय विजानीहि ॥ ६ ॥
एवं वायुः आकाशे इव मयि स्थितानि सर्वभूतानि स्थितिकाले ; तानि
सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम् ।
कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् ॥ ७ ॥
सर्वभूतानि कौन्तेय प्रकृतिं त्रिगुणात्मिकाम् अपरां निकृष्टां यान्ति मामिकां मदीयां कल्पक्षये प्रलयकाले । पुनः भूयः तानि भूतानि उत्पत्तिकाले कल्पादौ विसृजामि उत्पादयामि अहं पूर्ववत् ॥ ७ ॥
एवम् अविद्यालक्षणाम्
प्रकृतिं स्वामवष्टभ्य विसृजामि पुनः पुनः ।
भूतग्राममिमं कृत्स्नमवशं प्रकृतेर्वशात् ॥ ८ ॥
प्रकृतिं स्वां स्वीयाम् अवष्टभ्य वशीकृत्य विसृजामि पुनः पुनः प्रकृतितो जातं भूतग्रामं भूतसमुदायम् इमं वर्तमानं कृत्स्नं समग्रम् अवशम् अस्वतन्त्रम् , अविद्यादिदोषैः परवशीकृतम् , प्रकृतेः वशात् स्वभाववशात् ॥ ८ ॥
तर्हि तस्य ते परमेश्वरस्य, भूतग्रामम् इमं विषमं विदधतः, तन्निमित्ताभ्यां धर्माधर्माभ्यां सम्बन्धः स्यादिति, इदम् आह भगवान्
मां तानि कर्माणि निबध्नन्ति धनञ्जय ।
उदासीनवदासीनमसक्तं तेषु कर्मसु ॥ ९ ॥
माम् ईश्वरं तानि भूतग्रामस्य विषमसर्गनिमित्तानि कर्माणि निबध्नन्ति धनञ्जय । तत्र कर्मणां असम्बन्धित्वे कारणमाहउदासीनवत् आसीनं यथा उदासीनः उपेक्षकः कश्चित् तद्वत् आसीनम् , आत्मनः अविक्रियत्वात् , असक्तं फलासङ्गरहितम् , अभिमानवर्जितम्अहं करोमिइति तेषु कर्मसु । अतः अन्यस्यापि कर्तृत्वाभिमानाभावः फलासङ्गाभावश्च असम्बन्धकारणम् , अन्यथा कर्मभिः बध्यते मूढः कोशकारवत् इत्यभिप्रायः ॥ ९ ॥
तत्र भूतग्राममिमं विसृजामि’ (भ. गी. ९ । ८) उदासीनवदासीनम्’ (भ. गी. ९ । ९) इति विरुद्धम् उच्यते, इति तत्परिहारार्थम् आह
मयाध्यक्षेण प्रकृतिः सूयते सचराचरम् ।
हेतुनानेन कौन्तेय जगद्विपरिवर्तते ॥ १० ॥
मया अध्यक्षेण सर्वतो दृशिमात्रस्वरूपेण अविक्रियात्मना अध्यक्षेण मया, मम माया त्रिगुणात्मिका अविद्यालक्षणा प्रकृतिः सूयते उत्पादयति सचराचरं जगत् । तथा मन्त्रवर्णःएको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा । कर्माध्यक्षः सर्वभूताधिवासः साक्षी चेता केवलो निर्गुणश्च’ (श्वे. उ. ६ । ११) इति । हेतुना निमित्तेन अनेन अध्यक्षत्वेन कौन्तेय जगत् सचराचरं व्यक्ताव्यक्तात्मकं विपरिवर्तते सर्वावस्थासु । दृशिकर्मत्वापत्तिनिमित्ता हि जगतः सर्वा प्रवृत्तिःअहम् इदं भोक्ष्ये, पश्यामि इदम् , शृणोमि इदम् , सुखमनुभवामि, दुःखमनुभवामि, तदर्थमिदं करिष्ये, इदं ज्ञास्यामि, इत्याद्या अवगतिनिष्ठा अवगत्यवसानै । यो अस्याध्यक्षः परमे व्योमन्’ (ऋ. १० । १२९ । ७), (तै. ब्रा. २ । ८ । ९) इत्यादयश्च मन्त्राः एतमर्थं दर्शयन्ति । ततश्च एकस्य देवस्य सर्वाध्यक्षभूतचैतन्यमात्रस्य परमार्थतः सर्वभोगानभिसम्बन्धिनः अन्यस्य चेतनान्तरस्य अभावे भोक्तुः अन्यस्य अभावात् । किंनिमित्ता इयं सृष्टिः इत्यत्र प्रश्नप्रतिवचने अनुपपन्ने, को अद्धा वेद इह प्रवोचत् । कुत आजाता कुत इयं विसृष्टिः’ (ऋ. १० । १२९ । ६), (तै. ब्रा. २ । ८ । ९) इत्यादिमन्त्रवर्णेभ्यः । दर्शितं भगवताअज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः’ (भ. गी. ५ । १५) इति ॥ १० ॥
एवं मां नित्यशुद्धबुद्धमुक्तस्वभावं सर्वज्ञं सर्वजन्तूनाम् आत्मानमपि सन्तम्
अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् ।
परं भावमजानन्तो मम भूतमहेश्वरम् ॥ ११ ॥
अवजानन्ति अवज्ञां परिभवं कुर्वन्ति मां मूढाः अविवेकिनः मानुषीं मनुष्यसम्बन्धिनीं तनुं देहम् आश्रितम् , मनुष्यदेहेन व्यवहरन्तमित्येतत् , परं प्रकृष्टं भावं परमात्मतत्त्वम् आकाशकल्पम् आकाशादपि अन्तरतमम् अजानन्तो मम भूतमहेश्वरं सर्वभूतानां महान्तम् ईश्वरं स्वात्मानम् । ततश्च तस्य मम अवज्ञानभावनेन आहताः ते वराकाः ॥ ११ ॥
कथम् ? —
मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः ।
राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः ॥ १२ ॥
मोघाशाः वृथा आशाः आशिषः येषां ते मोघाशाः, तथा मोघकर्माणः यानि अग्निहोत्रादीनि तैः अनुष्ठीयमानानि कर्माणि तानि , तेषां भगवत्परिभवात् , स्वात्मभूतस्य अवज्ञानात् , मोघान्येव निष्फलानि कर्माणि भवन्तीति मोघकर्माणः । तथा मोघज्ञानाः मोघं निष्फलं ज्ञानं येषां ते मोघज्ञानाः, ज्ञानमपि तेषां निष्फलमेव स्यात् । विचेतसः विगतविवेकाश्च ते भवन्ति इत्यभिप्रायः । किञ्चते भवन्ति राक्षसीं रक्षसां प्रकृतिं स्वभावम् आसुरीम् असुराणां प्रकृतिं मोहिनीं मोहकरीं देहात्मवादिनीं श्रिताः आश्रिताः, छिन्द्धि, भिन्द्धि, पिब, खाद, परस्वमपहर, इत्येवं वदनशीलाः क्रूरकर्माणो भवन्ति इत्यर्थः, असुर्या नाम ते लोकाः’ (ई. उ. ३) इति श्रुतेः ॥ १२ ॥
ये पुनः श्रद्दधानाः भगवद्भक्तिलक्षणे मोक्षमार्गे प्रवृत्ताः
महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः ।
भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् ॥ १३ ॥
महात्मानस्तु अक्षुद्रचित्ताः माम् ईश्वरं पार्थ दैवीं देवानां प्रकृतिं शमदमदयाश्रद्धादिलक्षणाम् आश्रिताः सन्तः भजन्ति सेवंते अनन्यमनसः अनन्यचित्ताः ज्ञात्वा भूतादिं भूतानां वियदादीनां प्राणिनां आदिं कारणम् अव्ययम् ॥ १३ ॥
कथम् ? —
सततं कीर्तयन्तो मां यतन्तश्च दृढव्रताः ।
नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते ॥ १४ ॥
सततं सर्वदा भगवन्तं ब्रह्मस्वरूपं मां कीर्तयन्तः, यतन्तश्च इन्द्रियोपसंहारशमदमदयाहिंसादिलक्षणैः धर्मैः प्रयतन्तश्च, दृढव्रताः दृढं स्थिरम् अचाल्यं व्रतं येषां ते दृढव्रताः नमस्यन्तश्च मां हृदयेशयम् आत्मानं भक्त्या नित्ययुक्ताः सन्तः उपासते सेवंते ॥ १४ ॥
ते केन केन प्रकारेण उपासते त्युच्यते
ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते ।
एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम् ॥ १५ ॥
ज्ञानयज्ञेन ज्ञानमेव भगवद्विषयं यज्ञः तेन ज्ञानयज्ञेन, यजन्तः पूजयन्तः माम् ईश्वरं अपि अन्ये अन्याम् उपासनां परित्यज्य उपासते । तच्च ज्ञानम्एकत्वेनएकमेव परं ब्रह्मइति परमार्थदर्शनेन यजन्तः उपासते । केचिच्च पृथक्त्वेनआदित्यचन्द्रादिभेदेन एव भगवान् विष्णुः अवस्थितःइति उपासते । केचित्बहुधा अवस्थितः एव भगवान् सर्वतोमुखः विश्वरूपःइति तं विश्वरूपं सर्वतोमुखं बहुधा बहुप्रकारेण उपासते ॥ १५ ॥
यदि बहुभिः प्रकारैः उपासते, कथं त्वामेव उपासते इति, अत आह
अहं क्रतुरहं यज्ञः स्वधाहमहमौषधम् ।
मन्त्रोऽहमहमेवाज्यमहमग्निरहं हुतम् ॥ १६ ॥
अहं क्रतुः श्रौतकर्मभेदः अहमेव । अहं यज्ञः स्मार्तः । किञ्च स्वधा अन्नम् अहम् , पितृभ्यो यत् दीयते । अहम् औषधं सर्वप्राणिभिः यत् अद्यते तत् औषधशब्दशब्दितं व्रीहियवादिसाधारणम् । अथवा स्वधा इति सर्वप्राणिसाधारणम् अन्नम् , औषधम् इति व्याध्युपशमनार्थं भेषजम् । मन्त्रः अहम् , येन पितृभ्यो देवताभ्यश्च हविः दीयते । अहमेव आज्यं हविश्च । अहम् अग्निः, यस्मिन् हूयते हविः सः अग्निः अहम् । अहं हुतं हवनकर्म ॥ १६ ॥
किञ्च
पिताहमस्य जगतो माता धाता पितामहः ।
वेद्यं पवित्रमोङ्कार ऋक्साम यजुरेव ॥ १७ ॥
पिता जनयिता अहम् अस्य जगतः, माता जनयित्री, धाता कर्मफलस्य प्राणिभ्यो विधाता, पितामहः पितुः पिता, वेद्यं वेदितव्यम् , पवित्रं पावनम् ओङ्कारः, ऋक् साम यजुः एव ॥ १७ ॥
किञ्च
गतिर्भर्ता प्रभुः साक्षी निवासः शरणं सुहृत् ।
प्रभवः प्रलयः स्थानं निधानं बीजमव्ययम् ॥ १८ ॥
गतिः कर्मफलम् , भर्ता पोष्टा, प्रभुः स्वामी, साक्षी प्राणिनां कृताकृतस्य, निवासः यस्मिन् प्राणिनो निवसन्ति, शरणम् आर्तानाम् , प्रपन्नानामार्तिहरः । सुहृत् प्रत्युपकारानपेक्षः सन् उपकारी, प्रभवः उत्पत्तिः जगतः, प्रलयः प्रलीयते अस्मिन् इति, तथा स्थानं तिष्ठति अस्मिन् इति, निधानं निक्षेपः कालान्तरोपभोग्यं प्राणिनाम् , बीजं प्ररोहकारणं प्ररोहधर्मिणाम् , अव्ययं यावत्संसारभावित्वात् अव्ययम् , हि अबीजं किञ्चित् प्ररोहति ; नित्यं प्ररोहदर्शनात् बीजसन्ततिः व्येति इति गम्यते ॥ १८ ॥
किञ्च
तपाम्यहमहं वर्षं निगृह्णाम्युत्सृजामि  ।
अमृतं चैव मृत्युश्च सदसच्चाहमर्जुन ॥ १९ ॥
तपामि अहम् आदित्यो भूत्वा कैश्चित् रश्मिभिः उल्बणैः । अहं वर्षं कैश्चित् रश्मिभिः उत्सृजामि । उत्सृज्य पुनः निगृह्णामि कैश्चित् रश्मिभिः अष्टभिः मासैः पुनः उत्सृजामि प्रावृषि । अमृतं चैव देवानाम् , मृत्युश्च मर्त्यानाम् । सत् यस्य यत् सम्बन्धितया विद्यमानं तत् , तद्विपरीतम् असच्च एव अहम् अर्जुन । पुनः अत्यन्तमेव असत् भगवान् , स्वयं कार्यकारणे वा सदसती ये पूर्वोक्तैः निवृत्तिप्रकारैः एकत्वपृथक्त्वादिविज्ञानैः यज्ञैः मां पूजयन्तः उपासते ज्ञानविदः, ते यथाविज्ञानं मामेव प्राप्नुवन्ति ॥ १९ ॥
ये पुनः अज्ञाः कामकामाः
त्रैविद्या मां सोमपाः पूतपापा यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते ।
ते पुण्यमासाद्य सुरेन्द्रलोकमश्नन्ति दिव्यान्दिवि देवभोगान् ॥ २० ॥
त्रैविद्याः ऋग्यजुःसामविदः मां वस्वादिदेवरूपिणं सोमपाः सोमं पिबन्तीति सोमपाः, तेनैव सोमपानेन पूतपापाः शुद्धकिल्बिषाः, यज्ञैः अग्निष्टोमादिभिः इष्ट्वा पूजयित्वा स्वर्गतिं स्वर्गगमनं स्वरेव गतिः स्वर्गतिः ताम् , प्रार्थयन्ते । ते पुण्यं पुण्यफलम् आसाद्य सम्प्राप्य सुरेन्द्रलोकं शतक्रतोः स्थानम् अश्नन्ति भुञ्जते दिव्यान् दिवि भवान् अप्राकृतान् देवभोगान् देवानां भोगान् ॥ २० ॥
ते तं भुक्त्वा स्वर्गलोकं विशालं
क्षीणे पुण्ये मर्त्यलोकं विशन्ति ।
एवं त्रयीधर्ममनुप्रपन्ना
गतागतं कामकामा लभन्ते ॥ २१ ॥
ते तं भुक्त्वा स्वर्गलोकं विशालं विस्तीर्णं क्षीणे पुण्ये मर्त्यलोकं विशन्ति आविशन्ति । एवं यथोक्तेन प्रकारेण त्रयीधर्मं केवलं वैदिकं कर्म अनुप्रपन्नाः गतागतं गतं आगतं गतागतं गमनागमनं कामकामाः कामान् कामयन्ते इति कामकामाः लभन्ते गतागतमेव, तु स्वातन्त्र्यं क्वचित् लभन्ते इत्यर्थः ॥ २१ ॥
ये पुनः निष्कामाः सम्यग्दर्शिनः
अनन्याश्चिन्तयन्तो मां
ये जनाः पर्युपासते ।
तेषां नित्याभियुक्तानां
योगक्षेमं वहाम्यहम् ॥ २२ ॥
अनन्याः अपृथग्भूताः परं देवं नारायणम् आत्मत्वेन गताः सन्तः चिन्तयन्तः मां ये जनाः संन्यासिनः पर्युपासते, तेषां परमार्थदर्शिनां नित्याभियुक्तानां सतताभियोगिनां योगक्षेमं योगः अप्राप्तस्य प्रापणं क्षेमः तद्रक्षणं तदुभयं वहामि प्रापयामि अहम् ; ज्ञानी त्वात्मैव मे मतम्’ (भ. गी. ७ । १८) मम प्रियः’ (भ. गी. ७ । १७) यस्मात् , तस्मात् ते मम आत्मभूताः प्रियाश्च इति
ननु अन्येषामपि भक्तानां योगक्षेमं वहत्येव भगवान् । सत्यं वहत्येव ; किन्तु अयं विशेषःअन्ये ये भक्ताः ते आत्मार्थं स्वयमपि योगक्षेमम् ईहन्ते ; अनन्यदर्शिनस्तु आत्मार्थं योगक्षेमम् ईहन्ते ; हि ते जीविते मरणे वा आत्मनः गृद्धिं कुर्वन्ति ; केवलमेव भगवच्छरणाः ते ; अतः भगवानेव तेषां योगक्षेमं वहतीति ॥ २२ ॥
ननु अन्या अपि देवताः त्वमेव चेत् , तद्भक्ताश्च त्वामेव यजन्ते । सत्यमेवम्
येऽप्यन्यदेवताभक्ता
यजन्ते श्रद्धयान्विताः ।
तेऽपि मामेव कौन्तेय
यजन्त्यविधिपूर्वकम् ॥ २३ ॥
येऽपि अन्यदेवताभक्ताः अन्यासु देवतासु भक्ताः अन्यदेवताभक्ताः सन्तः यजन्ते पूजयन्ति श्रद्धया आस्तिक्यबुद्ध्या अन्विताः अनुगताः, तेऽपि मामेव कौन्तेय यजन्ति अविधिपूर्वकम् अविधिः अज्ञानं तत्पूर्वकं यजन्ते इत्यर्थः ॥ २३ ॥
कस्मात् ते अविधिपूर्वकं यजन्ते त्युच्यते ; यस्मात्
अहं हि सर्वयज्ञानां
भोक्ता प्रभुरेव  ।
तु मामभिजानन्ति
तत्त्वेनातश्च्यवन्ति ते ॥ २४ ॥
अहं हि सर्वयज्ञानां श्रौतानां स्मार्तानां सर्वेषां यज्ञानां देवतात्मत्वेन भोक्ता प्रभुः एव  । मत्स्वामिको हि यज्ञः, अधियज्ञोऽहमेवात्र’ (भ. गी. ८ । ४) इति हि उक्तम् । तथा तु माम् अभिजानन्ति तत्त्वेन यथावत् । अतश्च अविधिपूर्वकम् इष्ट्वा यागफलात् च्यवन्ति प्रच्यवन्ते ते ॥ २४ ॥
येऽपि अन्यदेवताभक्तिमत्त्वेन अविधिपूर्वकं यजन्ते, तेषामपि यागफलं अवश्यंभावि । कथम् ? —
यान्ति देवव्रता देवान्पितॄन्यान्ति पितृव्रताः ।
भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि माम् ॥ २५ ॥
यान्ति गच्छन्ति देवव्रताः देवेषु व्रतं नियमो भक्तिश्च येषां ते देवव्रताः देवान् यान्ति । पितॄन् अग्निष्वात्तादीन् यान्ति पितृव्रताः श्राद्धादिक्रियापराः पितृभक्ताः । भूतानि विनायकमातृगणचतुर्भगिन्यादीनि यान्ति भूतेज्याः भूतानां पूजकाः । यान्ति मद्याजिनः मद्यजनशीलाः वैष्णवाः मामेव यान्ति । समाने अपि आयासे मामेव भजन्ते अज्ञानात् , तेन ते अल्पफलभाजः भवन्ति इत्यर्थः ॥ २५ ॥
केवलं मद्भक्तानाम् अनावृत्तिलक्षणम् अनन्तफलम् , सुखाराधनश्च अहम् । कथम् ? —
पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति ।
तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः ॥ २६ ॥
पत्रं पुष्पं फलं तोयम् उदकं यः मे मह्यं भक्त्या प्रयच्छति, तत् अहं पत्रादि भक्त्या उपहृतं भक्तिपूर्वकं प्रापितं भक्त्युपहृतम् अश्नामि गृह्णामि प्रयतात्मनः शुद्धबुद्धेः ॥ २६ ॥
यतः एवम् , अतः
यत्करोषि यदश्नासि
यज्जुहोषि ददासि यत् ।
यत्तपस्यसि कौन्तेय
तत्कुरुष्व मदर्पणम् ॥ २७ ॥
यत् करोषि स्वतः प्राप्तम् , यत् अश्नासि, यच्च जुहोषि हवनं निर्वर्तयसि श्रौतं स्मार्तं वा, यत् ददासि प्रयच्छसि ब्राह्मणादिभ्यः हिरण्यान्नाज्यादि, यत् तपस्यसि तपः चरसि कौन्तेय, तत् कुरुष्व मदर्पणं मत्समर्पणम् ॥ २७ ॥
एवं कुर्वतः तव यत् भवति, तत् शृणु
शुभाशुभफलैरेवं
मोक्ष्यसे कर्मबन्धनैः ।
संन्यासयोगयुक्तात्मा
विमुक्तो मामुपैष्यसि ॥ २८ ॥
शुभाशुभफलैः शुभाशुभे इष्टानिष्टे फले येषां तानि शुभाशुभफलानि कर्माणि तैः शुभाशुभफलैः कर्मबन्धनैः कर्माण्येव बन्धनानि कर्मबन्धनानि तैः कर्मबन्धनैः एवं मदर्पणं कुर्वन् मोक्ष्यसे । सोऽयं संन्यासयोगो नाम, संन्यासश्च असौ मत्समर्पणतया कर्मत्वात् योगश्च असौ इति, तेन संन्यासयोगेन युक्तः आत्मा अन्तःकरणं यस्य तव सः त्वं संन्यासयोगयुक्तात्मा सन् विमुक्तः कर्मबन्धनैः जीवन्नेव पतिते चास्मिन् शरीरे माम् उपैष्यसि आगमिष्यसि ॥ २८ ॥
रागद्वेषवान् तर्हि भगवान् , यतो भक्तान् अनुगृह्णाति, इतरान् इति । तत्
समोऽहं सर्वभूतेषु
मे द्वेष्योऽस्ति प्रियः ।
ये भजन्ति तु मां भक्त्या
मयि ते तेषु चाप्यहम् ॥ २९ ॥
समः तुल्यः अहं सर्वभूतेषु । मे द्वेष्यः अस्ति प्रियः । अग्निवत् अहम्दूरस्थानां यथा अग्निः शीतं अपनयति, समीपम् उपसर्पतां अपनयति ; तथा अहं भक्तान् अनुगृह्णामि, इतरान् । ये भजन्ति तु माम् ईश्वरं भक्त्या मयि तेस्वभावत एव, मम रागनिमित्तम्वर्तन्ते । तेषु अपि अहं स्वभावत एव वर्ते, इतरेषु । एतावता तेषु द्वेषो मम ॥ २९ ॥
शृणु मद्भक्तेर्माहात्म्यम्
अपि चेत्सुदुराचारो
भजते मामनन्यभाक् ।
साधुरेव मन्तव्यः
सम्यग्व्यवसितो हि सः ॥ ३० ॥
अपि चेत् यद्यपि सुदुराचारः सुष्ठु दुराचारः अतीव कुत्सिताचारोऽपि भजते माम् अनन्यभाक् अनन्यभक्तिः सन् , साधुरेव सम्यग्वृत्त एव सः मन्तव्यः ज्ञातव्यः ; सम्यक् यथावत् व्यवसितो हि सः, यस्मात् साधुनिश्चयः सः ॥ ३० ॥
उत्सृज्य बाह्यां दुराचारतां अन्तः सम्यग्व्यवसायसामर्थ्यात् —
क्षिप्रं भवति धर्मात्मा
शश्वच्छान्तिं निगच्छति ।
कौन्तेय प्रतिजानीहि
मे भक्तः प्रणश्यति ॥ ३१ ॥
क्षिप्रं शीघ्रं भवति धर्मात्मा धर्मचित्तः एव । शश्वत् नित्यं शान्तिं उपशमं निगच्छति प्राप्नोति । शृणु परमार्थम् , कौन्तेय प्रतिजानीहि निश्चितां प्रतिज्ञां कुरु, मे मम भक्तः मयि समर्पितान्तरात्मा मद्भक्तः प्रणश्यति इति ॥ ३१ ॥
किञ्च
मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः ।
स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम् ॥ ३२ ॥
मां हि यस्मात् पार्थ व्यपाश्रित्य माम् आश्रयत्वेन गृहीत्वा येऽपि स्युः भवेयुः पापयोनयः पापा योनिः येषां ते पापयोनयः पापजन्मानः । के ते इति, आहस्त्रियः वैश्याः तथा शूद्राः तेऽपि यान्ति गच्छन्ति परां प्रकृष्टां गतिम् ॥ ३२ ॥
किं पुनर्ब्राह्मणाः पुण्या भक्ता राजर्षयस्तथा ।
अनित्यमसुखं लोकमिमं प्राप्य भजस्व माम् ॥ ३३ ॥
किं पुनः ब्राह्मणाः पुण्याः पुण्ययोनयः भक्ताः राजर्षयः तथा । राजानश्च ते ऋषयश्च राजर्षयः । यतः एवम् , अतः अनित्यं क्षणभङ्गुरम् असुखं सुखवर्जितम् इमं लोकं मनुष्यलोकं प्राप्य पुरुषार्थसाधनं दुर्लभं मनुष्यत्वं लब्ध्वा भजस्व सेवस्व माम् ॥ ३३ ॥
कथम्
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ।
मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः ॥ ३४ ॥
मयि वासुदेवे मनः यस्य तव त्वं मन्मनाः भव । तथा मद्भक्तः भव मद्याजी मद्यजनशीलः भव । माम् एव नमस्कुरु । माम् एव ईश्वरम् एष्यसि आगमिष्यसि युक्त्वा समाधाय चित्तम् । एवम् आत्मानम् , अहं हि सर्वेषां भूतानाम् आत्मा, परा गतिः, परम् अयनम् , तं माम् एवंभूतम् , एष्यसि इति अतीतेन सम्बन्धः, मत्परायणः सन् इत्यर्थः ॥ ३४ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ श्रीमद्भगवद्गीताभाष्ये नवमोऽध्यायः ॥