श्रीमच्छङ्करभगवत्पूज्यपादविरचितम्

ईशावास्योपनिषद्भाष्यम्

करतलकलिताद्वयात्मतत्त्वं क्षपितदुरन्तचिरन्तनप्रमोहम् ।
उपचितमुदितोदितैर्गुणौघैः उपनिषदामयमुज्जहार भाष्यम् ।।

‘ईशा वास्यम्’ इत्यादयो मन्त्राः कर्मस्वविनियुक्ताः, तेषामकर्मशेषस्यात्मनो याथात्म्यप्रकाशकत्वात् । याथात्म्यं चात्मनः शुद्धत्वापापविद्धत्वैकत्वनित्यत्वाशरीरत्वसर्वगतत्वादि वक्ष्यमाणम् । तच्च कर्मणा विरुध्यत इति युक्त एवैषां कर्मस्वविनियोगः । न ह्येवंलक्षणमात्मनो याथात्म्यम् उत्पाद्यं विकार्यम् आप्यं संस्कार्यं वा कर्तृभोक्तृरूपं वा, येन कर्मशेषता स्यात् ; सर्वासामुपनिषदामात्मयाथात्म्यनिरूपणेनैवोपक्षयात् , गीतानां मोक्षधर्माणां चैवम्परत्वात् । तस्मादात्मनोऽनेकत्वकर्तृत्वभोक्तृत्वादि च अशुद्धत्वपापविद्धत्वादि चोपादाय लोकबुद्धिसिद्धं कर्माणि विहितानि । यो हि कर्मफलेनार्थी दृष्टेन ब्रह्मवर्चसादिना अदृष्टेन स्वर्गादिना च द्विजातिरहं न काणत्वकुणित्वाद्यनधिकारप्रयोजकधर्मवानित्यात्मानं मन्यते सोऽधिक्रियते कर्मस्विति ह्यधिकारविदो वदन्ति । तस्मादेते मन्त्रा आत्मनो याथात्म्यप्रकाशनेन आत्मविषयं स्वाभाविककर्मविज्ञानं निवर्तयन्तः शोकमोहादिसंसारधर्मविच्छित्तिसाधनमात्मैकत्वादिविज्ञानमुत्पादयन्तीति । एवमुक्ताधिकार्यभिधेयसम्बन्धप्रयोजनान्मन्त्रान्सङ्क्षेपतो व्याख्यास्यामः —
ईशा वास्यमिदं सर्वं यत्किं च जगत्यां जगत् ।
तेन त्यक्तेन भुञ्जीथा मा गृधः कस्य स्विद्धनम् ॥ १ ॥
ईशा ईष्टे इति ईट् , तेन ईशा । ईशिता परमेश्वरः परमात्मा सर्वस्य । स हि सर्वमीष्टे सर्वजन्तूनामात्मा सन् प्रत्यगात्मतया । तेन स्वेन रूपेणात्मना ईशा वास्यम् आच्छादनीयम् । किम् ? इदं सर्वं यत्किं च यत्किञ्चित् जगत्यां पृथिव्यां जगत् तत्सर्वम् । स्वेनात्मना ईशेन प्रत्यगात्मतया अहमेवेदं सर्वमिति परमार्थसत्यरूपेणानृतमिदं सर्वं चराचरमाच्छादनीयं परमात्मना । यथा चन्दनागर्वादेरुदकादिसम्बन्धजक्लेदादिजमौपाधिकं दौर्गन्ध्यं तत्स्वरूपनिघर्षणेनाच्छाद्यते स्वेन पारमार्थिकेन गन्धेन, तद्वदेव हि स्वात्मन्यध्यस्तं स्वाभाविकं कर्तृत्वभोक्तृत्वादिलक्षणं जगद्द्वैतरूपं पृथिव्याम् , जगत्यामित्युपलक्षणार्थत्वात्सर्वमेव नामरूपकर्माख्यं विकारजातं परमार्थसत्यात्मभावनया त्यक्तं स्यात् । एवमीश्वरात्मभावनया युक्तस्य पुत्राद्येषणात्रयसंन्यासे एवाधिकारः, न कर्मसु । तेन त्यक्तेन त्यागेनेत्यर्थः । न हि त्यक्तो मृतः पुत्रो भृत्यो वा आत्मसम्बन्धिताभावादात्मानं पालयति । अतस्त्यागेनेत्ययमेवार्थः । भुञ्जीथाः पालयेथाः । एवं त्यक्तैषणस्त्वं मा गृधः गृधिम् आकाङ्क्षां मा कार्षीः धनविषयाम् । कस्य स्वित् कस्यचित् परस्य स्वस्य वा धनं मा काङ्क्षीरित्यर्थः । स्विदित्यनर्थको निपातः । अथवा, मा गृधः । कस्मात् ? कस्य स्विद्धनम् इत्याक्षेपार्थः । न कस्यचिद्धनमस्ति, यद्गृध्येत । आत्मैवेदं सर्वमितीश्वरभावनया सर्वं त्यक्तम् । अत आत्मन एवेदं सर्वम् , आत्मैव च सर्वम् । अतो मिथ्याविषयां गृधिं मा कार्षीरित्यर्थः ॥
एवमात्मविदः पुत्राद्येषणात्रयसंन्यासेनात्मज्ञाननिष्ठतया आत्मा रक्षितव्य इत्येष वेदार्थः । अथेतरस्य अनात्मज्ञतयात्मग्रहणाशक्तस्य इदमुपदिशति मन्त्रः —
कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः ।
एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे ॥ २ ॥
कुर्वन्नेव निर्वर्तयन्नेव इह कर्माणि अग्निहोत्रादीनि जिजीविषेत् जीवितुमिच्छेत् शतं शतसङ्ख्याकाः समाः संवत्सरान् । तावद्धि पुरुषस्य परमायुर्निरूपितम् । तथा च प्राप्तानुवादेन यज्जिजीविषेच्छतं वर्षाणि तत्कुर्वन्नेव कर्माणीत्येतद्विधीयते । एवम् एवंप्रकारे त्वयि जिजीविषति नरे नरमात्राभिमानिनि इतः एतस्मादग्निहोत्रादीनि कर्माणि कुर्वतो वर्तमानात्प्रकारात् अन्यथा प्रकारान्तरं नास्ति, येन प्रकारेणाशुभं कर्म न लिप्यते ; कर्मणा न लिप्यस इत्यर्थः । अतः शास्त्रविहितानि कर्माण्यग्निहोत्रादीनि कुर्वन्नेव जिजीविषेत् ॥
कथं पुनरिदमवगम्यते — पूर्वेण मन्त्रेण संन्यासिनो ज्ञाननिष्ठोक्ता, द्वितीयेन तदशक्तस्य कर्मनिष्ठेति ? उच्यते — ज्ञानकर्मणोर्विरोधं पर्वतवदकम्प्यं यथोक्तं न स्मरसि किम् ? इहाप्युक्तम् — यो हि जिजीविषेत्स कर्माणि कुर्वन्नेव इति ; ‘ईशा वास्यमिदं सर्वम्’, ‘तेन त्यक्तेन भुञ्जीथाः मा गृधः कस्य स्विद्धनम्’ इति च । ‘न जीविते मरणे वा गृधिं कुर्वीतारण्यमियात् इति पदं ततो न पुनरेयात्’ ( ? ) इति च संन्यासशासनात् । उभयोः फलभेदं च वक्ष्यति । ‘इमौ द्वावेव पन्थानावनुनिष्क्रान्ततरौ भवतः क्रियापथश्चैव पुरस्तात्संन्यासश्च’ ( ? ) ; तयोः संन्यास एवातिरेचयति — ‘न्यास एवात्यरेचयत्’ (तै. नारा. ७८) इति तैत्तिरीयके । ‘द्वाविमावथ पन्थानौ यत्र वेदाः प्रतिष्ठिताः । प्रवृत्तिलक्षणो धर्मो निवृत्तिश्च विभाषितः’ (मो. ध. २४१ । ६) इत्यादि पुत्राय विचार्य निश्चितमुक्तं व्यासेन वेदाचार्येण भगवता । विभागं चानयोः प्रदर्शयिष्यामः ॥
अथेदानीमविद्वन्निन्दार्थोऽयं मन्त्र आरभ्यते —
असुर्या नाम ते लोका अन्धेन तमसा वृताः ।
तांस्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः ॥ ३ ॥
असुर्याः परमात्मभावमद्वयमपेक्ष्य देवादयोऽप्यसुराः । तेषां च स्वभूता लोका असुर्याः नाम । नामशब्दोऽनर्थको निपातः । ते लोकाः कर्मफलानि लोक्यन्ते दृश्यन्ते भुज्यन्त इति जन्मानि । अन्धेन अदर्शनात्मकेनाज्ञानेन तमसा आवृताः आच्छादिताः । तान् स्थावरान्तान् , प्रेत्य त्यक्त्वेमं देहम् अभिगच्छन्ति यथाकर्म यथाश्रुतम् । ये के च आत्महनः आत्मानं घ्नन्तीत्यात्महनः । के ? ते जनाः येऽविद्वांसः । कथं ते आत्मानं नित्यं हिंसन्ति ? अविद्यादोषेण विद्यमानस्यात्मनस्तिरस्करणात् । विद्यमानस्यात्मनो यत्कार्यं फलमजरामरत्वादिसंवेदनादिलक्षणम् , तत् हतस्येव तिरोभूतं भवतीति प्राकृता अविद्वांसो जना आत्महन इत्युच्यन्ते । तेन ह्यात्महननदोषेण संसरन्ति ते ॥
यस्यात्मनो हननादविद्वांसः संसरन्ति, तद्विपर्ययेण विद्वांसो मुच्यन्तेऽनात्महनः, तत्कीदृशमात्मतत्त्वमित्युच्यते —
अनेजदेकं मनसो जवीयो नैनद्देवा आप्नुवन्पूर्वमर्षत् ।
तद्धावतोऽन्यानत्येति तिष्ठ—त्तस्मिन्नपो मातरिश्वा दधाति ॥ ४ ॥
अनेजत् न एजत् । ‘एजृ कम्पने’, कम्पनं चलनं स्वावस्थाप्रच्युतिः, तद्वर्जितम् , सर्वदा एकरूपमित्यर्थः । तच्च एकं सर्वभूतेषु । मनसः सङ्कल्पादिलक्षणात् जवीयो जववत्तरम् । कथं विरुद्धमुच्यते — ध्रुवं निश्चलमिदम् , मनसो जवीय इति च ? नैष दोषः, निरुपाध्युपाधिमत्त्वेनोपपत्तेः । तत्र निरुपाधिकेन स्वेन रूपेणोच्यते — अनेजदेकम् इति । मनसः अन्तःकरणस्य सङ्कल्पविकल्पलक्षणस्योपाधेरनुवर्तनात् । इह देहस्थस्य मनसो ब्रह्मलोकादिदूरस्थसङ्कल्पनं क्षणमात्राद्भवतीत्यतो मनसो जविष्ठत्वं लोकप्रसिद्धम् । तस्मिन्मनसि ब्रह्मलोकादीन् द्रुतं गच्छति सति, प्रथमप्राप्त इवात्मचैतन्याभासो गृह्यते । अतः मनसो जवीयः इत्याह । नैनद्देवाः, द्योतनाद्देवाः चक्षुरादीनीन्द्रियाणि, एनत् प्रकृतमात्मतत्त्वं नाप्नुवन् न प्राप्तवन्तः । तेभ्यो मनो जवीयः । मनोव्यापारव्यवहितत्वादाभासमात्रमप्यात्मनो नैव देवानां विषयीभवति ; यस्माज्जवनान्मनसोऽपि पूर्वमर्षत् पूर्वमेव गतम् , व्योमवद्व्यापित्वात् । सर्वव्यापि तदात्मतत्त्वं सर्वसंसारधर्मवर्जितं स्वेन निरुपाधिकेन स्वरूपेणाविक्रियमेव सत् , उपाधिकृताः सर्वाः संसारविक्रिया अनुभवतीवाविवेकिनां मूढानामनेकमिव च प्रतिदेहं प्रत्यवभासत इत्येतदाह — तत् धावतः द्रुतं गच्छतः अन्यान् आत्मविलक्षणान्मनोवागिन्द्रियप्रभृतीन् अत्येति अतीत्य गच्छतीव । इवार्थं स्वयमेव दर्शयति — तिष्ठदिति, स्वयमविक्रियमेव सदित्यर्थः । तस्मिन् आत्मतत्त्वे सति नित्यचैतन्यस्वभावे, मातरिश्वा मातरि अन्तरिक्षे श्वयति गच्छतीति मातरिश्वा वायुः सर्वप्राणभृत्क्रियात्मकः, यदाश्रयाणि कार्यकरणजातानि यस्मिन्नोतानि प्रोतानि च, यत्सूत्रसंज्ञकं सर्वस्य जगतो विधारयितृ, स मातरिश्वा, अपः कर्माणि प्राणिनां चेष्टालक्षणानि अग्न्यादित्यपर्जन्यादीनां ज्वलनदहनप्रकाशाभिवर्षणादिलक्षणानि, दधाति विभजतीत्यर्थः, धारयतीति वा ; ‘भीषास्माद्वातः पवते’ इत्यादिश्रुतिभ्यः । सर्वा हि कार्यकरणविक्रिया नित्यचैतन्यात्मस्वरूपे सर्वास्पदभूते सत्येव भवन्तीत्यर्थः ॥
न मन्त्राणां जामितास्तीति पूर्वमन्त्रोक्तमप्यर्थं पुनराह —
तदेजति तन्नैजति तद्दूरे तद्वन्तिके ।
तदन्तरस्य सर्वस्य तदु सर्वस्यास्य बाह्यतः ॥ ५ ॥
तत् आत्मतत्त्वं यत्प्रकृतम् एजति चलति तदेव च नैजति स्वतो नैव चलति, स्वतः अचलमेव सत् चलतीवेत्यर्थः । किञ्च, तद्दूरे वर्षकोटिशतैरप्यविदुषामप्राप्यत्वाद्दूर इव । तदु अन्तिके समीपे अत्यन्तमेव विदुषाम् , आत्मत्वात् न केवलं दूरे, अन्तिके च । तत् अन्तः अभ्यन्तरे अस्य सर्वस्य, ‘य आत्मा सर्वान्तरः’ इति श्रुतेः, अस्य सर्वस्य जगतो नामरूपक्रियात्मकस्य । तत् उ सर्वस्य अस्य बाह्यतः ; व्यापित्वादाकाशवन्निरतिशयसूक्ष्मत्वादन्तः ; ‘प्रज्ञानघन एव’ (बृ. उ. ४ । ५ । १३) इति शासनान्निरन्तरं च ॥
यस्तु सर्वाणि भूतानि आत्मन्येवानुपश्यति ।
सर्वभूतेषु चात्मानं ततो न विजुगुप्सते ॥ ६ ॥
यस्तु परिव्राट् मुमुक्षुः सर्वाणि भूतानि अव्यक्तादीनि स्थावरान्तानि आत्मन्येव अनुपश्यति, आत्मव्यतिरिक्तानि न पश्यतीत्यर्थः । सर्वभूतेषु तेष्वेव च आत्मानं तेषामपि भूतानां स्वमात्मानमात्मत्वेन — यथास्य देहस्य कार्यकरणसङ्घातस्यात्मा अहं सर्वप्रत्ययसाक्षिभूतश्चेतयिता केवलो निर्गुणोऽनेनैव स्वरूपेणाव्यक्तादीनां स्थावरान्तानामहमेवात्मेति सर्वभूतेषु चात्मानं निर्विशेषं यस्त्वनुपश्यति, सः ततः तस्मादेव दर्शनात् न विजुगुप्सते विजुगुप्सां घृणां न करोति । प्राप्तस्यैवानुवादोऽयम् । सर्वा हि घृणा आत्मनोऽन्यद्दुष्टं पश्यतो भवति ; आत्मानमेवात्यन्तविशुद्धं निरन्तरं पश्यतो न घृणानिमित्तमर्थान्तरमस्तीति प्राप्तमेव — ततो न विजुगुप्सत इति ॥
इममेवार्थमन्योऽपि मन्त्र आह —
यस्मिन्सर्वाणि भूतानि आत्मैवाभूद्विजानतः ।
तत्र को मोहः कः शोक एकत्वमनुपश्यतः ॥ ७ ॥
यस्मिन्सर्वाणि भूतानि यस्मिन् काले यथोक्तात्मनि वा, तान्येव भूतानि सर्वाणि परमार्थात्मदर्शनात् आत्मैवाभूत् आत्मैव संवृत्तः परमार्थवस्तु विजानतः, तत्र तस्मिन्काले तत्रात्मनि वा, को मोहः कः शोकः । शोकश्च मोहश्च कामकर्मबीजमजानतो भवति, न त्वात्मैकत्वं विशुद्धं गगनोपमं पश्यतः । को मोहः कः शोक इति शोकमोहयोरविद्याकार्ययोराक्षेपेणासम्भवप्रकाशनात् सकारणस्य संसारस्यात्यन्तमेवोच्छेदः प्रदर्शितो भवति ॥
योऽयमतीतैर्मन्त्रैरुक्त आत्मा, स स्वेन रूपेण किंलक्षण इत्याह अयं मन्त्रः —
स पर्यगाच्छुक्रमकायमव्रण—मस्नाविरं शुद्धमपापविद्धम् ।
कविर्मनीषी परिभूः स्वयम्भूर्याथातथ्यतो—ऽर्थान्व्यदधाच्छाश्वतीभ्यः समाभ्यः ॥ ८ ॥
स पर्यगात् , सः यथोक्त आत्मा पर्यगात् परि समन्तात् अगात् गतवान् , आकाशवद्व्यापीत्यर्थः । शुक्रं शुभ्रं ज्योतिष्मत् दीप्तिमानित्यर्थः । अकायम् अशरीरं लिङ्गशरीरवर्जित इत्यर्थः । अव्रणम् अक्षतम् । अस्नाविरम् स्नावाः सिरा यस्मिन्न विद्यन्त इत्यस्नाविरम् । अव्रणमस्नाविरमित्येताभ्यां स्थूलशरीरप्रतिषेधः । शुद्धं निर्मलमविद्यामलरहितमिति कारणशरीरप्रतिषेधः । अपापविद्धं धर्माधर्मादिपापवर्जितम् । शुक्रमित्यादीनि वचांसि पुंलिङ्गत्वेन परिणेयानि, स पर्यगात् इत्युपक्रम्य कविर्मनीषी इत्यादिना पुंलिङ्गत्वेनोपसंहारात् । कविः क्रान्तदर्शी सर्वदृक् , ‘नान्योऽतोऽस्ति द्रष्टा’ (बृ. उ. ३ । ७ । २३) इत्यादिश्रुतेः । मनीषी मनस ईषिता, सर्वज्ञ ईश्वर इत्यर्थः । परिभूः सर्वेषां परि उपरि भवतीति परिभूः । स्वयम्भूः स्वयमेव भवतीति, येषामुपरि भवति यश्चोपरि भवति स सर्वः स्वयमेव भवतीति स्वयम्भूः । स नित्यमुक्त ईश्वरः याथातथ्यतः सर्वज्ञत्वात् यथातथाभावो याथातथ्यं तस्मात् यथाभूतकर्मफलसाधनतः अर्थान् कर्तव्यपदार्थान् व्यदधात् विहितवान् , यथानुरूपं व्यभजदित्यर्थः । शाश्वतीभ्यः नित्याभ्यः समाभ्यः संवत्सराख्येभ्यः प्रजापतिभ्य इत्यर्थः ॥
अत्राद्येन मन्त्रेण सर्वैषणापरित्यागेन ज्ञाननिष्ठोक्ता प्रथमो वेदार्थः ‘ईशावास्यमिदं सर्वम्. . . मा गृधः कस्य स्विद्धनम्’ (ई. उ. १) इति । अज्ञानां जिजीविषूणां ज्ञाननिष्ठासम्भवे ‘कुर्वन्नेवेह कर्माणि जिजीविषेत्’ (ई. उ. २) इति कर्मनिष्ठोक्ता द्वितीयो वेदार्थः । अनयोश्च निष्ठयोर्विभागो मन्त्रद्वयप्रदर्शितयोर्बृहदारण्यकेऽपि दर्शितः — ‘सोऽकामयत जाया मे स्यात्’ (बृ. उ. १ । ४ । १७) इत्यादिना अज्ञस्य कामिनः कर्माणीति । ‘मन एवास्यात्मा वाग्जाया’ (बृ. उ. १ । ४ । १७), (बृ. उ. १ । ५ । २) इत्यादिवचनात् अज्ञत्वं कामित्वं च कर्मनिष्ठस्य निश्चितमवगम्यते । तथा च तत्फलं सप्तान्नसर्गस्तेष्वात्मभावेनात्मस्वरूपावस्थानम् । जायाद्येषणात्रयसंन्यासेन चात्मविदां कर्मनिष्ठाप्रातिकूल्येन आत्मस्वरूपनिष्ठैव दर्शिता — ‘किं प्रजया करिष्यामो येषां नोऽयमात्मायं लोकः’ (बृ. उ. ४ । ४ । २२) इत्यादिना । ये तु ज्ञाननिष्ठाः संन्यासिनस्तेभ्यः ‘असुर्या नाम ते’ (ई. उ. ३) इत्यादिना अविद्वन्निन्दाद्वारेणात्मनो याथात्म्यम् ‘स पर्यगात्’ (ई. उ. ८) इत्येतदन्तैर्मन्त्रैरुपदिष्टम् । ते ह्यत्राधिकृता न कामिन इति । तथा च श्वेताश्वतराणां मन्त्रोपनिषदि — ‘अत्याश्रमिभ्यः परमं पवित्रं प्रोवाच सम्यगृषिसङ्घजुष्टम्’ (श्वे. उ. ६ । २१) इत्यादि विभज्योक्तम् । ये तु कामिनः कर्मनिष्ठाः कर्म कुर्वन्त एव जिजीविषवः, तेभ्य इदमुच्यते — ‘ अन्धं तमः’ (ई. उ. ९) इत्यादि । कथं पुनरेवमवगम्यते, न तु सर्वेषाम् इति ? उच्यते — अकामिनः साध्यसाधनभेदोपमर्देन ‘यस्मिन्सर्वाणि भूतानि आत्मैवाभूद्विजानतः । तत्र को मोहः कः शोक एकत्वमनुपश्यतः’ (ई. उ. ७) इति यत् आत्मैकत्वविज्ञानम् , तन्न केनचित्कर्मणा ज्ञानान्तरेण वा ह्यमूढः समुच्चिचीषति । इह तु समुच्चिचीषया अविद्वदादिनिन्दा क्रियते । तत्र च यस्य येन समुच्चयः सम्भवति न्यायतः शास्त्रतो वा तदिहोच्यते । तद्दैवं वित्तं देवताविषयं ज्ञानं कर्मसम्बन्धित्वेनोपन्यस्तं न परमात्मज्ञानम् , ‘विद्यया देवलोकः’ (बृ. उ. १ । ५ । १६) इति पृथक्फलश्रवणात् । तयोर्ज्ञानकर्मणोरिहैकैकानुष्ठाननिन्दा समुच्चिचीषया, न निन्दापरैव एकैकस्य, पृथक्फलश्रवणात् — ‘विद्यया तदारोहन्ति’ ‘विद्यया देवलोकः’ (बृ. उ. १ । ५ । १६) ‘न तत्र दक्षिणा यान्ति’ ‘कर्मणा पितृलोकः’ (बृ. उ. १ । ५ । १६) इति । न हि शास्त्रविहितं किञ्चिदकर्तव्यतामियात् । तत्र —
अन्धं तमः प्रविशन्ति ये अविद्यामुपासते ।
ततो भूय इव ते तमो य उ विद्यायां रताः ॥ ९ ॥
अन्धं तमः अदर्शनात्मकं तमः प्रविशन्ति । के ? ये अविद्याम् , विद्याया अन्या अविद्या कर्मेत्यर्थः, कर्मणो विद्याविरोधित्वात् , तामविद्यामग्निहोत्रादिलक्षणामेव केवलाम् उपासते तत्पराः सन्तोऽनुतिष्ठन्तीत्यभिप्रायः । ततः तस्मादन्धात्मकात्तमसः भूय इव बहुतरमेव ते तमः प्रविशन्ति । के ? कर्म हित्वा ये उ ये तु विद्यायामेव देवताज्ञाने एव रताः अभिरताः ॥
तत्रावान्तरफलभेदं विद्याकर्मणोः समुच्चयकारणमाह । अन्यथा फलवदफलवतोः संनिहितयोरङ्गाङ्गितया जामितैव स्यादिति —
अन्यदेवाहुर्विद्यया अन्यदाहुरविद्यया ।
इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे ॥ १० ॥
अन्यत् पृथगेव विद्यया क्रियते फलमिति आहुः वदन्ति, अन्यदाहुरविद्यया कर्मणा क्रियते फलमिति । तथोक्तम् — ‘कर्मणा पितृलोकः, विद्यया देवलोकः’ (बृ. उ. १ । ५ । १६) इति । इति एवं शुश्रुम श्रुतवन्तो वयं धीराणां धीमतां वचनम् । ये आचार्या नः अस्मभ्यं तत् कर्म च ज्ञानं च विचचक्षिरे व्याख्यातवन्तः, तेषामयमागमः पारम्पर्यागत इत्यर्थः ॥
यत एवमतः —
विद्यां चाविद्यां च यस्तद्वेदोभयं सह ।
अविद्यया मृत्युं तीर्त्वा विद्ययामृतमश्नुते ॥ ११ ॥
विद्यां च अविद्यां च देवताज्ञानं कर्म चेत्यर्थः । यस्तत् एतदुभयं सह एकेन पुरुषेण अनुष्ठेयं वेद तस्यैवं समुच्चयकारिण एकैकपुरुषार्थसम्बन्धः क्रमेण स्यादित्युच्यते — अविद्यया कर्मणा अग्निहोत्रादिना मृत्युम् , स्वाभाविकं कर्म ज्ञानं च मृत्युशब्दवाच्यम् , तदुभयं तीर्त्वा अतिक्रम्य विद्यया देवताज्ञानेन अमृतं देवतात्मभावम् अश्नुते प्राप्नोति । तद्ध्यमृतमुच्यते, यद्देवतात्मगमनम् ॥
अधुना व्याकृताव्याकृतोपासनयोः समुच्चिचीषया प्रत्येकं निन्दोच्यते —
अन्धं तमः प्रविशन्ति येऽसम्भूतिमुपासते ।
ततो भूय इव ते तमो य उ सम्भूत्यां रताः ॥ १२ ॥
अन्धं तमः प्रविशन्ति ये असम्भूतिम् , सम्भवनं सम्भूतिः सा यस्य कार्यस्य सा सम्भूतिः तस्या अन्या असम्भूतिः प्रकृतिः कारणम् अव्याकृताख्यम् , तामसम्भूतिमव्याकृताख्यां प्रकृतिं कारणमविद्यां कामकर्मबीजभूतामदर्शनात्मिकाम् उपासते ये ते तदनुरूपमेवान्धं तमः अदर्शनात्मकं प्रविशन्ति । ततः तस्मादपि भूयो बहुतरमिव तमः ते प्रविशन्ति ये उ सम्भूत्यां कार्यब्रह्मणि हिरण्यगर्भाख्ये रताः ॥
अधुना उभयोरुपासनयोः समुच्चयकारणमवयवफलभेदमाह —
अन्यदेवाहुः सम्भवादन्यदाहुरसम्भवात् ।
इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे ॥ १३ ॥
अन्यदेव पृथगेव आहुः फलं सम्भवात् सम्भूतेः कार्यब्रह्मोपासनात् अणिमाद्यैश्वर्यलक्षणम् आख्यातवन्त इत्यर्थः । तथा च अन्यदाहुरसम्भवात् असम्भूतेः अव्याकृतात् अव्याकृतोपासनात् यदुक्तम् ‘अन्धं तमः प्रविशन्ति’ (ई. उ. ९) इति, प्रकृतिलय इति च पौराणिकैरुच्यते । इति एवं शुश्रुम धीराणां वचनं ये नस्तद्विचचक्षिरे व्याकृताव्याकृतोपासनफलं व्याख्यातवन्त इत्यर्थः ॥
यत एवम् , अतः समुच्चयः सम्भूत्यसम्भूत्युपासनयोर्युक्तः एकैकपुरुषार्थत्वाच्चेत्याह —
सम्भूतिं च विनाशं च यस्तद्वेदोभयं सह ।
विनाशेन मृत्युं तीर्त्वा सम्भूत्यामृतमश्नुते ॥ १४ ॥
सम्भूतिं च विनाशं च यस्तद्वेदोभयं सह, विनाशेन, विनाशो धर्मो यस्य कार्यस्य स तेन धर्मिणा अभेदेनोच्यते ‘विनाशः’ इति । तेन तदुपासनेनानैश्वर्यमधर्मकामादिदोषजातं च मृत्युं तीर्त्वा, हिरण्यगर्भोपासनेन ह्यणिमादिप्राप्तिः फलम् , तेनानैश्वर्यादिमृत्युमतीत्य, असम्भूत्या अव्याकृतोपासनया अमृतं प्रकृतिलयलक्षणम् अश्नुते । ‘सम्भूतिं च विनाशं च’ इत्यत्रावर्णलोपेन निर्देशो द्रष्टव्यः, प्रकृतिलयफलश्रुत्यनुरोधात् ॥
मानुषदैववित्तसाध्यं फलं शास्त्रलक्षणं प्रकृतिलयान्तम् ; एतावती संसारगतिः । अतः परं पूर्वोक्तम् ‘आत्मैवाभूद्विजानतः’ इति सर्वात्मभाव एव सर्वैषणासंन्यासज्ञाननिष्ठाफलम् । एवं द्विप्रकारः प्रवृत्तिनिवृत्तिलक्षणो वेदार्थोऽत्र प्रकाशितः । तत्र प्रवृत्तिलक्षणस्य वेदार्थस्य विधिप्रतिषेधलक्षणस्य कृत्स्नस्य प्रकाशने प्रवर्ग्यान्तं ब्राह्मणमुपयुक्तम् । निवृत्तिलक्षणस्य प्रकाशने अत ऊर्ध्वं बृहदारण्यकम् । तत्र निषेकादिश्मशानान्तं कर्म कुर्वन् जिजीविषेद्यो विद्यया सहापरब्रह्मविषयया, तदुक्तम् — ‘विद्यां चाविद्यां च यस्तद्वेदोभयं सह । अविद्यया मृत्युं तीर्त्वा विद्ययामृतमश्नुते’ (ई. उ. १) इति, तत्र सोऽधिकारी केन मार्गेणामृतत्वमश्नुते इत्युच्यते — ‘तद्यत्तत्सत्यमसौ स आदित्यो य एष एतस्मिन्मण्डले पुरुषो यश्चायं दक्षिणेऽक्षन्पुरुषः’ (बृ. उ. ५ । ५ । २) एतदुभयं सत्यं ब्रह्मोपासीनः यथोक्तकर्मकृच्च यः, सोऽन्तकाले प्राप्ते सत्यात्मानमात्मनः प्राप्तिद्वारं याचते —
हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम् ।
तत्त्वं पूषन्नपावृणु सत्यधर्माय दृष्टये ॥ १५ ॥
हिरण्मयेन पात्रेण हिरण्मयमिव हिरण्मयम् , ज्योतिर्मयमित्येतत् , तेन पात्रेणेव अपिधानभूतेन सत्यस्य आदित्यमण्डलस्थस्य ब्रह्मणः अपिहितम् आच्छादितं मुखं द्वारम् ; तत् त्वं हे पूषन् अपावृणु अपसारय सत्यधर्माय तव सत्यस्योपासनात्सत्यं धर्मो यस्य मम सोऽहं सत्यधर्मा तस्मै मह्यम् ; अथवा, यथाभूतस्य धर्मस्यानुष्ठात्रे, दृष्टये तव सत्यात्मन उपलब्धये ॥
पूषन्नेकर्षे यम सूर्य प्राजापत्य व्यूह
रश्मीन्समूह तेजो यत्ते रूपं कल्याणतमं
तत्ते पश्यामि योऽसावसौ पुरुषः सोऽहमस्मि ॥ १६ ॥
हे पूषन् जगतः पोषणात्पूषा रविः । तथा एक एव ऋषति गच्छतीत्येकर्षिः हे एकर्षे । तथा सर्वस्य संयमनाद्यमः हे यम । तथा रश्मीनां प्राणानां रसानां च स्वीकरणात्सूर्यः हे सूर्य । प्रजापतेरपत्यं प्राजापत्यः हे प्राजापत्य । व्यूह विगमय रश्मीन् स्वान् । समूह एकीकुरु उपसंहर तेजः तावकं ज्योतिः । यत् ते तव रूपं कल्याणतमम् अत्यन्तशोभनम् , तत् ते तवात्मनः प्रसादात् पश्यामि । किञ्च, अहं न तु त्वां भृत्यवद्याचे योऽसौ आदित्यमण्डलस्थः असौ व्याहृत्यवयवः पुरुषः पुरुषाकारत्वात् , पूर्णं वानेन प्राणबुद्ध्यात्मना जगत्समस्तमिति पुरुषः ; पुरि शयनाद्वा पुरुषः । सोऽहम् अस्मि भवामि ॥
वायुरनिलममृतमथेदं भस्मान्तं शरीरम् ।
ओं क्रतो स्मर कृतं स्मर क्रतो स्मर कृतं स्मर ॥ १७ ॥
अथेदानीं मम मरिष्यतो वायुः प्राणः अध्यात्मपरिच्छेदं हित्वा अधिदैवतात्मानं सर्वात्मकम् अनिलम् अमृतं सूत्रात्मानं प्रतिपद्यतामिति वाक्यशेषः । लिङ्गं चेदं ज्ञानकर्मसंस्कृतमुत्क्रामत्विति द्रष्टव्यम् , मार्गयाचनसामर्थ्यात् । अथ इदं शरीरमग्नौ हुतं भस्मान्तं भस्मावशेषं भूयात् । ओमिति यथोपासनम् ओम्प्रतीकात्मकत्वात्सत्यात्मकमग्न्याख्यं ब्रह्माभेदेनोच्यते । हे क्रतो सङ्कल्पात्मक स्मर यन्मम स्मर्तव्यं तस्य कालोऽयं प्रत्युपस्थितः, अतः स्मर एतावन्तं कालं भावितं कृतम् अग्ने स्मर यन्मया बाल्यप्रभृत्यनुष्ठितं कर्म तच्च स्मर । क्रतो स्मर कृतं स्मर इति पुनर्वचनमादरार्थम् ॥
पुनरन्येन मन्त्रेण मार्गं याचते —
अग्ने नय सुपथा राये अस्मान्विश्वानि देव वयुनानि विद्वान् ।
युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नमउक्तिं विधेम ॥ १८ ॥
हे अग्ने नय गमय सुपथा शोभनेन मार्गेण । सुपथेति विशेषणं दक्षिणमार्गनिवृत्त्यर्थम् । निर्विण्णोऽहं दक्षिणेन मार्गेण गतागतलक्षणेन ; अतो याचे त्वां पुनः पुनः गमनागमनवर्जितेन शोभनेन पथा नय । राये धनाय, कर्मफलभोगायेत्यर्थः । अस्मान् यथोक्तधर्मफलविशिष्टान् विश्वानि सर्वाणि हे देव वयुनानि कर्माणि, प्रज्ञानानि वा विद्वान् जानन् । किञ्च, युयोधि वियोजय विनाशय अस्मत् अस्मत्तः जुहुराणं कुटिलं वञ्चनात्मकम् एनः पापम् । ततो वयं विशुद्धाः सन्तः इष्टं प्राप्स्याम इत्यभिप्रायः । किन्तु वयमिदानीं ते न शक्नुमः परिचर्यां कर्तुम् ; भूयिष्ठां बहुतरां ते तुभ्यं नमउक्तिं नमस्कारवचनं विधेम नमस्कारेण परिचरेम इत्यर्थः ॥
‘अविद्यया मृत्युं तीर्त्वा विद्ययामृतमश्नुते’ (ई. उ. ११) ‘विनाशेन मृत्युं तीर्त्वा असम्भूत्यामृतमश्नुते’ (ई. उ. १४) इति श्रुत्वा केचित्संशयं कुर्वन्ति । अतस्तन्निर्धारणार्थं सङ्क्षेपतो विचारणां करिष्यामः । तत्र तावत्किंनिमित्तः संशय इति, उच्यते — विद्याशब्देन मुख्या परमात्मविद्यैव कस्मान्न गृह्यते, अमृतत्वं च ? ननूक्तायाः परमात्मविद्यायाः कर्मणश्च विरोधात्समुच्चयानुपपत्तिः । सत्यम् । विरोधस्तु नावगम्यते, विरोधाविरोधयोः शास्त्रप्रमाणकत्वात् ; यथा अविद्यानुष्ठानं विद्योपासनं च शास्त्रप्रमाणकम् , तथा तद्विरोधाविरोधावपि । यथा च ‘न हिंस्यात्सर्वा भूतानि’ इति शास्त्रादवगतं पुनः शास्त्रेणैव बाध्यते ‘अध्वरे पशुं हिंस्यात्’ इति, एवं विद्याविद्ययोरपि स्यात् ; विद्याकर्मणोश्च समुच्चयः । न ; ‘दूरमेते विपरीते विषूची अविद्या या च विद्येति ज्ञाता’ (क. उ. १ । २ । ४) इति श्रुतेः । ‘विद्यां चाविद्यां च’ इति वचनादविरोध इति चेत् , न ; हेतुस्वरूपफलविरोधात् । विद्याविद्याविरोधाविरोधयोर्विकल्पासम्भवात् समुच्चयविधानादविरोध एवेति चेत् , न ; सहसम्भवानुपपत्तेः । क्रमेणैकाश्रये स्यातां विद्याविद्ये इति चेत् , न ; विद्योत्पत्तौ तदाश्रयेऽविद्यानुपपत्तेः ; न हि अग्निरुष्णः प्रकाशश्च इति विज्ञानोत्पत्तौ यस्मिन्नाश्रये तदुत्पन्नम् , तस्मिन्नेवाश्रये शीतोऽग्निरप्रकाशो वा इत्यविद्याया उत्पत्तिः । नापि संशयः अज्ञानं वा, ‘यस्मिन्सर्वाणि भूतानि आत्मैवाभूद्विजानतः । तत्र को मोहः कः शोक एकत्वमनुपश्यतः’ (ई. उ. ७) इति शोकमोहाद्यसम्भवश्रुतेः । अविद्यासम्भवात्तदुपादानस्य कर्मणोऽप्यनुपपत्तिमवोचाम । ‘अमृतमश्नुते’ इत्यापेक्षिकममृतम् ; विद्याशब्देन परमात्मविद्याग्रहणे ‘हिरण्मयेन’ (ई. उ. १५) इत्यादिना द्वारमार्गयाचनमनुपपन्नं स्यात् । तस्मात् यथाव्याख्यात एव मन्त्राणामर्थ इत्युपरम्यते ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ ईशावास्योपनिषद्भाष्यम् सम्पूर्णम् ॥