यदि मन्यसे सु वेदेति दभ्रमेवापि नूनं त्वं वेत्थ ब्रह्मणो रूपं यदस्य त्वं यदस्य देवेष्वथ नु मीमांस्यमेव ते मन्ये विदितम् ॥ १ ॥
एवं हेयोपादेयविपरीतस्त्वमात्मा ब्रह्मेति प्रत्यायितः शिष्यः अहमेव ब्रह्मेति सुष्ठु वेदाहमिति मा गृह्णीयादित्याशयादाहाचार्यः शिष्यबुद्धिविचालनार्थम् — यदीत्यादि । नन्विष्टैव सु वेदाहम् इति निश्चिता प्रतिपत्तिः । सत्यम् , इष्टा निश्चिता प्रतिपत्तिः ; न हि सु वेदाहमिति । यद्धि वेद्यं वस्तु विषयीभवति, तत्सुष्ठु वेदितुं शक्यम् , दाह्यमिव दग्धुम् अग्नेर्दग्धुः न त्वग्नेः स्वरूपमेव । सर्वस्य हि वेदितुः स्वात्मा ब्रह्मेति सर्ववेदान्तानां सुनिश्चितोऽर्थः । इह च तदेव प्रतिपादितं प्रश्नप्रतिवचनोक्त्या
‘श्रोत्रस्य श्रोत्रम्’ (के. उ. १ । २) इत्याद्यया ।
‘यद्वाचानभ्युदितम्’ (के. उ. १ । ५) इति च विशेषतोऽवधारितम् । ब्रह्मवित्सम्प्रदायनिश्चयश्चोक्तः
‘अन्यदेव तद्विदितादथो अविदितादधि’ (के. उ. १ । ४) इति । उपन्यस्तमुपसंहरिष्यति च
‘अविज्ञातं विजानतां विज्ञातमविजानताम्’ (के. उ. २ । ३) इति । तस्माद्युक्तमेव शिष्यस्य सु वेदेति बुद्धिं निराकर्तुम् । न हि वेदिता वेदितुर्वेदितुं शक्यः, अग्निर्दग्धुरिव दग्धुमग्नेः । न चान्यो वेदिता ब्रह्मणोऽस्ति यस्य वेद्यमन्यत्स्याद्ब्रह्म ।
‘नान्यदतोऽस्ति विज्ञातृ’ (बृ. उ. ३ । ८ । ११) इत्यन्यो विज्ञाता प्रतिषिध्यते । तस्मात् सुष्ठु वेदाहं ब्रह्मेति प्रतिपत्तिर्मिथ्यैव । तस्माद्युक्तमेवाहाचार्यो यदीत्यादि । यदि कदाचित् मन्यसे सु वेदेति सुष्ठु वेदाहं ब्रह्मेति । कदाचिद्यथाश्रुतं दुर्विज्ञेयमपि क्षीणदोषः सुमेधाः कश्चित्प्रतिपद्यते कश्चिन्नेति साशङ्कमाह यदीत्यादि । दृष्टं च
‘य एषोऽक्षिणि पुरुषो दृश्यत एष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्म’ (छा. उ. ८ । ७ । ४) इत्युक्ते प्राजापत्यः पण्डितोऽप्यसुरराड्विरोचनः स्वभावदोषवशादनुपपद्यमानमपि विपरीतमर्थं शरीरमात्मेति प्रतिपन्नः । तथेन्द्रो देवराट् सकृद्द्विस्त्रिरुक्तं चाप्रतिपद्यमानः स्वभावदोषक्षयमपेक्ष्य चतुर्थे पर्याये प्रथमोक्तमेव ब्रह्म प्रतिपन्नवान् । लोकेऽपि एकस्माद्गुरोः शृण्वतां कश्चिद्यथावत्प्रतिपद्यते कश्चिदयथावत् कश्चिद्विपरीतं कश्चिन्न प्रतिपद्यते । किमु वक्तव्यमतीन्द्रियमात्मतत्त्वम् । अत्र हि विप्रतिपन्नाः सदसद्वादिनस्तार्किकाः सर्वे । तस्माद्विदितं ब्रह्मेति सुनिश्चितोक्तमपि विषमप्रतिपत्तित्वात् यदि मन्यसे इत्यादि साशङ्कं वचनं युक्तमेवाचार्यस्य । दभ्रम् अल्पमेवापि नूनं त्वं वेत्थ जानीषे ब्रह्मणो रूपम् । किमनेकानि ब्रह्मणो रूपाणि महान्त्यर्भकाणि च, येनाह दभ्रमेवेत्यादि ? बाढम् । अनेकानि हि नामरूपोपाधिकृतानि ब्रह्मणो रूपाणि, न स्वतः । स्वतस्तु
‘अशब्दमस्पर्शमरूपमव्ययं तथारसं नित्यमगन्धवच्च यत्’ (क. उ. १ । ३ । १५) इति शब्दादिभिः सह रूपाणि प्रतिषिध्यन्ते । ननु येनैव धर्मेण यद्रूप्यते तदेव तस्य स्वरूपमिति ब्रह्मणोऽपि येन विशेषेण निरूपणं तदेव तस्य स्वरूपं स्यात् । अत उच्यते — चैतन्यम् , पृथिव्यादीनामन्यतमस्य सर्वेषां विपरिणतानां वा धर्मो न भवति, तथा श्रोत्रादीनामन्तःकरणस्य च धर्मो न भवतीति ब्रह्मणो रूपमिति ब्रह्म रूप्यते चैतन्येन । तथा चोक्तम् ।
‘विज्ञानमानन्दं ब्रह्म’ (बृ. उ. ३ । ९ । ७) ‘विज्ञानघन एव’ (बृ. उ. २ । ४ । १२) ‘सत्यं ज्ञानमनन्तं ब्रह्म’ (तै. उ. २ । १ । १) ‘प्रज्ञानं ब्रह्म’ (ऐ. उ. ३ । १ । ३) इति च ब्रह्मणो रूपं निर्दिष्टं श्रुतिषु । सत्यमेवम् ; तथापि तदन्तःकरणदेहेन्द्रियोपाधिद्वारेणैव विज्ञानादिशब्दैर्निर्दिश्यते, तदनुकारित्वाद्देहादिवृद्धिसङ्कोचच्छेदादिषु नाशेषु च, न स्वतः । स्वतस्तु
‘अविज्ञातं विजानतां विज्ञातमविजानताम्’ (के. उ. २ । ३) इति स्थितं भविष्यति । ‘यदस्य ब्रह्मणो रूपम्’ इति पूर्वेण सम्बन्धः । न केवलमध्यात्मोपाधिपरिच्छिन्नस्यास्य ब्रह्मणो रूपं त्वमल्पं वेत्थ ; यदप्यधिदैवतोपाधिपरिच्छिन्नस्यास्य ब्रह्मणो रूपं देवेषु वेत्थ त्वम् , तदपि नूनं दभ्रमेव वेत्थ इति मन्येऽहम् । यदध्यात्मं यदपि देवेषु तदपि चोपाधिपरिच्छिन्नत्वाद्दभ्रत्वान्न निवर्तते । यत्तु विध्वस्तसर्वोपाधिविशेषं शान्तमनन्तमेकमद्वैतं भूमाख्यं नित्यं ब्रह्म, न तत्सुवेद्यमित्यभिप्रायः । यत एवम् अथ नु तस्मात् मन्ये अद्यापि मीमांस्यं विचार्यमेव ते तव ब्रह्म । एवमाचार्योक्तः शिष्यः एकान्ते उपविष्टः समाहितः सन् , यथोक्तमाचार्येण आगममर्थतो विचार्य, तर्कतश्च निर्धार्य, स्वानुभवं कृत्वा, आचार्यसकाशमुपगम्य, उवाच — मन्येऽहमथेदानीं विदितं ब्रह्मेति ॥