यदि मन्यसे सु वेदेति दभ्रमेवापि नूनं त्वं वेत्थ ब्रह्मणो रूपं यदस्य त्वं यदस्य देवेष्वथ नु मीमांस्यमेव ते मन्ये विदितम् ॥ १ ॥
यदि मन्यसे सु वेदेति शिष्यबुद्धिविचालना गृहीतस्थिरतायै । विदिताविदिताभ्यां निवर्त्य बुद्धिं शिष्यस्य स्वात्मन्यवस्थाप्य ‘तदेव ब्रह्म त्वं विद्धि’ इति स्वाराज्येऽभिषिच्य उपास्यप्रतिषेधेनाथास्य बुद्धिं विचालयति — यदि मन्यसे सुष्ठु वेद अहं ब्रह्मतत्त्वमिति, ततोऽल्पमेव ब्रह्मणो रूपं वेत्थ त्वमिति नूनं निश्चितं मन्यते आचार्यः । सा पुनर्विचालना किमर्थेति, उच्यते — पूर्वगृहीते वस्तुनि बुद्धेः स्थिरतायै । देवेष्वपि सु वेदाहमिति मन्यते यः सोऽप्यस्य ब्रह्मणो रूपं दभ्रमेव वेत्ति नूनम् । कस्मात् ? अविषयत्वात्कस्यचिद्ब्रह्मणः । अथवा अल्पमेवास्याध्यात्मिकं मनुष्येषु देवेषु चाधिदैविकमस्य ब्रह्मणो यद्रूपं तदिति सम्बन्धः । अथ नु इति हेतुर्मीमांसायाः । यस्माद्दभ्रमेव सुविदितं ब्रह्मणो रूपम् ‘अन्यदेव तद्विदितात्’ इत्युक्तत्वात् , सु वेदेति च मन्यसे ; अतः अल्पमेव वेत्थ त्वं ब्रह्मणो रूपं यस्मात् अथ नु तस्मात् मीमांस्यमेव अद्यापि ते तव ब्रह्म विचार्यमेव यावद्विदिताविदितप्रतिषेधागमार्थानुभव इत्यर्थः । मन्ये विदितमिति शिष्यस्य मीमांसानन्तरोक्तिः प्रत्ययत्रयसङ्गतेः । सम्यग्वस्तुनिश्चयाय विचालितः शिष्य आचार्येण मीमांस्यमेव ते इति चोक्तः एकान्ते समाहितो भूत्वा विचार्य यथोक्तं सुपरिनिश्चितः सन्नाह आगमाचार्यात्मानुभवप्रत्ययत्रयस्यैकविषयत्वेन सङ्गत्यर्थम् । एवं हि ‘सुपरिनिष्ठिता विद्या सफला स्यान्नानिश्चिता’ इति न्यायः प्रदर्शितो भवति ; मन्ये विदितमिति परिनिष्ठितनिश्चितविज्ञानप्रतिज्ञाहेतूक्तेः ॥