श्रीमच्छङ्करभगवत्पूज्यपादविरचितम्

केनोपनिषद्वाक्यभाष्यम्

करतलकलिताद्वयात्मतत्त्वं क्षपितदुरन्तचिरन्तनप्रमोहम् ।
उपचितमुदितोदितैर्गुणौघैः उपनिषदामयमुज्जहार भाष्यम् ।।

यदि मन्यसे सु वेदेति दभ्रमेवापि नूनं त्वं वेत्थ ब्रह्मणो रूपं यदस्य त्वं यदस्य देवेष्वथ नु मीमांस्यमेव ते मन्ये विदितम् ॥ १ ॥
यदि मन्यसे सु वेदेति शिष्यबुद्धिविचालना गृहीतस्थिरतायै । विदिताविदिताभ्यां निवर्त्य बुद्धिं शिष्यस्य स्वात्मन्यवस्थाप्य ‘तदेव ब्रह्म त्वं विद्धि’ इति स्वाराज्येऽभिषिच्य उपास्यप्रतिषेधेनाथास्य बुद्धिं विचालयति — यदि मन्यसे सुष्ठु वेद अहं ब्रह्मतत्त्वमिति, ततोऽल्पमेव ब्रह्मणो रूपं वेत्थ त्वमिति नूनं निश्चितं मन्यते आचार्यः । सा पुनर्विचालना किमर्थेति, उच्यते — पूर्वगृहीते वस्तुनि बुद्धेः स्थिरतायै । देवेष्वपि सु वेदाहमिति मन्यते यः सोऽप्यस्य ब्रह्मणो रूपं दभ्रमेव वेत्ति नूनम् । कस्मात् ? अविषयत्वात्कस्यचिद्ब्रह्मणः । अथवा अल्पमेवास्याध्यात्मिकं मनुष्येषु देवेषु चाधिदैविकमस्य ब्रह्मणो यद्रूपं तदिति सम्बन्धः । अथ नु इति हेतुर्मीमांसायाः । यस्माद्दभ्रमेव सुविदितं ब्रह्मणो रूपम् ‘अन्यदेव तद्विदितात्’ इत्युक्तत्वात् , सु वेदेति च मन्यसे ; अतः अल्पमेव वेत्थ त्वं ब्रह्मणो रूपं यस्मात् अथ नु तस्मात् मीमांस्यमेव अद्यापि ते तव ब्रह्म विचार्यमेव यावद्विदिताविदितप्रतिषेधागमार्थानुभव इत्यर्थः । मन्ये विदितमिति शिष्यस्य मीमांसानन्तरोक्तिः प्रत्ययत्रयसङ्गतेः । सम्यग्वस्तुनिश्चयाय विचालितः शिष्य आचार्येण मीमांस्यमेव ते इति चोक्तः एकान्ते समाहितो भूत्वा विचार्य यथोक्तं सुपरिनिश्चितः सन्नाह आगमाचार्यात्मानुभवप्रत्ययत्रयस्यैकविषयत्वेन सङ्गत्यर्थम् । एवं हि ‘सुपरिनिष्ठिता विद्या सफला स्यान्नानिश्चिता’ इति न्यायः प्रदर्शितो भवति ; मन्ये विदितमिति परिनिष्ठितनिश्चितविज्ञानप्रतिज्ञाहेतूक्तेः ॥
नाह मन्ये सु वेदेति नो न वेदेति वेद च ।
यो नस्तद्वेद तद्वेद नो न वेदेति वेद च ॥ २ ॥
परिनिष्ठितं सफलं विज्ञानं प्रतिजानीते आचार्यात्मनिश्चययोस्तुल्यतायै यस्माद्धेतुमाह — नाह मन्ये सु वेदेति । अहेत्यवधारणार्थो निपातः । नैव मन्ये इत्येतत् । यावदपरिनिष्ठितं विज्ञानं तावत् सु वेद सुष्ठु वेद अहं ब्रह्मेति विपरीतो मम निश्चय आसीत् । सोऽपजगाम भवद्भिर्विचालितस्य यथोक्तार्थमीमांसाफलभूतात्स्वात्मब्रह्मत्वनिश्चयरूपात्सम्यक्प्रत्ययात् । विरुद्धत्वादतो नाह मन्ये सु वेदेति । यस्माच्चैतत् नैव न वेद नो न वेदेति ; मन्ये इत्यनुवर्तते, अविदितब्रह्मप्रतिषेधात् । कथं तर्हि मन्यसे इत्युक्त आह — वेद च । च—शब्दाद्वेद च न वेद च इत्यभिप्रायः, विदिताविदिताभ्यामन्यत्वाद्ब्रह्मणः । तस्मान्मया विदितं ब्रह्मेति मन्ये इति वाक्यार्थः । अथवा वेद चेति नित्यविज्ञानब्रह्मस्वरूपतया नो न वेद वेदैव चाहं स्वरूपविक्रियाभावात् । विशेषविज्ञानं च पराध्यस्तं न स्वत इति परमार्थतो न च वेदेति । यो नस्तद्वेद तद्वेदेति पक्षान्तरनिरासार्थमाम्नाय उक्तार्थानुवादात् । यः नः अस्माकं मध्ये तद्वेद स एव तद्ब्रह्म वेद नान्यः, उपास्यब्रह्मवित्त्वात् । अतोऽन्यस्य यथाहं वेदेति पक्षान्तरे ब्रह्मवित्त्वं निरस्यते । कुतोऽयमर्थोऽवसीयत इति, उच्यते — उक्तानुवादात् । उक्तं ह्यनुवदति नो न वेदेति वेद चेति ॥
यस्यामतं तस्य मतं मतं यस्य न वेद सः ।
अविज्ञातं विजानतां विज्ञातमविजानताम् ॥ ३ ॥
यस्यामतमिति श्रौतमाख्यायिकार्थोपसंहारार्थम् । शिष्याचार्योक्तिप्रत्युक्तिलक्षणया अनुभवयुक्तिप्रधानया आख्यायिकया योऽर्थः सिद्धः स श्रौतेन वचनेनागमप्रधानेन निगमनस्थानीयेन सङ्क्षेपत उच्यते । यदुक्तं विदिताविदिताभ्यामन्यद्वागादीनामगोचरत्वात् मीमांसितं चानुभवोपपत्तिभ्यां ब्रह्म, तत्तथैव ज्ञातव्यम् । कस्मात् ? यस्यामतं यस्य विविदिषाप्रयुक्तप्रवृत्तस्य साधकस्य अमतम् अविज्ञातम् अविदितं ब्रह्म इत्यात्मतत्त्वनिश्चयफलावसानावबोधतया विविदिषा निवृत्तेत्यभिप्रायः, तस्य मतं ज्ञातम् ; तेन विदितं ब्रह्म येनाविषयत्वेन आत्मत्वेन प्रतिबुद्धमित्यर्थः । स सम्यग्दर्शी यस्य विज्ञानानन्तरमेव ब्रह्मात्मभावस्यावसितत्वात् सर्वतः कार्यभावो विपर्ययेण मिथ्याज्ञानो भवति । कथम् ? मतं विदितं ज्ञातं मया ब्रह्म इति यस्य विज्ञानम् , स मिथ्यादर्शी विपरीतविज्ञानो विदितादन्यत्वाद्ब्रह्मणो न वेद सः न विजानाति । ततश्च सिद्धमवैदिकस्य विज्ञानस्य मिथ्यात्वम् , अब्रह्मविषयतया निन्दितत्वात् । तथा कपिलकणभुगादिसमयस्यापि विदितब्रह्मविषयत्वात् अनवस्थिततर्कजन्यत्वाविदितविषयतया विविदिषानिवृत्तेश्च मिथ्यात्वमिति । स्मृतेश्च — ‘या वेदबाह्याः स्मृतयो याश्च काश्च कुदृष्टयः । सर्वास्ता निष्फलाः प्रोक्तास्तमोनिष्ठा हि ताः स्मृताः’ (मनु. १२ । ९५) इति । ‘अविज्ञातं विजानतां विज्ञातमविजानताम्’ इति पूर्वहेतूक्तिः अनुवादस्यानर्थक्यात् — अनुवादमात्रेऽनर्थकं वचनमिति विपर्ययमिथ्याज्ञानयोर्नष्टत्वात् पूर्वोक्तयोः यस्यामतमित्यादिज्ञानाज्ञानयोर्हेत्वर्थत्वेनेदमुच्यते — अविज्ञातम् अविदितमात्मत्वेनाविषयतया ब्रह्म विजानतां यस्मात् , तस्मात्तदेव ज्ञानं यत्तेषां विज्ञातं विदितं व्यक्तमेव बुद्ध्यादिविषयं ब्रह्म अविजानतां विदिताविदितव्यावृत्तमात्मभूतं नित्यविज्ञानस्वरूपमात्मस्थमविक्रियममृतमजरमभयमनन्यत्वादविषयमित्येवमविजानतां बुद्ध्यादिविषयात्मतयैव नित्यं विज्ञातं ब्रह्म । तस्माद्विदिताविदितव्यक्ताव्यक्तधर्माध्यारोपेण कार्यकारणभावेन सविकल्पमयथार्थविषयत्वात् । शुक्तिकादौ रजताद्यध्यारोपणज्ञानवन्मिथ्याज्ञानं तेषाम् ॥
प्रतिबोधविदितं मतममृतत्वं हि विन्दते ।
आत्मना विन्दते वीर्यं विद्यया विन्दतेऽमृतम् ॥ ४ ॥
प्रतिबोधविदितमिति वीप्साप्रत्ययानामात्मावबोधद्वारत्वात् बोधं प्रति बोधं प्रतीति वीप्सा सर्वप्रत्ययव्याप्त्यर्था । बौद्धा हि सर्वे प्रत्ययास्तप्तलोहवन्नित्यविज्ञानस्वरूपात्मव्याप्तत्वाद्विज्ञानस्वरूपावभासाः तदन्यावभासश्चात्मा तद्विलक्षणोऽग्निवदुपलभ्यत इति ते द्वारीभवन्त्यात्मोपलब्धौ । तस्मात्प्रतिबोधावभासप्रत्यगात्मतया यद्विदितं तद्ब्रह्म, तदेव मतं तदेव सम्यग्ज्ञानं यत्प्रत्यगात्मविज्ञानम् , न विषयविज्ञानम् । आत्मत्वेन ‘प्रत्यगात्मानमैक्षत्’ (क. उ. २ । १ । १) इति च काठके । अमृतत्वं हि विन्दते इति हेतुवचनं विपर्यये मृत्युप्राप्तेः । विषयात्मविज्ञाने हि मृत्युः प्रारभते इत्यात्मविज्ञानममृतत्वनिमित्तमिति युक्तं हेतुवचनममृतत्वं हि विन्दते इति । आत्मज्ञानेन किममृतत्वमुत्पाद्यते । न । कथं तर्हि ? आत्मना विन्दते स्वेनैव नित्यात्मस्वभावेनामृतत्वं विन्दते, नालम्बनपूर्वकं विन्दत इति आत्मज्ञानापेक्षम् । यदि हि विद्योत्पाद्यममृतत्वं स्यात् , अनित्यं भवेत्कर्मकार्यवत् । अतो न विद्योत्पाद्यम् ।
यदि चात्मनैवामृतत्वं विन्दते, किं पुनर्विद्यया क्रियत इत्युच्यते । अनात्मविज्ञानं निवर्तयन्ती सा तन्निवृत्त्या स्वाभाविकस्यामृतत्वस्य निमित्तमिति कल्प्यते ; यत आह — वीर्यं विद्यया विन्दते । वीर्यं सामर्थ्यम् अनात्माध्यारोपमायास्वान्तध्वान्तानभिभाव्यलक्षणं बलं विद्यया विन्दते । तच्च किंविशिष्टम् ? अमृतम् अविनाशि । अविद्याजं हि वीर्यं विनाशि, विद्ययाविद्याया बाध्यत्वात् । न तु विद्याया बाधकोऽस्तीति विद्याजममृतं वीर्यम् । अतो विद्या अमृतत्वे निमित्तमात्रं भवति । ‘नायमात्मा बलहीनेन लभ्यः’ (मु. उ. ३ । २ । ४) इति चाथर्वणे । लोकेऽपि विद्याजमेव बलमभिभवति न शरीरादिसामर्थ्यम् , यथा हस्त्यादेः । अथवा प्रतिबोधविदितं मतमिति सकृदेवाशेषविपरीतनिरस्तसंस्कारेण स्वप्नप्रतिबोधवद्यद्विदितं तदेव मतं ज्ञातं भवतीति । अथवा गुरूपदेशः प्रतिबोधः । तेन वा विदितं मतमिति । उभयत्र प्रतिबोधशब्दप्रयोगोऽस्ति — ‘सुप्तप्रतिबुद्धः’ ‘गुरुणा प्रतिबोधितः’ इति । पूर्वं तु यथार्थम् ॥
इह चेदवेदीदथ सत्यमस्ति न चेदिहावेदीन्महती विनष्टिः ।
भूतेषु भूतेषु विचित्य धीराः प्रेत्यास्माल्लोकादमृता भवन्ति ॥ ५ ॥
इह चेदवेदीदिति अवश्यकर्तव्यतोक्तिः विपर्यये विनाशश्रुतेः । इह मनुष्यजन्मनि सति अवश्यमात्मा वेदितव्य इत्येतद्विधीयते । कथम् ? इह चेत् अवेदीत् विदितवान् , अथ सत्यं परमार्थतत्त्वम् अस्ति अवाप्तम् ; तस्य जन्म सफलमित्यभिप्रायः । न चेदिहावेदीत् न विदितवान् , वृथैव जन्म । अपि च महती विनष्टिः महान्विनाशो जन्ममरणप्रबन्धाविच्छेदप्राप्तिलक्षणः स्याद्यतः, तस्मादवश्यं तद्विच्छेदाय ज्ञेय आत्मा । ज्ञानेन तु किं स्यादिति, उच्यते — भूतेषु भूतेषु चराचरेषु सर्वेष्वित्यर्थः । विचित्य विचार्य पृथङ्निष्कृष्यैकमात्मतत्त्वं संसारधर्मैरस्पृष्टमात्मभावेनोपलभ्येत्यर्थः, अनेकार्थत्वाद्धातूनाम् । न पुनश्चित्वेति सम्भवति, विरोधात् । धीराः धीमन्तः विवेकिनः विनिवृत्तबाह्यविषयाभिलाषाः, प्रेत्य मृत्वा अस्मात् लोकात् शरीराद्यनात्मलक्षणात् व्यावृत्तममत्वाहङ्काराः सन्त इत्यर्थः, अमृताः अमरणधर्माणो नित्यविज्ञानामृतत्वस्वभावा एव भवन्ति ॥
इति द्वितीयखण्डभाष्यम् ॥