श्रीमच्छङ्करभगवत्पूज्यपादविरचितम्

माण्डूक्योपनिषद्भाष्यम्

गौडपादीयकारिकाभाष्यं च

करतलकलिताद्वयात्मतत्त्वं क्षपितदुरन्तचिरन्तनप्रमोहम् ।
उपचितमुदितोदितैर्गुणौघैः उपनिषदामयमुज्जहार भाष्यम् ।।

change script to

वैतथ्यं सर्वभावानां स्वप्न आहुर्मनीषिणः ।
अन्तःस्थानात्तु भावानां संवृतत्वेन हेतुना ॥ १ ॥
‘ज्ञाते द्वैतं न विद्यते’ इत्युक्तम् ‘एकमेवाद्वितीयम्’ (छा. उ. ६ । २ । १) इत्यादिश्रुतिभ्यः । आगममात्रं तत् । तत्र उपपत्त्यापि द्वैतस्य वैतथ्यं शक्यतेऽवधारयितुमिति द्वितीयं प्रकरणमारभ्यते — वैतथ्यमित्यादिना । वितथस्य भावो वैतथ्यम् ; असत्यत्वमित्यर्थः । कस्य ? सर्वेषां बाह्याध्यात्मिकानां भावानां पदार्थानां स्वप्ने उपलभ्यमानानाम् , आहुः कथयन्ति मनीषिणः प्रमाणकुशलाः । वैतथ्ये हेतुमाह — अन्तःस्थानात् , अन्तः शरीरस्य मध्ये स्थानं येषाम् ; तत्र हि भावा उपलभ्यन्ते पर्वतहस्त्यादयः, न बहिः शरीरात् ; तस्मात् ते वितथा भवितुमर्हन्ति । ननु अपवरकाद्यन्तरुपलभ्यमानैर्घटादिभिरनैकान्तिको हेतुरित्याशङ्क्याह — संवृतत्वेन हेतुनेति । अन्तः संवृतस्थानादित्यर्थः । न ह्यन्तः संवृते देहान्तर्नाडीषु पर्वतहस्त्यादीनां सम्भवोऽस्ति ; न हि देहे पर्वतोऽस्ति ॥
अदीर्घत्वाच्च कालस्य गत्वा देहान्न पश्यति ।
प्रतिबुद्धश्च वै सर्वस्तस्मिन्देशे न विद्यते ॥ २ ॥
स्वप्नदृश्यानां भावानामन्तः संवृतस्थानमित्येतदसिद्धम् , यस्मात्प्राच्येषु सुप्त उदक्षु स्वप्नान्पश्यन्निव दृश्यत इत्येतदाशङ्क्याह — न देहाद्बहिर्देशान्तरं गत्वा स्वप्नान्पश्यति ; यस्मात्सुप्तमात्र एव देहदेशाद्योजनशतान्तरिते मासमात्रप्राप्ये देशे स्वप्नान्पश्यन्निव दृश्यते ; न च तद्देशप्राप्तेरागमनस्य च दीर्घः कालोऽस्ति ; अतः अदीर्घत्वाच्च कालस्य न स्वप्नदृग्देशान्तरं गच्छति । किञ्च, प्रतिबुद्धश्च वै सर्वः स्वप्नदृक् स्वप्नदर्शनदेशे न विद्यते । यदि च स्वप्ने देशान्तरं गच्छेत् , यस्मिन्देशे स्वप्नान्पश्येत् , तत्रैव प्रतिबुध्येत । न चैतदस्ति । रात्रौ सुप्तः अहनीव भावान्पश्यति ; बहुभिः सङ्गतो भवति ; यैश्च सङ्गतः स तैर्गृह्येत, न च गृह्यते ; गृहीतश्चेत्त्वामद्य तत्रोपलब्धवन्तो वयमिति ब्रूयुः ; न चैतदस्ति । तस्मान्न देशान्तरं गच्छति स्वप्ने ॥
अभावश्च रथादीनां श्रूयते न्यायपूर्वकम् ।
वैतथ्यं तेन वै प्राप्तं स्वप्न आहुः प्रकाशितम् ॥ ३ ॥
इतश्च स्वप्नदृश्या भावा वितथाः, यतः अभावश्च रथादीनां स्वप्नदृश्यानां श्रूयते, न्यायपूर्वकं युक्तितः श्रुतौ ‘न तत्र रथाः’ (बृ. उ. ४ । ३ । १०) इत्यत्र । तेन अन्तःस्थानसंवृतत्वादिहेतुना प्राप्तं वैतथ्यं तदनुवादिन्या श्रुत्या स्वप्ने स्वयञ्ज्योतिष्ट्वप्रतिपादनपरया प्रकाशितमाहुः ब्रह्मविदः ॥
अन्तःस्थानात्तु भेदानां तस्माज्जागरिते स्मृतम् ।
यथा तत्र तथा स्वप्ने संवृतत्वेन भिद्यते ॥ ४ ॥
जाग्रद्दृश्यानां भावानां वैतथ्यमिति प्रतिज्ञा । दृश्यत्वादिति हेतुः । स्वप्नदृश्यभाववदिति दृष्टान्तः । यथा तत्र स्वप्ने दृश्यानां भावानां वैतथ्यम् , तथा जागरितेऽपि दृश्यत्वमविशिष्टमिति हेतूपनयः । तस्माज्जागरितेऽपि वैतथ्यं स्मृतमिति निगमनम् । अन्तःस्थानात्संवृतत्वेन च स्वप्नदृश्यानां भावानां जाग्रद्दृश्येभ्यो भेदः । दृश्यत्वमसत्यत्वं चाविशिष्टमुभयत्र ॥
स्वप्नजागरिते स्थाने ह्येकमाहुर्मनीषिणः ।
भेदानां हि समत्वेन प्रसिद्धेनैव हेतुना ॥ ५ ॥
प्रसिद्धेनैव भेदानां ग्राह्यत्वेन हेतुना समत्वेन स्वप्नजागरितस्थानयोरेकत्वमाहुर्विवेकिन इति पूर्वप्रमाणसिद्धस्यैव फलम् ॥
आदावन्ते च यन्नास्ति वर्तमानेऽपि तत्तथा ।
वितथैः सदृशाः सन्तोऽवितथा इव लक्षिताः ॥ ६ ॥
इतश्च वैतथ्यं जाग्रद्दृश्यानां भेदानाम् आद्यन्तयोरभावात् , यदादावन्ते च नास्ति वस्तु मृगतृष्णिकादि, तन्मध्येऽपि नास्तीति निश्चितं लोके ; तथेमे जाग्रद्दृश्या भेदाः आद्यन्तयोरभावात् वितथैरेव मृगतृष्णिकादिभिः सदृशत्वाद्वितथा एव ; तथापि अवितथा इव लक्षिता मूढैरनात्मविद्भिः ॥
सप्रयोजनता तेषां स्वप्ने विप्रतिपद्यते ।
तस्मादाद्यन्तवत्त्वेन मिथ्यैव खलु ते स्मृताः ॥ ७ ॥
स्वप्नदृश्यवज्जागरितदृश्यानामप्यसत्त्वमिति यदुक्तम् तदयुक्तम् ; यस्माज्जाग्रद्दृश्या अन्नपानवाहनादयः क्षुत्पिपासादिनिवृत्तिं कुर्वन्तो गमनागमनादि कार्यं च सप्रयोजना दृष्टाः । न तु स्वप्नदृश्यानां तदस्ति । तस्मात्स्वप्नदृश्यवज्जाग्रद्दृश्यानामसत्त्वं मनोरथमात्रमिति । तन्न । कस्मात् ? यस्माद्या सप्रयोजनता दृष्टा अन्नपानादीनाम् , सा स्वप्ने विप्रतिपद्यते । जागरिते हि भुक्त्वा पीत्वा च तृप्तो विनिवर्तिततृट् सुप्तमात्र एव क्षुत्पिपासाद्यार्तमहोरात्रोपोषितमभुक्तवन्तमात्मानं मन्यते, यथा स्वप्ने भुक्त्वा पीत्वा च अतृप्तोत्थितः, तथा । तस्माज्जाग्रद्दृश्यानां स्वप्ने विप्रतिपत्तिर्दृष्टा । अतो मन्यामहे तेषामप्यसत्त्वं स्वप्नदृश्यवदनाशङ्कनीयमिति । तस्मादाद्यन्तवत्त्वमुभयत्र समानमिति मिथ्यैव खलु ते स्मृताः ॥
अपूर्वं स्थानिधर्मो हि यथा स्वर्गनिवासिनाम् ।
तानयं प्रेक्षते गत्वा यथैवेह सुशिक्षितः ॥ ८ ॥
स्वप्नजाग्रद्भेदयोः समत्वाज्जाग्रद्भेदानामसत्त्वमिति यदुक्तम् , तदसत् । कस्मात् ? दृष्टान्तस्यासिद्धत्वात् । कथम् ? न हि जाग्रद्दृश्या ये, ते भेदाः स्वप्ने दृश्यन्ते । किं तर्हि ? अपूर्वं स्वप्ने पश्यति चतुर्दन्तं गजमारूढोऽष्टभुजमात्मानम् । अन्यदप्येवंप्रकारमपूर्वं पश्यति स्वप्ने । तन्नान्येनासता सममिति सदेव । अतो दृष्टान्तोऽसिद्धः । तस्मात्स्वप्नवज्जागरितस्यासत्त्वमित्ययुक्तम् । तन्न । स्वप्ने दृष्टमपूर्वं यन्मन्यसे, न तत्स्वतः सिद्धम् । किं तर्हि ? अपूर्वं स्थानिधर्मो हि, स्थानिनो द्रष्टुरेव हि स्वप्नस्थानवतो धर्मः ; यथा स्वर्गनिवासिनामिन्द्रादीनां सहस्राक्षत्वादि, तथा स्वप्नदृशोऽपूर्वोऽयं धर्मः, न स्वतःसिद्धो द्रष्टुः स्वरूपवत् । तान् एवंप्रकारानपूर्वान्स्वचित्तविकल्पान् अयं स्थानी यः स्वप्नदृक्स्वप्नस्थानं गत्वा प्रेक्षते । यथैव इह लोके सुशिक्षितदेशान्तरमार्गस्तेन मार्गेण देशान्तरं गत्वा पदार्थान्पश्यति, तद्वत् । तस्माद्यथा स्थानिधर्माणां रज्जुसर्पमृगतृष्णिकादीनामसत्त्वम् , तथा स्वप्नदृश्यानामप्यपूर्वाणां स्थानिधर्मत्वमेवेत्यसत्त्वम् ; अतो न स्वप्नदृष्टान्तस्यासिद्धत्वम् ॥
स्वप्नवृत्तावपि त्वन्तश्चेतसा कल्पितं त्वसत् ।
बहिश्चेतो गृहीतं सद्दृष्टं वैतथ्यमेतयोः ॥ ९ ॥
अपूर्वत्वाशङ्कां निराकृत्य स्वप्नदृष्टान्तस्य पुनः स्वप्नतुल्यतां जाग्रद्भेदानां प्रपञ्चयन्नाह — स्वप्नवृत्तावपि स्वप्नस्थानेऽपि अन्तश्चेतसा मनोरथसङ्कल्पितमसत् ; सङ्कल्पानन्तरसमकालमेवादर्शनात् । तत्रैव स्वप्ने बहिश्चेतसा गृहीतं चक्षुरादिद्वारेणोपलब्धं घटादि सदित्येवमसत्यमिति निश्चितेऽपि सदसद्विभागो दृष्टः । उभयोरप्यन्तर्बहिश्चेतः कल्पितयोर्वैतथ्यमेव दृष्टम् ॥
जाग्रद्वृत्तावपि त्वन्तश्चेतसा कल्पितं त्वसत् ।
बहिश्चेतोगृहीतं सद्युक्तं वैतथ्यमेतयोः ॥ १० ॥
सदसतोर्वैतथ्यं युक्तम् , अन्तर्बहिश्चेतःकल्पितत्वाविशेषादिति । व्याख्यातमन्यत् ॥
उभयोरपि वैतथ्यं भेदानां स्थानयोर्यदि ।
क एतान्बुध्यते भेदान्को वै तेषां विकल्पकः ॥ ११ ॥
चोदक आह — स्वप्नजाग्रत्स्थानयोर्भेदानां यदि वैतथ्यम् , क एतानन्तर्बहिश्चेतःकल्पितान्बुध्यते । को वै तेषां विकल्पकः ; स्मृतिज्ञानयोः क आलम्बनमित्यभिप्रायः ; न चेन्निरात्मवाद इष्टः ॥
कल्पयत्यात्मनात्मानमात्मा देवः स्वमायया ।
स एव बुध्यते भेदानिति वेदान्तनिश्चयः ॥ १२ ॥
स्वयं स्वमायया स्वमात्मानमात्मा देवः आत्मन्येव वक्ष्यमाणं भेदाकारं कल्पयति रज्ज्वादाविव सर्पादीन् , स्वयमेव च तान्बुध्यते भेदान् , तद्वदेवेत्येवं वेदान्तनिश्चयः । नान्योऽस्ति ज्ञानस्मृत्याश्रयः । न च निरास्पदे एव ज्ञानस्मृती वैनाशिकानामिवेत्यभिप्रायः ॥
विकरोत्यपरान्भावानन्तश्चित्ते व्यवस्थितान् ।
नियतांश्च बहिश्चित्त एवं कल्पयते प्रभुः ॥ १३ ॥
सङ्कल्पयन्केन प्रकारेण कल्पयतीत्युच्यते — विकरोति नाना करोति अपरान् लौकिकान् भावान् पदार्थाञ्शब्दादीनन्यांश्च अन्तश्चित्ते वासनारूपेण व्यवस्थितानव्याकृतान् नियतांश्च पृथिव्यादीननियतांश्च कल्पनाकालान् बहिश्चित्तः सन् , तथा अन्तश्चित्तो मनोरथादिलक्षणानित्येवं कल्पयति, प्रभुः ईश्वरः, आत्मेत्यर्थः ॥
चित्तकाला हि येऽन्तस्तु द्वयकालाश्च ये बहिः ।
कल्पिता एव ते सर्वे विशेषो नान्यहेतुकः ॥ १४ ॥
स्वप्नवच्चित्तपरिकल्पितं सर्वमित्येतदाशङ्क्यते — यस्माच्चित्तपरिकल्पितैर्मनोरथादिलक्षणैश्चित्तपरिच्छेद्यैर्वैलक्षण्यं बाह्यानामन्योन्यपरिच्छेद्यत्वमिति, सा न युक्ताशङ्का । चित्तकाला हि येऽन्तस्तु चित्तपरिच्छेद्याः, नान्यश्चित्तकालव्यतिरेकेण परिच्छेदकः कालो येषाम् , ते चित्तकालाः ; कल्पनाकाल एवोपलभ्यन्त इत्यर्थः । द्वयकालाश्च भेदकाला अन्योन्यपरिच्छेद्याः, यथा आगोदोहनमास्ते ; यावदास्ते तावद्गां दोग्धि ; यावद्गां दोग्धि तावदास्ते, तावानयमेतावान्स इति परस्परपरिच्छेद्यपरिच्छेदकत्वं बाह्यानां भेदानाम् , ते द्वयकालाः । अन्तश्चित्तकाला बाह्याश्च द्वयकालाः कल्पिता एव ते सर्वे । न बाह्यो द्वयकालत्वविशेषः कल्पितत्वव्यतिरेकेणान्यहेतुकः । अत्रापि हि स्वप्नदृष्टान्तो भवत्येव ॥
अव्यक्ता एव येऽन्तस्तु स्फुटा एव च ये बहिः ।
कल्पिता एव ते सर्वे विशेषस्त्विन्द्रियान्तरे ॥ १५ ॥
यदपि अन्तरव्यक्तत्वं भावानां मनोवासनामात्राभिव्यक्तानां स्फुटत्वं वा बहिश्चक्षुरादीन्द्रियान्तरे विशेषः, नासौ भेदानामस्तित्वकृतः, स्वप्नेऽपि तथा दर्शनात् । किं तर्हि ? इन्द्रियान्तरकृत एव । अतः कल्पिता एव जाग्रद्भावा अपि स्वप्नभाववदिति सिद्धम् ॥
जीवं कल्पयते पूर्वं ततो भावान्पृथग्विधान् ।
बाह्यानाध्यात्मिकांश्चैव यथाविद्यस्तथास्मृतिः ॥ १६ ॥
बाह्याध्यात्मिकानां भावानामितरेतरनिमित्तनैमित्तिकतया कल्पनायाः किं मूलमित्युच्यते — जीवं हेतुफलात्मकम् ‘अहं करोमि, मम सुखदुःखे’ इत्येवंलक्षणम् । अनेवंलक्षण एव शुद्ध आत्मनि रज्ज्वामिव सर्पं कल्पयते पूर्वम् । ततस्तादर्थ्येन क्रियाकारकफलभेदेन प्राणादीन्नानाविधान्भावान्बाह्यानाध्यात्मिकांश्चैव कल्पयते । तत्र कल्पनायां को हेतुरित्युच्यते — योऽसौ स्वयं कल्पितो जीवः सर्वकल्पनायामधिकृतः, सः यथाविद्यः यादृशी विद्या विज्ञानमस्येति यथाविद्यः, तथाविधैव स्मृतिस्तस्येति तथास्मृतिर्भवति स इति । अतो हेतुकल्पनाविज्ञानात्फलविज्ञानम् , ततो हेतुफलस्मृतिः, ततस्तद्विज्ञानम् , ततः तदर्थक्रियाकारकतत्फलभेदविज्ञानानि, तेभ्यस्तत्स्मृतिः, तत्स्मृतेश्च पुनस्तद्विज्ञानानि इत्येवं बाह्यानाध्यात्मिकांश्च इतरेतरनिमित्तनैमित्तिकभावेनानेकधा कल्पयते ॥
अनिश्चिता यथा रज्जुरन्धकारे विकल्पिता ।
सर्पधारादिभिर्भावैस्तद्वदात्मा विकल्पितः ॥ १७ ॥
तत्र जीवकल्पना सर्वकल्पनामूलमित्युक्तम् ; सैव जीवकल्पना किंनिमित्तेति दृष्टान्तेन प्रतिपादयति — यथा लोके स्वेन रूपेण अनिश्चिता अनवधारिता एवमेवेति रज्जुः मन्दान्धकारे किं सर्प उदकधारा दण्ड इति वा अनेकधा विकल्पिता भवति पूर्वं स्वरूपानिश्चयनिमित्तम् । यदि हि पूर्वमेव रज्जुः स्वरूपेण निश्चिता स्यात् , न सर्पादिविकल्पोऽभविष्यत् , यथा स्वहस्ताङ्गुल्यादिषु ; एष दृष्टान्तः । तद्वद्धेतुफलादिसंसारधर्मानर्थविलक्षणतया स्वेन विशुद्धविज्ञप्तिमात्रसत्ताद्वयरूपेणानिश्चितत्वाज्जीवप्राणाद्यनन्तभावभेदैरात्मा विकल्पित इत्येष सर्वोपनिषदां सिद्धान्तः ॥
निश्चितायां यथा रज्ज्वां विकल्पो विनिवर्तते ।
रज्जुरेवेति चाद्वैतं तद्वदात्मविनिश्चयः ॥ १८ ॥
रज्जुरेवेति निश्चये सर्पादिविकल्पनिवृत्तौ रज्जुरेवेति चाद्वैतं यथा, तथा नेति नेतीति सर्वसंसारधर्मशून्यप्रतिपादकशास्त्रजनितविज्ञानसूर्यालोककृतात्मविनिश्चयः ‘आत्मैवेदं सर्वमपूर्वोऽनपरोऽनन्तरोऽबाह्यः सबाह्याभ्यन्तरो ह्यजोऽजरोऽमृतोऽभय एक एवाद्वयः’ इति ॥
प्राणादिभिरनन्तैस्तु भावैरेतैर्विकल्पितः ।
मायैषा तस्य देवस्य ययायं मोहितः स्वयम् ॥ १९ ॥
यदि आत्मैक एवेति निश्चयः, कथं प्राणादिभिरनन्तैर्भावैरेतैः संसारलक्षणैर्विकल्पित इति ? उच्यते शृणु — मायैषा तस्यात्मनो देवस्य । यथा मायाविना विहिता माया गगनमतिविमलं कुसुमितैः सपलाशैस्तरुभिराकीर्णमिव करोति, तथा इयमपि देवस्य माया, यया अयं स्वयमपि मोहित इव मोहितो भवति । ‘मम माया दुरत्यया’ (भ. गी. ७ । १४) इत्युक्तम् ॥
प्राण इति प्राणविदो भूतानीति च तद्विदः ।
गुणा इति गुणविदस्तत्त्वानीति च तद्विदः ॥ २० ॥
पादा इति पादविदो विषया इति तद्विदः ।
लोका इति लोकविदो देवा इति च तद्विदः ॥ २१ ॥
वेदा इति वेदविदो यज्ञा इति च तद्विदः ।
भोक्तेति च भोक्तृविदो भोज्यमिति च तद्विदः ॥ २२ ॥
सूक्ष्म इति सूक्ष्मविदः स्थूल इति च तद्विदः ।
मूर्त इति मूर्तविदोऽमूर्त इति च तद्विदः ॥ २३ ॥
काल इति कालविदो दिश इति च तद्विदः ।
वादा इति वादविदो भुवनानीति तद्विदः ॥ २४ ॥
मन इति मनोविदो बुद्धिरिति च तद्विदः ।
चित्तमिति चित्तविदो धर्माधर्मौ च तद्विदः ॥ २५ ॥
पञ्चविंशक इत्येके षड्विंश इति चापरे ।
एकत्रिंशक इत्याहुरनन्त इति चापरे ॥ २६ ॥
लोकांल्लोकविदः प्राहुराश्रमा इति तद्विदः ।
स्त्रीपुंनपुंसकं लैङ्गाः परापरमथापरे ॥ २७ ॥
सृष्टिरिति सृष्टिविदो लय इति च तद्विदः ।
स्थितिरिति स्थितिविदः सर्वे चेह तु सर्वदा ॥ २८ ॥
प्राणः प्राज्ञो बीजात्मा, तत्कार्यभेदा हीतरे स्थित्यन्ताः । अन्ये च सर्वे लौकिकाः सर्वप्राणिपरिकल्पिता भेदा रज्ज्वामिव सर्पादयः । तच्छून्ये आत्मन्यात्मस्वरूपानिश्चयहेतोरविद्यया कल्पिता इति पिण्डितोऽर्थः । प्राणादिश्लोकानां प्रत्येकं पदार्थव्याख्याने फल्गुप्रयोजनत्वात्सिद्धपदार्थत्वाच्च यत्नो न कृतः ॥
यं भावं दर्शयेद्यस्य तं भावं स तु पश्यति ।
तं चावति स भूत्वासौ तद्ग्रहः समुपैति तम् ॥ २९ ॥
किं बहुना ? प्राणादीनामन्यतममुक्तमनुक्तं वा अन्यं यं भावं पदार्थं दर्शयेद्यस्याचार्योऽन्यो वा आप्तः इदमेव तत्त्वमिति, स तं भावमात्मभूतं पश्यत्ययमहमिति वा ममेति वा, तं च द्रष्टारं स भावोऽवति, यो दर्शितो भावः, असौ स भूत्वा रक्षति ; स्वेनात्मना सर्वतो निरुणद्धि । तस्मिन्ग्रहस्तद्ग्रहस्तदभिनिवेशः इदमेव तत्त्वमिति स तं ग्रहीतारमुपैति, तस्यात्मभावं निगच्छतीत्यर्थः ॥
एतैरेषोऽपृथग्भावैः पृथगेवेति लक्षितः ।
एवं यो वेद तत्त्वेन कल्पयेत्सोऽविशङ्कितः ॥ ३० ॥
एतैः प्राणादिभिः आत्मनोऽपृथग्भूतैरपृथग्भावैः एषः आत्मा रज्जुरिव सर्पादिविकल्पनारूपैः पृथगेवेति लक्षितः अभिलक्षितः निश्चितः मूढैरित्यर्थः । विवेकिनां तु रज्ज्वामिव कल्पिताः सर्पादयो नात्मव्यतिरेकेण प्राणादयः सन्तीत्यभिप्रायः ; ‘इदं सर्वं यदयमात्मा’ (बृ. उ. २ । ४ । ६) इति श्रुतेः । एवमात्मव्यतिरेकेणासत्त्वं रज्जुसर्पवदात्मनि कल्पितानामात्मानं च केवलं निर्विकल्पं यो वेद तत्त्वेन श्रुतितो युक्तितश्च, सः अविशङ्कितो वेदार्थं विभागतः कल्पयेत् कल्पयतीत्यर्थः — इदमेवंपरं वाक्यम् अदोऽन्यपरम् इति । न ह्यनध्यात्मविद्वेदान्ज्ञातुं शक्नोति तत्त्वतः, ‘न ह्यनध्यात्मवित्कश्चित्क्रियाफलमुपाश्नुते’ (मनु. ६ । ८२) इति हि मानवं वचनम् ॥
स्वप्नमाये यथा दृष्टे गन्धर्वनगरं यथा ।
तथा विश्वमिदं दृष्टं वेदान्तेषु विचक्षणैः ॥ ३१ ॥
यदेतद्द्वैतस्यासत्त्वमुक्तं युक्तितः, तदेतद्वेदान्तप्रमाणावगतमित्याह — स्वप्नश्च माया च स्वप्नमाये असद्वस्त्वात्मिके सत्यौ सद्वस्त्वात्मिके इव लक्ष्येते अविवेकिभिः । यथा च प्रसारितपण्यापणगृहप्रासादस्त्रीपुञ्जनपदव्यवहाराकीर्णमिव गन्धर्वनगरं दृश्यमानमेव सत् अकस्मादभावतां गतं दृष्टम् , यथा च स्वप्नमाये दृष्टे असद्रूपे, तथा विश्वमिदं द्वैतं समस्तमसद्दृष्टम् । क्वेत्याह — वेदान्तेषु, ‘नेह नानास्ति किञ्चन’ (क. उ. २ । १ । ११) ‘इन्द्रो मायाभिः’ (बृ. उ. २ । ५ । १९) ‘आत्मैवेदमग्र आसीत्’ (बृ. उ. १ । ४ । १) ‘ब्रह्मैवेदमग्र आसीत्’ (बृ. उ. १ । ४ । १०) ‘द्वितीयाद्वै भयं भवति’ (बृ. उ. १ । ४ । २) ‘न तु तद्द्वितीयमस्ति’ (बृ. उ. ४ । ३ । २३) ‘यत्र त्वस्य सर्वमात्मैवाभूत्’ (बृ. उ. ४ । ५ । १५) इत्यादिषु विचक्षणैः निपुणतरवस्तुदर्शिभिः पण्डितैरित्यर्थः ; ‘तमः श्वभ्रनिभं दृष्टं वर्षबुद्बुदसंनिभम् । नाशप्रायं सुखाद्धीनं नाशोत्तरमभावगम्’ (मो. ध. ३०१ । ६०) इति व्यासस्मृतेः ॥
न निरोधो न चोत्पत्तिर्न बद्धो न च साधकः ।
न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता ॥ ३२ ॥
प्रकरणार्थोपसंहारार्थोऽयं श्लोकः — यदा वितथं द्वैतम् आत्मैवैकः परमार्थतः सन् , तदा इदं निष्पन्नं भवति — सर्वोऽयं लौकिको वैदिकश्च व्यवहारोऽविद्याविषय एवेति । तदा न निरोधः, निरोधनं निरोधः प्रलयः, उत्पत्तिः जननम् , बद्धः संसारी जीवः, साधकः साधनवान्मोक्षस्य, मुमुक्षुः मोचनार्थी, मुक्तः विमुक्तबन्धः । उत्पत्तिप्रलययोरभावाद्बद्धादयो न सन्तीत्येषा परमार्थता । कथमुत्पत्तिप्रलययोरभाव इति, उच्यते — द्वैतस्यासत्त्वात् । ‘यत्र हि द्वैतमिव भवति’ (बृ. उ. २ । ४ । १४) ‘य इह नानेव पश्यति’ (क. उ. २ । १ । १०) ‘आत्मैवेदं सर्वम्’ (छा. उ. ७ । २५ । २) ‘ब्रह्मैवेदं सर्वम्’ ‘एकमेवाद्वितीयम्’ (छा. उ. ६ । २ । १) ‘इदं सर्वं यदयमात्मा’ (बृ. उ. २ । ४ । ६) इत्यादिनानाश्रुतिभ्यो द्वैतस्यासत्त्वं सिद्धम् । सतो ह्युत्पत्तिः प्रलयो वा स्यात् , नासतः शशविषाणादेः । नाप्यद्वैतमुत्पद्यते प्रलीयते वा । अद्वैतं च, उत्पत्तिप्रलयवच्चेति विप्रतिषिद्धम् । यस्तु पुनर्द्वैतसंव्यवहारः, स रज्जुसर्पवदात्मनि प्राणादिलक्षणः कल्पित इत्युक्तम् ; न हि मनोविकल्पनाया रज्जुसर्पादिलक्षणाया रज्ज्वां प्रलय उत्पत्तिर्वा ; न च मनसि रज्जुसर्पस्योत्पत्तिः प्रलयो वा, न चोभयतो वा । तथा मानसत्वाविशेषाद्द्वैतस्य । न हि नियते मनसि सुषुप्ते वा द्वैतं गृह्यते ; अतो मनोविकल्पनामात्रं द्वैतमिति सिद्धम् । तस्मात्सूक्तम् — द्वैतस्यासत्त्वान्निरोधाद्यभावः परमार्थतेति । यद्येवं द्वैताभावे शास्त्रव्यापारः, नाद्वैते, विरोधात् ; तथा च सत्यद्वैतस्य वस्तुत्वे प्रमाणाभावाच्छून्यवादप्रसङ्गः, द्वैतस्य चाभावात् ; न, रज्जुवत्सर्पादिकल्पनाया निरास्पदत्वेऽनुपपत्तिरिति प्रत्युक्तमेतत्कथमुज्जीवयसीति, आह — रज्जुरपि सर्पविकल्पस्यास्पदभूता कल्पितैवेति दृष्टान्तानुपपत्तिः ; न, विकल्पनाक्षये अविकल्पितस्याविकल्पितत्वादेव सत्त्वोपपत्तेः ; रज्जुसर्पवदसत्त्वमिति चेत् , न एकान्तेनाविकल्पितत्वात् अविकल्पितरज्ज्वंशवत्प्राक्सर्पाभावविज्ञानात् , विकल्पयितुश्च प्राग्विकल्पनोत्पत्तेः सिद्धत्वाभ्युपगमादेवासत्त्वानुपपत्तिः । कथं पुनः स्वरूपे व्यापाराभावे शास्त्रस्य द्वैतविज्ञाननिवर्तकत्वम् ? नैष दोषः, रज्ज्वां सर्पादिवदात्मनि द्वैतस्याविद्याध्यस्तत्वात् कथं सुख्यहं दुःखी मूढो जातो मृतो जीर्णो देहवान् पश्यामि व्यक्ताव्यक्तः कर्ता फली संयुक्तो वियुक्तः क्षीणो वृद्धोऽहं ममैते इत्येवमादयः सर्वे आत्मन्यध्यारोप्यन्ते । आत्मा एतेष्वनुगतः, सर्वत्राव्यभिचारात् , यथा सर्पधारादिभेदेषु रज्जुः । यदा चैवं विशेष्यस्वरूपप्रत्ययस्य सिद्धत्वान्न कर्तव्यत्वं शास्त्रेण । अकृतकर्तृ च शास्त्रं कृतानुकारित्वे अप्रमाणम् । यतः अविद्याध्यारोपितसुखित्वादिविशेषप्रतिबन्धादेवात्मनः स्वरूपेणानवस्थानम् , स्वरूपावस्थानं च श्रेयः इति सुखित्वादिनिवर्तकं शास्त्रमात्मन्यसुखित्वादिप्रत्ययकरणेन नेति नेत्यस्थूलादिवाक्यैः ; आत्मस्वरूपवदसुखित्वादिरपि सुखित्वादिभेदेषु नानुवृत्तोऽस्ति धर्मः । यद्यनुवृत्तः स्यात् , नाध्यारोप्येत सुखित्वादिलक्षणो विशेषः, यथोष्णत्वगुणविशेषवत्यग्नौ शीतता ; तस्मान्निर्विशेष एवात्मनि सुखित्वादयो विशेषाः कल्पिताः । यत्त्वसुखित्वादिशास्त्रमात्मनः, तत्सुखित्वादिविशेषनिवृत्त्यर्थमेवेति सिद्धम् । ‘सिद्धं तु निवर्तकत्वात्’ इत्यागमविदां सूत्रम् ॥
भावैरसद्भिरेवायमद्वयेन च कल्पितः ।
भावा अप्यद्वयेनैव तस्मादद्वयता शिवा ॥ ३३ ॥
पूर्वश्लोकार्थस्य हेतुमाह — यथा रज्ज्वामसद्भिः सर्पधारादिभिः अद्वयेन च रज्जुद्रव्येण सता अयं सर्प इति धारेयं दण्डोऽयमिति वा रज्जुद्रव्यमेव कल्प्यते, एवं प्राणादिभिरनन्तैः असद्भिरेव अविद्यमानैः, न परमार्थतः । न ह्यप्रचलिते मनसि कश्चिद्भाव उपलक्षयितुं शक्यते केनचित् ; न चात्मनः प्रचलनमस्ति । प्रचलितस्यैवोपलभ्यमाना भावा न परमार्थतः सन्तः कल्पयितुं शक्याः । अतः असद्भिरेव प्राणादिभिर्भावैरद्वयेन च परमार्थसता आत्मना रज्जुवत्सर्वविकल्पास्पदभूतेन अयं स्वयमेवात्मा कल्पितः सदैकस्वभावोऽपि सन् । ते चापि प्राणादिभावाः अद्वयेनैव सता आत्मना विकल्पिताः ; न हि निरास्पदा काचित्कल्पना उपपद्यते ; अतः सर्वकल्पनास्पदत्वात्स्वेनात्मना अद्वयस्य अव्यभिचारात् कल्पनावस्थायामपि अद्वयता शिवा ; कल्पना एव त्वशिवाः, रज्जुसर्पादिवत्त्रासादिकारिण्यो हि ताः । अद्वयता अभया ; अतः सैव शिवा ॥
नात्मभावेन नानेदं न स्वेनापि कथञ्चन ।
न पृथङ् नापृथक्किञ्चिदिति तत्त्वविदो विदुः ॥ ३४ ॥
कुतश्चाद्वयता शिवा ? नानाभूतं प्रथक्त्वम् अन्यस्य अन्यस्मात् यत्र दृष्टम् , तत्राशिवं भवेत् । न ह्यत्राद्वये परमार्थसत्यात्मनि प्राणादिसंसारजातमिदं जगत् आत्मभावेन परमार्थस्वरूपेण निरूप्यमाणं नाना वस्त्वन्तरभूतं भवति ; यथा रज्जुस्वरूपेण प्रकाशेन निरूप्यमाणो न नानाभूतः कल्पितः सर्पोऽस्ति, तद्वत् । नापि स्वेन प्राणाद्यात्मना इदं विद्यते कदाचिदपि, रज्जुसर्पवत्कल्पितत्वादेव । तथा अन्योन्यं न पृथक् प्राणादि वस्तु, यथा अश्वान्महिषः पृथग्विद्यते, एवम् । अतः असत्त्वात् नापि अपृथक् विद्यतेऽन्योन्यं परेण वा किञ्चिदिति । एवं परमार्थतत्त्वविदो ब्राह्मणा विदुः । अतः अशिवहेतुत्वाभावादद्वयतैव शिवेत्यभिप्रायः ॥
वीतरागभयक्रोधैर्मुनिभिर्वेदपारगैः ।
निर्विकल्पो ह्ययं दृष्टः प्रपञ्चोपशमोऽद्वयः ॥ ३५ ॥
तदेतत्सम्यग्दर्शनं स्तूयते — विगतरागभयक्रोधादिसर्वदोषैः सर्वदा मुनिभिः मननशीलैर्विवेकिभिः वेदपारगैः अवगतवेदान्तार्थतत्त्वैर्ज्ञानिभिः निर्विकल्पः सर्वविकल्पशून्यः अयम् आत्मा दृष्टः उपलब्धो वेदान्तार्थतत्परैः, प्रपञ्चोपशमः, प्रपञ्चो द्वैतभेदविस्तारः, तस्योपशमोऽभावो यस्मिन् , स आत्मा प्रपञ्चोपशमः, अत एव अद्वयः विगतदोषैरेव पण्डितैर्वेदान्तार्थतत्परैः संन्यासिभिः अयमात्मा द्रष्टुं शक्यः, नान्यैः रागादिकलुषितचेतोभिः स्वपक्षपातिदर्शनैस्तार्किकादिभिरित्यभिप्रायः ॥
तस्मादेवं विदित्वैनमद्वैते योजयेत्स्मृतिम् ।
अद्वैतं समनुप्राप्य जडवल्लोकमाचरेत् ॥ ३६ ॥
यस्मात्सर्वानर्थोपशमरूपत्वादद्वयं शिवमभयम् , अतः एवं विदित्वैनम् अद्वैते स्मृतिं योजयेत् ; अद्वैतावगमायैव स्मृतिं कुर्यादित्यर्थः । तच्च अद्वैतम् अवगम्य ‘अहमस्मि परं ब्रह्म’ इति विदित्वा अशनायाद्यतीतं साक्षादपरोक्षादजमात्मानं सर्वलोकव्यवहारातीतं जडवत् लोकमाचरेत् ; अप्रख्यापयन्नात्मानमहमेवंविध इत्यभिप्रायः ॥
निःस्तुतिर्निर्नमस्कारो निःस्वधाकार एव च ।
चलाचलनिकेतश्च यतिर्यादृच्छिको भवेत् ॥ ३७ ॥
कया चर्यया लोकमाचरेदिति, आह — स्तुतिनमस्कारादिसर्वकर्मविवर्जितः त्यक्तसर्वबाह्यैषणः प्रतिपन्नपरमहंसपारिव्राज्य इत्यभिप्रायः, ‘एतं वै तमात्मानं विदित्वा’ (बृ. उ. ३ । ५ । १) इत्यादिश्रुतेः, ‘तद्बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणाः’ (भ. गी. ५ । १७) इत्यादिस्मृतेश्च । चलं शरीरम् , प्रतिक्षणमन्यथाभावात् ; अचलम् आत्मतत्त्वम् । यदा कदाचिद्भोजनादिसंव्यवहारनिमित्तमाकाशवदचलं स्वरूपमात्मतत्त्वम् आत्मनो निकेतमाश्रयमात्मस्थितिं विस्मृत्य अहमिति मन्यते यदा, तदा चलो देहो निकेतो यस्य सोऽयमेवं चलाचलनिकेतो विद्वान्न पुनर्बाह्यविषयाश्रयः । स च यादृच्छिको भवेत् , यदृच्छाप्राप्तकौपीनाच्छादनग्रासमात्रदेहस्थितिरित्यर्थः ॥
तत्त्वमाध्यात्मिकं दृष्ट्वा तत्त्वं दृष्ट्वा तु बाह्यतः ।
तत्त्वीभूतस्तदारामस्तत्त्वादप्रच्युतो भवेत् ॥ ३८ ॥
बाह्यं पृथिव्यादि तत्त्वमाध्यात्मिकं च देहादिलक्षणं रज्जुसर्पादिवत्स्वप्नमायादिवच्च असत् , ‘वाचारम्भणं विकारो नामधेयम्’ (छा. उ. ६ । १ । ४) इत्यादिश्रुतेः । आत्मा च सबाह्याभ्यन्तरो ह्यजोऽपूर्वोऽनपरोऽनन्तरोऽबाह्यः कृत्स्नः तथा आकाशवत्सर्वगतः सूक्ष्मोऽचलो निर्गुणो निष्कलो निष्क्रियः ‘तत्सत्यं स आत्मा तत्त्वमसि’ (छा. उ. ६ । ८ । ७) इति श्रुतेः, इत्येवं तत्त्वं दृष्ट्वा तत्त्वीभूतस्तदारामो न बाह्यरमणः ; यथा अतत्त्वदर्शी कश्चित्तमात्मत्वेन प्रतिपन्नश्चित्तचलनमनु चलितमात्मानं मन्यमानः तत्त्वाच्चलितं देहादिभूतमात्मानं कदाचिन्मन्यते प्रच्युतोऽहमात्मतत्त्वादिदानीमिति, समाहिते तु मनसि कदाचित्तत्त्वभूतं प्रसन्नमात्मानं मन्यते इदानीमस्मि तत्त्वीभूत इति ; न तथा आत्मविद्भवेत् , आत्मन एकरूपत्वात् , स्वरूपप्रच्यवनासम्भवाच्च । सदैव ब्रह्मास्मीत्यप्रच्युतो भवेत्तत्त्वात् , सदा अप्रच्युतात्मतत्त्वदर्शनो भवेदित्यभिप्रायः ; ‘शुनि चैव श्वपाके च’ (भ. गी. ५ । १८) ‘समं सर्वेषु भूतेषु’ (भ. गी. १३ । २७) इत्यादिस्मृतेः ॥
इति द्वितीयं वैतथ्यप्रकरणं सम्पूर्णम् ॥