श्रीमच्छङ्करभगवत्पूज्यपादविरचितम्

माण्डूक्योपनिषद्भाष्यम्

गौडपादीयकारिकाभाष्यं च

करतलकलिताद्वयात्मतत्त्वं क्षपितदुरन्तचिरन्तनप्रमोहम् ।
उपचितमुदितोदितैर्गुणौघैः उपनिषदामयमुज्जहार भाष्यम् ।।

change script to

ज्ञानेनाकाशकल्पेन धर्मान्यो गगनोपमान् ।
ज्ञेयाभिन्नेन सम्बुद्धस्तं वन्दे द्विपदां वरम् ॥ १ ॥
ओङ्कारनिर्णयद्वारेण आगमतः प्रतिज्ञातस्याद्वैतस्य बाह्यविषयभेदवैतथ्याच्च सिद्धस्य पुनरद्वैते शास्त्रयुक्तिभ्यां साक्षान्निर्धारितस्य एतदुत्तमं सत्यमित्युपसंहारः कृतोऽन्ते । तस्यैतस्यागमार्थस्य अद्वैतदर्शनस्य प्रतिपक्षभूता द्वैतिनो वैनाशिकाश्च । तेषां चान्योन्यविरोधाद्रागद्वेषादिक्लेशास्पदं दर्शनमिति मिथ्यादर्शनत्वं सूचितम् , क्लेशानास्पदत्वात्सम्यग्दर्शनमित्यद्वैतदर्शनस्तुतये । तदिह विस्तरेणान्योन्यविरुद्धतया असम्यग्दर्शनत्वं प्रदर्श्य तत्प्रतिषेधेनाद्वैतदर्शनसिद्धिरुपसंहर्तव्या आवीतन्यायेनेत्यलातशान्तिप्रकरणमारभ्यते । तत्राद्वैतदर्शनसम्प्रदायकर्तुरद्वैतस्वरूपेणैव नमस्कारार्थोऽयमाद्यश्लोकः । आचार्यपूजा हि अभिप्रेतार्थसिद्ध्यर्थेष्यते शास्त्रारम्भे । आकाशेन ईषदसमाप्तमाकाशकल्पमाकाशतुल्यमित्येतत् । तेन आकाशकल्पेन ज्ञानेन । किम् ? धर्मानात्मनः । किंविशिष्टान् ? गगनोपमान् गगनमुपमा येषां ते गगनोपमाः, तानात्मनो धर्मान् । ज्ञानस्यैव पुनर्विशेषणम् — ज्ञेयैर्धर्मैरात्मभिरभिन्नम् अग्न्युष्णवत् सवितृप्रकाशवच्च यत् ज्ञानम् , तेन ज्ञेयाभिन्नेन ज्ञानेन आकाशकल्पेन ज्ञेयात्मस्वरूपाव्यतिरिक्तेन, गगनोपमान्धर्मान्यः सम्बुद्धः सम्बुद्धवान्नित्यमेव ईश्वरो यो नारायणाख्यः, तं वन्दे अभिवादये । द्विपदां वरं द्विपदोपलक्षितानां पुरुषाणां वरं प्रधानम् , पुरुषोत्तममित्यभिप्रायः । उपदेष्टृनमस्कारमुखेन ज्ञानज्ञेयज्ञातृभेदरहितं परमार्थतत्त्वदर्शनमिह प्रकरणे प्रतिपिपादयिषितं प्रतिपक्षप्रतिषेधद्वारेण प्रतिज्ञातं भवति ॥
अस्पर्शयोगो वै नाम सर्वसत्त्वसुखो हितः ।
अविवादोऽविरुद्धश्च देशितस्तं नमाम्यहम् ॥ २ ॥
अधुना अद्वैतदर्शनयोगस्य नमस्कारः तत्स्तुतये — स्पर्शनं स्पर्शः सम्बन्धो न विद्यते यस्य योगस्य केनचित्कदाचिदपि, सः अस्पर्शयोगः ब्रह्मस्वभाव एव वै नामेति ; ब्रह्मविदामस्पर्शयोग इत्येवं प्रसिद्ध इत्यर्थः । स च सर्वसत्त्वसुखो भवति । कश्चिदत्यन्तसुखसाधनविशिष्टोऽपि दुःखस्वरूपः, यथा तपः । अयं तु न तथा । किं तर्हि ? सर्वसत्त्वानां सुखः । तथा इह भवति कश्चिद्विषयोपभोगः सुखो न हितः ; अयं तु सुखो हितश्च, नित्यमप्रचलितस्वभावत्वात् । किं च अविवादः, विरुद्धं वदनं विवादः पक्षप्रतिपक्षपरिग्रहेण यस्मिन्न विद्यते सः अविवादः । कस्मात् ? यतः अविरुद्धश्च ; य ईदृशो योगः देशितः उपदिष्टः शास्त्रेण, तं नमाम्यहं प्रणमामीत्यर्थः ॥
भूतस्य जातिमिच्छन्ति वादिनः केचिदेव हि ।
अभूतस्यापरे धीरा विवदन्तः परस्परम् ॥ ३ ॥
कथं द्वैतिनः परस्परं विरुध्यन्त इति, उच्यते — भूतस्य विद्यमानस्य वस्तुनः जातिम् उत्पत्तिम् इच्छन्ति वादिनः केचिदेव हि साङ्ख्याः ; न सर्व एव द्वैतिनः । यस्मात् अभूतस्य अविद्यमानस्य अपरे वैशेषिका नैयायिकाश्च धीराः धीमन्तः, प्राज्ञाभिमानिन इत्यर्थः । विवदन्तः विरुद्धं वदन्तो हि अन्योन्यमिच्छन्ति जेतुमित्यभिप्रायः ॥
भूतं न जायते किञ्चिदभूतं नैव जायते ।
विवदन्तोऽद्वया ह्येवमजातिं ख्यापयन्ति ते ॥ ४ ॥
तैरेवं विरुद्धवदनेन अन्योन्यपक्षप्रतिषेधं कुर्वद्भिः किं ख्यापितं भवतीति, उच्यते — भूतं विद्यमानं वस्तु न जायते किञ्चिद्विद्यमानत्वादेव आत्मवत् इत्येवं वदन् असद्वादी साङ्ख्यपक्षं प्रतिषेधति सज्जन्म । तथा अभूतम् अविद्यमानम् अविद्यमानत्वान्नैव जायते शशविषाणवत् इत्येवं वदन्साङ्ख्योऽपि असद्वादिपक्षमसज्जन्म प्रतिषेधति । विवदन्तः विरुद्धं वदन्तः अद्वयाः अद्वैतिनो ह्येते अन्योन्यस्य पक्षौ सदसतोर्जन्मनी प्रतिषेधन्तः अजातिम् अनुत्पत्तिमर्थात्ख्यापयन्ति प्रकाशयन्ति ते ॥
ख्याप्यमानामजातिं तैरनुमोदामहे वयम् ।
विवदामो न तैः सार्धमविवादं निबोधत ॥ ५ ॥
तैरेवं ख्यप्यमानामजातिम् एवमस्तु इति अनुमोदामहे केवलम् , न तैः सार्धं विवदामः पक्षप्रतिपक्षपरिग्रहेण ; यथा ते अन्योन्यमित्यभिप्रायः । अतः तम् अविवादं विवादरहितं परमार्थदर्शनमनुज्ञातमस्माभिः निबोधत हे शिष्याः ॥
अजातस्यैव धर्मस्य जातिमिच्छन्ति वादिनः ।
अजातो ह्यमृतो धर्मो मर्त्यतां कथमेष्यति ॥ ६ ॥
सदसद्वादिनः सर्वे । अयं तु पुरस्तात्कृतभाष्यः श्लोकः ॥
न भवत्यमृतं मर्त्यं न मर्त्यममृतं तथा ।
प्रकृतेरन्यथाभावो न कथञ्चिद्भविष्यति ॥ ७ ॥
स्वभावेनामृतो यस्य धर्मो गच्छति मर्त्यतात् ।
कृतकेनामृतस्तस्य कथं स्थास्यति निश्चलः ॥ ८ ॥
उक्तार्थानां श्लोकानामिहोपन्यासः परवादिपक्षाणामन्योन्यविरोधख्यापितानुत्पत्त्यामोदनप्रदर्शनार्थः ॥
सांसिद्धिकी स्वाभाविकी सहजा अकृता च या ।
प्रकृतिः सेति विज्ञेया स्वभावं न जहाति या ॥ ९ ॥
यस्माल्लौकिक्यपि प्रकृतिर्न विपर्येति, कासावित्याह — सम्यक्सिद्धिः संसिद्धिः, तत्र भवा सांसिद्धिकी ; यथा योगिनां सिद्धानामणिमाद्यैश्वर्यप्राप्तिः प्रकृतिः, सा भूतभविष्यत्कालयोरपि योगिनां न विपर्येति । तथैव सा । स्वाभाविकी द्रव्यस्वभावत एव सिद्धा, यथा अग्न्यादीनामुष्णप्रकाशादिलक्षणा । सापि न कालान्तरे व्यभिचरति देशान्तरे वा, तथा सहजा आत्मना सहैव जाता, यथा पक्ष्यादीनामाकाशगमनादिलक्षणा । अन्यापि या काचित् अकृता केनचिन्न कृता, यथा अपां निम्नदेशगमनादिलक्षणा । अन्यापि या काचित्स्वभावं न जहाति, सा सर्वा प्रकृतिरिति विज्ञेया लोके । मिथ्याकल्पितेषु लौकिकेष्वपि वस्तुषु प्रकृतिर्नान्यथा भवति ; किमुत अजस्वभावेषु परमार्थवस्तुषु ? अमृतत्वलक्षणा प्रकृतिर्नान्यथा भवेदित्यभिप्रायः ॥
जरामरणनिर्मुक्ताः सर्वे धर्माः स्वभावतः ।
जरामरणमिच्छन्तश्च्यवन्ते तन्मनीषया ॥ १० ॥
किंविषया पुनः सा प्रकृतिः, यस्या अन्यथाभावो वादिभिः कल्प्यते ? कल्पनायां वा को दोष इत्याह जरामरणनिर्मुक्ताः जरामरणादिसर्वविक्रियावर्जिता इत्यर्थः । के ? सर्वे धर्माः सर्वे आत्मान इत्येतत् । स्वभावतः प्रकृतित एव । अत एवंस्वभावाः सन्तो धर्मा जरामरणमिच्छन्त इवेच्छन्तः रज्ज्वामिव सर्पमात्मनि कल्पयन्तः च्यवन्ते, स्वभावतश्चलन्तीत्यर्थः । तन्मनीषया जरामरणचिन्तया तद्भावभावितत्वदोषेणेत्यर्थः ॥
कारणं यस्य वै कार्यं कारणं तस्य जायते ।
जायमानं कथमजं भिन्नं नित्यं कथं च तत् ॥ ११ ॥
कथं सज्जातिवादिभिः साङ्ख्यैरनुपपन्नमुच्यते इति, आह वैशेषिकः — कारणं मृद्वदुपादानलक्षणं यस्य वादिनः वै कार्यम् , कारणमेव कार्याकारेण परिणमते यस्य वादिन इत्यर्थः । तस्य अजमेव सत् प्रधानादि कारणं महदादिकार्यरूपेण जायत इत्यर्थः । महदाद्याकारेण चेज्जायमानं प्रधानम् , कथमजमुच्यते तैः ? विप्रतिषिद्धं चेदम् — जायते अजं चेति । नित्यं च तैरुच्यते । प्रधानं भिन्नं विदीर्णम् ; स्फुटितमेकदेशेन सत् कथं नित्यं भवेदित्यर्थः । न हि सावयवं घटादि एकदेशेन स्फुटनधर्मि नित्यं दृष्टं लोके इत्यर्थः । विदीर्णं च स्यादेकदेशेनाजं नित्यं चेत्येतत् विप्रतिषिद्धं तैरभिधीयत इत्यभिप्रायः ॥
कारणाद्यद्यनन्यत्वमतः कार्यमजं तव ।
जायमानाद्धि वै कार्यात्कारणं ते कथं ध्रुवम् ॥ १२ ॥
उक्तस्यैवार्थस्य स्पष्टीकरणार्थमाह — कारणात् अजात् कार्यस्य यदि अनन्यत्वमिष्टं त्वया, ततः कार्यमप्यजमिति प्राप्तम् । इदं चान्यद्विप्रतिषिद्धं कार्यमजं चेति तव । किञ्चान्यत् , कार्यकारणयोरनन्यत्वे जायमानाद्धि वै कार्यात् कारणम् अनन्यन्नित्यं ध्रुवं च ते कथं भवेत् ? न हि कुक्कुट्या एकदेशः पच्यते, एकदेशः प्रसवाय कल्प्यते ॥
अजाद्वै जायते यस्य दृष्टान्तस्तस्य नास्ति वै ।
जाताच्च जायमानस्य न व्यवस्था प्रसज्यते ॥ १३ ॥
किञ्चान्यत् , यत् अजात् अनुत्पन्नाद्वस्तुनः जायते यस्य वादिनः कार्यम् , दृष्टान्तः तस्य नास्ति वै ; दृष्टान्ताभावे अर्थादजान्न किञ्चिज्जायते इति सिद्धं भवतीत्यर्थः । यदा पुनः जातात् जायमानस्य वस्तुनः अभ्युपगमः, तदपि अन्यस्माज्जातात्तदप्यन्यस्मादिति न व्यवस्था प्रसज्यते । अनवस्था स्यादित्यर्थः ॥
हेतोरादिः फलं येषामादिर्हेतुः फलस्य च ।
हेतोः फलस्य चानादिः कथं तैरुपवर्ण्यते ॥ १४ ॥
‘यत्र त्वस्य सर्वमात्मैवाभूत्’ (बृ. उ. ४ । ५ । १५) इति परमार्थतो द्वैताभावः श्रुत्योक्तः ; तमाश्रित्याह — हेतोः धर्मादेः आदिः कारणं देहादिसङ्घातः फलं येषां वादिनाम् ; तथा आदिः कारणं हेतुर्धर्मादिः फलस्य च देहादिसङ्घातस्य ; एवं हेतुफलयोरितरेतरकार्यकारणत्वेन आदिमत्त्वं ब्रुवद्भिः एवं हेतोः फलस्य च अनादित्वं कथं तैरुपवर्ण्यते विप्रतिषिद्धमित्यर्थः । न हि नित्यस्य कूटस्थस्यात्मनो हेतुफलात्मकता सम्भवति ॥
हेतोरादिः फलं येषामादिर्हेतुः फलस्य च ।
तथा जन्म भवेत्तेषां पुत्राज्जन्म पितुर्यथा ॥ १५ ॥
कथं तैर्विरुद्धमभ्युपगम्यत इति, उच्यते — हेतुजन्यादेव फलात् हेतोर्जन्माभ्युपगच्छतां तेषामीदृशो विरोध उक्तो भवति, यथा पुत्राज्जन्म पितुः ॥
सम्भवे हेतुफलयोरेषितव्यः क्रमस्त्वया ।
युगपत्सम्भवे यस्मादसम्बन्धो विषाणवत् ॥ १६ ॥
यथोक्तो विरोधो न युक्तोऽभ्युपगन्तुमिति चेन्मन्यसे, सम्भवे उत्पत्तौ हेतुफलयोः क्रमः एषितव्यः अन्वेष्टव्यः त्वया — हेतुः पूर्वं पश्चात्फलं चेति । इतश्च युगपत्सम्भवे यस्माद्धेतुफलयोः कार्यकारणत्वेन असम्बन्धः, यथा युगपत्सम्भवतोः सव्येतरगोविषाणयोः ॥
फलादुत्पद्यमानः सन्न ते हेतुः प्रसिध्यति ।
अप्रसिद्धः कथं हेतुः फलमुत्पादयिष्यति ॥ १७ ॥
कथमसम्बन्ध इत्याह — जन्यात्स्वतोऽलब्धात्मकात् फलात् उत्पद्यमानः सन् शशविषाणादेरिवासतो न हेतुः प्रसिध्यति जन्म न लभते । अलब्धात्मकः अप्रसिद्धः सन् शशविषाणादिकल्पः तव स कथं फलमुत्पादयिष्यति ? न हि इतरेतरापेक्षसिद्ध्योः शशविषाणकल्पयोः कार्यकारणभावेन सम्बन्धः क्वचिद्दृष्टः अन्यथा वेत्यभिप्रायः ॥
यदि हेतोः फलात्सिद्धिः फलसिद्धिश्च हेतुतः ।
कतरत्पूर्वनिष्पन्नं यस्य सिद्धिरपेक्षया ॥ १८ ॥
असम्बन्धतादोषेणापाकृतेऽपि हेतुफलयोः कार्यकारणभावे, यदि हेतुफलयोरन्योन्यसिद्धिरभ्युपगम्यत एव त्वया, कतरत्पूर्वनिष्पन्नं हेतुफलयोः ? यस्य पश्चाद्भाविनः सिद्धिः स्यात्पूर्वसिद्धापेक्षया, तद्ब्रूहीत्यर्थः ॥
अशक्तिरपरिज्ञानं क्रमकोपोऽथ वा पुनः ।
एवं हि सर्वथा बुद्धैरजातिः परिदीपिता ॥ १९ ॥
अथ एतन्न शक्यते वक्तुमिति मन्यसे, सेयमशक्तिः अपरिज्ञानं तत्त्वाविवेकः, मूढतेत्यर्थः । अथ वा, योऽयं त्वयोक्तः क्रमः हेतोः फलस्य सिद्धिः फलाच्च हेतोः सिद्धिरिति इतरेतरानन्तर्यलक्षणः, तस्य कोपः विपर्यासोऽन्यथाभावः स्यादित्यभिप्रायः । एवं हेतुफलयोः कार्यकारणभावानुपपत्तेः अजातिः सर्वस्यानुत्पत्तिः परिदीपिता प्रकाशिता अन्योन्यपक्षदोषं ब्रुवद्भिर्वादिभिः बुद्धैः पण्डितैरित्यर्थः ॥
बीजाङ्कुराख्यो दृष्टान्तः सदा साध्यसमो हि सः ।
न हि साध्यसमो हेतुः सिद्धौ साध्यस्य युज्यते ॥ २० ॥
ननु हेतुफलयोः कार्यकारणभाव इत्यस्माभिरुक्तं शब्दमात्रमाश्रित्य च्छलमिदं त्वयोक्तम् — ‘पुत्राज्जन्म पितुर्यथा’ (मा. का. ४ । १५) ‘विषाणवच्चासम्बन्धः’ (मा. का. ४ । १६) इत्यादि । न ह्यस्माभिः असिद्धाद्धेतोः फलसिद्धिः, असिद्धाद्वा फलाद्धेतुसिद्धिरभ्युपगता । किं तर्हि ? बीजाङ्कुरवत्कार्यकारणभावोऽभ्युपगम्यत इति । अत्रोच्यते — बीजाङ्कुराख्यो दृष्टान्तो यः, स साध्येन समः तुल्यो ममेत्यभिप्रायः । ननु प्रत्यक्षः कार्यकारणभावो बीजाङ्कुरयोरनादिः ; न, पूर्वस्य पूर्वस्य अपरभावादादिमत्त्वाभ्युपगमात् । यथा इदानीमुत्पन्नोऽपरोऽङ्कुरो बीजादादिमान् बीजं चापरमन्यस्मादङ्कुरादिति क्रमेणोत्पन्नत्वादादिमत् । एवं पूर्वः पूर्वोऽङ्कुरो बीजं च पूर्वं पूर्वमादिमदेवेति प्रत्येकं सर्वस्य बीजाङ्कुरजातस्यादिमत्त्वात्कस्यचिदप्यनादित्वानुपपत्तिः । एवं हेतुफलयोः । अथ बीजाङ्कुरसन्ततेरनादिमत्त्वमिति चेत् ; न, एकत्वानुपपत्तेः ; न हि बीजाङ्कुरव्यतिरेकेण बीजाङ्कुरसन्ततिर्नामैका अभ्युपगम्यते हेतुफलसन्ततिर्वा तदनादित्ववादिभिः । तस्मात्सूक्तम् ‘हेतोः फलस्य चानादिः कथं तैरुपवर्ण्यते’ इति । तथा च अन्यदप्यनुपपत्तेर्न च्छलमित्यभिप्रायः । न च लोके साध्यसमो हेतुः साध्यस्य सिद्धौ सिद्धिनिमित्तं युज्यते प्रयुज्यते प्रमाणकुशलैरित्यर्थः । हेतुरिति दृष्टान्तोऽत्रभिप्रेतः, गमकत्वात् ; प्रकृतो हि दृष्टान्तः, न हेतुरिति ॥
पूर्वापरापरिज्ञानमजातेः परिदीपकम् ।
जायमानाद्धि वै धर्मात्कथं पूर्वं न गृह्यते ॥ २१ ॥
कथं बुद्धैरजातिः परिदीपितेति, आह — यदेतत् हेतुफलयोः पूर्वापरापरिज्ञानम् , तच्चैतत् अजातेः परिदीपकम् अवबोधकमित्यर्थः । जायमानो हि चेद्धर्मो गृह्यते, कथं तस्मात्पूर्वं कारणं न गृह्यते ? अवश्यं हि जायमानस्य ग्रहीत्रा तज्जनकं ग्रहीतव्यम् , जन्यजनकयोः सम्बन्धस्यानपेतत्वात् ; तस्मादजातिपरिदीपकं तदित्यर्थः ॥
स्वतो वा परतो वापि न किञ्चिद्वस्तु जायते ।
सदसत्सदसद्वापि न किञ्चिद्वस्तु जायते ॥ २२ ॥
इतश्च न जायते किञ्चित् यज्जायमानं वस्तु स्वतः परतः उभयतो वा सत् असत् सदसद्वा न जायते, न तस्य केनचिदपि प्रकारेण जन्म सम्भवति । न तावत्स्वयमेवापरिनिष्पन्नात्स्वतः स्वरूपात्स्वयमेव जायते, यथा घटस्तस्मादेव घटात् । नापि परतः अन्यस्मादन्यः, यथा घटात्पटः । तथा नोभयतः, विरोधात् , यथा घटपटाभ्यां घटः पटो वा न जायते । ननु मृदो घटो जायते पितुश्च पुत्रः ; सत्यम् , अस्ति जायत इति प्रत्ययः शब्दश्च मूढानाम् । तावेव तु शब्दप्रत्ययौ विवेकिभिः परीक्ष्येते — किं सत्यमेव तौ, उत मृषा इति ; यावता परीक्ष्यमाणे शब्दप्रत्ययविषयं वस्तु घटपुत्रादिलक्षणं शब्दमात्रमेव तत् , ‘वाचारम्भणम्’ (छा. उ. ६ । ४ । ४) इति श्रुतेः । सच्चेत् न जायते, सत्त्वात् , मृत्पित्रादिवत् । यद्यसत् , तथापि न जायते, असत्त्वादेव, शशविषाणादिवत् । अथ सदसत् , तथापि न जायते विरुद्धस्यैकस्यासम्भवात् । अतो न किञ्चिद्वस्तु जायत इति सिद्धम् । येषां पुनर्जनिरेव जायत इति क्रियाकारकफलैकत्वमभ्युपगम्यते क्षणिकत्वं च वस्तुनः, ते दूरत एव न्यायापेताः । इदमित्थमित्यवधारणक्षणान्तरानवस्थानात् , अननुभूतस्य स्मृत्यनुपपत्तेश्च ॥
हेतुर्न जायतेऽनादेः फलं चापि स्वभावतः ।
आदिर्न विद्यते यस्य तस्य ह्यादिर्न विद्यते ॥ २३ ॥
किञ्च, हेतुफलयोरनादित्वमभ्युपगच्छता त्वया बलाद्धेतुफलयोरजन्मैवाभ्युपगतं स्यात् । कथम् ? अनादेः आदिरहितात्फलात् हेतुः न जायते । न ह्यनुत्पन्नादनादेः फलाद्धेतोर्जन्मेष्यते त्वया, फलं चापि आदिरहितादनादेर्हेतोरजात्स्वभावत एव निर्निमित्तं जायत इति नाभ्युपगम्यते । तस्मादनादित्वमभ्युपगच्छता त्वया हेतुफलयोरजन्मैवाभ्युपगम्यते । यस्मात् आदिः कारणं न विद्यते यस्य लोके, तस्य ह्यादिः पूर्वोक्ता जातिर्न विद्यते । कारणवत एव ह्यादिरभ्युपगम्यते, न अकारणवतः ॥
प्रज्ञप्तेः सनिमित्तत्वमन्यथा द्वयनाशतः ।
सङ्क्लेशस्योपलब्धेश्च परतन्त्रास्तिता मता ॥ २४ ॥
उक्तस्यैवार्थस्य दृढीकरणचिकीर्षया पुनराक्षिपति — प्रज्ञानं प्रज्ञप्तिः शब्दादिप्रतीतिः, तस्याः सनिमित्तत्वम् , निमित्तं कारणं विषय इत्येतत् ; सनिमित्तत्वं सविषयत्वं स्वात्मव्यतिरिक्तविषयतेत्येतत् , प्रतिजानीमहे । न हि निर्विषया प्रज्ञप्तिः शब्दादिप्रतीतिः स्यात् , तस्याः सनिमित्तत्वात् । अन्यथा निर्विषयत्वे शब्दस्पर्शनीलपीतलोहितादिप्रत्ययवैचित्र्यस्य द्वयस्य नाशतः नाशोऽभावः प्रसज्येतेत्यर्थः । न च प्रत्ययवैचित्र्यस्य द्वयस्याभावोऽस्ति, प्रत्यक्षत्वात् । अतः प्रत्ययवैचित्र्यस्य द्वयस्य दर्शनात् , परेषां तन्त्रं परतन्त्रमित्यन्यशास्त्रम् , तस्य परतन्त्रस्य परतन्त्राश्रयस्य बाह्यार्थस्य प्रज्ञानव्यतिरिक्तस्य अस्तिता मता अभिप्रेता । न हि प्रज्ञप्तेः प्रकाशमात्रस्वरूपाया नीलपीतादिबाह्यालम्बनवैचित्र्यमन्तरेण स्वभावभेदेनैतद्वैचित्र्यं सम्भवति । स्फटिकस्येव नीलाद्युपाध्याश्रयैर्विना वैचित्र्यं न घटत इत्यभिप्रायः । इतश्च परतन्त्राश्रयस्य बाह्यार्थस्य ज्ञानव्यतिरिक्तस्यास्तिता । सङ्क्लेशनं सङ्क्लेशः, दुःखमित्यर्थः । उपलभ्यते हि अग्निदाहादिनिमित्तं दुःखम् । यद्यग्न्यादिबाह्यं दाहादिनिमित्तं विज्ञानव्यतिरिक्तं न स्यात् , ततो दाहादिदुःखं नोपलभ्येत । उपलभ्यते तु । अतः तेन मन्यामहे अस्ति बाह्योऽर्थ इति । न हि विज्ञानमात्रे सङ्क्लेशो युक्तः, अन्यत्रादर्शनादित्यभिप्रायः ॥
प्रज्ञप्तेः सनिमित्तत्वमिष्यते युक्तिदर्शनात् ।
निमित्तस्यानिमित्तत्वमिष्यते भूतदर्शनात् ॥ २५ ॥
अत्रोच्यते — बाढमेवं प्रज्ञप्तेः सनिमित्तत्वं द्वयसङ्क्लेशोपलब्धियुक्तिदर्शनादिष्यते त्वया । स्थिरीभव तावत्त्वं युक्तिदर्शनं वस्तुनस्तथात्वाभ्युपगमे कारणमित्यत्र । ब्रूहि किं तत इति । उच्यते — निमित्तस्य प्रज्ञप्त्यालम्बनाभिमतस्य तव घटादेरनिमित्तत्वमनालम्बनत्वं वैचित्र्याहेतुत्वमिष्यतेऽस्माभिः । कथम् ? भूतदर्शनात् परमार्थदर्शनादित्येतत् । न हि घटो यथाभूतमृद्रूपदर्शने सति तद्व्यतिरेकेणास्ति, यथा अश्वान्महिषः, पटो वा तन्तुव्यतिरेकेण तन्तवश्चांशुव्यतिरेकेण इत्येवमुत्तरोत्तरभूतदर्शन आ शब्दप्रत्ययनिरोधान्नैव निमित्तमुपलभामहे इत्यर्थः । अथ वा, अभूतदर्शनाद्बाह्यार्थस्य अनिमित्तत्वमिष्यते रज्ज्वादाविव सर्पादेरित्यर्थः । भ्रान्तिदर्शनविषयत्वाच्च निमित्तस्यानिमित्तत्वं भवेत् ; तदभावे अभानात् । न हि सुषुप्तसमाहितमुक्तानां भ्रान्तिदर्शनाभावे आत्मव्यतिरिक्तो बाह्योऽर्थ उपलभ्यते । न ह्युन्मत्तावगतं वस्त्वनुन्मत्तैरपि तथाभूतं गम्यते । एतेन द्वयदर्शनं सङ्क्लेशोपलब्धिश्च प्रत्युक्ता ॥
चित्तं न संस्पृशत्यर्थं नार्थाभासं तथैव च ।
अभूतो हि यतश्चार्थो नार्थाभासस्ततः पृथक् ॥ २६ ॥
यस्मान्नास्ति बाह्यं निमित्तम् , अतः चित्तं न स्पृशत्यर्थं बाह्यालम्बनविषयम् , नाप्यर्थाभासम् , चित्तत्वात् , स्वप्नचित्तवत् । अभूतो हि जागरितेऽपि स्वप्नार्थवदेव बाह्यः शब्दाद्यर्थो यतः उक्तहेतुत्वाच्च । नाप्यर्थाभासश्चित्तात्पृथक् । चित्तमेव हि घटाद्यर्थवदवभासते यथा स्वप्ने ॥
निमित्तं न सदा चित्तं संस्पृशत्यध्वसु त्रिषु ।
अनिमित्तो विपर्यासः कथं तस्य भविष्यति ॥ २७ ॥
ननु विपर्यासस्तर्हि असति घटादौ घटाद्याभासता चित्तस्य ; तथा च सति अविपर्यासः क्वचिद्वक्तव्य इति ; अत्रोच्यते — निमित्तं विषयम् अतीतानागतवर्तमानाध्वसु त्रिष्वपि सदा चित्तं न संस्पृशेदेव हि । यदि हि क्वचित्संस्पृशेत् , सः अविपर्यासः परमार्थ इत्यतस्तदपेक्षया असति घटे घटाभासता विपर्यासः स्यात् ; न तु तदस्ति कदाचिदपि चित्तस्यार्थसंस्पर्शनम् । तस्मात् अनिमित्तः विपर्यासः कथं तस्य चित्तस्य भविष्यति ? न कथञ्चिद्विपर्यासोऽस्तीत्यभिप्रायः । अयमेव हि स्वभावश्चित्तस्य, यदुत असति निमित्ते घटादौ तद्वदवभासनम् ॥
तस्मान्न जायते चित्तं चित्तदृश्यं न जायते ।
तस्य पश्यन्ति ये जातिं खे वै पश्यन्ति ते पदम् ॥ २८ ॥
‘प्रज्ञप्तेः सनिमित्तत्वम्’ (मा. का. ४ । २५) इत्यादि एतदन्तं विज्ञानवादिनो बौद्धस्य वचनं बाह्यार्थवादिपक्षप्रतिषेधपरम् आचार्येणानुमोदितम् । तदेव हेतुं कृत्वा तत्पक्षप्रतिषेधाय तदिदमुच्यते — तस्मादित्यादि । यस्मादसत्येव घटादौ घटाद्याभासता चित्तस्य विज्ञानवादिना अभ्युपगता, तदनुमोदितमस्माभिरपि भूतदर्शनात् ; तस्मात्तस्यापि चित्तस्य जायमानावभासता असत्येव जन्मनि युक्ता भवितुमिति अतो न जायते चित्तम् । यथा चित्तदृश्यं न जायते अतस्तस्य चित्तस्य ये जातिं पश्यन्ति विज्ञानवादिनः क्षणिकत्वदुःखित्वशून्यत्वानात्मत्वादि च ; तेनैव चित्तेन चित्तस्वरूपं द्रष्टुमशक्यं पश्यन्तः खे वै पश्यन्ति ते पदं पक्ष्यादीनाम् । अत इतरेभ्योऽपि द्वैतिभ्योऽत्यन्तसाहसिका इत्यर्थः । येऽपि शून्यवादिनः पश्यन्त एव सर्वशून्यतां स्वदर्शनस्यापि शून्यतां प्रतिजानते, ते ततोऽपि साहसिकतराः खं मुष्टिनापि जिघृक्षन्ति ॥
अजातं जायते यस्मादजातिः प्रकृतिस्ततः ।
प्रकृतेरन्यथाभावो न कथञ्चिद्भविष्यति ॥ २९ ॥
उक्तैर्हेतुभिरजमेकं ब्रह्मेति सिद्धम् , यत्पुनरादौ प्रतिज्ञातम् , तत्फलोपसंहारार्थोऽयं श्लोकः — अजातं यच्चित्तं ब्रह्मैव जायत इति वादिभिः परिकल्प्यते, तत् अजातं जायते यस्मात् अजातिः प्रकृतिः तस्य ; ततः तस्मात् अजातरूपायाः प्रकृतेरन्यथाभावो जन्म न कथञ्चिद्भविष्यति ॥
अनादेरन्तवत्त्वं च संसारस्य न सेत्स्यति ।
अनन्तता चादिमतो मोक्षस्य न भविष्यति ॥ ३० ॥
अयं चापर आत्मनः संसारमोक्षयोः परमार्थसद्भाववादिनां दोष उच्यते — अनादेः अतीतकोटिरहितस्य संसारस्य अन्तवत्त्वं समाप्तिः न सेत्स्यति युक्तितः सिद्धिं नोपयास्यति । न ह्यनादिः सन् अन्तवान्कश्चित्पदार्थो दृष्टो लोके । बीजाङ्कुरसम्बन्धनैरन्तर्यविच्छेदो दृष्ट इति चेत् ; न, एकवस्त्वभावेनापोदितत्वात् । तथा अनन्ततापि विज्ञानप्राप्तिकालप्रभवस्य मोक्षस्य आदिमतो न भविष्यति, घटादिष्वदर्शनात् । घटादिविनाशवदवस्तुत्वाददोष इति चेत् , तथा च मोक्षस्य परमार्थसद्भावप्रतिज्ञाहानिः ; असत्त्वादेव शशविषाणस्येव आदिमत्त्वाभावश्च ॥
आदावन्ते च यन्नास्ति वर्तमानेऽपि तत्तथा ।
वितथैः सदृशाः सन्तोऽवितथा इव लक्षिताः ॥ ३१ ॥
सप्रयोजनता तेषां स्वप्ने विप्रतिपद्यते ।
तस्मादाद्यन्तवत्त्वेन मिथ्यैव खलु ते स्मृताः ॥ ३२ ॥
वैतथ्ये कृतव्याख्यानौ श्लोकाविह संसारमोक्षाभावप्रसङ्गेन पठितौ ॥
सर्वे धर्मा मृषा स्वप्ने कायस्यान्तर्निदर्शनात् ।
संवृतेऽस्मिन्प्रदेशे वै भूतानां दर्शनं कुतः ॥ ३३ ॥
न युक्तं दर्शनं गत्वा कालस्यानियमाद्गतौ ।
प्रतिबुद्धश्च वै सर्वस्तस्मिन्देशे न विद्यते ॥ ३४ ॥
जागरिते गत्यागमनकालौ नियतौ, देशः प्रमाणतो यः, तस्य अनियमात् नियमस्याभावात् स्वप्ने न देशान्तरगमनमित्यर्थः ॥
मित्राद्यैः सह संमन्त्र्य सम्बुद्धो न प्रपद्यते ।
गृहीतं चापि यत्किञ्चित्प्रतिबुद्धो न पश्यति ॥ ३५ ॥
मित्राद्यैः सह संमन्त्र्य तदेव मन्त्रणं प्रतिबुद्धो न प्रपद्यते, गृहीतं च यत्किञ्चिद्धिरण्यादि न प्राप्नोति ; ततश्च न देशान्तरं गच्छति स्वप्ने ॥
स्वप्ने चावस्तुकः कायः पृथगन्यस्य दर्शनात् ।
यथा कायस्तथा सर्वं चित्तदृश्यमवस्तुकम् ॥ ३६ ॥
स्वप्ने च अटन्दृश्यते यः कायः, सः अवस्तुकः ततोऽन्यस्य स्वापदेशस्थस्य पृथक्कायान्तरस्य दर्शनात् । यथा स्वप्नदृश्यः कायः असन् , तथा सर्वं चित्तदृश्यम् अवस्तुकं जागरितेऽपि चित्तदृश्यत्वादित्यर्थः । स्वप्नसमत्वादसज्जागरितमपीति प्रकरणार्थः ॥
ग्रहणाज्जागरितवत्तद्धेतुः स्वप्न इष्यते ।
तद्धेतुत्वात्तु तस्यैव सज्जागरितमिष्यते ॥ ३७ ॥
इतश्च असत्त्वं जाग्रद्वस्तुनः जागरितवत् जागरितस्येव ग्रहणात् ग्राह्यग्राहकरूपेण स्वप्नस्य, तज्जागरितं हेतुः अस्य स्वप्नस्य स स्वप्नः तद्धेतुः जागरितकार्यम् इष्यते । तद्धेतुत्वात् जागरितकार्यत्वात् तस्यैव स्वप्नदृश एव सज्जागरितम् , न त्वन्येषाम् ; यथा स्वप्न इत्यभिप्रायः । यथा स्वप्नः स्वप्नदृश एव सन् साधारणविद्यमानवस्तुवदवभासते, तथा तत्कारणत्वात्साधारणविद्यमानवस्तुवदवभासनम् , न तु साधारणं विद्यमानवस्तु स्वप्नवदेवेत्यभिप्रायः ॥
उत्पादस्याप्रसिद्धत्वादजं सर्वमुदाहृतम् ।
न च भूतादभूतस्य सम्भवोऽस्ति कथञ्चन ॥ ३८ ॥
ननु स्वप्नकारणत्वेऽपि जागरितवस्तुनो न स्वप्नवदवस्तुत्वम् । अत्यन्तचलो हि स्वप्नः जागरितं तु स्थिरं लक्ष्यते । सत्यमेवमविवेकिनां स्यात् । विवेकिनां तु न कस्यचिद्वस्तुन उत्पादः प्रसिद्धः । अतः अप्रसिद्धत्वात् उत्पादस्य आत्मैव सर्वमिति अजं सर्वम् उदाहृतं वेदान्तेषु ‘सबाह्याभ्यन्तरो ह्यजः’ (मु. उ. २ । १ । २) इति । यदपि मन्यसे जागरितात्सतः असन्स्वप्नो जायत इति, तदसत् । न भूतात् विद्यमानात् अभूतस्य असतः सम्भवोऽस्ति लोके । न ह्यसतः शशविषाणादेः सम्भवो दृष्टः कथञ्चिदपि ॥
असज्जागरिते दृष्ट्वा स्वप्ने पश्यति तन्मयः ।
असत्स्वप्नेऽपि दृष्ट्वा च प्रतिबुद्धो न पश्यति ॥ ३९ ॥
ननु उक्तं त्वयैव स्वप्नो जागरितकार्यमिति ; तत्कथमुत्पादोऽप्रसिद्ध इति उच्यते ? शृणु तत्र यथा कार्यकारणभावोऽस्माभिरभिप्रेत इति । असत् अविद्यमानं रज्जुसर्पवद्विकल्पितं वस्तु जागरिते दृष्ट्वा तद्भावभावितस्तन्मयः स्वप्नेऽपि जागरितवत् ग्राह्यग्राहकरूपेण विकल्पयन्पश्यति, तथा असत्स्वप्नेऽपि दृष्ट्वा च प्रतिबुद्धो न पश्यति अविकल्पयन् , च - शब्दात् । तथा जागरितेऽपि दृष्ट्वा स्वप्ने न पश्यति कदाचिदित्यर्थः । तस्माज्जागरितं स्वप्नहेतुरित्युच्यते, न तु परमार्थसदिति कृत्वा ॥
नास्त्यसद्धेतुकमसत्सदसद्धेतुकं तथा ।
सच्च सद्धेतुकं नास्ति सद्धेतुकमसत्कुतः ॥ ४० ॥
परमार्थतस्तु न कस्यचित्केनचिदपि प्रकारेण कार्यकारणभाव उपपद्यते । कथम् ? नास्ति असद्धेतुकम् असत् शशविषाणादि हेतुः कारणं यस्य असत एव खपुष्पादेः, तत् असद्धेतुकम् असत् न विद्यते । तथा सदपि घटादिवस्तु असद्धेतुकम् शशविषाणादिकार्यं नास्ति । तथा सच्च विद्यमानं घटादि वस्त्वन्तरकार्यं नास्ति । सत्कार्यम् असत् कुत एव सम्भवति ? न चान्यः कार्यकारणभावः सम्भवति शक्यो वा कल्पयितुम् । अतो विवेकिनामसिद्ध एव कार्यकारणभावः कस्यचिदित्यभिप्रायः ॥
विपर्यासाद्यथा जाग्रदचिन्त्यान्भूतवत्स्पृशेत् ।
तथा स्वप्ने विपर्यासाद्धर्मांस्तत्रैव पश्यति ॥ ४१ ॥
पुनरपि जाग्रत्स्वप्नयोरसतोरपि कार्यकारणभावाशङ्कामपनयन्नाह — विपर्यासात् अविवेकतः यथा जाग्रत् जागरिते अचिन्त्यान्भावान् अशक्यचिन्तनान् रज्जुसर्पादीन् भूतवत् परमार्थवत् स्पृशेत् ; स्पृशन्निव विकल्पयेदित्यर्थः, कश्चिद्यथा, तथा स्वप्ने विपर्यासात् हस्त्यादीन्पश्यन्निव विकल्पयति । तत्रैव पश्यति, न तु जागरितादुत्पद्यमानानित्यर्थः ॥
उपलम्भात्समाचारादस्तिवस्तुत्ववादिनाम् ।
जातिस्तु देशिता बुद्धैरजातेस्त्रसतां सदा ॥ ४२ ॥
यापि बुद्धैः अद्वैतवादिभिः जातिः देशिता उपदिष्टा, उपलम्भनमुपलम्भः, तस्मात् उपलब्धेरित्यर्थः । समाचारात् वर्णाश्रमादिधर्मसमाचरणाच्च ताभ्यां हेतुभ्याम् अस्तिवस्तुत्ववादिनाम् अस्ति वस्तुभाव इत्येवंवदनशीलानां दृढाग्रहवतां श्रद्दधानां मन्दविवेकिनामर्थोपायत्वेन सा देशिता जातिः तां गृह्णन्तु तावत् । वेदान्ताभ्यासिनां तु स्वयमेव अजाद्वयात्मविषयो विवेको भविष्यतीति ; न तु परमार्थबुद्ध्या । ते हि श्रोत्रियाः स्थूलबुद्धित्वात् अजातेः अजातिवस्तुनः सदा त्रस्यन्ति आत्मनाशं मन्यमाना अविवेकिन इत्यर्थः । ‘उपायः सोऽवताराय’ (मा. का. ३ । १५) इत्युक्तम् ॥
अजातेस्त्रसतां तेषामुपलम्भाद्वियन्ति ये ।
जातिदोषा न सेत्स्यन्ति दोषोऽप्यल्पो भविष्यति ॥ ४३ ॥
ये च एवमुपलम्भात्समाचाराच्च अजातेः अजातिवस्तुनः त्रसन्तः अस्ति वस्त्विति अद्वयादात्मनः, वियन्ति विरुद्धं यन्ति द्वैतं प्रतिपद्यन्त इत्यर्थः । तेषाम् अजातेः त्रसतां श्रद्दधानानां सन्मार्गावलम्बिनां जातिदोषाः जात्युपलम्भकृता दोषाः न सेत्स्यन्ति सिद्धिं नोपयास्यन्ति, विवेकमार्गप्रवृत्तत्वात् । यद्यपि कश्चिद्दोषः स्यात् , सोऽप्यल्प एव भविष्यति, सम्यग्दर्शनाप्रतिपत्तिहेतुक इत्यर्थः ॥
उपलम्भात्समाचारान्मायाहस्ती यथोच्यते ।
उपलम्भात्समाचारादस्ति वस्तु तथोच्यते ॥ ४४ ॥
ननु उपलम्भसमाचारयोः प्रमाणत्वादस्त्येव द्वैतं वस्त्विति ; न, उपलम्भसमाचारयोर्व्यभिचारात् । कथं व्यभिचार इति, उच्यते — उपलभ्यते हि मायाहस्ती हस्तीव, हस्तिनमिवात्र समाचरन्ति बन्धनारोहणादिहस्तिसम्बन्धिभिर्धर्मैः, हस्तीति चोच्यते असन्नपि यथा, तथैव उपलम्भात्समाचारात् द्वैतं भेदरूपं अस्ति वस्तु इत्युच्यते । तस्मान्नोपलम्भसमाचारौ द्वैतवस्तुसद्भावे हेतू भवत इत्यभिप्रायः ॥
जात्याभासं चलाभासं वस्त्वाभासं तथैव च ।
अजाचलमवस्तुत्वं विज्ञानं शान्तमद्वयम् ॥ ४५ ॥
किं पुनः परमार्थसद्वस्तु, यदास्पदा जात्याद्यसद्बुद्धय इत्याह — अजाति सत् जातिवदवभासत इति जात्याभासम् , तद्यथा देवदत्तो जायत इति । चलाभासं चलमिवाभासत इति, यथा स एव देवदत्तो गच्छतीति । वस्त्वाभासं वस्तु द्रव्यं धर्मि, तद्वदवभासत इति वस्त्वाभासम् , यथा स एव देवदत्तो गौरो दीर्घ इति । जायते देवदत्तः स्पन्दते दीर्घो गौर इत्येवमवभासते । परमार्थतस्तु अजमचलमवस्तुत्वमद्रव्यं च । किं तदेवंप्रकारम् ? विज्ञानं विज्ञप्तिः, जात्यादिरहितत्वाच्छान्तम् अत एव अद्वयं च तदित्यर्थः ॥
एवं न जायते चित्तमेवं धर्मा अजाः स्मृताः ।
एवमेव विजानन्तो न पतन्ति विपर्यये ॥ ४६ ॥
एवं यथोक्तेभ्यो हेतुभ्यः न जायते चित्तम् । एवं धर्माः आत्मानः अजाः स्मृताः ब्रह्मविद्भिः । धर्मा इति बहुवचनं देहभेदानुविधायित्वादद्वयस्यैव उपचारतः । एवमेव यथोक्तं विज्ञानं जात्यादिरहितमद्वयमात्मतत्त्वं विजानन्तः त्यक्तबाह्यैषणाः पुनर्न पतन्ति अविद्याध्वान्तसागरे विपर्यये ; ‘तत्र को मोहः कः शोक एकत्वमनुपश्यतः’ (ई. उ. ७) इत्यादिमन्त्रवर्णात् ॥
ऋजुवक्रादिकाभासमलातस्पन्दितं यथा ।
ग्रहणग्राहकाभासं विज्ञानस्पन्दितं तथा ॥ ४७ ॥
यथोक्तं परमार्थदर्शनं प्रपञ्चयिष्यन्नाह — यथा हि लोके ऋजुवक्रादिप्रकाराभासम् अलातस्पन्दितम् उल्काचलनम् , तथा ग्रहणग्राहकाभासं विषयिविषयाभासमित्यर्थः । किं तत् ? विज्ञानस्पन्दितं स्पन्दितमिव स्पन्दितमविद्यया । न ह्यचलस्य विज्ञानस्य स्पन्दनमस्ति, ‘अजाचलम्’ (मा. का. ४ । ४५) इति ह्युक्तम् ॥
अस्पन्दमानमलातमनाभासमजं यथा ।
अस्पन्दमानं विज्ञानमनाभासमजं तथा ॥ ४८ ॥
अस्पन्दमानं स्पन्दनवर्जितं तदेव अलातम् ऋज्वाद्याकारेणाजायमानम् अनाभासम् अजं यथा, तथा अविद्यया स्पन्दमानम् अविद्योपरमे अस्पन्दमानं जात्याद्याकारेण अनाभासम् अजम् अचलं भविष्यतीत्यर्थः ॥
अलाते स्पन्दमाने वै नाभासा अन्यतोभुवः ।
न ततोऽन्यत्र निःस्पन्दान्नालातं प्रविशन्ति ते ॥ ४९ ॥
किं च, तस्मिन्नेव अलाते स्पन्दमाने ऋजुवक्राद्याभासाः अलातादन्यतः कुतश्चिदागत्यालाते नैव भवन्तीति नान्यतोभुवः । न च तस्मान्निःस्पन्दादलातादन्यत्र निर्गताः । न च निःस्पन्दमलातमेव प्रविशन्ति ते ॥
न निर्गता अलातात्ते द्रव्यत्वाभावयोगतः ।
विज्ञानेऽपि तथैव स्युराभासस्याविशेषतः ॥ ५० ॥
किं च, न निर्गता अलातात् ते आभासाः गृहादिव, द्रव्यत्वाभावयोगतः, द्रव्यस्य भावो द्रव्यत्वम् , तदभावः द्रव्यत्वाभावः, द्रव्यत्वाभावयोगतः द्रव्यत्वाभावयुक्तेः वस्तुत्वाभावादित्यर्थः । वस्तुनो हि प्रवेशादि सम्भवति, नावस्तुनः । विज्ञानेऽपि जात्याद्याभासाः तथैव स्युः, आभासस्य अविशेषतः तुल्यत्वात् ॥
विज्ञाने स्पन्दमाने वै नाभासा अन्यतोभुवः ।
न ततोऽन्यत्र निःस्पन्दान्न विज्ञानं विशन्ति ते ॥ ५१ ॥
न निर्गतास्ते विज्ञानाद्द्रव्यत्वाभावयोगतः ।
कार्यकारणताभावाद्यतोऽचिन्त्याः सदैव ते ॥ ५२ ॥
कथं तुल्यत्वमित्याह — अलातेन समानं सर्वं विज्ञानस्य ; सदा अचलत्वं तु विज्ञानस्य विशेषः । जात्याद्याभासा विज्ञाने अचले किङ्कृता इत्याह — कार्यकारणताभावात् जन्यजनकत्वानुपपत्तेरभावरूपत्वात् अचिन्त्याः ते यतः सदैव । यथा असत्सु ऋज्वाद्याभासेषु ऋज्वादिबुद्धिर्दृष्टा अलातमात्रे, तथा असत्स्वेव जात्यादिषु विज्ञानमात्रे जात्यादिबुद्धिर्मृषैवेति समुदायार्थः ॥
द्रव्यं द्रव्यस्य हेतुः स्यादन्यदन्यस्य चैव हि ।
द्रव्यत्वमन्यभावो वा धर्माणां नोपपद्यते ॥ ५३ ॥
अजमेकमात्मतत्त्वमिति स्थितम् । तत्र यैरपि कार्यकारणभावः कल्प्यते, तेषां द्रव्यं द्रव्यस्यान्यस्यान्यत् हेतुः कारणं स्यात् , न तु तस्यैव तत् । नाप्यद्रव्यं कस्यचित्कारणं स्वतन्त्रं दृष्टं लोके । न च द्रव्यत्वं धर्माणाम् आत्मनाम् उपपद्यते अन्यत्वं वा कुतश्चित् , येन अन्यस्य कारणत्वं कार्यत्वं वा प्रतिपद्येत । अतः अद्रव्यत्वादनन्यत्वाच्च न कस्यचित्कार्यं कारणं वा आत्मेत्यर्थः ॥
एवं न चित्तजा धर्माश्चित्तं वापि न धर्मजम् ।
एवं हेतुफलाजातिं प्रविशन्ति मनीषिणः ॥ ५४ ॥
एवं यथोक्तेभ्यो हेतुभ्यः आत्मविज्ञानस्वरूपमेव चित्तमिति, न चित्तजाः बाह्यधर्माः, नापि बाह्यधर्मजं चित्तम् , विज्ञानस्वरूपाभासमात्रत्वात्सर्वधर्माणाम् । एवं न हेतोः फलं जायते, नापि फलाद्धेतुरिति हेतुफलयोरजातिं हेतुफलाजातिं प्रविशन्ति अध्यवस्यन्ति । आत्मनि हेतुफलयोरभावमेव प्रतिपद्यन्ते ब्रह्मविद इत्यर्थः ॥
यावद्धेतुफलावेशस्तावद्धेतुफलोद्भवः ।
क्षीणे हेतुफलावेशे नास्ति हेतुफलोद्भवः ॥ ५५ ॥
ये पुनर्हेतुफलयोरभिनिविष्टाः, तेषां किं स्यादिति, उच्यते — धर्माधर्माख्यस्य हेतोः अहं कर्ता मम धर्माधर्मौ तत्फलं कालान्तरे क्वचित्प्राणिनिकाये जातो भोक्ष्ये इति यावद्धेतुफलयोरावेशः हेतुफलाग्रह आत्मन्यध्यारोपणम् , तच्चित्ततेत्यर्थः ; तावद्धेतुफलयोरुद्भवः धर्माधर्मयोस्तत्फलस्य चानुच्छेदेन प्रवृत्तिरित्यर्थः । यदा पुनर्मन्त्रौषधिवीर्येणेव ग्रहावेशो यथोक्ताद्वैतदर्शनेन अविद्योद्भूतहेतुफलावेशोपनीतो भवति, तदा तस्मिन्क्षीणे नास्ति हेतुफलोद्भवः ॥
यावद्धेतुफलावेशः संसारस्तावदायतः ।
क्षीणे हेतुफलावेशे संसारं न प्रपद्यते ॥ ५६ ॥
यदि हेतुफलोद्भवः, तदा को दोष इति, उच्यते — यावत् सम्यग्दर्शनेन हेतुफलावेशः न निवर्तते, अक्षीणः संसारः तावत् आयातः दीर्घो भवतीत्यर्थः । क्षीणे पुनः हेतुफलावेशे संसारं न प्रपद्यते, कारणाभावात् ॥
संवृत्या जायते सर्वं शाश्वतं नास्ति तेन वै ।
सद्भावेन ह्यजं सर्वमुच्छेदस्तेन नास्ति वै ॥ ५७ ॥
ननु अजादात्मनोऽन्यन्नास्त्येव ; तत्कथं हेतुफलयोः संसारस्य च उत्पत्तिविनाशावुच्येते त्वया ? शृणु ; संवृत्या संवरणं संवृतिः अविद्याविषयो लौकिकव्यवहारः ; तया संवृत्या जायते सर्वम् । तेन अविद्याविषये शाश्वतं नित्यं नास्ति वै । अतः उत्पत्तिविनाशलक्षणः संसारः आयत इत्युच्यते । परमार्थसद्भावेन तु अजं सर्वम् आत्मैव यस्मात् ; अतो जात्यभावात् उच्छेदः तेन नास्ति वै कस्यचिद्धेतुफलादेरित्यर्थः ॥
धर्मा य इति जायन्ते जायन्ते ते न तत्त्वतः ।
जन्म मायोपमं तेषां सा च माया न विद्यते ॥ ५८ ॥
येऽप्यात्मानोऽन्ये च धर्मा जायन्त इति कल्प्यन्ते, ते इति एवंप्रकारा यथोक्ता संवृतिर्निर्दिश्यत इति संवृत्यैव धर्मा जायन्ते । न ते तत्त्वतः परमार्थतः जायन्ते । यत्पुनस्तत्संवृत्या जन्म तेषां धर्माणां यथोक्तानां यथा मायया जन्म तथा तत् मायोपमं प्रत्येतव्यम् । माया नाम वस्तु तर्हि ; नैवम् , सा च माया न विद्यते । मायेत्यविद्यमानस्याख्येत्यभिप्रायः ॥
यथा मायामयाद्बीजाज्जायते तन्मयोऽङ्कुरः ।
नासौ नित्यो न चोच्छेदी तद्वद्धर्मेषु योजना ॥ ५९ ॥
कथं मायोपमं तेषां धर्माणां जन्मेति, आह — यथा मायामयात् आम्रादिबीजात् जायते तन्मयः मायामयः अङ्कुरः, नासावङ्कुरो नित्यः, न च उच्छेदी विनाशी वा । अभूतत्वादेव धर्मेषु जन्मनाशादियोजना युक्तिः, न तु परमार्थतो धर्माणां जन्म नाशो वा युज्यत इत्यर्थः ॥
नाजेषु सर्वधर्मेषु शाश्वताशाश्वताभिधा ।
यत्र वर्णा न वर्तन्ते विवेकस्तत्र नोच्यते ॥ ६० ॥
परमार्थतस्त्वात्मस्वजेषु नित्यैकरसविज्ञप्तिमात्रसत्ताकेषु शाश्वतः अशाश्वतः इति वा न अभिधा, नाभिधानं प्रवर्तत इत्यर्थः । यत्र येषु वर्ण्यन्ते यैरर्थाः, ते वर्णाः शब्दा न वर्तन्ते अभिधातुं प्रकाशयितुं न प्रवर्तन्त इत्यर्थः । इदमेवमिति विवेकः विविक्तता तत्र नित्योऽनित्य इति नोच्यते, ‘यतो वाचो निवर्तन्ते’ (तै. उ. २ । ९ । १) इति श्रुतेः ॥
यथा स्वप्ने द्वयाभासं चित्तं चलति मायया ।
तथा जाग्रद्द्वयाभासं चित्तं चलति मायया ॥ ६१ ॥
अद्वयं च द्वयाभासं चित्तं स्वप्ने न संशयः ।
अद्वयं च द्वयाभासं तथा जाग्रन्न संशयः ॥ ६२ ॥
यत्पुनर्वाग्गोचरत्वं परमार्थतः अद्वयस्य विज्ञानमात्रस्य, तन्मनसः स्पन्दनमात्रम् , न परमार्थतः इत्युक्तार्थौ श्लोकौ ॥
स्वप्नदृक्प्रचरन्स्वप्ने दिक्षु वै दशसु स्थितान् ।
अण्डजान्स्वेदजान्वापि जीवान्पश्यति यान्सदा ॥ ६३ ॥
इतश्च वाग्गोचरस्याभावो द्वैतस्य — स्वप्नान्पश्यतीति स्वप्नदृक् प्रचरन् पर्यटन्स्वप्ने स्वप्नस्थाने दिक्षु वै दशसु स्थितान् वर्तमानान् जीवान्प्राणिनः अण्डजान्स्वेदजान्वा यान् सदा पश्यतीति ॥
स्वप्नदृक्चित्तदृश्यास्ते न विद्यन्ते ततः पृथक् ।
तथा तद्दृश्यमेवेदं स्वप्नदृक्चित्तमिष्यते ॥ ६४ ॥
यद्येवम् , ततः किम् ? उच्यते — स्वप्नदृशश्चित्तं स्वप्नदृक्चित्तम् , तेन दृश्याः ते जीवाः ; ततः तस्मात् स्वप्नदृक्चित्तात् पृथक् न विद्यन्ते न सन्तीत्यर्थः । चित्तमेव ह्यनेकजीवादिभेदाकारेण विकल्प्यते । तथा तदपि स्वप्नदृक्चित्तमिदं तद्दृश्यमेव, तेन स्वप्नदृशा दृश्यं तद्दृश्यम् । अतः स्वप्नदृग्व्यतिरेकेण चित्तं नाम नास्तीत्यर्थः ॥
चरञ्जागरिते जाग्रद्दिक्षु वै दशसु स्थितान् ।
अण्डजान्स्वेदजान्वापि जीवान्पश्यति यान्सदा ॥ ६५ ॥
जाग्रच्चित्तेक्षणीयास्ते न विद्यन्ते ततः पृथक् ।
तथा तद्दृश्यमेवेदं जाग्रतश्चित्तमिष्यते ॥ ६६ ॥
जाग्रतो दृश्या जीवाः तच्चित्ताव्यतिरिक्ताः, चित्तेक्षणीयत्वात् , स्वप्नदृक्चित्तेक्षणीयजीववत् । तच्च जीवेक्षणात्मकं चित्तं द्रष्टुरव्यतिरिक्तं द्रष्टृदृश्यत्वात् स्वप्नचित्तवत् । उक्तार्थमन्यत् ॥
उभे ह्यन्योन्यदृश्ये ते किं तदस्तीति चोच्यते ।
लक्षणाशून्यमुभयं तन्मते नैव गृह्यते ॥ ६७ ॥
जीवचित्ते उभे चित्तचैत्त्ये ते अन्योन्यदृश्ये इतरेतरगम्ये । जीवादिविषयापेक्षं हि चित्तं नाम भवति । चित्तापेक्षं हि जीवादि दृश्यम् । अतस्ते अन्योन्यदृश्ये । तस्मान्न किञ्चिदस्तीति चोच्यते चित्तं वा चित्तेक्षणीयं वा । किं तदस्तीति विवेकिनोच्यते । न हि स्वप्ने हस्ती हस्तिचित्तं वा विद्यते ; तथा इहापि विवेकिनामित्यभिप्रायः । कथम् ? लक्षणाशून्यं लक्ष्यते अनयेति लक्षणा प्रमाणम् ; प्रमाणशून्यमुभयं चित्तं चैत्त्यं द्वयं यतः, तन्मतेनैव तच्चित्ततयैव तत् गृह्यते । न हि घटमतिं प्रत्याख्याय घटो गृह्यते, नापि घटं प्रत्याख्याय घटमतिः । न हि तत्र प्रमाणप्रमेयभेदः शक्यते कल्पयितुमित्यभिप्रायः ॥
यथा स्वप्नमयो जीवो जायते म्रियतेऽपि च ।
तथा जीवा अमी सर्वे भवन्ति न भवन्ति च ॥ ६८ ॥
यथा मायामयो जीवो जायते म्रियतेऽपि च ।
तथा जीवा अमी सर्वे भवन्ति न भवन्ति च ॥ ६९ ॥
यथा निर्मितको जीवो जायते म्रियतेऽपि च ।
तथा जीवा अमी सर्वे भवन्ति न भवन्ति च ॥ ७० ॥
मायामयः मायाविना यः कृतो निर्मितकः मन्त्रौषध्यादिभिर्निष्पादितः । स्वप्नमायानिर्मितका अण्डजादयो जीवा यथा जायन्ते म्रियन्ते च, तथा मनुष्यादिलक्षणा अविद्यमाना एव चित्तविकल्पनामात्रा इत्यर्थः ॥
न कश्चिज्जायते जीवः सम्भवोऽस्य न विद्यते ।
एतत्तदुत्तमं सत्यं यत्र किञ्चिन्न जायते ॥ ७१ ॥
व्यवहारसत्यविषये जीवानां जन्ममरणादिः स्वप्नादिजीववदित्युक्तम् । उत्तमं तु परमार्थसत्यं न कश्चिज्जायते जीव इति । उक्तार्थमन्यत् ॥
चित्तस्पन्दितमेवेदं ग्राह्यग्राहकवद्द्वयम् ।
चित्तं निर्विषयं नित्यमसङ्गं तेन कीर्तितम् ॥ ७२ ॥
सर्वं ग्राह्यग्राहकवच्चित्तस्पन्दितमेव द्वयम् । चित्तं परमार्थत आत्मैवेति निर्विषयम् । तेन निर्विषयत्वेन नित्यम् असङ्गं कीर्तितम् । ‘असङ्गो ह्ययं पुरुषः’ (बृ. उ. ४ । ३ । १५) इति श्रुतेः । सविषयस्य हि विषये सङ्गः । निर्विषयत्वाच्चित्तमसङ्गमित्यर्थः ॥
योऽस्ति कल्पितसंवृत्या परमार्थेन नास्त्यसौ ।
परतन्त्राभिसंवृत्या स्यान्नास्ति परमार्थतः ॥ ७३ ॥
ननु निर्विषयत्वेन चेदसङ्गत्वम् , चित्तस्य न निःसङ्गता भवति, यस्मात् शास्ता शास्त्रं शिष्यश्चेत्येवमादेर्विषयस्य विद्यमानत्वात् ; नैष दोषः । कस्मात् ? यः पदार्थः शास्त्रादिर्विद्यते, स कल्पितसंवृत्या । कल्पिता च सा परमार्थप्रतिपत्त्युपायत्वेन संवृतिश्च सा तया योऽस्ति परमार्थेन, नास्त्यसौ न विद्यते । ‘ज्ञाते द्वैतं न विद्यते’ (मा. का. १ । १८) इत्युक्तम् । यश्च परतन्त्राभिसंवृत्या परशास्त्रव्यवहारेण स्यात्पदार्थः, स परमार्थतो निरूप्यमाणो नास्त्येव । तेन युक्तमुक्तम् ‘असङ्गं तेन कीर्तितम्’ (मा. का. ४ । ७२) इति ॥
अजः कल्पितसंवृत्या परमार्थेन नाप्यजः ।
परतन्त्राभिनिष्पत्त्या संवृत्या जायते तु सः ॥ ७४ ॥
ननु शास्त्रादीनां संवृतित्वे अज इतीयमपि कल्पना संवृतिः स्यात् । सत्यमेवम् ; शास्त्रादिकल्पितसंवृत्यैव अज इत्युच्यते । परमार्थेन नाप्यजः, यस्मात् परतन्त्राभिनिष्पत्त्या परशास्त्रसिद्धिमपेक्ष्य यः अज इत्युक्तः, स संवृत्या जायते । अतः अज इतीयमपि कल्पना परमार्थविषये नैव क्रमत इत्यर्थः ॥
अभूताभिनिवेशोऽस्ति द्वयं तत्र न विद्यते ।
द्वयाभावं स बुद्ध्वैव निर्निमित्तो न जायते ॥ ७५ ॥
यस्मादसद्विषयः, तस्मात् असत्यभूते द्वैते अभिनिवेशोऽस्ति केवलम् । अभिनिवेशः आग्रहमात्रम् । द्वयं तत्र न विद्यते मिथ्याभिनिवेशमात्रं च जन्मनः कारणं यस्मात् , तस्मात् द्वयाभावं बुद्ध्वा निर्निमित्तः निवृत्तमिथ्याद्वयाभिनिवेशः यः, सः न जायते ॥
यदा न लभते हेतूनुत्तमाधममध्यमान् ।
तदा न जायते चित्तं हेत्वभावे फलं कुतः ॥ ७६ ॥
जात्याश्रमविहिता आशीर्वर्जितैरनुष्ठीयमाना धर्मा देवत्वादिप्राप्तिहेतव उत्तमाः केवलाश्च । धर्माः अधर्मव्यामिश्रामनुष्यत्वादिप्राप्त्यर्था मध्यमाः । तिर्यगादिप्राप्तिनिमित्ता अधर्मलक्षणाः प्रवृत्तिविशेषाश्चाधमाः । तानुत्तममध्यमाधमानविद्यापरिकल्पितान् यदा एकमेवाद्वितीयमात्मतत्त्वं सर्वकल्पनावर्जितं जानन् न लभते न पश्यति, यथा बालैर्दृश्यमानं गगने मलं विवेकी न पश्यति, तद्वत् , तदा न जायते नोत्पद्यते चित्तं देवाद्याकारैः उत्तमाधममध्यमफलरूपेण । न ह्यसति हेतौ फलमुत्पद्यते बीजाद्यभाव इव सस्यादि ॥
अनिमित्तस्य चित्तस्य यानुत्पत्तिः समाद्वया ।
अजातस्यैव सर्वस्य चित्तदृश्यं हि तद्यतः ॥ ७७ ॥
हेत्वभावे चित्तं नोत्पद्यत इति हि उक्तम् । सा पुनरनुत्पत्तिश्चित्तस्य कीदृशीत्युच्यते — परमार्थदर्शनेन निरस्तधर्माधर्माख्योत्पत्तिनिमित्तस्य अनिमित्तस्य चित्तस्येति या मोक्षाख्या अनुत्पत्तिः, सा सर्वदा सर्वावस्थासु समा निर्विशेषा अद्वया च ; पूर्वमपि अजातस्यैव अनुत्पन्नस्य चित्तस्य सर्वस्याद्वयस्येत्यर्थः । यस्मात्प्रागपि विज्ञानात् चित्तं दृश्यं तद्द्वयं जन्म च, तस्मादजातस्य सर्वस्य सर्वदा चित्तस्य समा अद्वयैव अनुत्पत्तिः न पुनः कदाचिद्भवति, कदाचिद्वा न भवति । सर्वदा एकरूपैवेत्यर्थः ॥
बुद्ध्वानिमित्ततां सत्यां हेतुं पृथगनाप्नुवन् ।
वीतशोकं तथा काममभयं पदमश्नुते ॥ ७८ ॥
यथोक्तेन न्यायेन जन्मनिमित्तस्य द्वयस्य अभावादनिमित्ततां च सत्यां परमार्थरूपां बुद्ध्वा हेतुं धर्मादिकारणं देवादियोनिप्राप्तये पृथगनाप्नुवन् अनुपाददानः त्यक्तबाह्यैषणः सन् कामशोकादिवर्जितम् अविद्यादिरहितम् अभयं पदम् अश्नुते, पुनर्न जायत इत्यर्थः ॥
अभूताभिनिवेशाद्धि सदृशे तत्प्रवर्तते ।
वस्त्वभावं स बुद्ध्वैव निःसङ्गं विनिवर्तते ॥ ७९ ॥
यस्मात् अभूताभिनिवेशात् असति द्वये द्वयास्तित्वनिश्चयः अभूताभिनिवेशः, तस्मात् अविद्याव्यामोहरूपाद्धि सदृशे तदनुरूपे तत् चित्तं प्रवर्तते । तस्य द्वयस्य वस्तुनः अभावं यदा बुद्धवान् , तदा तस्मात् निःसङ्गं निरपेक्षं सत् विनिवर्तते अभूताभिनिवेशविषयात् ॥
निवृत्तस्याप्रवृत्तस्य निश्चला हि तदा स्थितिः ।
विषयः स हि बुद्धानां तत्साम्यमजमद्वयम् ॥ ८० ॥
निवृत्तस्य द्वैतविषयात् , विषयान्तरे च अप्रवृत्तस्य अभावदर्शनेन चित्तस्य निश्चला चलनवर्जिता ब्रह्मस्वरूपैव तदा स्थितिः, यैषा ब्रह्मस्वरूपा स्थितिः चित्तस्य अद्वयविज्ञानैकरसघनलक्षणा । स हि यस्मात् विषयः गोचरः परमार्थदर्शिनां बुद्धानाम् , तस्मात् तत्साम्यं परं निर्विशेषमजमद्वयं च ॥
अजमनिद्रमस्वप्नं प्रभातं भवति स्वयम् ।
सकृद्विभातो ह्येवैष धर्मो धातुस्वभावतः ॥ ८१ ॥
पुनरपि कीदृशश्चासौ बुद्धानां विषय इत्याह — स्वयमेव तत् प्रभातं भवति न आदित्याद्यपेक्षम् ; स्वयं ज्योतिःस्वभावमित्यर्थः । सकृद्विभातः सदैव विभात इत्येतत् । एषः एवंलक्षणः आत्माख्यो धर्मः धातुस्वभावतः वस्तुस्वभावत इत्यर्थः ॥
सुखमाव्रियते नित्यं दुःखं विव्रियते सदा ।
यस्य कस्य च धर्मस्य ग्रहेण भगवानसौ ॥ ८२ ॥
एवं बहुश उच्यमानमपि परमार्थतत्त्वं कस्माल्लौकिकैर्न गृह्यत इत्युच्यते — यस्मात् यस्य कस्यचित् द्वयवस्तुनो धर्मस्य ग्रहेण ग्रहणावेशेन मिथ्याभिनिविष्टतया सुखमाव्रियते अनायासेन आच्छाद्यत इत्यर्थः । द्वयोपलब्धिनिमित्तं हि तत्रावरणं न यत्नान्तरमपेक्षते । दुःखं च विव्रियते प्रकटीक्रियते, परमार्थज्ञानस्य दुर्लभत्वात् । भगवानसौ आत्माद्वयो देव इत्यर्थः । अतो वेदान्तैराचार्यैश्च बहुश उच्यमानोऽपि नैव ज्ञातुं शक्य इत्यर्थः, ‘आश्चर्यो वक्ता कुशलोऽस्य लब्धा’ (क. उ. १ । २ । ७) इति श्रुतेः ॥
अस्ति नास्त्यस्ति नास्तीति नास्ति नास्तीति वा पुनः ।
चलस्थिरोभयाभावैरावृणोत्येव बालिशः ॥ ८३ ॥
अस्ति नास्तीत्यादि सूक्ष्मविषया अपि पण्डितानां ग्रहाः भगवतः परमात्मन आवरणा एव ; किमुत मूढजनानां बुद्धिलक्षणा इत्येवमर्थं प्रदर्शयन्नाह — अस्तीति । अस्त्यात्मेति कश्चिद्वादी प्रतिपद्यते । नास्तीत्यपरो वैनाशिकः । अस्ति नास्तीत्यपरोऽर्धवैनाशिकः सदसद्वादी दिग्वासाः । नास्ति नास्तीत्यत्यन्तशून्यवादी । तत्रास्तिभावश्चलः, घटाद्यनित्यविलक्षणत्वात् । नास्तिभावः स्थिरः, सदाविशेषत्वात् । उभयं चलस्थिरविषयत्वात् सदसद्भावः । अभावोऽत्यन्ताभावः । प्रकारचतुष्टयस्यापि तैरेतैश्चलस्थिरोभयाभावैः सदसदादिवादी सर्वोऽपि भगवन्तमावृणोत्येव बालिशोऽविवेकी । यद्यपि पण्डितो बालिश एव परमार्थतत्त्वानवबोधात् , किमु स्वभावमूढो जन इत्यभिप्रायः ॥
कोट्यश्चतस्र एतास्तु ग्रहैर्यासां सदावृतः ।
भगवानाभिरस्पृष्टो येन दृष्टः स सर्वदृक् ॥ ८४ ॥
कीदृक्पुनः परमार्थतत्त्वम् , यदवबोधादबालिशः पण्डितो भवतीत्याह — कोट्यः प्रावादुकशास्त्रनिर्णयान्ताः एताः उक्ता अस्ति नास्तीत्याद्याः चतस्रः, यासां कोटीनां ग्रहैः ग्रहणैः उपलब्धिनिश्चयैः सदा सर्वदा आवृतः आच्छादितः तेषामेव प्रावादुकानां यः, स भगवान् आभिः अस्ति नास्तीत्यादिकोटिभिः चतसृभिरपि अस्पृष्टः अस्त्यादिविकल्पनावर्जित इत्येतत् । येन मुनिना दृष्टो ज्ञातः वेदान्तेष्वौपनिषदः पुरुषः, स सर्वदृक् सर्वज्ञः ; परमार्थपण्डित इत्यर्थः ॥
प्राप्य सर्वज्ञतां कृत्स्नां ब्राह्मण्यं पदमद्वयम् ।
अनापन्नादिमध्यान्तं किमतः परमीहते ॥ ८५ ॥
प्राप्य एतां यथोक्तां कृत्स्नां समस्तां सर्वज्ञतां ब्राह्मण्यं पदम् ‘स ब्राह्मणः’ (बृ. उ. ३ । ८ । १०) ‘एष नित्यो महिमा ब्राह्मणस्य’ (बृ. उ. ४ । ४ । २३) इति श्रुतेः । अनापन्नादिमध्यान्तम् आदिमध्यान्ताः उत्पत्तिस्थितिलयाः अनापन्ना अप्राप्ता यस्य अद्वयस्य पदस्य न विद्यन्ते, तत् अनापन्नादिमध्यान्तं ब्राह्मण्यं पदम् । तदेव प्राप्य लब्ध्वा किमतः परमस्मादात्मलाभादूर्ध्वम् ईहते चेष्टते, निष्प्रयोजनमित्यर्थः । ‘नैव तस्य कृतेनार्थः’ (भ. गी. ३ । १८) इत्यादिस्मृतेः ॥
विप्राणां विनयो ह्येष शमः प्राकृत उच्यते ।
दमः प्रकृतिदान्तत्वादेवं विद्वाञ्शमं व्रजेत् ॥ ८६ ॥
विप्राणां ब्राह्मणानां विनयः विनीतत्वं स्वाभाविकं यदेतदात्मस्वरूपेणावस्थानम् । एष विनयः शमोऽप्येष एव प्राकृतः स्वाभाविकः अकृतकः उच्यते । दमोऽप्येष एव प्रकृतिदान्तत्वात् स्वभावत एव चोपशान्तरूपत्वाद्ब्रह्मणः । एवं यथोक्तं स्वभावोपशान्तं ब्रह्म विद्वान् शमम् उपशान्तिं स्वाभाविकीं ब्रह्मस्वरूपां व्रजेत् ब्रह्मस्वरूपेणावतिष्ठत इत्यर्थः ॥
सवस्तु सोपलम्भं च द्वयं लौकिकमिष्यते ।
अवस्तु सोपलम्भं च शुद्धं लौकिकमिष्यते ॥ ८७ ॥
एवमन्योन्यविरुद्धत्वात् संसारकारणरागद्वेषदोषास्पदानि प्रावादुकानां दर्शनानि । अतो मिथ्यादर्शनानि तानीति तद्युक्तिभिरेव दर्शयित्वा चतुष्कोटिवर्जितत्वात् रागादिदोषानास्पदं स्वभावशान्तमद्वैतदर्शनमेव सम्यग्दर्शनमित्युपसंहृतम् । अथेदानीं स्वप्रक्रियाप्रदर्शनार्थ आरम्भः — सवस्तु संवृतिसता वस्तुना सह वर्तत इति सवस्तु, तथा च उपलब्धिरुपलम्भः, तेन सह वर्तत इति सोपलम्भं च शास्त्रादिसर्वव्यवहारास्पदं ग्राह्यग्रहणलक्षणं द्वयं लोकादनपेतं लौकिकं जागरितमित्येतत् । एवंलक्षणं जागरितमिष्यते वेदान्तेषु । अवस्तु संवृतेरप्यभावात् । सोपलम्भं वस्तुवदुपलम्भनमुपलम्भः असत्यपि वस्तुनि, तेन सह वर्तत इति सोपलम्भं च । शुद्धं केवलं प्रविभक्तं जागरितात्स्थूलाल्लौकिकं सर्वप्राणिसाधारणत्वात् इष्यते स्वप्न इत्यर्थः ॥
अवस्त्वनुपलम्भं च लोकोत्तरमिति स्मृतम् ।
ज्ञानं ज्ञेयं च विज्ञेयं सदा बुद्धैः प्रकीर्तितम् ॥ ८८ ॥
अवस्त्वनुपलम्भं च ग्राह्यग्रहणवर्जितमित्येतत् ; लोकोत्तरम् , अत एव लोकातीतम् । ग्राह्यग्रहणविषयो हि लोकः, तदभावात् सर्वप्रवृत्तिबीजं सुषुप्तमित्येतत् । एवं स्मृतं सोपायं परमार्थतत्त्वं लौकिकं शुद्धलौकिकं लोकोत्तरं च क्रमेण येन ज्ञानेन ज्ञायते, तत् ज्ञानं ज्ञेयम् एतान्येव त्रीणि, एतद्व्यतिरेकेण ज्ञेयानुपपत्तेः । सर्वप्रावादुककल्पितवस्तुनोऽत्रैवान्तर्भावात् ; विज्ञेयं यत्परमार्थसत्यं तुर्याख्यमद्वयमजमात्मतत्त्वमित्यर्थः ; सदा सर्वदैव, तल्लौकिकादि विज्ञेयान्तं बुद्धैः परमार्थदर्शिभिर्ब्रह्मविद्भिः प्रकीर्तितम् ॥
ज्ञाने च त्रिविधे ज्ञेये क्रमेण विदिते स्वयम् ।
सर्वज्ञता हि सर्वत्र भवतीह महाधियः ॥ ८९ ॥
ज्ञाने च लौकिकादिविषये ज्ञेये च लौकिकादौ त्रिविधे, पूर्वं लौकिकं स्थूलम् ; तदभावेन पश्चाच्छुद्धं लौकिकम् , तदभावेन लोकोत्तरमित्येवं क्रमेण स्थानत्रयाभावेन परमार्थसत्ये तुर्ये अद्वये अजे अभये विदिते, स्वयमेव आत्मस्वरूपमेव सर्वज्ञता सर्वश्चासौ ज्ञश्च सर्वज्ञः, तद्भावः सर्वज्ञता इह अस्मिन् लोके भवति महाधियः महाबुद्धेः । सर्वलोकातिशयवस्तुविषयबुद्धित्वादेवंविदः सर्वत्र सर्वदा भवति । सकृद्विदिते स्वरूपे व्यभिचाराभावादित्यर्थः । न हि परमार्थविदो ज्ञानिनः ज्ञानोद्भवाभिभवौ स्तः, यथा अन्येषां प्रावादुकानाम् ॥
हेयज्ञेयाप्यपाक्यानि विज्ञेयान्यग्रयाणतः ।
तेषामन्यत्र विज्ञेयादुपलम्भस्त्रिषु स्मृतः ॥ ९० ॥
लौकिकादीनां क्रमेण ज्ञेयत्वेन निर्देशादस्तित्वाशङ्का परमार्थतो मा भूदित्याह — हेयानि च लौकिकादीनि त्रीणि जागरितस्वप्नसुषुप्तानि आत्मन्यसत्त्वेन रज्ज्वां सर्पवद्धातव्यानीत्यर्थः । ज्ञेयमिह चतुष्कोटिवर्जितं परमार्थतत्त्वम् । आप्यानि आप्तव्यानि त्यक्तबाह्यैषणात्रयेण भिक्षुणा पाण्डित्यबाल्यमौनाख्यानि साधनानि । पाक्यानि रागद्वेषमोहादयो दोषाः कषायाख्यानि पक्तव्यानि । सर्वाण्येतानि हेयज्ञेयाप्यपाक्यानि विज्ञेयानि भिक्षुणा उपायत्वेनेत्यर्थः । अग्रयाणतः प्रथमतः । तेषां हेयादीनामन्यत्र विज्ञेयात्परमार्थसत्यं विज्ञेयं ब्रह्मैकं वर्जयित्वा । उपलम्भनमुपलम्भः अविद्याकल्पनामात्रम् । हेयाप्यपाक्येषु त्रिष्वपि स्मृतो ब्रह्मविद्भिः न परमार्थसत्यता त्रयाणामित्यर्थः ॥
प्रकृत्याकाशवज्ज्ञेयाः सर्वे धर्मा अनादयः ।
विद्यते न हि नानात्वं तेषां क्वचन किञ्चन ॥ ९१ ॥
परमार्थतस्तु प्रकृत्या स्वभावतः आकाशवत् आकाशतुल्याः सूक्ष्मनिरञ्जनसर्वगतत्वैः सर्वे धर्मा आत्मानो ज्ञेया मुमुक्षुभिः अनादयः नित्याः । बहुवचनकृतभेदाशङ्कां निराकुर्वन्नाह — क्वचन क्वचिदपि किञ्चन किञ्चित् अणुमात्रमपि तेषां न विद्यते नानात्वमिति ॥
आदिबुद्धाः प्रकृत्यैव सर्वे धर्माः सुनिश्चिताः ।
यस्यैवं भवति क्षान्तिः सोऽमृतत्वाय कल्पते ॥ ९२ ॥
ज्ञेयतापि धर्माणां संवृत्यैव, न परमार्थत इत्याह — यस्मात् आदौ बुद्धाः आदिबुद्धाः प्रकृत्यैव स्वभावत एव यथा नित्यप्रकाशस्वरूपः सविता, एवं नित्यबोधस्वरूपा इत्यर्थः । सर्वे धर्माः सर्व आत्मानः । न च तेषां निश्चयः कर्तव्यः नित्यनिश्चितस्वरूपा इत्यर्थः । न सन्दिह्यमानस्वरूपा एवं नैवं वेति यस्य मुमुक्षोः एवं यथोक्तप्रकारेण सर्वदा बोधनिश्चयनिरपेक्षता आत्मार्थं परार्थं वा । यथा सविता नित्यं प्रकाशान्तरनिरपेक्षः स्वार्थं परार्थं वेत्येवं भवति क्षान्तिः बोधकर्तव्यतानिरपेक्षता सर्वदा स्वात्मनि, सः अमृतत्वाय अमृतभावाय कल्पते, मोक्षाय समर्थो भवतीत्यर्थः ॥
आदिशान्ता ह्यनुत्पन्नाः प्रकृत्यैव सुनिर्वृताः ।
सर्वे धर्माः समाभिन्ना अजं साम्यं विशारदम् ॥ ९३ ॥
तथा नापि शान्तिकर्तव्यता आत्मनीत्याह — यस्मात् आदिशान्ताः नित्यमेव शान्ताः अनुत्पन्ना अजाश्च प्रकृत्यैव सुनिर्वृताः सुष्ठूपरतस्वभावाः नित्यमुक्तस्वभावा इत्यर्थः । सर्वे धर्माः समाश्च अभिन्नाश्च समाभिन्नाः अजं साम्यं विशारदं विशुद्धमात्मतत्त्वं यस्मात् , तस्मात् शान्तिर्मोक्षो वा नास्ति कर्तव्य इत्यर्थः । न हि नित्यैकस्वभावस्य कृतं किञ्चिदर्थवत्स्यात् ॥
वैशारद्यं तु वै नास्ति भेदे विचरतां सदा ।
भेदनिम्नाः पृथग्वादास्तस्मात्ते कृपणाः स्मृताः ॥ ९४ ॥
ये यथोक्तं परमार्थतत्त्वं प्रतिपन्नाः, ते एव अकृपणा लोके ; कृपणास्त्वन्ये इत्याह — यस्मात् भेदनिम्नाः भेदानुयायिनः संसारानुगा इत्यर्थः । के ? पृथग्वादाः पृथक् नाना वस्तु इत्येवं वदनं येषां ते पृथग्वादाः द्वैतिन इत्यर्थः । तस्मात्ते कृपणाः क्षुद्राः स्मृताः, यस्मात् वैशारद्यं विशुद्धिः तन्नास्ति तेषां भेदे विचरतां द्वैतमार्गे अविद्यापरिकल्पिते सर्वदा वर्तमानानामित्यर्थः । अतो युक्तमेव तेषां कार्पण्यमित्यभिप्रायः ॥
अजे साम्ये तु ये केचिद्भविष्यन्ति सुनिश्चिताः ।
ते हि लोके महाज्ञानास्तच्च लोको न गाहते ॥ ९५ ॥
यदिदं परमार्थतत्त्वम् , अमहात्मभिरपण्डितैर्वेदान्तबहिःष्ठैः क्षुद्रैरल्पप्रज्ञैरनवगाह्यमित्याह — अजे साम्ये परमार्थतत्त्वे एवमेवेति ये केचित् स्त्र्यादयोऽपि सुनिश्चिता भविष्यन्ति चेत् , त एव हि लोके महाज्ञानाः निरतिशयतत्त्वविषयज्ञाना इत्यर्थः । तच्च तेषां वर्त्म तेषां विदितं परमार्थतत्त्वं सामान्यबुद्धिरन्यो लोको न गाहते नावतरति न विषयीकरोतीत्यर्थः । ‘सर्वभूतात्मभूतस्य समैकार्थं प्रपश्यतः । देवा अपि मार्गे मुह्यन्त्यपदस्य पदैषिणः । शकुनीनामिवाकाशे गतिर्नैवोपलभ्यते’ इत्यादिस्मरणात् ॥
अजेष्वजमसङ्क्रान्तं धर्मेषु ज्ञानमिष्यते ।
यतो न क्रमते ज्ञानमसङ्गं तेन कीर्तितम् ॥ ९६ ॥
कथं महाज्ञानत्वमित्याह — अजेषु अनुत्पन्नेषु अचलेषु धर्मेषु आत्मसु अजमचलं च ज्ञानमिष्यते सवितरीव औष्ण्यं प्रकाशश्च यतः, तस्मात् असङ्क्रान्तम् अर्थान्तरे ज्ञानमजमिष्यते । यस्मान्न क्रमते अर्थान्तरे ज्ञानम् , तेन कारणेन असङ्गं तत् कीर्तितम् आकाशकल्पमित्युक्तम् ॥
अणुमात्रेऽपि वैधर्म्ये जायमानेऽविपश्चितः ।
असङ्गता सदा नास्ति किमुतावरणच्युतिः ॥ ९७ ॥
इतोऽन्येषां वादिनाम् अणुमात्रे अल्पेऽपि वैधर्म्ये वस्तुनि बहिरन्तर्वा जायमाने उत्पद्यमाने अविपश्चितः अविवेकिनः असङ्गता असङ्गत्वं सदा नास्ति ; किमुत वक्तव्यम् आवरणच्युतिः बन्धनाशो नास्तीति ॥
अलब्धावरणाः सर्वे धर्माः प्रकृतिनिर्मलाः ।
आदौ बुद्धास्तथा मुक्ता बुध्यन्त इति नायकाः ॥ ९८ ॥
तेषामावरणच्युतिर्नास्तीति ब्रुवतां स्वसिद्धान्ते अभ्युपगतं तर्हि धर्माणामावरणम् । नेत्युच्यते — अलब्धावरणाः अलब्धमप्राप्तमावरणम् अविद्यादिबन्धनं येषां ते धर्माः अलब्धावरणाः बन्धनरहिता इत्यर्थः । प्रकृतिनिर्मलाः स्वभावशुद्धाः आदौ बुद्धाः तथा मुक्ताः, यस्मात् नित्यशुद्धबुद्धमुक्तस्वभावाः । यद्येवं कथं तर्हि बुध्यन्त इत्युच्यते — नायकाः स्वामिनः समर्थाः बोद्धुं बोधशक्तिमत्स्वभावा इत्यर्थः । यथा नित्यप्रकाशस्वरूपोऽपि सन् सविता प्रकाशत इत्युच्यते, यथा वा नित्यनिवृत्तगतयोऽपि नित्यमेव शैलास्तिष्ठन्तीत्युच्यते, तद्वत् ॥
क्रमते न हि बुद्धस्य ज्ञानं धर्मेषु तायिनः ।
सर्वे धर्मास्तथा ज्ञानं नैतद्बुद्धेन भाषितम् ॥ ९९ ॥
यस्मात् न हि क्रमते बुद्धस्य परमार्थदर्शिनो ज्ञानं विषयान्तरेषु धर्मेषु धर्मसंस्थं सवितरीव प्रभा । तायिनः तायोऽस्यास्तीति तायी, सन्तानवतो निरन्तरस्य आकाशकल्पस्येत्यर्थः ; पूजावतो वा प्रज्ञावतो वा सर्वे धर्मा आत्मानोऽपि तथा ज्ञानवदेव आकाशकल्पत्वान्न क्रमन्ते क्वचिदप्यर्थान्तर इत्यर्थः । यदादावुपन्यस्तम् ‘ज्ञानेनाकाशकल्पेन’ (मा. का. ४ । १) इत्यादि, तदिदमाकाशकल्पस्य तायिनो बुद्धस्य तदनन्यत्वादाकाशकल्पं ज्ञानं न क्रमते क्वचिदप्यर्थान्तरे । तथा धर्मा इति आकाशमिव अचलमविक्रियं निरवयवं नित्यमद्वितीयमसङ्गमदृश्यमग्राह्यमशनायाद्यतीतं ब्रह्मात्मतत्त्वम् , ‘न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यते’ (बृ. उ. ४ । ३ । २३) इति श्रुतेः । ज्ञानज्ञेयज्ञातृभेदरहितं परमार्थतत्त्वमद्वयमेतन्न बुद्धेन भाषितम् । यद्यपि बाह्यार्थनिराकरणं ज्ञानमात्रकल्पना च अद्वयवस्तुसामीप्यमुक्तम् । इदं तु परमार्थतत्त्वमद्वैतं वेदान्तेष्वेव विज्ञेयमित्यर्थः ॥
दुर्दर्शमतिगम्भीरमजं साम्यं विशारदम् ।
बुद्ध्वा पदमनानात्वं नमस्कुर्मो यथाबलम् ॥ १०० ॥
शास्त्रसमाप्तौ परमार्थतत्त्वस्तुत्यर्थं नमस्कार उच्यते — दुर्दर्शं दुःखेन दर्शनमस्येति दुर्दर्शम् । अस्ति नास्तीति चतुष्कोटिवर्जितत्वाद्दुर्विज्ञेयमित्यर्थः । अत एव अतिगम्भीरं दुष्प्रवेशं महासमुद्रवदकृतप्रज्ञैः । अजं साम्यं विशारदम् । ईदृक् पदम् अनानात्वं नानात्ववर्जितं बुद्ध्वा अवगम्य तद्भूताः सन्तः नमस्कुर्मः तस्मै पदाय । अव्यवहार्यमपि व्यवहारगोचरतामापाद्य यथाबलं यथाशक्तीत्यर्थः ॥
अजमपि जनियोगं प्रापदैश्वर्ययोगा -
दगति च गतिमत्तां प्रापदेकं ह्यनेकम् ।
विविधविषयधर्मग्राहि मुग्धेक्षणानां
प्रणतभयविहन्तृ ब्रह्म यत्तन्नतोऽस्मि ॥ १ ॥
प्रज्ञावैशाखवेधक्षुभितजलनिधेर्वेदनाम्नोऽन्तरस्थं
भूतान्यालोक्य मग्नान्यविरतजननग्राहघोरे समुद्रे ।
कारुण्यादुद्दधारामृतमिदममरैर्दुर्लभं भूतहेतो -
र्यस्तं पूज्याभिपूज्यं परमगुरुममुं पादपातैर्नतोऽस्मि ॥ २ ॥
यत्प्रज्ञालोकभासा प्रतिहतिमगमत्स्वान्तमोहान्धकारो
मज्जोन्मज्जच्च घोरे ह्यसकृदुपजनोदन्वति त्रासने मे ।
यत्पादावाश्रितानां श्रुतिशमविनयप्राप्तिरग्न्या ह्यमोघा
तत्पादौ पावनीयौ भवभयविनुदौ सर्वभावैर्नमस्ये ॥ ३ ॥
इति अलातशान्तिप्रकरणम् सम्पूर्णम् ॥