श्रीमच्छङ्करभगवत्पूज्यपादविरचितम्

मुण्डकोपनिषद्भाष्यम्

करतलकलिताद्वयात्मतत्त्वं क्षपितदुरन्तचिरन्तनप्रमोहम् ।
उपचितमुदितोदितैर्गुणौघैः उपनिषदामयमुज्जहार भाष्यम् ।।

change script to

‘ब्रह्मा देवानाम्’ इत्याद्याथर्वणोपनिषत् । अस्याश्च विद्यासम्प्रदायकर्तृपारम्पर्यलक्षणं सम्बन्धमादावेवाह स्वयमेव स्तुत्यर्थम् — एवं हि महद्भिः परमपुरुषार्थसाधनत्वेन गुरुणायासेन लब्धा विद्येति । श्रोतृबुद्धिप्ररोचनाय विद्यां महीकरोति, स्तुत्या प्ररोचितायां हि विद्यायां सादराः प्रवर्तेरन्निति । प्रयोजनेन तु विद्यायाः साध्यसाधनलक्षणं सम्बन्धमुत्तरत्र वक्ष्यति ‘भिद्यते हृदयग्रन्थिः’ (मु. उ. २ । २ । ९) इत्यादिना । अत्र चापरशब्दवाच्याया ऋग्वेदादिलक्षणाया विधिप्रतिषेधमात्रपराया विद्यायाः संसारकारणाविद्यादिदोषनिवर्तकत्वं नास्तीति स्वयमेवोक्त्वा परापरेति विद्याभेदकरणपूर्वकम् ‘अविद्यायामन्तरे वर्तमानाः’ (मु. उ. १ । २ । ८) इत्यादिना, तथा परप्राप्तिसाधनं सर्वसाधनसाध्यविषयवैराग्यपूर्वकं गुरुप्रसादलभ्यां ब्रह्मविद्यामाह ‘परीक्ष्य लोकान्’ (मु. उ. १ । २ । १२) इत्यादिना । प्रयोजनं चासकृद्ब्रवीति ‘ब्रह्म वेद ब्रह्मैव भवति’ (मु. उ. ३ । २ । ९) इति ‘परामृताः परिमुच्यन्ति सर्वे’ (मु. उ. ३ । २ । ६) इति च । ज्ञानमात्रे यद्यपि सर्वाश्रमिणामधिकारः, तथापि संन्यासनिष्ठैव ब्रह्मविद्या मोक्षसाधनं न कर्मसहितेति ‘भैक्षचर्यां चरन्तः’ (मु. उ. १ । २ । ११) ‘संन्यासयोगात्’ (मु. उ. ३ । २ । ६) इति च ब्रुवन्दर्शयति । विद्याकर्मविरोधाच्च । न हि ब्रह्मात्मैकत्वदर्शनेन सह कर्म स्वप्नेऽपि सम्पादयितुं शक्यम् ; विद्यायाः कालविशेषाभावादनियतनिमित्तत्वाच्च कालसङ्कोचानुपपत्तेः । यत्तु गृहस्थेषु ब्रह्मविद्यासम्प्रदायकर्तृत्वादि लिङ्गं न तत्स्थितं न्यायं बाधितुमुत्सहते ; न हि विधिशतेनापि तमःप्रकाशयोरेकत्र सद्भावः शक्यते कर्तुम् , किमुत लिङ्गैः केवलैरिति । एवमुक्तसम्बन्धप्रयोजनाया उपनिषदोऽल्पग्रन्थं विवरणमारभ्यते । य इमां ब्रह्मविद्यामुपयन्त्यात्मभावेन श्रद्धाभक्तिपुरःसराः सन्तः, तेषां गर्भजन्मजरारोगाद्यनर्थपूगं निशातयति परं वा ब्रह्म गमयत्यविद्यादिसंसारकारणं वा अत्यन्तमवसादयति विनाशयतीत्युपनिषत् ; उपनिपूर्वस्य सदेरेवमर्थस्मरणात् ॥
ब्रह्मा देवानां प्रथमः सम्बभूव विश्वस्य कर्ता भुवनस्य गोप्ता ।
स ब्रह्मविद्यां सर्वविद्याप्रतिष्ठामथर्वाय ज्येष्ठपुत्राय प्राह ॥ १ ॥
ब्रह्म परिबृढो महान् धर्मज्ञानवैराग्यैश्वर्यैः सर्वानन्यानतिशेत इति ; देवानां द्योतनवतामिन्द्रादीनां प्रथमः गुणैः प्रधानः सन् , प्रथमः अग्रे वा सम्बभूव अभिव्यक्तः सम्यक् स्वातन्त्र्येणेत्यभिप्रायः । न तथा यथा धर्माधर्मवशात्संसारिणोऽन्ये जायन्ते, ‘योऽसावतीन्द्रियोऽग्राह्यः’ (मनु. १ । ७) इत्यादिस्मृतेः । विश्वस्य सर्वस्य जगतः कर्ता उत्पादयिता, भुवनस्य उत्पन्नस्य गोप्ता पालयितेति विशेषणं ब्रह्मणो विद्यास्तुतये । सः एवं प्रख्यातमहत्त्वो ब्रह्मा ब्रह्मविद्यां ब्रह्मणः परमात्मनो विद्यां ब्रह्मविद्याम् , ‘येनाक्षरं पुरुषं वेद सत्यम्’ (मु. उ. १ । २ । १३) इति विशेषणात् । परमात्मविषया हि सा । ब्रह्मणा वाग्रजेनोक्तेति ब्रह्मविद्या । तां ब्रह्मविद्याम् , सर्वविद्याप्रतिष्ठां सर्वविद्याभिव्यक्तिहेतुत्वात्सर्वविद्याश्रयामित्यर्थः ; सर्वविद्यावेद्यं वा वस्त्वनयैव ज्ञायत इति, ‘येनाश्रुतं श्रुतं भवति अमतं मतमविज्ञातं विज्ञातम्’ (छा. उ. ६ । १ । ३) इति श्रुतेः । सर्वविद्याप्रतिष्ठामिति च स्तौति विद्याम् । अथर्वाय ज्येष्ठपुत्राय ज्येष्ठश्चासौ पुत्रश्च, अनेकेषु ब्रह्मणः सृष्टिप्रकारेष्वन्यतमस्य सृष्टिप्रकारस्य प्रमुखे पूर्वम् अथर्वा सृष्ट इति ज्येष्ठः ; तस्मै ज्येष्ठपुत्राय प्राह प्रोक्तवान् ॥
अथर्वणे यां प्रवदेत ब्रह्माथर्वा तां पुरोवाचाङ्गिरे ब्रह्मविद्याम् ।
स भारद्वाजाय सत्यवहाय प्राह भारद्वाजोऽङ्गिरसे परावराम् ॥ २ ॥
याम् एताम् अथर्वणे प्रवदेत प्रावदद्ब्रह्मविद्यां ब्रह्मा, तामेव ब्रह्मणः प्राप्ताम् अथर्वां पुरा पूर्वम् ; उवाच उक्तवान् अङ्गिरे अङ्गीर्नाम्ने ब्रह्मविद्याम् । स चाङ्गीः भारद्वजाय भरद्वाजगोत्राय सत्यवहाय सत्यवहनाम्ने प्राह प्रोक्तवान् । भारद्वाजः अङ्गिरसे स्वशिष्याय पुत्राय वा परावरां परस्मात्परस्मादवरेणावरेण प्राप्तेति परावरा परावरसर्वविद्याविषयव्याप्तेर्वा, तां परावरामङ्गिरसे प्राहेत्यनुषङ्गः ॥
शौनको ह वै महाशालोऽङ्गिरसं विधिवदुपसन्नः पप्रच्छ कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवतीति ॥ ३ ॥
शौनकः शुनकस्यापत्यं महाशालः महागृहस्थः अङ्गिरसं भारद्वाजशिष्यमाचार्यं विधिवत् यथाशास्त्रमित्येतत् ; उपसन्नः उपगतः सन् पप्रच्छ पृष्टवान् । शौनकाङ्गिरसोः सम्बन्धादर्वाग्विधिवद्विशेषणाभावादुपसदनविधेः पूर्वेषामनियम इति गम्यते । मर्यादाकरणार्थं विशेषणम् । मध्यदीपिकान्यायार्थं वा विशेषणम् , अस्मदादिष्वप्युपसदनविधेरिष्टत्वात् । किमित्याह — कस्मिन्नु भगवो विज्ञाते, नु इति वितर्के, भगवः हे भगवन् , सर्वं यदिदं विज्ञेयं विज्ञातं विशेषेण ज्ञातमवगतं भवतीति ‘एकस्मिन्विज्ञाते सर्वविद्भवति’ इति शिष्टप्रवादं श्रुतवाञ्शौनकः तद्विशेषं विज्ञातुकामः सन्कस्मिन्निति वितर्कयन्पप्रच्छ । अथवा, लोकसामान्यदृष्ट्या ज्ञात्वैव पप्रच्छ । सन्ति हि लोके सुवर्णादिशकलभेदाः सुवर्णत्वाद्येकत्वविज्ञानेन विज्ञायमाना लौकिकैः ; तथा किं न्वस्ति सर्वस्य जगद्भेदस्यैकं कारणम् यत्रैकस्मिन्विज्ञाते सर्वं विज्ञातं भवतीति । नन्वविदिते हि कस्मिन्निति प्रश्नोऽनुपपन्नः ; किमस्ति तदिति तदा प्रश्नो युक्तः ; सिद्धे ह्यस्तित्वे कस्मिन्निति स्यात् , यथा कस्मिन्निधेयमिति । न ; अक्षरबाहुल्यादायासभीरुत्वात्प्रश्नः सम्भवत्येव — किं न्वस्ति तद्यस्मिन्नेकस्मिन्विज्ञाते सर्ववित्स्यादिति ॥
तस्मै स होवाच । द्वे विद्ये वेदितव्ये इति ह स्म यद्ब्रह्मविदो वदन्ति परा चैवापरा च ॥ ४ ॥
तस्मै शौनकाय सः अङ्गिराः ह किल उवाच उक्तवान् । किमिति, उच्यते — द्वे विद्ये वेदितव्ये ज्ञातव्ये इति । एवं ह स्म किल यत् ब्रह्मविदः वेदार्थाभिज्ञाः परमार्थदर्शिनः वदन्ति । के ते इत्याह — परा च परमात्मविद्या, अपरा च धर्माधर्मसाधनतत्फलविषया । ननु कस्मिन्विदिते सर्वविद्भवतीति शौनकेन पृष्टम् ; तस्मिन्वक्तव्येऽपृष्टमाहाङ्गिराः — द्वे विद्ये इत्यादि । नैष दोषः, क्रमापेक्षत्वात्प्रतिवचनस्य । अपरा हि विद्या अविद्या ; सा निराकर्तव्या तद्विषये हि अविदिते न किञ्चित्तत्त्वतो विदितं स्यादिति ; ‘निराकृत्य हि पूर्वपक्षं पश्चात्सिद्धान्तो वक्तव्यो भवति’ इति न्यायात् ॥
तत्रापरा, ऋग्वेदो यजुर्वेदः सामवेदोऽथर्ववेदः शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषमिति । अथ परा यया तदक्षरमधिगम्यते ॥ ५ ॥
तत्र का अपरेत्युच्यते — ऋग्वेदो यजुर्वेदः सामवेदोऽथर्ववेदः इत्येते चत्वारो वेदाः । शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषम् इत्यङ्गानि षट् ; एषा अपरा विद्योक्ता । अथ इदानीम् इयं परा विद्योच्यते यया तत् वक्ष्यमाणविशेषणम् अक्षरम् अधिगम्यते प्राप्यते, अधिपूर्वस्य गमेः प्रायशः प्राप्त्यर्थत्वात् ; न च परप्राप्तेरवगमार्थस्य च भेदोऽस्ति ; अविद्याया अपाय एव हि परप्राप्तिर्नार्थान्तरम् । ननु ऋग्वेदादिबाह्या तर्हि सा कथं परा विद्या स्यात् मोक्षसाधनं च । ‘या वेदबाह्याः स्मृतयो याश्च काश्च कुदृष्टयः. . . ’ (मनु. १२ । ९५) इति हि स्मरन्ति । कुदृष्टित्वान्निष्फलत्वादनादेया स्यात् ; उपनिषदां च ऋग्वेदादिबाह्यत्वं स्यात् । ऋग्वेदादित्वे तु पृथक्करणमनर्थकम् अथ परेति । न, वेद्यविषयविज्ञानस्य विवक्षितत्वात् । उपनिषद्वेद्याक्षरविषयं हि विज्ञानमिह परा विद्येति प्राधान्येन विवक्षितम् , नोपनिषच्छब्दराशिः । वेदशब्देन तु सर्वत्र शब्दराशिर्विवक्षितः । शब्दराश्यधिगमेऽपि यत्नान्तरमन्तरेण गुर्वभिगमनादिलक्षणं वैराग्यं च नाक्षराधिगमः सम्भवतीति पृथक्करणं ब्रह्मविद्याया अथ परा विद्येति ॥
यत्तदद्रेश्यमग्राह्यमगोत्रमवर्णमचक्षुःश्रोत्रं तदपाणिपादम् ।
नित्यं विभुं सर्वगतं सुसूक्ष्मं तदव्ययं यद्भूतयोनिं परिपश्यन्ति धीराः ॥ ६ ॥
यथा विधिविषये कर्त्राद्यनेककारकोपसंहारद्वारेण वाक्यार्थज्ञानकालादन्यत्रानुष्ठेयोऽर्थोऽस्त्यग्निहोत्रादिलक्षणः, न तथेह परविद्याविषये वाक्यार्थज्ञानसमकाल एव तु पर्यवसितो भवति, केवलशब्दप्रकाशितार्थज्ञानमात्रनिष्ठाव्यतिरिक्ताभावात् । तस्मादिह परां विद्यां सविशेषणेनाक्षरेण विशिनष्टि — यत्तदद्रेश्यमित्यादिना । वक्ष्यमाणं बुद्धौ संहृत्य सिद्धवत्परामृशति — यत्तदिति । अद्रेश्यम् अदृश्यं सर्वेषां बुद्धीन्द्रियाणामगम्यमित्येतत् । दृशेर्बहिःप्रवृत्तस्य पञ्चेन्द्रियद्वारकत्वात् । अग्राह्यं कर्मेन्द्रियाविषयमित्येतत् । अगोत्रम् , गोत्रमन्वयो मूलमित्यनर्थान्तरम् । अगोत्रम् अनन्वयमित्यर्थः । न हि तस्य मूलमस्ति येनान्वितं स्यात् । वर्ण्यन्त इति वर्णा द्रव्यधर्माः स्थूलत्वादयः शुक्लत्वादयो वा । अविद्यमाना वर्णा यस्य तत् अवर्णम् अक्षरम् । अचक्षुःश्रोत्रं चक्षुश्च श्रोत्रं च नामरूपविषये करणे सर्वजन्तूनाम् , ते अविद्यमाने यस्य तदचक्षुःश्रोत्रम् । ‘यः सर्वज्ञः सर्ववित्’ (मु. उ. १ । १ । ९) इति चेतनावत्त्वविशेषणात्प्राप्तं संसारिणामिव चक्षुःश्रोत्रादिभिः करणैरर्थसाधकत्वम् ; तदिह अचक्षुःश्रोत्रमिति वार्यते, ‘पश्यत्यचक्षुः स शृणोत्यकर्णः’ (श्वे. उ. ३ । १९) इत्यादिदर्शनात् । किञ्च, तत् अपाणिपादं कर्मेन्द्रियरहितमित्येतत् । यत एवम् अग्राह्यमग्राहकं च अतो नित्यमविनाशि । विभुं विविधं ब्रह्मादिस्थावरान्तप्राणिभेदैर्भवतीति विभुम् । सर्वगतं व्यापकमाकाशवत्सुसूक्ष्मम् । शब्दादिस्थूलत्वकारणरहितत्वात् । शब्दादयो ह्याकाशवाय्वादीनामुत्तरोत्तरस्थूलत्वकारणानि ; तदभावात्सुसूक्ष्मम् , किञ्च, तत् अव्ययम् उक्तधर्मत्वादेव न व्येतीत्यव्ययम् । न ह्यनङ्गस्य स्वाङ्गापचयलक्षणो व्ययः सम्भवति शरीरस्येव । नापि कोशापचयलक्षणो व्ययः सम्भवति राज्ञ इव । नापि गुणद्वारको व्ययः सम्भवति, अगुणत्वात्सर्वात्मकत्वाच्च । यत् एवंलक्षणं भूतयोनिं भूतानां कारणं पृथिवीव स्थावरजङ्गमानां परिपश्यन्ति सर्वत आत्मभूतं सर्वस्य अक्षरं पश्यन्ति धीराः धीमन्तो विवेकिनः । ईदृशमक्षरं यया विद्यया अधिगम्यते सा परा विद्येति समुदायार्थः ॥
यथोर्णनाभिः सृजते गृह्णते च यथा पृथिव्यामोषधयः सम्भवन्ति ।
यथा सतः पुरुषात्केशलोमानि तथाक्षरात्सम्भवतीह विश्वम् ॥ ७ ॥
भूतयोनिरक्षरमित्युक्तम् । तत्कथं भूतयोनित्वमित्युच्यते दृष्टान्तैः — यथा लोके प्रसिद्धः ऊर्णनाभिः लूताकीटः किञ्चित्कारणान्तरमनपेक्ष्य स्वयमेव सृजते स्वशरीराव्यतिरिक्तानेव तन्तून्बहिः प्रसारयति पुनस्तानेव गृह्णते च गृह्णाति स्वात्मभावमेवापादयति ; यथा च पृथिव्याम् ओषधयः, व्रीह्यादिस्थावराणीत्यर्थः, स्वात्माव्यतिरिक्ता एव प्रभवन्ति सम्भवन्ति ; यथा च सतः विद्यमानाज्जीवतः पुरुषात् केशलोमानि केशाश्च लोमानि च सम्भवन्ति विलक्षणानि । यथैते दृष्टान्ताः, तथा विलक्षणं सलक्षणं च निमित्तान्तरानपेक्षाद्यथोक्तलक्षणात् अक्षरात् सम्भवति समुत्पद्यते इह संसारमण्डले विश्वं समस्तं जगत् । अनेकदृष्टान्तोपादानं तु सुखावबोधनार्थम् ॥
तपसा चीयते ब्रह्म ततोऽन्नमभिजायते ।
अन्नात्प्राणो मनः सत्यं लोकाः कर्मसु चामृतम् ॥ ८ ॥
यद्ब्रह्मण उत्पद्यमानं विश्वं तदनेन क्रमेणोत्पद्यते, न युगपद्बदरमुष्टिप्रक्षेपवदिति क्रमनियमविवक्षार्थोऽयं मन्त्र आरभ्यते — तपसा ज्ञानेन उत्पत्तिविधिज्ञतया भूतयोन्यक्षरं ब्रह्म चीयते उपचीयते उत्पादयिष्यदिदं जगत् अङ्कुरमिव बीजमुच्छूनतां गच्छति पुत्रमिव पिता हर्षेण । एवं सर्वज्ञतया सृष्टिस्थितिसंहारशक्तिविज्ञानवत्तयोपचितात् ततः ब्रह्मणः अन्नम् अद्यते भुज्यत इत्यन्नमव्याकृतं साधारणं कारणं संसारिणां व्याचिकीर्षितावस्थारूपेण अभिजायते उत्पद्यते । ततश्च अव्याकृताद्व्याचिकीर्षितावस्थात् अन्नात् प्राणः हिरण्यगर्भो ब्रह्मणो ज्ञानक्रियाशक्त्यधिष्ठितो जगत्साधारणोऽविद्याकामकर्मभूतसमुदायबीजाङ्कुरो जगदात्मा अभिजायत इत्यनुषङ्गः । तस्माच्च प्राणात् मनः मनआख्यं सङ्कल्पविकल्पसंशयनिर्णयाद्यात्मकमभिजायते । ततोऽपि सङ्कल्पाद्यात्मकान्मनसः सत्यं सत्याख्यमाकाशादिभूतपञ्चकमभिजायते । तस्मात्सत्याख्याद्भूतपञ्चकादण्डक्रमेण सप्त लोकाः भूरादयः । तेषु मनुष्यादिप्राणिवर्णाश्रमक्रमेण कर्माणि । कर्मसु च निमित्तभूतेषु अमृतं कर्मजं फलम् । यावत्कर्माणि कल्पकोटिशतैरपि न विनश्यन्ति, तावत्फलं न विनश्यतीत्यमृतम् ॥
यः सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तपः ।
तस्मादेतद्ब्रह्म नाम रूपमन्नं च जायते ॥ ९ ॥
उक्तमेवार्थमुपसञ्जिहीर्षुर्मन्त्रो वक्ष्यमाणार्थमाह — यः उक्तलक्षणोऽक्षराख्यः सर्वज्ञः सामान्येन सर्वं जानातीति सर्वज्ञः । विशेषेण सर्वं वेत्तीति सर्ववित् । यस्य ज्ञानमयं ज्ञानविकारमेव सार्वज्ञ्यलक्षणं तपः अनायासलक्षणम् , तस्मात् यथोक्तात्सर्वज्ञात् एतत् उक्तं कार्यलक्षणं ब्रह्म हिरण्यगर्भाख्यं जायते । किञ्च, नाम असौ देवदत्तो यज्ञदत्त इत्यादिलक्षणम् , रूपम् इदं शुक्लं नीलमित्यादि, अन्नं च व्रीहियवादिलक्षणम् , जायते पूर्वमन्त्रोक्तक्रमेणेत्यविरोधो द्रष्टव्यः ॥
इति प्रथममुण्डके प्रथमखण्डभाष्यम् ॥
तदेतत्सत्यं मन्त्रेषु कर्माणि कवयो यान्यपश्यंस्तानि त्रेतायां बहुधा सन्ततानि ।
तान्याचरथ नियतं सत्यकामा एष वः पन्थाः सुकृतस्य लोके ॥ १ ॥
साङ्गा वेदा अपरा विद्योक्ता ‘ऋग्वेदो यजुर्वेदः’ (मु. उ. १ । १ । ५) इत्यादिना । ‘यत्तदद्रेश्यम्’ (मु. उ. १ । १ । ६) इत्यादिना ‘नामरूपमन्नं च जायते’ (मु. उ. १ । १ । ९) इत्यन्तेन ग्रन्थेनोक्तलक्षणमक्षरं यया विद्ययाधिगम्यत इति सा परा विद्या सविशेषणोक्ता । अतः परमनयोर्विद्ययोर्विषयौ विवेक्तव्यौ संसारमोक्षावित्युत्तरो ग्रन्थ आरभ्यते । तत्रापरविद्याविषयः कर्त्रादिसाधनक्रियाफलभेदरूपः संसारोऽनादिरनन्तो दुःखस्वरूपत्वाद्धातव्यः प्रत्येकं शरीरिभिः सामस्त्येन नदीस्रोतोवदविच्छेदरूपसम्बन्धः तदुपशमलक्षणो मोक्षः परविद्याविषयोऽनाद्यनन्तोऽजरोऽमरोऽमृतोऽभयः शुद्धः प्रसन्नः स्वात्मप्रतिष्ठालक्षणः परमानन्दोऽद्वय इति । पूर्वं तावदपरविद्याया विषयप्रदर्शनार्थमारम्भः । तद्दर्शने हि तन्निर्वेदोपपत्तिः । तथा च वक्ष्यति — ‘परीक्ष्य लोकान्कर्मचितान्’ (मु. उ. १ । २ । १२) इत्यादिना । न ह्यप्रदर्शिते परीक्षोपपद्यत इति तत्प्रदर्शयन्नाह — तदेतत् सत्यम् अवितथम् । किं तत् ? मन्त्रेषु ऋग्वेदाद्याख्येषु कर्माणि अग्निहोत्रादीनि मन्त्रैरेव प्रकाशितानि कवयः मेधाविनो वसिष्ठादयः यानि अपश्यन् दृष्टवन्तः । यत्तदेतत्सत्यमेकान्तपुरुषार्थसाधनत्वात् , तानि च वेदविहितानि ऋषिदृष्टानि कर्माणि त्रेतायां त्रयीसंयोगलक्षणायां हौत्राध्वर्यवौद्गात्रप्रकारायामधिकरणभूतायां बहुधा बहुप्रकारं सन्ततानि सम्प्रवृत्तानि कर्मिभिः क्रियमाणानि त्रेतायां वा युगे प्रायशः प्रवृत्तानि ; अतो यूयं तानि आचरथ निर्वर्तयत नियतं नित्यं सत्यकामा यथाभूतकर्मफलकामाः सन्तः । एषः वः युष्माकं पन्थाः मार्गः सुकृतस्य स्वयं निर्वर्तितस्य कर्मणः लोके फलनिमित्तं लोक्यते दृश्यते भुज्यत इति कर्मफलं लोक उच्यते । तदर्थं तत्प्राप्तये एष मार्ग इत्यर्थः । यान्येतान्यग्निहोत्रादीनि त्रय्यां विहितानि कर्माणि, तान्येष पन्था अवश्यफलप्राप्तिसाधनमित्यर्थः ॥
यदा लेलायते ह्यर्चिः समिद्धे हव्यवाहने ।
तदाज्यभागावन्तरेणाहुतीः प्रतिपादयेत् ॥ २ ॥
तत्राग्निहोत्रमेव तावत्प्रथमं प्रदर्शनार्थमुच्यते, सर्वकर्मणां प्राथम्यात् । तत्कथम् ? यदैव इन्धनैरभ्याहितैः सम्यगिद्धे समिद्धे दीप्ते हव्यवाहने लेलायते चलति अर्चिः ; तदा तस्मिन्काले लेलायमाने चलत्यर्चिषि आज्यभागौ आज्यभागयोः अन्तरेण मध्ये आवापस्थाने आहुतीः प्रतिपादयेत् प्रक्षिपेत् देवतामुद्दिश्य । अनेकाहःप्रयोगापेक्षया आहुतीरिति बहुवचनम् । एष सम्यगाहुतिप्रक्षेपादिलक्षणः कर्ममार्गो लोकप्राप्तये पन्थाः । तस्य च सम्यक्करणं दुष्करम् ; विपत्तयस्त्वनेका भवन्ति ॥
यस्याग्निहोत्रमदर्शमपौर्णमासमचातुर्मास्यमनाग्रयणमतिथिवर्जितं च ।
अहुतमवैश्वदेवमविधिना हुतमासप्तमांस्तस्य लोकान्हिनस्ति ॥ ३ ॥
कथम् ? यस्य अग्निहोत्रिणः अग्निहोत्रम् अदर्शं दर्शाख्येन कर्मणा वर्जितम् । अग्निहोत्रिभिरवश्यकर्तव्यत्वाद्दर्शस्य । अग्निहोत्रिसम्बन्ध्यग्निहोत्रविशेषणमिव भवति । तदक्रियमाणमित्येतत् । तथा अपौर्णमासम् इत्यादिष्वप्यग्निहोत्रविशेषणत्वं द्रष्टव्यम् । अग्निहोत्राङ्गत्वस्याविशिष्टत्वात् । अपौर्णमासं पौर्णमासकर्मवर्जितम् । अचातुर्मास्यं चातुर्मास्यकर्मवर्जितम् । अनाग्रयणम् आग्रयणं शरदादिषु कर्तव्यम् , तच्च न क्रियते यस्य तत्तथा । अतिथिवर्जितं च अतिथिपूजनं चाहन्यहन्यक्रियमाणं यस्य । स्वयं सम्यगग्निहोत्रकाले अहुतम् । अदर्शादिवत् अवैश्वदेवं वैश्वदेवकर्मवर्जितम् । हूयमानमप्यविधिना हुतम् अयथाहुतमित्येतत् । एवं दुःसम्पादितमसम्पादितमग्निहोत्राद्युपलक्षितं कर्म किं करोतीत्युच्यते — आसप्तमान् सप्तमसहितान् तस्य कर्तुर्लोकान् हिनस्ति हिनस्तीव आयासमात्रफलत्वात् । सम्यक् क्रियमाणेषु हि कर्मसु कर्मपरिणामानुरूप्येण भूरादयः सत्यान्ताः सप्त लोकाः फलं प्राप्तव्यम् । ते लोकाः एवंभूतेनाग्निहोत्रादिकर्मणा त्वप्राप्यत्वाद्धिंस्यन्त इव, आयासमात्रं त्वव्यभिचारीत्यतो हिनस्तीत्युच्यते । पिण्डदानाद्यनुग्रहेण वा सम्बध्यमानाः पितृपितामहप्रपितामहाः पुत्रपौत्रप्रपौत्राः स्वात्मोपकाराः सप्त लोका उक्तप्रकारेणाग्निहोत्रादिना न भवन्तीति हिंस्यन्त इत्युच्यते ॥
काली कराली च मनोजवा च सुलोहिता या च सुधूम्रवर्णा ।
स्फुलिङ्गिनी विश्वरुची च देवी लेलायमाना इति सप्त जिह्वाः ॥ ४ ॥
काली कराली च मनोजवा च सुलोहिता या च सुधूम्रवर्णा । स्फुलिङ्गिनी विश्वरुची च देवी लेलायमाना दहनस्य जिह्वाः । काल्याद्या विश्वरुच्यन्ता लेलायमानाः अग्नेर्हविराहुतिग्रसनार्था एताः किल सप्त जिह्वाः ॥
एतेषु यश्चरते भ्राजमानेषु यथाकालं चाहुतयो ह्याददायन् ।
तं नयन्त्येताः सूर्यस्य रश्मयो यत्र देवानां पतिरेकोऽधिवासः ॥ ५ ॥
एतेषु अग्निजिह्वाभेदेषु यः अग्निहोत्री चरते कर्माचरत्यग्निहोत्रादिकं भ्राजमानेषु दीप्यमानेषु । यथाकालं च यस्य कर्मणो यः कालस्तं कालमनतिक्रम्य यथाकालं यजमानम् आददायन् आददाना आहुतयः तं नयन्ति प्रापयन्ति । एताः आहुतयो या इमा अनेन निर्वर्तिताः सूर्यस्य रश्मयः भूत्वा, रश्मिद्वारैरित्यर्थः । यत्र यस्मिन्स्वर्गे देवानां पतिः इन्द्रः एकः सर्वानुपरि अधि वसतीति अधिवासः ॥
एह्येहीति तमाहुतयः सुवर्चसः सूर्यस्य रश्मिभिर्यजमानं वहन्ति ।
प्रियां वाचमभिवदन्त्योऽर्चयन्त्य एष वः पुण्यः सुकृतो ब्रह्मलोकः ॥ ६ ॥
कथं सूर्यस्य रश्मिभिर्यजमानं वहन्तीत्युच्यते — एहि एहि इति आह्वयन्त्यः तं यजमानम् आहुतयः सुवर्चसः दीप्तिमत्यः ; किञ्च, प्रियाम् इष्टां वाचं स्तुत्यादिलक्षणाम् अभिवदन्त्यः उच्चारयन्त्यः अर्चयन्त्यः पूजयन्त्यश्च एषः वः युष्माकं पुण्यः सुकृतः ब्रह्मलोकः फलरूपः, इत्थं प्रियां वाचम् अभिवदन्त्यो वहन्तीत्यर्थः । ब्रह्मलोकः स्वर्गः प्रकरणात् ॥
प्लवा ह्येते अदृढा यज्ञरूपा अष्टादशोक्तमवरं येषु कर्म ।
एतच्छ्रेयो येऽभिनन्दन्ति मूढा जरामृत्युं ते पुनरेवापि यन्ति ॥ ७ ॥
एतच्च ज्ञानरहितं कर्मैतावत्फलमविद्याकामकर्मकार्यम् अतोऽसारं दुःखमूलमिति निन्द्यते — प्लवाः विनाशिन इत्यर्थः । हि यस्मात् एते अदृढाः अस्थिराः यज्ञरूपाः यज्ञस्य रूपाणि यज्ञरूपाः यज्ञनिर्वर्तकाः अष्टादश अष्टादशसङ्ख्याकाः षोडशर्त्विजः पत्नी यजमानश्चेत्यष्टादश । एतदाश्रयं कर्म उक्तं कथितं शास्त्रेण येषु अष्टादशसु अवरं केवलं ज्ञानवर्जितं कर्म । अतस्तेषामवरकर्माश्रयाणामष्टादशानामदृढतया प्लवत्वात्प्लवते सह फलेन तत्साध्यं कर्म ; कुण्डविनाशादिव क्षीरदध्यादीनां तत्स्थानां नाशः ; यत एवम् एतत् कर्म श्रेयः श्रेयःसाधनमिति ये अभिनन्दन्ति अभिहृष्यन्ति अविवेकिनः मूढाः, अतः ते जरां च मृत्युं च जरामृत्युं कञ्चित्कालं स्वर्गे स्थित्वा पुनरेव अपि यन्ति भूयोऽपि गच्छन्ति ॥
अविद्यायामन्तरे वर्तमानाः स्वयं धीराः पण्डितंमन्यमानाः ।
जङ्घन्यमानाः परियन्ति मूढा अन्धेनैव नीयमाना यथान्धाः ॥ ८ ॥
किञ्च, अविद्यायाम् अन्तरे मध्ये वर्तमानाः अविवेकप्रायाः स्वयं वयमेव धीराः धीमन्तः पण्डिता विदितवेदितव्याश्चेति मन्यमाना आत्मानं सम्भावयन्तः, ते च जङ्घन्यमानाः जरारोगाद्यनेकानर्थव्रातैर्हन्यमाना भृशं पीड्यमानाः परियन्ति विभ्रमन्ति मूढाः । दर्शनवर्जितत्वात् अन्धेनैव अचक्षुष्केणैव नीयमानाः प्रदर्श्यमानमार्गाः ; यथा लोके अन्धाः चक्षूरहिता गर्तकण्टकादौ पतन्ति, तद्वत् ॥
अविद्यायां बहुधा वर्तमाना वयं कृतार्था इत्यभिमन्यन्ति बालाः ।
यत्कर्मिणो न प्रवेदयन्ति रागात्तेनातुराः क्षीणलोकाश्च्यवन्ते ॥ ९ ॥
किञ्च, अविद्यायां बहुधा बहुप्रकारं वर्तमानाः वयमेव कृतार्थाः कृतप्रयोजनाः इति एवम् अभिमन्यन्ति अभिमन्यन्ते अभिमानं कुर्वन्ति बालाः अज्ञानिनः । यत् यस्मादेवं कर्मिणः न प्रवेदयन्ति तत्त्वं न जानन्ति रागात् कर्मफलरागाभिभवनिमित्तम् , तेन कारणेन आतुराः दुःखार्ताः सन्तः क्षीणलोकाः क्षीणकर्मफलाः स्वर्गलोकात् च्यवन्ते ॥
इष्टापूर्तं मन्यमाना वरिष्ठं नान्यच्छ्रेयो वेदयन्ते प्रमूढाः ।
नाकस्य पृष्ठे ते सुकृतेऽनुभूत्वेमं लोकं हीनतरं वा विशन्ति ॥ १० ॥
इष्टापूर्तम् इष्टं यागादि श्रौतं कर्म पूर्तं स्मार्तं वापीकूपतडागादिकर्म मन्यमानाः एतदेवातिशयेन पुरुषार्थसाधनं वरिष्ठं प्रधानमिति चिन्तयन्तः, अन्यत् आत्मज्ञानाख्यं श्रेयःसाधनं न वेदयन्ते न जानन्ति प्रमूढाः पुत्रपशुबान्धवादिषु प्रमत्ततया मूढाः ; ते च नाकस्य स्वर्गस्य पृष्ठे उपरिस्थाने सुकृते भोगायतने अनुभूत्वा अनुभूय कर्मफलं पुनः इमं लोकं मानुषम् अस्मात् हीनतरं वा तिर्यङ्नरकादिलक्षणं यथाकर्मशेषं विशन्ति ॥
तपःश्रद्धे ये ह्युपवसन्त्यरण्ये शान्ता विद्वांसो भैक्षचर्यां चरन्तः ।
सूर्यद्वारेण ते विरजाः प्रयान्ति यत्रामृतः स पुरुषो ह्यव्ययात्मा ॥ ११ ॥
ये पुनस्तद्विपरीतज्ञानयुक्ता वानप्रस्थाः संन्यासिनश्च, तपःश्रद्धे हि तपः स्वाश्रमविहितं कर्म, श्रद्धा हिरण्यगर्भादिविषया विद्या, ते तपःश्रद्धे उपवसन्ति सेवंतेऽरण्ये वर्तमानाः सन्तः । शान्ताः उपरतकरणग्रामाः । विद्वांसः गृहस्थाश्च ज्ञानप्रधाना इत्यर्थः । भैक्षचर्यां चरन्तः परिग्रहाभावादुपवसन्त्यरण्ये इति सम्बन्धः । सूर्यद्वारेण सूर्योपलक्षितेनोत्तरेण पथा ते विरजाः विरजसः, क्षीणपुण्यपापकर्माणः सन्त इत्यर्थः । प्रयान्ति प्रकर्षेण यान्ति यत्र यस्मिन्सत्यलोकादौ अमृतः स पुरुषः प्रथमजो हिरण्यगर्भः हि अव्ययात्मा अव्ययस्वभावो यावत्संसारस्थायी । एतदन्तास्तु संसारगतयोऽपरविद्यागम्याः । नन्वेतं मोक्षमिच्छन्ति केचित् । न, ‘इहैव सर्वे प्रविलीयन्ति कामाः’ (मु. उ. ३ । २ । २) ‘ते सर्वगं सर्वतः प्राप्य धीरा युक्तात्मानः सर्वमेवाविशन्ति’ (मु. उ. ३ । २ । ५) इत्यादिश्रुतिभ्यः ; अप्रकरणाच्च । अपरविद्याप्रकरणे हि प्रवृत्ते न ह्यकस्मान्मोक्षप्रसङ्गोऽस्ति । विरजस्त्वं त्वापेक्षिकम् । समस्तमपरविद्याकार्यं साध्यसाधनलक्षणं क्रियाकारकफलभेदभिन्नं द्वैतम् एतावदेव यद्धिरण्यगर्भप्राप्त्यवसानम् । तथा च मनुनोक्तं स्थावराद्यां संसारगतिमनुक्रामता — ‘ब्रह्मा विश्वसृजो धर्मो महानव्यक्तमेव च । उत्तमां सात्त्विकीमेतां गतिमाहुर्मनीषिणः’ (मनु. १२ । ५०) इति ॥
परीक्ष्य लोकान्कर्मचितान्ब्राह्मणो निर्वेदमायान्नास्त्यकृतः कृतेन ।
तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम् ॥ १२ ॥
अथेदानीमस्मात्साध्यसाधनरूपात्सर्वस्मात्संसाराद्विरक्तस्य परस्यां विद्यायामधिकारप्रदर्शनार्थमिदमुच्यते — परीक्ष्य यदेतदृग्वेदाद्यपरविद्याविषयं स्वाभाविकाविद्याकामकर्मदोषवत्पुरुषानुष्ठेयमविद्यादिदोषवन्तमेव पुरुषं प्रति विहितत्वात्तदनुष्ठानकार्यभूताश्च लोका ये दक्षिणोत्तरमार्गलक्षणाः फलभूताः, ये च विहिताकरणप्रतिषेधातिक्रमदोषसाध्या नरकतिर्यक्प्रेतलक्षणाः, तानेतान्परीक्ष्य प्रत्यक्षानुमानोपमानागमैः सर्वतो याथात्म्येनावधार्य लोकान् संसारगतिभूतानव्यक्तादिस्थावरान्तान्व्याकृताव्याकृतलक्षणान्बीजाङ्कुरवदितरेतरोत्पत्तिनिमित्ताननेकानर्थशतसहस्रसङ्कुलान्कदलीगर्भवदसारान्मायामरीच्युदकगन्धर्वनगराकारस्वप्नजलबुद्बुदफेनसमान्प्रतिक्षणप्रध्वंसान्पृष्ठतः कृत्वा विद्याकामदोषप्रवर्तितकर्मचितान्धर्माधर्मनिर्वर्तितानित्येतत् । ब्राह्मणः, ब्राह्मणस्यैव विशेषतोऽधिकारः सर्वत्यागेन ब्रह्मविद्यायामिति ब्राह्मणग्रहणम् । परीक्ष्य लोकान्किं कुर्यादित्युच्यते — निर्वेदम् , निष्पूर्वो विदिरत्र वैराग्यार्थे, वैराग्यम् आयात् कुर्यादित्येतत् । स वैराग्यप्रकारः प्रदर्श्यते — इह संसारे नास्ति कश्चिदपि अकृतः पदार्थः । सर्व एव हि लोकाः कर्मचिताः कर्मकृतत्वाच्चानित्याः । न नित्यं किञ्चिदस्तीत्यभिप्रायः । सर्वं तु कर्मानित्यस्यैव साधनम् । यस्माच्चतुर्विधमेव हि सर्वं कर्म कार्यम् — उत्पाद्यमाप्यं विकार्यं संस्कार्यं वा । नातः परं कर्मणो विषयोऽस्ति । अहं च नित्येनामृतेनाभयेन कूटस्थेनाचलेन ध्रुवेणार्थेनार्थी, न तद्विपरीतेन । अतः किं कृतेन कर्मणा आयासबहुलेनानर्थसाधनेन इत्येवं निर्विण्णोऽभयं शिवमकृतं नित्यं पदं यत् , तद्विज्ञानार्थं विशेषेणाधिगमार्थं स निर्विण्णो ब्राह्मणः गुरुमेव आचार्यं शमदमादिसम्पन्नम् अभिगच्छेत् । शास्त्रज्ञोऽपि स्वातन्त्र्येण ब्रह्मज्ञानान्वेषणं न कुर्यादित्येतद्गुरुमेवेत्यवधारणफलम् । समित्पाणिः समिद्भारगृहीतहस्तः श्रोत्रियम् अध्ययनश्रुतार्थसम्पन्नं ब्रह्मनिष्ठं हित्वा सर्वकर्माणि केवलेऽद्वये ब्रह्मणि निष्ठा यस्य सोऽयं ब्रह्मनिष्ठः ; जपनिष्ठस्तपोनिष्ठ इति यद्वत् । न हि कर्मिणो ब्रह्मनिष्ठता सम्भवति, कर्मात्मज्ञानयोर्विरोधात् । स तं गुरुं विधिवदुपसन्नः प्रसाद्य पृच्छेदक्षरं पुरुषं सत्यम् ॥
तस्मै स विद्वानुपसन्नाय सम्यक्प्रशान्तचित्ताय शमान्विताय ।
येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्त्वतो ब्रह्मविद्याम् ॥ १३ ॥
तस्मै सः विद्वान् गुरुर्ब्रह्मवित् , उपसन्नाय उपगताय । सम्यक् यथाशास्त्रमित्येतत् । प्रशान्तचित्ताय उपरतदर्पादिदोषाय । शमान्विताय बाह्येन्द्रियोपरमेण च युक्ताय,
सर्वतो विरक्तायेत्येतत् । येन विज्ञानेन यया विद्यया च परया अक्षरम् अद्रेश्यादिविशेषणं तदेवाक्षरं पुरुषशब्दवाच्यं पूर्णत्वात्पुरि शयनाच्च, सत्यं तदेव परमार्थस्वाभाव्यादव्ययम् , अक्षरं चाक्षरणादक्षतत्वादक्षयत्वाच्च, वेद विजानाति तां ब्रह्मविद्यां तत्त्वतः यथावत् प्रोवाच प्रब्रूयादित्यर्थः । आचार्यस्याप्ययमेव नियमो यन्न्यायप्राप्तसच्छिष्यनिस्तारणमविद्यामहोदधेः ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ मुण्डकोपनिषद्भाष्ये प्रथमं मुण्डकं समाप्तम् ॥
अपरविद्यायाः सर्वं कार्यमुक्तम् । स च संसारो यत्सारो यस्मान्मूलादक्षरात्सम्भवति यस्मिंश्च प्रलीयते, तदक्षरं पुरुषाख्यं सत्यम् । यस्मिन्विज्ञाते सर्वमिदं विज्ञातं भवति, तत्परस्या ब्रह्मविद्याया विषयः । स वक्तव्य इत्युत्तरो ग्रन्थ आरभ्यते —
तदेतत्सत्यं यथा सुदीप्तात्पावकाद्विस्फुलिङ्गाः सहस्रशः प्रभवन्ते सरूपाः ।
तथाक्षराद्विविधाः सोम्य भावाः प्रजायन्ते तत्र चैवापियन्ति ॥ १ ॥
यदपरविद्याविषयं कर्मफललक्षणम् , सत्यं तदापेक्षिकम् । इदं तु परविद्याविषयम् , परमार्थसल्लक्षणत्वात् । तदेतत् सत्यं यथाभूतं विद्याविषयम् ; अविद्याविषयत्वाच्च अनृतमितरत् । अत्यन्तपरोक्षत्वात्कथं नाम प्रत्यक्षवत्सत्यमक्षरं प्रतिपद्येरन्निति दृष्टान्तमाह — यथा सुदीप्तात् सुष्ठु दीप्तादिद्धात् पावकात् अग्नेः विस्फुलिङ्गाः अग्न्यवयवाः सहस्रशः अनेकशः प्रभवन्ते निर्गच्छन्ति सरूपाः अग्निसलक्षणा एव, तथा उक्तलक्षणात् अक्षरात् विविधाः नानादेहोपाधिभेदमनुविधीयमानत्वाद्विविधाः हे सोम्य, भावाः जीवाः आकाशादिवद्घटादिपरिच्छिन्नाः सुषिरभेदा घटाद्युपाधिप्रभेदमनु भवन्ति ; एवं नानानामरूपकृतदेहोपाधिप्रभवमनु प्रजायन्ते, तत्र चैव तस्मिन्नेव चाक्षरे अपियन्ति देहोपाधिविलयमनु विलीयन्ते घटादिविलयमन्विव सुषिरभेदाः । यथाऽऽकाशस्य सुषिरभेदोत्पत्तिप्रलयनिमित्तत्वं घटाद्युपाधिकृतमेव, तद्वदक्षरस्यापि नामरूपकृतदेहोपाधिनिमित्तमेव जीवोत्पत्तिप्रलयनिमित्तत्वम् ॥
दिव्यो ह्यमूर्तः पुरुषः सबाह्याभ्यन्तरो ह्यजः ।
अप्राणो ह्यमनाः शुभ्रो ह्यक्षरात्परतः परः ॥ २ ॥
नामरूपबीजभूतादव्याकृताख्यात्स्वविकारापेक्षया परादक्षरात्परं यत्सर्वोपाधिभेदवर्जितमक्षरस्यैव स्वरूपमाकाशस्येव सर्वमूर्तिवर्जितं नेति नेतीत्यादिविशेषणं विवक्षन्नाह — दिव्यः द्योतनवान् , स्वयञ्ज्योतिष्ट्वात् । दिवि वा स्वात्मनि भवः अलौकिको वा । हि यस्मात् अमूर्तः सर्वमूर्तिवर्जितः, पुरुषः पूर्णः पुरिशयो वा, सबाह्याभ्यन्तरः सह बाह्याभ्यन्तरेण वर्तत इति । अजः न जायते कुतश्चित् , स्वतोऽजस्य जन्मनिमित्तस्य चाभावात् ; यथा जलबुद्बुदादेर्वाय्वादिः, यथा नभःसुषिरभेदानां घटादिः । सर्वभावविकाराणां जनिमूलत्वात् तत्प्रतिषेधेन सर्वे प्रतिषिद्धा भवन्ति । सबाह्याभ्यन्तरो ह्यजः अतोऽजरोऽमृतोऽक्षरो ध्रुवोऽभय इत्यर्थः । यद्यपि देहाद्युपाधिभेददृष्टिभेदेषु सप्राणः समनाः सेन्द्रियः सविषय इव प्रत्यवभासते तलमलादिमदिवाकाशम् , तथापि तु स्वतः परमार्थस्वरूपदृष्टीनाम् अप्राणः अविद्यमानः क्रियाशक्तिभेदवान् चलनात्मको वायुर्यस्मिन्नसौ अप्राणः । तथा अमनाः अनेकज्ञानशक्तिभेदवत्सङ्कल्पाद्यात्मकं मनोऽप्यविद्यमानं यस्मिन्सोऽयममनाः । अप्राणो ह्यमनाश्चेति प्राणादिवायुभेदाः कर्मेन्द्रियाणि तद्विषयाश्च तथा बुद्धिमनसी बुद्धीन्द्रियाणि तद्विषयाश्च प्रतिषिद्धा वेदितव्याः ; यथा श्रुत्यन्तरे — ध्यायतीव लेलायतीवेति । यस्माच्चैवं प्रतिषिद्धोपाधिद्वयस्तस्मात् शुभ्रः शुद्धः । अतोऽक्षरान्नामरूपबीजोपाधिलक्षितस्वरूपात् , सर्वकार्यकरणबीजत्वेनोपलक्ष्यमाणत्वात्परं तत्त्वं तदुपाधिलक्षणमव्याकृताख्यमक्षरं सर्वविकारेभ्यतस्मात्परतोऽक्षरात्परः निरुपाधिकः पुरुष इत्यर्थः । यस्मिंस्तदाकाशाख्यमक्षरं संव्यवहारविषयमोतं च प्रोतं च । कथं पुनरप्राणादिमत्त्वं तस्येत्युच्यते । यदि हि प्राणादयः प्रागुत्पत्तेः पुरुष इव स्वेनात्मना सन्ति, तदा पुरुषस्य प्राणदिना विद्यमानेन प्राणादिमत्त्वं स्यात् ; न तु ते प्राणादयः प्रागुत्पत्तेः सन्ति । अतः प्राणादिमान्परः पुरुषः, यथाऽनुत्पन्ने पुत्रे अपुत्रो देवदत्तः ॥
एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च ।
खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी ॥ ३ ॥
कथं ते न सन्ति प्राणादय इति, उच्यते — यस्मात् एतस्मादेव पुरुषान्नामरूपबीजोपाधिलक्षितात् जायते उत्पद्यतेऽविद्याविषयो विकारभूतो नामधेयोऽनृतात्मकः प्राणः, ‘वाचारम्भणं विकारो नामधेयम्’ (छा. उ. ६ । १ । ४) ‘अनृतम्’ इति श्रुत्यन्तरात् । न हि तेनाविद्याविषयेणानृतेन प्राणेन सप्राणत्वं परस्य स्यादपुत्रस्य स्वप्नदृष्टेनेव पुत्रेण सपुत्रत्वम् । एवं मनः सर्वाणि चेन्द्रियाणि विषयाश्चैतस्मादेव जायन्ते । तस्मात्सिद्धमस्य निरुपचरितमप्राणादिमत्त्वमित्यर्थः । यथा च प्रागुत्पत्तेः परमार्थतोऽसन्तस्तथा प्रलीनाश्चेति द्रष्टव्याः । यथा करणानि मनश्चेन्द्रियाणि च, तथा शरीरविषयकारणानि भूतानि खम् आकाशं, वायुः बाह्य आवहादिभेदः, ज्योतिः अग्निः, आपः उदकं, पृथिवी धरित्री विश्वस्य सर्वस्य धारिणी ; एतानि च शब्दस्पर्शरूपरसगन्धोत्तरोत्तरगुणानि पूर्वपूर्वगुणसहितान्येतस्मादेव जायन्ते ॥
अग्निर्मूर्धा चक्षुषी चन्द्रसूर्यौ दिशः श्रोत्रे वाग्विवृताश्च वेदाः ।
वायुः प्राणो हृदयं विश्वमस्य पद्भ्यां पृथिवी ह्येष सर्वभूतान्तरात्मा ॥ ४ ॥
सङ्क्षेपतः परविद्याविषयमक्षरं निर्विशेषं पुरुषं सत्यम् ‘दिव्यो ह्यमूर्तः’ (मु. उ. २ । १ । २) इत्यादिना मन्त्रेणोक्त्वा, पुनस्तदेव सविशेषं विस्तरेण वक्तव्यमिति प्रववृते ; सङ्क्षेपविस्तरोक्तो हि पदार्थः सुखाधिगम्यो भवति सूत्रभाष्योक्तिवदिति । यो हि प्रथमजात्प्राणाद्धिरण्यगर्भाज्जायतेऽण्डस्यान्तर्विराट् , स तत्त्वान्तरितत्त्वेन लक्ष्यमाणोऽप्येतस्मादेव पुरुषाज्जायत एतन्मयश्चेत्येतदर्थमाह, तं च विशिनष्टि — अग्निः द्युलोकः, ‘असौ वाव लोको गौतमाग्निः’ (छा. उ. ५ । ४ । १) इति श्रुतेः । मूर्धा यस्योत्तमाङ्गं शिरः, चक्षुषी चन्द्रश्च सूर्यश्चेति चन्द्रसूर्यौ ; यस्येति सर्वत्रानुषङ्गः कर्तव्यः अस्येत्यस्य पदस्य वक्ष्यमाणस्य यस्येति विपरिणामं कृत्वा । दिशः श्रोत्रे यस्य । वाक् विवृताश्च उद्घाटिताः प्रसिद्धा वेदाः यस्य । वायुः प्राणो यस्य । हृदयम् अन्तःकरणं विश्वं समस्तं जगत् अस्य यस्येत्येतत् । सर्वं ह्यन्तःकरणविकारमेव जगत् , मनस्येव सुषुप्ते प्रलयदर्शनात् ; जागरितेऽपि तत एवाग्निविस्फुलिङ्गवद्विप्रतिष्ठानात् । यस्य च पद्भ्यां जाता पृथिवी, एष देवो विष्णुरनन्तः प्रथमशरीरी त्रैलोक्यदेहोपाधिः सर्वेषां भूतानामन्तरात्मा । स हि सर्वभूतेषु द्रष्टा श्रोता मन्ता विज्ञाता सर्वकरणात्मा ॥
पञ्चाग्निद्वारेण च याः संसरन्ति प्रजाः, ता अपि तस्मादेव पुरुषात्प्रजायन्त इत्युच्यते —
तस्मादग्निः समिधो यस्य सूर्यः सोमात्पर्जन्य ओषधयः पृथिव्याम् ।
पुमान्रेतः सिञ्चति योषितायां बह्वीः प्रजाः पुरुषात्सम्प्रसूताः ॥ ५ ॥
तस्मात् परस्मात्पुरुषात् प्रजावस्थानविशेषरूपः अग्निः । स विशेष्यते — समिधो यस्य सूर्यः, समिध इव समिधः ; सूर्येण हि द्युलोकः समिध्यते । ततो हि द्युलोकाग्नेर्निष्पन्नात् सोमात् पर्जन्यः द्वितीयोऽग्निः सम्भवति । तस्माच्च पर्जन्यात् ओषधयः पृथिव्यां सम्भवन्ति । ओषधिभ्यः पुरुषाग्नौ हुताभ्य उपादानभूताभ्यः पुमानग्निः रेतः सिञ्चति योषितायां योषिति योषाग्नौ स्त्रियामिति । एवं क्रमेण बह्वीः बह्व्यः प्रजाः ब्राह्मणाद्याः पुरुषात् परस्मात् सम्प्रसूताः समुत्पन्नाः ॥
तस्मादृचः साम यजूंषि दीक्षा यज्ञाश्च सर्वे क्रतवो दक्षिणाश्च ।
संवत्सरश्च यजमानश्च लोकाः सोमो यत्र पवते यत्र सूर्यः ॥ ६ ॥
किञ्च, कर्मसाधनानि फलानि च तस्मादेवेत्याह — कथम् ? तस्मात् पुरुषात् ऋचः नियताक्षरपादावसानाः गायत्र्यादिच्छन्दोविशिष्टा मन्त्राः ; साम पाञ्चभक्तिकं साप्तभक्तिकं च स्तोभादिगीतिविशिष्टम् ; यजूंषि अनियताक्षरपादावसानानि वाक्यरूपाणि ; एवं त्रिविधा मन्त्राः । दीक्षाः मौञ्ज्यादिलक्षणाः कर्तृनियमविशेषाः । यज्ञाश्च सर्वे अग्निहोत्रादयः । क्रतवः सयूपाः । दक्षिणाश्च एकगवाद्या अपरिमितसर्वस्वान्ताः । संवत्सरश्च कालः कर्माङ्गभूतः । यजमानश्च कर्ता । लोकाः तस्य कर्मफलभूताः ; ते विशेष्यन्ते — सोमः यत्र येषु लोकेषु पवते पुनाति लोकान् यत्र च येषु सूर्यस्तपति । ते च दक्षिणायनोत्तरायणमार्गद्वयगम्या विद्वदविद्वत्कर्तृफलभूताः ॥
तस्माच्च देवा बहुधा सम्प्रसूताः साध्या मनुष्याः पशवो वयांसि ।
प्राणापानौ व्रीहियवौ तपश्च श्रद्धा सत्यं ब्रह्मचर्यं विधिश्च ॥ ७ ॥
तस्माच्च पुरुषात्कर्माङ्गभूता देवाः बहुधा वस्वादिगणभेदेन सम्प्रसूताः सम्यक् प्रसूताः — साध्याः देवविशेषाः, मनुष्याः कर्माधिकृताः, पशवः ग्राम्यारण्याः, वयांसि पक्षिणः ; जीवनं च मनुष्यादीनां प्राणापानौ, व्रीहियवौ हविरर्थौ ; तपश्च कर्माङ्गं पुरुषसंस्कारलक्षणं स्वतन्त्रं च फलसाधनम् ; श्रद्धा यत्पूर्वकः सर्वपुरुषार्थसाधनप्रयोगश्चित्तप्रसाद आस्तिक्यबुद्धिः ; तथा सत्यम् अनृतवर्जनं यथाभूतार्थवचनं चापीडाकरम् ; ब्रह्मचर्यं मैथुनासमाचारः ; विधिश्च इतिकर्तव्यता ॥
सप्त प्राणाः प्रभवन्ति तस्मात्सप्तार्चिषः समिधः सप्त होमाः ।
सप्तेमे लोका येषु चरन्ति प्राणा गुहाशया निहिताः सप्त सप्त ॥ ८ ॥
किञ्च, सप्त शीर्षण्याः प्राणाः तस्मादेव पुरुषात् प्रभवन्ति । तेषां सप्त अर्चिषः दीप्तयः स्वस्वविषयावद्योतनानि । तथा सप्त समिधः सप्तविषयाः ; विषयैर्हि समिध्यन्ते प्राणाः । सप्त होमा ; तद्विषयविज्ञानानि, ‘यदस्य विज्ञानं तज्जुहोति’ (तै. ना. ८०) इति श्रुत्यन्तरात् । किञ्च, सप्त इमे लोकाः इन्द्रियस्थानानि, येषु चरन्ति सञ्चरन्ति प्राणाः इति विशेषणात् । प्राणा येषु चरन्तीति प्राणानां विशेषणमिदं प्राणापानादिनिवृत्त्यर्थम् । गुहायां शरीरे हृदये वा स्वापकाले शेरत इति गुहाशयाः । निहिताः स्थापिता धात्रा सप्त सप्त प्रतिप्राणिभेदम् । यानि च आत्मयाजिनां विदुषां कर्माणि कर्मफलानि चाविदुषां च कर्माणि तत्साधनानि कर्मफलानि च सर्वं चैतत्परस्मादेव पुरुषात्सर्वज्ञात्प्रसूतमिति प्रकरणार्थः ॥
अतः समुद्रा गिरयश्च सर्वेऽस्मात्स्यन्दन्ते सिन्धवः सर्वरूपाः ।
अतश्च सर्वा ओषधयो रसश्च येनैष भूतैस्तिष्ठते ह्यन्तरात्मा ॥ ९ ॥
अतः पुरुषात् समुद्राः सर्वे क्षाराद्याः । गिरयश्च हिमवदादयः अस्मादेव पुरुषात् सर्वे । स्यन्दन्ते स्रवन्ति गङ्गाद्याः सिन्धवः नद्यः सर्वरूपाः बहुरूपाः । अस्मादेव पुरुषात् सर्वाः ओषधयः व्रीहियवाद्याः । रसश्च मधुरादिः षड्विधः, येन रसेन भूतैः पञ्चभिः स्थूलैः परिवेष्टितः तिष्ठते तिष्ठति हि अन्तरात्मा लिङ्गं सूक्ष्मं शरीरम् । तद्ध्यन्तराले शरीरस्यात्मनश्चात्मवद्वर्तत इत्यन्तरात्मा ॥
पुरुष एवेदं विश्वं कर्म तपो ब्रह्म परामृतम् ।
एतद्यो वेद निहितं गुहायां सोऽविद्याग्रन्थिं विकिरतीह सोम्य ॥ १० ॥
एवं पुरुषात्सर्वमिदं सम्प्रसूतम् । अतो वाचारम्भणं विकारो नामधेयमनृतं पुरुष इत्येव सत्यम् ; अतः पुरुष एव इदं विश्वं सर्वम् । न विश्वं नाम पुरुषादन्यत्किञ्चिदस्ति । अतो यदुक्तं तदेवेदमभिहितम् ‘कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवति’ (मु. उ. १ । १ । ३) इति ; एतस्मिन्हि परस्मिन्नात्मनि सर्वकारणे पुरुषे विज्ञाते, पुरुष एवेदं विश्वं नान्यदस्तीति विज्ञातं भवतीति । किं पुनरिदं विश्वमित्युच्यते — कर्म अग्निहोत्रादिलक्षणम् ; तपः ज्ञानं तत्कृतं फलमन्यदेव तावद्धीदं सर्वम् ; तच्च एतद्ब्रह्मणः कार्यम् ; तस्मात्सर्वं ब्रह्म परामृतं परममृतमहमेवेति यो वेद निहितं स्थितं गुहायां हृदि सर्वप्राणिनाम् , सः एवं विज्ञानात् अविद्याग्रन्थिं ग्रन्थिमिव दृढीभूतामविद्यावासनां विकिरति विक्षिपति विनाशयति इह जीवन्नेव, न मृतः सन् हे सोम्य प्रियदर्शन ॥
इति द्वितीयमुण्डके प्रथमखण्डशभाष्यम् ॥
आविः संनिहितं गुहाचरं नाम महत्पदमत्रैतत्समर्पितम् ।
एजत्प्राणन्निमिषच्च यदेतज्जानथ सदसद्वरेण्यं परं विज्ञानाद्यद्वरिष्ठं प्रजानाम् ॥ १ ॥
अरूपं सदक्षरं केन प्रकारेण विज्ञेयमित्युच्यते — आविः प्रकाशं, संनिहितम् , वागाद्युपाधिभिः — ज्वलति भ्राजतीति श्रुत्यन्तरात् — शब्दादीनुपलभमानवदवभासते ; दर्शनश्रवणमननविज्ञानाद्युपाधिधर्मैराविर्भूतं सल्लक्ष्यते हृदि सर्वप्राणिनाम् । यदेतदाविर्भूतं ब्रह्म संनिहितं सम्यक् स्थितं हृदि, तत् गुहाचरं नाम गुहायां चरतीति दर्शनश्रवणादिप्रकारैर्गुहाचरमिति प्रख्यातम् । महत् सर्वमहत्त्वात् , पदं पद्यते सर्वेणेति, सर्वपदार्थास्पदत्वात् । कथं तन्महत्पदमिति, उच्यते ? यतः अत्र अस्मिन्ब्रह्मणि एतत्सर्वं समर्पितं सम्प्रवेशितं रथनाभाविवाराः — एजत् चलत्पक्ष्यादि, प्राणत् प्राणितीति प्राणापानादिमन्मनुष्यपश्वादि, निमिषच्च यन्निमेषादिक्रियावत् , यच्चानिमिषत् ; च - शब्दात् समस्तमेतदत्रैव ब्रह्मणि समर्पितम् । एतत् यदास्पदं सर्वं जानथ हे शिष्याः, अवगच्छत तदात्मभूतं भवताम् ; सदसत् सदसत्स्वरूपं सदसतोर्मूर्तामूर्तयोः स्थूलसूक्ष्मयोः, तद्व्यतिरेकेणाभावात् । वरेण्यं वरणीयम् , तदेव हि सर्वस्य नित्यत्वात्प्रार्थनीयम् ; परं व्यतिरिक्तं विज्ञानात्प्रजानामिति व्यवहितेन सम्बन्धः ; यल्लौकिकविज्ञानागोचरमित्यर्थः । यत् वरिष्ठं वरतमं सर्वपदार्थेषु वरेषु ; तद्ध्येकं ब्रह्म अतिशयेन वरं सर्वदोषरहितत्वात् ॥
यदर्चिमद्यदणुभ्योऽणु च यस्मिंल्लोका निहिता लोकिनश्च ।
तदेतदक्षरं ब्रह्म स प्राणस्तदु वाङ्मनः ।
तदेतत्सत्यं तदमृतं तद्वेद्धव्यं सोम्य विद्धि ॥ २ ॥
किञ्च, यत् अर्चिमत् दीप्तिमत् ; तद्दीप्त्या ह्यादित्यादि दीप्यत इति दीप्तिमद्ब्रह्म । किञ्च, यत् अणुभ्यः श्यामाकादिभ्योऽपि अणु च सूक्ष्मम् । च - शब्दात्स्थूलेभ्योऽप्यतिशयेन स्थूलं पृथिव्यादिभ्यः । यस्मिन् लोकाः भूरादयः निहिताः स्थिताः, ये च लोकिनः लोकनिवासिनः मनुष्यादयः ; चैतन्याश्रया हि सर्वे प्रसिद्धाः ; तदेतत् सर्वाश्रयं अक्षरम् ब्रह्म स प्राणः तदु वाङ्मनः वाक्च मनश्च सर्वाणि च करणानि तदु अन्तश्चैतन्यम् ; चैतन्याश्रयो हि प्राणेन्द्रियादिसर्वसङ्घातः, ‘प्राणस्य प्राणम्’ (बृ. उ. ४ । ४ । १०) इति श्रुत्यन्तरात् । यत्प्राणादीनामन्तश्चैतन्यमक्षरं तदेतत् सत्यम् अवितथम् , अतः अमृतम् अविनाशि तत् वेद्धव्यं मनसा ताडयितव्यम् । तस्मिन्मनसः समाधानं कर्तव्यमित्यर्थः । यस्मादेवं हे सोम्य, विद्धि अक्षरे चेतः समाधत्स्व ॥
धनुर्गृहीत्वौपनिषदं महास्त्रं शरं ह्युपासानिशितं सन्दधीत ।
आयम्य तद्भावगतेन चेतसा लक्ष्यं तदेवाक्षरं सोम्य विद्धि ॥ ३ ॥
कथं वेद्धव्यमिति, उच्यते — धनुः इष्वासनं गृहीत्वा आदाय औपनिषदम् उपनिषत्सु भवं प्रसिद्धं महास्त्रं महच्च तदस्त्रं च महास्त्रं धनुः, तस्मिन् शरम् ; किंविशिष्टमित्याह — उपासानिशितं सन्तताभिध्यानेन तनूकृतम् , संस्कृतमित्येतत् ; सन्दधीत सन्धानं कुर्यात् । सन्धाय च आयम्य आकृष्य सेन्द्रियमन्तःकरणं स्वविषयाद्विनिवर्त्य लक्ष्य एवावर्जितं कृत्वेत्यर्थः । न हि हस्तेनेव धनुष आयमनमिह सम्भवति । तद्भावगतेन तस्मिन्ब्रह्मण्यक्षरे लक्ष्ये भावना भावः तद्गतेन चेतसा, लक्ष्यं तदेव यथोक्तलक्षणम् अक्षरं सोम्य, विद्धि ॥
प्रणवो धनुः शरो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते ।
अप्रमत्तेन वेद्धव्यं शरवत्तन्मयो भवेत् ॥ ४ ॥
यदुक्तं धनुरादि, तदुच्यते — प्रणवः ओङ्कारः धनुः । यथा इष्वासनं लक्ष्ये शरस्य प्रवेशकारणम् , तथा आत्मशरस्याक्षरे लक्ष्ये प्रवेशकारणमोङ्कारः । प्रणवेन ह्यभ्यस्यमानेन संस्क्रियमाणस्तदालम्बनोऽप्रतिबन्धेनाक्षरेऽवतिष्ठते । यथा धनुषा अस्त इषुर्लक्ष्ये । अतः प्रणवो धनुरिव धनुः । शरो ह्यात्मा उपाधिलक्षणः पर एव जले सूर्यादिवदिह प्रविष्टो देहे सर्वबौद्धप्रत्ययसाक्षितया ; स शर इव स्वात्मन्येवार्पितोऽक्षरे ब्रह्मणि ; अतः ब्रह्म तत् लक्ष्यमुच्यते लक्ष्य इव मनः समाधित्सुभिरात्मभावेन लक्ष्यमाणत्वात् । तत्रैवं सति अप्रमत्तेन बाह्यविषयोपलब्धितृष्णाप्रमादवर्जितेन सर्वतो विरक्तेन जितेन्द्रियेणैकाग्रचित्तेन वेद्धव्यं ब्रह्म लक्ष्यम् । ततस्तद्वेधनादूर्ध्वं शरवत् तन्मयः भवेत् ; यथा शरस्य लक्ष्यैकात्मत्वं फलं भवति, तथा देहाद्यात्मताप्रत्ययतिरस्करणेनाक्षरैकात्मत्वं फलमापादयेदित्यर्थः ॥
यस्मिन्द्यौः पृथिवी चान्तरिक्षमोतं मनः सह प्राणैश्च सर्वैः ।
तमेवैकं जानथ आत्मानमन्या वाचो विमुञ्चथामृतस्यैष सेतुः ॥ ५ ॥
अक्षरस्यैव दुर्लक्ष्यत्वात्पुनः पुनर्वचनं सुलक्षणार्थम् । यस्मिन् अक्षरे पुरुषे द्यौः पृथिवी च अन्तरिक्षं च ओतं समर्पितं मनश्च सह प्राणैः करणैः अन्यैः सर्वैः, तमेव सर्वाश्रयमेकमद्वितीयं जानथ जानीत हे शिष्याः । आत्मानं प्रत्यक्स्वरूपं युष्माकं सर्वप्राणिनां च । ज्ञात्वा च अन्याः वाचः अपरविद्यारूपाः विमुञ्चथ विमुञ्चत परित्यजत । तत्प्रकाश्यं च सर्वं कर्म ससाधनम् । यतः अमृतस्य एष सेतुः, एतदात्मज्ञानममृतस्यामृतत्वस्य मोक्षस्य प्राप्तये सेतुरिव सेतुः, संसारमहोदधेरुत्तरणहेतुत्वात् ; तथा च श्रुत्यन्तरम् — ‘तमेव विदित्वाति मृत्युमेति नान्यः पन्था विद्यतेऽयनाय’ (श्वे. उ. ३ । ८) इति ॥
अरा इव रथनाभौ संहता यत्र नाड्यः स एषोऽन्तश्चरते बहुधा जायमानः ।
ओमित्येवं ध्यायथ आत्मानं स्वस्ति वः पाराय तमसः परस्तात् ॥ ६ ॥
किञ्च, अरा इव यथा रथनाभौ समर्पिता अराः, एवं संहताः सम्प्रविष्टाः यत्र यस्मिन्हृदये सर्वतो देहव्यापिन्यः नाड्यः, तस्मिन्हृदये बुद्धिप्रत्ययसाक्षिभूतः स एषः प्रकृत आत्मा अन्तः मध्ये चरते चरति वर्तते । पश्यन् शृण्वन्मन्वानो विजानन् बहुधा अनेकधा क्रोधहर्षादिप्रत्ययैर्जायमान इव जायमानः अन्तःकरणोपाध्यनुविधायित्वात् ; वदन्ति हि लौकिका हृष्टो जातः क्रुद्धो जात इति । तमात्मानम् ओमित्येवम् ओङ्कारालम्बनाः सन्तः यथोक्तकल्पनया ध्यायथ चिन्तयत । उक्तं च वक्तव्यं शिष्येभ्य आचार्येण जानता । शिष्याश्च ब्रह्मविद्याविविदिषुत्वान्निवृत्तकर्माणो मोक्षपथे प्रवृत्ताः । तेषां निर्विघ्नतया ब्रह्मप्राप्तिमाशास्त्याचार्यः — स्वस्ति निर्विघ्नमस्तु वः युष्माकं पाराय परकूलाय ; कस्य ? अविद्यातमसः परस्तात् ; अविद्यारहितब्रह्मात्मस्वरूपगमनायेत्यर्थः ॥
यः सर्वज्ञः सर्वविद्यस्यैष महिमा भुवि ।
दिव्ये ब्रह्मपुरे ह्येष व्योमन्यात्मा प्रतिष्ठितः ॥ ७ ॥
योऽसौ तमसः परस्तात्संसारमहोदधिं तीर्त्वा गन्तव्यः परविद्याविषयः, स कस्मिन्वर्तत इत्याह — यः सर्वज्ञः सर्ववित् व्याख्यातः । तं पुनर्विशिनष्टि — यस्यैष प्रसिद्धो महिमा विभूतिः । कोऽसौ महिमा ? यस्येमे द्यावापृथिव्यौ शासने विधृते तिष्ठतः ; सूर्याचन्द्रमसौ यस्य शासनेऽलातचक्रवदजस्रं भ्रमतः ; यस्य शासने सरितः सागराश्च स्वगोचरं नातिक्रामन्ति ; तथा स्थावरं जङ्गमं च यस्य शासने नियतम् ; तथा ऋतवोऽयने अब्दाश्च यस्य शासनं नातिक्रामन्ति ; तथा कर्तारः कर्माणि फलं च यच्छासनात्स्वं स्वं कालं नातिवर्तन्ते, स एष महिमा ; भुवि लोके यस्य स एष सर्वज्ञ एवंमहिमा देवः । दिव्ये द्योतनवति सर्वबौद्धप्रत्ययकृतद्योतने ब्रह्मपुरे । ब्रह्मणो ह्यत्र चैतन्यस्वरूपेण नित्याभिव्यक्तत्वात् ; ब्रह्मणः पुरं हृदयपुण्डरीकं तस्मिन्यद्व्योम, तस्मिन्व्योमनि आकाशे हृत्पुण्डरीकमध्यस्थे प्रतिष्ठित इवोपलभ्यते ; न ह्याकाशवत्सर्वगतस्य गतिरागतिः प्रतिष्ठा वान्यथा सम्भवति ॥
मनोमयः प्राणशरीरनेता प्रतिष्ठितोऽन्ने हृदयं संनिधाय ।
तद्विज्ञानेन परिपश्यन्ति धीरा आनन्दरूपममृतं यद्विभाति ॥ ८ ॥
स ह्यात्मा तत्रस्थो मनोवृत्तिभिरेव विभाव्यत इति मनोमयः, मनउपाधित्वात् । प्राणशरीरनेता प्राणश्च तच्छरीरं च तत्प्राणशरीरं तस्यायं नेता । अस्मात्स्थूलाच्छरीराच्छरीरान्तरं सूक्ष्मं प्रति प्रतिष्ठितः अवस्थितः अन्ने भुज्यमानान्नविपरिणामे प्रतिदिनमुपचीयमाने अपचीयमाने च पिण्डरूपेऽन्ने हृदयं बुद्धिं पुण्डरीकच्छिद्रे संनिधाय समवस्थाप्य ; हृदयावस्थानमेव ह्यात्मनः स्थितिः, न ह्यात्मनः स्थितिरन्ने ; तत् आत्मतत्त्वं विज्ञानेन विशिष्टेन शास्त्राचार्योपदेशजनितेन ज्ञानेन शमदमध्यानसर्वत्यागवैराग्योद्भूतेन परिपश्यन्ति सर्वतः पूर्णं पश्यन्ति उपलभन्ते धीराः विवेकिनः । आनन्दरूपं सर्वानर्थदुःखायासप्रहीणं सुखरूपम् अमृतं यद्विभाति विशेषेण स्वात्मन्येव भाति सर्वदा ॥
भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः ।
क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे ॥ ९ ॥
अस्य परमात्मज्ञानस्य फलमिदमभिधीयते — हृदयग्रन्थिः अविद्यावासनामयो बुद्ध्याश्रयः कामः, ‘कामा येऽस्य हृदि श्रिताः’ (बृ. उ. ४ । ४ । ७), (का. उ. २ । ३ । १४) इति श्रुत्यन्तरात् । हृदयाश्रयोऽसौ, नात्माश्रयः । भिद्यते भेदं विनाशमुपयाति । छिद्यन्ते सर्वे ज्ञेयविषयाः संशयाः लौकिकानाम् आ मरणात् गङ्गास्रोतोवत्प्रवृत्ता विच्छेदमायान्ति । अस्य विच्छिन्नसंशयस्य निवृत्ताविद्यस्य यानि विज्ञानोत्पत्तेः प्राक्कृतानि जन्मान्तरे चाप्रवृत्तफलानि ज्ञानोत्पत्तिसहभावीनि च क्षीयन्ते कर्माणि, न त्वेतज्जन्मारम्भकाणि, प्रवृत्तफलत्वात् । तस्मिन् सर्वज्ञेऽसंसारिणि परावरे परं च कारणात्मना अवरं च कार्यात्मना तस्मिन्परावरे साक्षादहमस्मीति दृष्टे, संसारकारणोच्छेदान्मुच्यत इत्यर्थः ॥
हिरण्मये परे कोशे विरजं ब्रह्म निष्कलम् ।
तच्छुभ्रं ज्योतिषां ज्योतिस्तद्यदात्मविदो विदुः ॥ १० ॥
उक्तस्यैवार्थस्य सङ्क्षेपाभिधायका उत्तरे मन्त्रास्त्रयोऽपि — हिरण्मये ज्योतिर्मये बुद्धिविज्ञानप्रकाशे परे कोशे कोश इवासेः । आत्मस्वरूपोपलब्धिस्थानत्वात्परं तत्सर्वाभ्यन्तरत्वात् , तस्मिन् विरजम् अविद्याद्यशेषदोषरजोमलवर्जितं ब्रह्म सर्वमहत्त्वात्सर्वात्मत्वाच्च निष्कलं निर्गताः कला यस्मात्तन्निष्कलं निरवयवमित्यर्थः । यस्माद्विरजं निष्कलं च अतः तच्छुभ्रं शुद्धं ज्योतिषां सर्वप्रकाशात्मनामग्न्यादीनामपि तज्ज्योतिः अवभासकम् । अग्न्यादीनामपि ज्योतिष्ट्वमन्तर्गतब्रह्मात्मचैतन्यज्योतिर्निमित्तमित्यर्थः । तद्धि परं ज्योतिर्यदन्यानवभास्यमात्मज्योतिः, तत् यत् आत्मविदः आत्मानं स्वं शब्दादिविषयबुद्धिप्रत्ययसाक्षिणं ये विवेकिनो विदुः विजानन्ति, ते आत्मविदः तद्विदुः, आत्मप्रत्ययानुसारिणः । यस्मात्परं ज्योतिस्तस्मात्त एव तद्विदुः, नेतरे बाह्यार्थप्रत्ययानुसारिणः ॥
न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः ।
तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति ॥ ११ ॥
कथं तत् ‘ज्योतिषां ज्योतिः’ इति, उच्यते — न तत्र तस्मिन्स्वात्मभूते ब्रह्मणि सर्वावभासकोऽपि सूर्यो भाति, तद्ब्रह्म न प्रकाशयतीत्यर्थः । स हि तस्यैव भासा सर्वमन्यदनात्मजातं प्रकाशयति ; न तु तस्य स्वतः प्रकाशनसामर्थ्यम् । तथा न चन्द्रतारकम् , न इमाः विद्युतः भान्ति, कुतोऽयमग्निः अस्मद्गोचरः । किं बहुना । यदिदं जगद्भाति, तत्तमेव परमेश्वरं स्वतो भारूपत्वात् भान्तं दीप्यमानम् अनुभाति अनुदीप्यते । यथा जलमुल्मुकादि वा अग्निसंयोगादग्निं दहन्तमनुदहति, न स्वतः ; तद्वत्तस्यैव भासा दीप्त्या सर्वमिदं सूर्यादि जगद्विभाति । यत एवं तदेव ब्रह्म भाति च विभाति च कार्यगतेन विविधेन भासा ; अतस्तस्य ब्रह्मणो भारूपत्वं स्वतोऽवगम्यते । न हि स्वतोऽविद्यमानं भासनमन्यस्य कर्तुं शक्नोति । घटादीनामन्यावभासकत्वादर्शनात् भारूपाणां चादित्यादीनां तद्दर्शनात् ॥
ब्रह्मैवेदममृतं पुरस्ताद्ब्रह्म पश्चाद्ब्रह्म दक्षिणतश्चोत्तरेण ।
अधश्चोर्ध्वं च प्रसृतं ब्रह्मैवेदं विश्वमिदं वरिष्ठम् ॥ १२ ॥
यत्तज्ज्योतिषां ज्योतिर्ब्रह्म, तदेव सत्यम् ; सर्वं तद्विकारः वाचारम्भणं विकारो नामधेयमात्रमनृतमितरदित्येतमर्थं विस्तरेण हेतुतः प्रतिपादितं निगमनस्थानीयेन मन्त्रेण पुनरुपसंहरति — ब्रह्मैव उक्तलक्षणम् , इदं यत् पुरस्तात् अग्रेऽब्रह्मेवाविद्यादृष्टीनां प्रत्यवभासमानं तथा पश्चाद्ब्रह्म तथा दक्षिणतश्च तथा उत्तरेण तथैवाधस्तात् ऊर्ध्वं च सर्वतोऽन्यदिव कार्याकारेण प्रसृतं प्रगतं नामरूपवदवभासमानम् । किं बहुना, ब्रह्मैवेदं विश्वं समस्तमिदं जगत् वरिष्ठं वरतमम् । अब्रह्मप्रत्ययः सर्वोऽविद्यामात्रो रज्ज्वामिव सर्पप्रत्ययः । ब्रह्मैवैकं परमार्थसत्यमिति वेदानुशासनम् ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ मुण्डकोपनिषद्भाष्ये द्वितीयं मुण्डकं समाप्तम् ॥
परा विद्योक्ता यया तदक्षरं पुरुषाख्यं सत्यमधिगम्यते । यदधिगमे हृदयग्रन्थ्यादिसंसारकारणस्यात्यन्तिको विनाशः स्यात् , तद्दर्शनोपायश्च योगो धनुराद्युपादानकल्पनयोक्तः । अथेदानीं तत्सहकारीणि सत्यादिसाधनानि वक्तव्यानीति तदर्थ उत्तरग्रन्थारम्भः । प्राधान्येन तत्त्वनिर्धारणं च प्रकारान्तरेण क्रियते । अत्यन्तदुरवगाहत्वात्कृतमपि तत्र सूत्रभूतो मन्त्रः परमार्थवस्त्ववधारणार्थमुपन्यस्यते —
द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते ।
तयोरन्यः पिप्पलं स्वाद्वत्ति अनश्नन्नन्योऽभिचाकशीति ॥ १ ॥
द्वा द्वौ, सुपर्णा सुपर्णौ शोभनपतनौ सुपर्णौ, पक्षिसामान्याद्वा सुपर्णौ, सयुजा सयुजौ सहैव सर्वदा युक्तौ, सखाया सखायौ समानाख्यानौ समानाभिव्यक्तिकारणौ, एवंभूतौ सन्तौ समानम् अविशेषमुपलब्ध्यधिष्ठानतया, एकं वृक्षं वृक्षमिवोच्छेदसामान्याच्छरीरं वृक्षं परिषस्वजाते परिष्वक्तवन्तौ । सुपर्णाविवैकं वृक्षं फलोपभोगार्थम् । अयं हि वृक्ष ऊर्ध्वमूलोऽवाक्शाखोऽश्वत्थोऽव्यक्तमूलप्रभवः क्षेत्रसंज्ञकः सर्वप्राणिकर्मफलाश्रयः, तं परिष्वक्तवन्तौ सुपर्णाविव अविद्याकामकर्मवासनाश्रयलिङ्गोपाध्यात्मेश्वरौ । तयोः परिष्वक्तयोः अन्यः एकः क्षेत्रज्ञो लिङ्गोपाधिवृक्षमाश्रितः पिप्पलं कर्मनिष्पन्नं सुखदुःखलक्षणं फलं स्वादु अनेकविचित्रवेदनास्वादरूपं स्वादु अत्ति भक्षयत्युपभुङ्क्ते अविवेकतः । अनश्नन् अन्यः इतरः ईश्वरो नित्यशुद्धबुद्धमुक्तस्वभावः सर्वज्ञः सत्त्वोपाधिरीश्वरो नाश्नाति । प्रेरयिता ह्यसावुभयोर्भोज्यभोक्त्रोर्नित्यसाक्षित्वसत्तामात्रेण । स तु अनश्नन् अन्यः अभिचाकशीति पश्यत्येव केवलम् । दर्शनमात्रं हि तस्य प्रेरयितृत्वं राजवत् ॥
समाने वृक्षे पुरुषो निमग्नोऽनीशया शोचति मुह्यमानः ।
जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकः ॥ २ ॥
तत्रैवं सति समाने वृक्षे यथोक्ते शरीरे पुरुषः भोक्ता जीवोऽविद्याकामकर्मफलरागादिगुरुभाराक्रान्तोऽलाबुरिव सामुद्रे जले निमग्नः निश्चयेन देहात्मभावमापन्नोऽयमेवाहममुष्य पुत्रोऽस्य नप्ता कृशः स्थूलो गुणवान्निर्गुणः सुखी दुःखीत्येवंप्रत्ययो नास्त्यन्योऽस्मादिति जायते म्रियते संयुज्यते वियुज्यते च सम्बन्धिबान्धवैः, अतः अनीशया, न कस्यचित्समर्थोऽहं पुत्रो मम विनष्टो मृता मे भार्या किं मे जीवितेनेत्येवं दीनभावोऽनीशा, तया शोचति सन्तप्यते मुह्यमानः अनेकैरनर्थप्रकारैरविवेकितया अन्तश्चिन्तामापद्यमानः स एवं प्रेततिर्यङ्मनुष्यादियोनिष्वाजवञ्जवीभावमापन्नः कदाचिदनेकजन्मसु शुद्धधर्मसञ्चितनिमित्ततः केनचित्परमकारुणिकेन दर्शितयोगमार्गः अहिंसासत्यब्रह्मचर्यसर्वत्यागशमदमादिसम्पन्नः समाहितात्मा सन् जुष्टं सेवितमनेकैर्योगमार्गैः कर्मिभिश्च यदा यस्मिन्काले पश्यति ध्यायमानः अन्यं वृक्षोपाधिलक्षणाद्विलक्षणम् ईशम् असंसारिणमशनायापिपासाशोकमोहजरामृत्य्वतीतमीशं सर्वस्य जगतोऽयमहमस्म्यात्मा सर्वस्य समः सर्वभूतस्थो नेतरोऽविद्याजनितोपाधिपरिच्छिन्नो मायात्मेति महिमानं विभूतिं च जगद्रूपमस्यैव मम परमेश्वरस्य इति यदैवं द्रष्टा, तदा वीतशोकः भवति सर्वस्माच्छोकसागराद्विप्रमुच्यते, कृतकृत्यो भवतीत्यर्थः ॥
यदा पश्यः पश्यते रुक्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम् ।
तदा विद्वान्पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति ॥ ३ ॥
अन्योऽपि मन्त्र इममेवार्थमाह सविस्तरम् — यदा यस्मिन्काले पश्यः पश्यतीति विद्वान् साधक इत्यर्थः । पश्यते पश्यति पूर्ववत् , रुक्मवर्णं स्वयञ्ज्योतिःस्वभावं रुक्मस्येव वा ज्योतिरस्याविनाशि ; कर्तारं सर्वस्य जगतः ईशं पुरुषं ब्रह्मयोनिं ब्रह्म च तद्योनिश्चासौ ब्रह्मयोनिस्तं ब्रह्मयोनिं ब्रह्मणो वा अपरस्य योनिं स यदा चैवं पश्यति, तदा स विद्वान्पश्यः पुण्यपापे बन्धनभूते कर्मणी समूले विधूय निरस्य दग्ध्वा निरञ्जनः निर्लेपो विगतक्लेशः परमं प्रकृष्टं निरतिशयं साम्यं समतामद्वयलक्षणाम् ; द्वैतविषयाणि साम्यान्यतः अर्वाञ्च्येव, अतोऽद्वयलक्षणमेतत् परमं साम्यमुपैति प्रतिपद्यते ॥
प्राणो ह्येष यः सर्वभूतैर्विभाति विजानन्विद्वान्भवते नातिवादी ।
आत्मक्रीड आत्मरतिः क्रियावानेष ब्रह्मविदां वरिष्ठः ॥ ४ ॥
किञ्च, योऽयं प्राणस्य प्राणः पर ईश्वरः हि एषः प्रकृतः सर्वभूतैः सर्वैर्भूतैः ब्रह्मादिस्तम्बपर्यन्तैः ; इत्थम्भूतलक्षणा तृतीया । सर्वभूतस्थः सर्वात्मा सन्नित्यर्थः । विभाति विविधं दीप्यते । एवं सर्वभूतस्थं यः साक्षादात्मभावेनायमहमस्मीति विजानन् विद्वान् वाक्यार्थज्ञानमात्रेण न भवते न भवतीत्येतत् । किम् ? अतिवादी अतीत्य सर्वानन्यान्वदितुं शीलमस्येत्यतिवादी । यस्त्वेवं साक्षादात्मानं प्राणस्य प्राणं विद्वान् , सोऽतिवादी न भवतीत्यर्थः । सर्वं यदा आत्मैव नान्यदस्तीति दृष्टम् , तदा किं ह्यसावतीत्य वदेत् । यस्य त्वपरमन्यद्दृष्टमस्ति, स तदतीत्य वदति । अयं तु विद्वान्नात्मनोऽन्यत्पश्यति ; नान्यच्छृणोति ; नान्यद्विजानाति । अतो नातिवदति । किञ्च, आत्मक्रीडः आत्मन्येव क्रीडा क्रीडनं यस्य नान्यत्र पुत्रदारादिषु, स आत्मक्रीडः । तथा आत्मरतिः आत्मन्येव रती रमणं प्रीतिर्यस्य, स आत्मरतिः । क्रीडा बाह्यसाधनसापेक्षा ; रतिस्तु साधननिरपेक्षा बाह्यविषयप्रीतिमात्रमिति विशेषः । तथा क्रियावान् ज्ञानध्यानवैराग्यादिक्रिया यस्य सोऽयं क्रियावान् । समासपाठे आत्मरतिरेव क्रियास्य विद्यत इति बहुव्रीहिमतुबर्थयोरन्यतरोऽतिरिच्यते । केचित्त्वग्निहोत्रादिकर्मब्रह्मविद्ययोः समुच्चयार्थमिच्छन्ति । तच्चैष ब्रह्मविदां वरिष्ठ इत्यनेन मुख्यार्थवचनेन विरुध्यते । न हि बाह्यक्रियावानात्मक्रीड आत्मरतिश्च भवितुं शक्तः । क्वचिद्बाह्यक्रियाविनिवृत्तो ह्यात्मक्रीडो भवति बाह्यक्रियात्मक्रीडयोर्विरोधात् । न हि तमःप्रकाशयोर्युगपदेकत्र स्थितिः सम्भवति । तस्मादसत्प्रलपितमेवैतदनेन ज्ञानकर्मसमुच्चयप्रतिपादनम् । ‘अन्या वाचो विमुञ्चथ’ (मु. उ. २ । २ । ५) ‘संन्यासयोगात्’ (मु. उ. ३ । २ । ६) इत्यादिश्रुतिभ्यश्च । तस्मादयमेवेह क्रियावान्यो ज्ञानध्यानादिक्रियावानसम्भिन्नार्यमर्यादः संन्यासी । य एवंलक्षणो नातिवाद्यात्मक्रीड आत्मरतिः क्रियावान्ब्रह्मनिष्ठः, स ब्रह्मविदां सर्वेषां वरिष्ठः प्रधानः ॥
सत्येन लभ्यस्तपसा ह्येष आत्मा सम्यग्ज्ञानेन ब्रह्मचर्येण नित्यम् ।
अन्तःशरीरे ज्योतिर्मयो हि शुभ्रो यं पश्यन्ति यतयः क्षीणदोषाः ॥ ५ ॥
अधुना सत्यादीनि भिक्षोः सम्यग्ज्ञानसहकारीणि साधनानि विधीयन्ते निवृत्तिप्रधानानि — सत्येन अनृतत्यागेन मृषावदनत्यागेन लभ्यः प्राप्तव्यः । किञ्च, तपसा हीन्द्रियमनएकाग्रतया । ‘मनसश्चेन्द्रियाणां च ह्यैकाग्र्यं परमं तपः’ (मो. ध. २५० । ४) इति स्मरणात् । तद्ध्यनुकूलमात्मदर्शनाभिमुखीभावात्परमं साधनं तपो नेतरच्चान्द्रायणादि । एष आत्मा लभ्य इत्यनुषङ्गः सर्वत्र । सम्यग्ज्ञानेन यथाभूतात्मदर्शनेन ब्रह्मचर्येण मैथुनासमाचारेण । नित्यं सर्वदा ; नित्यं सत्येन नित्यं तपसा नित्यं सम्यग्ज्ञानेनेति सर्वत्र नित्यशब्दोऽन्तर्दीपिकान्यायेनानुषक्तव्यः । वक्ष्यति च ‘न येषु जिह्ममनृतं न माया च’ (प्र. उ. १ । १६) इति । क्वासावात्मा य एतैः साधनैर्लभ्य इत्युच्यते — अन्तःशरीरेऽन्तर्मध्ये शरीरस्य पुण्डरीकाकाशे ज्योतिर्मयो हि रुक्मवर्णः शुभ्रः शुद्धो यमात्मानं पश्यन्ति उपलभन्ते यतयः यतनशीलाः संन्यासिनः क्षीणदोषाः क्षीणक्रोधादिचित्तमलाः, स आत्मा नित्यं सत्यादिसाधनैः संन्यासिभिर्लभ्यत इत्यर्थः । न कादाचित्कैः सत्यादिभिर्लभ्यते । सत्यादिसाधनस्तुत्यर्थोऽयमर्थवादः ॥
सत्यमेव जयते नानृतं सत्येन पन्था विततो देवयानः ।
येनाक्रमन्त्यृषयो ह्याप्तकामा यत्र तत्सत्यस्य परमं निधानम् ॥ ६ ॥
सत्यमेव सत्यवानेव जयते जयति, नानृतं नानृतवादीत्यर्थः । न हि सत्यानृतयोः केवलयोः पुरुषानाश्रितयोः जयः पराजयो वा सम्भवति । प्रसिद्धं लोके सत्यवादिनानृतवाद्यभिभूयते न विपर्ययः ; अतः सिद्धं सत्यस्य बलवत्साधनत्वम् । किञ्च, शास्त्रतोऽप्यवगम्यते सत्यस्य साधनातिशयत्वम् । कथम् ? सत्येन यथाभूतवादव्यवस्थया पन्थाः देवयानाख्यः विततो विस्तीर्णः सातत्येन प्रवृत्तः । येन पथा हि अक्रमन्ति आक्रमन्ते ऋषयः दर्शनवन्तः कुहकमायाशाठ्याहङ्कारदम्भानृतवर्जिता ह्याप्तकामाः विगततृष्णाः सर्वतो यत्र यस्मिन् , तत्परमार्थतत्त्वं सत्यस्य उत्तमसाधनस्य सम्बन्धि साध्यं परमं प्रकृष्टं निधानं पुरुषार्थरूपेण निधीयत इति निधानं वर्तते । तत्र च येन पथा आक्रमन्ति, स सत्येन वितत इति पूर्वेण सम्बन्धः ॥
बृहच्च तद्दिव्यमचिन्त्यरूपं सूक्ष्माच्च तत्सूक्ष्मतरं विभाति ।
दूरात्सुदूरे तदिहान्तिके च पश्यत्स्विहैव निहितं गुहायाम् ॥ ७ ॥
किं तत्किन्धर्मकं च तदित्युच्यते — बृहत् महच्च तत् प्रकृतं ब्रह्म सत्यादिसाधनेन सर्वतो व्याप्तत्वात् । दिव्यं स्वयम्प्रभमनिन्द्रियगोचरम् अत एव न चिन्तयितुं शक्यतेऽस्य रूपमिति अचिन्त्यरूपम् । सूक्ष्मादाकाशादेरपि तत्सूक्ष्मतरम् , निरतिशयं हि सौक्ष्म्यमस्य सर्वकारणत्वात् ; विभाति विविधमादित्यचन्द्राद्याकारेण भाति दीप्यते । किञ्च, दूरात् विप्रकृष्टाद्देशात्सुदूरे विप्रकृष्टतरे देशे वर्ततेऽविदुषामत्यन्तागम्यत्वात्तद्ब्रह्म । इह देहे अन्तिके समीपे च, विदुषामात्मत्वात् । सर्वान्तरत्वाच्चाकाशस्याप्यन्तरश्रुतेः । इह पश्यत्सु चेतनावत्स्वित्येतत् , निहितं स्थितं दर्शनादिक्रियावत्त्वेन योगिभिर्लक्ष्यमाणम् । क्व ? गुहायां बुद्धिलक्षणायाम् । तत्र हि निगूढं लक्ष्यते विद्वद्भिः । तथाप्यविद्यया संवृतं सन्न लक्ष्यते तत्रस्थमेवाविद्वद्भिः ॥
न चक्षुषा गृह्यते नापि वाचा नान्यैर्देवैस्तपसा कर्मणा वा ।
ज्ञानप्रसादेन विशुद्धसत्त्वस्ततस्तु तं पश्यते निष्कलं ध्यायमानः ॥ ८ ॥
पुनरप्यसाधारणं तदुपलब्धिसाधनमुच्यते — यस्मात् न चक्षुषा गृह्यते केनचिदप्यरूपत्वात् नापि गृह्यते वाचा अनभिधेयत्वात् न चान्यैर्देवैः इतरेन्द्रियैः । तपसः सर्वप्राप्तिसाधनत्वेऽपि न तपसा गृह्यते । तथा वैदिकेनाग्निहोत्रादिकर्मणा प्रसिद्धमहत्त्वेनापि न गृह्यते । किं पुनस्तस्य ग्रहणे साधनमित्याह — ज्ञानप्रसादेन आत्मावबोधनसमर्थमपि स्वभावेन सर्वप्राणिनां ज्ञानं बाह्यविषयरागादिदोषकलुषितमप्रसन्नमशुद्धं सन्नावबोधयति नित्यसंनिहितमप्यात्मतत्त्वं मलावनद्धमिवादर्शम् , विलुलितमिव सलिलम् । तद्यदेन्द्रियविषयसंसर्गजनितरागादिमलकालुष्यापनयनादादर्शसलिलादिवत्प्रसादितं स्वच्छं शान्तमवतिष्ठते, तदा ज्ञानस्य प्रसादः स्यात् । तेन ज्ञानप्रसादेन विशुद्धसत्त्वः विशुद्धान्तःकरणः योग्यो ब्रह्म द्रष्टुं यस्मात् , ततः तस्मात्तु तमात्मानं पश्यते पश्यति उपलभते निष्कलं सर्वावयवभेदवर्जितं ध्यायमानः सत्यादिसाधनवानुपसंहृतकरण एकाग्रेण मनसा ध्यायमानः चिन्तयन् ॥
एषोऽणुरात्मा चेतसा वेदितव्यो यस्मिन्प्राणः पञ्चधा संविवेश ।
प्राणैश्चित्तं सर्वमोतं प्रजानां यस्मिन्विशुद्धे विभवत्येष आत्मा ॥ ९ ॥
यमात्मानमेवं पश्यति, एषः अणुः सूक्ष्मः आत्मा चेतसा विशुद्धज्ञानेन केवलेन वेदितव्यः । क्वासौ ? यस्मिन् शरीरे प्राणः वायुः पञ्चधा प्राणापानादिभेदेन संविवेश सम्यक् प्रविष्टः, तस्मिन्नेव शरीरे हृदये चेतसा ज्ञेय इत्यर्थः । कीदृशेन चेतसा वेदितव्य इत्याह — प्राणैः सहेन्द्रियैः चित्तं सर्वमन्तःकरणं प्रजानाम् ओतं व्याप्तं येन क्षीरमिव स्नेहेन, काष्ठमिव चाग्निना । सर्वं हि प्रजानामन्तःकरणं चेतनावत्प्रसिद्धं लोके । यस्मिंश्च चित्ते क्लेशादिमलवियुक्ते शुद्धे विभवति, एषः उक्त आत्मा विशेषेण स्वेनात्मना विभवति आत्मानं प्रकाशयतीत्यर्थः ॥
यं यं लोकं मनसा संविभाति विशुद्धसत्त्वः कामयते यांश्च कामान् ।
तं तं लोकं जयते तांश्च कामांस्तस्मादात्मज्ञं ह्यर्चयेद्भूतिकामः ॥ १० ॥
य एवमुक्तलक्षणं सर्वात्मानमात्मत्वेन प्रतिपन्नस्तस्य सर्वात्मत्वादेव सर्वावाप्तिलक्षणं फलमाह — यं यं लोकं पित्रादिलक्षणं मनसा संविभाति सङ्कल्पयति मह्यमन्यस्मै वा भवेदिति, विशुद्धसत्त्वः क्षीणक्लेशः आत्मविन्निर्मलान्तःकरणः कामयते यांश्च कामान् प्रार्थयते भोगान् , तं तं लोकं जयते प्राप्नोति तांश्च कामान्सङ्कल्पितान्भोगान् । तस्माद्विदुषः सत्यसङ्कल्पत्वादात्मज्ञमात्मज्ञानेन विशुद्धान्तःकरणं ह्यर्चयेत्पूजयेत्पादप्रक्षालनशुश्रूषानमस्कारादिभिः भूतिकामः विभूतिमिच्छुः । ततः पूजार्ह एवासौ ॥
इति तृतीयमुण्डके प्रथमखण्डभाष्यम् ॥
स वेदैतत्परमं ब्रह्म धाम यत्र विश्वं निहितं भाति शुभ्रम् ।
उपासते पुरुषं ये ह्यकामास्ते शुक्रमेतदतिवर्तन्ति धीराः ॥ १ ॥
यस्मात् स वेद जानाति एतत् यथोक्तलक्षणं ब्रह्म परमं प्रकृष्टं धाम सर्वकामानामाश्रयमास्पदम् , यत्र यस्मिन्ब्रह्मणि धाम्नि विश्वं समस्तं जगत् निहितम् अर्पितम् , यच्च स्वेन ज्योतिषा भाति शुभ्रं शुद्धम् , तमप्येवंविधमात्मज्ञं पुरुषं ये हि अकामाः विभूतितृष्णावर्जिता मुमुक्षवः सन्तः उपासते परमिव देवम् , ते शुक्रं नृबीजं यदेतत्प्रसिद्धं शरीरोपादानकारणम् अतिवर्तन्ति अतिगच्छन्ति धीराः बुद्धिमन्तः, न पुनर्योनिं प्रसर्पन्ति । ‘न पुनः क्व रतिं करोति’ ( ? ) इति श्रुतेः । अतस्तं पूजयेदित्यभिप्रायः ॥
कामान्यः कामयते मन्यमानः स कामभिर्जायते तत्र तत्र ।
पर्याप्तकामस्य कृतात्मनस्तु इहैव सर्वे प्रविलीयन्ति कामाः ॥ २ ॥
मुमुक्षोः कामत्याग एव प्रधानं साधनमित्येतद्दर्शयति — कामान् यः दृष्टादृष्टेष्टविषयान् कामयते मन्यमानः तद्गुणांश्चिन्तयानः प्रार्थयते, सः तैः कामभिः कामैर्धर्माधर्मप्रवृत्तिहेतुभिर्विषयेच्छारूपैः सह जायते ; तत्र तत्र, यत्र यत्र विषयप्राप्तिनिमित्तं कामाः कर्मसु पुरुषं नियोजयन्ति, तत्र तत्र तेषु तेषु विषयेषु तैरेव कामैर्वेष्टितो जायते । यस्तु परमार्थतत्त्वविज्ञानात्पर्याप्तकामः आत्मकामत्वेन परि समन्ततः आप्ताः कामा यस्य, तस्य पर्याप्तकामस्य कृतात्मनः अविद्यालक्षणादपररूपादपनीय स्वेन परेण रूपेण कृत आत्मा विद्यया यस्य, तस्य कृतात्मनस्तु इहैव तिष्ठत्येव शरीरे सर्वे धर्माधर्मप्रवृत्तिहेतवः प्रविलीयन्ति प्रविलीयन्ते विलयमुपयान्ति, नश्यन्तीत्यर्थः । कामाः तज्जन्महेतुविनाशान्न जायन्त इत्यभिप्रायः ॥
नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन ।
यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वाम् ॥ ३ ॥
यद्येवं सर्वलाभात्परम आत्मलाभः, तल्लाभाय प्रवचनादय उपाया बाहुल्येन कर्तव्या इति प्राप्ते, इदमुच्यते — यः अयमात्मा व्याख्यातः, यस्य लाभः परः पुरुषार्थः, नासौ वेदशास्त्राध्ययनबाहुल्येन प्रवचनेन लभ्यः । तथा न मेधया ग्रन्थार्थधारणशक्त्या, न बहुना श्रुतेन नापि भूयसा श्रवणेनेत्यर्थः । केन तर्हि लभ्य इति, उच्यते — यमेव परमात्मानमेव एषः विद्वान् वृणुते प्राप्तुमिच्छति, तेन वरणेन एष पर आत्मा लभ्यः, नान्येन साधनान्तरेण, नित्यलब्धस्वभावत्वात् । कीदृशोऽसौ विदुष आत्मलाभ इति, उच्यते — तस्य एष आत्मा अविद्यासञ्छन्नां स्वां परां तनूं स्वात्मतत्त्वं स्वरूपं विवृणुते प्रकाशयति, प्रकाश इव घटादिर्विद्यायां सत्यामाविर्भवतीत्यर्थः । तस्मादन्यत्यागेनात्मप्रार्थनैव आत्मलाभसाधनमित्यर्थः ॥
नायमात्मा बलहीनेन लभ्यो न च प्रमादात्तपसो वाप्यलिङ्गात् ।
एतैरुपायैर्यतते यस्तु विद्वांस्तस्यैष आत्मा विशते ब्रह्म धाम ॥ ४ ॥
आत्मप्रार्थनासहायभूतान्येतानि च साधनानि बलाप्रमादतपांसि लिङ्गयुक्तानि संन्याससहितानि । यस्मात् न अयमात्मा बलहीनेन बलप्रहीणेनात्मनिष्ठाजनितवीर्यहीनेन लभ्यः ; नापि लौकिकपुत्रपश्वादिविषयासङ्गनिमित्तात्प्रमादात् ; तथा तपसो वापि अलिङ्गात् लिङ्गरहितात् । तपोऽत्र ज्ञानम् ; लिङ्गं संन्यासः ; संन्यासरहिताज्ज्ञानान्न लभ्यत इत्यर्थः । एतैः उपायैः बलाप्रमादसंन्यासज्ञानैः यतते तत्परः सन्प्रयतते यस्तु विद्वान्विवेकी आत्मवित् , तस्य विदुषः एष आत्मा विशते सम्प्रविशति ब्रह्म धाम ॥
सम्प्राप्यैनमृषयो ज्ञानतृप्ताः कृतात्मानो वीतरागाः प्रशान्ताः ।
ते सर्वगं सर्वतः प्राप्य धीरा युक्तात्मानः सर्वमेवाविशन्ति ॥ ५ ॥
कथं ब्रह्म विशत इति, उच्यते — सम्प्राप्य समवगम्य एनम् आत्मानम् ऋषयः दर्शनवन्तः तेनैव ज्ञानेन तृप्ताः, न बाह्येन तृप्तिसाधनेन शरीरोपचयकारणेन । कृतात्मानः परमात्मस्वरूपेणैव निष्पन्नात्मानः सन्तः । वीतरागाः विगतरागादिदोषाः । प्रशान्ताः उपरतेन्द्रियाः । ते एवंभूताः सर्वगं सर्वव्यापिनम् आकाशवत् सर्वतः सर्वत्र प्राप्य, नोपाधिपरिच्छिन्नेनैकदेशेन ; किं तर्हि, तद्ब्रह्मैवाद्वयमात्मत्वेन प्रतिपद्य धीराः अत्यन्तविवेकिनः युक्तात्मानो नित्यसमाहितस्वभावाः सर्वमेव समस्तं शरीरपातकालेऽपि आविशन्ति भिन्नघटाकाशवदविद्याकृतोपाधिपरिच्छेदं जहति । एवं ब्रह्मविदो ब्रह्म धाम प्रविशन्ति ॥
वेदान्तविज्ञानसुनिश्चितार्थाः संन्यासयोगाद्यतयः शुद्धसत्त्वाः ।
ते ब्रह्मलोकेषु परान्तकाले परामृताः परिमुच्यन्ति सर्वे ॥ ६ ॥
किञ्च, वेदान्तजनितं विज्ञानं वेदान्तविज्ञानं तस्यार्थः पर आत्मा विज्ञेयः, सोऽर्थः सुनिश्चितो येषां ते वेदान्तविज्ञानसुनिश्चितार्थाः । ते च संन्यासयोगात् सर्वकर्मपरित्यागलक्षणयोगात्केवलब्रह्मनिष्ठास्वरूपाद्योगात् यतयः यतनशीलाः शुद्धसत्त्वाः शुद्धं सत्त्वं येषां संन्यासयोगात् , ते शुद्धसत्त्वाः । ते ब्रह्मलोकेषु ; संसारिणां ये मरणकालास्ते अपरान्तकालाः ; तानपेक्ष्य मुमुक्षूणां संसारावसाने देहपरित्यागकालः परान्तकालः तस्मिन् परान्तकाले साधकानां बहुत्वाद्ब्रह्मैव लोको ब्रह्मलोकः एकोऽप्यनेकवद्दृश्यते प्राप्यते च । अतो बहुवचनं ब्रह्मलोकेष्विति, ब्रह्मणीत्यर्थः । परामृताः परम् अमृतम् अमरणधर्मकं ब्रह्म आत्मभूतं येषां ते परामृता जीवन्त एव ब्रह्मभूताः, परामृताः सन्तः परिमुच्यन्ति परि समन्तात्प्रदीपनिर्वाणवद्भिन्नघटाकाशवच्च निवृत्तिमुपयान्ति परिमुच्यन्ति परि समन्तान्मुच्यन्ते सर्वे, न देशान्तरं गन्तव्यमपेक्षन्ते । ‘शकुनीनामिवाकाशे जले वारिचरस्य वा । पदं यथा न दृश्येत तथा ज्ञानवतां गतिः’ (मो. ध. १८१ । ९) ‘अनध्वगा अध्वसु पारयिष्णवः’ ( ? ) इति श्रुतिस्मृतिभ्याम् ; देशपरिच्छिन्ना हि गतिः संसारविषयैव, परिच्छिन्नसाधनसाध्यत्वात् । ब्रह्म तु समस्तत्वान्न देशपरिच्छेदेन गन्तव्यम् । यदि हि देशपरिच्छिन्नं ब्रह्म स्यात् , मूर्तद्रव्यवदाद्यन्तवदन्याश्रितं सावयवमनित्यं कृतकं च स्यात् । न त्वेवंविधं ब्रह्म भवितुमर्हति । अतस्तत्प्राप्तिश्च नैव देशपरिच्छिन्ना भवितुं युक्ता ॥
गताः कलाः पञ्चदश प्रतिष्ठा देवाश्च सर्वे प्रतिदेवतासु ।
कर्माणि विज्ञानमयश्च आत्मा परेऽव्यये सर्व एकीभवन्ति ॥ ७ ॥
अपि च, अविद्यादिसंसारबन्धापनयनमेव मोक्षमिच्छन्ति ब्रह्मविदः, न तु कार्यभूतम् । किञ्च, मोक्षकाले या देहारम्भिकाः कलाः प्राणाद्याः, ताः स्वाः प्रतिष्ठाः गताः स्वं स्वं कारणं गता भवन्तीत्यर्थः । प्रतिष्ठा इति द्वितीयाबहुवचनम् । पञ्चदश पञ्चदशसङ्ख्याका या अन्त्यप्रश्नपरिपठिताः प्रसिद्धाः, देवाश्च देहाश्रयाश्चक्षुरादिकरणस्थाः सर्वे प्रतिदेवतास्वादित्यादिषु गता भवन्तीत्यर्थः । यानि च मुमुक्षुणा कृतानि कर्माण्यप्रवृत्तफलानि, प्रवृत्तफलानामुपभोगेनैव क्षीणत्वात् । विज्ञानमयश्चात्मा अविद्याकृतबुद्ध्याद्युपाधिमात्मत्वेन गत्वा जलादिषु सूर्यादिप्रतिबिम्बवदिह प्रविष्टो देहभेदेषु कर्मणां तत्फलार्थत्वात्सह तेनैव विज्ञानमयेनात्मना ; अतो विज्ञानमयो विज्ञानप्रायः । त एते कर्माणि विज्ञानमयश्च आत्मा उपाध्यपनये सति परे अव्यये अनन्तेऽक्षये ब्रह्मणि आकाशकल्पेऽजेऽजरेऽमृतेऽभयेऽपूर्वेऽनपरेऽनन्तरेऽबाह्येऽद्वये शिवे शान्ते सर्वे एकीभवन्ति अविशेषतां गच्छन्ति एकत्वमापद्यन्ते जलाद्याधारापनय इव सूर्यादिप्रतिबिम्बाः सूर्ये, घटाद्यपनय इवाकाशे घटाद्याकाशाः ॥
यथा नद्यः स्यन्दमानाः समुद्रेऽस्तं गच्छन्ति नामरूपे विहाय ।
तथा विद्वान्नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम् ॥ ८ ॥
किञ्च, यथा नद्यः गङ्गाद्याः स्यन्दमानाः गच्छन्त्यः समुद्रे समुद्रं प्राप्य अस्तम् अदर्शनमविशेषात्मभावं गच्छन्ति प्राप्नुवन्ति नाम च रूपं च नामरूपे विहाय हित्वा, तथा अविद्याकृतनामरूपात् विमुक्तः सन् विद्वान् परात् अक्षरात्पूर्वोक्तात् परं दिव्यं पुरुषं यथोक्तलक्षणम् उपैति उपगच्छति ॥
स यो ह वै तत्परमं ब्रह्म वेद ब्रह्मैव भवति नास्याब्रह्मवित्कुले भवति ।
तरति शोकं तरति पाप्मानं गुहाग्रन्थिभ्यो विमुक्तोऽमृतो भवति ॥ ९ ॥
ननु श्रेयस्यनेके विघ्नाः प्रसिद्धाः ; अतः क्लेशानामन्यतमेनान्येन वा देवादिना च विघ्नितो ब्रह्मविदप्यन्यां गतिं मृतो गच्छति न ब्रह्मैव ; न, विद्ययैव सर्वप्रतिबन्धस्यापनीतत्वात् । अविद्याप्रतिबन्धमात्रो हि मोक्षो नान्यप्रतिबन्धः, नित्यत्वादात्मभूतत्वाच्च । तस्मात् सः यः कश्चित् ह वै लोके तत् परमं ब्रह्म वेद साक्षादहमेवास्मीति जानाति, स नान्यां गतिं गच्छति । देवैरपि तस्य ब्रह्मप्राप्तिं प्रति विघ्नो न शक्यते कर्तुम् ; आत्मा ह्येषां स भवति । तस्माद्ब्रह्म विद्वान् ब्रह्मैव भवति । किञ्च, न अस्य विदुषः अब्रह्मवित् कुले भवति ; किञ्च, तरति शोकम् अनेकेष्टवैकल्यनिमित्तं मानसं सन्तापं जीवन्नेवातिक्रान्तो भवति । तरति पाप्मानं धर्माधर्माख्यं गुहाग्रन्थिभ्यः हृदयाविद्याग्रन्थिभ्यः विमुक्तः सन् मृतः भवतीत्युक्तमेव ‘भिद्यते हृदयग्रन्थिः’ (मु. उ. २ । २ । ९) इत्यादि ॥
तदेतदृचाभ्युक्तम् —
क्रियावन्तः श्रोत्रिया ब्रह्मनिष्ठाः स्वयं जुह्वत एकर्षिं श्रद्धयन्तः ।
तेषामेवैतां ब्रह्मविद्यां वदेत शिरोव्रतं विधिवद्यैस्तु चीर्णम् ॥ १० ॥
अथेदानीं ब्रह्मविद्यासम्प्रदानविध्युपप्रदर्शनेनोपसंहारः क्रियते — तदेतत् विद्यासम्प्रदानविधानम् ऋचा मन्त्रेण अभ्युक्तम् अभिप्रकाशितम् । क्रियावन्तः यथोक्तकर्मानुष्ठानयुक्ताः । श्रोत्रियाः ब्रह्मनिष्ठाः अपरस्मिन्ब्रह्मण्यभियुक्ताः परं ब्रह्म बुभुत्सवः स्वयम् एकर्षिम् एकर्षिनामानमग्निं जुह्वते जुह्वति श्रद्धयन्तः श्रद्दधानाः सन्तः ये, तेषामेव संस्कृतात्मनां पात्रभूतानाम् एतां ब्रह्मविद्यां वदेत ब्रूयात् शिरोव्रतं शिरस्यग्निधारणलक्षणम् । यथा आथर्वणानां वेदव्रतं प्रसिद्धम् । यैस्तु यैश्च तत् चीर्णं विधिवत् यथाविधानं तेषामेव वदेत ॥
तदेतत्सत्यमृषिरङ्गिराः पुरोवाच नैतदचीर्णव्रतोऽधीते । नमः परमऋषिभ्यो नमः परमऋषिभ्यः ॥ ११ ॥
तदेतत् अक्षरं पुरुषं सत्यम् ऋषिः अङ्गिरा नाम पुरा पूर्वं शौनकाय विधिवदुपसन्नाय पृष्टवते उवाच । तद्वदन्योऽपि तथैव श्रेयोर्थिने मुमुक्षवे मोक्षार्थं विधिवदुपसन्नाय ब्रूयादित्यर्थः । न एतत् ग्रन्थरूपम् अचीर्णव्रतः अचरितव्रतोऽपि अधीते न पठति ; चीर्णव्रतस्य हि विद्या फलाय संस्कृता भवतीति । समाप्ता ब्रह्मविद्या ; सा येभ्यो ब्रह्मादिभ्यः पारम्पर्यक्रमेण सम्प्राप्ता, तेभ्यो नमः परमऋषिभ्यः । परमं ब्रह्म साक्षाद्दृष्टवन्तो ये ब्रह्मादयोऽवगतवन्तश्च, ते परमर्षयः तेभ्यो भूयोऽपि नमः । द्विर्वचनमत्यादरार्थं मुण्डकसमाप्त्यर्थं च ॥
इति तृतीयमुण्डके द्वितीयखण्डभाष्यम् ॥