स ईक्षाञ्चक्रे कस्मिन्नहमुत्क्रान्त उत्क्रान्तो भविष्यामि कस्मिन्वा प्रतिष्ठिते प्रतिष्ठास्यामीति ॥ ३ ॥
यस्मिन्नेताः षोडश कलाः प्रभवन्तीत्युक्तः पुरुषविशेषणार्थः कलानां प्रभवः, स चान्यार्थोऽपि श्रुतः केन क्रमेण स्यादित्यत इदमुच्यते । चेतनपूर्विका च सृष्टिरित्येवमर्थं च । स पुरुषः षोडशकलः पृष्टो यो भारद्वाजेन सः ईक्षाञ्चक्रे ईक्षणं दर्शनं चक्रे — कृतवानित्यर्थः — सृष्टिफलक्रमादिविषयम् । कथमिति, उच्यते — कस्मिन् कर्तृविशेषे देहादुत्क्रान्ते उत्क्रान्तो भविष्यामि अहमेव ; कस्मिन्वा शरीरे प्रतिष्ठिते अहं प्रतिष्ठास्यामि प्रतिष्ठितः स्यामित्यर्थः । नन्वात्मा अकर्ता प्रधानं कर्तृ ; अतः पुरुषार्थं प्रयोजनमुररीकृत्य प्रधानं प्रवर्तते महदाद्याकारेण ; तत्रेदमनुपपन्नं पुरुषस्य स्वातन्त्र्येणेक्षापूर्वकं कर्तृत्ववचनम् , सत्त्वादिगुणसाम्ये प्रधाने प्रमाणोपपन्ने सृष्टिकर्तरि सति ईश्वरेच्छानुवर्तिषु वा परमाणुषु सत्सु आत्मनोऽप्येकत्वेन कर्तृत्वे साधनाभावादात्मन आत्मन्यनर्थकर्तृत्वानुपपत्तेश्च । न हि चेतनावान्बुद्धिपूर्वकारी आत्मनः अनर्थं कुर्यात् तस्मात्पुरुषार्थेन प्रयोजनेनेक्षापूर्वकमिव नियतक्रमेण प्रवर्तमानेऽचेतनेऽपि प्रधाने चेतनवदुपचारोऽयं स ईक्षाञ्चक्रे इत्यादिः ; यथा राज्ञः सर्वार्थकारिणि भृत्ये राजेति, तद्वत् । न ; आत्मनो भोक्तृत्ववत्कर्तृत्वोपपत्तेः — यथा साङ्ख्यस्य चिन्मात्रस्यापरिणामिनोऽप्यात्मनो भोक्तृत्वम् , तद्वद्वेदवादिनामीक्षापूर्वकं जगत्कर्तृत्वमुपपन्नं श्रुतिप्रामाण्यात् । तत्त्वान्तरपरिणामादात्मनोऽनित्यत्वाशुद्धत्वानेकत्वनिमित्तं चिन्मात्रस्वरूपविक्रियातः पुरुषस्य स्वात्मन्येव भोक्तृत्वे चिन्मात्रस्वरूपविक्रिया न दोषाय । भवतां पुनर्वेदवादिनां सृष्टिकर्तृत्वे तत्त्वान्तरपरिणाम एवेत्यात्मनोऽनित्यत्वादिसर्वदोषप्रसङ्ग इति चेत् , न ; एकस्याप्यात्मनोऽविद्याविषयनामरूपोपाध्यनुपाधिकृतविशेषाभ्युपगमात् । अविद्याकृतनामरूपोपाधिनिमित्तो हि विशेषोऽभ्युपगम्यते आत्मनो बन्धमोक्षादिशास्त्रकृतसंव्यवहाराय । परमार्थतोऽनुपाधिकृतं च तत्त्वमेकमेवाद्वितीयमुपादेयं सर्वतार्किकबुद्ध्यनवगम्यं ह्यजमभयं शिवमिष्यते । न तत्र कर्तृत्वं भोक्तृत्वं वा क्रियाकारकफलं वास्ति, अद्वैतत्वात्सर्वभावानाम् । साङ्ख्यास्त्वविद्याध्यारोपितमेव पुरुषे कर्तृत्वं क्रियाकारकं फलं चेति कल्पयित्वा आगमबाह्यत्वात्पुनस्ततस्त्रस्यन्तः परमार्थत एव भोक्तृत्वं पुरुषस्येच्छन्ति । तत्त्वान्तरं च प्रधानं पुरुषाद्बाह्यं परमार्थवस्तुभूतमेव कल्पयन्तोऽन्यतार्किककृतबुद्धिविषयाः सन्तो विहन्यन्ते । तथेतरेतार्किकाः साङ्ख्यैः ; इत्येवं परस्परविरुद्धार्थकल्पनात आमिषार्थिन इव प्राणिनोऽन्योन्यविरुध्यमानार्थदर्शित्वात्परमार्थतत्त्वाद्दूरमेवापकृष्यन्ते । अतस्तन्मतमनादृत्य वेदान्तार्थतत्त्वमेकत्वदर्शनं प्रत्यादरवन्तो मुमुक्षवः स्युरिति तार्किकमतदोषप्रदर्शनं किञ्चिदुच्यतेऽस्माभिः ; न तु तार्किकवत्तात्पर्येण । तथैतदत्रोक्तम् — विवदत्स्वेव निक्षिप्य विरोधोद्भवकारणम् । तैः संरक्षितसद्बुद्धिः सुखं निर्वाति वेदवित् ॥ किञ्च, भोक्तृत्वकर्तृत्वयोर्विक्रिययोर्विशेषानुपपत्तिः । का नामासौ कर्तृत्वाज्जात्यन्तरभूता भोक्तृत्वविशिष्टा विक्रिया, यतो भोक्तैव पुरुषः कल्प्यते न कर्ता ; प्रधानं तु कर्त्रेव न भोक्तृ इति । ननु उक्तं पुरुषश्चिन्मात्र एव ; स च स्वात्मस्थो विक्रियते भुञ्जानः, न तत्त्वान्तरपरिणामेन । प्रधानं तु तत्त्वान्तरपरिणामेन विक्रियते ; अतो नैकमशुद्धमचेतनं चेत्यादिधर्मवत् । तद्विपरीतः पुरुषः । नासौ विशेषः, वाङ्मात्रत्वात् । प्राग्भोगोत्पत्तेः केवलचिन्मात्रस्य पुरुषस्य भोक्तृत्वं नाम विशेषो भोगोत्पत्तिकाले चेत् जायते, निवृत्ते च भोगे पुनस्तद्विशेषादपेतश्चिन्मात्र एव भवतीति चेत् ; महदाद्याकारेण च परिणम्य प्रधानं ततोऽपेत्य पुनः प्रधानस्वरूपेण व्यवतिष्ठत इति अस्यां कल्पनायां न कश्चिद्विशेष इति वाङ्मात्रेण प्रधानपुरुषयोर्विशिष्टविक्रिया कल्प्यते । अथ भोगकालेऽपि चिन्मात्र एव प्राग्वत्पुरुष इति चेत् , न तर्हि परमार्थतो भोगः पुरुषस्य । अथ भोगकाले चिन्मात्रस्य विक्रिया परमार्थैव, तेन भोगः पुरुषस्येति चेत् , न ; प्रधानस्यापि भोगकाले विक्रियावत्त्वाद्भोक्तृकत्वप्रसङ्गः । चिन्मात्रस्यैव विक्रिया भोक्तृत्वमिति चेत् , औष्ण्याद्यसाधारणधर्मवतामग्न्यादीनामभोक्तृत्वे हेत्वनुपपत्तिः । प्रधानपुरुषयोर्द्वयोर्युगपद्भोक्तृत्वमिति चेत् , न ; प्रधानस्य पारार्थ्यानुपपत्तेः — न हि भोक्त्रोर्द्वयोरितरेतरगुणप्रधानभाव उपपद्यते प्रकाशयोरिवेतरेतरप्रकाशने । भोगधर्मवति सत्त्वाङ्गिनि चेतसि पुरुषस्य चैतन्यप्रतिबिम्बोदयादविक्रियस्य पुरुषस्य भोक्तृत्वमिति चेत् , न ; पुरुषस्य विशेषाभावे भोक्तृत्वकल्पनानर्थक्यात् । भोगरूपश्चेदनर्थः पुरुषस्य नास्मि सदा निर्विशेषत्वात्पुरुषस्य, कस्यापनयनार्थं मोक्षसाधनं शास्त्रं प्रणीयते ? अविद्याध्यारोपितानर्थापनयनाय शास्त्रप्रणयनमिति चेत् , परमार्थतः पुरुषो भोक्तैव, न कर्ता ; प्रधानं कर्त्रेव न भोक्तृ परमार्थसद्वस्त्वन्तरं पुरुषाच्च इतीयं कल्पना आगमबाह्या व्यर्थानिर्हेतुका च इति नादर्तव्या मुमुक्षुभिः । एकत्वेऽपि शास्त्रप्रणयनाद्यानर्थक्यमिति चेत् , न ; अभावात् — सत्सु हि शास्त्रप्रणेत्रादिषु तत्फलार्थिषु च शास्त्रस्य प्रणयनमर्थवदनर्थकं वेति विकल्पना स्यात् । न ह्यात्मैकत्वे शास्त्रप्रणेत्रादयस्ततो भिन्नाः सन्ति ; तदभावे एवं विकल्पनैवानुपपन्ना । अभ्युपगते आत्मैकत्वे प्रमाणार्थश्चाभ्युपगतो भवता यदात्मैकत्वमभ्युपगच्छता । तदभ्युपगमे च विकल्पानुपपत्तिमाह शास्त्रम्
‘यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्’ (बृ. उ. ४ । ५ । १४) इत्यादि ; शास्त्रप्रणयनाद्युपपत्तिं चाह अन्यत्र परमार्थवस्तुस्वरूपादविद्याविषये
‘यत्र हि द्वैतमिव भवति’ (बृ. उ. ४ । ५ । १४) इत्यादि विस्तरतो वाजसनेयके । अत्र च विभक्ते विद्याविद्ये परापरे इत्यादावेव शास्त्रस्य । अतो न तार्किकवादभटप्रवेशो वेदान्तराजप्रमाणबाहुगुप्ते इहात्मैकत्वविषये इति । एतेनाविद्याकृतनामरूपाद्युपाधिकृतानेकशक्तिसाधनकृतभेदवत्त्वाद्ब्रह्मणः सृष्ट्यादिकर्तृत्वे साधनाद्यभावो दोषः प्रत्युक्तो वेदितव्यः, परैरुक्त आत्मानर्थकर्तृत्वादिदोषश्च । यस्तु दृष्टान्तो राज्ञः सर्वार्थकारिणि कर्तरि भृत्ये उपचारो राजा कर्तेति, सोऽत्रानुपपन्नः ; ‘स ईक्षाञ्चक्रे’ इति श्रुतेर्मुख्यार्थबाधनात्प्रमाणभूतायाः । तत्र हि गौणी कल्पना शब्दस्य, यत्र मुख्यार्थो न सम्भवति । इह त्वचेतनस्य मुक्तबद्धपुरुषविशेषापेक्षया कर्तृकर्मदेशकालनिमित्तापेक्षया च बन्धमोक्षादिफलार्था नियता पुरुषं प्रति प्रवृत्तिर्नोपपद्यते ; यथोक्तसर्वज्ञेश्वरकर्तृत्वपक्षे तु उपपन्ना । ईश्वरेणैव सर्वाधिकारी प्राणः पुरुषेण सृज्यते ॥