मन्त्रोक्तस्यार्थस्य विस्तरानुवादीदं ब्राह्मणमारभ्यते । ऋषिप्रश्नप्रतिवाचनाख्यायिका तु विद्यास्तुतये । एवं संवत्सरब्रह्मचर्यसंवासादितपोयुक्तैर्ग्राह्या, पिप्पलादवत्सर्वज्ञकल्पैराचार्यैः वक्तव्या च, न येन केनचिदिति विद्यां स्तौति । ब्रह्मचर्यादिसाधनसूचनाच्च तत्कर्तव्यता स्यात् —
सुकेशा च भारद्वाजः शैब्यश्च सत्यकामः सौर्यायणी च गार्ग्यः कौसल्यश्चाश्वलायनो भार्गवो वैदर्भिः कबन्धी कात्यायनस्ते हैते ब्रह्मपरा ब्रह्मनिष्ठाः परं ब्रह्मान्वेषमाणा एष ह वै तत्सर्वं वक्ष्यतीति ते ह समित्पाणयो भगवन्तं पिप्पलादमुपसन्नाः ॥ १ ॥
सुकेशा च नामतः, भरद्वाजस्यापत्यं भारद्वाजः । शैब्यश्च शिबेरपत्यं शैब्यः, सत्यकामो नामतः । सौर्यायणी सूर्यस्यापत्यं सौर्यः, तस्यापत्यं सौर्यायणिः ; छान्दसं सौर्यायणीति ; गार्ग्यः गर्गगोत्रोत्पन्नः । कौसल्यश्च नामतः, अश्वलस्यापत्यमाश्वलायनः । भार्गवः भृगोर्गोत्रापत्यं भार्गवः, वैदर्भिः विदर्भेषु भवः । कबन्धी नामतः, कत्यस्यापत्यं कात्यायनः ; विद्यमानः प्रपितामहो यस्य सः ; युवप्रत्ययः । ते ह एते ब्रह्मपराः अपरं ब्रह्म परत्वेन गताः, तदनुष्ठाननिष्ठाश्च ब्रह्मनिष्ठाः, परं ब्रह्म अन्वेषमाणाः किं तत् यन्नित्यं विज्ञेयमिति तत्प्राप्त्यर्थं यथाकामं यतिष्याम इत्येवं तदन्वेषणं कुर्वन्तः, तदधिगमाय एष ह वै तत्सर्वं वक्ष्यतीति आचार्यमुपजग्मुः । कथम् ? ते ह समित्पाणयः समिद्भारगृहीतहस्ताः सन्तः, भगवन्तं पूजावन्तं पिप्पलादमाचार्यम् उपसन्नाः उपजग्मुः ॥
तान्ह स ऋषिरुवाच भूय एव तपसा ब्रह्मचर्येण श्रद्धया संवत्सरं संवत्स्यथ यथाकामं प्रश्नान्पृच्छत यदि विज्ञास्यामः सर्वं ह वो वक्ष्याम इति ॥ २ ॥
तान् एवमुपगतान् सः ह किल ऋषिः उवाच भूयः पुनरेव — यद्यपि यूयं पूर्वं तपस्विन एव, तथापीह तपसा इन्द्रियसंयमेन विशेषतो ब्रह्मचर्येण श्रद्धया च आस्तिक्यबुद्ध्या आदरवन्तः संवत्सरं कालं संवत्स्यथ सम्यग्गुरुशुश्रूषापराः सन्तो वत्स्यथ । ततः यथाकामं यो यस्य कामस्तमनतिक्रम्य यद्विषये यस्य जिज्ञासा तद्विषयान् प्रश्नान् पृच्छत । यदि तद्युष्मत्पृष्टं विज्ञास्यामः । अनुद्धतत्वप्रदर्शनार्थो यदि - शब्दो नाज्ञानसंशयार्थः प्रश्ननिर्णयादवसीयते सर्वं ह वो वः पृष्टार्थं वक्ष्याम इति ॥
अथ कबन्धी कात्यायन उपेत्य पप्रच्छ भगवन्कुतो ह वा इमाः प्रजाः प्रजायन्त इति ॥ ३ ॥
अथ संवत्सरादूर्ध्वं कबन्धी कात्यायनः उपेत्य उपगम्य पप्रच्छ पृष्टवान् — हे भगवन् , कुतः कस्मात् ह वै इमाः ब्राह्मणाद्याः प्रजाः प्रजायन्ते उत्पद्यन्ते इति । अपरविद्याकर्मणोः समुच्चितयोर्यत्कार्यं या गतिस्तद्वक्तव्यमिति तदर्थोऽयं प्रश्नः ॥
तस्मै स होवाच प्रजाकामो वै प्रजापतिः स तपोऽतप्यत स तपस्तप्त्वा स मिथुनमुत्पादयते रयिं च प्राणं चेत्येतौ मे बहुधा प्रजाः करिष्यत इति ॥ ४ ॥
तस्मै एवं पृष्टवते स ह उवाच तदपाकरणायाह — प्रजाकामः प्रजाः आत्मनः सिसृक्षुः वै, प्रजापतिः सर्वात्मा सन् जगत्स्रक्ष्यामीत्येवं विज्ञानवान्यथोक्तकारी तद्भावभाविताः कल्पादौ निर्वृत्तो हिरण्यगर्भः, सृज्यमानानां प्रजानां स्थावरजङ्गमानां पतिः सन् , जन्मान्तरभावितं ज्ञानं श्रुतिप्रकाशितार्थविषयं तपः, अन्वालोचयत् अतप्यत । अथ तु सः एवं तपः तप्त्वा श्रौतं ज्ञानमन्वालोच्य, सृष्टिसाधनभूतं मिथुनम् उत्पादयते मिथुनं द्वन्द्वमुत्पादितवान् रयिं च सोममन्नं प्राणं च अग्निमत्तारम् इत्येतौ अग्नीषोमौ अत्रन्नभूतौ मे मम बहुधा अनेकधा प्रजाः करिष्यतः इति एवं सञ्चिन्त्य अण्डोत्पत्तिक्रमेण सूर्याचन्द्रमसावकल्पयत् ॥
आदित्यो ह वै प्राणो रयिरेव चन्द्रमा रयिर्वा एतत्सर्वं यन्मूर्तं चामूर्तं च तस्मान्मूर्तिरेव रयिः ॥ ५ ॥
तत्र आदित्यः ह वै प्राणः अत्ता अग्निः । रयिरेव चन्द्रमाः । रयिरेवान्नं सोम एव । तदेतदेकमत्ता अग्निश्चान्नं च प्रजापतिरेकं तु मिथुनम् ; गुणप्रधानकृतो भेदः । कथम् ? रयिर्वै अन्नमेव एतत् सर्वम् । किं तत् ? यत् मूर्तं च स्थूलं च अमूर्तं च सूक्ष्मं च । मूर्तामूर्ते अत्त्रन्नरूपे अपि रयिरेव । तस्मात् प्रविभक्तादमूर्तात् यदन्यन्मूर्तरूपं मूर्तिः, सैव रयिः अन्नम् अमूर्तेन अत्त्रा अद्यमानत्वात् ॥
अथादित्य उदयन्यत्प्राचीं दिशं प्रविशति तेन प्राच्यान्प्राणान्रश्मिषु संनिधत्ते । यद्दक्षिणां यत्प्रतीचीं यदुदीचीं यदधो यदूर्ध्वं यदन्तरा दिशो यत्सर्वं, प्रकाशयति तेन, सर्वान्प्राणान्रश्मिषु संनिधत्ते ॥ ६ ॥
तथा अमूर्तोऽपि प्राणोऽत्ता सर्वमेव यच्चाद्यम् । कथम् ? अथ आदित्यः उदयन् उद्गच्छन् प्राणिनां चक्षुर्गोचरमागच्छन् यत्प्राचीं दिशं स्वप्रकाशेन प्रविशति व्याप्नोति, तेन स्वात्मव्याप्त्या सर्वान्तःस्थान् प्राणान् प्राच्यानन्नभूतान् रश्मिषु स्वात्मावभासरूपेषु व्याप्तिमत्सु व्याप्तत्वात्प्राणिनः संनिधत्ते संनिवेशयति आत्मभूतान्करोतीत्यर्थः । तथैव यत्प्रविशति दक्षिणां यत्प्रतीचीं यदुदीचीम् अधः ऊर्ध्वं यत्प्रविशति यच्च अन्तरा दिशः कोणदिशोऽवान्तरदिशः यच्चान्यत् सर्वं प्रकाशयति, तेन स्वप्रकाशव्याप्त्या सर्वान् सर्वदिक्स्थान् प्राणान् रश्मिषु संनिधत्ते ॥
स एष वैश्वानरो विश्वरूपः प्राणोऽग्निरुदयते । तदेतदृचाभ्युक्तम् ॥ ७ ॥
स एषः अत्ता प्राणो वैश्वानरः सर्वात्मा विश्वरूपः विश्वात्मत्वाच्च प्राणः अग्निश्च स एवात्ता उदयते उद्गच्छति प्रत्यहं सर्वा दिशः आत्मसात्कुर्वन् । तदेतत् उक्तं वस्तु ऋचा मन्त्रेणापि अभ्युक्तम् ॥
विश्वरूपं हरिणं जातवेदसं परायणं ज्योतिरेकं तपन्तम् ।
सहस्ररश्मिः शतधा वर्तमानः प्राणः प्रजानामुदयत्येष सूर्यः ॥ ८ ॥
विश्वरूपं सर्वरूपं हरिणं रश्मिवन्तं जातवेदसं जातप्रज्ञानं परायणं सर्वप्राणाश्रयं ज्योतिः सर्वप्राणिनां चक्षुर्भूतम् एकम् अद्वितीयं तपन्तं तापक्रियां कुर्वाणं स्वात्मानं सूर्यं विज्ञातवन्तो ब्रह्मविदः । कोऽसौ यं विज्ञातवन्तः ? सहस्ररश्मिः अनेकरश्मिः शतधा अनेकधा प्राणिभेदेन वर्तमानः प्राणः प्रजानाम् उदयति एषः सूर्यः ॥
संवत्सरो वै प्रजापतिस्तस्यायने दक्षिणं चोत्तरं च । तद्ये ह वै तदिष्टापूर्ते कृतमित्युपासते ते चान्द्रमसमेव लोकमभिजयन्ते । त एव पुनरावर्तन्ते तस्मादेत ऋषयः प्रजाकामा दक्षिणं प्रतिपद्यन्ते । एष ह वै रयिर्यः पितृयाणः ॥ ९ ॥
यश्चासौ चन्द्रमा मूर्तिरन्नममूर्तिश्च प्राणोऽत्तादित्यस्तदेतदेकं मिथुनं सर्वं कथं प्रजाः करिष्यत इति, उच्यते — तदेव कालः संवत्सरो वै प्रजापतिः, तन्निर्वर्त्यत्वात्संवत्सरस्य । चन्द्रादित्यनिर्वर्त्यतिथ्यहोरात्रसमुदायो हि संवत्सरः तदनन्यत्वाद्रयिप्राणैतन्मिथुनात्मक एवेत्युच्यते । तत्कथम् ? तस्य संवत्सरस्य प्रजापतेः अयने मार्गौ द्वौ दक्षिणं चोत्तरं च । प्रसिद्धे ह्ययने षण्मासलक्षणे, याभ्यां दक्षिणेनोत्तरेण च याति सविता केवलकर्मिणां ज्ञानसंयुक्तकर्मवतां च लोकान्विदधत् । कथम् ? तत् तत्र च ब्राह्मणादिषु ये ह वै ऋषयः तदुपासत इति । क्रियाविशेषणो द्वितीयस्तच्छब्दः । इष्टं च पूर्तं च इष्टापूर्ते इत्यादि कृतमेवोपासते नाकृतं नित्यम् , ते चान्द्रमसमेव चन्द्रमसि भवं प्रजापतेर्मिथुनात्मकस्यांशं रयिमन्नभूतं लोकम् अभिजयन्ते कृतरूपत्वाच्चान्द्रमसस्य । ते एव च कृतक्षयात् पुनरावर्तन्ते इमं लोकं हीनतरं वा विशन्तीति ह्युक्तम् । यस्मादेवं प्रजापतिमन्नात्मकं फलत्वेनाभिनिर्वर्तयन्ति चन्द्रमिष्टापूर्तकर्मणा प्रजाकामाः प्रजार्थिनः एते ऋषयः स्वर्गद्रष्टारः गृहस्थाः, तस्मात्स्वकृतमेव दक्षिणं दक्षिणायनोपलक्षितं चन्द्रं प्रतिपद्यन्ते । एष ह वै रयिः अन्नम् , यः पितृयाणः पितृयाणोपलक्षितश्चन्द्रः ॥
अथोत्तरेण तपसा ब्रह्मचर्येण श्रद्धया विद्ययात्मानमन्विष्यादित्यमभिजयन्ते । एतद्वै प्राणानामायतनमेतदमृतमभयमेतत्परायणमेतस्मान्न पुनरावर्तन्त इत्येष निरोधः । तदेष श्लोकः ॥ १० ॥
अथ उत्तरेण अयनेन प्रजापतेरंशं प्राणमत्तारम् आदित्यम् अभिजयन्ते । केन ? तपसा इन्द्रियजयेन । विशेषतो ब्रह्मचर्येण श्रद्धया विद्यया च प्रजापत्यात्मविषयया आत्मानं प्राणं सूर्यं जगतः तस्थुषश्च अन्विष्य अहमस्मीति विदित्वा आदित्यम् अभिजयन्ते अभिप्राप्नुवन्ति । एतद्वै आयतनं सर्वप्राणानां सामान्यमायतनम् आश्रयः एतत् अमृतम् अविनाशि अभयम् अत एव भयवर्जितम् न चन्द्रवत्क्षयवृद्धिभयवत् ; एतत् परायणं परा गतिर्विद्यावतां कर्मिणां च ज्ञानवताम् एतस्मान्न पुनरावर्तन्ते यथेतरे केवलकर्मिण इति यस्मात् एषः अविदुषां निरोधः, आदित्याद्धि निरुद्धा अविद्वांसः । नैते संवत्सरमादित्यमात्मानं प्राणमभिप्राप्नुवन्ति । स हि संवत्सरः कालात्मा अविदुषां निरोधः । तत् तत्रास्मिन्नर्थे एषः श्लोकः मन्त्रः ॥
पञ्चपादं पितरं द्वादशाकृतिं दिव आहुः परे अर्धे पुरीषिणम् ।
अथेमे अन्य उ परे विचक्षणं सप्तचक्रे षडर आहुरर्पितमिति ॥ ११ ॥
पञ्चपादं पञ्च ऋतवः पादा इवास्य संवत्सरात्मन आदित्यस्य, तैर्ह्यसौ पादैरिव ऋतुभिरावर्तते । हेमन्तशिशिरावेकीकृत्येयं कल्पना । पितरं सर्वस्य जनयितृत्वात्पितृत्वं तस्य ; द्वादशाकृतिं द्वादश मासा आकृतयोऽवयवा आकरणं वा अवयविकरणमस्य द्वादशमासैः तं द्वादशाकृतिम् , दिवः द्युलोकात् परे ऊर्ध्वे अर्धे स्थाने तृतीयस्यां दिवीत्यर्थः ; पुरीषिणं पुरीषवन्तम् उदकवन्तम् आहुः कालविदः । अथ तमेवान्ये इमे उ परे कालविदः विचक्षणं निपुणं सर्वज्ञं सप्तचक्रे सप्तहयरूपे चक्रे सन्ततगतिमति कालात्मनि षडरे षडृतुमति आहुः सर्वमिदं जगत्कथयन्ति — अर्पितम् अरा इव रथनाभौ निविष्टमिति । यदि पञ्चपादो द्वादशाकृतिर्यदि वा सप्तचक्रः षडरः सर्वथापि संवत्सरः कालात्मा प्रजापतिश्चन्द्रादित्यलक्षणो जगतः कारणम् ॥
मासो वै प्रजापतिस्तस्य कृष्णपक्ष एव रयिः शुक्लः प्राणस्तस्मादेत ऋषयः शुक्ल इष्टं कुर्वन्तीतर इतरस्मिन् ॥ १२ ॥
यस्मिन्निदं प्रोतं विश्वं स एव प्रजापतिः संवत्सराख्यः स्वावयवे मासे कृत्स्नः परिसमाप्यते । मासो वै प्रजापतिः यथोक्तलक्षण एव मिथुनात्मकः । तस्य मासात्मनः प्रजापतेरेको भागः कृष्णपक्ष एव रयिः अन्नं चन्द्रमाः अपरो भागः शुक्लः शुक्लपक्षः प्राणः आदित्योऽत्ताग्निर्यस्माच्छुक्लपक्षात्मानं प्राणं सर्वमेव पश्यन्ति, तस्मात्प्राणदर्शिन एते ऋषयः कृष्णपक्षेऽपीष्टं यागं कुर्वन्तः शुक्लपक्ष एव कुर्वन्ति । प्राणव्यतिरेकेण कृष्णपक्षस्तैर्न दृश्यते यस्मात् ; इतरे तु प्राणं न पश्यन्तीत्यदर्शनलक्षणं कृष्णात्मानमेव पश्यन्ति । इतरे इतरस्मिन्कृष्णपक्ष एव कुर्वन्ति शुक्ले कुर्वन्तोऽपि ॥
अहोरात्रो वै प्रजापतिस्तस्याहरेव प्राणो रात्रिरेव रयिः प्राणं वा एते प्रस्कन्दन्ति ये दिवा रत्या संयुज्यन्ते ब्रह्मचर्यमेव तद्यद्रात्रौ रत्या संयुज्यन्ते ॥ १३ ॥
सोऽपि मासात्मा प्रजापतिः स्वावयवे अहोरात्रे परिसमाप्यते । अहोरात्रो वै प्रजापतिः पूर्ववत् । तस्यापि अहरेव प्राणः अत्ता अग्निः रात्रिरेव रयिः पूर्ववदेव । प्राणम् अहरात्मानं वै एते प्रस्कन्दन्ति निर्गमयन्ति शोषयन्ति वा स्वात्मनो विच्छिद्यापनयन्ति । के ? ये दिवा अहनि रत्या रतिकारणभूतया सह स्त्रिया संयुज्यन्ते मैथुनमाचरन्ति मूढाः । यत एवं तस्मात्तन्न कर्तव्यमिति प्रतिषेधः प्रासङ्गिकः । यत् रात्रौ संयुज्यन्ते रत्या ऋतौ ब्रह्मचर्यमेव तदिति प्रशस्तत्वात् रात्रौ भार्यागमनं कर्तव्यमित्ययमपि प्रासङ्गिको विधिः ॥
अन्नं वै प्रजापतिस्ततो ह वै तद्रेतस्तस्मादिमाः प्रजाः प्रजायन्त इति ॥ १४ ॥
प्रकृतं तूच्यते सोऽहोरात्रात्मकः प्रजापतिर्व्रीहियवाद्यन्नात्मना व्यवस्थितः एवं क्रमेण परिणम्य । तत् अन्नं वै प्रजापतिः । कथम् ? ततः तस्मात् ह वै रेतः नृबीजं तत्प्रजाकारणं तस्मात् योषिति सिक्तात् इमाः मनुष्यादिलक्षणाः प्रजाः प्रजायन्ते यत्पृष्टं कुतो ह वै प्रजाः प्रजायन्त इति । तदेवं चन्द्रादित्यमिथुनादिक्रमेण अहोरात्रान्तेन अन्नरेतोद्वारेण इमाः प्रजाः प्रजायन्त इति निर्णीतम् ॥
तद्ये ह वै तत्प्रजापतिव्रतं चरन्ति ते मिथुनमुत्पादयन्ते । तेषामेवैष ब्रह्मलोको येषां
तपो ब्रह्मचर्यं येषु सत्यं प्रतिष्ठितम् ॥ १५ ॥
तत् तत्रैवं सति ये गृहस्थाः । ह वै इति प्रसिद्धस्मरणार्थौ निपातौ । तत् प्रजापतेर्व्रतं प्रजापतिव्रतम् ऋतौ भार्यागमनं चरन्ति कुर्वन्ति, तेषां दृष्टं फलमिदम् । किम् ? ते मिथुनं पुत्रं दुहितरं च उत्पादयन्ते । अदृष्टं च फलमिष्टापूर्तदत्तकारिणां तेषामेव एषः यश्चान्द्रमसो ब्रह्मलोकः पितृयाणलक्षणः येषां तपः स्नातकव्रतादि ब्रह्मचर्यम् ऋतोरन्यत्र मैथुनासमाचरणं येषु च सत्यम् अनृतवर्जनं प्रतिष्ठितम् अव्यभिचारितया वर्तते नित्यमेव ॥
तेषामसौ विरजो ब्रह्मलोको न येषु जिह्ममनृतं न माया चेति ॥ १६ ॥
यस्तु पुनरादित्योपलक्षित उत्तरायणः प्राणात्मभावो विरजः शुद्धो न चन्द्रब्रह्मलोकवद्रजस्वलो वृद्धिक्षयादियुक्तः असौ तेषाम् , केषामिति, उच्यते — यथा गृहस्थानामनेकविरुद्धसंव्यवहारप्रयोजनवत्त्वात् जिह्मं कौटिल्यं वक्रभावोऽवश्यम्भावि तथा न येषु जिह्मम् , यथा च गृहस्थानां क्रीडादिनिमित्तमनृतमवर्जनीयं तथा न येषु तत् तथा माया गृहस्थानामिव न येषु विद्यते । माया नाम बहिरन्यथात्मानं प्रकाश्यान्यथैव कार्यं करोति, सा माया मिथ्याचाररूपा । मायेत्येवमादयो दोषा येष्वेकाकिषु ब्रह्मचारिवानप्रस्थभिक्षुषु निमित्ताभावान्न विद्यन्ते, तत्साधनानुरूप्येणैव तेषामसौ विरजो ब्रह्मलोक इत्येषा ज्ञानयुक्तकर्मवतां गतिः । पूर्वोक्तस्तु ब्रह्मलोकः केवलकर्मिणां चन्द्रलक्षण इति ॥
इति प्रथमप्रश्नभाष्यम् ॥