अथ हैनं भार्गवो वैदर्भिः पप्रच्छ भगवन्कत्येव देवाः प्रजां विधारयन्ते कतर एतत्प्रकाशयन्ते कः पुनरेषां वरिष्ठ इति ॥ १ ॥
प्राणोऽत्ता प्रजापतिरित्युक्तम् । तस्य प्रजापतित्वमत्तृत्वं चास्मिञ्शरीरेऽवधारयितव्यमित्ययं प्रश्न आरभ्यते । अथ अनन्तरं ह किल एनं भार्गवः वैदर्भिः पप्रच्छ — हे भगवन् कत्येव देवाः प्रजां शरीरलक्षणां विधारयन्ते विशेषेण धारयन्ते । कतरे बुद्धीन्द्रियकर्मेन्द्रियविभक्तानाम् एतत् प्रकाशनं स्वमाहात्म्यप्रख्यापनं प्रकाशयन्ते । कः असौ पुनः एषां वरिष्ठः प्रधानः कार्यकरणलक्षणानामिति ॥
तस्मै स होवाच । आकाशो ह वा एष देवो वायुरग्निरापः पृथिवी वाङ्मनश्चक्षुः श्रोत्रं च । ते प्रकाश्याभिवदन्ति वयमेतद्बाणमवष्टभ्य विधारयामः ॥ २ ॥
एवं पृष्टवते तस्मै स ह उवाच — आकाशः ह वै एषः देवः वायुः अग्निः आपः पृथिवी इत्येतानि पञ्च महाभूतानि शरीरारम्भकाणि वाङ्मनश्चक्षुः श्रोत्रमित्यादीनि कर्मेन्द्रियबुद्धीन्द्रियाणि च । कार्यलक्षणाः करणलक्षणाश्च ते देवा आत्मनो माहात्म्यं प्रकाश्यं प्रकाश्याभिवदन्ति स्पर्धमाना अहंश्रेष्ठतायै । कथं वदन्ति ? वयमेतत् बाणं कार्यकरणसङ्घातम् अवष्टभ्य प्रासादमिव स्तम्भादयः अविशिथिलीकृत्य विधारयामः विस्पष्टं धारयामः । मयैवैकेनायं सङ्घातो ध्रियत इत्येकैकस्याभिप्रायः ॥
तान्वरिष्ठः प्राण उवाच मा मोहमापद्यथाहमेवैतत्पञ्चधात्मानं प्रविभज्यैतद्बाणमवष्टभ्य विधारयामीति तेऽश्रद्दधाना बभूवुः ॥ ३ ॥
तान् एवमभिमानवतः वरिष्ठः मुख्यः प्राणः उवाच उक्तवान् — मा मैवं मोहम् आपद्यथ अविवेकितयाभिमानं मा कुरुत ; यस्मात् अहमेव एतद्बाणम् अवष्टभ्य विधारयामि पञ्चधा आत्मानं प्रविभज्य प्राणादिवृत्तिभेदं स्वस्य कृत्वा विधारयामि इति उक्तवति च तस्मिन् ते अश्रद्दधानाः अप्रत्ययवन्तः बभूवुः — कथमेतदेवमिति ॥
सोऽभिमानादूर्ध्वमुत्क्रामत इव तस्मिन्नुत्क्रामत्यथेतरे सर्व एवोत्क्रामन्ते तस्मिꣳश्च प्रतिष्ठमाने सर्व एव प्रातिष्ठन्ते । तद्यथा मक्षिका मधुकरराजानमुत्क्रामन्तं सर्वा एवोत्क्रामन्ते तस्मिꣳश्च प्रतिष्ठमाने सर्वा एव प्रातिष्ठन्त एवं वाङ्मनश्चक्षुः श्रोत्रं च ते प्रीताः प्राणं स्तुन्वन्ति ॥ ४ ॥
स च प्राणः तेषामश्रद्दधानतामालक्ष्य अभिमानात् ऊर्ध्वम् उत्क्रामत इव उत्क्रामतीव उत्क्रान्तवानिव स रोषान्निरपेक्षः । तस्मिन्नुत्क्रामति यद्वृत्तं तद्दृष्टान्तेन प्रत्यक्षीकरोति — तस्मिन् उत्क्रामति सति अथ अनन्तरमेव इतरे सर्व एव प्राणाश्चक्षुरादयः उत्क्रामन्ते उत्क्रामन्ति उच्चक्रमुः । तस्मिंश्च प्राणे प्रतिष्ठमाने तूष्णीं भवति अनुत्क्रामति सति, सर्व एव प्रातिष्ठन्ते तूष्णीं व्यवस्थिता बभूवुः । तत् यथा लोके मक्षिकाः मधुकराः स्वराजानं मधुकरराजानम् उत्क्रामन्तं प्रति सर्वा एव उत्क्रामन्ते तस्मिंश्च प्रतिष्ठमाने सर्वा एव प्रातिष्ठन्ते प्रतितिष्ठन्ति । यथायं दृष्टान्तः एवं वाङ्मनश्चक्षुः श्रोत्रं चेत्यादयः ते उत्सृज्याश्रद्दधानतां बुद्ध्वा प्राणमाहात्म्यं प्रीताः प्राणं स्तुन्वन्ति स्तुवन्ति ॥
एषोऽग्निस्तपत्येष सूर्य एष पर्जन्यो मघवानेष वायुः ।
एष पृथिवी रयिर्देवः सदसच्चामृतं च यत् ॥ ५ ॥
कथम् ? एषः प्राणः अग्निः सन् तपति ज्वलति । तथा एषः सूर्यः सन् प्रकाशते । तथा एषः पर्जन्यः सन् वर्षति । किञ्च मघवान् इन्द्रः सन् प्रजाः पालयति जिघांसत्यसुररक्षांसि । किञ्च, एषः वायुः आवहप्रवहादिभेदः । किञ्च, एषः पृथिवी रयिः देवः सर्वस्य जगतः सत् मूर्तम् असत् अमूर्तं च अमृतं च यत् देवानां स्थितिकारणम् ॥
अरा इव रथनाभौ प्राणे सर्वं प्रतिष्ठितम् ।
ऋचो यजूꣳषि सामानि यज्ञः क्षत्त्रं ब्रह्म च ॥ ६ ॥
किं बहुना ? अरा इव रथनाभौ श्रद्धादि नामान्तं सर्वं स्थितिकाले प्राणे एव प्रतिष्ठितम् । तथा ऋचः यजूंषि सामानि इति त्रिविधा मन्त्राः तत्साध्यश्च यज्ञः क्षत्त्रं च सर्वस्य पालयितृ ब्रह्म च यज्ञादिकर्मकर्तृत्वेऽधिकृतं च एष एव प्राणः सर्वम् ॥
प्रजापतिश्चरसि गर्भे त्वमेव प्रतिजायसे ।
तुभ्यं प्राण प्रजास्त्विमा बलिं हरन्ति यः प्राणैः प्रतितिष्ठसि ॥ ७ ॥
किञ्च, यः प्रजापतिरपि स त्वमेव गर्भे चरसि, पितुर्मातुश्च प्रतिरूपः सन् प्रतिजायसे ; प्रजापतित्वादेव प्रागेव सिद्धं तव मातृपितृत्वम् ; सर्वदेहदेह्याकृतिच्छन्नः एकः प्राणः सर्वात्मासीत्यर्थः । तुभ्यं त्वदर्थाय इमाः मनुष्याद्याः प्रजास्तु हे प्राण चक्षुरादिद्वारैः बलिं हरन्ति, यः त्वं प्राणैः चक्षुरादिभिः सह प्रतितिष्ठसि सर्वशरीरेषु, अतस्तुभ्यं बलिं हरन्तीति युक्तम् । भोक्तासि यतस्त्वं तवैवान्यत्सर्वं भोज्यम् ॥
देवानामसि वह्नितमः पितॄणां प्रथमा स्वधा ।
ऋषीणां चरितं सत्यमथर्वाङ्गिरसामसि ॥ ८ ॥
किञ्च, देवानाम् इन्द्रादीनाम् असि भवसि त्वं वह्नितमः हविषां प्रापयितृतमः । पितॄणां नान्दीमुखे श्राद्धे या पितृभ्यो दीयते स्वधा अन्नं सा देवप्रदानमपेक्ष्य प्रथमा भवति । तस्या अपि पितृभ्यः प्रापयिता त्वमेवेत्यर्थः । किञ्च, ऋषीणां चक्षुरादीनां प्राणानाम् अथर्वाङ्गिरसाम् अङ्गिरसभूतानामथर्वणाम् — ‘तेषामेव प्राणो वाथर्वा’ ( ? ) इति श्रुतेः — चरितं चेष्टितं सत्यम् अवितथं देहधारणाद्युपकारलक्षणं त्वमेवासि ॥
इन्द्रस्त्वं प्राण तेजसा रुद्रोऽसि परिरक्षिता ।
त्वमन्तरिक्षे चरसि सूर्यस्त्वं ज्योतिषां पतिः ॥ ९ ॥
किञ्च, इन्द्रः परमेश्वरः त्वं हे प्राण, तेजसा वीर्येण रुद्रोऽसि संहरन् जगत् । स्थितौ च परि समन्तात् रक्षिता पालयिता ; परिरक्षिता त्वमेव जगतः सौम्येन रूपेण । त्वम् अन्तरिक्षे अजस्रं चरसि उदयास्तमयाभ्यां सूर्यः त्वमेव च सर्वेषां ज्योतिषां पतिः ॥
यदा त्वमभिवर्षसि अथेमाः प्राण ते प्रजाः ।
आनन्दरूपास्तिष्ठन्ति कामायान्नं भविष्यतीति ॥ १० ॥
यदा पर्जन्यो भूत्वा अभिवर्षसि त्वम् , अथ तदा अन्नं प्राप्य इमाः प्रजाः प्राणते प्राणचेष्टां कुर्वन्तीत्यर्थः । अथवा, हे प्राण, ते तव इमाः प्रजाः स्वात्मभूतास्त्वदन्नसंवर्धितास्त्वदभिवर्षणदर्शनमात्रेण च आनन्दरूपाः सुखं प्राप्ता इव सत्यः तिष्ठन्ति । कामाय इच्छातः अन्नं भविष्यति इत्येवमभिप्रायः ॥
व्रात्यस्त्वं प्राणैकर्षिरत्ता विश्वस्य सत्पतिः ।
वयमाद्यस्य दातारः पिता त्वं मातरिश्व नः ॥ ११ ॥
किञ्च, प्रथमजत्वादन्यस्य संस्कर्तुरभावादसंस्कृतो व्रात्यः त्वम् , स्वभावत एव शुद्ध इत्यभिप्रायः । हे प्राण, एकर्षिः त्वम् आथर्वणानां प्रसिद्ध एकर्षिनामा अग्निः सन् अत्ता सर्वहविषाम् । त्वमेव विश्वस्य सर्वस्य सतो विद्यमानस्य पतिः सत्पतिः ; साधुर्वा पतिः सत्पतिः । वयं पुनः आद्यस्य तव अदनीयस्य हविषो दातारः । त्वं पिता मातरिश्व हे मातरिश्वन् , नः अस्माकम् अथवा, मातरिश्वनः वायोः पिता त्वम् । अतश्च सर्वस्यैव जगतः पितृत्वं सिद्धम् ॥
या ते तनूर्वाचि प्रतिष्ठिता या श्रोत्रे या च चक्षुषि ।
या च मनसि सन्तता शिवां तां कुरु मोत्क्रमीः ॥ १२ ॥
किं बहुना ? या ते त्वदीया तनूः वाचि प्रतिष्ठिता वक्तृत्वेन वदनचेष्टां कुर्वती, या च श्रोत्रे या चक्षुषि या च मनसि सङ्कल्पादिव्यापारेण सन्तता समनुगता तनूः, तां शिवां शान्तां कुरु ; मा उत्क्रमीः उत्क्रमणेनाशिवां मा कार्षीरित्यर्थः ॥
प्राणस्येदं वशे सर्वं त्रिदिवे यत्प्रतिष्ठितम् ।
मातेव पुत्रान्रक्षस्व श्रीश्च प्रज्ञां च विधेहि न इति ॥ १३ ॥
किं बहुना । अस्मिंल्लोके प्राणस्यैव वशे सर्वमिदं यत्किञ्चिदुपभोगजातं त्रिदिवे तृतीयस्यां दिवि च यत् प्रतिष्ठितं देवाद्युपभोगलक्षणं तस्यापि प्राण एव ईशिता रक्षिता । अतो मातेव पुत्रान् अस्मान् रक्षस्व पालयस्व । त्वन्निमित्ता हि ब्राह्म्यः क्षात्त्र्यश्च श्रियः ताः त्वं श्रीश्च श्रियश्च प्रज्ञां च त्वत्स्थितिनिमित्तां विधेहि नः विधत्स्वेत्यर्थः । इत्येवं सर्वात्मतया वागादिभिः प्राणैः स्तुत्या गमितमहिमा प्राणः प्रजापतिरेवेत्यवधृतम् ॥
इति द्वितीयप्रश्नभाष्यम् ॥