श्रीमच्छङ्करभगवत्पूज्यपादविरचितम्

प्रश्नोपनिषद्भाष्यम्

करतलकलिताद्वयात्मतत्त्वं क्षपितदुरन्तचिरन्तनप्रमोहम् ।
उपचितमुदितोदितैर्गुणौघैः उपनिषदामयमुज्जहार भाष्यम् ।।

अथ हैनं कौसल्यश्चाश्वलायनः पप्रच्छ भगवन्कुत एष प्राणो जायते कथमायात्यस्मिञ्छरीर आत्मानं वा प्रविभज्य कथं प्रातिष्ठते केनोत्क्रमते कथं बाह्यमभिधत्ते कथमध्यात्ममिति ॥ १ ॥
अथ हैनं कौसल्यश्चाश्वलायनः प्रपच्छ । प्राणैर्ह्येवं निर्धारिततत्त्वः उपलब्धमहिमापि संहतत्वात्स्यादस्य कार्यत्वम् ; अतः पृच्छामि । हे भगवन् , कुतः कस्मात्कारणात् एषः यथावधृतः प्राणः जायते । जातश्च कथं केन वृत्तिविशेषेण आयाति अस्मिन् शरीरे ; किंनिमित्तकमस्य शरीरग्रहणमित्यर्थः । प्रविष्टश्च शरीरे आत्मानं वा प्रविभज्य प्रविभागं कृत्वा कथं केन प्रकारेण प्रातिष्ठते प्रतितिष्ठति । केन वा वृत्तिविशेषेणास्माच्छरीरात् उत्क्रमते उत्क्रामति । कथं बाह्यम् अधिभूतमधिदैवतं च अभिधत्ते धारयति ; कथमध्यात्ममिति, धारयतीति शेषः ॥
तस्मै स होवाचातिप्रश्नान्पृच्छसि ब्रह्मिष्ठोऽसीति तस्मात्तेऽहं ब्रवीमि ॥ २ ॥
एवं पृष्टः तस्मै स होवाचाचार्यः । प्राण एव तावद्दुर्विज्ञेयत्वाद्विषमप्रश्नार्हः ; तस्यापि जन्मादि त्वं पृच्छसि ; अतः अतिप्रश्नान्पृच्छसि । ब्रह्मिष्ठोऽसीति अतिशयेन त्वं ब्रह्मवित् , अतस्तुष्टोऽहम् , तस्मात् ते तुभ्यम् अहं ब्रवीमि यत्पृष्टं शृणु ॥
आत्मन एष प्राणो जायते । यथैषा पुरुषे च्छायैतस्मिन्नेतदाततं मनोकृतेनायात्यस्मिञ्छरीरे ॥ ३ ॥
आत्मनः परस्मात्पुरुषादक्षरात्सत्यात् एषः उक्तः प्राणः जायते । कथमित्यत्र दृष्टान्तः । यथा लोके एषा पुरुषे शिरःपाण्यादिलक्षणे निमित्ते च्छाया नैमित्तिकी जायते, तद्वत् एतस्मिन् ब्रह्मण्येतत्प्राणाख्यं छायास्थानीयमनृतरूपं तत्त्वं सत्ये पुरुषे आततं समर्पितमित्येतत् । छायेव देहे मनोकृतेन मनःकृतेन मनःसङ्कल्पेच्छादिनिष्पन्नकर्मनिमित्तेनेत्येतत् । वक्ष्यति हि पुण्येन पुण्यमित्यादि । ‘तदेव सक्तः सह कर्मणैति’ (बृ. उ. ४ । ४ । ६) इति श्रुत्यन्तरात् । आयाति आगच्छत्यस्मिञ्शरीरे ॥
यथा सम्राडेवाधिकृतान्विनियुङ्क्त एतान्ग्रामानेतान्ग्रामानधितिष्ठस्वेत्येवमेवैष प्राण इतरान्प्राणान्पृथक्पृथगेव संनिधत्ते ॥ ४ ॥
यथा येन प्रकारेण लोके राजा सम्राडेव ग्रामादिष्वधिकृतान्विनियुङ्क्ते । कथम् ? एतान्ग्रामानेतान्ग्रामानधितिष्ठस्वेति । एवमेव यथायं दृष्टान्तः । एषः मुख्यः प्राणः इतरान् प्राणान् चक्षुरादीनात्मभेदांश्च पृथक्पृथगेव यथास्थानं संनिधत्ते विनियुङ्क्ते ॥
पायूपस्थेऽपानं चक्षुःश्रोत्रे मुखनासिकाभ्यां प्राणः स्वयं प्रातिष्ठते मध्ये तु समानः । एष ह्येतद्धुतमन्नं समं नयति तस्मादेताः सप्तार्चिषो भवन्ति ॥ ५ ॥
तत्र विभागः । पायूपस्थे पायुश्च उपस्थश्च पायूपस्थं तस्मिन् । अपानम् आत्मभेदं मूत्रपुरीषाद्यपनयनं कुर्वन् संनिधत्ते तिष्ठति । तथा चक्षुःश्रोत्रे चक्षुश्च श्रोत्रं च चक्षुःश्रोत्रं तस्मिश्चक्षुःश्रोत्रे । मुखनासिकाभ्यां मुखं च नासिका च मुखनासिके ताभ्यां मुखनासिकाभ्यां निर्गच्छन् प्राणः स्वयं सम्राट्स्थानीयः प्रातिष्ठते प्रतितिष्ठति । मध्ये तु प्राणापानयोः स्थानयोः नाभ्याम् , समानः अशितं पीतं च समं नयतीति समानः । एषः हि यस्मात् यदेतत् हुतं भुक्तं पीतं चात्माग्नौ प्रक्षिप्तम् अन्नं समं नयति, तस्मात् अशितपीतेन्धनादग्नेरौदर्याद्धृदयदेशं प्राप्तात् एताः सप्तसङ्‍ख्याका अर्चिषः दीप्तयो निर्गच्छन्त्यो भवन्ति । शीर्षण्यप्राणद्वारा दर्शनश्रवणादिलक्षणरूपादिविषयप्रकाश इत्यभिप्रायः ॥
हृदि ह्येष आत्मा । अत्रैतदेकशतं नाडीनां तासां शतं शतमेकैकस्या द्वासप्ततिर्द्वासप्ततिः प्रतिशाखानाडीसहस्राणि भवन्त्यासु व्यानश्चरति ॥ ६ ॥
हृदि ह्येषः पुण्डरीकाकारमांसपिण्डपरिच्छिन्ने हृदयाकाशे एषः आत्मा आत्मसंयुक्तो लिङ्गात्मा, जीवात्मेत्यर्थः ; अत्र अस्मिन्हृदये एतत् एकशतम् एकोत्तरशतं सङ्ख्यया प्रधाननाडीनां भवति । तासां शतं शतम् एकैकस्याः प्रधाननाड्या भेदाः ; पुनरपि द्वासप्ततिर्द्वासप्ततिः द्वे द्वे सहस्रे अधिके सप्ततिश्च सहस्राणि, सहस्राणां द्वासप्ततिः, प्रतिशाखानाडीसहस्राणि प्रतिप्रतिनाडीशतं सङ्ख्यया प्रधाननाडीनां सहस्राणि भवन्ति । आसु नाडीषु व्यानो वायुश्चरति । व्यानो व्यापनात् । आदित्यादिव रश्मयो हृदयात्सर्वतोगामिनीभिर्नाडीभिः सर्वदेहं संव्याप्य व्यानो वर्तते । सन्धिस्कन्धमर्मदेशेषु विशेषेण प्राणापानवृत्त्योश्च मध्ये उद्भूतवृत्तिर्वीर्यवत्कर्मकर्ता भवति ॥
अथैकयोर्ध्व उदानः पुण्येन पुण्यं लोकं नयति पापेन पापमुभाभ्यामेव मनुष्यलोकम्
॥ ७ ॥
अथ या तु तत्रैकशतानां नाडीनां मध्ये ऊर्ध्वगा सुषुम्नाख्या नाडी, तया एकया ऊर्ध्वः सन् उदानः वायुः आपादतलमस्तकवृत्तिः सञ्चरन् पुण्येन कर्मणा शास्त्रविहितेन पुण्यं लोकं देवादिस्थानलक्षणं नयति प्रापयति । पापेन तद्विपरीतेन पापं नरकं तिर्यग्योन्यादिलक्षणम् । उभाभ्यां समप्रधानाभ्यां पुण्यपापाभ्यामेव मनुष्यलोकं नयतीत्यनुवर्तते ॥
आदित्यो ह वै बाह्यः प्राण उदयत्येष ह्येनं चाक्षुषं प्राणमनुगृह्णानः । पृथिव्यां या देवता सैषा पुरुषस्यापानमवष्टभ्यान्तरा यदाकाशः स समानो वायुर्व्यानः ॥ ८ ॥
आदित्यः ह वै प्रसिद्धो ह्यधिदैवतं बाह्यः प्राणः स एष उदयति उद्गच्छति । एष हि एनम् आध्यात्मिकं चक्षुषि भवं चाक्षुषं प्राणं प्रकाशेन अनुगृह्णानः रूपोपलब्धौ चक्षुष आलोकं कुर्वन्नित्यर्थः । तथा पृथिव्याम् अभिमानिनी या देवता प्रसिद्धा सैषा पुरुषस्य अपानम् अपानवृत्तिम् अवष्टभ्य आकृष्य वशीकृत्याध एवापकर्षणेनानुग्रहं कुर्वती वर्तत इत्यर्थः । अन्यथा हि शरीरं गुरुत्वात्पतेत्सावकाशे वोद्गच्छेत् । यदेतत् अन्तरा मध्ये द्यावापृथिव्योः यः आकाशः तत्स्थो वायुराकाश उच्यते, मञ्चस्थवत् । स समानः समानमनुगृह्णानो वर्तत इत्यर्थः । समानस्यान्तराकाशस्थत्वसामान्यात् । सामान्येन च यो बाह्यो वायुः स व्याप्तिसामान्यात् व्यानः व्यानमनुगृह्णानो वर्तत इत्यभिप्रायः ॥
तेजो ह वाव उदानस्तस्मादुपशान्ततेजाः पुनर्भवमिन्द्रियैर्मनसि सम्पद्यमानैः ॥ ९ ॥
यद्बाह्यं ह वाव प्रसिद्धं सामान्यं तेजः तच्छरीरे उदानः उदानं वायुमनुगृह्णाति स्वेन प्रकाशेनेत्यभिप्रायः । यस्मात्तेजःस्वभावो बाह्यतेजोनुगृहीत उत्क्रान्तिकर्ता तस्मात् यदा लौकिकः पुरुषः उपशान्ततेजाः भवति, उपशान्तं स्वाभाविकं तेजो यस्य सः । तदा तं क्षीणायुषं मुमूर्षुं विद्यात् । सः पुनः भवं शरीरान्तरं प्रतिपद्यते । कथम् ? सह इन्द्रियैः मनसि सम्पद्यमानैः प्रविशद्भिर्वागादिभिः ॥
यच्चित्तस्तेनैष प्राणमायाति प्राणस्तेजसा युक्तः । सहात्मना यथासङ्कल्पितं लोकं नयति ॥ १० ॥
मरणकाले यच्चित्तो भवति तेन एषः जीवः चित्तेन सङ्कल्पेनेन्द्रियैः सह प्राणं मुख्यप्राणवृत्तिमायाति । मरणकाले क्षीणेन्द्रियवृत्तिः सन्मुख्यया प्राणवृत्त्यैवावतिष्ठत इत्यर्थः । तदा हि वदन्ति ज्ञातय उच्छ्वसिति जीवतीति । स च प्राणः तेजसा उदानवृत्त्या युक्तः सन् सहात्मना स्वामिना भोक्ता स एवमुदान उदानवृत्त्यैव युक्तः प्राणस्तं भोक्तारं पुण्यपापकर्मवशात् यथासङ्कल्पितं यथाभिप्रेतं लोकं नयति प्रापयति ॥
य एवंविद्वान्प्राणं वेद न हास्य प्रजा हीयतेऽमृतो भवति तदेष श्लोकः ॥ ११ ॥
यः कश्चित् एवं विद्वान् यथोक्तविशेषणैर्विशिष्टमुत्पत्त्यादिभिः प्राणं वेद जानाति तस्येदं फलमैहिकमामुष्मिकं चोच्यते । न ह अस्य नैवास्य विदुषः प्रजा पुत्रपौत्रादिलक्षणा हीयते च्छिद्यते । पतिते च शरीरे प्राणसायुज्यतया अमृतः अमरणधर्मा भवति ; तत् एतस्मिन्नर्थे सङ्क्षेपाभिधायक एष श्लोकः मन्त्रो भवति ॥
उत्पत्तिमायतिं स्थानं विभुत्वं चैव पञ्चधा ।
अध्यात्मं चैव प्राणस्य विज्ञायामृतमश्नुते विज्ञायामृतमश्नुत इति ॥ १२ ॥
उत्पत्तिं परमात्मनः प्राणस्य आयतिम् आगमनं मनोकृतेनास्मिञ्शरीरे स्थानं स्थितिं च पायूपस्थादिस्थानेषु विभुत्वं च स्वाम्यमेव सम्राडिव प्राणवृत्तिभेदानां पञ्चधा स्थापनम् । बाह्यमादित्यादिरूपेणाध्यात्मं चैव चक्षुराद्याकारेणावस्थानं विज्ञाय एवं प्राणम् अमृतमश्नुते इति । विज्ञायामृतमश्नुत इति द्विर्वचनं प्रश्नार्थपरिसमाप्त्यर्थम् ॥
इति तृतीयप्रश्नभाष्यम् ॥