श्रीमच्छङ्करभगवत्पूज्यपादविरचितम्

प्रश्नोपनिषद्भाष्यम्

करतलकलिताद्वयात्मतत्त्वं क्षपितदुरन्तचिरन्तनप्रमोहम् ।
उपचितमुदितोदितैर्गुणौघैः उपनिषदामयमुज्जहार भाष्यम् ।।

अथ हैनं सौर्यायणी गार्ग्यः पप्रच्छ भगवन्नेतस्मिन्पुरुषे कानि स्वपन्ति कान्यस्मिञ्जाग्रति कतर एष देवः स्वप्नान्पश्यति कस्यैतत्सुखं भवति कस्मिन्नु सर्वे सम्प्रतिष्ठिता भवन्तीति ॥ १ ॥
अथ ह एनं सौर्यायणी गार्ग्यः पप्रच्छ प्रश्नत्रयेणापरविद्यागोचरं सर्वं परिसमाप्य संसारं व्याकृतविषयं साध्यसाधनलक्षणमनित्यम् । अथेदानीं साध्यसाधनविलक्षणमप्राणममनोगोचरमतीन्द्रियमविषयं शिवं शान्तमविकृतमक्षरं सत्यं परविद्यागम्यं पुरुषाख्यं सबाह्याभ्यन्तरमजं वक्तव्यमित्युत्तरं प्रश्नत्रयमारभ्यते । तत्र सुदीप्तादिवाग्नेर्यस्मात्परस्मादक्षरात्सर्वे भावा विस्फुलिङ्गा इव जायन्ते तत्र चैवापियन्तीत्युक्तं द्वितीये मुण्डके ; के ते सर्वे भावा अक्षराद्विस्फुलिङ्गा इव विभज्यन्ते । कथं वा विभक्ताः सन्तस्तत्रैवापियन्ति । किंलक्षणं वा तदक्षरमिति । एतद्विवक्षया अधुना प्रश्नानुद्भावयति — भगवन् , एतस्मिन् पुरुषे शिरःपाण्यादिमति कानि करणानि स्वपन्ति स्वापं कुर्वन्ति स्वव्यापारादुपरमन्ते ; कानि च अस्मिन् जाग्रति जागरणमनिद्रावस्थां स्वव्यापारं कुर्वन्ति । कतरः कार्यकरणलक्षणयोः एष देवः स्वप्नान्पश्यति । स्वप्नो नाम जाग्रद्दर्शनान्निवृत्तस्य जाग्रद्वदन्तःशरीरे यद्दर्शनम् । तत्किं कार्यलक्षणेन देवेन निर्वर्त्यते, किं वा करणलक्षणेन केनचिदित्यभिप्रायः । उपरते च जाग्रत्स्वप्नव्यापारे यत्प्रसन्नं निरायासलक्षणमनाबाधं सुखं कस्य एतत् भवति । तस्मिन्काले जाग्रत्स्वप्नव्यापारादुपरताः सन्तः कस्मिन्नु सर्वे सम्यगेकीभूताः सम्प्रतिष्ठिताः । मधुनि रसवत्समुद्रप्रविष्टनद्यादिवच्च विवेकानर्हाः प्रतिष्ठिता भवन्ति सङ्गताः सम्प्रतिष्ठिता भवन्तीत्यर्थः । ननु न्यस्तदात्रादिकरणवत्स्वव्यापारादुपरतानि पृथक्पृथगेव स्वात्मन्यवतिष्ठन्त इत्येतद्युक्तम् ; कुतः प्राप्तिः सुषुप्तपुरुषाणां करणानां कस्मिंश्चिदेकीभावगमनाशङ्कायाः प्रष्टुः ? युक्तैव त्वाशङ्का ; यतः संहतानि करणानि स्वाम्यर्थानि परतन्त्राणि च जाग्रद्विषये ; तस्मात्स्वापेऽपि संहतानां पारतन्त्र्येणैव कस्मिंश्चित्सङ्गतिर्न्याय्येति ; तस्मादाशङ्कानुरूप एव प्रश्नोऽयम् । अत्र तु कार्यकरणसङ्घातो यस्मिंश्च प्रलीनः सुषुप्तप्रलयकालयोः, तद्विशेषं बुभुत्सोः स को नु स्यादिति कस्मिन्सर्वे सम्प्रतिष्ठिता भवन्तीति ॥
तस्मै स होवाच यथा गार्ग्य मरीचयोऽर्कस्यास्तं गच्छतः सर्वा एतस्मिंस्तेजोमण्डल एकीभवन्ति ताः पुनः पुनरुदयतः प्रचरन्त्येवं ह वै तत्सर्वं परे देवे मनस्येकीभवति । तेन तर्ह्येष पुरुषो न शृणोति न पश्यति न जिघ्रति न रसयते न स्पृशते नाभिवदते नादत्ते नानन्दयते न विसृजते नेयायते स्वपितीत्याचक्षते ॥ २ ॥
तस्मै स ह उवाच आचार्यः । शृणु हे गार्ग्य, यत्त्वया पृष्टम् । यथा मरीचयः रश्मयः अर्कस्य आदित्यस्य अस्तम् अदर्शनं गच्छतः सर्वाः अशेषतः एतस्मिन् तेजोमण्डले तेजोराशिरूपे एकीभवन्ति विवेकानर्हत्वमविशेषतां गच्छन्ति, ताः मरीचयस्तस्यैवार्कस्य पुनः पुनः उदयतः उद्गच्छतः प्रचरन्ति विकीर्यन्ते यथायं दृष्टान्तः । एवं ह वै तत् सर्वं विषयेन्द्रियादिजातं परे प्रकृष्टे देवे द्योतनवति मनसि चक्षुरादिदेवानां मनस्तन्त्रत्वात्परो देवो मनः, तस्मिन्स्वप्नकाले एकीभवति मण्डले मरीचिवदविशेषतां गच्छति । जिजागरिषोश्च रश्मिवन्मण्डलान्मनस एव प्रचरन्ति स्वव्यापाराय प्रतिष्ठन्ते यस्मात्स्वप्नकाले श्रोत्रादीनि शब्दाद्युपलब्धिकरणानि मनस्येकीभूतानीव करणव्यापारादुपरतानि तेन तस्मात् तर्हि तस्मिन्स्वापकाले एषः देवदत्तादिलक्षणः पुरुषः न शृणोति न पश्यति न जिघ्रति न रसयते न स्पृशते न अभिवदते न आदत्ते न आनन्दयते न विसृजते न इयायते स्वपिति इति आचक्षते लौकिकाः ॥
प्राणाग्नय एवैतस्मिन्पुरे जाग्रति । गार्हपत्यो ह वा एषोऽपानो व्यानोऽन्वाहार्यपचनो यद्गार्हपत्यात्प्रणीयते प्रणयनादाहवनीयः प्राणः ॥ ३ ॥
सुप्तवत्सु श्रोत्रादिषु करणेषु एतस्मिन् पुरे नवद्वारे देहे प्राणाग्नयः प्राणा एव पञ्च वायवोऽग्नय इवाग्नयः जाग्रति । अग्निसामान्यं हि आह — गार्हपत्यो ह वा एषोऽपानः कथमिति, आह । यस्मात् गार्हपत्यात् अग्नेरग्निहोत्रकाले इतरोऽग्निराहवनीयः प्रणीयते प्रणयनात् , प्रणीयते अस्मादिति प्रणयनो गार्हपत्योऽग्निः, तथा सुप्तस्यापानवृत्तेः प्रणीयत इव प्राणो मुखनासिकाभ्यां सञ्चरति अत आहवनीयस्थानीयः प्राणः । व्यानस्तु हृदयाद्दक्षिणसुषिरद्वारेण निर्गमाद्दक्षिणदिक्सम्बन्धात् अन्वाहार्यपचनः दक्षिणाग्निः ॥
यदुच्छ्वासनिःश्वासावेतावाहुती समं नयतीति स समानः । मनो ह वाव यजमान इष्टफलमेवोदानः स एनं यजमानमहरहर्ब्रह्म गमयति ॥ ४ ॥
अत्र च होता अग्निहोत्रस्य यत् यस्मात् उच्छ्वासनिःश्वासौ अग्निहोत्राहुती इव नित्यं द्वित्वसामान्यादेव तु एतौ आहुती समं साम्येन शरीरस्थितिभावाय नयति यो वायुरग्निस्थानीयोऽपि होता चाहुत्योर्नेतृत्वात् । कोऽसौ ? स समानः । अतश्च विदुषः स्वापोऽप्यग्निहोत्रहवनमेव । तस्माद्विद्वान्नाकर्मीत्येवं मन्तव्य इत्यभिप्रायः । सर्वदा सर्वाणि च भूतानि विचिन्वन्त्यपि स्वपत इति हि वाजसनेयके । अत्र हि जाग्रत्सु प्राणाग्निषूपसंहृत्य बाह्यकरणानि विषयांश्चाग्निहोत्रफलमिव स्वर्गं ब्रह्म जिगमिषुः मनो ह वाव यजमानः जागर्ति । यजमानवत्कार्यकरणेषु प्राधान्येन संव्यवहारात्स्वर्गमिव ब्रह्म प्रति प्रस्थितत्वाद्यजमानो मनः कल्प्यते । इष्टफलं यागफलमेव उदानः वायुः । उदाननिमित्तत्वादिष्टफलप्राप्तेः । कथम् ? सः उदानः एनं मनआख्यं यजमानं स्वप्नवृत्तिरूपादपि प्रच्याव्य अहरहः सुषुप्तिकाले स्वर्गमिव ब्रह्म अक्षरं गमयति । अतो यागफलस्थानीयः उदानः ॥
अत्रैष देवः स्वप्ने महिमानमनुभवति । यद्दृष्टं दृष्टमनुपश्यति श्रुतं श्रुतमेवार्थमनुशृणोति देशदिगन्तरैश्च प्रत्यनुभूतं पुनः पुनः प्रत्यनुभवति दृष्टं चादृष्टं च श्रुतं चाश्रुतं चानुभूतं चाननुभूतं च सच्चासच्च सर्वं पश्यति सर्वः पश्यति ॥ ५ ॥
एवं विदुषः श्रोत्राद्युपरमकालादारभ्य यावत्सुप्तोत्थितो भवति तावत्सर्वयागफलानुभव एव, नाविदुषामिवानर्थायेति विद्वत्ता स्तूयते । न हि विदुष एव श्रोत्रादीनि स्वपन्ति, प्राणाग्नयो वा जाग्रति । जाग्रत्स्वप्नयोर्मनः स्वातन्त्र्यमनुभवदहरहः सुषुप्तं वा प्रतिपद्यते । समानं हि सर्वप्राणिनां पर्यायेण जाग्रत्स्वप्नसुषुप्तगमनम् ; अतो विद्वत्तास्तुतिरेवेयमुपपद्यते । यत्पृष्टं कतर एष देवः स्वप्नान्पश्यतीति ; तदाह — अत्र उपरतेषु श्रोत्रादिषु देहरक्षायै जाग्रत्सु प्राणादिवायुषु प्राक्सुषुप्तिप्रतिपत्तेः एतस्मिन्नन्तराल एषः देवः अर्करश्मिवत्स्वात्मनि संहृतश्रोत्रादिकरणः स्वप्ने महिमानं विभूतिं विषयविषयिलक्षणमनेकात्मभावगमनम् अनुभवति प्रतिपद्यते । ननु महिमानुभवने करणं मनोऽनुभवितुः ; तत्कथं स्वातन्त्र्येणानुभवतीत्युच्यते ? स्वतन्त्र हि क्षेत्रज्ञः । नैष दोषः । क्षेत्रज्ञस्य स्वातन्त्र्यस्य मनउपाधिकृतत्वात् । न हि क्षेत्रज्ञः परमार्थतः स्वतः स्वपिति जागर्ति वा । मनउपाधिकृतमेव तस्य जागरणं स्वप्नश्च । उक्तं वाजसनेयके ‘सधीः स्वप्नो भूत्वा’ (बृ. मा. ४ । ३ । ७) ‘ध्यायतीव लेलायतीव’ (बृ. उ. ४ । ३ । ७) इत्यादि । तस्मान्मनसो विभूत्यनुभवे स्वातन्त्र्यवचनं न्याय्यमेव । मनउपाधिसहितत्वे स्वप्नकाले क्षेत्रज्ञस्य स्वयञ्ज्योतिष्ट्वं बाध्येत इति केचित् । तन्न । श्रुत्यर्थापरिज्ञानकृता भ्रान्तिस्तेषाम् । यस्मात्स्वयञ्ज्योतिष्ट्वादिव्यवहारोऽप्यामोक्षान्तः सर्वोऽप्यविद्याविषय एव मनआद्युपाधिजनितः ; ‘यत्र वा अन्यदिव स्यात्तत्रान्योऽन्यत्पश्येन्मात्रासंसर्गस्त्वस्य भवति’ (बृ. उ. ४ । ३ । ३१), (बृ. मा. ४ । ५ । १४) ‘यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्’ (बृ. उ. ४ । ५ । १५) इत्यादिश्रुतिभ्यः । अतो मन्दब्रह्मविदामेवेयमाशङ्का, न त्वेकात्मविदाम् । नन्वेवं सति ‘अत्रायं पुरुषः स्वयञ्ज्योतिः’ (बृ. उ. ४ । ३ । १४) इति विशेषणमनर्थकं भवति । अत्रोच्यते । अत्यल्पमिदमुच्यते ‘य एषोऽन्तर्हृदय आकाशस्तस्मिञ्शेते’ (बृ. उ. २ । १ । १७) इति अन्तर्हृदयपरिच्छेदकरणे सुतरां स्वयञ्ज्योतिष्ट्वं बाध्येत । सत्यमेवम् ; अयं दोषो यद्यपि स्यात्स्वप्ने केवलतया स्वयञ्ज्योतिष्ट्वेनार्धं तावदपनीतं भारस्येति चेत् , न ; तत्रापि ‘पुरीतति नाडीषु शेते’ इति श्रुतेः पुरीतन्नाडीसम्बन्धादत्रापि पुरुषस्य स्वयञ्ज्योतिष्ट्वेनार्धभारापनयाभिप्रायो मृषैव । कथं तर्हि ‘अत्रायं पुरुषः स्वयञ्ज्योतिः’ (बृ. उ. ४ । ३ । १४) इति ? अन्यशाखात्वादनपेक्षा सा श्रुतिरिति चेत् , न ; अर्थैकत्वस्येष्टत्वात् । एको ह्यात्मा सर्ववेदान्तानामर्थो विजिज्ञापयिषितो बुभुत्सितश्च । तस्माद्युक्ता स्वप्न आत्मनः स्वयञ्ज्योतिष्ट्वोपपत्तिर्वक्तुम् , श्रुतेर्यथार्थतत्त्वप्रकाशकत्वात् । एवं तर्हि शृणु श्रुत्यर्थं हित्वा सर्वमभिमानम् ; न ह्यभिमानेन वर्षशतेनापि श्रुत्यर्थो ज्ञातुं शक्यते सर्वैः पण्डितंमन्यैः । यथा हृदयाकाशे पुरीतति नाडीषु च स्वपतस्तत्सम्बन्धाभावात्ततो विविच्य दर्शयितुं शक्यत इति आत्मनः स्वयञ्ज्योतिष्ट्वं न बाध्यते । एवं मनस्यविद्याकामकर्मनिमित्तोद्भूतवासनावति कर्मनिमित्ता वासना अविद्यया अन्यद्वस्त्वन्तरमिव पश्यतः सर्वकार्यकरणेभ्यः प्रविविक्तस्य द्रष्टुर्वासनाभ्यो दृश्यरूपाभ्योऽन्यत्वेन स्वयञ्ज्योतिष्ट्वं सुदर्पितेनापि तार्किकेण केन वारयितुं शक्यते ? तस्मात्साधूक्तं मनसि प्रलीनेषु करणेष्वप्रलीने च मनसि मनोमयः स्वप्नान्पश्यतीति । कथं महिमानमनुभवतीति उच्यते । यन्मित्रं पुत्रादि वा पूर्वं दृष्टं तद्वासनावासितः पुत्रमित्रादिवासनासमुद्भूतं पुत्रं मित्रमिव वा अविद्यया पश्यतीत्येवं मन्यते । शृणोति तथा श्रुतमर्थं तद्वासनयानु शृणोतीव । देशदिगन्तरैश्च देशान्तरैर्दिगन्तरैश्च प्रत्यनुभूतं पुनः पुनस्तत्प्रत्यनुभवतीव अविद्यया । तथा दृष्टं चास्मिञ्जन्मन्यदृष्टं च जन्मान्तरदृष्टमित्यर्थः । अत्यन्तादृष्टे वासनानुपपत्तेः । एवं श्रुतं चाश्रुतं चानुभूतं चास्मिञ्जन्मनि केवलेन मनसा अननुभूतं च मनसैव जन्मान्तरेऽनुभूतमित्यर्थः । सच्च परमार्थोदकादि । असच्च मरीच्युदकादि । किं बहुना, उक्तानुक्तं सर्वं पश्यति सर्वः पश्यति सर्वमनोवासनोपाधिः सन्नेवं सर्वकरणात्मा मनोदेवः स्वप्नान्पश्यति ॥
स यदा तेजसाभिभूतो भवति । अत्रैष देवः स्वप्नान्न पश्यत्यथैतदस्मिञ्शरीरे एतत्सुखं भवति ॥ ६ ॥
सः यदा मनोरूपो देवो यस्मिन्काले सौरेण पित्ताख्येन तेजसा नाडीशयेन सर्वतः अभिभूतो भवति तिरस्कृतवासनाद्वारो भवति, तदा सह करणैर्मनसो रश्मयो हृद्युपसंहृता भवन्ति । यदा मनो दार्वग्निवदविशेषविज्ञानरूपेण कृत्स्नं शरीरं व्याप्यावतिष्ठते, तदा सुषुप्तो भवति । अत्र एतस्मिन्काले एषः मनआख्यो देवः स्वप्नान् न पश्यति दर्शनद्वारस्य निरुद्धत्वात्तेजसा । अथ तदा एतस्मिन् शरीरे एतत्सुखं भवति यद्विज्ञानं निराबाधमविशेषेण शरीरव्यापकं प्रसन्नं भवतीत्यर्थः ॥
स यथा सोम्य वयांसि वासोवृक्षं सम्प्रतिष्ठन्त एवं ह वै तत्सर्वं पर आत्मनि सम्प्रतिष्ठते ॥ ७ ॥
एतस्मिन्काले अविद्याकामकर्मनिबन्धनानि कार्यकरणानि शान्तानि भवन्ति । तेषु शान्तेष्वात्मस्वरूपमुपाधिभिरन्यथा विभाव्यमानमद्वयमेकं शिवं शान्तं भवतीत्येतामेवावस्थां पृथिव्याद्यविद्याकृतमात्रानुप्रवेशेन दर्शयितुं दृष्टान्तमाह — स दृष्टान्तः यथा येन प्रकारेण हि सोम्य प्रियदर्शन, वयांसि पक्षिणः वासार्थं वृक्षं वासोवृक्षं प्रति सम्प्रतिष्ठन्ते गच्छन्ति, एवं यथा दृष्टान्तः ह वै तत् वक्ष्यमाणं सर्वं परे आत्मनि अक्षरे सम्प्रतिष्ठते ॥
पृथिवी च पृथिवीमात्रा चापश्चापोमात्रा च तेजश्च तेजोमात्रा च वायुश्च वायुमात्रा चाकाशश्चाकाशमात्रा च चक्षुश्च द्रष्टव्यं च श्रोत्रं च श्रोतव्यं च घ्राणं च घ्रातव्यं च रसश्च रसयितव्यं च त्वक्च स्पर्शयितव्यं च वाक्च वक्तव्यं च हस्तौ चादातव्यं चोपस्थश्चानन्दयितव्यं च पायुश्च विसर्जयितव्यं च पादौ च गन्तव्यं च मनश्च मन्तव्यं च बुद्धिश्च बोद्धव्यं चाहङ्कारश्चाहङ्कर्तव्यं च चित्तं च चेतयितव्यं च तेजश्च विद्योतयितव्यं च प्राणश्च विधारयितव्यं च ॥ ८ ॥
किं तत्सर्वम् ? पृथिवी च स्थूला पञ्चगुणा तत्कारणं च पृथिवीमात्रा गन्धतन्मात्रा, तथा आपश्च आपोमात्रा च, तेजश्च तेजोमात्रा च, वायुश्च वायुमात्रा च, आकाशश्चाकाशमात्रा च, स्थूलानि च सूक्ष्माणि च भूतानीत्यर्थः । तथा चक्षुश्च इन्द्रियं रूपं च द्रष्टव्यं च, श्रोत्रं च श्रोतव्यं च, घ्राणं च घ्रातव्यं च, रसश्च रसयितव्यं च, त्वक्च स्पर्शयितव्यं च, वाक्च वक्तव्यं च, हस्तौ च आदातव्यं च, उपस्थश्च आनन्दयितव्यं च, पायुश्च विसर्जयितव्यं च, पादौ च गन्तव्यं च ; बुद्धीन्द्रियाणि कर्मेन्द्रियाणि तदर्थाश्चोक्ताः । मनश्च पूर्वोक्तम् । मन्तव्यं च तद्विषयः । बुद्धिश्च निश्चयात्मिका । बोद्धव्यं च तद्विषयः । अहङ्कारश्च अभिमानलक्षणमन्तःकरणम् । अहङ्कर्तव्यं च तद्विषयः । चित्तं च चेतनावदन्तःकरणम् । चेतयितव्यं च तद्विषयः । तेजश्च त्वगिन्द्रियव्यतिरेकेण प्रकाशविशिष्टा या त्वक् । तया निर्भास्यो विषयो विद्योतयितव्यम् । प्राणश्च सूत्रं यदाचक्षते तेन विधारयितव्यं सङ्ग्रथनीयम् । सर्वं हि कार्यकरणजातं पारार्थ्येन संहतं नामरूपात्मकमेतावदेव ॥
एष हि द्रष्टा स्प्रष्टा श्रोता घ्राता रसयिता मन्ता बोद्धा कर्ता विज्ञानात्मा पुरुषः । स परेऽक्षर आत्मनि सम्प्रतिष्ठते ॥ ९ ॥
अतः परं यदात्मस्वरूपं जलसूर्यकादिवद्भोक्तृत्वकर्तृत्वेनेहानुप्रविष्टम् , एषः हि द्रष्टा स्प्रष्टा श्रोता घ्राता रसयिता मन्ता बोद्धा कर्ता विज्ञानात्मा, विज्ञानं विज्ञायतेऽनेनेति करणभूतं बुद्ध्यादि, इदं तु विजानातीति विज्ञानं कर्तृकारकरूपम् , तदात्मा तत्स्वभावो विज्ञातृस्वभाव इत्यर्थः । पुरुषः कार्यकरणसङ्घातोक्तोपाधिपूरणात्पुरुषः । स च जलसूर्यकादिप्रतिबिम्बस्य सूर्यादिप्रवेशवज्जलाद्याधारशोषे परे अक्षरे आत्मनि सम्प्रतिष्ठते ॥
परमेवाक्षरं प्रतिपद्यते स यो ह वै तदच्छायमशरीरमलोहितं शुभ्रमक्षरं वेदयते यस्तु सोम्य । स सर्वज्ञः सर्वो भवति तदेष श्लोकः ॥ १० ॥
तदेकत्वविदः फलमाह — परमेव अक्षरं वक्ष्यमाणविशेषणं प्रतिपद्यते इति । एतदुच्यते — स यो ह वै तत् सर्वैषणाविनिर्मुक्तः अच्छायं तमोवर्जितम् , अशरीरं नामरूपसर्वोपाधिशरीरवर्जितम् , अलोहितं लोहितादिसर्वगुणवर्जितम् , यत एवमतः शुभ्रं शुद्धम् , सर्वविशेषणरहितत्वादक्षरम् , सत्यं पुरुषाख्यमप्राणममनोगोचरं शिवं शान्तं सबाह्याभ्यन्तरमजं वेदयते विजानाति यस्तु सर्वत्यागी हे सोम्य, सः सर्वज्ञः न तेनाविदितं किञ्चित्सम्भवति । पूर्वमविद्यया असर्वज्ञ आसीत् । पुनर्विद्यया अविद्यापनये सर्वः भवति । तत् अस्मिन्नर्थे एषः श्लोकः मन्त्रो भवति उक्तार्थसङ्ग्राहकः ॥
विज्ञानात्मा सह देवैश्च सर्वैः प्राणा भूतानि सम्प्रतिष्ठन्ति यत्र ।
तदक्षरं वेदयते यस्तु सोम्य स सर्वज्ञः सर्वमेवाविवेशेति ॥ ११ ॥
विज्ञानात्मा, सह देवैश्च अग्न्यादिभिः प्राणाः चक्षुरादयः भूतानि पृथिव्यादीनि सम्प्रतिष्ठन्ति प्रविशन्ति यत्र यस्मिन्नक्षरे, तत् अक्षरं वेदयते यस्तु हे सोम्य प्रियदर्शन, स सर्वज्ञः सर्वमेव आविवेश आविशतीत्यर्थः ॥
इति चतुर्थप्रश्नभाष्यम् ॥