भूर्भुवः सुवः स्वरूपा मह इत्येतस्य हिरण्यगर्भस्य व्याहृत्यात्मनो ब्रह्मणोऽङ्गान्यन्या देवता इत्युक्तम् । यस्य ता अङ्गभूताः, तस्यैतस्य ब्रह्मणः साक्षादुपलब्ध्यर्थमुपासनार्थं च हृदयाकाशः स्थानमुच्यते, सालग्राम इव विष्णोः । तस्मिन्हि तद्ब्रह्म उपास्यमानं मनोमयत्वादिधर्मविशिष्टं साक्षादुपलभ्यते, पाणाविवामलकम् । मार्गश्च सर्वात्मभावप्रतिपत्तये वक्तव्य इत्यनुवाक आरभ्यते -
स य एषोऽन्तर्हृदय आकाशः । तस्मिन्नयं पुरुषो मनोमयः । अमृतो हिरण्मयः । अन्तरेण तालुके । य एष स्तन इवावलम्बते । सेन्द्रयोनिः । यत्रासौ केशान्तो विवर्तते । व्यपोह्य शीर्षकपाले । भूरित्यग्नौ प्रतितिष्ठति । भुव इति वायौ ॥ १ ॥
सुवरित्यादित्ये । मह इति ब्रह्मणि । आप्नोति स्वाराज्यम् । आप्नोति मनसस्पतिम् । वाक्पतिश्चक्षुष्पतिः । श्रोत्रपतिर्विज्ञानपतिः । एतत्ततो भवति । आकाशशरीरं ब्रह्म । सत्यात्म प्राणारामं मन आनन्दम् । शान्तिसमृद्धममृतम् । इति प्राचीनयोग्योपास्स्व ॥ २ ॥
स इति व्युत्क्रम्य अयं पुरुष इत्यनेन सम्बन्ध्यते । य एष अन्तर्हृदये हृदयस्यान्तः । हृदयमिति पुण्डरीकाकारो मांसपिण्डः प्राणायतनोऽनेकनाडीसुषिर ऊर्ध्वनालोऽधोमुखो विशस्यमाने पशौ प्रसिद्ध उपलभ्यते । तस्यान्तः य एष आकाशः प्रसिद्ध एव करकाकाशवत् , तस्मिन् सोऽयं पुरुषः, पुरि शयनात् , पूर्णा वा भूरादयो लोका येनेति पुरुषः मनोमयः, मनः विज्ञानं मनुतेर्ज्ञानकर्मणः, तन्मयः तत्प्रायः, तदुपलभ्यत्वात् । मनुते अनेनेति वा मनः अन्तःकरणम् ; तदभिमानी तन्मयः, तल्लिङ्गो वा । अमृतः अमरणधर्मा । हिरण्मयः ज्योतिर्मयः । तस्यैवंलक्षणस्य हृदयाकाशे साक्षात्कृतस्य विदुष आत्मभूतस्य ईश्वररूपस्य प्रतिपत्तये मार्गोऽभिधीयते - हृदयादूर्ध्वं प्रवृत्ता सुषुम्ना नाम नाडी योगशास्त्रेषु प्रसिद्धा । सा च अन्तरेण तालुके मध्ये तालुकयोर्गता । यश्च एष तालुकयोर्मध्ये स्तन इव अवलम्बते मांसखण्डः, तस्य च अन्तरेण इत्येतत् । यत्र च असौ केशान्तः केशानामन्तो मूलं केशान्तः विवर्तते विभागेन वर्तते, मूर्धप्रदेश इत्यर्थः ; तं देशं प्राप्य तेनान्तरेण व्यपोह्य विभज्य विदार्य शीर्षकपाले शिरःकपाले, विनिर्गता या, सा इन्द्रयोनिः इन्द्रस्य ब्रह्मणः योनिः मार्गः, स्वरूपप्रतिपत्तिद्वारमित्यर्थः । तथा एवं विद्वान्मनोमयात्मदर्शी मूर्ध्नो विनिष्क्रम्य अस्य लोकस्याधिष्ठाता भूरिति व्याहृतिरूपो योऽग्निः महतो ब्रह्मणोऽङ्गभूतः, तस्मिन् अग्नौ प्रतितिष्ठति, अग्न्यात्मना इमं लोकं व्याप्नोतीत्यर्थः । तथा भुव इति द्वितीयव्याहृत्यात्मनि वायौ, प्रतितिष्ठतीत्यनुवर्तते । सुवरिति तृतीयव्याहृत्यात्मनि आदित्ये । मह इत्यङ्गिनि चतुर्थव्याहृत्यात्मनि ब्रह्मणि प्रतितिष्ठतीति । तेष्वात्मभावेन स्थित्वा आप्नोति ब्रह्मभूतं स्वाराज्यं स्वराड्भावं स्वयमेव राजा अधिपतिर्भवति अङ्गभूतानां देवतानां यथा ब्रह्म ; देवाश्च सर्वे अस्मै अङ्गिने बलिमावहन्ति अङ्गभूताः यथा ब्रह्मणे । आप्नोति मनसस्पतिम् , सर्वेषां हि मनसां पतिः, सर्वात्मकत्वाद्ब्रह्मणः सर्वैर्हि मनोभिस्तन्मनुते । तदाप्नोत्येवं विद्वान् । किं च, वाक्पतिः सर्वासां वाचां पतिर्भवति । तथैव चक्षुष्पतिः चक्षुषां पतिः । श्रोत्रपतिः श्रोत्राणां च पतिः । विज्ञानपतिः विज्ञानानां च पतिः । सर्वात्मकत्वात्सर्वप्राणिनां करणैस्तद्वान्भवतीत्यर्थः । किं च, ततोऽपि अधिकतरम् एतत् भवति । किं तत् ? उच्यते - आकाशशरीरम् आकाशः शरीरमस्य, आकाशवद्वा सूक्ष्मं शरीरमस्येत्याकाशशरीरम् । किं तत् ? प्रकृतं ब्रह्म । सत्यात्म, सत्यं मूर्तामूर्तम् अवितथं स्वरूपं वा आत्मा स्वभावोऽस्य, तदिदं सत्यात्म । प्राणारामम् , प्राणेष्वारमणमाक्रीडा यस्य तत्प्राणारामम् ; प्राणानां वा आरामो यस्मिन् , तत्प्राणारामम् । मन आनन्दम् , आनन्दभूतं सुखकृदेव यस्य मनः, तन्मन आनन्दम् । शान्तिसमृद्धम् , शान्तिरुपशमः, शान्तिश्च तत्समृद्धं च शान्तिसमृद्धम् ; शान्त्या वा समृद्धवत्तदुपलभ्यत इति शान्तिसमृद्धम् । अमृतम् अमरणधर्मि, एतच्चाधिकरणविशेषणं तत्रैव मनोमय इत्यादौ द्रष्टव्यमिति । एवं मनोमयत्वादिधर्मैर्विशिष्टं यथोक्तं ब्रह्म हे प्राचीनयोग्य, उपास्स्व इत्याचार्यवचनोक्तिरादरार्था । उक्तस्तूपासनाशब्दार्थः ॥
इति षष्ठोनुवाकभाष्यम् ॥