श्रीमच्छङ्करभगवत्पूज्यपादविरचितम्

तैत्तिरीयोपनिषद्भाष्यम्

करतलकलिताद्वयात्मतत्त्वं क्षपितदुरन्तचिरन्तनप्रमोहम् ।
उपचितमुदितोदितैर्गुणौघैः उपनिषदामयमुज्जहार भाष्यम् ।।

change script to

यस्माज्जातं जगत्सर्वं यस्मिन्नेव प्रलीयते ।
येनेदं धार्यते चैव तस्मै ज्ञानात्मने नमः ॥ १ ॥
यैरिमे गुरुभिः पूर्वं पदवाक्यप्रमाणतः ।
व्याख्याताः सर्ववेदान्तास्तान्नित्यं प्रणतोऽस्म्यहम् ॥ २ ॥
तैत्तिरीयकसारस्य मयाचार्यप्रसादतः ।
विस्पष्टार्थरुचीनां हि व्याख्येयं सम्प्रणीयते ॥ ३ ॥
नित्यान्यधिगतानि कर्माणि उपात्तदुरितक्षयार्थानि, काम्यानि च फलार्थिनां पूर्वस्मिन्ग्रन्थे । इदानीं कर्मोपादानहेतुपरिहाराय ब्रह्मविद्या प्रस्तूयते । कर्महेतुः कामः स्यात् , प्रवर्तकत्वात् । आप्तकामानां हि कामाभावे स्वात्मन्यवस्थानात्प्रवृत्त्यनुपपत्तिः । आत्मकामत्वे चाप्तकामता । आत्मा च ब्रह्म । तद्विदो हि परप्राप्तिं वक्ष्यति । अतः अविद्यानिवृत्तौ स्वात्मन्यवस्थानं परप्राप्तिः, ‘अभयं प्रतिष्ठां विन्दते’ (तै. उ. २ । ७ । १) ‘एतमानन्दमयमात्मानमुपसङ्क्रामति’ (तै. उ. २ । ८ । ५)इत्यादि श्रुतेः । काम्यप्रतिषिद्धयोरनारम्भात् आरब्धस्य च उपभोगेन क्षयात् नित्यानुष्ठानेन च प्रत्यवायाभावात् अयत्नत एव स्वात्मन्यवस्थानं मोक्षः । अथवा, निरतिशयायाः प्रीतेः स्वर्गशब्दवाच्याया कर्महेतुत्वात्कर्मभ्य एव मोक्ष इति चेत् , न ; कर्मानेकत्वात् । अनेकानि हि आरब्धफलानि अनारब्धफलानि च अनेकजन्मान्तरकृतानि विरुद्धफलानि कर्माणि सम्भवन्ति । अतः तेष्वनारब्धफलानामेकस्मिञ्जन्मन्युपभोगेन क्षयासम्भवात् शेषकर्मनिमित्तशरीरारम्भोपपत्तिः । कर्मशेषसद्भावसिद्धिश्च ‘तद्य इह रमणीयचरणाः’ (छा. उ. ५ । १० । ७) ‘ततः शेषेण’ (आ. ध. २ । २ । २ । ३)(गो. स्मृ. ११) इत्यादि श्रुतिस्मृतिशतेभ्यः । इष्टानिष्टफलानामनारब्धानां क्षयार्थानि नित्यानि इति चेत् , न ; अकरणे प्रत्यवायश्रवणात् । प्रत्यवायशब्दो हि अनिष्टविषयः । नित्याकरणनिमित्तस्य प्रत्यवायस्य दुःखरूपस्य आगामिनः परिहारार्थानि नित्यानीत्यभ्युपगमात् न अनारब्धफलकर्मक्षयार्थानि । यदि नाम अनारब्धफलकर्मक्षयार्थानि नित्यानि कर्माणि, तथाप्यशुद्धमेव क्षपयेयुः ; न शुद्धम् , विरोधाभावात् । न हि इष्टफलस्य कर्मणः शुद्धरूपत्वान्नित्यैर्विरोध उपपद्यते । शुद्धाशुद्धयोर्हि विरोधो युक्तः । न च कर्महेतूनां कामानां ज्ञानाभावे निवृत्त्यसम्भवादशेषकर्मक्षयोपपत्तिः । अनात्मविदो हि कामः, अनात्मफलविषयत्वात् । स्वात्मनि च कामानुपपत्तिः, नित्यप्राप्तत्वात् । स्वयं चात्मा परं ब्रह्मेत्युक्तम् । नित्यानां च अकरणमभावः ततः प्रत्यवायानुपपत्तिरिति । अतः पूर्वोपचितदुरितेभ्यः प्राप्यमाणायाः प्रत्यवायक्रियाया नित्याकरणं लक्षणमिति शतृप्रत्ययस्य नानुपपत्तिः - ‘अकुर्वन्विहितं कर्म’ (मनु. ११ । ४४) इति । अन्यथा हि अभावाद्भावोत्पत्तिरिति सर्वप्रमाणव्याकोप इति । अतः अयत्नतः स्वात्मन्यवस्थानमित्यनुपपन्नम् । यच्चोक्तं निरतिशयप्रीतेः स्वर्गशब्दवाच्यायाः कर्मनिमित्तत्वात्कर्मारभ्य एव मोक्ष इति, तन्न, नित्यत्वान्मोक्षस्य । न हि नित्यं किञ्चिदारभ्यते, लोके यदारब्धम् , तदनित्यमिति । अतो न कर्मारभ्यो मोक्षः । विद्यासहितानां कर्मणां नित्यारम्भसामर्थ्यमिति चेत् , न ; विरोधात् । नित्यं चारभ्यत इति विरुद्धम् । यद्धि नष्टम् , तदेव नोत्पद्यत इति प्रध्वंसाभाववन्नित्योऽपि मोक्ष आरभ्य एवेति चेत् , न ; मोक्षस्य भावरूपत्वात् । प्रध्वंसाभावोऽप्यारभ्यत इति न सम्भवति अभावस्य विशेषाभावाद्विकल्पमात्रमेतत् । भावप्रतियोगी ह्यभावः । यथा ह्यभिन्नोऽपि भावो घटपटादिभिर्विशेष्यते भिन्न इव घटभावः पटभाव इति, एवं निर्विशेषोऽप्यभावः क्रियागुणयोगाद्द्रव्यादिवद्विकल्प्यते । न ह्यभाव उत्पलादिवद्विशेषणसहभावी । विशेषणवत्त्वे भाव एव स्यात् । विद्याकर्मकर्तुर्नित्यत्वात् विद्याकर्मसन्तानजनितमोक्षनित्यत्वमिति चेत् , न ; गङ्गास्रोतोवत्कर्तृत्वस्य दुःखरूपत्वात् , कर्तृत्वोपरमे च मोक्षविच्छेदात् । तस्मादविद्याकामकर्मोपादानहेतुनिवृत्तौ स्वात्मन्यवस्थानं मोक्ष इति । स्वयं चात्मा ब्रह्म । तद्विज्ञानादविद्यानिवृत्तिरिति । अतः ब्रह्मविद्यार्थोपनिषदारभ्यते । उपनिषदिति विद्योच्यते, तत्सेविनां गर्भजन्मजरादिनिशातनात् , तदवसादनाद्वा ब्रह्मण उपनिगमयितृत्वात् ; उपनिषण्णं वा अस्यां परं श्रेय इति । तदर्थत्वाद्ग्रन्थोऽप्युपनिषत् ॥
ॐ शं नो मित्रः शं वरुणः । शं नो भवत्वर्यमा । शं न इन्द्रो बृहस्पतिः । शं नो विष्णुरुरुक्रमः । नमो ब्रह्मणे । नमस्ते वायो । त्वमेव प्रत्यक्षं ब्रह्मासि । त्वामेव प्रत्यक्षं ब्रह्म वदिष्यामि । ऋतं वदिष्यामि । सत्यं वदिष्यामि । तन्मामवतु । तद्वक्तारमवतु । अवतु माम् । अवतु वक्तारम् ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ १ ॥
शं सुखं प्राणवृत्तेरह्नश्चाभिमानी देवतात्मा मित्रः नः अस्माकं भवतु । तथैव अपानवृत्तेः रात्रेश्चाभिमानी देवतात्मा वरुणः ; चक्षुषि आदित्ये चाभिमानी अर्यमा ; बले इन्द्रः ; वाचि बुद्धौ च बृहस्पतिः ; विष्णुः उरुक्रमः विस्तीर्णक्रमः पादयोरभिमानी ; एवमाद्या अध्यात्मदेवताः शं नः ; भवतु इति सर्वत्रानुषङ्गः । तासु हि सुखकृत्सु विद्याश्रवणधारणोपयोगाः अप्रतिबन्धेन भविष्यन्तीति तत्सुखकृत्त्वं प्रार्थ्यते - शं नो भवतु इति । ब्रह्मविद्याविविदिषुणा नमस्कारब्रह्मवदनक्रिये वायुविषये ब्रह्मविद्योपसर्गशान्त्यर्थे क्रियेते - सर्वत्र क्रियाफलानां तदधीनत्वात् । ब्रह्म वायुः, तस्मै ब्रह्मणे नमः प्रह्वीभावम् , करोमीति वाक्यशेषः । नमः ते तुभ्यं हे वायो नमस्करोमि इति परोक्षप्रत्यक्षाभ्यां वायुरेवाभिधीयते । किं च, त्वमेव चक्षुराद्यपेक्ष्य बाह्यं संनिकृष्टमव्यवहितं प्रत्यक्षं ब्रह्मासि यस्मात् , तस्मात् त्वामेव प्रत्यक्षं ब्रह्म वदिष्यामि ; ऋतं यथाशास्त्रं यथाकर्तव्यं बुद्धौ सुपरिनिश्चितमर्थं त्वदधीनत्वात् त्वामेव वदिष्यामि ; सत्यमिति स एव वाक्कायाभ्यां सम्पाद्यमानः, सोऽपि त्वदधीन एव सम्पाद्यत इति त्वामेव सत्यं वदिष्यमि । तत् सर्वात्मकं वाय्वाख्यं ब्रह्म मयैवं स्तुतं सत् विद्यार्थिनं माम् अवतु विद्यासंयोजनेन । तदेव ब्रह्म वक्तारम् आचार्यं च वक्तृत्वसामर्थ्यसंयोजनेन अवतु । अवतु माम् अवतु वक्तारम् इति पुनर्वचनमादरार्थम् । शान्तिः शान्तिः शान्तिः इति त्रिर्वचनम् आध्यात्मिकाधिभौतिकाधिदैविकानां विद्याप्राप्त्युपसर्गाणां प्रशमनार्थम् ॥
इति प्रथमानुवाकभाष्यम् ॥
अर्थज्ञानप्रधानत्वादुपनिषदः ग्रन्थपाठे यत्नोपरमो मा भूदिति शीक्षाध्याय आरभ्यते -
शीक्षां व्याख्यास्यामः । वर्णः स्वरः । मात्रा बलम् । साम सन्तानः । इत्युक्तः शीक्षाध्यायः ॥ १ ॥
शिक्षा शिक्ष्यते अनयेति वर्णाद्युच्चारणलक्षणम् , शिक्ष्यन्ते अस्मिन् इति वा शिक्षा वर्णादयः । शिक्षैव शीक्षा । दैर्घ्यं छान्दसम् । तां शीक्षां व्याख्यास्यामः विस्पष्टम् आ समन्तात्प्रकथयिष्यामः । चक्षिङः ख्याञादिष्टस्य व्याङ्पूर्वस्य व्यक्तवाक्कर्मण एतद्रूपम् । तत्र वर्णः अकारादिः । स्वर उदात्तादिः । मात्रा ह्रस्वाद्याः । बलं प्रयत्नविशेषः । साम वर्णानां मध्यमवृत्त्योच्चारणं समता । सन्तानः सन्ततिः, संहितेत्यर्थः । एवं शिक्षितव्योऽर्थः शिक्षा यस्मिन्नध्याये, सोऽयं शीक्षाध्यायः इति एवम् उक्तः उदितः । उक्त इत्युपसंहारार्थः ॥
इति द्वितीयानुवाकभाष्यम् ॥
सह नौ यशः । सह नौ ब्रह्मवर्चसम् । अथातः सं हिताया उपनिषदं व्याख्यास्यामः । पञ्चस्वधिकरणेषु । अधिलोकमधिज्यौतिषमधिविद्यमधिप्रजमध्यात्मम् । ता महासं हिता इत्याचक्षते । अथाधििलोकम् । पृथिवी पूर्वरूपम् । द्यौरुत्तररूपम् । आकाशः सन्धिः ॥ १ ॥
अधुना संहितोपनिषदुच्यते । तत्र संहिताद्युपनिषत्परिज्ञाननिमित्तं यत् यशः प्राप्यते, तत् नौ आवयोः शिष्यार्चार्ययोः सहैव अस्तु । तन्निमित्तं च यत् ब्रह्मवर्चसं तेजः, तच्च सहैवास्तु इति शिष्यवचनमाशीः । शिष्यस्य हि अकृतार्थत्वात्प्रार्थनोपपद्यते ; नाचार्यस्य, कृतार्थत्वात् । कृतार्थो ह्याचार्यो नाम भवति । अथ अनन्तरम् अध्ययनलक्षणविधानस्य पूर्ववृत्तस्य, अतः यतोऽत्यर्थं ग्रन्थभाविता बुद्धिर्न शक्यते सहसार्थज्ञानविषयेऽवतारयितुमित्यतः, संहितायाः उपनिषदं संहिताविषयं दर्शनमित्येतत् ग्रन्थसंनिकृष्टामेव व्याख्यास्यामः, पञ्चसु अधिकरणेषु आश्रयेषु, ज्ञानविषयेष्वित्यर्थः । कानि तानीत्याह - - अधिलोकं लोकेष्वधि यद्दर्शनम् , तदधिलोकम् , तथा अधिज्यौतिषम् अधिविद्यम् अधिप्रजम् अध्यात्ममिति । ताः एताः पञ्चविषया उपनिषदः लोकादिमहावस्तुविषयत्वात्संहिताविषयत्वाच्च महत्यश्च ताः संहिताश्च महासंहिताः इति आचक्षते कथयन्ति वेदविदः । अथ तासां यथोपन्यस्तानां मध्ये अधिलोकं दर्शनमुच्यते । दर्शनक्रमविवक्षार्थः अथशब्दः सर्वत्र । पृथिवी पूर्वरूपम् , पूर्वो वर्णः पूर्वरूपम् , संहितायाः पूर्वे वर्णे पृथिवीदृष्टिः कर्तव्येत्युक्तं भवति । तथा द्यौः उत्तररूपम् । आकाशः अन्तरिक्षलोकः सन्धिः मध्यं पूर्वोत्तररूपयोः सन्धीयते अस्मिन्पूर्वोत्तररूपे इति ॥
वायुः सन्धानम् । इत्यधिलोकम् । अथाधिज्यौतिषम् । अग्निः पूर्वरूपम् । आदित्य उत्तररूपम् । आपः सन्धिः । वैद्युतः सन्धानम् । इत्यधिज्यौतिषम् । अथाधिविद्यम् । आचार्यः पूर्वरूपम् ॥ २ ॥
अन्तेवास्युत्तररूपम् । विद्या सन्धिः । प्रवचनं सन्धानम् । इत्यधिविद्यम् । अथाधिप्रजम् । माता पूर्वरूपम् । पितोत्तररूपम् । प्रजा सन्धिः । प्रजननं सन्धानम् । इत्यधिप्रजम् ॥ ३ ॥
अथाध्यात्मम् । अधरा हनुः पूर्वरूपम् । उत्तरा हनुरुत्तररूपम् । वाक्सन्धिः । जिह्वा सन्धानम् । इत्यध्यात्मम् । इतीमा महासं हिताः । य एवमेता महासं हिता व्याख्याता वेद । सन्धीयते प्रजया पशुभिः । ब्रह्मवर्चसेनान्नाद्येन सुवर्गेण लोकेन ॥ ४ ॥
वायुः सन्धानम् । सन्धीयते अनेनेति सन्धानम् । इति अधिलोकं दर्शनमुक्तम् । अथाधिज्यौतिषम् इत्यादि समानम् । इतीमा इति उक्ता उपप्रदर्श्यन्ते । यः कश्चित् एवम् एताः महासंहिताः व्याख्याताः वेद उपास्ते, वेदेत्युपासनं स्यात् , विज्ञानाधिकारात् , ‘इति प्राचीनयोग्योपास्स्व’ इति च वचनात् । उपासनं च यथाशास्त्रं तुल्यप्रत्ययसन्ततिरसङ्कीर्णा च अतत्प्रत्ययैः शास्त्रोक्तालम्बनविषया च । प्रसिद्धश्चोपासनशब्दार्थो लोके - - ‘गुरुमुपास्ते’ ‘राजानमुपास्ते’ इति । यो हि गुर्वादीन्सन्ततमुपचरति, स उपास्त इत्युच्यते । स च फलमाप्नोत्युपासनस्य । अतः अत्रापि य एवं वेद, सन्धीयते प्रजादिभिः स्वर्गान्तैः । प्रजादिफलं प्राप्नोतीत्यर्थः ॥
इति तृतीयानुवाकभाष्यम् ॥
यश्छन्दसामृषभो विश्वरूपः । छन्दोभ्योऽध्यमृतात्सम्बभूव । स मेन्द्रो मेधया स्पृणोतु । अमृतस्य देव धारणो भूयासम् । शरीरं मे विचर्षणम् । जिह्वा मे मधुमत्तमा । कर्णाभ्यां भूरि विश्रुवम् । ब्रह्मणः कोशोऽसि मेधया पिहितः । श्रुतं मे गोपाय । आवहन्ती वितन्वाना ॥ १ ॥
कुर्वाणाचीरमात्मनः । वासां सि मम गावश्च । अन्नपाने च सर्वदा । ततो मे श्रियमावह । लोमशां पशुभिः सह स्वाहा । आमायन्तु ब्रह्मचारिणः स्वाहा । विमायन्तु ब्रह्मचारिणः स्वाहा । प्रमायन्तु ब्रह्मचारिणः स्वाहा । दमायन्तु ब्रह्मचारिणः स्वाहा । शमायन्तु ब्रह्मचारिणः स्वाहा ॥ २ ॥
यशो जनेऽसानि स्वाहा । श्रेयान् वस्यसोऽसानि स्वाहा । तं त्वा भग प्रविशानि स्वाहा । स मा भग प्रविश स्वाहा । तस्मिन्सहस्रशाखे । निभगाहं त्वयि मृजे स्वाहा । यथापः प्रवता यन्ति । यथा मासा अहर्जरम् । एवं मां ब्रह्मचारिणः । धातरायन्तु सर्वतः स्वाहा । प्रतिवेशोऽसि प्रमा पाहि प्र मा पद्यस्व ॥ ३ ॥
यश्छन्दसामिति मेधाकामस्य श्रीकामस्य च तत्प्राप्तिसाधनं जपहोमावुच्येते, ‘स मेन्द्रो मेधया स्पृणोतु’ ‘ततो मे श्रियमावह’ इति च लिङ्गदर्शनात् । यः छन्दसां वेदानाम् ऋषभ इव ऋषभः, प्राधान्यात् । विश्वरूपः सर्वरूपः, सर्ववाग्व्याप्तेः ‘तद्यथा शङ्कुना सर्वाणि पर्णानि सन्तृण्णान्येवमोङ्कारेण सर्वा वाक्सन्तृण्णोङ्कार एवेदं सर्वम्’ (छा. उ. २ । २३ । ३) इत्यादिश्रुत्यन्तरात् । अत एव ऋषभत्वमोङ्कारस्य । ओङ्कारो ह्यत्रोपास्य इति ऋषभादिशब्दैः स्तुतिर्न्याय्यैव ओङ्कारस्य । छन्दोभ्यः वेदेभ्यः, वेदा ह्यमृतम् , तस्मात् अमृतात् अधि सम्बभूव लोकदेववेदव्याहृतिभ्यः सारिष्ठं जिघृक्षोः प्रजापतेस्तपस्यतः ओङ्कारः सारिष्ठत्वेन प्रत्यभादित्यर्थः । न हि नित्यस्य ओङ्कारस्य अञ्जसैवोत्पत्तिरवकल्पते । सः एवंभूत ओङ्कारः इन्द्रः सर्वकामेशः परमेश्वरः मा मां मेधया प्रज्ञया स्पृणोतु प्रीणयतु, बलयतु वा, प्रज्ञाबलं हि प्रार्थ्यते । अमृतस्य अमृतत्वहेतुभूतस्य ब्रह्मज्ञानस्य, तदधिकारात् ; हे देव धारणः धारयिता भूयासं भवेयम् । किं च, शरीरं मे मम विचर्षणं विचक्षणं योग्यमित्येतत् , भूयादिति प्रथमपुरुषविपरिणामः । जिह्वा मे मम मधुमत्तमा मधुमती, अतिशयेन मधुरभाषिणीत्यर्थः । कर्णाभ्यां श्रोत्राभ्यां भूरि बहु विश्रुवं व्यश्रवम् , श्रोता भूयासमित्यर्थः । आत्मज्ञानयोग्यः कार्यकरणसङ्घातोऽस्त्विति वाक्यार्थः । मेधा च तदर्थमेव हि प्रार्थ्यते - ब्रह्मणः परमात्मनः कोशः असि असेरिव ; उपलब्ध्यधिष्ठानत्वात् ; त्वं हि ब्रह्मणः प्रतीकम् , त्वयि ब्रह्मोपलभ्यते । मेधया लौकिकप्रज्ञया पिहितः आच्छादितः स त्वं सामान्यप्रज्ञैरविदिततत्त्व इत्यर्थः । श्रुतं श्रवणपूर्वकमात्मज्ञानादिकं विज्ञानं मे गोपाय रक्ष ; तत्प्राप्त्यविस्मरणादिकं कुर्वित्यर्थः । जपार्था एते मन्त्रा मेधाकामस्य । श्रीकामस्य होमार्थास्त्वधुनोच्यन्ते मन्त्राः - आवहन्ती आनयन्ती ; वितन्वाना विस्तारयन्ती ; तनोतेस्तत्कर्मकत्वात् ; कुर्वाणा निर्वर्तयन्ती अचीरम् अचिरं क्षिप्रमेव ; छान्दसो दीर्घः ; चिरं वा ; कुर्वाणा, आत्मनः मम ; किमित्याह वासांसि वस्त्राणि, मम, गावश्च गाश्चेति यावत् ; अन्नपाने च सर्वदा ; एवमादीनि कुर्वाणा श्रीर्या, तां ततः मेधानिर्वर्तनात्परम् आवह आनय ; अमेधसो हि श्रीरनर्थायैवेति । किंविशिष्टाम् ? लोमशाम् अजाव्यादियुक्ताम् अन्यैश्च पशुभिः सह युक्ताम् आवहेति । अधिकारादोङ्कार एवाभिसम्बध्यते । स्वाहा, स्वाहाकारो होमार्थमन्त्रान्तज्ञापनार्थः । आमायन्त्विति । आयन्तु, मामिति व्यवहितेन सम्बन्धः, ब्रह्मचारिणः । विमायन्तु प्रमायन्तु दमायन्तु शमायन्तु इत्यादि । यशोजने यशस्विजनेषु असानि भवानि । श्रेयान् प्रशस्यतरः, वस्यसः वसीयसः वसुतराद्वसुमत्तराद्वा धनवज्जातीयपुरुषाद्विशेषवानहमसानीत्यर्थः । किं च, तं ब्रह्मणः कोशभूतं त्वा त्वां हे भग भगवन् पूजार्ह, प्रविशानि । प्रविश्य चानन्यस्त्वदात्मैव भवानीत्यर्थः । सः त्वमपि मा मां भग भगवन् , प्रविश ; आवयोरेकात्मत्वमेवास्तु । तस्मिन् त्वयि सहस्रशाखे बहुशाखाभेदे हे भगवन् , निमृजे शोधयामि अहं पापकृत्याम् । यथा लोके आपः प्रवता प्रवणवता निम्नवता देशेन यन्ति गच्छन्ति यथा च मासाः अहर्जरम् , संवत्सरोऽहर्जरः अहोभिः परिवर्तमानो लोकाञ्जरयतीति ; अहानि वा अस्मिन् जीर्यन्ति अन्तर्भवन्तीत्यहर्जरः ; तं च यथा मासाः यन्ति, एवं मां ब्रह्मचारिणः हे धातः सर्वस्य विधातः, माम् आयन्तु आगच्छन्तु सर्वतः सर्वदिग्भ्यः । प्रतिवेशः श्रमापनयनस्थानम् आसन्नं गृहमित्यर्थः । एवं त्वं प्रतिवेश इव प्रतिवेशः त्वच्छीलिनां सर्वपापदुःखापनयनस्थानमसि । अतः मा मां प्रति प्रभाहि प्रकाशयात्मानम् , प्र मा पद्यस्व प्रपद्यस्व च माम् । रसविद्धमिव लोहं त्वन्मयं त्वदात्मानं कुर्वित्यर्थः । श्रीकामोऽस्मिन्विद्याप्रकरणे अभिधीयमानो धनार्थः ; धनं च कर्मार्थम् ; कर्म च उपात्तदुरितक्षयार्थम् ; तत्क्षये हि विद्या प्रकाशते । तथा च स्मृतिः - ‘ज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मणः । यथादर्शतले प्रख्ये पश्यत्यात्मानमात्मनि’ (म. भा. शां. २०४ । ८)(गरुड. १ । २३७ । ६) इति ॥
इति चतुर्थानुवाकभाष्यम् ॥
संहिताविषयमुपासनमुक्तम् । तदनु मेधाकामस्य श्रीकामस्य चानुक्रान्ता मन्त्राः । ते च पारम्पर्येण विद्योपयोगार्था एव । अनन्तरं व्याहृत्यात्मनो ब्रह्मणः अन्तरुपासनं स्वाराज्यफलं प्रस्तूयते -
भूर्भुवः सुवरिति वा एतास्तिस्रो व्याहृतयः । तासामु ह स्मैतां चतुर्थीम् । माहाचमस्यः प्रवेदयते । मह इति । तद्ब्रह्म । स आत्मा । अङ्गान्यन्या देवताः । भूरिति वा अयं लोकः । भुव इत्यन्तरिक्षम् । सुवरित्यसौ लोकः ॥ १ ॥
मह इत्यादित्यः । आदित्येन वाव सर्वे लोका महीयन्ते । भूरिति वा अग्निः । भुव इति वायुः । सुवरित्यादित्यः । मह इति चन्द्रमाः । चन्द्रमसा वाव सर्वाणि ज्योतींषि महीयन्ते । भूरिति वा ऋचः । भुव इति सामानि । सुवरिति यजूंषि ॥ २ ॥
मह इति ब्रह्म । ब्रह्मणा वाव सर्वे वेदा महीयन्ते । भूरिति वै प्राणः । भुव इत्यपानः । सुवरिति व्यानः । मह इत्यन्नम् । अन्नेन वाव सर्वे प्राणा महीयन्ते । ता वा एताश्चतस्रश्चतुर्धा । चतस्रश्चतस्रो व्याहृतयः । ता यो वेद । स वेद ब्रह्म । सर्वेऽस्मै देवा बलिमावहन्ति ॥ ३ ॥
भूर्भुवः सुवरिति । इतीत्युक्तोपप्रदर्शनार्थः । एतास्तिस्र इति च प्रदर्शितानां परामर्शार्थः परामृष्टाः स्मर्यन्ते वै इत्यनेन । तिस्र एताः प्रसिद्धा व्याहृतयः स्मर्यन्त इति यावत् । तासाम् इयं चतुर्थी व्याहृतिर्मह इति ; तामेतां चतुर्थीं महाचमसस्यापत्यं माहाचमस्यः प्रवेदयते, उ ह स्म इत्येतेषां वृत्तानुकथनार्थत्वात् विदितवान् ददर्शेत्यर्थः । माहाचमस्यग्रहणमार्षानुस्मरणार्थम् । ऋष्यनुस्मरणमप्युपासनाङ्गमिति गम्यते, इहोपदेशात् । येयं माहाचमस्येन दृष्टा व्याहृतिः मह इति, तत् ब्रह्म । महद्धि ब्रह्म ; महश्च व्याहृतिः । किं पुनस्तत् ? स आत्मा, आप्नोतेर्व्याप्तिकर्मणः आत्मा ; इतराश्च व्याहृतयो लोका देवा वेदाः प्राणाश्च मह इत्यनेन व्याहृत्यात्मना आदित्यचन्द्रब्रह्मान्नभूतेन व्याप्यन्ते यतः, अत अङ्गानि अवयवाः अन्याः देवताः । देवताग्रहणमुपलक्षणार्थं लोकादीनाम् । मह इत्यस्य व्याहृत्यात्मनो देवा लोकादयश्च सर्वे अवयवभूता यतः, अत आह - आदित्यादिभिर्लोकादयो महीयन्त इति । आत्मना ह्यङ्गानि महीयन्ते महनं वृद्धिः उपचयः । महीयन्ते वर्धन्त इत्यर्थः । अयं लोकः अग्निः ऋग्वेदः प्राण इति प्रथमा व्याहृतिः भूः, अन्तरिक्षं वायुः सामानि अपानः इति द्वितीया व्याहृतिः भुवः ; असौ लोकः आदित्यः यजूंषि व्यानः इति तृतीया व्याहृतिः सुवः ; आदित्यः चन्द्रमाः ब्रह्म अन्नम् इति चतुर्थी व्याहृतिः महः इत्येवम् एकैकाश्चतुर्धा भवन्ति । मह इति ब्रह्म ब्रह्मेत्योङ्कारः, शब्दाधिकारे अन्यस्यासम्भवात् । उक्तार्थमन्यत् । ता वा एताश्चतस्रश्चतुर्धेति । ता वै एताः भूर्भुवःसुवर्मह इति चतस्रः एकैकशः चतुर्धा चतुःप्रकाराः । धा - शब्दः प्रकारवचनः । चतस्रश्चतस्रः सत्यः चतुर्धा भवन्तीत्यर्थः । तासां यथाक्लृप्तानां पुनरुपदेशस्तथैवोपासननियमार्थः । ताः यथोक्ता व्याहृतीः यः वेद, स वेद विजानाति । किं तत् ? ब्रह्म । ननु, ‘तद्ब्रह्म स आत्मा’ इति ज्ञाते ब्रह्मणि, न वक्तव्यमविज्ञातवत् ‘स वेद ब्रह्म’ इति ; न ; तद्विशेषविवक्षुत्वाददोषः । सत्यं विज्ञातं चतुर्थव्याहृत्या आत्मा ब्रह्मेति ; न तु तद्विशेषः - हृदयान्तरुपलभ्यत्वं मनोमयत्वादिश्च । ‘शान्तिसमृद्धम्’ इत्येवमन्तो विशेषणविशेषरूपो धर्मपूगो न विज्ञायत इति ; तद्विवक्षु हि शास्त्रमविज्ञातमिव ब्रह्म मत्वा ‘स वेद ब्रह्म’ इत्याह । अतो न दोषः । यो वा वक्ष्यमाणेन धर्मपूगेण विशिष्टं ब्रह्म वेद, स वेद ब्रह्म इत्यभिप्रायः । अतो वक्ष्यमाणानुवाकेनैकवाक्यता अस्य, उभयोर्ह्यनुवाकयोरेकमुपासनम् । लिङ्गाच्च । ‘भूरित्यग्नौ प्रतितिष्ठति’ इत्यादिकं लिङ्गमुपासनैकत्वे । विधायकाभावाच्च । न हि वेद उपासीत वेति विधायकः कश्चिच्छब्दोऽस्ति । व्याहृत्यनुवाके ‘ता यो वेद’ इति तु वक्ष्यमाणार्थत्वान्नोपासनाभेदकः । वक्ष्यमाणार्थत्वं च तद्विशेषविवक्षुत्वादित्यादिनोक्तम् । सर्वे देवाः अस्मै एवंविदुषे अङ्गभूताः आवहन्ति आनयन्ति बलिम् , स्वाराज्यप्राप्तौ सत्यामित्यर्थः ॥
इति पञ्चमानुवाकभाष्यम् ॥
भूर्भुवः सुवः स्वरूपा मह इत्येतस्य हिरण्यगर्भस्य व्याहृत्यात्मनो ब्रह्मणोऽङ्गान्यन्या देवता इत्युक्तम् । यस्य ता अङ्गभूताः, तस्यैतस्य ब्रह्मणः साक्षादुपलब्ध्यर्थमुपासनार्थं च हृदयाकाशः स्थानमुच्यते, सालग्राम इव विष्णोः । तस्मिन्हि तद्ब्रह्म उपास्यमानं मनोमयत्वादिधर्मविशिष्टं साक्षादुपलभ्यते, पाणाविवामलकम् । मार्गश्च सर्वात्मभावप्रतिपत्तये वक्तव्य इत्यनुवाक आरभ्यते -
स य एषोऽन्तर्हृदय आकाशः । तस्मिन्नयं पुरुषो मनोमयः । अमृतो हिरण्मयः । अन्तरेण तालुके । य एष स्तन इवावलम्बते । सेन्द्रयोनिः । यत्रासौ केशान्तो विवर्तते । व्यपोह्य शीर्षकपाले । भूरित्यग्नौ प्रतितिष्ठति । भुव इति वायौ ॥ १ ॥
सुवरित्यादित्ये । मह इति ब्रह्मणि । आप्नोति स्वाराज्यम् । आप्नोति मनसस्पतिम् । वाक्पतिश्चक्षुष्पतिः । श्रोत्रपतिर्विज्ञानपतिः । एतत्ततो भवति । आकाशशरीरं ब्रह्म । सत्यात्म प्राणारामं मन आनन्दम् । शान्तिसमृद्धममृतम् । इति प्राचीनयोग्योपास्स्व ॥ २ ॥
स इति व्युत्क्रम्य अयं पुरुष इत्यनेन सम्बन्ध्यते । य एष अन्तर्हृदये हृदयस्यान्तः । हृदयमिति पुण्डरीकाकारो मांसपिण्डः प्राणायतनोऽनेकनाडीसुषिर ऊर्ध्वनालोऽधोमुखो विशस्यमाने पशौ प्रसिद्ध उपलभ्यते । तस्यान्तः य एष आकाशः प्रसिद्ध एव करकाकाशवत् , तस्मिन् सोऽयं पुरुषः, पुरि शयनात् , पूर्णा वा भूरादयो लोका येनेति पुरुषः मनोमयः, मनः विज्ञानं मनुतेर्ज्ञानकर्मणः, तन्मयः तत्प्रायः, तदुपलभ्यत्वात् । मनुते अनेनेति वा मनः अन्तःकरणम् ; तदभिमानी तन्मयः, तल्लिङ्गो वा । अमृतः अमरणधर्मा । हिरण्मयः ज्योतिर्मयः । तस्यैवंलक्षणस्य हृदयाकाशे साक्षात्कृतस्य विदुष आत्मभूतस्य ईश्वररूपस्य प्रतिपत्तये मार्गोऽभिधीयते - हृदयादूर्ध्वं प्रवृत्ता सुषुम्ना नाम नाडी योगशास्त्रेषु प्रसिद्धा । सा च अन्तरेण तालुके मध्ये तालुकयोर्गता । यश्च एष तालुकयोर्मध्ये स्तन इव अवलम्बते मांसखण्डः, तस्य च अन्तरेण इत्येतत् । यत्र च असौ केशान्तः केशानामन्तो मूलं केशान्तः विवर्तते विभागेन वर्तते, मूर्धप्रदेश इत्यर्थः ; तं देशं प्राप्य तेनान्तरेण व्यपोह्य विभज्य विदार्य शीर्षकपाले शिरःकपाले, विनिर्गता या, सा इन्द्रयोनिः इन्द्रस्य ब्रह्मणः योनिः मार्गः, स्वरूपप्रतिपत्तिद्वारमित्यर्थः । तथा एवं विद्वान्मनोमयात्मदर्शी मूर्ध्नो विनिष्क्रम्य अस्य लोकस्याधिष्ठाता भूरिति व्याहृतिरूपो योऽग्निः महतो ब्रह्मणोऽङ्गभूतः, तस्मिन् अग्नौ प्रतितिष्ठति, अग्न्यात्मना इमं लोकं व्याप्नोतीत्यर्थः । तथा भुव इति द्वितीयव्याहृत्यात्मनि वायौ, प्रतितिष्ठतीत्यनुवर्तते । सुवरिति तृतीयव्याहृत्यात्मनि आदित्ये । मह इत्यङ्गिनि चतुर्थव्याहृत्यात्मनि ब्रह्मणि प्रतितिष्ठतीति । तेष्वात्मभावेन स्थित्वा आप्नोति ब्रह्मभूतं स्वाराज्यं स्वराड्भावं स्वयमेव राजा अधिपतिर्भवति अङ्गभूतानां देवतानां यथा ब्रह्म ; देवाश्च सर्वे अस्मै अङ्गिने बलिमावहन्ति अङ्गभूताः यथा ब्रह्मणे । आप्नोति मनसस्पतिम् , सर्वेषां हि मनसां पतिः, सर्वात्मकत्वाद्ब्रह्मणः सर्वैर्हि मनोभिस्तन्मनुते । तदाप्नोत्येवं विद्वान् । किं च, वाक्पतिः सर्वासां वाचां पतिर्भवति । तथैव चक्षुष्पतिः चक्षुषां पतिः । श्रोत्रपतिः श्रोत्राणां च पतिः । विज्ञानपतिः विज्ञानानां च पतिः । सर्वात्मकत्वात्सर्वप्राणिनां करणैस्तद्वान्भवतीत्यर्थः । किं च, ततोऽपि अधिकतरम् एतत् भवति । किं तत् ? उच्यते - आकाशशरीरम् आकाशः शरीरमस्य, आकाशवद्वा सूक्ष्मं शरीरमस्येत्याकाशशरीरम् । किं तत् ? प्रकृतं ब्रह्म । सत्यात्म, सत्यं मूर्तामूर्तम् अवितथं स्वरूपं वा आत्मा स्वभावोऽस्य, तदिदं सत्यात्म । प्राणारामम् , प्राणेष्वारमणमाक्रीडा यस्य तत्प्राणारामम् ; प्राणानां वा आरामो यस्मिन् , तत्प्राणारामम् । मन आनन्दम् , आनन्दभूतं सुखकृदेव यस्य मनः, तन्मन आनन्दम् । शान्तिसमृद्धम् , शान्तिरुपशमः, शान्तिश्च तत्समृद्धं च शान्तिसमृद्धम् ; शान्त्या वा समृद्धवत्तदुपलभ्यत इति शान्तिसमृद्धम् । अमृतम् अमरणधर्मि, एतच्चाधिकरणविशेषणं तत्रैव मनोमय इत्यादौ द्रष्टव्यमिति । एवं मनोमयत्वादिधर्मैर्विशिष्टं यथोक्तं ब्रह्म हे प्राचीनयोग्य, उपास्स्व इत्याचार्यवचनोक्तिरादरार्था । उक्तस्तूपासनाशब्दार्थः ॥
इति षष्ठोनुवाकभाष्यम् ॥
यदेतद्व्याहृत्यात्मकं ब्रह्मोपास्यमुक्तम् , तस्यैवेदानीं पृथिव्यादिपाङ्क्तस्वरूपेणोपासनमुच्यते -
पृथिव्यन्तरिक्षं द्यौर्दिशोऽवान्तरदिशः । अग्निर्वायुरादित्यश्चन्द्रमा नक्षत्राणि । आप ओषधयो वनस्पतय आकाश आत्मा । इत्यधिभूतम् । अथाध्यात्मम् । प्राणो व्यानोऽपान उदानः समानः । चक्षुः श्रोत्रं मनो वाक् त्वक् । चर्म मांसंस्नावास्थि मज्जा । एतदधिविधाय ऋषिरवोचत् । पाङ्क्तं वा इदं सर्वम् । पाङ्क्तेनैव पाङ्क्तं स्पृणोतीति ॥ १ ॥
पञ्चसङ्ख्यायोगात्पङ्क्तिच्छन्दः सम्पक्तिः ; ततः पाङ्क्तत्वं सर्वस्य । पाङ्क्तश्च यज्ञः, ‘पञ्चपदा पङ्क्तिः पाङ्क्तो यज्ञः’ इति श्रुतेः । तेन यत्सर्वं लोकाद्यात्मान्तं च पाङ्क्तं परिकल्पयति, यज्ञमेव तत्परिकल्पयति । तेन यज्ञेन परिकल्पितेन पाङ्क्तात्मकं प्रजापतिमभिसम्पद्यते । तत्कथं पाङ्क्तं वा इदं सर्वमित्यत आह - पृथिवी अन्तरिक्षं द्यौः दिशः अवान्तरदिशः इति लोकपाङ्क्तम् । अग्निः वायुः आदित्यः चन्द्रमाः नक्षत्राणि इति देवतापाङ्क्तम् । आपः ओषधयः वनस्पतयः आकाशः आत्मा इति भूतपाङ्क्तम् । आत्मेति विराट् , भूताधिकारात् । इत्यधिभूतमिति अधिलोकाधिदैवतपाङ्क्तद्वयोपलक्षणार्थम् , लोकदेवतापाङ्क्तयोर्द्वयोश्चाभिहितत्वात् । अथ अनन्तरम् अध्यात्मं पाङ्क्तत्रयमुच्यते - प्राणादि वायुपाङ्क्तम् । चक्षुरादि इन्द्रियपाङ्क्तम् । चर्मादि धातुपाङ्क्तम् । एतावद्धीदं सर्वमध्यात्मं बाह्यं च पाङ्क्तमेव इति एतत् एवम् अधिविधाय परिकल्प्य ऋषिः वेदः एतद्दर्शनसम्पन्नो वा कश्चिदृषिः, अवोचत् उक्तवान् । किमित्याह - पाङ्क्तं वा इदं सर्वं पाङ्क्तेनैव आध्यात्मिकेन, सङ्ख्यासामान्यात् , पाङ्क्तं बाह्यं स्पृणोति बलयति पूरयति एकात्मतयोपलभ्यत इत्येतत् । एवं पाङ्क्तमिदं सर्वमिति यो वेद, स प्रजापत्यात्मैव भवतीत्यर्थः ॥
इति सप्तमानुवाकभाष्यम् ॥
व्याहृत्यात्मनो ब्रह्मण उपासनमुक्तम् । अनन्तरं च पाङ्क्तस्वरूपेण तस्यैवोपासनमुक्तम् । इदानीं सर्वोपासनाङ्गभूतस्य ओङ्कारस्योपासनं विधित्स्यते ।
ओमिति ब्रह्म । ओमितीदं सर्वम् । ओमित्येतदनुकृतिर्ह स्म वा अप्यो श्रावयेत्याश्रावयन्ति । ओमिति सामानि गायन्ति । ॐ शोमिति शस्त्राणि शंसन्ति । ओमित्यध्वर्युः प्रतिगरं प्रतिगृणाति । ओमिति ब्रह्मा प्रसौति । ओमित्यग्निहोत्रमनुजानाति । ओमिति ब्राह्मणः प्रवक्ष्यन्नाह ब्रह्मोपाप्नवानीति । ब्रह्मैवोपाप्नोति ॥ १ ॥
परापरब्रह्मदृष्ट्या हि उपास्यमान ओङ्कारः शब्दमात्रोऽपि परापरब्रह्मप्राप्तिसाधनं भवति ; स ह्यालम्बनं ब्रह्मणः परस्यापरस्य च, प्रतिमेव विष्णोः, ‘एतेनैवायतनेनैकतरमन्वेति’ (प्र. उ. ५ । २) इति श्रुतेः । ओमिति, इतिशब्दः स्वरूपपरिच्छेदार्थः ; ॐ इत्येतच्छब्दरूपं ब्रह्म इति मनसा धारयेत् उपासीत ; यतः ॐ इति इदं सर्वं हि शब्दस्वरूपमोङ्कारेण व्याप्तम् , ‘तद्यथा शङ्कुना’ (छा. उ. २ । २३ । ३) इति श्रुत्यन्तरात् । ‘अभिधानतन्त्रं ह्यभिधेयम्’ इत्यतः इदं सर्वमोङ्कार इत्युच्यते । ओङ्कारस्तुत्यर्थ उत्तरो ग्रन्थः, उपास्यत्वात्तस्य । ॐ इत्येतत् अनुकृतिः अनुकरणम् । करोमि यास्यामि चेति कृतमुक्त ओमित्यनुकरोत्यन्यः, अतः ओङ्कारोऽनुकृतिः । ह स्म वै इति प्रसिद्धार्थद्योतकाः । प्रसिद्धं ह्योङ्कारस्यानुकृतित्वम् । अपि च ओश्रावय इति प्रैषपूर्वमाश्रावयन्ति प्रतिश्रावयन्ति । तथा ॐ इति सामानि गायन्ति सामगाः । ॐ शोमिति शस्त्राणि शंसन्ति शस्त्रशंसितारोऽपि । तथा ॐ इति अध्वर्युः प्रतिगरं प्रतिगृणाति । ॐ इति ब्रह्मा प्रसौति अनुजानाति । ॐ इति अग्निहोत्रम् अनुजानाति जुहोमीत्युक्ते ॐ इत्येव अनुज्ञां प्रयच्छति । ॐ इत्येव ब्राह्मणः प्रवक्ष्यन् प्रवचनं करिष्यन् अध्येष्यमाणः ओमित्याह ओमित्येव प्रतिपद्यते अध्येतुमित्यर्थः ; ब्रह्म वेदम् उपाप्नवानि इति प्राप्नुयां ग्रहीष्यामीति उपाप्नोत्येव ब्रह्म । अथवा, ब्रह्म परमात्मानम् उपाप्नवानीत्यात्मानं प्रवक्ष्यन् प्रापयिष्यन् ओमित्येवाह । स च तेनोङ्कारेण ब्रह्म प्राप्नोत्येव । ओङ्कारपूर्वं प्रवृत्तानां क्रियाणां फलवत्त्वं यस्मात् , तस्मादोङ्कारं ब्रह्मेत्युपासीतेति वाक्यार्थः ॥
इत्यष्टमानुवाकभाष्यम् ॥
विज्ञानादेवाप्नोति स्वाराज्यमित्युक्तत्वात् श्रौतस्मार्तानां कर्मणामानर्थक्यं प्राप्तमित्येतन्मा प्रापदिति कर्मणां पुरुषार्थं प्रति साधनत्वप्रदर्शनार्थ इहोपन्यासः -
ऋतं च स्वाध्यायप्रवचने च । सत्यं च स्वाध्यायप्रवचने च । तपश्च स्वाध्यायप्रवचने च । दमश्च स्वाध्यायप्रवचने च । शमश्च स्वाध्यायप्रवचने च । अग्नयश्य स्वाध्यायप्रवचने च । अग्निहोत्रं च स्वाध्यायप्रवचने च । अतिथयश्च स्वाध्यायप्रवचने च । मानुषं च स्वाध्यायप्रवचने च । प्रजा च स्वाध्यायप्रवचने च । प्रजनश्च स्वाध्यायप्रवचने च । प्रजातिश्च स्वाध्यायप्रवचने च । सत्यमिति सत्यवचा राथीतरः । तप इति तपोनित्यः पौरुशिष्टिः । स्वाध्यायप्रवचने एवेति नाको मौद्गल्यः । तद्धि तपस्तद्धि तपः ॥ १ ॥
ऋतमिति व्याख्यातम् । स्वाध्यायः अध्ययनम् । प्रवचनमध्यापनं ब्रह्मयज्ञो वा । एतानि ऋतादीनि, अनुष्ठेयानि इति वाक्यशेषः । सत्यं सत्यवचनं यथाव्याख्यातार्थं वा । तपः कृच्छ्रादि । दमः बाह्यकरणोपशमः । शमः अन्तःकरणोपशमः । अग्नयश्च आधातव्याः । अग्निहोत्रं च होतव्यम् । अतिथयश्च पूज्याः । मानुषमिति लौकिकः संव्यवहारः । तच्च यथाप्राप्तमनुष्ठेयम् । प्रजा च उत्पाद्या । प्रजनश्च प्रजननम् ; ऋतौ भार्यागमनमित्यर्थः । प्रजातिः पौत्रोत्पत्तिः ; पुत्रो निवेशयितव्य इत्येतत् । सर्वैरेतैः कर्मभिर्युक्तस्यापि स्वाध्यायप्रवचने यत्नतोऽनुष्ठेये इत्येवमर्थं सर्वेण सह स्वाध्यायप्रवचनग्रहणम् । स्वाध्यायाधीनं ह्यर्थज्ञानम् । अर्थज्ञानाधीनं च परं श्रेयः । प्रवचनं च तदविस्मरणार्थं धर्मवृद्ध्यर्थं च । ततः स्वाध्यायप्रवचनयोरादरः कार्यः । सत्यमिति सत्यमेवानुष्ठेयमिति सत्यवचाः सत्यमेव वचो यस्य सोऽयं सत्यवचाः, नाम वा तस्य ; राथीतरः रथीतरसगोत्रः राथीतर आचार्यो मन्यते । तप इति तप एव कर्तव्यमिति तपोनित्यः तपसि नित्यः तपःपरः, तपोनित्य इति वा नाम ; पौरुशिष्टिः पुरुशिष्टस्यापत्यं पौरुशिष्टिराचार्यो मन्यते । स्वाध्यायप्रवचने एव अनुष्ठेये इति नाको नामतः मुद्गलस्यापत्यं मौद्गल्य आचार्यो मन्यते । तद्धि तपस्तद्धि तपः । यस्मात्स्वाध्यायप्रवचने एव तपः, तस्मात्ते एवानुष्ठेये इति । उक्तानामपि सत्यतपःस्वाध्यायप्रवचनानां पुनर्ग्रहणमादरार्थम् ॥
इति नवमानुवाकभाष्यम् ॥
अहं वृक्षस्य रेरिवा । कीर्तिः पृष्ठं गिरेरिव । ऊर्ध्वपवित्रो वाजिनीव स्वमृतमस्मि । द्रविणं सवर्चसम् । सुमेधा अमृतोक्षितः । इति त्रिशङ्कोर्वेदानुवचनम् ॥ १ ॥
अहं वृक्षस्य रेरिवेति स्वाध्यायार्थो मन्त्राम्नायः । स्वाध्यायश्च विद्योत्पत्तये, प्रकरणात् । विद्यार्थं हीदं प्रकरणम् , न च अन्यार्थत्वमवगम्यते । स्वाध्यायेन च विशुद्धसत्त्वस्य विद्योत्पत्तिरवकल्पते । अहं वृक्षस्य उच्छेद्यात्मकस्य संसारवृक्षस्य रेरिवा प्रेरयिता अन्तर्याम्यात्मना । कीर्तिः ख्यातिः गिरेः पृष्ठमिव उच्छ्रिता मम । ऊर्ध्वपवित्रः ऊर्ध्वं कारणं पवित्रं पावनं ज्ञानप्रकाश्यं परं ब्रह्म यस्य सर्वात्मनो मम, सोऽहमूर्ध्वपवित्रः ; वाजिनि इव वाजवतीव, वाजमन्नम् , तद्वति सवितरीवेत्यर्थः ; यथा सवितरि अमृतमात्मतत्त्वं विशुद्धं प्रसिद्धं श्रुतिस्मृतिशतेभ्यः, एवं सु अमृतं शोभनं विशुद्धमात्मतत्त्वम् अस्मि भवामि । द्रविणं धनं सवर्चसं दीप्तिमत् तदेव आत्मतत्त्वम् , अस्मीत्यनुवर्तते । ब्रह्मज्ञानं वा आत्मतत्त्वप्रकाशकत्वात्सवर्चसम् , द्रविणमिव द्रविणम् , मोक्षसुखहेतुत्वात् । अस्मिन्पक्षे प्राप्तं मयेत्यध्याहारः कर्तव्यः । सुमेधाः शोभना मेधा सर्वज्ञत्वलक्षणा यस्य मम, सोऽहं सुमेधाः, संसारस्थित्युत्पत्तिसंहारकौशलयोगात्सुमेधस्त्वम् ; अत एव अमृतः अमरणधर्मा, अक्षितः अक्षीणः अव्ययः अक्षतो वा, अमृतेन वा उक्षितः सिक्तः ‘अमृतोक्षितोऽहम्’ इत्यादि ब्राह्मणम् । इति एवं त्रिशङ्कोः ऋषेः ब्रह्मभूतस्य ब्रह्मविदः वेदानुवचनम् , वेदः वेदनम् आत्मैकत्वविज्ञानम् , तस्य प्राप्तिमनु वचनं वेदानुवचनम् ; आत्मनः कृतकृत्यताप्रख्यापनार्थं वामदेववत्त्रिशङ्कुना आर्षेण दर्शनेन दृष्टो मन्त्राम्नाय आत्मविद्याप्रकाशक इत्यर्थः । अस्य च जपो विद्योत्पत्त्यर्थोऽधिगम्यते । ‘ऋतं च’ इति धर्मोपन्यासादनन्तरं च वेदानुवचनपाठादेतदवगम्यते । एवं श्रौतस्मार्तेषु नित्येषु कर्मसु युक्तस्य निष्कामस्य परं ब्रह्म विविदिषोरार्षाणि दर्शनानि प्रादुर्भवन्त्यात्मादिविषयाणीति ॥
इति दशमानुवाकभाष्यम् ॥
वेदमनूच्याचार्योऽन्तेवासिनमनुशास्ति । सत्यं वद । धर्मं चर । स्वाध्यायान्मा प्रमदः । आचार्याय प्रियं धनमाहृत्य प्रजातन्तुं मा व्यवच्छेत्सीः । सत्यान्न प्रमदितव्यम् । धर्मान्न प्रमदितव्यम् । कुशलान्न प्रमदितव्यम् । भूत्यै न प्रमदितव्यम् । स्वाध्यायप्रवचनाभ्यां न प्रमदितव्यम् ॥ १ ॥
देवपितृकार्याभ्यां न प्रमदितव्यम् । मातृदेवो भव । पितृदेवो भव । आचार्यदेवो भव । अतिथिदेवो भव । यान्यनवद्यानि कर्माणि । तानि सेवितव्यानि । नो इतराणि । यान्यस्माकं सुचरितानि । तानि त्वयोपास्यानि ॥ २ ॥
नो इतराणि । ये के चास्मच्छ्रेयांसो ब्राह्मणाः । तेषां त्वयासनेन प्रश्वसितव्यम् । श्रद्धया देयम् । अश्रद्धयादेयम् । श्रिया देयम् । ह्रिया देयम् । भिया देयम् । संविदा देयम् । अथ यदि ते कर्मविचिकित्सा वा वृत्तविचिकित्सा वा स्यात् ॥ ३ ॥
ये तत्र ब्राह्मणाः संमर्शिनः । युक्ता आयुक्ताः । अलूक्षा धर्मकामाः स्युः । यथा ते तत्र वर्तेरन् । तथा तत्र वर्तेथाः । अथाभ्याख्यातेषु । ये तत्र ब्राह्मणाः संमर्शिनः । युक्ता आयुक्ताः । अलूक्षा धर्मकामाः स्युः । यथा ते तेषु वर्तेरन् । तथा तेषु वर्तेथाः । एष आदेशः । एष उपदेशः । एषा वेदोपनिषत् । एतदनुशासनम् । एवमुपासितव्यम् । एवमु चैतदुपास्यम् ॥ ४ ॥
वेदमनूच्येत्येवमादिकर्तव्यतोपदेशारम्भः प्राग्ब्रह्मात्मविज्ञानान्नियमेन कर्तव्यानि श्रौतस्मार्तानि कर्माणीत्येवमर्थः, अनुशासनश्रुतेः पुरुषसंस्कारार्थत्वात् । संस्कृतस्य हि विशुद्धसत्त्वस्य आत्मज्ञानमञ्जसैवोपजायते । ‘तपसा कल्मषं हन्ति विद्ययामृतमश्नुते’ (मनु. १२ । १०४) इति हि स्मृतिः । वक्ष्यति च - ‘तपसा ब्रह्म विजिज्ञासस्व’ (तै. उ. ३ । २ । १) इति । अतो विद्योत्पत्त्यर्थमनुष्ठेयानि कर्माणि । अनुशास्तीत्यनुशासनशब्दादनुशासनातिक्रमे हि दोषोत्पत्तिः । प्रागुपन्यासाच्च कर्मणाम् , केवलब्रह्मविद्यारम्भाच्च पूर्वं कर्माण्युपन्यस्तानि । उदितायां च ब्रह्मविद्यायाम् ‘अभयं प्रतिष्ठां विन्दते’ (तै. उ. २ । ७ । १) ‘न बिभेति कुतश्चन’ (तै. उ. २ । ९ । १) ‘किमहं साधु नाकरवम्’ (तै. उ. २ । ९ । १) इत्यादिना कर्मनैष्किञ्चन्यं दर्शयिष्यति । अतः अवगम्यते - पूर्वोपचितदुरितक्षयद्वारेण विद्योत्पत्त्यर्थानि कर्माणीति । मन्त्रवर्णाच्च - ‘अविद्यया मृत्युं तीर्त्वा विद्ययामृतमश्नुते’ (ई. उ. ११) इति ऋतादीनां पूर्वत्रोपदेशः आनर्थक्यपरिहारार्थः ; इह तु ज्ञानोत्पत्त्यर्थत्वात्कर्तव्यतानियमार्थः । वेदम् अनूच्य अध्याप्य आचार्यः अन्तेवासिनं शिष्यम् अनुशास्ति ग्रन्थग्रहणात् अनु पश्चात् शास्ति तदर्थं ग्राहयतीत्यर्थः । अतोऽवगम्यते अधीतवेदस्य धर्मजिज्ञासामकृत्वा गुरुकुलान्न समावर्तितव्यमिति । ‘बुद्ध्वा कर्माणि कुर्वीत’ इति स्मृतेश्च । कथमनुशास्तीत्यत आह - सत्यं वद यथाप्रमाणावगतं वक्तव्यं च वद । तद्वत् धर्मं चर ; धर्म इत्यनुष्ठेयानां सामान्यवचनम् , सत्यादिविशेषनिर्देशात् । स्वाध्यायात् अध्ययनात् मा प्रमदः प्रमादं मा कार्षीः । आचार्याय आचार्यार्थं प्रियम् इष्टं धनम् आहृत्य आनीय दत्त्वा विद्यानिष्क्रयार्थम् आचार्येण च अनुज्ञातः अनुरूपान्दारानाहृत्य प्रजातन्तुं प्रजासन्तानं मा व्यवच्छेत्सीः ; प्रजासन्ततेर्विच्छित्तिर्न कर्तव्या ; अनुत्पद्यमानेऽपि पुत्रे पुत्रकाम्यादिकर्मणा तदुत्पत्तौ यत्नः कर्तव्य इत्यभिप्रायः, प्रजाप्रजनप्रजातित्रयनिर्देशसामर्थ्यात् ; अन्यथा प्रजनश्चेत्येतदेकमेवावक्ष्यत् । सत्यात् न प्रमदितव्यं प्रमादो न कर्तव्यः ; सत्याच्च प्रमदनमनृतप्रसङ्गः ; प्रमादशब्दसामर्थ्याद्विस्मृत्याप्यनृतं न वक्तव्यमित्यर्थः ; अन्यथा असत्यवदनप्रतिषेध एव स्यात् । धर्मात् न प्रमदितव्यम् , धर्मशब्दस्यानुष्ठेयविशेषविषयत्वादननुष्ठानं प्रमादः, स न कर्तव्यः, अनुष्ठातव्य एव धर्म इति यावत् । एवं कुशलात् आत्मरक्षार्थात्कर्मणः न प्रमदितव्यम् । भूतिः विभूतिः, तस्यै भूत्यै भूत्यर्थान्मङ्गलयुक्तात्कर्मणः न प्रमदितव्यम् । स्वाध्यायप्रवचनाभ्यां न प्रमदितव्यम् , ते हि नियमेन कर्तव्ये इत्यर्थः । तथा देवपितृकार्याभ्यां न प्रमदितव्यम् , दैवपित्र्ये कर्मणी कर्तव्ये । मातृदेवः माता देवो यस्य सः, त्वं मातृदेवः भव स्याः । एवं पितृदेवो भव ; आचार्यदेवो भव ; अतिथिदेवो भव ; देवतावदुपास्या एते इत्यर्थः । यान्यपि च अन्यानि अनवद्यानि अनिन्दितानि शिष्टाचारलक्षणानि कर्माणि, तानि सेवितव्यानि कर्तव्यानि त्वया । नो न कर्तव्यानि इतराणि सावद्यानि शिष्टकृतान्यपि । यानि अस्माकम् आचार्याणां सुचरितानि शोभनचरितानि आम्नायाद्यविरुद्धानि, तान्येव त्वया उपास्यानि अदृष्टार्थान्यनुष्ठेयानि ; नियमेन कर्तव्यानीत्येतत् । नो इतराणि विपरीतान्याचार्यकृतान्यपि । ये के च विशेषिता आचार्यत्वादिधर्मैः अस्मत् अस्मत्तः श्रेयांसः प्रशस्ततराः, ते च ब्राह्मणाः, न क्षत्रियादयः, तेषाम् आसनेन आसनदानादिना त्वया प्रश्वसितव्यम् , प्रश्वसनं प्रश्वासः श्रमापनयः ; तेषां श्रमस्त्वया अपनेतव्य इत्यर्थः । तेषां वा आसने गोष्ठीनिमित्ते समुदिते, तेषु न प्रश्वसितव्यं प्रश्वासोऽपि न कर्तव्यः ; केवलं तदुक्तसारग्राहिणा भवितव्यम् । किं च, यत्किञ्चिद्देयम् , तत् श्रद्धयैव दातव्यम् । अश्रद्धया अदेयं न दातव्यम् । श्रिया विभूत्या देयं दातव्यम् । ह्रिया लज्जया च देयम् । भिया भीत्या च देयम् । संविदा च मैत्र्य्यादिकार्येण देयम् । अथ एवं वर्तमानस्य यदि कदाचित् ते तव श्रौते स्मार्ते वा कर्मणि वृत्ते वा आचारलक्षणे विचिकित्सा संशयः स्यात् भवेत् , ये तत्र तस्मिन्देशे काले वा ब्राह्मणाः तत्र कर्मादौ युक्ता इति व्यवहितेन सम्बन्धः कर्तव्यः ; संमर्शिनः विचारक्षमाः, युक्ताः अभियुक्ताः, कर्मणि वृत्ते वा आयुक्ताः अपरप्रयुक्ताः, अलूक्षाः अरूक्षाः अक्रूरमतयः, धर्मकामाः अदृष्टार्थिनः अकामहता इत्येतत् ; स्युः भवेयुः, ते ब्राह्मणाः यथा येन प्रकारेण तत्र तस्मिन्कर्मणि वृत्ते वा वर्तेरन् , तथा त्वमपि वर्तेथाः । अथ अभ्याख्यातेषु, अभ्याख्याता अभ्युक्ताः दोषेण सन्दिह्यमानेन संयोजिताः केनचित् , तेषु च ; यथोक्तं सर्वमुपनयेत् - ये तत्रेत्यादि । एषः आदेशः विधिः । एषः उपदेशः पुत्रादिभ्यः पित्रादीनामपि । एषा वेदोपनिषत् वेदरहस्यम् , वेदार्थ इत्येतत् । एतदेव अनुशासनम् ईश्वरवचनम् , आदेशवाच्यस्य विधेरुक्तत्वात् । सर्वेषां वा प्रमाणभूतानामनुशासनमेतत् । यस्मादेवम् , तस्मात् एवं यथोक्तं सर्वम् उपासितव्यं कर्तव्यम् । एवमु च एतत् उपास्यम् उपास्यमेव चैतत् नानुपास्यम् इत्यादरार्थं पुनर्वचनम् ॥
अत्रैतच्चिन्त्यते विद्याकर्मणोर्विवेकार्थम् - किं कर्मभ्य एव केवलेभ्यः परं श्रेयः, उत विद्यासंव्यपेक्षेभ्यः, आहोस्विद्विद्याकर्मभ्यां संहताभ्याम् , विद्याया वा कर्मापेक्षायाः, उत केवलाया एव विद्याया इति । तत्र केवलेभ्य एव कर्मभ्यः स्यात् , समस्तवेदार्थज्ञानवतः कर्माधिकारात् ‘वेदः कृत्स्नोऽधिगन्तव्यः सरहस्यो द्विजन्मना’ इति स्मरणात् । अधिगमश्च सहोपनिषदर्थेनात्मज्ञानादिना । ‘विद्वान्यजते’ ‘विद्वान्याजयति’ इति च विदुष एव कर्मण्यधिकारः प्रदर्श्यते सर्वत्र ज्ञात्वानुष्ठानमिति च । कृत्स्नश्च वेदः कर्मार्थ इति हि मन्यन्ते केचित् । कर्मभ्यश्चेत्परं श्रेयो नावाप्यते, वेदोऽनर्थकः स्यात् । न ; नित्यत्वान्मोक्षस्य । नित्यो हि मोक्ष इष्यते । कर्मकार्यस्य चानित्यत्वं प्रसिद्धं लोके । कर्मभ्यश्चेच्छ्रेयः, अनित्यं स्यात् ; तच्चानिष्टम् । ननु काम्यप्रतिषिद्धयोरनारम्भात् आरब्धस्य च कर्मण उपभोगेनैव क्षयात् नित्यानुष्ठानाच्च प्रत्यवायानुपपत्तेः ज्ञाननिरपेक्ष एव मोक्ष इति चेत् , तच्च न, कर्मशेषसम्भवात्तन्निमित्ता शरीरान्तरोत्पत्तिः प्राप्नोतीति प्रत्युक्तम् ; कर्मशेषस्य च नित्यानुष्ठानेनाविरोधात्क्षयानुपपत्तिरिति च । यदुक्तं समस्तवेदार्थज्ञानवतः कर्माधिकारादित्यादि, तच्च न ; श्रुतज्ञानव्यतिरेकादुपासनस्य । श्रुतज्ञानमात्रेण हि कर्मण्यधिक्रियते, नोपासनज्ञानमपेक्षते । उपासनं च श्रुतज्ञानादर्थान्तरं विधीयते मोक्षफलम् ; अर्थान्तरप्रसिद्धेश्च स्यात् ; ‘श्रोतव्यः’ इत्युक्त्वा तद्व्यतिरेकेण ‘मन्तव्यो निदिध्यासितव्यः’ इति यत्नान्तरविधानात् मनननिदिध्यासनयोश्च प्रसिद्धं श्रवणज्ञानादर्थान्तरत्वम् । एवं तर्हि विद्यासंव्यपेक्षेभ्यः कर्मभ्यः स्यान्मोक्षः ; विद्यासहितानां च कर्मणां भवेत्कार्यान्तरारम्भसामर्थ्यम् ; यथा स्वतो मरणज्वरादिकार्यारम्भसमर्थानामपि विषदध्यादीनां मन्त्रसशर्करादिसंयुक्तानां कार्यान्तरारम्भसामर्थ्यम् , एवं विद्याहितैः कर्मभिः मोक्ष आरभ्यत इति चेत् , न ; आरभ्यस्यानित्यत्वादित्युक्तो दोषः । वचनादारभ्योऽपि नित्य एवेति चेत् , न ; ज्ञापकत्वाद्वचनस्य । वचनं नाम यथाभूतस्यार्थस्य ज्ञापकम् , नाविद्यमानस्य कर्तृ । न हि वचनशतेनापि नित्यमारभ्यते, आरब्धं वा अविनाशि भवेत् । एतेन विद्याकर्मणोः संहतयोर्मोक्षारम्भकत्वं प्रत्युक्तम् ॥
विद्याकर्मणी मोक्षप्रतिबन्धहेतुनिवर्तके इति चेत् , न ; कर्मणः फलान्तरदर्शनात् । उत्पत्तिविकारसंस्काराप्तयो हि फलं कर्मणो दृश्यन्ते । उत्पत्त्यादिफलविपरीतश्च मोक्षः । गतिश्रुतेराप्य इति चेत् - ‘सूर्यद्वारेण’ ‘तयोर्ध्वमायन्’ (क. उ. २ । ३ । १६) इत्येवमादिगतिश्रुतिभ्यः प्राप्यो मोक्ष इति चेत् , न ; सर्वगतत्वात् गन्तृभ्यश्चानन्यत्वात् । आकाशादिकारणत्वात्सर्वगतं ब्रह्म, ब्रह्माव्यतिरिक्ताश्च सर्वे विज्ञानात्मानः ; अतो नाप्यो मोक्षः । गन्तुरन्यद्विभिन्नदेशं च भवति गन्तव्यम् । न हि, येनैवाव्यतिरिक्तं यत् , तत्तेनैव गम्यते । तदनन्यत्वसिद्धिश्च ‘तत्सृष्ट्वा तदेवानुप्राविशत्’ (तै. उ. २ । ६ । १) ‘क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु’ (भ. गी. १३ । २) इत्येवमादिश्रुतिस्मृतिशतेभ्यः । गत्यैश्वर्यादिश्रुतिविरोध इति चेत् - अथापि स्यात् यद्यप्राप्यो मोक्षः, तदा गतिश्रुतीनाम् ‘स एकधा’ (छा. उ. ७ । २६ । २) ‘स यदि पितृलोककामः भवति’ (छा. उ. ८ । २ । १) ‘स्त्रीभिर्वा यानैर्वा’ (छा. उ. ८ । १२ । ३) इत्यादिश्रुतीनां च कोपः स्यात् इति चेत् , न ; कार्यब्रह्मविषयत्वात्तासाम् । कार्ये हि ब्रह्मणि स्त्र्यादयः स्युः, न कारणे ; ‘एकमेवाद्वितीयम्’ (छा. उ. ६ । २ । १) ‘यत्र नान्यत्पश्यति’ (छा. उ. ७ । २४ । १) ‘तत्केन कं पश्येत्’ (बृ. उ. २ । ४ । १४)(बृ. उ. ४ । ५ । १५) इत्यादिश्रुतिभ्यः । विरोधाच्च विद्याकर्मणोः समुच्चयानुपपत्तिः । प्रलीनकर्त्रादिकारकविशेषतत्त्वविषया हि विद्या तद्विपरीतकारकसाध्येन कर्मणा विरुध्यते । न ह्येकं वस्तु परमार्थतः कर्त्रादिविशेषवत् तच्छून्यं चेति उभयथा द्रष्टुं शक्यते । अवश्यं ह्यन्तरन्मिथ्या स्यात् । अन्यतरस्य च मिथ्यात्वप्रसङ्गे युक्तं यत्स्वाभाविकाज्ञानविषयस्य द्वैतस्य मिथ्यात्वम् ; ‘यत्र हि द्वैतमिव भवति’ (बृ. उ. २ । ४ । १४) ‘मृत्योः स मृत्युमाप्नोति’ (क. उ. २ । १ । १०)(बृ. उ. ४ । ४ । १९) ‘अथ यत्रान्यत्पश्यति तदल्पम्’ (छा. उ. ७ । २४ । १) ‘अन्योऽसावन्योऽहमस्मि’ (बृ. उ. १ । ४ । १०) ‘उदरमन्तरं कुरुते’ ‘अथ तस्य भयं भवति’ (तै. उ. २ । ७ । १) इत्यादिश्रुतिशतेभ्यः । सत्यत्वं च एकत्वस्य ‘एकधैवानुद्रष्टव्यम्’ (बृ. उ. ४ । ४ । २०) ‘एकमेवाद्वितीयम्’ (छा. उ. ६ । २ । १) ‘ब्रह्मैवेदं सर्वम्’ ‘आत्मैवेदं सर्वम्’ (छा. उ. ७ । २५ । २) इत्यादिश्रुतिभ्यः । न च सम्प्रदानादिकारकभेदादर्शने कर्मोपपद्यते । अन्यत्वदर्शनापवादाश्च विद्याविषये सहस्रशः श्रूयन्ते । अतो विरोधो विद्याकर्मणोः । अतश्च समुच्चयानुपपत्तिः ॥
तत्र यदुक्तं संहताभ्यां विद्याकर्मभ्यां मोक्ष इत्येतदनुपपन्नमिति, तदयुक्तम् , तद्विहितत्वात्कर्मणां श्रुतिविरोध इति चेत् - यद्युपमृद्य कर्त्रादिकारकविशेषमात्मैकत्वविज्ञानं विधीयते सर्पादिभ्रान्तिज्ञानोपमर्दकरज्ज्वादिविषयविज्ञानवत् , प्राप्तः कर्मविधिश्रुतीनां निर्विषयत्वाद्विरोधः । विहितानि च कर्माणि । स च विरोधो न युक्तः, प्रमाणत्वाच्छ्रुतीनामिति चेत् , न ; पुरुषार्थोपदेशपरत्वाच्छ्रुतीनाम् । विद्योपदेशपरा तावच्छ्रुतिः संसारात्पुरुषो मोक्षयितव्य इति संसारहेतोरविद्यायाः विद्यया निवृत्तिः कर्तव्येति विद्याप्रकाशकत्वेन प्रवृत्तेति न विरोधः । एवमपि कर्त्रादिकारकसद्भावप्रतिपादनपरं शास्त्रं विरुध्यत एवेति चेत् , न ; यथाप्राप्तमेव कारकास्तित्वमुपादाय उपात्तदुरितक्षयार्थं कर्माणि विदधच्छास्त्रं मुमुक्षूणां फलार्थिनां च फलसाधनं न कारकास्तित्वे व्याप्रियते । उपचितदुरितप्रतिबन्धस्य हि विद्योत्पत्तिर्नावकल्पते । तत्क्षये च विद्योत्पत्तिः स्यात् , ततश्चाविद्यानिवृत्तिः, तत आत्यन्तिकः संसारोपरमः । अपि च, अनात्मदर्शिनो ह्यनात्मविषयः कामः ; कामयमानश्च करोति कर्माणि ; ततस्तत्फलोपभोगाय शरीराद्युपादानलक्षणः संसारः । तद्व्यतिरेकेणात्मैकत्वदर्शिनो विषयाभावात्कामानुपपत्तिः, आत्मनि चानन्यत्वात्कामानुपपत्तौ स्वात्मन्यवस्थानं मोक्ष इत्यतोऽपि विद्याकर्मणोर्विरोधः । विरोधादेव च विद्या मोक्षं प्रति न कर्माण्यपेक्षते । स्वात्मलाभे तु पूर्वोपचितदुरितप्रतिबन्धापनयनद्वारेण विद्याहेतुत्वं प्रतिपद्यन्ते कर्माणि नित्यानीति । अत एवास्मिन्प्रकरणे उपन्यस्तानि कर्माणीत्यवोचाम । एवं च अविरोधः कर्मविधिश्रुतीनाम् । अतः केवलाया एव विद्यायाः परं श्रेय इति सिद्धम् ॥
एवं तर्हि आश्रमान्तरानुपपत्तिः, कर्मनिमित्तत्वाद्विद्योत्पत्तेः । गृहस्थस्यैव विहितानि कर्माणीत्यैकाश्रम्यमेव । अतश्च यावज्जीवादिश्रुतयः अनुकूलतराः स्युः । न ; कर्मानेकत्वात् । न ह्यग्निहोत्रादीन्येव कर्माणि, ब्रह्मचर्यं तपः सत्यवचनं शमः दमः अहिंसा इत्येवमादीन्यपि कर्माणि इतराश्रमप्रसिद्धानि विद्योत्पत्तौ साधकतमान्यसङ्कीर्णा विद्यन्ते ध्यानधारणादिलक्षणानि च । वक्ष्यति च - ‘तपसा ब्रह्म विजिज्ञासस्व’ (तै. उ. ३ । २ । १) इति । जन्मान्तरकृतकर्मभ्यश्च प्रागपि गार्हस्थ्याद्विद्योत्पत्तिसम्भवात् , कर्मार्थत्वाच्च गार्हस्थ्यप्रतिपत्तेः, कर्मसाध्यायां च विद्यायां सत्यां गार्हस्थ्यप्रतिपत्तिरनर्थिकैव । लोकार्थत्वाच्च पुत्रादीनाम् । पुत्रादिसाध्येभ्यश्च अयं लोकः पितृलोको देवलोक इत्येतेभ्यो व्यावृत्तकामस्य, नित्यसिद्धात्मदर्शिनः, कर्मणि प्रयोजनमपश्यतः, कथं प्रवृत्तिरुपपद्यते ? प्रतिपन्नगार्हस्थ्यस्यापि विद्योत्पत्तौ विद्यापरिपाकाद्विरक्तस्य कर्मसु प्रयोजनमपश्यतः कर्मभ्यो निवृत्तिरेव स्यात् , ‘प्रव्रजिष्यन्वा अरेऽहमस्मात्स्थानादस्मि’ (बृ. उ. ४ । ५ । २) इत्येवमादिश्रुतिलिङ्गदर्शनात् । कर्म प्रति श्रुतेर्यत्नाधिक्यदर्शनादयुक्तमिति चेत् , - अग्निहोत्रादिकर्म प्रति श्रुतेरधिको यत्नः ; महांश्च कर्मण्यायासः, अनेकसाधनसाध्यत्वादग्निहोत्रादीनाम् ; तपोब्रह्मचर्यादीनां च इतराश्रमकर्मणां गार्हस्थ्येऽपि समानत्वादल्पसाधनापेक्षत्वाच्चेतरेषां न युक्तस्तुल्यवद्विकल्प आश्रमिभिस्तस्य इति चेत् , न ; जन्मान्तरकृतानुग्रहात् । यदुक्तं कर्मणि श्रुतेरधिको यत्न इत्यादि, नासौ दोषः, यतो जन्मान्तरकृतमप्यग्निहोत्रादिलक्षणं कर्म ब्रह्मचर्यादिलक्षणं चानुग्राहकं भवति विद्योत्पत्तिं प्रति ; येन च जन्मनैव विरक्ता दृश्यन्ते केचित् ; केचित्तु कर्मसु प्रवृत्ता अविरक्ता विद्याविद्वेषिणः । तस्माज्जन्मान्तरकृतसंस्कारेभ्यो विरक्तानामाश्रमान्तरप्रतिपत्तिरेवेष्यते । कर्मफलबाहुल्याच्च । पुत्रस्वर्गब्रह्मवर्चसादिलक्षणस्य कर्मफलस्यासङ्ख्येयत्वात् तत्प्रति च पुरुषाणां कामबाहुल्यात्तदर्थः श्रुतेरधिको यत्नः कर्मसूपपद्यते, आशिषां बाहुल्यदर्शनात् - इदं मे स्यादिदं मे स्यादिति । उपायत्वाच्च । उपायभूतानि हि कर्माणि विद्यां प्रति इत्यवोचाम । उपाये च अधिको यत्नः कर्तव्यः, न उपेये । कर्मनिमित्तत्वाद्विद्याया यत्नान्तरानर्थक्यमिति चेत् - कर्मभ्य एव पूर्वोपचितदुरितप्रतिबन्धक्षयाद्विद्योत्पद्यते चेत् , कर्मभ्यः पृथगुपनिषच्छ्रवणादियत्नोऽनर्थक इति चेत् , न ; नियमाभावात् । न हि, ‘प्रतिबन्धक्षयादेव विद्योत्पद्यते, न त्वीश्वरप्रसादतपोध्यानाद्यनुष्ठानात्’ इति नियमोऽस्ति ; अहिंसाब्रह्मचर्यादीनां च विद्यां प्रत्युपकारकत्वात् , साक्षादेव च कारणत्वाच्छ्रवणमनननिदिध्यासनादीनाम् । अतः सिद्धान्याश्रमान्तराणि । सर्वेषां चाधिकारो विद्यायाम् , परं च श्रेयः केवलाया विद्याया एवेति सिद्धम् ॥
इत्येकादशानुवाकभाष्यम् ॥
अतीतविद्याप्राप्त्युपसर्गशमनार्थां शान्तिं पठति -
शं नो मित्रः शं वरुणः । शं नो भवत्वर्यमा । शं न इन्द्रो बृहस्पतिः । शं नो विष्णुरुरुक्रमः । नमो ब्रह्मणे । नमस्ते वायो । त्वमेव प्रत्यक्षं ब्रह्मासि । त्वामेव प्रत्यक्षं ब्रह्मावादिषम् । ऋतमवादिषम् । सत्यमवादिषम् । तन्मामावीत् । तद्वक्तारमावीत् । आवीन्माम् । आवीद्वक्तारम् ॥
शं नो मित्र इत्यादि । व्याख्यातमेतत्पूर्वम् ॥
इति द्वादशानुवाकभाष्यम् ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ तैत्तिरीयोपनिषद्भाष्ये शीक्षावल्लीभाष्यम् सम्पूर्णम् ॥