ये तत्र ब्राह्मणाः संमर्शिनः । युक्ता आयुक्ताः । अलूक्षा धर्मकामाः स्युः । यथा ते तत्र वर्तेरन् । तथा तत्र वर्तेथाः । अथाभ्याख्यातेषु । ये तत्र ब्राह्मणाः संमर्शिनः । युक्ता आयुक्ताः । अलूक्षा धर्मकामाः स्युः । यथा ते तेषु वर्तेरन् । तथा तेषु वर्तेथाः । एष आदेशः । एष उपदेशः । एषा वेदोपनिषत् । एतदनुशासनम् । एवमुपासितव्यम् । एवमु चैतदुपास्यम् ॥ ४ ॥
वेदमनूच्येत्येवमादिकर्तव्यतोपदेशारम्भः प्राग्ब्रह्मात्मविज्ञानान्नियमेन कर्तव्यानि श्रौतस्मार्तानि कर्माणीत्येवमर्थः, अनुशासनश्रुतेः पुरुषसंस्कारार्थत्वात् । संस्कृतस्य हि विशुद्धसत्त्वस्य आत्मज्ञानमञ्जसैवोपजायते ।
‘तपसा कल्मषं हन्ति विद्ययामृतमश्नुते’ (मनु. १२ । १०४) इति हि स्मृतिः । वक्ष्यति च -
‘तपसा ब्रह्म विजिज्ञासस्व’ (तै. उ. ३ । २ । १) इति । अतो विद्योत्पत्त्यर्थमनुष्ठेयानि कर्माणि । अनुशास्तीत्यनुशासनशब्दादनुशासनातिक्रमे हि दोषोत्पत्तिः । प्रागुपन्यासाच्च कर्मणाम् , केवलब्रह्मविद्यारम्भाच्च पूर्वं कर्माण्युपन्यस्तानि । उदितायां च ब्रह्मविद्यायाम्
‘अभयं प्रतिष्ठां विन्दते’ (तै. उ. २ । ७ । १) ‘न बिभेति कुतश्चन’ (तै. उ. २ । ९ । १) ‘किमहं साधु नाकरवम्’ (तै. उ. २ । ९ । १) इत्यादिना कर्मनैष्किञ्चन्यं दर्शयिष्यति । अतः अवगम्यते - पूर्वोपचितदुरितक्षयद्वारेण विद्योत्पत्त्यर्थानि कर्माणीति । मन्त्रवर्णाच्च -
‘अविद्यया मृत्युं तीर्त्वा विद्ययामृतमश्नुते’ (ई. उ. ११) इति ऋतादीनां पूर्वत्रोपदेशः आनर्थक्यपरिहारार्थः ; इह तु ज्ञानोत्पत्त्यर्थत्वात्कर्तव्यतानियमार्थः । वेदम् अनूच्य अध्याप्य आचार्यः अन्तेवासिनं शिष्यम् अनुशास्ति ग्रन्थग्रहणात् अनु पश्चात् शास्ति तदर्थं ग्राहयतीत्यर्थः । अतोऽवगम्यते अधीतवेदस्य धर्मजिज्ञासामकृत्वा गुरुकुलान्न समावर्तितव्यमिति । ‘बुद्ध्वा कर्माणि कुर्वीत’ इति स्मृतेश्च । कथमनुशास्तीत्यत आह - सत्यं वद यथाप्रमाणावगतं वक्तव्यं च वद । तद्वत् धर्मं चर ; धर्म इत्यनुष्ठेयानां सामान्यवचनम् , सत्यादिविशेषनिर्देशात् । स्वाध्यायात् अध्ययनात् मा प्रमदः प्रमादं मा कार्षीः । आचार्याय आचार्यार्थं प्रियम् इष्टं धनम् आहृत्य आनीय दत्त्वा विद्यानिष्क्रयार्थम् आचार्येण च अनुज्ञातः अनुरूपान्दारानाहृत्य प्रजातन्तुं प्रजासन्तानं मा व्यवच्छेत्सीः ; प्रजासन्ततेर्विच्छित्तिर्न कर्तव्या ; अनुत्पद्यमानेऽपि पुत्रे पुत्रकाम्यादिकर्मणा तदुत्पत्तौ यत्नः कर्तव्य इत्यभिप्रायः, प्रजाप्रजनप्रजातित्रयनिर्देशसामर्थ्यात् ; अन्यथा प्रजनश्चेत्येतदेकमेवावक्ष्यत् । सत्यात् न प्रमदितव्यं प्रमादो न कर्तव्यः ; सत्याच्च प्रमदनमनृतप्रसङ्गः ; प्रमादशब्दसामर्थ्याद्विस्मृत्याप्यनृतं न वक्तव्यमित्यर्थः ; अन्यथा असत्यवदनप्रतिषेध एव स्यात् । धर्मात् न प्रमदितव्यम् , धर्मशब्दस्यानुष्ठेयविशेषविषयत्वादननुष्ठानं प्रमादः, स न कर्तव्यः, अनुष्ठातव्य एव धर्म इति यावत् । एवं कुशलात् आत्मरक्षार्थात्कर्मणः न प्रमदितव्यम् । भूतिः विभूतिः, तस्यै भूत्यै भूत्यर्थान्मङ्गलयुक्तात्कर्मणः न प्रमदितव्यम् । स्वाध्यायप्रवचनाभ्यां न प्रमदितव्यम् , ते हि नियमेन कर्तव्ये इत्यर्थः । तथा देवपितृकार्याभ्यां न प्रमदितव्यम् , दैवपित्र्ये कर्मणी कर्तव्ये । मातृदेवः माता देवो यस्य सः, त्वं मातृदेवः भव स्याः । एवं पितृदेवो भव ; आचार्यदेवो भव ; अतिथिदेवो भव ; देवतावदुपास्या एते इत्यर्थः । यान्यपि च अन्यानि अनवद्यानि अनिन्दितानि शिष्टाचारलक्षणानि कर्माणि, तानि सेवितव्यानि कर्तव्यानि त्वया । नो न कर्तव्यानि इतराणि सावद्यानि शिष्टकृतान्यपि । यानि अस्माकम् आचार्याणां सुचरितानि शोभनचरितानि आम्नायाद्यविरुद्धानि, तान्येव त्वया उपास्यानि अदृष्टार्थान्यनुष्ठेयानि ; नियमेन कर्तव्यानीत्येतत् । नो इतराणि विपरीतान्याचार्यकृतान्यपि । ये के च विशेषिता आचार्यत्वादिधर्मैः अस्मत् अस्मत्तः श्रेयांसः प्रशस्ततराः, ते च ब्राह्मणाः, न क्षत्रियादयः, तेषाम् आसनेन आसनदानादिना त्वया प्रश्वसितव्यम् , प्रश्वसनं प्रश्वासः श्रमापनयः ; तेषां श्रमस्त्वया अपनेतव्य इत्यर्थः । तेषां वा आसने गोष्ठीनिमित्ते समुदिते, तेषु न प्रश्वसितव्यं प्रश्वासोऽपि न कर्तव्यः ; केवलं तदुक्तसारग्राहिणा भवितव्यम् । किं च, यत्किञ्चिद्देयम् , तत् श्रद्धयैव दातव्यम् । अश्रद्धया अदेयं न दातव्यम् । श्रिया विभूत्या देयं दातव्यम् । ह्रिया लज्जया च देयम् । भिया भीत्या च देयम् । संविदा च मैत्र्य्यादिकार्येण देयम् । अथ एवं वर्तमानस्य यदि कदाचित् ते तव श्रौते स्मार्ते वा कर्मणि वृत्ते वा आचारलक्षणे विचिकित्सा संशयः स्यात् भवेत् , ये तत्र तस्मिन्देशे काले वा ब्राह्मणाः तत्र कर्मादौ युक्ता इति व्यवहितेन सम्बन्धः कर्तव्यः ; संमर्शिनः विचारक्षमाः, युक्ताः अभियुक्ताः, कर्मणि वृत्ते वा आयुक्ताः अपरप्रयुक्ताः, अलूक्षाः अरूक्षाः अक्रूरमतयः, धर्मकामाः अदृष्टार्थिनः अकामहता इत्येतत् ; स्युः भवेयुः, ते ब्राह्मणाः यथा येन प्रकारेण तत्र तस्मिन्कर्मणि वृत्ते वा वर्तेरन् , तथा त्वमपि वर्तेथाः । अथ अभ्याख्यातेषु, अभ्याख्याता अभ्युक्ताः दोषेण सन्दिह्यमानेन संयोजिताः केनचित् , तेषु च ; यथोक्तं सर्वमुपनयेत् - ये तत्रेत्यादि । एषः आदेशः विधिः । एषः उपदेशः पुत्रादिभ्यः पित्रादीनामपि । एषा वेदोपनिषत् वेदरहस्यम् , वेदार्थ इत्येतत् । एतदेव अनुशासनम् ईश्वरवचनम् , आदेशवाच्यस्य विधेरुक्तत्वात् । सर्वेषां वा प्रमाणभूतानामनुशासनमेतत् । यस्मादेवम् , तस्मात् एवं यथोक्तं सर्वम् उपासितव्यं कर्तव्यम् । एवमु च एतत् उपास्यम् उपास्यमेव चैतत् नानुपास्यम् इत्यादरार्थं पुनर्वचनम् ॥
अत्रैतच्चिन्त्यते विद्याकर्मणोर्विवेकार्थम् - किं कर्मभ्य एव केवलेभ्यः परं श्रेयः, उत विद्यासंव्यपेक्षेभ्यः, आहोस्विद्विद्याकर्मभ्यां संहताभ्याम् , विद्याया वा कर्मापेक्षायाः, उत केवलाया एव विद्याया इति । तत्र केवलेभ्य एव कर्मभ्यः स्यात् , समस्तवेदार्थज्ञानवतः कर्माधिकारात् ‘वेदः कृत्स्नोऽधिगन्तव्यः सरहस्यो द्विजन्मना’ इति स्मरणात् । अधिगमश्च सहोपनिषदर्थेनात्मज्ञानादिना । ‘विद्वान्यजते’ ‘विद्वान्याजयति’ इति च विदुष एव कर्मण्यधिकारः प्रदर्श्यते सर्वत्र ज्ञात्वानुष्ठानमिति च । कृत्स्नश्च वेदः कर्मार्थ इति हि मन्यन्ते केचित् । कर्मभ्यश्चेत्परं श्रेयो नावाप्यते, वेदोऽनर्थकः स्यात् । न ; नित्यत्वान्मोक्षस्य । नित्यो हि मोक्ष इष्यते । कर्मकार्यस्य चानित्यत्वं प्रसिद्धं लोके । कर्मभ्यश्चेच्छ्रेयः, अनित्यं स्यात् ; तच्चानिष्टम् । ननु काम्यप्रतिषिद्धयोरनारम्भात् आरब्धस्य च कर्मण उपभोगेनैव क्षयात् नित्यानुष्ठानाच्च प्रत्यवायानुपपत्तेः ज्ञाननिरपेक्ष एव मोक्ष इति चेत् , तच्च न, कर्मशेषसम्भवात्तन्निमित्ता शरीरान्तरोत्पत्तिः प्राप्नोतीति प्रत्युक्तम् ; कर्मशेषस्य च नित्यानुष्ठानेनाविरोधात्क्षयानुपपत्तिरिति च । यदुक्तं समस्तवेदार्थज्ञानवतः कर्माधिकारादित्यादि, तच्च न ; श्रुतज्ञानव्यतिरेकादुपासनस्य । श्रुतज्ञानमात्रेण हि कर्मण्यधिक्रियते, नोपासनज्ञानमपेक्षते । उपासनं च श्रुतज्ञानादर्थान्तरं विधीयते मोक्षफलम् ; अर्थान्तरप्रसिद्धेश्च स्यात् ; ‘श्रोतव्यः’ इत्युक्त्वा तद्व्यतिरेकेण ‘मन्तव्यो निदिध्यासितव्यः’ इति यत्नान्तरविधानात् मनननिदिध्यासनयोश्च प्रसिद्धं श्रवणज्ञानादर्थान्तरत्वम् । एवं तर्हि विद्यासंव्यपेक्षेभ्यः कर्मभ्यः स्यान्मोक्षः ; विद्यासहितानां च कर्मणां भवेत्कार्यान्तरारम्भसामर्थ्यम् ; यथा स्वतो मरणज्वरादिकार्यारम्भसमर्थानामपि विषदध्यादीनां मन्त्रसशर्करादिसंयुक्तानां कार्यान्तरारम्भसामर्थ्यम् , एवं विद्याहितैः कर्मभिः मोक्ष आरभ्यत इति चेत् , न ; आरभ्यस्यानित्यत्वादित्युक्तो दोषः । वचनादारभ्योऽपि नित्य एवेति चेत् , न ; ज्ञापकत्वाद्वचनस्य । वचनं नाम यथाभूतस्यार्थस्य ज्ञापकम् , नाविद्यमानस्य कर्तृ । न हि वचनशतेनापि नित्यमारभ्यते, आरब्धं वा अविनाशि भवेत् । एतेन विद्याकर्मणोः संहतयोर्मोक्षारम्भकत्वं प्रत्युक्तम् ॥
तत्र यदुक्तं संहताभ्यां विद्याकर्मभ्यां मोक्ष इत्येतदनुपपन्नमिति, तदयुक्तम् , तद्विहितत्वात्कर्मणां श्रुतिविरोध इति चेत् - यद्युपमृद्य कर्त्रादिकारकविशेषमात्मैकत्वविज्ञानं विधीयते सर्पादिभ्रान्तिज्ञानोपमर्दकरज्ज्वादिविषयविज्ञानवत् , प्राप्तः कर्मविधिश्रुतीनां निर्विषयत्वाद्विरोधः । विहितानि च कर्माणि । स च विरोधो न युक्तः, प्रमाणत्वाच्छ्रुतीनामिति चेत् , न ; पुरुषार्थोपदेशपरत्वाच्छ्रुतीनाम् । विद्योपदेशपरा तावच्छ्रुतिः संसारात्पुरुषो मोक्षयितव्य इति संसारहेतोरविद्यायाः विद्यया निवृत्तिः कर्तव्येति विद्याप्रकाशकत्वेन प्रवृत्तेति न विरोधः । एवमपि कर्त्रादिकारकसद्भावप्रतिपादनपरं शास्त्रं विरुध्यत एवेति चेत् , न ; यथाप्राप्तमेव कारकास्तित्वमुपादाय उपात्तदुरितक्षयार्थं कर्माणि विदधच्छास्त्रं मुमुक्षूणां फलार्थिनां च फलसाधनं न कारकास्तित्वे व्याप्रियते । उपचितदुरितप्रतिबन्धस्य हि विद्योत्पत्तिर्नावकल्पते । तत्क्षये च विद्योत्पत्तिः स्यात् , ततश्चाविद्यानिवृत्तिः, तत आत्यन्तिकः संसारोपरमः । अपि च, अनात्मदर्शिनो ह्यनात्मविषयः कामः ; कामयमानश्च करोति कर्माणि ; ततस्तत्फलोपभोगाय शरीराद्युपादानलक्षणः संसारः । तद्व्यतिरेकेणात्मैकत्वदर्शिनो विषयाभावात्कामानुपपत्तिः, आत्मनि चानन्यत्वात्कामानुपपत्तौ स्वात्मन्यवस्थानं मोक्ष इत्यतोऽपि विद्याकर्मणोर्विरोधः । विरोधादेव च विद्या मोक्षं प्रति न कर्माण्यपेक्षते । स्वात्मलाभे तु पूर्वोपचितदुरितप्रतिबन्धापनयनद्वारेण विद्याहेतुत्वं प्रतिपद्यन्ते कर्माणि नित्यानीति । अत एवास्मिन्प्रकरणे उपन्यस्तानि कर्माणीत्यवोचाम । एवं च अविरोधः कर्मविधिश्रुतीनाम् । अतः केवलाया एव विद्यायाः परं श्रेय इति सिद्धम् ॥
एवं तर्हि आश्रमान्तरानुपपत्तिः, कर्मनिमित्तत्वाद्विद्योत्पत्तेः । गृहस्थस्यैव विहितानि कर्माणीत्यैकाश्रम्यमेव । अतश्च यावज्जीवादिश्रुतयः अनुकूलतराः स्युः । न ; कर्मानेकत्वात् । न ह्यग्निहोत्रादीन्येव कर्माणि, ब्रह्मचर्यं तपः सत्यवचनं शमः दमः अहिंसा इत्येवमादीन्यपि कर्माणि इतराश्रमप्रसिद्धानि विद्योत्पत्तौ साधकतमान्यसङ्कीर्णा विद्यन्ते ध्यानधारणादिलक्षणानि च । वक्ष्यति च -
‘तपसा ब्रह्म विजिज्ञासस्व’ (तै. उ. ३ । २ । १) इति । जन्मान्तरकृतकर्मभ्यश्च प्रागपि गार्हस्थ्याद्विद्योत्पत्तिसम्भवात् , कर्मार्थत्वाच्च गार्हस्थ्यप्रतिपत्तेः, कर्मसाध्यायां च विद्यायां सत्यां गार्हस्थ्यप्रतिपत्तिरनर्थिकैव । लोकार्थत्वाच्च पुत्रादीनाम् । पुत्रादिसाध्येभ्यश्च अयं लोकः पितृलोको देवलोक इत्येतेभ्यो व्यावृत्तकामस्य, नित्यसिद्धात्मदर्शिनः, कर्मणि प्रयोजनमपश्यतः, कथं प्रवृत्तिरुपपद्यते ? प्रतिपन्नगार्हस्थ्यस्यापि विद्योत्पत्तौ विद्यापरिपाकाद्विरक्तस्य कर्मसु प्रयोजनमपश्यतः कर्मभ्यो निवृत्तिरेव स्यात् ,
‘प्रव्रजिष्यन्वा अरेऽहमस्मात्स्थानादस्मि’ (बृ. उ. ४ । ५ । २) इत्येवमादिश्रुतिलिङ्गदर्शनात् । कर्म प्रति श्रुतेर्यत्नाधिक्यदर्शनादयुक्तमिति चेत् , - अग्निहोत्रादिकर्म प्रति श्रुतेरधिको यत्नः ; महांश्च कर्मण्यायासः, अनेकसाधनसाध्यत्वादग्निहोत्रादीनाम् ; तपोब्रह्मचर्यादीनां च इतराश्रमकर्मणां गार्हस्थ्येऽपि समानत्वादल्पसाधनापेक्षत्वाच्चेतरेषां न युक्तस्तुल्यवद्विकल्प आश्रमिभिस्तस्य इति चेत् , न ; जन्मान्तरकृतानुग्रहात् । यदुक्तं कर्मणि श्रुतेरधिको यत्न इत्यादि, नासौ दोषः, यतो जन्मान्तरकृतमप्यग्निहोत्रादिलक्षणं कर्म ब्रह्मचर्यादिलक्षणं चानुग्राहकं भवति विद्योत्पत्तिं प्रति ; येन च जन्मनैव विरक्ता दृश्यन्ते केचित् ; केचित्तु कर्मसु प्रवृत्ता अविरक्ता विद्याविद्वेषिणः । तस्माज्जन्मान्तरकृतसंस्कारेभ्यो विरक्तानामाश्रमान्तरप्रतिपत्तिरेवेष्यते । कर्मफलबाहुल्याच्च । पुत्रस्वर्गब्रह्मवर्चसादिलक्षणस्य कर्मफलस्यासङ्ख्येयत्वात् तत्प्रति च पुरुषाणां कामबाहुल्यात्तदर्थः श्रुतेरधिको यत्नः कर्मसूपपद्यते, आशिषां बाहुल्यदर्शनात् - इदं मे स्यादिदं मे स्यादिति । उपायत्वाच्च । उपायभूतानि हि कर्माणि विद्यां प्रति इत्यवोचाम । उपाये च अधिको यत्नः कर्तव्यः, न उपेये । कर्मनिमित्तत्वाद्विद्याया यत्नान्तरानर्थक्यमिति चेत् - कर्मभ्य एव पूर्वोपचितदुरितप्रतिबन्धक्षयाद्विद्योत्पद्यते चेत् , कर्मभ्यः पृथगुपनिषच्छ्रवणादियत्नोऽनर्थक इति चेत् , न ; नियमाभावात् । न हि, ‘प्रतिबन्धक्षयादेव विद्योत्पद्यते, न त्वीश्वरप्रसादतपोध्यानाद्यनुष्ठानात्’ इति नियमोऽस्ति ; अहिंसाब्रह्मचर्यादीनां च विद्यां प्रत्युपकारकत्वात् , साक्षादेव च कारणत्वाच्छ्रवणमनननिदिध्यासनादीनाम् । अतः सिद्धान्याश्रमान्तराणि । सर्वेषां चाधिकारो विद्यायाम् , परं च श्रेयः केवलाया विद्याया एवेति सिद्धम् ॥
इत्येकादशानुवाकभाष्यम् ॥