संहितादिविषयाणि कर्मभिरविरुद्धान्युपासनान्युक्तानि । अनन्तरं च अन्तःसोपाधिकमात्मदर्शनमुक्तं व्याहृतिद्वारेण स्वाराज्यफलम् । न चैतावता अशेषतः संसारबीजस्य उपमर्दनमस्ति । अतः अशेषोपद्रवबीजस्य अज्ञानस्य निवृत्त्यर्थं विधूतसर्वोपाधिविशेषात्मदर्शनार्थमिदमारभ्यते -
ब्रह्मविदाप्नोति परम् । तदेषाभ्युक्ता । सत्यं ज्ञानमनन्तं ब्रह्म । यो वेद निहितं गुहायां परमे व्योमन् । सोऽश्नुते सर्वान् कामान् सह । ब्रह्मणा विपश्चितेति । तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः । आकाशाद्वायुः । वायोरग्निः । अग्नेरापः । अद्भ्यः पृथिवी । पृथिव्या ओषधयः । ओषधीभ्योऽन्नम् । अन्नात्पुरुषः । स वा एष पुरुषोऽन्नरसमयः । तस्येदमेव शिरः । अयं दक्षिणः पक्षः । अयमुत्तरः पक्षः । अयमात्मा । इदं पुच्छं प्रतिष्ठा । तदप्येष श्लोको भवति ॥ १ ॥
ब्रह्मविदाप्नोति परमित्यादि । प्रयोजनं चास्या ब्रह्मविद्याया अविद्यानिवृत्तिः, ततश्च आत्यन्तिकः संसाराभावः । वक्ष्यति च -
‘विद्वान्न बिभेति कुतश्चन’ (तै. उ. २ । ९ । १) इति । संसारनिमित्ते च सति अभयं प्रतिष्ठां विन्दत इत्यनुपपन्नम् , कृताकृते पुण्यपापे न तपत इति च । अतोऽवगम्यते - अस्माद्विज्ञानात्सर्वात्मब्रह्मविषयादात्यन्तिकः संसाराभाव इति । स्वयमेवाह प्रयोजनम् ‘ब्रह्मविदाप्नोति परम्’ इत्यादावेव सम्बन्धप्रयोजनज्ञापनार्थम् । निर्ज्ञातयोर्हि सम्बन्धप्रयोजनयोः विद्याश्रवणग्रहणधारणाभ्यासार्थं प्रवर्तते । श्रवणादिपूर्वकं हि विद्याफलम् ,
‘श्रोतव्यो मन्तव्यो निदिध्यासितव्यः’ (बृ. उ. २ । ४ । ५) इत्यादिश्रुत्यन्तरेभ्यः । ब्रह्मवित् , ब्रह्मेति वक्ष्यमाणलक्षणम् , बृहत्तमत्वात् ब्रह्म, तद्वेत्ति विजानातीति ब्रह्मवित् , आप्नोति प्राप्नोति परं निरतिशयम् ; तदेव ब्रह्म परम् ; न ह्यन्यस्य विज्ञानादन्यस्य प्राप्तिः । स्पष्टं च श्रुत्यन्तरं ब्रह्मप्राप्तिमेव ब्रह्मविदो दर्शयति -
‘स यो हि वै तत्परमं ब्रह्म वेद ब्रह्मैव भवति’ (मु. उ. ३ । २ । ९) इत्यादि ॥
ननु, सर्वगतं सर्वस्य चात्मभूतं ब्रह्म वक्ष्यति । अतो नाप्यम् । आप्तिश्च अन्यस्यान्येन परिच्छिन्नस्य च परिच्छिन्नेन दृष्टा । अपरिच्छिन्नं सर्वात्मकं च ब्रह्मेत्यतः परिच्छिन्नवत् अनात्मवच्च तस्याप्तिरनुपपन्ना । नायं दोषः । कथम् ? दर्शनादर्शनापेक्षत्वाद्ब्रह्मण आप्त्यनाप्त्योः, परमार्थतो ब्रह्मस्वरूपस्यापि सतः अस्य जीवस्य भूतमात्राकृतबाह्यपरिच्छिन्नान्नमयाद्यात्मदर्शिनः तदासक्तचेतसः । प्रकृतसङ्ख्यापूरणस्यात्मनः अव्यवहितस्यापि बाह्यसङ्ख्येयविषयासक्तचित्ततया स्वरूपाभावदर्शनवत् परमार्थब्रह्मस्वरूपाभावदर्शनलक्षणया अविद्यया अन्नमयादीन्बाह्याननात्मन आत्मत्वेन प्रतिपन्नत्वात् अन्नमयाद्यनात्मभ्यो नान्योऽहमस्मीत्यभिमन्यते । एवमविद्यया आत्मभूतमपि ब्रह्म अनाप्तं स्यात् । तस्यैवमविद्यया अनाप्तब्रह्मस्वरूपस्य प्रकृतसङ्ख्यापूरणस्यात्मनः अविद्ययानाप्तस्य सतः केनचित्स्मारितस्य पुनस्तस्यैव विद्यया आप्तिर्यथा, तथा श्रुत्युपदिष्टस्य सर्वात्मब्रह्मण आत्मत्वदर्शनेन विद्यया तदाप्तिरुपपद्यत एव । ब्रह्मविदाप्नोति परमिति वाक्यं सूत्रभूतं सर्वस्य वल्ल्यर्थस्य । ब्रह्मविदाप्नोति परमित्यनेन वाक्येन वेद्यतया सूत्रितस्य ब्रह्मणोऽनिर्धारितस्वरूपविशेषस्य सर्वतो व्यावृत्तस्वरूपविशेषसमर्पणसमर्थस्य लक्षणस्याभिधानेन स्वरूपनिर्धारणाय अविशेषेण च उक्तवेदनस्य ब्रह्मणो वक्ष्यमाणलक्षणस्य विशेषेण प्रत्यगात्मतया अनन्यरूपेण विज्ञेयत्वाय, ब्रह्मविद्याफलं च ब्रह्मविदो यत्परप्राप्तिलक्षणमुक्तम् , स सर्वात्मभावः सर्वसंसारधर्मातीतब्रह्मस्वरूपत्वमेव, नान्यदित्येतत्प्रदर्शनाय च एषा ऋगुदाह्रियते - तदेषाभ्युक्तेति । तत् तस्मिन्नेव ब्राह्मणवाक्योक्तार्थे एषा ऋक् अभ्युक्ता आम्नाता । सत्यं ज्ञानमनन्तं ब्रह्म इति ब्रह्मणो लक्षणार्थं वाक्यम् । सत्यादीनि हि त्रीणि विशेषणार्थानि पदानि विशेष्यस्य ब्रह्मणः । विशेष्यं ब्रह्म, विवक्षितत्वाद्वेद्यतया । वेद्यत्वेन यतो ब्रह्म प्राधान्येन विवक्षितम् , तस्माद्विशेष्यं विज्ञेयम् । अतः अस्माद्विशेषणविशेष्यत्वादेव सत्यादीनि एकविभक्त्यन्तानि पदानि समानाधिकरणानि । सत्यादिभिस्त्रिभिर्विशेषणैर्विशेष्यमाणं ब्रह्म विशेष्यान्तरेभ्यो निर्धार्यते । एवं हि तज्ज्ञातं भवति, यदन्येभ्यो निर्धारितम् ; यथा लोके नीलं महत्सुगन्ध्युत्पलमिति । ननु, विशेष्यं विशेषणान्तरं व्यभिचरद्विशेष्यते, यथा नीलं रक्तं चोत्पलमिति ; यदा ह्यनेकानि द्रव्याणि एकजातीयान्यनेकविशेषणयोगीनि च, तदा विशेषणस्यार्थवत्त्वम् ; न ह्येकस्मिन्नेव वस्तुनि, विशेषणान्तरायोगात् ; यथा असावेक आदित्य इति, तथा एकमेव ब्रह्म, न ब्रह्मान्तराणि, येभ्यो विशेष्येत नीलोत्पलवत् । न ; लक्षणार्थत्वाद्विशेषणानाम् । नायं दोषः । कस्मात् ? लक्षणार्थप्रधानानि विशेषणानि, न विशेषणप्रधानान्येव । कः पुनर्लक्षणलक्ष्ययोर्विशेषणविशेष्ययोर्वा विशेषः ? उच्यते । सजातीयेभ्य एव निवर्तकानि विशेषणानि विशेष्यस्य ; लक्षणं तु सर्वत एव, यथा अवकाशप्रदात्राकाशमिति । लक्षणार्थं च वाक्यमित्यवोचाम ॥
सत्यादिशब्दा न परस्परं सम्बध्यन्ते, परार्थत्वात् ; विशेष्यार्था हि ते । अत एव एकैको विशेषणशब्दः परस्परं निरपेक्षो ब्रह्मशब्देन सम्बध्यते - सत्यं ब्रह्म ज्ञानं ब्रह्म अनन्तं ब्रह्मेति । सत्यमिति यद्रूपेण यन्निश्चितं तद्रूपं न व्यभिचरति, तत्सत्यम् । यद्रूपेण यन्निश्चितं तद्रूपं व्यभिचरति, तदनृतमित्युच्यते । अतो विकारोऽनृतम् ,
‘ वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्’ (छा. उ. ६ । १ । ४) एवं सदेव सत्यमित्यवधारणात् । अतः ‘सत्यं ब्रह्म’ इति ब्रह्म विकारान्निवर्तयति । अतः कारणत्वं प्राप्तं ब्रह्मणः । कारणस्य च कारकत्वम् , वस्तुत्वात् मृद्वत् अचिद्रूपता च प्राप्ता ; अत इदमुच्यते - ज्ञानं ब्रह्मेति । ज्ञानं ज्ञप्तिः अवबोधः, - भावसाधनो ज्ञानशब्दः - न तु ज्ञानकर्तृ, ब्रह्मविशेषणत्वात्सत्यानन्ताभ्यां सह । न हि सत्यता अनन्तता च ज्ञानकर्तृत्वे सत्युपपद्येते । ज्ञानकर्तृत्वेन हि विक्रियमाणं कथं सत्यं भवेत् , अनन्तं च ? यद्धि न कुतश्चित्प्रविभज्यते, तदनन्तम् । ज्ञानकर्तृत्वे च ज्ञेयज्ञानाभ्यां प्रविभक्तमित्यनन्तता न स्यात् ,
‘यत्र नान्यद्विजानाति स भूमा, अथ यत्रान्यद्विजानाति तदल्पम्’ (छा. उ. ७ । २४ । १) इति श्रुत्यन्तरात् । ‘नान्यद्विजानाति’ इति विशेषप्रतिषेधात् आत्मानं विजानातीति चेत् , न ; भूमलक्षणविधिपरत्वाद्वाक्यस्य । ‘यत्र नान्यत्पश्यति’ इत्यादि भूम्नो लक्षणविधिपरं वाक्यम् । यथाप्रसिद्धमेव अन्योऽन्यत्पश्यतीत्येतदुपादाय यत्र तन्नास्ति, स भूमा इति भूमस्वरूपं तत्र ज्ञाप्यते । अन्यग्रहणस्य प्राप्तप्रतिषेधार्थत्वात् न स्वात्मनि क्रियास्तित्वपरं वाक्यम् । स्वात्मनि च भेदाभावाद्विज्ञानानुपपत्तिः । आत्मनश्च विज्ञेयत्वे ज्ञात्रभावप्रसङ्गः, ज्ञेयत्वेनैव विनियुक्तत्वात् ॥
एक एवात्मा ज्ञेयत्वेन ज्ञातृत्वेन च उभयथा भवतीति चेत् , न ; युगपदनंशत्वात् । न हि निरवयवस्य युगपज्ज्ञेयज्ञातृत्वोपपत्तिः । आत्मनश्च घटादिवद्विज्ञेयत्वे ज्ञानोपदेशानर्थक्यम् । न हि घटादिवत्प्रसिद्धस्य ज्ञानोपदेशः अर्थवान् । तस्मात् ज्ञातृत्वे सति आनन्त्यानुपपत्तिः । सन्मात्रत्वं चानुपपन्नं ज्ञानकर्तृत्वादिविशेषवत्त्वे सति ; सन्मात्रत्वं च सत्यम् ,
‘तत् सत्यम्’ (छा. उ. ६ । ८ । १६) इति श्रुत्यन्तरात् । तस्मात्सत्यानन्तशब्दाभ्यां सह विशेषणत्वेन ज्ञानशब्दस्य प्रयोगाद्भावसाधनो ज्ञानशब्दः । ‘ज्ञानं ब्रह्म’ इति कर्तृत्वादिकारकनिवृत्त्यर्थं मृदादिवदचिद्रूपतानिवृत्त्यर्थं च प्रयुज्यते । ‘ज्ञानं ब्रह्म’ इति वचनात्प्राप्तमन्तवत्त्वम् , लौकिकस्य ज्ञानस्य अन्तवत्त्वदर्शनात् । अतः तन्निवृत्त्यर्थमाह - अनन्तमिति । सत्यादीनामनृतादिधर्मनिवृत्तिपरत्वाद्विशेष्यस्य च ब्रह्मणः उत्पलादिवदप्रसिद्धत्वात् ‘मृगतृष्णाम्भसि स्नातः खपुष्पकृतशेखरः । एष वन्ध्यासुतो याति शशशृङ्गधनुर्धरः’ इतिवत् शून्यार्थतैव प्राप्ता सत्यादिवाक्यस्येति चेत् , न ; लक्षणार्थत्वात् । विशेषणत्वेऽपि सत्यादीनां लक्षणार्थप्राधान्यमित्यवोचाम । शून्ये हि लक्ष्ये अनर्थकं लक्षणवचनम् । अतः लक्षणार्थत्वान्मन्यामहे न शून्यार्थतेति । विशेषणार्थत्वेऽपि च सत्यादीनां स्वार्थापरित्याग एव । शून्यार्थत्वे हि सत्यादिशब्दानां विशेष्यनियन्तृत्वानुपपत्तिः । सत्याद्यर्थैरर्थवत्त्वे तु तद्विपरीतधर्मवद्भ्यो विशेष्येभ्यो ब्रह्मणो विशेष्यस्य नियन्तृत्वमुपपद्यते । ब्रह्मशब्दोऽपि स्वार्थेनार्थवानेव । तत्र अनन्तशब्दः अन्तवत्त्वप्रतिषेधद्वारेण विशेषणम् । सत्यज्ञानशब्दौ तु स्वार्थसमर्पणेनैव विशेषणे भवतः ॥
‘तस्माद्वा एतस्मादात्मनः’ इति ब्रह्मण्येव आत्मशब्दप्रयोगात् वेदितुरात्मैव ब्रह्म ।
‘एतमानन्दमयमात्मानमुपसङ्क्रामति’ (तै. उ. २ । ८ । ५) इति च आत्मतां दर्शयति । तत्प्रवेशाच्च ;
‘तत्सृष्ट्वा तदेवानुप्राविशत्’ (तै. उ. २ । ६ । १) इति च तस्यैव जीवरूपेण शरीरप्रवेशं दर्शयति । अतो वेदितुः स्वरूपं ब्रह्म । एवं तर्हि, आत्मत्वाज्ज्ञानकर्तृत्वम् ; ‘आत्मा ज्ञाता’ इति हि प्रसिद्धम् ,
‘सोऽकामयत’ (तै. उ. २ । ६ । १) इति च कामिनो ज्ञानकर्तृत्वप्रसिद्धिः ; अतो ज्ञानकर्तृत्वात् ज्ञप्तिर्ब्रह्मेत्ययुक्तम् ; अनित्यत्वप्रसङ्गाच्च ; यदि नाम ज्ञप्तिर्ज्ञानमिति भावरूपता ब्रह्मणः, तदाप्यनित्यत्वं प्रसज्येत ; पारतन्त्र्यं च, धात्वर्थानां कारकापेक्षत्वात् , ज्ञानं च धात्वर्थः ; अतोऽस्य अनित्यत्वं परतन्त्रता च । न ; स्वरूपाव्यतिरेकेण कार्यत्वोपचारात् । आत्मनः स्वरूपं ज्ञप्तिः न ततो व्यतिरिच्यते । अतो नित्यैव । तथापि बुद्धेरुपाधिलक्षणायाश्चक्षुरादिद्वारैर्विषयाकारपरिणामिन्याः ये शब्दाद्याकारावभासाः, ते आत्मविज्ञानस्य विषयभूता उत्पद्यमाना एव आत्मविज्ञानेन व्याप्ता उत्पद्यन्ते । तस्मादात्मविज्ञानावभास्याश्च ते विज्ञानशब्दवाच्याश्च धात्वर्थभूता आत्मन एव धर्मा विक्रियारूपा इत्यविवेकिभिः परिकल्प्यन्ते । यत्तु ब्रह्मणो विज्ञानम् , तत् सवितृप्रकाशवत् अग्न्युष्णत्ववच्च ब्रह्मस्वरूपाव्यतिरिक्तं स्वरूपमेव तत् । न तत्कारणान्तरसव्यपेक्षम् , नित्यस्वरूपत्वात् , सर्वभावानां च तेनाविभक्तदेशकालत्वात् कालाकाशादिकारणत्वात् निरतिशयसूक्ष्मत्वाच्च । न तस्यान्यदविज्ञेयं सूक्ष्मं व्यवहितं विप्रकृष्टं भूतं भवद्भविष्यद्वा अस्ति । तस्मात्सर्वज्ञं तद्ब्रह्म । मन्त्रवर्णाच्च
‘अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्णः । स वेत्ति वेद्यं न च तस्यास्ति वेत्ता तमाहुरग्र्यं पुरुषं महान्तम्’ (श्वे. उ. ३ । १९) इति ।
‘न हि विज्ञतुर्विज्ञातेर्विपरिलोपो विद्यतेऽविनाशित्वान्न तु तद्द्वितीयमस्ति’ (बृ. उ. ४ । ३ । ३०) इत्यादिश्रुतेश्च । विज्ञातृस्वरूपाव्यतिरेकात्करणादिनिमित्तानपेक्षत्वाच्च ब्रह्मणो ज्ञानस्वरूपत्वेऽपि नित्यत्वप्रसिद्धिः । अतो नैव धात्वर्थस्तत् , अक्रियारूपत्वात् । अत एव च न ज्ञानकर्तृ ; तस्मादेव च न ज्ञानशब्दवाच्यमपि तद्ब्रह्म । तथापि तदाभासवाचकेन बुद्धिधर्मविशेषेण ज्ञानशब्देन तल्लक्ष्यते ; न तु उच्यते, शब्दप्रवृत्तिहेतुजात्यादिधर्मरहितत्वात् । तथा सत्यशब्देनापि । सर्वविशेषप्रत्यस्तमितस्वरूपत्वाद्ब्रह्मणः बाह्यसत्तासामान्यविषयेण सत्यशब्देन लक्ष्यते ‘सत्यं ब्रह्म’ इति ; न तु सत्यशब्दवाच्यं ब्रह्म । एवं सत्यादिशब्दा इतरेतरसंनिधानादन्योन्यनियम्यनियामकाः सन्तः सत्यादिशब्दवाच्यात् निवर्तका ब्रह्मणः, लक्षणार्थाश्च भवन्तीति । अतः सिद्धम्
‘यतो वाचो निवर्तन्ते अप्राप्य मनसा सह’ (तै. उ. २ । ४ । १) ‘अनिरुक्तेऽनिलयने’ (तै. उ. २ । ७ । १) इति च अवाच्यत्वम् , नीलोत्पलवदवाक्यार्थत्वं च ब्रह्मणः ॥
तद्यथाव्याख्यातं ब्रह्म यः वेद विजानाति निहितं स्थितं गुहायाम् , गूहतेः संवरणार्थस्य निगूढा अस्यां ज्ञानज्ञेयज्ञातृपदार्था इति गुहा बुद्धिः, गूढावस्यां भोगापवर्गौ पुरुषार्थाविति वा, तस्यां परमे प्रकृष्टे व्योमन् व्योम्नि आकाशे अव्याकृताख्ये ; तद्धि परमं व्योम,
‘एतस्मिन्खल्वक्षरे गार्ग्याकाशः’ (बृ. उ. ३ । ८ । ११) इत्यक्षरसंनिकर्षात् ; ‘गुहायां व्योमन्’ इति वा सामानाधिकरण्यादव्याकृताकाशमेव गुहा ; तत्रापि निगूढाः सर्वे पदार्थास्त्रिषु कालेषु, कारणत्वात्सूक्ष्मतरत्वाच्च ; तस्मिन्नन्तर्निहितं ब्रह्म । हार्दमेव तु परमं व्योमेति न्याय्यम् , विज्ञानाङ्गत्वेन व्योम्नो विवक्षितत्वात् ।
‘यो वै स बहिर्धा पुरुषादाकाशो यो वै सोऽन्तः पुरुष आकाशो योऽयमन्तर्हृदय आकाशः’ (छा. उ. ३ । १२ । ७),
(छा. उ. ३ । १२ । ८) इति श्रुत्यन्तरात्प्रसिद्धं हार्दस्य व्योम्नः परमत्वम् । तस्मिन्हार्दे व्योम्नि या बुद्धिर्गुहा, तस्यां निहितं ब्रह्म तद्व्यावृत्त्या विविक्ततयोपलभ्यत इति । न ह्यन्यथा विशिष्टदेशकालसम्बन्धोऽस्ति ब्रह्मणः, सर्वगतत्वान्निर्विशेषत्वाच्च । सः एवं ब्रह्म विजानन् ; किमित्याह - अश्नुते भुङ्क्ते सर्वान् निरवशेषान् कामान् काम्यभोगानित्यर्थः । किमस्मदादिवत्पुत्रस्वर्गादीन्पर्यायेण ? नेत्याह - सह युगपत् एकक्षणोपारूढानेव एकयोपलब्ध्या सवितृप्रकाशवन्नित्यया ब्रह्मस्वरूपाव्यतिरिक्तया, यामवोचाम ‘सत्यं ज्ञानम्’ इति । एतत्तदुच्यते - ब्रह्मणा सहेति । ब्रह्मभूतो विद्वान् ब्रह्मस्वरूपेणैव सर्वान्कामान् सह अश्नुते । न तथा यथोपाधिकृतेन स्वरूपेणात्मनो जलसूर्यकादिवत्प्रतिबिम्बभूतेन सांसारिकेण धर्मादिनिमित्तापेक्षांश्चक्षुरादिकरणापेक्षांश्च सर्वान्कामान्पर्यायेणाश्नुते लोकः । कथं तर्हि ? यथोक्तेन प्रकारेण सर्वज्ञेन सर्वगतेन सर्वात्मना नित्यब्रह्मात्मस्वरूपेण धर्मादिनिमित्तानपेक्षान् चक्षुरादिकरणानपेक्षांश्च सर्वान्कामान्सहाश्नुत इत्यर्थः । विपश्चिता मेधाविना सर्वज्ञेन । तद्धि वैपश्चित्यम् , यत्सर्वज्ञत्वम् । तेन सर्वज्ञस्वरूपेण ब्रह्मणा अश्नुत इति । इतिशब्दो मन्त्रपरिसमाप्त्यर्थः ॥
सर्व एव वल्ल्यर्थः ‘ब्रह्मविदाप्नोति परम्’ इति ब्राह्मण वाक्येन सूत्रितः । स च सूत्रितोऽर्थः सङ्क्षेपतो मन्त्रेण व्याख्यातः । पुनस्तस्यैव विस्तरेणार्थनिर्णयः कर्तव्य इत्युत्तरस्तद्वृत्तिस्थानीयो ग्रन्थ आरभ्यते - तस्माद्वा एतस्मादित्यादिः । तत्र च ‘ सत्यं ज्ञानमनन्तं ब्रह्म’ इत्युक्तं मन्त्रादौ ; तत्कथं सत्यमनन्तं चेत्यत आह । त्रिविधं ह्यानन्त्यम् - देशतः कालतो वस्तुतश्चेति । तद्यथा - देशतोऽनन्त आकाशः ; न हि देशतस्तस्य परिच्छेदोऽस्ति । न तु कालतश्चानन्त्यं वस्तुतश्च आकाशस्य । कस्मात् ? कार्यत्वात् । नैवं ब्रह्मण आकाशवत्कालतोऽप्यन्तवत्त्वम् । अकार्यत्वात् । कार्यं हि वस्तु कालेन परिच्छिद्यते । अकार्यं च ब्रह्म । तस्मात्कालतोऽस्यानन्त्यम् । तथा वस्तुतः । कथं पुनर्वस्तुत आनन्त्यम् ? सर्वानन्यत्वात् । भिन्नं हि वस्तु वस्त्वन्तरस्य अन्तो भवति, वस्त्वन्तरबुद्धिर्हि प्रसक्ताद्वस्त्वन्तरान्निवर्तते । यतो यस्य बुद्धेर्निवृत्तिः, स तस्यान्तः । तद्यथा गोत्वबुद्धिरश्वत्वान्निवर्तत इत्यश्वत्वान्तं गोत्वमित्यन्तवदेव भवति । स चान्तो भिन्नेषु वस्तुषु दृष्टः । नैवं ब्रह्मणो भेदः । अतो वस्तुतोऽप्यानन्त्यम् । कथं पुनः सर्वानन्यत्वं ब्रह्मण इति, उच्यते - सर्ववस्तुकारणत्वात् । सर्वेषां हि वस्तूनां कालाकाशादीनां कारणं ब्रह्म । कार्यापेक्षया वस्तुतोऽन्तवत्त्वमिति चेत् , न ; अनृतत्वात्कार्यस्य वस्तुनः । न हि कारणव्यतिरेकेण कार्यं नाम वस्तुतोऽस्ति, यतः कारणबुद्धिर्विनिवर्तेत ;
‘वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्’ (छा. उ. ६ । १ । ४) एवं सदेव सत्यमिति श्रुत्यन्तरात् । तस्मादाकाशादिकारणत्वाद्देशतस्तावदनन्तं ब्रह्म । आकाशो ह्यनन्त इति प्रसिद्धं देशतः ; तस्येदं कारणम् ; तस्मात्सिद्धं देशत आत्मन आनन्त्यम् । न ह्यसर्वगतात्सर्वगतमुत्पद्यमानं लोके किञ्चिद्दृश्यते । अतो निरतिशयमात्मन आनन्त्यं देशतः । तथा अकार्यत्वात्कालतः ; तद्भिन्नवस्त्वन्तराभावाच्च वस्तुतः । अत एव निरतिशयसत्यत्वम् ॥
तस्मात् इति मूलवाक्यसूत्रितं ब्रह्म परामृश्यते ; एतस्मात् इति मन्त्रवाक्येन अनन्तरं यथालक्षितम् । यद्ब्रह्म आदौ ब्राह्मणवाक्येन सूत्रितम् , यच्च ‘सत्यं ज्ञानमनन्तं ब्रह्म’ इत्यनन्तरमेव लक्षितम् , तस्मादेतस्माद्ब्रह्मण आत्मनः आत्मशब्दवाच्यात् ; आत्मा हि तत् सर्वस्य,
‘तत्सत्यं स आत्मा’ (छा. उ. ६ । ८ । १६) इति श्रुत्यन्तरात् ; अतो ब्रह्म आत्मा ; तस्मादेतस्माद्ब्रह्मण आत्मस्वरूपात् आकाशः सम्भूतः समुत्पन्नः । आकाशो नाम शब्दगुणः अवकाशकरो मूर्तद्रव्याणाम् । तस्मात् आकाशात् स्वेन स्पर्शगुणेन पूर्वेण च आकाशगुणेन शब्देन द्विगुणः वायुः, सम्भूत इत्यनुवर्तते । वायोश्च स्वेन रूपगुणेन पूर्वाभ्यां च त्रिगुणः अग्निः सम्भूतः । अग्नेश्च स्वेन रसगुणेन पूर्वैश्च त्रिभिः चतुर्गुणा आपः सम्भूताः । अद्भ्यः स्वेन गन्धगुणेन पूर्वैश्च चतुर्भिः पञ्चगुणा पृथिवी सम्भूता । पृथिव्याः ओषधयः । ओषधीभ्यः अन्नम् । अन्नात् रेतोरूपेण परिणतात् पुरुषः शिरः - पाण्याद्याकृतिमान् । स वै एष पुरुषः अन्नरसमयः अन्नरसविकारः पुरुषाकृतिभावितं हि सर्वेभ्योऽङ्गेभ्यस्तेजःसम्भूतं रेतो बीजम् । तस्माद्यो जायते, सोऽपि तथा पुरुषाकृतिरेव स्यात् ; सर्वजातिषु जायमानानां जनकाकृतिनियमदर्शनात् । सर्वेषामप्यन्नरसविकारत्वे ब्रह्मवंश्यत्वे च अविशिष्टे, कस्मात्पुरुष एव गृह्यते ? प्राधान्यात् । किं पुनः प्राधान्यम् ? कर्मज्ञानाधिकारः । पुरुष एव हि शक्तत्वादर्थित्वादपर्युदस्तत्वाच्च कर्मज्ञानयोरधिक्रियते, ‘पुरुषे त्वेवाविस्तरामात्मा स हि प्रज्ञानेन सम्पन्नतमो विज्ञातं वदति विज्ञातं पश्यति वेद श्वस्तनं वेद लोकालोकौ मर्त्येनामतमीक्षतीत्येवं सम्पन्नः ; अथेतरेषां पशूनामशनायापिपासे एवाभिविज्ञानम्’ इत्यादि श्रुत्यन्तरदर्शनात् ॥
स हि पुरुषः इह विद्यया आन्तरतमं ब्रह्म सङ्क्रामयितुमिष्टः । तस्य च बाह्याकारविशेषेष्वनात्मसु आत्मभाविताबुद्धिः विना आलम्बनविशेषं कञ्चित् सहसा आन्तरतमप्रत्यगात्मविषया निरालम्बना च कर्तुमशक्येति दृष्टशरीरात्मसामान्यकल्पनया शाखाचन्द्रनिदर्शनवदन्तः प्रवेशयन्नाह - तस्येदमेव शिरः । तस्य अस्य पुरुषस्यान्नरसमयस्य इदमेव शिरः प्रसिद्धम् । प्राणमयादिष्वशिरसां शिरस्त्वदर्शनादिहापि तत्प्रसङ्गो मा भूदिति इदमेव शिर इत्युच्यते । एवं पक्षादिषु योजना । अयं दक्षिणो बाहुः पूर्वाभिमुखस्य दक्षिणः पक्षः । अयं सव्यो बाहुः उत्तरः पक्षः । अयं मध्यमो देहभागः आत्मा अङ्गानाम् , ‘मध्यं ह्येषामङ्गानामात्मा’ इति श्रुतेः । इदमिति नाभेरधस्ताद्यदङ्गम् , तत् पुच्छं प्रतिष्ठा । प्रतितिष्ठत्यनयेति प्रतिष्ठा । पुच्छमिव पुच्छम् , अधोलम्बनसामान्यात् , यथा गोः पुच्छम् । एतत्प्रकृत्य उत्तरेषां प्राणमयादीनां रूपकत्वसिद्धिः, मूषानिषिक्तद्रुतताम्रप्रतिमावत् । तदप्येष श्लोको भवति । तत् तस्मिन्नेवार्थे ब्राह्मणोक्ते अन्नमयात्मप्रकाशके एष श्लोकः मन्त्रः भवति ॥
इति प्रथमानुवाकभाष्यम् ॥